ताक्षण्य = पुंस्त्री तक्ष्णोऽपत्यं कारित्वात् ण्य। तक्ष्णोऽपत्ये। पक्षे “तक्ष्णोऽण उपसंख्यानम्” पा० अण् षपूर्वत्वादनोऽल्लोपः। ताक्ष्ण तत्रार्थे पुंस्त्री०।

ताच्छीलिक = पु० तच्छीलार्थे विहितः ठञ्। तच्छीलार्थविहिते प्रत्यये। “ताच्छीलिकेषु वा सरूपविधिर्नास्ति” पा० “ताच्छीलिकेणेऽण् कृतानि भवन्ति” व्या० प०।

ताच्छील्य = न० तत् शीलमस्य तस्य भावः ष्यञ्। नियततत्स्वभावे।

ताज(जि)क = न० नीलकण्ठादिप्रणीते वर्षलग्नज्ञानादिनिरूपके ज्योतिषग्रन्थभेदे। “न स्याच्छुभं क्वचन ताज(जि)कशास्त्रगीतम्” नील० ता०।

ताजत् = त्रि० तन्ज–सङ्कोचे बा० अदि वृद्धिनलोपौ। शीघ्रे निघण्टुः।

ताट(ड)ङ्क = पु० ताड्यते ताडः पृषो० वा डस्य टः तथाभूतोऽङ्कः चिह्नं यस्य शक०। कर्णभूषणभेदे द्विरूपको०।

ताटस्थ्य = न० तटस्थस्य भावः ष्यञ्। १ औदासीन्ये २ नैकट्ये च

ताड = पु० चु० तड–भावे अच्। १ ताडने २ गुणने च कर्म्मणि अच्। ३ शब्दे ४ मुष्टिमेयतृणादौ मेदि० ५ पर्वते हेमच०।

ता(ट)डका = स्त्री। राक्षसीभेदे। तस्या उत्पत्तिकथा रामा० बा० २५ अ०। “पूर्वमासीन् महायक्षः सुकेतुर्नाम वीर्य्यवान्। अनपत्यः शुभाचारः स च तेपे महत्तपः। पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा। कन्यारत्नं ददौ राम! ताड(ट)कां नाम नामतः। ददौ नागसहस्रस्य बलं चास्याः पितामहः। न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः। तान्तु बालां विवर्धन्तीं रूपयौवनशालिनीम्। जम्भ पुत्राय सुन्दाय ददौ भार्य्यां यशस्विनीम्। कस्य चित्त्वथ कालस्य यक्षी पुत्रं व्यजायत। मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत्। सुन्दे तु निहते राम! अगस्त्यमृषिसत्तमम्। ता(ट)डका सह पुत्रेण प्रधर्षयितुमैच्छत। भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत। आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः। राक्षसत्वं भजस्वेति मारीचं व्याजहार सः। अगस्त्यः परमामर्षस्ता(ट)डकामपि शप्तवान्। पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपं विहायाशु दारुणं रूपमस्तु ते। सैषा शापकृताऽमर्षा ता(ट)डका क्रोधमूर्च्छिता। देशमुत्सादयत्येन मगस्त्याचरितं शुभम्। एनां राघव। दुर्वृत्तां यक्षीं परमदारुणाम्। गोब्राह्मणहितार्थाय जहि दुष्टपरा- क्रमाम्”। “ताडका चलकपालकुण्डला” रघुः। “तां ताडकाख्यां निजघान रामः” भट्टिः।

ताडकाफल = न० तारकेव फलमस्याः रस्य ड। वृहदेलायां रत्नमा०।

ताडकारि = पु० ६ त०। रामचन्द्रे तस्य ताडकाहननकथा। रामा० अयो० २६ अ०। “तामापतन्तीं वेगेन विक्रान्तामशनीमिव। शरेणोरसि विव्याध पपात च ममार च”।

ताडकेय = पु० ताडकाया अपत्यम् ढक्। मारीचे “मारीचः सुन्दपुत्रश्च ताडकायां व्यजायत” हरिवं ३ अ०।

ताडकायन = पु० विश्वामित्रपुत्रभेदे। “महानृषिश्च कपिलस्तथर्षिस्ताडकायनः” भा० आनु० ४ अ०। विश्वामित्र पुत्रकथने।

ताडघ = पु० तालं हन्ति हन + टक् नि० उप० स०। तालवादके शिल्पिभेदे अशिल्पिनि तु अण्। ताडघात इत्येव।

ताडन = न० चु० तड–भावे ल्युट्। १ आघाते। “लालने बहवो दोषास्ताडने बहवो गुणाः” चाणक्यम्। “अवतंसोत् पलताडनानि वा” कुमा०। २ दीक्षाङ्गे दीक्षणीयमन्त्रसंस्कारभेदे च। “मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा। प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम्” शार० ति०। वायुना यंवीजेन। ३ गुणने च।

ताडनी = स्त्री ताड्यतेऽनया ताडि–करणे ल्युट् ङीप्। अश्वादेस्ताडनसाधने कशायां (चावुक) अमरः।

ताडपत्र = न० तालस्य पत्रमिव लस्य डः। कर्णभूषणभेदे ताडङ्गे हेमच०।

ताडाग = त्रि० तडागे भवम् अण्। तडागभवे जलादौ अप्सु स्त्री “ताडागं वातलं स्वादु कषायं कटुपाकि च। हेमन्ते सारसं ताडागं वा सेवेत” सुश्रुतः।

ताडि = स्त्री चु० तड इन्। (ताडियात) १ पत्रप्रधाने वृक्षे भरतः वङीप् तत्रार्थे स्त्री मेदि०। ३ आभरणभेदे दुर्गसिंहः। “प्रक्रीडितचपलकपिलकपिकुलकरतल ताडनतरलितताडीपुटैः” काद०।

ताडुल = पु० चु० तड–उल। ताडके संक्षिप्तसा०।

ताड्यमान = त्रि० चु० तड–कर्मणि शानच्। १ ताडनकर्मणि “श्रोतुर्वितन्त्रीरिव ताड्यमाना” कुमा०। २ पटहे पु० त्रिका०।

ताण्ड = न० तण्डिना मुनिना कृतम् अण्। नृत्यशान्ते ताण्डवशब्दे दृश्यम्।

ताण्डव = न० तण्डिकृतं ताण्डं नृत्यशास्त्रं तत् प्रतिपादकतयास्त्यस्य व, तण्डुना (नन्दिना) प्रोक्तम् अण् इति क्षीरस्वामी। नृत्ये अमरः “पुंनृत्यं ताण्डवं प्रोक्तं स्त्रीनृत्यं लास्यमुच्यते” शब्दार्थचि० धृतवाक्योक्ते २ पुंनृत्ये च “गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेः” मालतीमा०। २ उद्धतनृत्ये ३ तृणभेदे च मेदि०।

ताण्डवतालिक = पु० ताण्डवे तालस्तद्दानं शिल्पमस्य ठञ्। शिवद्वारपालके नन्दीश्वरे त्रिका०।

ताण्डवप्रिय = पु० ताण्डवं प्रियमस्य। १ शिवे शब्दमां० २ नृत्यप्रियमात्रे त्रि०।

ताण्डवित = त्रि० ताण्डव + कृतौ ञि कर्म्मणि क्त। नर्त्तिते। “अतिप्रांशुवंशकाण्डताण्डवितधौतसितसूक्ष्माम्बरसहस्रम्” “विकटललाटतटताण्डवितभ्रूकुटिना क्रुद्धेन महामोहेन” प्रबोधच०।

ताण्डिन् = पु० ब० व०। ताण्ड्येन प्रोक्तमधीयते वैशम्पायनान्तेवासित्वात् इनि–यलोपः। तण्डिमुनिपुत्रताण्ड्य प्रोक्तशाखाध्यायिषु। तस्य छात्रः अण् संयोगपूर्वाकेनो न टिलोपः। ताण्डिन तस्य छात्रे। स च यजुर्वेदस्य कल्पसूत्रकर्त्ता तण्डिशब्दे ३२०७ पृ० दृश्यम्।

ताण्ड्य = पु० तण्डिमुनेरपत्यम् गर्गा० यञ्। तण्डिमुनेरपत्ये स्त्रियां ङीष् यलोपः। ताण्डी।

तात = पु० तन–क्त दीर्घश्च। पितरि अमरः। “ईषदीषदनधीतविद्यया तातमातृमुदमाविवर्द्धयन्” कुसुमाञ्जलौ हरिदासः “हा तातेति क्रन्दितमाकर्ण्य विषण्णः” रघुः। २ अनुकम्प्ये मेदि०। “नाहंगृह्णामि वस्ताता! दृष्टीर्नास्मिरुषान्विताः” भा० आ० १७९ अ०। “स तात इति विप्रर्षिं वशिष्ठं प्रत्यभाषत। मातुः समक्षं कौन्तेय! अपश्यन्त्याः परन्तप!। तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः। अपश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह। मा तात! तात! तातेति ब्रूह्येनं पितरं पितुः। रक्षसा भक्षितस्तात! तव तातो वनान्तरे। मन्यसे यन्तु तातेति नैष तातस्तवानघ!। आर्य्य एष पिता तस्य पितुस्तव यशस्विनः” भा० आ० १७८ अ० “ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः” भा० आ० २३२ अ०। ३ पूज्ये त्रि० शब्दरत्ना०। “तस्मान्मुच्ये यथा तात! संविधातुम् तथार्हसि” रघुः। पूज्यं वसिष्ठं प्रति दिलीपसम्बोधनम्।

तातगु = पु० तातस्येव गौर्वाचकशब्दो यस्य गवान्तत्वात् गौण्ये ह्वस्वः। पितुर्भ्रातरि पितृष्ये। २ जनकहिते शब्दार्थचि० त्रि०।

ताततुल्य = पु० ३ त०। पितृसमाने हेमच०। तातसमादयोऽप्यत्र

तातन = पुंस्त्री तातं प्रशस्तं नृत्यति नृत–ड। खञ्जनखगे त्रिकाण्डशेषः स्त्रियां जातित्वात् ङीष् तातनी।

तातल = पु० तापं लाति ला–क पृषो०। १ रोगे २ पाके ३ लौहकूटे ४ मनोजवे च० मेदि०। ५ तप्तमात्रे त्रि० अजयपालः।

ताति = पु० ताय–क्तिच्। १ पुत्रे जटाधरः। ताय–भावे क्तिन्। २ वृद्धौ स्त्री “तदत्रभवता निष्पन्नाशिषां काममरिष्टतातिम् आशास्महे” वी० च०। तातिल्प्रत्ययान्तः अरिष्टताति शब्दैत्यन्ये।

तात्कालिक = त्रि० तस्मिन् काले भवः काश्या० आपदादिपूर्वकात्कालान्तात् ठञ् ञिठ् वा। तत्कालभवे तत्र ठञि स्त्रियां ङीप् ञिठि टाप् इति भेदः “कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः” शु० त० शङ्खः। “भवेत् तात्कालिको ग्रहः” ज्यो०। तात्कालिकस्वरचक्रम् चक्रशब्दे दृश्यम् “अहर्गणोत्पन्नग्रहस्य तात्कालिकत्वात्” सू० सि० रङ्गना०।

तात्पर्य्य = न० तत्परस्य भावः ष्यञ्। १ वक्तुरिच्छायाम्, २ अभिप्राये ३ तत्परतायाञ्च। तात्पर्य्यशब्दार्थनिरूपणेन तात्पर्य्यज्ञानस्य शाब्दवोधजनकत्वमनुमानचि० समर्थितं यथा “तात्पर्य्याधीनं शब्दप्रामाण्यम्। तत्र तत्परत्वं न तत्साध्यकत्वम्। पदार्थतत्संसन्धयोः शब्दासाध्यत्वात्। अथ तद्गोचरप्रवृत्तिनिवृत्तिसाध्यकत्वं तत्परत्वं तच्च भव्यार्थस्य साक्षात्, भूतार्थस्य तु प्रशंसानिन्दावाक्यस्य प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारा लाक्षणिकस्य लक्षणीयविषयप्रवृत्तिनिवृत्तिजनकत्वेन तत्परत्वमिति चेत् न तत्परत्वेऽङ्गीकृते तज्ज्ञानं जनयित्वा तत्र प्रवर्त्तकत्वं तत्प्रवर्त्तकत्वे च तत्परत्वमिति परस्पराश्रयात् लाक्षणिकस्याननुभावकत्वेऽपि लक्षणीयपरत्वात् काव्यादेः स्वरूपाख्यानमात्रपर्य्यवसानाच्च। ननु तद्बुद्धिजनकत्वं तत्परत्वं प्रशंसानिन्दावाक्यमपि प्रशस्तनिन्दितस्वार्थधीहेतुत्वेन तत्परार्थकं तच्च ज्ञानं प्रशस्ते सर्वः प्रवर्त्तते निन्दिताच्च निवर्त्तत इति स्वविषये प्रवृत्तिनिवृत्ती जनयतीति तत्परमुच्यत इति चेत् न गौणलाक्षणिकयोरननुभावकत्वात्। तद्बुद्धिजनने तत्परत्वमित्यन्योन्याश्रयाच्च तज्जननयोग्यत्वमिति चेत् तथैकत्रोच्चारणेन नानार्थे नानार्थपरत्वं लक्षणायाञ्च तुल्यार्थपरत्वं स्यात् योग्यतासत्त्वात् नापि तत्प्रतिपदाद्यकत्वं तात्पर्य्यं विना न तथेत्यन्योन्याश्रयात् प्रशंसादिवाक्यस्य प्रवृत्त्याद्यप्रतिपादकत्वात् लाक्षणिकस्याप्रतिपादकत्वाच्च। अथ गङ्गापदं स्वार्थाविनाभावे तीरं प्रतिपादयत् तत्पर- मिति चेत् न मञ्चाः क्रोशन्तीत्यत्र तेन विनापि पुरुषे तात्पर्य्यात् गङ्गादिपदं मत्स्यादिपरं मुख्यतीरपरञ्च स्यात् अविनाभावस्य तदेव स्यात् मुख्ये बाधके सतीति चेत्। तर्हि मुख्यार्थपरतैव न स्यात्। मापि गच्छ गच्छसीत्यत्र गमनाभावपरत्वम्। उच्यते। तत्प्रयोजनकत्वं तत्परत्वं तदर्थप्रतीतिः प्रवृत्तिनिवृत्ती च। प्रयोजनत्वञ्च न साध्यत्वं अन्योन्याश्रयात् नापि प्रतिपाद्ये स्वविषयत्वं यस्य यदिच्छाविषयस्तं प्रति तत्परत्वापत्तेः तदर्थसाध्यसाधनत्वेनेच्छानियम इति चेत्। न इह धूम इत्यत्र जन्यज्ञाप्यभेदेन साध्यस्य वस्तुभेदतया वाक्यभेदप्रसङ्गात् पुभिच्छाया नियन्तुमशक्यत्वात्। किन्तु प्रतिपादकेच्छाविषयत्वं तत्परत्वं यः शब्दो वक्त्रा यदिच्छया प्रयुक्तः स तत्परः सा च प्रतिपाद्यधोः प्रवृत्तिनिवृत्तिविषययोः तत्परत्वं नानार्थात् श्लिष्टादनेकपदार्थान्वितैकक्रियापरान्मुख्यसाक्षणिकपदादनावृत्त्या क्रमेणानेकार्थज्ञानं, न त्वेकदैव सकृदर्थपरत्वनियमेनैकत्रोच्चारणेऽनेकपरत्वाभावादिति सकलतान्त्रिकैकबाक्यतया वदन्ति तत्र ब्रूमः। अनेकार्थप्रतीतीच्छयैकमुच्चारणं भवत्येव पुमिच्छाया नियन्तुमशक्यत्वात् यदि तदुच्चारणमेकार्थपरं तदा आवृत्तिरपि न स्यात् तात्पर्य्यनिर्वाहार्थमावृत्तिकल्पनात्। अन्यथैकपरेऽपि तदापत्तेः। अतएव तदुच्चारणस्योभयपरतायामावृत्तिकल्पनं, तस्मात्तुल्यवदनेकार्थोपस्थितौ तात्पर्य्यादिज्ञाने युगपदनेकान्वयबोधो भवत्येव सामग्र्यास्तुल्यत्वात् प्रथममेकस्यान्वयबोधो न तदन्यस्येति नियन्तुमशक्यत्वाच्च”। “आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य्यं परिकीर्त्तितम्” भाषा० “तात्पर्य्यं निर्वक्ति वक्तरिच्छेति। यदि तात्पर्य्यज्ञानं कारणं न स्यात् तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्य क्वचिल्लवणस्य बोधो न स्यात्। न च तात्पर्य्यग्राहकप्रकरणादीनामेव शाब्दवोधे कारणत्वमस्त्विति। तात्पर्य्यज्ञानजनकत्वेन तेषामगुगमे तु तात्पर्य्यज्ञानमेव लाघवात् कारणमस्तु। इत्यञ्च वेदस्थलेऽपि तात्पर्य्यज्ञानार्थमीश्वरः कल्प्यते। न च तत्राध्यापकतात्पर्य्यज्ञानं कारणभिति वाच्यम् सर्गादावध्यापकाभावात् न च प्रलय एव नास्तीति कुतः सर्गादिरिति वाच्यम् प्रलयस्यागमप्रतिपाद्यत्वात्। इत्यञ्च शुकवाक्येऽपि ईश्वरीयतात्पर्य्यज्ञानं कारणम्। विसंवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्व्यस्य ज्ञानं कारणम्। अन्ये तु नानार्थादौ क्वचिदेव तात्पर्य्यज्ञानं कारणम्। तथा च शुकवाक्ये विनैव तात्पर्य्यज्ञानं शाब्दवोधः। वेदे तु अनादिमीमांसापरिशोधिततर्क्वैरर्थावधारणमित्याहुः। मुक्ता० “ननु मामूदाप्तोक्तत्वस्य निश्चयानुरोधेन सिद्धसाधनं तात्पर्य्यस्य तु स्यात् तन्निश्चयस्यान्वयधीहेतुत्वात् अन्यथा घटकर्म्मत्वादिपरत्वाभावस्य घटकर्म्मत्वाद्यन्यमात्रपरत्वस्य वा निश्चयेऽपि घटमित्यादिवाक्यात् कर्म्मत्वं घटीयमित्याद्यन्वयबोधापत्तेरिति चेन्न कर्म्मताधर्म्मिकघटाद्यन्वयधीपरत्वाभावनिश्चयदशायां प्रमेयत्वादि प्रकारेण घटकर्म्म त्वादिपरत्वस्य निश्चयेऽपि घटीयं कर्म्मत्वमित्यन्वयमतेरनुत्पत्त्या कर्म्मताधर्म्मिकघटान्वयबोधपरत्वप्रकारकनिश्चयत्वेनैव तात्पर्य्यधियस्तस्यां कारणत्वेन वाक्यार्थस्य तत्रानिवेशात्। वस्तुतः समानानुपूर्वीकस्यैव वाक्यान्तरस्य तस्यैव वा कालान्तरमन्तर्भाव्य घटीयकर्म्मत्वादिपरत्वनिश्चयसत्त्वेऽपि श्रूयमाणवाक्यव्यक्ताविदानीमन्तर्भावेण तत्परत्वस्यानिश्चयेऽभावे वा घटीयं कर्म्मत्वमित्याद्यन्वयमतेरनुत्पादाद्विशिष्यैव तत्तद्वाक्यव्यक्तिधर्म्मिकस्य घटकर्म्मत्वादिपरत्वनिश्चयस्य तत्तदन्वयबोधहेतुत्वमुपेयं तथा च तत्तद्धेतुभूतानां प्रकरणज्ञानाभिधानामेव विज्ञानव्यक्तीनान्तथात्वमुचितम् अवश्यं कॢप्तपूर्ववर्त्तिताकत्वात्। अतएव सैन्धवमानय इत्यादावपि लवणपरत्वधीर्न लवणाद्यन्वयबुद्धौ हेतुः किन्तु तदर्जकत्वेनाभिमतं भोजनादिप्रकरणस्य प्रतिसन्धानमिति न्यायसिद्धान्तः” शब्द० प्र०।

तादर्थ्य = न० तदर्थ + चतुर्व० ष्यञ्। तदुद्देश्यकत्वे।

तादात्म्य = न० तदात्मनोभावः ष्यञ्। अभेदे तदात्मशब्दे दृश्यम्।

तादीत्ना = अव्य० तदानीम् + पृषो०। तदानीमित्यर्थे “आत्सूर्य्य जनयन् द्यामुषासं तादीत्ना शत्रुम्” ऋ १। ३२। ४ “तादीत्ना तदानीमित्यस्य पृषीदरादित्वाद्वर्णविपर्य्ययः।

तादृक्ष = त्रि० तस्येव दर्शनमस्य तद् + दृश–क्स सर्वनामटेरत्त्वम् उप० स०। तत्तुल्यदर्शने।

तादृश = त्रि० तस्येव दर्शनमस्य तद् + दृश–ट उप० स०। तत्तुल्यदर्शने “क्व तद्विधं प्रेम पतिश्च तादृशः” कुमा० “निजुह्नुवे तादृशमेव वृंहितम्” माघः। स्त्रियां ङीप्। “यादृशी भावना यस्य सिद्धिर्भवति तादृशी” उद्भटः।

तादृश् = त्रि० तस्येव दशनमस्य तद् + दृश–क्विप् उप० स०। तत्तुल्ये “तादृग्गुणा सा भवति समुद्रेणेव निम्नगा” “तादृग्रोहति तत्तस्मिन् वीजं स्वैर्व्यञ्जितं गुणैः” मनुः।

तान = पु० तन–घञ्। १ विस्तारे अवतानः सन्तानः। “मूर्वा गुड्चीतानैरासीव्येत्” सुश्रुतः। २ ज्ञानविषये शब्दार्थकल्प० ३ गानाङ्गभेदे। “विस्तार्य्यन्ते प्रयोगा ये मूर्च्छना शेषसंश्रयाः। तानास्तेऽप्यूनपञ्चाशत् सप्तस्वरसमुद्भवाः। तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक्। ते स्युः पञ्च सहस्राणि स्त्रयस्त्रिंशत् शतानि च” सङ्गी० दा० “तानप्रदायित्वमिवोपगन्तुम्” कुमा०। “गाता यं यं स्वरं गच्छेत् तं तं वंशेन तानयेत्” मल्लिनाथधृतम्। “गायन्ति दिव्यतानैस्ते भा० स० ४ अ०।

तानव = न० तनोर्भाव० पृथ्वा० पक्षे अण्। तनुत्वे “तानवं तनुता गात्रे दौर्बल्यभ्रमणादिकृत्” उज्वलमणिः “अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात् कुतः” अमरः।

तानव्य = पुंस्त्री तनोरपत्यं गर्गा० यञ्। तनोरपत्ये स्त्रियां लोहि० ष्फ षित्त्वात् ङीष्। तानव्यायनी।

तानूनप्त्र = न० तानूनप्ता देवताऽस्य अण्। तनूनप्तृदेवताके पृषदाज्ये “तानूनप्त्रं गृह्णामि कांस्ये चमसे वा” मानवसू०। “तानूनप्त्रमेतत्” कात्या० श्रौ० ८। १। २४। “एतदाज्यं तानूनप्त्रसंज्ञं भवति” कर्कः। “तदेतत्तानूनप्त्रं निदानेन” शत० ब्रा० ३। ४। २। ८ “तानूनप्ता च प्रजापतिः वायुर्वा” तनूनप्तृशब्दे दृश्यम्।

तानूर = पु० तन–वा० उष्ण्। पयसां स्वतोभ्रमे आवर्त्ते त्रिका०।

तान्त = त्रि० तम–क्त। १ म्लाने २ क्लान्ते च। शब्दार्थकल्प०। “मृदुलतान्तलतान्तमलोकयत्” “रतिरभसविलासाभ्यासतान्तं न यावत्” माघः। “अलसतान्ततारकेण” दशकुमा०।

तान्तव = न० तन्तोर्विकारः अञ्। वस्त्रे “मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च” “सर्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च” मनुः।

तान्तव्य = पुंस्त्री तन्तोः सन्तानस्यापत्यं गर्गा० यञ्। तन्तोरपत्ये स्त्रियां लोहिता० ष्फ षित्त्वात् ङीष्। तान्तव्यायनी।

तान्तुवायि = पुंस्त्री तन्तुवायस्यापत्यं “उदीचामिञ्” पा० इञ्। तन्तुवायस्यापत्ये। अन्यमते सेनान्तलक्षणकारिभ्यः” पा० ण्य। तान्तवाय्य तदर्थे।

तान्त्रिक = त्रि० तन्त्रं सिद्धन्तं वेत्ति शास्त्रमधीते वा उक्था० ठक्। १ ज्ञातसिद्धान्ते २ शास्त्राभिज्ञे च “एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्त्तितम्” भाषा० तन्त्रे विहितः ठक्। ३ तन्त्रविहिते त्रि० स्त्रियां ङीप् “वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः” तन्त्रम्। इदमर्थे ठञ्। ४ शास्त्रसम्बन्धिनि च। अथातो धर्म्मं व्याख्यास्यामः श्रुतिप्रमाणको धर्म्मः श्रुतिश्च द्विविधा वैदिकी तान्त्रिकी च” हारीतः।

तान्दुर = न० तन्दुरेण पाकयन्त्रभेदेन निर्वृत्तम् अण्। तन्दूरपक्वे मांसभेदे तत्पाकविधिः शब्दार्थचि० धृतवाक्ये यथा

“अङ्गारपूर्णगर्त्ते यदलग्नमवलम्बितम्। संस्कृतं पिहितं मांसं पक्वं तान्दुरमुच्यते” सुस्वादु तान्तुरन्तु। “पचेद्गर्त्तेऽन्तरीक्षस्थं लम्बि सम्भारसम्भृतम्। चतुर्दिङमण्डलाकारं पार्श्वप्रज्वलितानले। विपक्वं सुरभि स्वादु तान्दूरमिति कीर्त्तितम्। अन्यच्च। “कोथिकायां सुसम्भारमलग्नमवलम्बितम्। मांसं पिधाय बाह्याग्निज्वालया स्वेदितम् वरम्। तान्दुरं रुचिदं बल्यं मृदु पथ्यतमं स्मृतम्। सद्योहतं नवं स्थूलमन्यथा दोषकारणमिति”

तान्व = पु० तन्वाः प्राणाधिष्ठितत्वात् प्राणवत्या अयम् “प्राणिरजतादिभ्योऽञ्” पा० अञ् संज्ञापूर्वकविधेरनित्यत्वात् वेदे न गुणः। तनूजे पुत्रे। “न जामये तान्वारिक्थम्” ऋ० ३। ३१। २। तनुनामकस्य ऋषेरपत्यम् प्राणित्वात् अञ् पूर्ववद्गुणाभावः। २ ऋषिभेदे। “सद्यो विदिष्ट तान्वः” ऋ० १०। ९४। १५। तान्वो नामर्षिः” भा०। तनु दशापवित्रवस्त्रम् तस्येदम् अण् पूर्ववद्गुणाभावः। ३ दशापवित्रवस्त्रसम्बन्धिनि “जहद्धर्म्माणि तान्वा” ऋ० ९। १४। ४। “तान्वा तान्वानि छान्दस आच्” भा०। स्वार्थे अण्। ४ दशापवित्रवस्त्रे च। “गृभ्णाति रिप्र विरस्य तान्वा” ऋ० ९। ७८। “तान्वा स्वकीयेन वस्त्रेण” भा० पूर्ववत् तृतीयास्थाने आच्।

ताप = पु० तप–घञ्। क्लेशजनके उष्णादिस्पशेजन्ये १ सन्तापे २ कृच्छ्रे च मेदि०। “निदाघकालोल्बणतापयेव” कमा०। “करम्भवालुकातापान् कुम्भीषाकांश्च दारुणान्” मनुः।

तापक = त्रि० तापयति तापि–ण्वुल्। १ तापकारके २ ज्वरे पु० शब्दर०। ३ रजीगुणे च तप्यं सत्त्वं तापकं रजः सा० शास्त्रे प्रसिद्धम्। “सत्त्वं तप्यं बद्धिभावेल वृत्तं भावाये वा राजसास्तापकास्ते। तफा भेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मेति” सवद०।

तापत्य = पुंस्त्री तपत्याः सूर्य्यकत्यायाः अपत्यम् क्षत्रियत्वात् ण्य। कौरवे तपत्यपत्ये तपतीशब्दे दृश्यम्। तपत्या उपाख्यान ष्यञ्। २ तपत्युपाख्याने न०। तापत्यमथ वाशिष्ठमौर्वं चाख्यानमुत्तमम्” भा० आ० १ अ०। तदाख्यानं च भा० आ० चैत्ररथपर्वणि १७२ अध्याये दृश्यम्।

तापत्रय = न० ६ त०। आध्यात्मिकाधिदैविकाधिभौतिकरूपे दुःखत्रये। “आध्यात्मिकादि मैत्रेय! ज्ञात्वा तापत्रयं बुधः। उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं फलम्” विष्णुपु०।

तापदुःख = न० तापरूपं दुःखम्। “पातञ्जलोक्ते दुःखभेदे “परिणामतापसस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” सू०। “ते जन्मायुर्भोगाः पुण्यहेतकाः सुखफलाः, अपुण्यहेतुकाः दुःखफला इति। यथा चेदं दुःखं प्रतिकूलात्मकं एवं विषय सुखकालेऽपि दुःखमस्त्येव प्रतिकलात्मकं योगिनः। कथं तदुपपद्यते”। “अथ का तापदुःखता सर्वस्य द्वेषानुत्रिद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति। तत्रास्ति द्वेषजः कर्म्माशयः सुखसाधनानि च प्रार्थयानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्णात्युपहन्ति वेति परानुग्रहपीडाभ्यां धर्म्माधर्मावुपचिनोति स कर्म्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते” भा०। “ते जन्मायुर्भोगा इति यद्यपि जन्मायुषोरेव ह्लादपरितापपूर्वभावितया तत्फलत्वं न तु भोगस्य ह्लादपरितापोदयानन्तरभाविनस्तदनुभवात्मनस्तथाप्यनुभाव्यतया भोग्यतया भोगकर्म्मतामात्रेण भोगफलत्वमिति मन्तव्यं नन्वपुण्यहेतुका जात्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकुलवेदनीयत्वात्। कस्मात्? पुनः पुण्यहेतवस्त्यज्यन्ते सुखफलाः अनुकूलवेदनीयत्वात्, न चैषां प्रत्यात्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागमैरपाकर्त्तुं, न च ह्लादपरितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमानेनैव परितापोऽप्यवर्जनीयतयापतेत् तयोर्भिन्नहेतुकत्वाद्भिन्नरूपत्वात् चेत्यत आह यथाचेदमिति” विवरणम्।

तापन = न० तप–णिच्–भावे ल्युट्। (तापान) १ तापकरणे हेमच०। तापि–कर्त्तरि ल्यु। २ सूर्य्ये ३ कामवाणभेदे पु० जटाध०। ४ सूर्य्यकान्तमणौ राजनि०। ५ अर्कनामनामके अर्कवृक्षे च। ६ तापके त्रि०। “ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्” भा० आ० १९ अ०। “ततस्तु राजानममित्रतापनं समीक्ष्यते तस्य नृपस्य मन्त्रिणः” ४४ अ०।

तापनीय = न० उपनिषद्भेदे। उपनिषच्छब्दे १२२२ पृ० दृश्यम्। गोपालतापनीयः नृसिंहतापनीयः। तपनीयस्य स्वर्णस्य विकारः अण्। २ स्वर्णमये त्रि० “तापनीये तथा घण्टे कक्षोपरिविलम्बिते” हरिवं० ८७ अ०। जातरूपेभ्यः परिमाणे अण्। ३ स्वर्णनिष्कपरिमाणे सुवर्णे न०।

तापश्चित = न० तपसि चीयते चि–क्त स्वार्थे अण्। सत्त्रभेदे तद्विधानादि कात्या० श्रौ० २४। ५। १। यथा “तापश्चितम् दीक्षाः संवत्सरमुपसदश्च तथा सुत्याः” सू० “तापश्चितमिति सत्रनाम तत्र दीक्षाः संवत्सरं भवन्ति उपसदः सुत्याश्च” इदानीमहान्याह अत्र सुत्या आह” कर्कः “गवामयनेनेयुः” २ सू०। गवामयनमेव कर्त्तव्यमित्यर्थः। “अग्निष्टोमेन वा” ३ सू० “ईयुः अपूर्वश्चायमग्निष्ठोमः नैकाहिको न द्वादशाहिकः संस्थामात्रोपदेशात्। अग्निष्टोमसंस्थेन ज्योतिष्टोमेन पूरणं कर्त्तव्यम्” कर्कः। शत० ब्रा० १०। २। ५। ३ तन्निरुक्तिर्दर्शिता यथा “एतदुह यज्ञे तपः। यदुपसदस्तपो वा उपसदस्तद्यत्तपसि चीयते तस्मात् तापश्चितस्तद्वै यावदेवोपसद्भिश्चरन्ति तावत् प्रवर्ग्येण संवत्सरमेवोपसद्भिश्चरन्ति संवत्सरप्रवर्ग्येण” “यावतीरुपसदः कुर्य्यात्तावद्भिः प्रवर्ग्यैश्चरितव्यम् उपसदः तापश्चिते चयने संवत्सरसंमिताः” भा०।

तापस = त्रि० तपस्तच्चरणं शीलमस्य छत्रा० ण। १ तपश्चरणशीले स्त्रियां टाप्। तपोऽस्त्यस्य “अण् च” पा० अण्। तपो विशिष्टे त्रि०। “तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाचरेत्” मनुः। “सीदन्ति तापसकुलानि सगोकुलानि” वृ० स० १९ अ०। स्त्रियां ङीप् “अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि” भा० आ० ७४ अ०।

तापसतरु = पु० तापसहितस्तरुः शा० त०। इङ्गुदीवृक्षे अमरः। तापसद्रुमादयोऽप्यत्र।

तापसद्रुमसन्निभा = स्त्री तापसद्रुमेण तुल्या निभा० नि० स०। गर्भदात्रीक्षुपभेदे राजनि०।

तापसपत्री = स्त्री तापसप्रियं पत्रमस्याः जातित्वात् ङीष्। दमनकवृक्षे राजनि०।

तापसप्रिय = पु० तापसानां प्रियः छायाप्रदत्वात्। १ पियालवृक्षे राजनि०। २ तापसप्रियमात्रे त्रि०।

तापसेष्टा = स्त्री तापसेन इष्टा। १ द्राक्षायां राजनि० २ तापसाभिलषिते त्रि०।

तापस्य = न० तापसस्य धर्म्मः ष्यञ्। तापसधर्म्मे “स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च। राज्ञश्च धर्ममखिलं कार्य्याणां च विनिर्णयः” मनुः। “पुरा रामभयादेव तापस्यं समुपाश्रितः” भा० व० २७६ अ०।

तापहर = त्रि० तापं हरति हृ–ट। तापनाशके। स्त्रियां ङीप् ङीबन्तः। २ व्यञ्जनभेदे (ताहरी) भाव० प्र०

“घृते हरिद्रासंयुक्ता मांसानां भर्जयेद्वटीः। तण्डुलांश्चापि निर्द्धौतान् सहैव परिभर्जयेत्। सिद्धियोग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत्। लवणार्द्रकहिङ्गूनि मात्रया तत्र निःक्षिपेत्। एषा सिद्धिं समायाता प्रोक्ता तापहरी बुधैः”। अस्या गुणाः। “भवेत् तापहरी बल्या वृष्या श्लेष्माणमाहरेत्। वृंहणी तर्पणी रुच्या गुर्वी तत्र गुणाः स्मृताः”

तापिक = त्रि० तापे तापकाले भवं ठञ्। ग्रीष्मभवे जलादौ न०।

तापिच्छ(ञ्ज) = पु० तापिनं छादयति जयति वा छद + जिवा ड पृषो०। १ तमालवृक्षे अमरः। “अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छाबलीम्” गी० गो० “प्रफुल्लताप्रिञ्छनिभैरभीषुभिः” माघः। २ धातुमाक्षिके राजनि०

तापिन् = त्रि० तापयति तापि–णिनि। १ तापके तप–णिनि। २ तापयुक्ते त्रि० स्त्रियां वा ङीप्। ३ बुद्धदेवे पु० त्रिका०

तापी = स्त्री तापयति अच् गौरा० ङीष्। विन्ध्याचलस्थे पश्चिमवाहिनदीभेदे राजनि०। सा च माक्षिकधातूद्भवखनिसन्निकृष्टा। २ यमुनायां त्रिका०।

तापीज = पु० ताप्या नद्याः समीपे आकरभेदे जायते जनड। माक्षिकधातौ “एवञ्च माक्षिकं धातुं तापीजममृतोपमम्। मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्। पिबन् हन्ति जराकुष्ठमेहानाहामयक्षयान्” सुश्रुतः तापीसम्भवताप्यताप्युद्भवादयोऽप्यत्र।

तापेश्वर = पु० तीर्थभेदे हेम० शि० पु०।

ताम = पु० ताम्यत्यनेन तम–करणे घञ्। १ भीषणे २ दोषे च अजयपालः। ३ ग्लानिकारणे त्रि० भावे घञ्। ४ ग्लानौ पु०

तामर = न० तामं ग्लानिं रवते हिनस्ति रुङ्–बधे बा० ड १ जले २ घृते च भरतधृतरुद्रः।

तामरस = न० तामरे जले संस्ति सस–ड। १ पद्मे, ताम्यतेऽनेन रस्यते इति रसम् कर्म०। २ स्वर्णे ३ ताम्रे च मेदि०। ४ धुस्तूरे, अमरः “इह वद तासरसं नजजायः” वृ० र० उक्ते ५ द्वादशाक्षरपादके छन्दोभेदे च। “तामग्रतस्तामरसान्तराभाम्” “स्वनवता नवतामरसाननः” “विकचतामरसा गृहदीर्घिकाः” रघुः। “नवरतममन्दरागतामरसदृशः” माघः। ५ पद्मिन्यां स्त्री ङीप्। “यथा गजस्तामरसीं मदोत्कटः” भारते विराटपर्वणि ७ अ०।

तामलकी = स्त्री तम णिच्–क्विप् तान् कर्म०। भूम्यामलक्याम्। अमरः। “कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः” सुश्रुतः

तामलिप्त = पु० (तमलुक्) देशभेदे त्रिका०। स्वार्थे क। तत्रार्थे। स च देशः घृ० स० १४ अ० कूर्मविभागे प्राच्यामुक्तः “अथ पूर्वस्याम्” इत्युपक्रमे “एकपादतामलिप्तककोशलकावर्द्धमानश्च”। गौरा० ङीष् तत्रार्थे स्त्री।

तामस = त्रि० तमोऽस्त्यस्य तमः, प्रधानत्वेनास्त्यस्य वा अण्। १ तमोगुणयुक्ते २ तमःप्रधानगुणके स्त्रियां ङीप्। ३ सर्पे पुंस्त्री० जातित्वात् ङीष्। ४ खले त्रि० मेदि० ५ उलूके पुंस्त्री राजनि० स्त्रियां ङीष्। ६ चतुर्थे मनौ पु० “सत्या देवगणाश्चैव तामसस्यान्तरे मनोः। पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप!। द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोऽशनः। तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः। तामसस्य मनोरेते दश पुत्रा महाबलाः” हरिवं० ७ अ०। “चतुर्थे उत्तमभ्राता मनुर्नाम्ना च तामसः। पृथुः भातिर्नवः केतुरित्याद्या दश तत्सुताः। सत्यका हरयो घीरा देवास्त्रिशिखईश्वरः। ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे। देवा वैधृतयो नाम विधृतेस्तनया नृप!। नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा। भाग० ८। १। २४। भागवते अन्यथोक्तं कल्पभेदादविरुद्धम्। तमोऽधिकृत्य प्रवृत्तम् अण् तमसा कृता वा अण्। ७ तमोगुणाधिकारेण प्रवृत्ते शास्त्रे ८ तमसाकृते च स्त्रियां ङीप्। तामसशास्त्राणि च पद्मपुराणे पार्वतीं प्रतीश्वरवाक्येनोक्तानि यथा “शृणु देवि! प्रवक्ष्यामि तामसानि यथाक्रमम्। येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि। प्रथमं हि मयैवोक्तं शैवं पाशुपताभिधम्। मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततःपरम्। कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत्। गौतमेन तथा न्यायं साङ्ख्यन्तु कपिलेन वै। द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः। निरीश्वरेण वादेन कृतं शास्त्र महत्तरम्। धिषणेन च संप्रोक्तं चार्वाकमतिगर्हितम्। दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा। बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम्। मायावादमसच्छास्त्रं प्रच्छन्नं वौद्धमेव च। मयैव कथितं देवि! कलौ ब्राह्मणरूपिणा। अपार्थं श्रुतिवाक्यानां दर्शयल्लोकगर्हितम्। कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते। सर्वकर्मपरिभ्रंशान्नैष्क्रर्म्यं तत्र चोच्यते। परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते। ब्रह्मणोऽस्य परं रूपं निर्गुणं दर्शितं मया। सर्वस्य जगतोऽप्यस्य नाशनार्थं कलौ युगे। वेदार्थवन्महाशास्त्रं मायावादमवैदिकम्। मयैव कथितं देवि! जगतां नाशकारणात्”

कूर्मपुराणे केषाञ्चित्तन्त्राणां तामसत्वमुक्तं यथा “यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि च। श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां तु तामसी। करालभैरवञ्चापि यामलं वाममाश्रितम्। एवंविधानि चान्यानि मोहनार्थानि तानि तु। मया सृष्टानि चान्यानि मोहायैषां भवार्णवे”। तामस पुरणानि यथा। “मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च। आग्नेयञ्च षडेतानि तामसानि निवोघत”। सात्त्विक पुराणानि यथा। “वैष्णवं नारदीयञ्च तथा भागवतं शुभम्। गारुडञ्च तथा पाद्मं वाराह शुभदर्शने!। सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै”। राजस पुराणानि यथा “व्रह्माण्डं व्रह्मवैवर्त्तं मार्कण्डेयं तथैव च। भविष्यं वामनं ब्राह्मं राजसानि शुभानने!” पद्म० उ० ख० ४३ अ०। “सङ्कीर्णेषु सरस्वत्याः पितृणां व्यष्टिरुच्यते। अग्नेः शिवस्य माहात्म्यं तामसेषु दिवाकरे। राजसेषु च माहात्म्यमधिकं ब्रह्मणः स्मृतम्। यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा। तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते। सात्त्विकेष्वधिकं तद्वद्विष्णोर्माहात्म्यमुत्तमम्। तथैव योगसंसिद्धा गमिष्यन्ति परां गतिम्” मत्स्य पु०।

तामसमुनयः पद्मपु० उ० उक्ता यथा। “कणादो गौतमः शक्तिरुपमन्युश्च जैमिनिः। दुर्वासाश्च मृकण्डुश्च भार्गवश्च वृहस्पतिः। जमदग्निश्च इत्येते मुनयस्तामसाः स्मृताः”। तामसस्मृतयस्तत्रैवोक्ता यथा “वार्हस्पत्या गोतमी च सांवर्त्ती यमनिर्म्मिता। शाङ्खी चौशनसी चैव तामस्यः स्मृतयः स्मृताः”। तामसश्रद्धादिकं गीतायां १७ अ० उक्तं यथा। त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्वि कीराजसी चैव तामसी चेति तां शृणु। यजन्ते सात्विका देवान् यक्षरक्षांसि राजसाः। प्रेतान् भूतागणांश्चान्ये यजन्ते तामसा जनाः”। तामसाहारादिकमपि भा० १७ अ० उक्तं यथा “यातयामं गतरसं पूति पर्य्युषितञ्च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्” “विधिहीनमसृष्टान्नं मन्त्रहीनमद- क्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते”। “मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत् सादनार्थं वा तत्तामसमुदाहृतम्”। “अदेशकाले यद्दान मपात्रेभ्यश्च दीयते। असत्कृतमवज्ञानं तत्तामसमुदाहृतम्”। किञ्च “नियतस्य तु संन्यासः कर्म्मणो नोपपद्यते। मीहात्तस्य परित्यागस्तामसः परिकीर्त्तितः”। “यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम्। अतत्त्वार्थवत्ल्पञ्च तत्तामसमुदाहृतम्। अनुबन्धं क्षयं हिंसा मनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत्तत्तामसमुच्यते”। “अयुक्तः प्राकृतस्तब्धः शठो नैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते। अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी”। “यथा स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्म्भेधा धृतिः सा तामसी मता”। “यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादीत्थं तत्तामसमुदाहृतम्” १८ अ०। राजसतामसकर्म्माणि यथा “यत् शैवं दैवतं पैत्रं वौपदेवं तथाध्वरम्। शाक्तं शैवं गाणपत्यं यागहोमादिकं तथा। पौरहित्यं याजनञ्च दैवल्यं ग्रामयाजनम्। विष्णुसेवापराधश्च तथा नामापराधकः। असत्प्रतिग्रहो देवि! सङ्कल्प आभिचारिकः। पशुजीवादिहननं पातकञ्चोपपातकम्। अतिपापं महापापमनुपातकमेव च। लोभो मोहो ह्यहङ्कारः कामः क्रोधः मदस्तथा। एतद् यदपरं कर्म गर्हितञ्च वरानने!। राजसं तामसं प्रोक्तं मया च मुनिभिः सदा” पद्म० उ० ख०।

हारीतः “तामसेन तु द्रव्येण ऋत्विग्भिस्तामसैस्तथा। तामसं भावमास्थाय तामसो यज्ञ उच्यत। तामसेन तु यज्ञेन दानेन तपसा तथा। निरये जन्म चेदाहुर्वृद्धिं विद्याच्च तामसीम्”। “तामसी वृद्धिम्लेच्छाधिपत्य रूपा” इति रत्नाकरः। तमसो राहोरपत्यम् अण्। ९ राहुसुते तामसकीलः।

तामसकील = पु० तामसः राहुसुतः कील इव। वृ० स० ३ अ० उक्ते राहुसुते केतुभेदे। तन्निमित्तोत्पातभेदस्तत्रोक्तो यथा “तामसकीलसङ्ज्ञका राहुसुताः केतवस्त्रयस्त्रिंशत्। वर्णस्थानाकारैस्तान्दृष्ट्रार्के फलं ब्रूयात्। ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः। ध्वाङ्क्षाकबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि। तेषामुदये रूपाण्यम्भः कलुषं रजोवृतं व्योम। नगतरुशिख- रविमर्दी सशर्करो मारुतश्चण्डः। ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहः। निर्घातमहीकम्पादयो भवन्त्यत्र चोत्पाताः। न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि। तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात्”। “यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यविम्बस्थाः। तस्मिंस्तस्मिन् व्यसनं महीपतीनां परिज्ञेयम्। क्षुत्प्रम्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः। निर्मांसवालहस्ताः कृच्छ्रेणायान्ति परदेशम्। तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासाकुलिताक्षिपुटाः। सन्तः सन्नशरीराः शोकोद्भववाष्परुद्धदृशः। क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः। स्वनृपतिचरितं कर्म च पराकृतं प्रव्रुवन्त्यन्ये। गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः। सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते सस्यम्। दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात् कबन्धसंस्थाने। ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे। राजोपकरणरूपैश्छत्रध्वजचामरादिभिर्विद्धः। राजान्यत्वकृदर्कः स्फुलिङ्गधूमादिभिर्जनहा। एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विभाशाय। सितरक्तपीतकृष्णैस्तैर्बिद्धोऽर्कोऽनुवर्णघ्नः। दृश्यन्ते च यतस्ते रविबिम्बस्योत्थिता महोत्पाताः। आगच्छति लोकानां तेनैव भयं प्रदेशेन”। स्वार्थे क तत्रार्थे। त्रिंशत्त्र्यधिकाराहोस्ते तामसकीलका इति ख्याताः वृ० स० ११ अ०।

तामसध्यान = न० वटुकभैरवस्य ध्येयरूपभेदे। “तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः” इत्युपक्रमे सात्त्विकराजसे उक्त्वा तामसध्यानमुक्तं तन्त्रसारे यथा

“ध्यायेज्रीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं दिग्वस्त्रं पिङ्गलाभं डमरुमथ सृणिं शङ्खशूलाभयानि। नागं घण्टां कपालं कररसिरुहैर्बिभ्रतं भीमदंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम्” “तामसं शत्रुशमनं कृत्याभूतगदापहम्” तन्त्रसा०।

तामसिक = त्रि० तमसा निर्वृत्तं ठञ्। तमोगुणकार्ष्ये त्रि०

तामसी = स्त्री तमांसि भूम्ना सन्त्यस्यां प्रज्ञा० अण् ङीप्। अन्धकारबहुलायां रात्रौ २ महाकाल्यां मेदि०। ३ जटामांस्यां राजनि०। ४ तमोगुणवत्यां स्त्रियाञ्च।

तामालेय = त्रि० तामालवृक्षस्यादूरदेशादि सख्या० ढञ्। तमालवक्षस्या–दूरदेशादौ।

तामिस्र = पु० तमिस्रा तमस्ततिरस्त्यत्र अण्। नरकभेदे। “तामिस्रो ह्यन्धतामिस्र इत्युपक्रमे। तन्निदानरूपादि भाग०। ५। २६ उक्तं यथा “यस्तु परिवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयान कैस्तामिस्रे नरके बलान्निपात्यते” “स पर्य्यायेण यातीमान् नरकानेकविंशतिम्। तामिस्रमन्धतामिस्रं महारौरवरौरवौ। नरकं कालसूत्रञ्च महानरकमेव च। सञ्जीवनं महावीचिं तपनं सम्प्रतापनम्। संघातञ्च सकाकोलं कुड्मलं पूतिमृत्तिकम्। लोहशङ्कुमृजीषञ्च पन्थानं शाल्मलीं नदीम्। असिपत्रवनञ्चैव लोहदारकमेव च” मनुः अत्रोपक्रमे यातीति क्रियासम्बन्धापेक्षतया पन्थानं शाल्मलीं नदीमित्युत्तरत्र स्पष्टं द्वितीयाश्रवणाच्च तामिस्रादिशब्दानां द्वितीयान्ततैव नरकविशेषवाचित्वात्तस्य पुंस्त्वात्। शब्दकल्पद्रुमे क्लीवतोक्तिः मनु वचने द्वितीयान्ततामिस्रशब्दे प्रथमान्तत्वभ्रान्त्यैवेति बोध्यम्। तमिस्रया साध्यमण्। २ द्वेषे। “भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः। “तामिस्रोऽष्टदशधा” सा० का०। “तामिस्रो द्वेषोऽष्टादशधा शब्दादयो दशविषया रञ्जनीयाः स्वरूपतः, ऐश्वर्य्यं त्वणिमादिकं न स्वरूपतो रञ्जनं किन्तु रञ्जनीयशब्दाद्युपायाः। ते च शब्दादय उपस्थिताः परस्परेणोपहन्यमानास्तदुपायाश्चाणिमादयः स्वरूपेणैव कोपनीया मवन्तीति। शब्दादिभिर्दशभिः सहाणिमाद्यष्टादशधेति तद्विषयो द्वेषस्तामिस्रोऽष्टादशविषयत्वादष्टादशधेति” तत्त्वकौ० द्वेषमूलत्वात् भोगेच्छाप्रतिघातरूपे ३ क्रोधे भाग० टी० श्रीधरः।

तामु = त्रि० तम–उण्। स्तोतरि निघण्टुः।

ताम्बली = स्त्री ताम्बूली + पृषो०। (पान) ताम्बूल्यां “मुञ्जका शताम्बल्यारसानाः” गोप० ब्रा० ३। १०। ७।

ताम्बूल = न० तम–ऊलच् वुगागमः दीर्घश्च गौ० ङीष् तस्याः पत्रमण्। (पान) ख्याते १ नागवल्लीदले। २ क्रमुके च मेदि०। “ताम्बूलं कटूतिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं कृमिनाशनं कफहरं दुर्गन्धनिर्नाशनम्। वक्त्रस्याभरणं विशुद्धिकरणं कामाग्निसन्दीपनं ताम्बूलस्य सखे! त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः” अपि चाहुः “ताम्बूलं विशदं रुच्यं तीक्ष्णीष्णं तुवरं सरम्। रस्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु। वल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्” भाव० प्र०। “अनिधाय मुखे पर्णं पूगं स्वादयते नरः। मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम्” राजनि०। भावप्र० दिनचर्य्यायामुक्तं यथा “धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः। पूगकर्पूर कस्तूरीलवङ्गसुमनःफलैः। फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः। ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः। धूमेन अगुर्वादिधूमेन। अपोह्य कफं दूरीकृत्य कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरीलवङ्गादिभिः पूगैः क्रमुकैः सुमनःफलैः जातीफलैः एलाहरीतक्यादिफलैः। रात्रौ सुप्तोत्यिते स्नाते भुक्ते वान्ते च सङ्गरे। सभायां विदुषां राज्ञां कुर्य्यात्ताम्बूल चर्वणम्। ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनन्तु परं सरम्। तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु। वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्। मख वैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्। हनुदन्तमलध्वंसि जिह्वेन्द्रियविशोधनम्। मुखप्रसेकशमनं गलामयविनाशनम्। नवं तदेव मघुरं कषायानुरसं गुरु। वलासजननं प्रायः पत्रशाकगुणं स्मृतम्। वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम्। पाचनं पित्तजनकमुष्णं कफहरं स्मृतम्। पर्णं पुराणमकटु खुल्लकन्तनु पाण्डुरम्। विशेषाद् गुणवद्वेद्यमन्यद्धीनगुणं स्मृतम्। खदिरः कफपित्तघ्नश्चूर्णं वातबलासनुत्। संयोगत स्त्रिदोघ्नं सौमनस्यं करोति च। मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्। प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा। निशासु चूर्णमधिकं ताम्बूलं भक्षयेत् सदा। आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता। तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत्। पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः। जीर्णं पर्णं हरत्यायुः सिरा बुद्धिविनाशिनी। आद्यं विषोपमं पीतं द्वितीयं भेदि दर्जरम। तृतीयादनु पातव्य सुधातुल्य रसायनम्। ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः। देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः। शोषः पित्तानिलास्र स्यादतिताम्बूलचर्वणात्। विषमूर्च्छामदार्त्तानां क्षयिणां रक्तपित्तिनाम्। “विना पर्णं मुखे दत्त्वा गुवाकं भक्षयेद्यदि। तावद्भवति चण्डालो यावद्गङ्गां न गच्छति” कर्मलोचनम्। “ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचरारिणाम्। तपस्विनाञ्च विप्रेन्द्र! गोमांससदृशं ध्रुवम्” इति ब्रह्मवै० व्र० ख०। मार्कण्डेयः “भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलभक्षणम्” वशिष्ठः “सुपूगञ्च सुपर्णञ्च सुचूर्णेन समन्वितम्। अदत्त्वा द्विजदेवेभ्यस्ताम्बूलं वर्जयेद्बुधः” “ताम्बूलद्वयमासनञ्च लभते यः कान्यकुब्जेश्वरात्” नैष० “ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी” सा० द०। २ पर्णवृक्षे स्त्री गौरा० ङीष्। “ताम्बूलीनां दलैस्तत्र रचिताः पानभूमयः” रघुः।

ताम्बूलकरङ्क = पु० ६ त०। (पानडिपा) ताम्बूलपात्रभेदे हेमच०।

ताम्बूलद = त्रि० ताम्बूलं ददाति दा–क। १ राज्ञां ताम्बूलदाने अधिकृते दासभेदे २ विप्रादिभ्यो ताम्बूलदातरि च ण्वुल्। ताम्बूलदायकोऽप्युभयत्र “जलताम्बूलकुसुमगन्धमाल्यादिदायकाः” कामन्दकीये।

ताम्बूलपत्र = पु० ताम्बूलमिव पत्रमस्य। पिण्डालौ राजनि०। कर्म्म०। ताम्बूलीपत्रे न०।

ताम्बूलपेटिका = स्त्री ६ त०। ताम्बूलकरङ्के

ताम्बूलराग = पु० ताम्बूलकृतो रागः शाक० त०। (पानेर वोल) १ ताम्बूलजनिते रागे ताम्बूलस्य राग इव रागो रक्तता यस्य। २ मसूरे हारा०।

ताम्बूलवल्ली = स्त्री ताम्बूलाख्या वल्ली। (पान) नागबल्ल्याम् अमरः। स्वार्थे क अत्रैवार्थे।

ताम्बूलिक = त्रि० ताम्बूलं तद्रचनं शिल्पमस्य। ताम्बूलरचनाधिकृते “आदिशब्दात् मालाकररजकताम्बूलिकगान्धिकादयः” सा० द०।

ताम्बूलिन् = त्रि० ताम्बूलं पण्यतयाऽस्त्यस्य इनि। १ ताम्बूलविक्रेतरि(तामुलि)ख्याते २ जातिभेदे पुंस्त्री स्त्रियां ङीप्।

ताम्र = न० तम–रक् दीर्घः। १ धातुभेदे (ता~मा) अमरः २ कुष्ठभेदे कर्म्मविपाकः। ३ रक्तवर्णे हेमच०। ४ तद्वति त्रि०। धातुभेदस्योत्पत्तिकारणगुणादि भावप्र० उक्तं यथा “अथ ताम्रस्य उत्पत्तिर्नामलक्षणगुणाश्च। “शुक्रं यत् कार्त्तिकेयस्य पतितं धरणीतले। तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः। ताम्रमौन्दुवरं शुल्वमुदुम्बरमपि स्मृतम्। रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनामकम्। जपाकुसुमसङ्काशं स्निग्धं मृदुधनक्षमम्। लोहनागोञ्झितं ताम्रं मारणाय प्रशस्यते। कृष्णं रूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम्। लोहनागयुतञ्चेति शुल्वं दुष्टं प्रकीर्त्तितम्। एको दोषो विषे ताम्रे त्वसभ्यग्मारिते पुनः। दाहः स्वेदो रुचिर्मूर्च्छा क्लेदो रेको वमिर्भ्रमः” (रेकः विरेकः) तस्य मारणविधिस्तत्रोक्तो यथा “सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः। वासरत्रयमम्लेन ततः खाते विनिःक्षिपेत्। पादांशं सूतकं दत्त्वा याममम्लेन मर्द्दयेत्। तत उद्धृत्य पत्राणि लेपयेद्द्विगुणेन च। गन्धकेनाम्लवेष्टेन तस्य कुर्य्याच्च गोलकम्। ततः पिष्ट्वा च मौनाक्षीं चाङ्गेरीं वा पुनर्नवाम् (चाङ्गेरी चतुष्पत्राम्लालोनिकाभेदः।) तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम्। धृत्वा तद्गोलकं भाण्डे सरावेण च रोधयेत्। वालुकाभिः प्रपूर्य्याथ विभूति लवणाम्बुभिः। दत्त्वा भाण्डमुखे मुद्रां ततश्चूल्ल्यां विपाचयेत्। क्रमवृद्ध्याग्निना सम्यग्यावद्यामचतुष्टयम्। स्वाङ्गशीतं समुद्धृत्य मर्दवेच्छूरणद्रवैः। यामैकं गोलकं तच्च निःक्षिपेच्छूरणोदरे। मृदा लेपस्तु कर्त्तव्यः सर्वतोऽङ्गुष्ठमात्रकः। पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम्। वमनं च विरेकं च भ्रमं श्वासमथारुचिम्। विदाहं स्वेदमुत्क्लेदं न करोति कदाचन। एवं मारितस्य ताम्रस्य गुणा ताम्रं कषायं मधुरं च तिक्तमम्लञ्च पाके कटु सारकञ्च। पित्तापहं श्लेष्महरञ्च शीतं तद्रोषणं स्याल्लघु लेखनञ्च। पाण्डूदरार्शोज्वर कुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम्। शोथं कृमिं शूलमपाकरोति प्राहुर्बुधा वृंहणमल्पमेतत्”। “ताम्रमम्लेन शुद्ध्यति” मनुः। ताम्रपत्रशब्दे मोजननिषेधः घृतेतरोद्धृतसारगव्यभोजननिषेधश्च वक्ष्यते। रक्तवर्णविशिष्टे “ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य” “तपस्विने ताम्ररुचा करेण” कुमा० “प्रचक्रमे पल्लवरागताम्रा” रघुः। ५ द्वीपभेदे पु०। स्वार्थे क। तत्रार्थे अमरः।

ताम्रकर्ण = त्रि० ताम्रौ कर्णौ यस्य। १ रक्तकर्णयुक्ते स्त्रियां ङीष्। ङीषन्तः २ पश्चिमदिघस्तिन्याम् अमरः।

ताम्रकार = पुंस्त्री० ताम्रं ताम्रपात्रादिकं करोति कृ–अण् उप० स०। ताम्रोपजीविनि सङ्कीर्णजातिभेदे। “आयोगवेन विप्रायां जातास्ताम्रोपजोविनः” कंसकारशब्दे दृश्यम्। स्त्रियां जातित्वात् ङीष्।

ताम्रकुट्ट = पुंस्त्री० ताम्रं कुट्टयति कुट्ट–अण् उप० स०। ताम्रकारे (का~सारि) संकीर्णजातिभेदे। ण्वुल्। ताम्रकुट्टक तत्रार्थे अमरः।

ताम्रकुण्ड = न० कुण–ड किच्च ताम्रमयं कुण्डम्। ताम्रमये देवजलाघारे पात्रभेदे “देवतान्यजलाधारः कुण्डं कुण्डमुखा स्मृताः” “शाश्वतः उपचारात् ताम्रकुण्डम्” उज्ज्व०

ताम्रकूट = पुंन० ताम्रस्य कूटमिव। रक्तवर्णनिर्यासके (ता- माक) क्षुपभेदे “संविदा कालकूट” च ताम्रकूटं च धुस्तुरम्। अहिफेनं खर्जूरसस्ताडिता तरिता तथा। इत्यष्टौ सिद्धिद्रव्याणि यथा सूर्य्याष्टकं तथा” कुला० त०।

ताम्रकृमि = पु० कर्म्म०। इन्द्रगोपकीटे हारा०।

ताम्रगर्भ = न० ताम्रं गर्भ इवोत्पत्तिस्थानमस्य। तुत्थे (तुंते) राजनि०। तस्य ताम्रोद्भवत्वं तुत्थशब्दे दृश्यम्।

ताम्रचूड = पुंस्त्री० ताम्रा रक्ता चूडा यस्य। १ कुक्कुटे (कुकडा) ख्याते खगे अमरः स्त्रियां ङीष्। तद्रुतविशेषफलं वृ० स० ८८ अ० यथा “भीता रुबन्ति कुकुकुक्विति ताम्रचूडास्त्यक्त्वा रुतानि भयदान्यपराणि रात्रौ”। कुक्कुटश्च द्विविधः नारिकेलाकृतिः प्राच्यवाटः, वलाकाकृतिश्च प्रतीच्यवाटः। तत्र प्राच्यवाटः बलाधिकः। तथैव वर्णितं दशकुमारे ताम्रचूडयुद्धाधिकारे। “कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमीक्ष्य वलाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैवं प्रति विसृष्ट इति। “प्रायुध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम्। जितश्चासौ प्रतीच्यवाट कुक्कुटः” दशकु०। २ कुक्कुरद्रुमे (कुकसिमा) राजनि०। तस्य रक्तशिखत्वात्तथात्वम्। “द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना। अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः। महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्” भा० व० २२४ अ० तत्रैव “अरुणस्ताम्रचूडञ्च प्रददौ चरणायुधम्”। ३ कुमारानुचरमातृगणभेदे स्त्री “सुभगा लम्बिनी लम्बा ताम्रचूडाविकाशिनी” भा० श० ४७ अ०। मातृगणौक्तौ ४ रक्तशिखायुक्ते त्रि० ताम्रचूडभैरवः।

ताम्रजाक्ष = पु० सत्यभामायां कृष्णाज्जाते पुत्रभेदे। “जज्ञिरे सत्यभामायां भीमो भीमरथः क्षूपः। रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः। भानृर्भीमरिका चैव ताम्रपक्षा जलन्धमा। चतस्रो जज्ञिरे तेषां स्वसारौ गरुडध्वजात्” हरिवं० १६२ अ०।

ताम्रत्रपुज = पु० ताम्रञ्च त्रपु च ताभ्यां जायते जन–ड। कांस्ये भावप्र०। तस्योभयधातुजन्यत्वात् तथात्वम्।

ताम्रदुग्धा = स्त्री ताम्रं रक्तं दुग्धं निर्यासोऽस्याः। गोरक्ष दुग्धायां राजनि०।

ताम्रद्वीप = पुंन०। कर्म्म०। दक्षिणदेशस्थे द्वीपभेदे। “द्वीपं ताम्राह्वयञ्चैव पर्वतं रामकं तथा। तिमिङ्गिलञ्च स नृपं वशे कृत्वा महामतिः” भा० स० ३० अ०। सहदेवदक्षिणदिग्विजये।

ताम्रपक्षा = स्त्री सत्यभामासुतायां ताम्रजाक्षशब्दे दृश्यम्।

ताम्रपट्ट = न० ताम्रनिर्मितं पट्टम्। ताम्रमये लेखनपत्रभेदे “दद्याद्भूमिं निबन्धं वा कृत्वा लेख्यञ्च कारयेत्। आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः। पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम्। अभिलेख्यात्मनो वंश्यानात्मानञ्च महीपतिः। प्रतिग्रहपरीमाणं मानाच्छेदोपवर्णनम्। स्वहस्तकालसम्पन्नं शासनं कारयेत् स्थिरम्” याज्ञ०।

ताम्रपत्र = पु० ताम्रं रक्तं पत्रमस्य। १ जीवशाके राजनि०। २ रक्तवर्णपत्रके वृक्षमात्रे च। कर्म्म०। ३ ताम्रमये लेखन पत्रे। ४ रक्ते दले नवपल्लवे च न०।

ताम्रपर्णी = स्त्री दक्षिणदेशस्थे नदीभेदे।

“ताम्रपर्णीन्तु कौन्तेय! कीर्त्तयिष्यामि तां शृणु यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे। गोकर्ण इति विख्यातस्त्रिषु लोकेषु विश्रुतः। शीततोयो बहुजलः पुण्यस्तात! शिवः शुभः। ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः। तत्र वृक्षवृणाद्यैश्च सम्पन्नफलमूलवान्। आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसमो गिरिः। वैदूर्य्य पर्वतस्तत्र श्रीमान् मणिमयः शिवः। अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः” भा० व० ८८ अ०। तस्याः सिन्धु सङ्गमस्थाने मुक्ताजन्म यथोक्तं “ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः। ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम्” रघुः “सिंहलकपारलौकिकसौराष्ट्रकताम्रपर्णीकपारशराः” कौवेरपाण्ड्यवाटकहैमा इत्याकरा ह्यष्टौ” वृ० स० ८१ अ० मुक्ताकरोक्तौ। २ शिलाभेदे च। “ताम्रपर्णी शिला राजन्! श्रीमान् मलयपर्वतः” भा० भी० ६ अ०।

ताम्रपल्लव = पु० ताम्राणि पल्लवानि यस्य। १ अशोकवृक्षे राजनि०। २ रक्तपल्लवयुक्ते वृक्षमात्रे च। कर्म्म०। ३ रक्ते पल्लवे अस्त्री।

ताम्रपाकिन् = पु० पच्यते पाकः फलपुष्पादि ताम्रः पाकः अस्त्यस्य इनि। गर्द्दभाण्डवृक्षे। रत्नमा०।

ताम्रपात्र = न० ताम्रस्य विकारः अण् कर्म०। ताम्रमये पात्रे तत्र तर्पणविधिस्तर्पणशब्दे उक्तः। “गृहीत्वौडुम्बरं पात्रम्” इत्यादि स्मृत्या तस्य संकल्पपात्रतोक्ता तत्र भोजननिषेधो मनुनोक्तो यथा “ताम्रपात्रे न भुञ्जीत भिन्नकांस्ये सलाबिले। पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत्”। तत्र घृतेतरोद्धृतसारगव्यादिभोजन- निषेधमाह स्मृतिसागरे स्मृतिः “नारिकेलजलं कांश्ये ताम्रपात्रे स्थितं मधु। गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना। ताम्रपात्रधृतं मांसं यच्च गव्यं घृतेतरत्। आमिषन्तु गवां मांसं दधि मद्यं पयो रजः। द्रव्यान्तरयुतं मांसं पयसा संयुतं दधि। पयोऽनुद्धृतसारञ्च ताम्रपात्रे न दुष्यति” उत्तरार्द्धानुसारात् “ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत्। अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके” शारदाति० वाक्यम् अनुद्धृतसारक्षीरविषयम उद्धृतसारस्यैव तत्र स्थितत्वे निषेधात् पानपात्रं च ताम्रपात्रं प्रशस्तं यथाह सुश्रुतः दद्यात् दाम्रमये पात्रे सुशीतं सुशृतं पयः”। “जलपात्र तु ताम्रस्य तदभावे मृदो हितम्” भावप०।

ताम्रपादी = स्त्री ताम्रः रक्तेः पादो मूलमस्याः ङीष्। हसपद्याम् राजनि०। तस्या हंसस्येव रक्तमूलत्वात्तथात्वम्।

ताम्रपुष्प = पु० ताम्रं पुष्पं यस्य। १ रक्तकाञ्चने जटा० २ भूमिचम्पके शब्दच०। ३ रक्तपुष्पयुक्तमात्रे त्रि०। “ताम्रपुष्पैश्च शिखरैर्दीप्यमानः सुतेजसा” हरिवं० २१७ अ०। कर्म्म०। ४ रक्ते पुष्पे न०।

ताम्रपुष्पिका = स्त्री ताम्रं पुष्पं यस्याः कप् कापि अत इत्त्वम्। रक्तत्रिवृति (लालतेउडि) राजनि०।

ताम्रपुष्पी = स्त्री ताम्रं रक्तं पुष्पं यस्याः ङीष्। १ धातकी वृक्षे २ पाटलावृक्षे च राजनि०।

ताम्रफल = पु० ताम्रं रक्तं फलमस्य। १ अक्षोटकवृक्ष। राजनि०। २ रक्तफलयुक्ते वृक्षमात्रे त्रि०। कर्म्म०। ३ रक्ते फले न०।

ताम्रमूला = स्त्री ताम्रं रक्तं मूलं यस्या अजादेराकृतिगणत्वात् टाप्। १ दुरालभायां २ लज्जालौ च राजनि०। ३ कच्छुरावृक्षे (खिराइ)रत्नमाला। ४ रक्तमूलके वृक्षमात्रे त्रि०। कर्म्म०। ५ रक्ते मूले न०।

ताम्रयोग = पु० चक्रदत्तोक्ते औषधभेदे तद्विधानादि तत्रोक्त यथा “स्थाल्यां संमर्द्य दातव्यौ माषिकौ रसगन्धकौ। नखक्षुण्णं तदुपरि तण्डुलीयं द्विमाषिकम्। ततो नैपालताम्रादि पिधाय सुकरालितम्। पांशुना पूरयेदूर्द्ध्व सर्वां स्थालीं ततोऽनलः। स्थाल्यधो नालिकां यावद्देयस्तेन मृतस्य च। ताम्री ताम्रस्य रत्त्येका त्रिफलाचूर्णरत्तिका। त्र्यूषणस्य च रत्त्येका विडङ्गस्य च तन्मधु। घृतेनालोद्ध्य लेढव्यं प्रथमे दिवसे ततः। रत्तिवृद्धिः प्रतिदिनं कार्य्या ताम्रादिषु त्रिषु। स्थिरा विडङ्गरत्तिस्तु यदा भेदो विवक्षितः। तदा विडङ्गन्त्वधिकं दद्याद्रत्तिद्वयं पुनः। द्वादशाहं योगवृद्धिस्ततो ह्रासक्रमोऽप्ययम्। ग्रहणीमम्लपित्तञ्च क्षयं शूलञ्च० सर्वदा। ताम्रयोगो जयत्येष बलवर्णाग्निवर्द्धनः”।

ताम्ररसायनी = स्त्री ताम्ररसस्य रक्तनिर्यासस्यायनी। गोरक्षदुग्धायां जटाधरः।

ताम्रलिप्त = पु० देशभेदे। सोऽभिजनोऽस्य तस्य राजा बा अण्। तद्देशवासिनि तन्नृपे च बहुषु अणो लुक्। स च देशः प्राचीस्थः। “ताम्रलिप्तञ्च राजानं कर्वटाधिपतिं तथा” भा० स० २९ अ०। भीमप्राचीदिग्विजये। “वङ्गाः कलिङ्गां मगधास्ताम्रलिप्ताः सपुण्ड्रकाः” भा० स० ५१ अ०। खार्थे क। तत्रार्थे “किराताः कर्वराः सिद्धाः वैदेहास्ताम्रलिप्तकाः” भा० भी० ७ अ०। जनपदोक्तौ।

ताम्रवर्ण = पु० ताम्रो रक्तो वर्णोऽस्य। १ पल्लिवाहवृक्षे तृणभेदे राजनि०। २ जटायां स्त्री शब्दच०। ३ ताम्रवर्णयुतमात्रे त्रि०। कर्म्म०। ४ रक्ते वर्णे पु०।

ताम्रवल्ली = स्त्री कर्म्म०। १ मञ्जिष्ठायाम् शब्दच० २ चित्र कूटदेशप्रसिद्धे लताभेदे राजनि०। ३ रक्तलतामात्रे च।

ताम्रवीज = पु० ताम्रं वीजं यस्य। ३ कुलत्थे राजनि०। ३ रक्तवीजके वृक्षमात्रे त्रि०। कर्म०। ३ रक्ते वीजे न०। ४ कुलत्थिकायां स्त्री शब्दार्थचि०।

ताम्रवृक्ष = पु० कर्म्म०। १ रक्तचन्दनवृक्षे २ कुलत्थे च रत्नमा० ३ रक्तवर्णके वृक्षे पु०।

ताम्रवृन्त = पु० ताम्रं वृन्तमस्य। १ कुलत्थे, स्त्रीत्वमपि टाप् त्रिका०। २ रक्तवृन्तके वृक्षमात्रे त्रि०। कर्म्म०। ३ रक्ते वृन्ते न०।

ताम्रशिखिन् = पु० ताम्रा रक्ता शिखास्त्यस्य इनि। कुक्कुटे जटाधरः। ब० व०। ताम्रशिख इत्यपि तत्र। ताम्रशिखायुक्ते च त्रि०।

ताम्रसार = न० ताम्रं रक्तं सारमस्य। १ रक्तचन्दनवृक्षे। रत्नमाला। ३ रक्तसारके वृक्षमात्रे त्रि०। कर्म्म०। ३ रक्ते सारे पुंन०।

ताम्रसारक = पु० ताम्रो रक्तः सारोऽस्य कप्। १ खदिरे राजनि०। ३ रक्तचन्दनवृक्षे च। २ तत्काष्ठे न० शब्दार्थचि०।

ताम्रसारिक = पु० ताम्रः सारोऽस्त्यस्य ठन्। १ रक्तखदिरे, २ रक्तचन्दने च शब्दाष्टचि०

ताम्रा = स्त्री ताम्र + टाप्। १ सैंहिल्यां २ ताम्रवल्ल्यां शब्दमा०।

ताम्राख्य = पु० उपद्वीपभेदे शब्दमाला। ताम्रद्वीपे।

ताम्राक्ष = पुंस्त्री ताम्रे अक्षिणी यस्य षच् संमा०। १ कोकिले त्रिका० स्त्रियां षित्त्वात् जातित्वाच्च ङीष्। २ रक्तेक्षण- युक्ते त्रि० स्त्रियां षित्त्वात् ङीष्। ३ विशाला यत्र ताम्राक्षैः पूर्णचन्द्रसिभाननैः। वर्षाभूः कीर्य्यते” भा० क० ४६ अ०।

ताम्राभ = न० ताम्रस्य आभेवाभा यस्य। १ रक्तचन्दने शब्दच०। ताम्रा रक्ता आभा यस्य। २ रक्तवर्णाभायुक्ते त्रि० “रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ। कबन्धैः संवृत सर्व ताम्राभैः खमिवावृतम्” भा० द्रो० ११९ अ०।

ताम्रारुण = न० तीर्थभेदे “ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः। अश्वमेधमवाप्नोति ब्रह्मलोकञ्च गच्छति” भा० व० ८४ अ०।

ताम्रार्द्ध = पु० ताम्रस्यार्द्धोऽशभेद उत्पादकोऽस्यं। कांस्ये त्रिका०

ताम्रावती = स्त्री ताम्रमाधेयत्वेनाऽस्त्यस्य मतुप् मस्य वः संज्ञायां दीर्घः। ताम्राकरं नैदीभेदे “ताम्रावती बेत्रवती नद्यस्तिम्रोऽथ कौशिकी” भा० व० २२१ अ०।

ताम्राश्मन् = पु० नि० कर्म्म०। पद्मरागे “ताम्राश्मरश्मिच्छुरितैर्नखाग्रैः” मार्घः। “ताम्राश्मनां पद्मरागाणाम्” मल्लिना०।

ताम्रिक = त्रि० ताम्रं तत्पात्रादिनिर्माणं शिल्पमस्य ताम्रस्येदं वा ठञ्। १ कांस्यकारे २ सङ्कीर्णजातिभेदे पुंस्त्री० स्त्रियां ङीष्। ३ ताम्रसम्बन्धिनि त्रि०। “कार्षिके ताम्रिके पणः” अमरः। “कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः” मनुः। “निष्काः सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः” माज्ञ०। ४ गुञ्जायां स्त्री टाप् राजनि०। ५ वांद्यभेदे शब्दार

ताम्री = स्त्री ताम्रस्य विकारः अण् ङीप्। वाद्यभेदे० त्रिका०।

ताय = पालने विस्तारे च भ्वा० आत्म० सक० सेट्। तायते अतायि–अतायिष्ट। तताये। ऋदित्। णिच् अततायत्–त। तायितः तातिः “उभौ मायां व्यातायेताम्” भट्टिः। “सरसि संताय्यमाने” यजु० ३९। ५। घञ्। तायः वृषा० आंद्युदात्तः। ल्युट्–तायनम् “वृत्तिसर्गंतायनेषु क्रमः” पां०।

तायिक = त्रि० ताये वृद्धौ साधु ठञ्। तर्ज्जिकांभिधदेशे हेमच०

तायु = पु० ताय–उण्। चौरे स्तेने निघण्टुः “अपत्ये तायवो यथा नक्षत्रां” ऋ० १। ५०। २।

***