तरि(री) = स्त्री तॄ–करणे इ। १ नौकायाम्, २ वसनपेटके, इवसनदशायाञ्च हेमच०। “जीर्णा तरिः सरिदतीव गभीरनीरा” उद्भटः। “संसारसागररवावर्त्ततरिकाष्ठाय विष्णवे” भा० अनु० ४७ अ०। वा ङीप्। “तरीषु तत्रत्यमफल्गु भाण्डम्” माघः।

तरिक = पु० तराय तरणाय हितः बा० ठन्। १ प्लवे त्रिका० २ नौकायां स्त्री हारा०। तरे तरणार्थं देयशुल्कग्रहणेऽधिकृतः ठन्। ३ तरणशुल्कग्रहणाधिकारिणि। “तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश” याज्ञ०। “तीर्य्यतेऽनेन तरो नावादिस्तज्जन्यम् शुल्कं तद्ग्रहणेऽधिकृतस्तरिकः” मिता०।

तरिणी = स्त्री तरस्तरणं कार्य्यतयास्त्यस्याः इनि ङीप्। नौकायाम् हेमच०।

तरिण्य = तरिण + गतौ कण्ड्वा० यक् प० सक० सेट्। तरिण्यति अतरण्यी(णी)त्।

तरिता = स्त्री तरो जातोऽस्याः तारका० इतच्। १ तर्जन्यां शब्दच०। २ गृञ्जने। (गा~जा) तन्त्रम् “संविदा कालकूटञ्च ताम्रकूटञ्च धुस्तुरम्। अहिफेनं खर्जुरसस्ताडिका तरिता तथा” कुलार्णवतन्त्रम्।

तरित्र = न० तरत्यनेन तॄ–ष्ट्रन्। तरणसाधने नौकादौ। “अतरित्रानिव जले बाहुभिर्मामका रणे। पश्यन्तस्ते परांस्तत्र” भा० उ० ६२ अ०।

तरिरथ = पु० तरेः रथ इव चालकत्वात्। अरित्रे हारा०।

तरी = स्त्री तरि + ङीप्। १ तरिशब्दार्थे २ धूमे च त्रिका० ३ द्रोण्यां जटाधरः। ४ वस्त्रदशायां मेदि०।

तरीयस् = त्रि० अतिशयेन तरीता ईयमुन् तृणो लोपः। अतिशयेन तारके “स नभस्तरीयानिषरः परिज्मा” ऋ० ५। ४१। १२। स्त्रियां ङीप् इष्ठन्। तरिष्ठोऽप्युक्तार्थे त्रि०।

तरीष = पुंन०। तॄ–ईषन्। १ शुष्कगोमये २ नौकायाञ्च उज्वलद० ३ शोभनाकारे भेले ४ व्यवसाये उणा० ५ समुद्रे ६ समर्थे च संक्षिप्तसा०। ७ स्वर्गे पु० ८ इन्द्रकन्यायां स्त्री मेदि०।

तरीषन् = पु० तॄ–ईषन् छन्दसि नकारस्य नेत्त्वम्। तरणे “विश्वा आशास्तरीषणि” ऋ० ५। १०। ६ “तरीषणि तरणे” भा० “बहुलवचनात्नानोऽल्लोपः” माधवः।

तरु = पु० तरन्त्यनेन नरकमारोपकाः तॄ–उन्। १ वृक्षे अमरः। “तरवोऽभिनेदुः” भाग० १। २। ३ “मुनिर्वनतरुच्छायां देव्या तया सह शिश्रिये” रघुः। “तरुषु चुचुवुरुच्चैः पक्षिणश्चानुकूलाः” भट्टिः। “उपरिजतरुजानि याचमानाः” माघः। २ तारके त्रि० “भूर्भुवःस्वस्तरुस्तारः” विष्णुस० भूर्भुवःस्वस्तरुः लोकत्रयतारकः” भा० ३ तरुविकारे च। “संजर्मुराणस्तरुभिः सुते गृभम्” ऋ०५। ४४। ५ “तरुभिस्तरुविकारैर्ग्रहैः”।

तरुकूणि = पु० तरौ कूणयति कूणि–इन् ७ त०। वाग्गुद खगे त्रिका०।

तरुक्ष = त्रि० तॄ–वा० उक्षन्। १ तारके २ गवाश्वादीनां पालनाधिकृते च। “विप्रस्तरुक्ष आददे” ऋ० ८। ४६। ३२। “तरुक्षे गवाश्वादीनां तारके गवाद्यधिकृते वा” भा०।

तरु(ष)खण्ड = पु० तरूणां समूहः तरु + ख(ष)ण्ड। वृक्षसमूहे एवं वृक्षख(ष)ण्डादयोप्यत्र। “द्रुम(ष)खण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत्। एष मेघ इवाकाशो वृक्षख(ष)ण्डः प्रकाशते” रामा० कि० १२ अ०। “तरुख(ष)ण्डमध्ये” पञ्चत०। कदलीख(ष)ण्डः। भा० वा०

तरुजीवन = न० जीव्यतेऽनेन जीव–क्ररणे ल्युट् ६ त०। वृक्षमूले शब्दच०।

तरुण = न० तृ–उनन्। १ कुब्जपुष्पे (सेओति) मेदि० २ स्थूलजीरके ३ एरण्डवृक्षे पु० राजान०। ४ यूनि ५ नवे च त्रि० मेदि० “स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा” भा० वि० ३३ अ०। “तरुणं सर्षपशाकं नवोदनं पिच्छिलानि च दधीनि” छन्दोम०। “वासो वसाना तरुणार्करागम्” कुमा०। “स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम्” रसगङ्गा०। “तरुणशकलमिन्दोर्विभ्रती शुभ्रकान्तिः” सरस्वतीध्यानम्। तरुणस्य भावः इमनिच्। तरुणिमन् तरुणभावे पु०। “वतेन्दुवदनातनौ तरुणिमोद्गमो मेदते” काव्यप्र०। त्व तरुणत्व न०। तल् तरुणता स्त्री ष्यञ् तारुण्य न० तत्रार्थे। “तारुण्यस्य विलासः” सा० द०।

तरुणज्वर = पु० कर्म्म०। “आसप्तरात्रं तरुणं ज्वरमायुर्मनीषिणः” इति चक्रद० उक्ते सप्तरात्रमध्यजाते ज्वरे।

तरुणदधि = न० कर्म्म०। सद्योजाते दधनिं। “शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि। प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट्” चाणक्यम्।

तरुणाय = अतरुणस्तरुणो भवति भृशा० अभूततद्भावे क्यङ् अतरुणस्य तरुणताप्राप्तौ अक० आत्म० सेट्। तरुणायते अतरुणायिष्ट। “उडुम्बररसं पीत्वा वृद्धोऽपि तरुणायते” सुश्रुतः। “वसुदेवो जरां त्यक्त्वा वृद्धोऽपि तरुणायते” हरिवं० २७ अ०।

तरुणी = स्त्री तरुण + मध्यमवयोवाचित्वात् ङीष्। १ युबत्यां स्त्रियां “व्याकीर्णमाल्यकवरां कवरीं तरुण्याः”। “स्तनौ तरुण्यः परिवव्रुरेनम्” माघः। २ घृतकुमार्य्यां ३ दन्तीवृक्षे ४ चिडानामगन्धद्रव्ये ५ कुब्जवृक्षे (सेउती) च राजनि०।

तरुणीकटाक्षमाल = पु० तरुणीनां कटाक्षाणां माला यत्र प्रियत्वात्। १ तिलकवृक्षे राजनि०। ६ त०। २ तरुणीकटाक्षाणां श्रेणौ च स्त्री।

तरुतल = न० ६ त०। १ वृक्षमूले। “नोच्चैर्यदा तरुतलेषु ममुस्तदानीम्” माघः। २ तरुस्वरूपे च।

तरु(रू)तृ = त्रि० तॄ–तृच् “ग्रसितस्कभितेत्यादिना” पा० नि० उट् ऊट् वा। तारके। “सहाबालं तरुतार रथानाम्” “तरुतारं तारयितारम्” सिरु० १०। ८। “यो विप्रैर्वाजं तरुता” १। १२९। २।

तरुतु(तू)लिका = स्त्री तरौ तोलयति दोलयति वा तनुम्, तुल–उन्मितौ दुल–उत्क्षेपे वा ण्वुल् टाप् कापि अतैत्त्वम् पृषो०। (वादुड) खगभेदे हारा०। तस्य वृक्षे स्वदेहस्य तो(दो)लनात् तथात्वम्।

तरुत्र = त्रि० तॄ–बा० उत्र। तारके। “साहवास्तरुत्रो अत्यन्निकृष्टीः” ऋ० ४। २१। २ “तरुत्रस्तारकः” भा०।

तरुनख = पु० तरोर्नख इव क्षतसाधनत्वात्। कण्टके हारा०

तरुभुज् = पु० तरुं भुङ्क्ते भुज–क्विप् ६ त०। (परगाछा) वन्दाके राजनि०।

तरुमृग = पु० स्त्री तरौ मृग् इव तत्र धावकत्वात्। वानरे शब्दच० स्त्रियां जातित्वात् ङीष्।

तरुराग = न० तरूणां रागोरक्तता यस्मात् ५ ब०। नवपल्लवे हारा०।

तरुराज = पु० तरूणां राजा उच्चत्वात् टच् समा०। १ तालवृक्षे राजनि०। २ तरुश्रेष्ठवृक्षमात्रे च। “देवोपभोग्यमेतद्धि तरुराजसमुद्भवम्” हरिवं० १२६ अ०। आर्षे क्वचित् न टच्। “पारिजातस्य भद्रं ते तरुराज्ञोमहात्मनः” हरिवं० १२६ अ०।

तरुरुहा = स्त्री तरुषु रोहति रुह–क। १ वन्दाके (परगाछा) राजनि०। २ वृक्षरोहिमात्रे त्रि०।

तरुरोहिणी = स्त्री तरौ रोहति रुह–णिनि ङीप्। १ वन्दाके २ वृक्षरोहिमात्रे त्रि०। स्त्रियां ङीप्।

तरुवल्ली = स्त्री तरोर्वल्लीव। वन्दाके राजनि०।

तरुविलासिनी = स्त्री तरोर्विलासिनीव। नवमल्लिकायाम्। शब्दार्थचि०।

तरुश = त्रि० तरुः अस्त्यत्र लोमा० श। तरुयुक्ते

तरुशायिन् = त्रि० तरौ शेते शी–णिनि। खगमात्रे हारा० स्त्रियां ङीप्

तरुष = त्रि० तॄ–बा० उषन्। तारके। “भूरर्यः पतस्यान्तरस्य तरुषः” ऋ० ६। १५। ३। “तरुषंस्तरीता” भा०।

तरुष = हिंसायां बधकर्म्मसु “वनुष्यति तरुष्यति” निघण्टूक्तेः दिवा० प० सक० सेट्। तरुष्यति अतरोषीत्। “त्वं तूर्य्य तरुष्यतः” ८। ९९। ५। “तरुष्यतो बाधकान्” भा०। “वनुष्यतिः हन्तिकर्मा तरुष्यतिरप्येवंकर्मा” निरु० ५। २ “इन्द्रेण युजा तरुषेम वृत्तमित्यपि निगमो भवति” निरुक्तधृतश्रुतिः वेदे गणव्यत्ययः।

तरुष् = न० तरुष्यति हिनस्त्यत्र तरुष–आधारे क्विप्। युद्धे “तनूरुचा तरुषि यत् कृण्वैते” ऋ० ६। २५। ४ “तरुषि युद्धे” भा०।

तरुस् = त्रि० तॄ–उसि। तारके। “कृत्वा दग्धश्च तरुधः” ऋ० ३। २। ३ “तरुषस्तारकः” भा०

तरुसार = पु० ६ त०। १ कर्पूरे हारा०। ६ त० २ वृक्षसारमात्रे च। “सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयाणि” सुश्रु०।

तरुस्था = स्त्री तरौ तिष्ठति स्था–क। वन्दाके (परगाछा) राजनि०।

तरूट = पु० तरोः उट इव। उत्पलकन्दे “तरूदो गुरविष्टम्भी शीतलश्च मतो बुधैः” राजबल्लभः।

तरूषस् = त्रि० तॄ–बा० ऊषस्। १ तरणकुशले २ आपदुद्धारके च। “त्वं न इन्द्र राया तरूषसोग्रम्” ऋ० १। १२९। १० “तरूषसा तरणकुशलेनास्मानापद्भ्य उत्तरीतुंशक्तेन” भा०

तर्क = दीप्तौ अक० आकाङ्क्षायाञ्च वितर्के सक० चुरा० उभ० सेट्। तर्कयति ते अतितर्कत् त “एतत्तर्कय चक्रवाकहृदयाश्वासाय” प्रसन्नरा०। “तथा तर्कयामि यथानेनाचिरप्रव्रजितेन भवितव्यम्” मृच्छ०। “दक्षिणेनाथ वामेन कतरेण स्विदस्यति। इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः” भा० वि० ६१ अ०।वि + उत्प्रेक्षायां “तन्नूनं मृत्युमाप्स्यतीति वितर्कयामि” पञ्चत०।

तर्क = पु० तर्क–भावे अच्। १ आकाङ्क्षायां २ व्यभिचारशङ्कानिवर्त्तके ऊहभेदे अविज्ञातेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थे ऊहे ३ व्याप्यारोपात् व्यापकप्रसञ्जने। ४ आगमाविरोधिन्याये ५ आगमार्थपरीक्षणे ६ मीमांसारूपविचारे। ७ मानसज्ञानभेदे। ८ स्वबुद्ध्योहमात्रे “अचिन्त्याः खलु ये भावाः न तांस्तर्केण योजयेत्। नाऽप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः” वेदान्तप्र०। “आर्षं धर्मोपदेशञ्च धर्मशास्त्राविरोधिना। यस्तर्केणानानुसन्धत्ते स धर्मं वेद नेतरः” मनुः “तर्काप्रतिष्ठानात्” शा० सू०। करणे घञ्। ८ न्यायशास्त्रे “प्रायस्तर्कमधीते तनुते कुतर्कान्निबन्धमप्यत्र” दीधितिः “सुहृदस्तर्काः समस्ताः स्थमे” कुल्लू०। “यत्काव्यं मधु वर्षिधर्षितपरास्तर्केषु यस्योक्तयः” नैष०। “तर्के वा मृशकर्कशे मम समं लीलायते भारती” प्रसन्नरा०। “गदाधरविनिर्म्मिता विषमदुर्गतर्काटवी” गदा० ९ मीमांसाशास्त्रे १० अर्थवादे कर्कः। “अक्ताः शर्करा उपदधातीति विधिः श्रूयते। तत्राञ्जनसाधनं घृतं तैलं वा तन्मध्ये केनाक्ता इति संशये तेजो वै घृतमित्यर्थवादात् घृतेनाक्ता इति निर्णीयते। अतस्तर्कोऽर्थवादः। तर्को मीमांसेति कल्पतरुकारः तर्कलक्षणं गौ० सू० भाष्ये उक्तं यथा “अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः” गौ० सू०। “अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते जानीयेममर्थमिति, अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्भौ विभागेन विमृशति किं स्विदित्यमाहो स्विन्नेत्थमिति विमृश्यमानयोर्धर्मयोरेकं कारणोपपत्त्याऽनुजानाति सम्भवत्यस्मिन् कारणं प्रमाणं हेतुरिति, कारणोपपत्त्या स्यादेवमेतन्नेतरदिति तत्र निदर्शनम् योऽयं ज्ञात्वा ज्ञातव्यमर्थं जानीते तञ्च भो जानीयेति जिज्ञासा, स किमुत्पत्तिधर्मकोऽनुत्पत्तिधर्मक इति विमर्शः, विमृश्यमानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति, यद्ययमनुत्पत्तिधर्मकस्ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता, दुःखजन्यप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणमुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति स्यातां संसारापवर्गौ, उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम्, उत्पन्नः खलु ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम् उत्पन्नश्च भूत्वा न भवतीति तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति, तदेवमेकस्यानेकशरीरयोगः शरीरादिवियोगश्चात्यन्तं न स्यादिति। यत्र कारणमनुपपद्यमानं पश्यति तत्रानुजानाति, सोऽयमेवंलक्षण ऊहस्तर्क इत्युच्यते। कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति अनवधारणात् अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्या न त्ववधारयति न व्यवस्यति न निश्चिनोति एवमेवेदमिति। कथं तत्त्वज्ञानार्थ इति, तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणानुग्रहोद्भावितात् प्रसन्नादनन्तरप्रमाणसामर्य्यात् तत्त्वज्ञानमुत्पद्यत इत्येव तत्त्वज्ञानार्थ इति। सोऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितो वादे उपदिष्ट इत्यविज्ञाततत्त्वमनुजानातीति यथा सोऽर्थो भवति तस्य यथाभावस्तत्त्वमविपर्य्यय यथातथ्यम्” वात्स्यायनभाष्यम्। विश्वनाथवृत्तौ चान्यथा सूत्रमिदं व्याख्यातं यथा “तर्क इति लक्ष्यनिर्देशः कारणोपपत्तित ऊह इति लक्षणम् अविज्ञाततत्त्वेऽर्थे तत्त्वज्ञानार्थमिति प्रयोजनकथनम् कारणं व्याप्यं तस्योपपत्तिरारोपस्तस्मात् ऊह आरोपः अर्थाद्व्यापकस्य, तथाच व्यापकाभाववत्त्वेन निर्णीते व्याप्यस्याहार्य्यारोपाद्योव्यापकस्याहार्य्यारोपः स तर्कः। यथा निर्वह्नित्वारोपान्निर्धूमत्वारोपः निर्वह्निः स्यान्निर्धूमः स्यादित्यादिः। ह्रदो निर्वह्निः स्यान्निर्धूमः स्यादित्यादिवारणाय व्यापकाभाववत्त्वेन निर्णीत इति। निर्वह्निः स्यात् अद्रव्यं स्यादित्यादिवारणाय व्यापस्येति तद्व्याप्यारोपाधीनस्तदारोप इत्यर्थलाभाय व्यापकेति। न चानुमानादितोऽर्थसिद्धेस्तर्कोव्यर्थ इति वाच्यम् अप्रयोजकत्वादिशङ्काकलङ्कितेन हेतुनार्थस्य साधयितुमशक्यत्वात्तदेतदुक्तमविज्ञाततत्त्वेऽर्थे तत्त्वज्ञानार्थमिति तत्त्व- निर्णयार्थमित्यर्थः। यत्र नाप्रयोजकत्वाद्याशङ्का तत्र नापेक्ष्य एवेति भावः। परे तु ऊह इत्येव लक्षणं ऊहत्वञ्च मानसत्वव्याप्योजातिविशेषस्तर्कयामीत्यनुभवसिद्धः। तर्कः किं स्वत एव निर्णायकः परम्परया वेत्यत आह कारणेति कारणस्य व्याप्तिज्ञानादेरुपपादनद्वारेणेत्यर्थः तथा च धूमो यदि वह्निव्यभिचारी स्यात् वह्निजन्यो न स्यादित्यनेन व्यभिचारशङ्कानिरासे निरङ्कुशेन व्याप्तिज्ञानेनानुमितिरिति परस्परयैवास्योपयोग इत्याहुः। स चायं पञ्चविधः आत्माश्रयान्योन्याश्रयचक्रकानवस्थातदन्यवाधितार्थप्रसङ्गभेदात्। स्वस्य स्वापेक्षित्वेऽनिष्टप्रसङ्ग आत्माश्रयः स च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा यथा यद्ययं घट एतद्घटजन्यः स्यात्तदैतद्घटानधिकरणक्षणोत्तरवर्त्ती न स्यात्, यद्ययं घट एतद्घटवृत्तिः स्यात् एतद्घटव्यापो न स्यात् यद्ययं घट एतद्घटज्ञानाभिन्नः स्यात् ज्ञानमामग्रीजन्यः स्यात् एतद्घटभिन्नः स्यादिति वा सर्वत्रापाद्यम् तदपेक्षापेक्षित्वनिबन्धनोऽनिष्टप्रसङ्गोऽन्योन्याश्रयः सोऽपि पूर्ववत्त्रेधा। तदपेक्ष्यापेक्ष्यापेक्षित्वनिबन्धनोऽनिष्टप्रसङ्गःचक्रकं चतुःकक्षादावपि स्वस्य स्वापेक्ष्यापक्ष्यापेक्षित्वसत्त्वान्नाधिक्यम्। अस्यापि पूर्ववत्त्रैविध्यम्। अव्यवस्थितपरम्परारोपाधीनानिष्टप्रसङ्गोऽनवस्था यथा यदि घटत्वं घटजन्यत्वव्याप्यं स्यात् कपालसमवेतत्वव्याप्यं न स्यात्। तदन्यबाधितार्थप्रसङ्गस्तु धूमो यदि बह्निव्यभिचारी स्याद्वह्निजन्यो न स्यादित्यादिः। प्रथमोपस्थितत्वोत्सर्गविनिगमनाविरहलाघवगौरवादिकन्तु प्रसङ्गानात्मकत्वात् न तर्कः किन्तु प्रमाणसहकारित्वरूपसाधर्म्यात्तथा व्यवहार इति संक्षेपः”। तर्कगन्थे जगदीशोक्तं तर्कविभागलक्षणादिकं यथा। “स चायं तर्कः पञ्चविधः आत्माश्रयान्योऽन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्थकप्रसङ्गभेदादित्याचार्य्याः। तत्र स्वापेक्षापादकः प्रसङ्ग आत्माश्रयः। अपेक्षा च ज्ञप्तावुत्पत्तौ स्थितौ च ग्राह्या तत्राद्या, यथा एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यं स्यादेतद्घटज्ञानभिन्नं स्यादिति। द्वितीया घटोऽयं यद्येतद्घटजनकः स्यात् एतद्घटभिन्नः स्यादिति तृतीया चायं घटो यद्येतद्घटवृत्तिस्यत्तथात्वेनोपलभ्येतेति स्वापेक्षापेक्षितत्वनिबन्धनः प्रसङ्गोऽन्यान्याश्रयः यथा चायं घटो यद्येतद्घटजन्यः स्यादेतद्घटभिन्नः स्वात् इति उपत्तौ स्थितौ च स्वयमुदाहार्य्यम्। स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गश्चक्रकः पूर्वोक्त एवापादके जन्यपदान्तरमन्तर्भाव्योदाहरणम्। अपेक्षा त्वत्र साक्षात्परम्परासाधारणी ग्राह्या। अनवस्था पुनरप्रामाणिकी न तु प्रवाहमूलकप्रसङ्गः। यथा घटत्वं यदि यावद्घटहेतुवृत्ति स्यात् घटजन्यवृत्ति न स्यादित्यर्थः। उक्तचतुष्कान्यः प्रसङ्गः प्रमाणबाधितार्थकप्रसङ्गः सोऽपि द्विविधो व्याप्तिग्राहको विषयपरिशोधकश्च तत्राद्यो यथा घूमो यदि वह्नि व्यभिचारी स्यात्तदा वह्निजन्यो न स्यादिति द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यान्निर्धूमःस्यादित्यादिः।”

धूमादेर्व्यभिचारशङ्कानिवृत्तिद्वारा विषयस्य वह्न्यादेः निश्चायकत्वेन परिशोधकत्वमित्यवधेयम्। सोऽयं तर्क एकादशविध इति प्राचीननैयायिकाः स्वीचक्रुः तदनुसारेण सर्व० स० उक्तम् “स चैकादशविधः व्याघातात्माश्रयेतरेतराश्रयचक्रकानवस्थाप्रतिवन्दिकल्पनालाघवकल्पना गौरवोत्सर्गापवादवैजात्यभेदात्” इति व्याघातादीनामप्रसञ्जनरूपत्वात् न तर्करूपत्वमिति किन्तु पञ्चविधत्वमिति नव्याः। एतन्मतानुसारेणैव वृत्तौ इतरेषां मुख्यतर्कत्वनिरासेन भाक्तर्कत्वमुक्तम् द्रष्टव्यम्। तर्कस्य च व्यभिचारशङ्कानिवर्त्तकतयानुमानाङ्गत्वं तच्च खण्डनखण्डखाद्ये निराकृतं यथा “नापि विपक्षे वाधकस्तर्को वाच्यः तर्कस्य व्याप्तिमूलत्वाभ्युपगमे अनवस्थाप्रसङ्गात्। तदनभ्युपगमे मूलशैथिल्येन तर्काभासत्वापातात्। अथ ब्रूषे न शक्यमिदं वक्तुं तथा ह्यग्निधूमव्यभिचारशङ्कायां बाधकस्तर्कोऽयमभिधीयते यदि धूमोऽग्निं व्यभिचरेदकारणकः सन्नित्यः स्यात् न स्यादेव वा स चायमनुत्तरस्तर्कः तत्र शङ्कायां व्याघातापत्तेः। तदेव ह्याशङ्क्यते यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातादयोदोषा नावतरन्तीति लोकमर्य्यादा एवं सर्वत्रानुत्तरस्तर्को बाघकोऽभिधेय इति चेत् मैवम् किमित्येवं शङ्कितव्यं तद्धेतुफलभाव एव न भविष्यति। एवं तु शङ्कितव्यम् अग्निं विहायान्यस्मादपि हेतोरयमुदेष्यतीति। न च वाच्यमेवं हि सति धूमस्यैकजातित्वं न स्यादिति क्वचिदिन्द्रियजन्यत्वे क्वचिदनुमानादिजन्यत्वेऽपि ज्ञानैकजात्यवत्तदुपपत्तेः। तत्रेन्द्रियादोनामवान्तरसामान्ये साक्षात्कारित्वादौ प्रयोजकत्वं न ज्ञानतायामिति चेन्न ज्ञानत्वस्याकस्मिकत्वपरिहारार्थं तत्कारणस्यानुगतस्य भवतावश्यं वक्तव्यत्वात्। धूमेऽपि वह्नेर्विशेष एव प्रयोजकत्वस्य तद्वच्छङ्कितुं शक्य- त्वात्। न दृश्यते तावदग्निप्रयोज्यो धूमे विशेष इति च न वाच्यम् एवं हि सति तददर्शनस्यापाततो हेत्वन्तरप्रयोज्यावान्तरजात्यदर्शनेनायोग्यतया विकल्प्यत्वा दुपपत्तेः। यदा तु हेत्वन्तरप्रयोज्यो धूमस्य विशेषो द्रक्ष्यते तदासौ विकल्पिष्यत इति सम्भावनायादुर्निवारत्वात्। अस्त्यात्ममनोयोगोऽनुगतं कारणं ज्ञानोत्पत्ताविति चेन्न यद्यात्ममनोयोगादुत्पद्यमानं ज्ञानं स्यादिच्छादयोऽपि ज्ञानं प्रसज्येरन्। यदि त्वदृष्टविशेषो वा शक्तिभेदो वा ज्ञानत्वजातिर्वा ज्ञानप्रागभावो वा तत्रानुगतं कारणमुच्यते तदा तदितरत्रापि वह्निव्यभिचारे धूमस्यैकजात्यप्रयोजकतया शक्यत एव शङ्कितुम् दृष्टे व्यभिचारे युक्तमदृष्टादेरैकजात्यपरिकल्पनमिति चेत् अस्तु दृष्टे तन्निश्चयः अत्रापि व्यभिचारो न द्रक्ष्यत इत्यत्र नियामकाभावात् शङ्किष्यते एवं शङ्कमानस्य भवतो न क्वचिदनुमानं स्यादिति प्रतिवाद्यात्माद्यनुमानादिव्यतिरेकेण कथायामेव प्रवृत्त्यनुपपत्त्या स्वयं स्वीकर्तव्येष्वनुमानेष्वेतादृशशङ्काक्रमणात् सएव व्याघात इति चेन्न धूमवद्वह्नेरपि वह्निकारणविशेषानुमानस्यैव सति सदनुमानत्वप्रसङ्गात् सामग्रीसाम्येन प्रमाऽप्रमावैचित्र्य्यानुपपत्तेः। साधारणधर्मदर्शनविशेषादर्शनानां सत्यपि शङ्कायाश्चानुदये सामग्र्यां सत्यामपि कार्य्यानुदयात्परप्रतिपत्त्युत्पादानार्थं वचनादिरूपां प्रतिपत्तिसामग्रीमुत्पादयितुं यतमानस्य भवतोऽपि स्वक्रियाव्याघात स्तुल्यः। व्याघातस्यैव विशेषत्वात् तद्दर्शनेन शङ्कासामग्र्येव नास्ति प्रत्यक्षे कुतो व्याघातसाम्यमिति चेन्न तद्धि न तावत् आहार्य्यादिकारणाज्जायमानमेष्टव्यं कूटविषयस्य तस्यातिप्रसञ्जकत्वात्। कूटभिन्नः प्रसञ्जकः प्रमितस्यैव स्यादिति चेन्न तस्य तर्कावसरे निरस्यत्वात्। तस्माद्यदैतद्व्याघातरूपस्य विशेषस्य दर्शनं शङ्काप्रतिपक्षभूतमुच्यते तत् किं? प्रमाणात् कुतश्चिदुपजायमानं वक्तव्यम् तर्काद्वा। यदि प्रथमः शङ्कास्तित्वमपि तेनैव प्रमाणेनोपेयं शङ्कायां सत्यां व्याघातात् यदि च शङ्कां विनापि व्याघातः तदा शङ्क्यमानाशङ्क्यमानयोर्व्याघातस्य साम्यं सिद्धमेव। भवतु शङ्कायामपि तत्प्रमाणं किमेतावता प्रथमोपजातशङ्कामवलम्ब्यावस्थितस्य व्याघातरूपस्य विशेषस्य दर्शनात्तु शङ्कान्तरं नोत्पद्यत इति चेन्न व्याघातसत्त्वकाले तदवलम्बिकया शङ्कयैव शङ्क्यमानव्यभिचारता तस्याः शङ्कायाव्युपरमे च तदवलम्बिनो व्याघातरूपस्य निशेषस्याभावात् कः शङ्कान्तरोत्पत्तेर्वारयितेति वक्तव्यम मा नामास्तु तदा व्याघातात्मा विशेषस्तदवगमस्तदाहितो वा संस्कारस्तावदस्ति। विशेषावगमतत्संस्कारौ च शङ्काविरोधिनौ। ननु स्वरूपेण क्वचिदपि विशेषस्यावस्थानं तथेति चेन्न अयावदाश्रयभाविनो विशेषस्य पूर्वस्थितस्य यद्दर्शनं तदाहितो वा संस्कारः तस्य कालान्तरे तत्प्रतिधर्मसंशयविरोधित्वे अवयविपाकपक्षे कुम्भस्य परमाणुपाकपक्षे परम्परया तदारम्भकस्य परमाणोः पूर्वं श्यामतया ज्ञातस्य कालान्तरे सम्भवितया कस्य पाकजन्यरूपविशेषवत्तायां संशयो न स्यात्। यदि च शङ्कायां व्याघातस्तदा शङ्काश्रयस्य विशेषरूपस्य व्याघातस्य दर्शनाच्छङ्कायां शङ्कान्तरं मा भूत्। यदि तु व्यभिचाराश्रयस्तदा व्यभिचारः स्यादेव व्याघाताश्रयस्य व्यभिचारस्यापि प्रमित्यापत्तेः। अनादिसिद्धव्याप्तिकास्ते तर्का इति चेन्न तद्बुद्धेः प्रमितित्वासिद्धेः शरीरे स्वात्मप्रत्ययस्य तादृशस्यात्मप्रमात्वोपगमात् अनादित्वासिद्धेश्चोभयत्राविशेषात्। नापि यद्यत्र व्यभिचारः शङ्क्येत तदा व्याघातः स्यादित्येवं रूपात्तर्काद्व्याधातावगमः व्याघातप्रतिपादकस्य तर्कस्य मूलशथिल्ये तर्काभासत्वापातात् तादृशस्यापि व्याघातोपनायकत्वे व्याघातापत्तेश्च साम्यं शक्यत एव तर्काभासाद्भवतोऽपि व्याघात उपनेतुम्। अथ तर्कस्य व्याप्तिर्मूलभूताभ्युपगम्यते तत्रापि व्यभिचारशङ्कायां पुनरनवस्थैव तत्रापि व्याघातापादने पुनरित्यनवस्थैव। “तस्मादस्माभिरप्यस्मिन्नर्थे न खलु दुष्पठा। त्वद्गाथैवान्यथाकारमक्षराणि कियन्त्यपि। व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम्। व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः।” अव्यभिचारश्चैकपरित्यागव्यवच्छेदेनापरान्वयः समकालदृष्टे नष्टेऽदृष्टः शङ्क्यत इत्याहुः”। तर्कस्य यथा व्याप्तिनिश्चयोपयोगिता तथा अनु० चि० पूर्वपक्षीकृत्य न्यरूपि यथा “अत्रोच्यते व्यभिचारज्ञानविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकम् ज्ञानं च निश्चयः शङ्का च सा च क्वचिदुपाधिसन्देहात् क्वचिद्विशेषादर्शनसहितसाधारणधर्मदर्शनात् तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात् क्वचित् स्वतः सिद्धएव। तर्कस्य व्याप्तिग्रहमूलकत्वेनानवस्थेति चेत् न यावदाशङ्कं तर्कानुसरणात् यत्र च व्याघातेन शङ्कैव नावतरति तत्र तर्कं विनैव व्याप्तिग्रहः तथाहि घूभो यदि वह्न्यसमवहिताजन्यत्वे सति वह्निसमवहिताजन्यः स्यान्नोत्पन्नः स्वादित्यत्र किं घूमोऽवह्नेरेव भविष्यति क्वचिद्वह्निं विनापि भविष्यति अहेतुकएव वोत्पत्स्यत इति शङ्का स्यात् सर्वत्र स्वक्रियाव्याधातः स्यात् यदि हि गृहीतान्वयव्यतिरेकं हेतुं विना कार्य्योत्पत्तिं शङ्केत तदा स्वयमेव घूमार्थं वह्नेः, तृप्त्यर्थं भोजनस्य, परप्ररिपत्त्यर्थं शब्दस्य चोपादानं नियमतः कथं कुर्य्यात् तेन विनापि तत्सम्भवात् तस्मात्तत्तदुपादानमेव तादृशशङ्काप्रतिबन्धकं, शङ्कायां न नियतोपादानं, नियतोपादाने च न शङ्का तदिदमुक्तं “तदेव ह्याशङ्क्यते यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातो न भवतीति” नहि सम्भवति स्वयं वह्न्यादिकं धूमादिकार्य्यार्थं नियमत उपादत्ते तत् कारणं तन्नेत्याशङ्क्यते चेति एतेन व्याधातो विरोधः सच सहानवस्थाननियत इति तत्राप्यनवस्थेति निरस्तं स्वक्रियायाएव शङ्काप्रतिबन्धकत्वात् अतएव “व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम्। व्याधातावधिराशङ्का तर्कः शङ्कावधिः कुतः” इति खण्डनकारमतमप्यपास्तम्। नहि व्याघातः शङ्काश्रितः किन्तु स्वक्रियैव शङ्काप्रतिबन्धिकेति न वा विशेषदर्शनात् क्कचित् शङ्कानिवृत्तिरेव स्यात् न चैतादृशतर्कावतारो भूयोदर्शनं विनेति भूयोदर्शनादरः नतु स स्वतएव प्रयोजकः अतएव न तदाहितसंस्कारो न मानान्तरं तर्कस्याप्रमात्वात् तच्च न प्रत्यक्षं व्याप्तिज्ञाने हेतुः तदभावेऽपि शब्दानुमानाभ्यां तद्ग्रहात्। ननु सहचारदर्शनव्यभिचारादर्शनवद्व्यभिचारशङ्काविरहानुकूलतर्कयोर्ज्ञानं व्यभिचारिसाधारणमिति न ततोऽपि व्याप्तिनिश्चयः इति चेन्न स्वरूपसतोरेव तयोर्व्याप्तिग्राहकत्वात् सत्तर्काद्व्याप्तिप्रमा तदाभासात्तदप्रमा विशेषदर्शनसत्यत्वासत्यत्वाभ्यां पुरुषज्ञानमिव। अपरे तु यत्र तर्के व्याप्त्यनुभवोमूलं तत्र नर्कान्तरापेक्षा यत्र तु व्याप्तिस्मरणं हेतुः तत्र न तर्कान्तरापेक्षेति नानवस्था अस्ति च जातमात्राणामिष्टानिष्टसाधनतानुमितिहेतुव्याप्तिस्मरणं तदानीं व्याप्त्यनुभावकाभावात् तन्मूलानुभवमूला चाग्रेऽपि व्याप्तिस्मरणपरम्परेति। यत्त्वनादिसिद्धकार्य्यकारणभावविरोधादिमूलाः केचित्तर्का इति तन्न तत्र प्रमाणानुपयोगेऽनुमान एव पर्य्यवसानात्। नच व्याप्तिग्रहान्यथानुपपत्त्यैव तर्कस्यानादिसिद्धव्याप्तिकत्वज्ञानमिति वाच्यम् अनुपपत्तेरप्यनुमानत्वात्। अन्ये तु विपक्षवाधकतर्कादनौपाधिकत्वग्रह एव तदधीनो व्याप्तिग्रह इति तदपि न तर्कंस्याप्रमाणत्वात्। व्यभिचारादिशङ्कानिरासद्वारा प्रत्यक्षादिसहकारी स इति चेन्न अनवस्थाभयेन तर्कं विना व्याघातात् यत्र शङ्काविरहस्तत्र व्याप्तिग्रहे तर्कस्य व्यभिचारात्। यत्तु योग्यानामुपाधीनां योग्यानुपलब्ध्याभावग्रहः अयोग्यानान्तु साध्याव्याप्यत्वसाधनव्यापकत्वसाधनादभावग्रह इत्यनौपाधिकत्वं सुग्रहमिति तत्तुच्छम् अनुमानेन तत्साधनेऽनवस्थानात् प्रमाणान्तरस्याभावात्। ये चानुकूलतर्कं विनैव सहचारादिदर्शनमात्रेण व्याप्तिग्रहं वदन्ति तेषां पक्षेतरत्वस्य साध्यव्यापकत्वग्रहेऽनुमानमात्रमुच्छिद्येत अनुमानमात्रोच्छेदकत्वादेव पक्षेतरोनोपाधिरिति चेत भ्रान्तोऽसि नहि वयमुपाधित्वेन तस्य दोषत्वमाचक्ष्महे साध्यव्यापकत्वेन तद्व्यतिरेकात् पक्षे साध्यव्यावर्तकतया व्यापकव्यतिरेके व्याप्यव्यतिरेकस्य वज्रलेपाच्च। अपि च करवह्निसंयोगः शक्त्यतिरिक्तातीन्द्रियधर्मसमवायी जनकत्वादित्यत्राप्रयोजकत्वान्न साधकं तत्र व्याप्तस्य पक्षवर्मत्वे किमप्रयोजकं नाम? तस्माद्विपक्षबाधकतर्काभावान्न तत्र व्याप्तिग्रह इत्यप्रयोजकत्वमिति”। तर्कं वेत्त्यषीते वा ठञ्। तार्किक तर्कवेत्तरि तर्कशास्त्राध्येतरि च। “तार्किकशिरोमणिस्तनुते” दीधितिः।

तर्कक = त्रि० तर्क–ण्वुल्। १ तर्ककारके। २ याचके हेम०। “काभैः सन्तर्पयामास कृपणांस्तर्ककानपि” भा० शा० ४५ अ०

तर्कग्रन्थ = पु० तर्काधिकृतः ग्रन्थः शाक० त० कर्म० वा। तर्कप्रधाने ग्रन्थे “तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः” सुश्रुतः।

तर्कण = न० तर्क–भावे ल्युट्। तर्कशब्दार्थोक्ते ऊहभेदे “परक्रौर्य्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम्” सा० द०

तर्कमुद्रा = स्त्री “तर्जन्यङ्गुष्ठयोरग्रे मिथः संयोज्य चाङ्गुलीः। प्रसार्य्यबन्धनं प्राहुस्तर्कमुद्रेति तान्त्रिकाः” इत्युक्ते मुद्राभेदे “बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया” भाग० ४। ६। ३३।

तर्कविद्या = स्त्री ६ त०। गौतमोक्तानां प्रमाणप्रमेयादीनां षोडशानां पदार्थानां विद्यायां, कणादोक्तषट्पदार्थ्यादिविद्यायाञ्च। “आन्वीक्षकी तर्कविद्यामनुरक्तो निरर्थिकाम्” भा० अनु० ३७ अ०।

तर्कारी = स्त्री तर्कमृच्छति ऋ–अण् ङीप्। जयन्तीवृक्षे। अमरः।

तर्किन(ल) = तर्क–बा० इन(ल) वा। चक्रमर्दवृक्षे रत्नमाला

तर्किन् = त्रि० तर्क–णिनि। तर्ककारके पण्डितभेदे। “त्रैवेद्यो- हैतुकस्तकीं नैरुक्तोधर्मपाठकः। त्रयश्चाश्रमिणः पूर्वे परिषत् स्याद्दशावरा” मनुः।

तर्कु = पु० कृत–उ नि०। (टेको) इति ख्याते यन्त्रभेदे। त्रिका०। स्वार्थे क। तर्कुक तत्रार्थे।

तर्कुट = न० कृत–च्छेदने बा० भावे उट पृषो०। १ (काटनाकाटा) सूत्रकर्त्तनभेदे त्रिका०। करणे उट। २ तर्कौ स्त्री हारा० गौरा० ङीष्।

तर्कुपिण्ड = पु० ७ त०। तर्कुस्थितमृत्पिण्डे (टेकोर वा~टुल) जटाधरः।

तर्कुपीठी = स्त्री स्वल्पः पीठः ङीप् पीठी ६ त०। तर्कुपिण्डे हारा०।

तर्कुलासक = पु० तर्कुं लासयति चालयति लस–णिच्–ण्वुल्। तर्कुचालके यन्त्रे (चरका)। हारा०।

तर्कुशाण = पु० ६ त०। (टेकोरशाण) सामके त्रिका०।

तर्क्षु = पु० तरक्षु + पृषो०। मृगादने व्याघ्रभेदे शब्दरत्ना०।

तर्क्ष्य = पु० तृक्ष–यत् बा० गुणः। यवक्षारे रत्नमा०।

तर्ज = भर्त्सने भ्वा० पर० सक० सेट्। तर्जति अतर्जीत् ततर्ज।

तर्ज = भर्त्सने चुरा० आ० सक० सेट्। तर्जयते अततर्जत। तर्जा तर्जना “सीतामभ्यर्थ्य तर्जितः” “तया तु तर्जिताः सर्वा मुखैर्भीमा यथागतम्”। “राक्षसोऽतर्जयत्सूतं पुनश्चाढौकयद्रथम्” भट्टिः। बालं पुनर्गात्रसुखं गृह्णीयान्न चैनं तर्जयेत्” सुश्रुतः। आर्षत्वात् पदव्यत्ययः।

तर्जन = न० तर्ज–भावे ल्युट्। भर्त्सने “तरुलताङ्गुलतर्जनविभ्रमाः” माघः। चु० तर्ज–युच्। २ भर्त्सने स्त्री “यन्ता क्रमेण परिसान्त्वनतर्जनाभिः” माघः। “मधुरवचनैः सम्रूभङ्गैः कृताङ्गुलितर्जनैः” सा० द०।

तर्जनी = स्त्री तर्ज्यतेऽनया तर्ज–करणे ल्युट् ङीप्। प्रदेशिन्यां वृद्धाङ्गुष्ठसमीपस्थे अङ्गुलिभेदे। “तर्जन्यङ्गुष्ठयीर्मध्यं पितृतीर्थं प्रचक्षते” स्मृतिः। तर्कमुद्राशब्दे उदा०। मुद्राशब्दे भूरि उदा०।

तर्जनीमुद्रा = स्त्री “वाममुष्टिं विधायाथ तर्जनीमध्यमे ततः। प्रसार्य्य तर्जनीमुद्रा निर्द्दिष्टा शूलपाणिना” तन्त्रोक्ते मुद्राभेदे।

तर्जिक = पु० तर्जस्तर्जनमस्त्यत्र ठन्। देशभेदे हेमच०।

तर्ण = पु० तृण–अच्। वत्से। ण्वुल्। तर्ण्णक {??}वत्से, अमरः “कृष्णसनाथा तर्णकपङ्क्ति” छन्दोम०। सद्योजाते २ शिशौं च हेम०।

तर्णि = पु० तरत्याकाशपद्धतिं तॄ–नि करणे नि वा। १ सूर्य्ये २ प्लवे (भेला) शब्दार्थकल्पतरुः।

तर्तरीक = न० तॄ–करणे ईक फर्फरीका० नि०। २ नौकाभेदे कर्त्तरि ईक। २ पारगे त्रि० मेदि०।

तर्द्द = हिंसायां भ्वा० पर० सक० सेट्। तर्दति अतर्द्दीत्। ततर्द्द। “सेहे कपो रथाश्वांश्च रिपोस्ततर्द शाखिना”। “सुग्रीवः प्रघसं नेभे बहून्रामस्ततर्द च” भट्टिः।

तर्दू = स्त्री तर्द–तृद–वा ऊ। काष्ठनिर्मितायाम् दर्व्याम् अमरः।

तर्द्मन् = पु० तर्द्द–तृद वा मनिन्। १ चषालच्छिद्राग्रवेधे “द्व्यङ्गुलं त्र्यङ्गुलं वा तर्द्मातिक्रान्तं यूपस्य” कात्या० श्रौ० ६। १। ३०। “तर्द्मातिक्रान्तं चषालच्छिद्राग्रवेधादतिक्तान्तम्” कर्कः। आधारे मनिन्। २ तर्दनप्रदेशे च। “तर्द्मसमूते पश्चाद्भवतस्तदिमावेव” शत० ब्रा० ३। २। १। २ तर्द्मसमूते इति यथोभयोर्मांसप्रदेशयोः सम्बन्धी भवति यथा च तर्दनप्रदेशेषु पश्चाद्भागे ऊते परस्परं स्यूते भवतः तस्यैकस्योपर्यपरमास्तृणुयात्” भा०

तर्पण = न० तृप–णिच् वा ल्युट्। १ तृप्तौ २ प्रीणने च अमरः ३ यज्ञकाष्ठे हेमच०। स्नातकादिभिःप्रत्यहं कर्तव्ये पञ्चमहायज्ञान्तर्गते ४ महायज्ञभेदे स च पितृयज्ञः। पितॄणां तृप्तिहेतुत्वादस्य तथात्वम् तत्प्रकारः आ० त० उक्तो यथा “तद्द्विविधं प्रधानमङ्गञ्च। तत्राद्यमाह शातातपः “तर्पणन्तु शुचिः कुर्य्यात् प्रत्यहं स्नातको द्विजः। देवेम्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम्”। विधवामधिकृत्य काशीखण्डम् “तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः। तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम्”। द्वितीयन्तु ब्रह्माण्डपुराणीयम् “नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते। तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम्”। तर्पणाकरणे दोषमाह योगियाज्ञवल्क्यः “नास्तिक्यभावाद्यश्चापि न तर्पयति वै सुतः। पिवन्ति देहरुधिरं पितरो वै जलार्थिनः”। तर्पणमधिकृत्य ब्रह्मपुराणम् “तस्मात् सदैव कर्त्तव्यमकुर्वन् महतैनसा। युज्यते ब्राह्मणः कुर्वन् विश्वमेतद्बिभर्त्ति हि”। शङ्खलिखितौ “नेष्टकारचिते स्थाने पितृंस्तर्पयेत्”। मार्कण्डेयपुराणम् “यच्च सर्व्वाय नोत्सृष्टं यच्चाभोज्यनिपानजम्। तद्वर्ज्यं सलिलं तात! सदैव पितृकर्मणि”। विष्णुः “स्रातश्चार्द्रवासा दैवपितृतर्पणमम्भःस्थ एव कुर्य्यात्। परिवर्त्तितवासाश्चेत्तीर्थमुत्तीर्य्य”। अत्रापि तीर्थे विशेषमाह मत्स्यपुराणे “तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः। सदा न हस्तेनैकेन गृहे श्राद्धं समिष्यते”। अत्र जलस्थैरित्यनेन स्थलस्थानामपि जलस्थत्वं नियम्यते। ततश्च “अन्तरुदक आचान्तोऽन्तरेव पूतो भवति। बहिरुदके आचान्तो बहिरेव पूतो भवति तस्मादन्तरेकं वहिरेकञ्च पादं कृत्वा आचामेत् सर्वत्र शुद्धो भवति” इति पैठीनसिवचनात् जलस्थैकचरणकृताचमनेनोभयकर्म्मार्हत्वात् तर्पणकाले तीर्थे जलैकचरणेन भवितव्यम् अन्यत्र त्वनियमः। तद्रूपाणां जले तर्पणमनिषिद्धमिति। स्थलस्थतर्पणे आग्नेयपुराणम् “प्रागग्रेषु सुरांस्तृप्येन्मनुष्यांश्चैव मध्यतः। पितॄंश्च दक्षिणाग्रेषु दद्यादिति जलाञ्जलीन्”। अशुचिदेशे तु विष्णुः “यत्राशुचिस्थलं वा स्यादुदके देवतापितृन्। तर्पयेत्तु यथाकाममप्सु सर्वं प्रतिष्ठितम्”। वृहस्पतिः “ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्याञ्चाध्यात्मिकीं जपेत्। जप्त्वाथ प्रणवं वापि ततस्तर्पणमाचरेत्”। एतच्च तर्पणं ब्रह्मयज्ञानन्तरं छन्दोगेतरपरम्। तेषान्तु वैश्रवणाय चोपजाय इत्यन्तसूर्य्योपस्थानानन्तरं गोभिलेन तर्पणाभिघानात्। “आप्लवने तु संप्राप्ते तर्पणं तदनन्तरम्”। “गायत्रीञ्च जपेत् पश्चात् स्वाध्यायञ्चैव शक्तितः”। आप्लवने तु संप्राप्ते गायत्रीं जपतः पुरा। तर्पणं कुर्वतः पश्चात् स्नानमेव वृथा भवेत्” इतिगोभिलीयवचनाभ्याञ्च। दक्षः “प्रादेशमात्रमुद्धृत्य सलिलं प्राङ्मुखः सुरान्। उदङ्मनुष्यांस्तृप्येत पितृन् दक्षिणतस्तथा। अग्रैस्तु तर्पयेद्देवान् मनुष्यान् कुशमध्यतः। पितृंस्तु कुशमूलाग्रे विघिः कौशो यथाक्रमम्”। एवञ्च “गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत्” इति यमवचनस्थगोशृङ्गपदं प्रादेशमात्रपरम्। उद्धृतोदके तु हारीतः “पात्राद्वा जलमादाय शुचौ पात्रान्तरे क्षिपेत्। जलपूर्णेऽथ वा गर्त्ते न स्थाने तु विवर्हिषि”। अत्र यद्धि यदुपक्रम्य श्रुतं यच्च येन समं समभिव्याहृतं तदेव तत्रैवाङ्गं नान्यदिति बोध्यं तदङ्गं इतरत्समभिव्याहारप्रकरणाभ्यामिति गोतमसूत्रात् तेन पद्मपुराणीयस्नाने तदुक्तमेव तर्पणम्। “तद्यथा व्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम्। देवायक्षास्तथा नागा गन्धर्वाप्सरसोऽसुराः। क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भगाः खगाः। विद्याधरा जलाधारास्तथैवाकाशगामिनः निराहाराश्च ये जीवाः पापे धर्मेरताश्च ये। तेषामाप्यायनायैतद्दीयते सलिलं मया”। एतेनैकाञ्जलिरिति सर्वेषां मतम्। “कृतोपवीती देवेभ्यो निवीती च भवेत्ततः। मनुष्यां स्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा। सनकश्च सनन्दश्च तृतीयश्च सनातनः। कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा। सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा। मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्। प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च। देवान् सर्वानृषीन् सर्वांस्तर्पयेदक्षतोदकैः। अपसव्यं ततः कृत्वा सव्यं जानु च भूतले। अग्निष्वात्तांस्तथा सौम्यान् हविष्मतस्तथोष्मपान्। सुकालिनो बर्हिषद आज्यपांस्तर्पयेत्ततः। तर्पयेच्च पितृन् भक्त्या सतिलोदकचन्दनैः। दर्भपाणिस्तु विधिना हस्ताभ्यां तर्पयेत्ततः”। अत्र केचित् पितृधर्म्मातिदेशात् दिव्यपितॄणामपि अञ्जलित्रयदानम्। तदसत् “कव्यवालं नलं सौम्यं यममर्य्यमणन्तथा। अग्निष्वात्ताः सोमपाश्च वर्हिपदः सकृत् सकृत्” इति कृन्दोगपरिशिष्टेन विशिष्टैकाञ्जलिविधानात्। “पित्रादीन्नामगीत्रे च तथा मातामहानपि। सन्तर्प्य भक्त्या विधिवदिमं मन्त्रमुदीरयेत्। येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः। ते तृप्तिमखिलां यान्तु ये चास्मत्तोयकाङ्क्षिणः”। अत्र ब्रह्मादिचतुर्षु तर्पणप्रयोगाकाङ्क्षायां गोभिलयाज्ञवल्क्योक्तप्रयोगविधिर्ग्राह्यः। स च “अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु। तृप्यतामिति वक्तव्यं नाम्ना तु प्रणवादिना”। अन्वारब्धेन पश्चाल्लग्नेन अस्मादेव वचनात् तर्पणाभिलापे प्रणवादित्वं तृप्यतामिति च लभ्यते। ततश्च ओं ब्रह्मा तृप्यतामिति प्रयोगः। देवा इत्यादि मयेत्यन्तेन मन्त्रलिङ्गादेकाञ्जलिः। तथा सनक इत्यादि सदा इत्यन्तेनैकाञ्जलिः एवं पुनरपि। “एकैकमञ्जलिं दत्त्वा द्वौ द्वौ तु सनकादयः। अर्हन्ति पितरस्त्रींस्त्रीन् स्त्रियस्त्वेकैकमञ्जलिम्” इति व्यासगोभिलसूत्रवचनात्। नतु द्वौ द्वाविति वीप्साश्रुतेः सनकादिप्रत्येक एव द्व्यञ्जलिरिति वाच्यं प्रत्येकपक्षे द्वौ द्वौ समुदायपक्षे तृप्त्यनुरोधेन तथैव युक्तत्वात्। अत्राञ्जलिपदं प्रागुक्तान्वारब्धेनेति श्रवणात्तथाविधहस्तद्वयपरम् तद्वैकल्पिकाञ्जलिपरं वा देवादिपक्षे। पितृपक्षे तु “तौ युतावञ्जलिः पुमान्” इत्येतत्परं पद्मपुराणीयतर्पणपक्षे तु पितृपक्ष एव हस्ताभ्यामिति श्रुतेस्तथैबाञ्जलिः। अन्यत्र नाञ्जलिरित्यवगम्यते। आचारमाधवीये प्रचेताः “मातृमुख्यास्तु यास्तिस्नस्तासां दद्यात्रिरञ्जलीन्”। इति। पराशरभाष्ये सनकादिदिव्यमनुष्याणां तर्पणादिकं सामगेन प्राङ्मुखेन तदितरेणोदङ्मुखेन कर्त्तव्यं तथा च परिशिष्टधृतं सामवेदीयषट्त्रिंशद्व्राह्मणं “मनुष्याणामेषा दिक् या च प्रतीचीति”। तथाच ज्योतिष्टोमे श्रूयते प्राचीं देवा अभजन्त, दक्षिणां पितरः, प्रतीचीं मनुष्याः उदीचीमसुराः अपरेषामुदीचीं मनुष्याः”। यत्तु “कृतजप्योऽन्तर्जानुरुदङ्मुखाः। दिव्येन तीर्थेन देवानुदकेन तर्पयेत्” इति शङ्खलिखितसूत्रं देवतर्पणे उदङ्मुखत्वविधायक तच्छ्रुतिविरोधात् शाख्यन्तरीयम् अशक्तविषयकम्। उदकेनेतिश्रवणात् यवादीति फलाधिक्यार्थं व्यवहारोऽपि तथा। यत्तु “निवीती हन्तकारेण मनुष्या~स्तर्पयेदथ। कुशस्य मध्यदेशेन नृतीर्थेन उदङ्मुखः” लघुविष्णुनाहन्तप्रयोगेण जलदानमुक्तं तत् सनकादिप्रत्येकतर्पणे यथा “सनकस्तृप्यतां तस्यैतदुदकं हन्त” इत्यादौ न तु पद्मपुराणीयमिलिततर्पणे “दत्तेनाम्बुना” अनेन दत्तस्य पुनस्त्यागासम्भवात्। नृतीर्थेन कनिष्ठाङ्गुलिमूलेन “प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत् पृथक्” इति विष्णुपुराणीयैकवाक्यत्वात्। गरीच्यादि ऋषितर्पणन्तु अङ्गुल्यग्रेण “अङ्गुल्यग्रमार्षम्” इति यमवचनात् एवञ्चार्षदेवतीर्थयोरङ्गुल्यग्ररूपैकदेशत्वसाधर्म्येण। मरीच्यादिंतर्पणे तु दिगाद्याकाङ्क्षायां देववदिति। अतएव योगियाज्ञवलक्यवचने सनकानित्यत्र मनुष्यानिति विशेषणं दत्तम्। ब्रह्माद्यानित्यत्र देवानिति विशेषणं दत्तमिति व्यवहारोऽपि तथा। मरीचिः “सौवर्णेन तु पात्रेण ताम्ररूप्यमयेण वा। औडुम्बरेण खड्गेन पितॄणां दत्तमक्षयम्। विना रूप्यसुवर्णेन विना ताम्रमयेण वा। विना तिलैश्च दर्भैश्च पितॄणां नोपतिष्ठते”। एतच्च समग्राभावे बोव्यं नतु एकस्याभावे शङ्खः। “सौवर्णेन तु पात्रेण राजतेनौडुम्बरेण च। खड्गपात्रेण शङ्कुना वाप्युदकं पितृतीर्थं स्पृशन् दद्यात्”। शङ्कुः सुवर्णकीलकः। “अक्षतोदकैर्यवाद्भिस्तर्पयेद्देवान् सतिलाभिः पितृंस्तथा” इति छन्दोगपरिशिष्टेनापि पितृपक्षे तिलोदकमात्रविधानात्। पद्मपुराणे चन्दनविधानं फलाधिक्यार्थम्। अपसव्यं प्राचीनावीतित्वम्। उपवीतित्वम् प्राचीनावीतित्वञ्चाह गोभिलः “दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलम्बनं भवति एवं यज्ञोपवीती भवति। सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति सव्यकक्षमवलम्बनं भ्वति एवं प्राचीनावीती भवति” इति। प्रतिष्ठापयति यज्ञोपवीतमिति शेषः। तथाचामरसिंहोऽपि “उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे। प्राचीनावीतमन्यस्मिन्निवीतं कण्टलम्बितम्” इति। “सावित्री ग्रन्थिसंयुक्तं उपवीतं तवाच्युत” इति ब्रह्मपुराणीय पूजादर्शनात्। गायत्रीमन्त्रेण उपवीतं कर्तव्यमिति प्रतीयते। लौकिकास्तु सावित्रीग्रन्थिरिति वदन्ति प्रवरसंख्यया वेष्टितग्रन्थिरिति लौकिकव्यवहारः। विद्याकरधृतं “यथा यज्ञोपवीतम्”। इत्यादिवाक्यात् उत्तरीयमपि यज्ञोपवीतवत् सव्यापसव्यत्वादिना धार्य्यं विवृतं शुद्धितत्त्वे। पित्रादीत्यादिना मातामहादि त्रयपरिग्रहः। तथाच विष्णुपुराणे “त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत्। ऋषीणाञ्च यथान्थायं सकृच्चापि प्रजापतेः। पितॄणां प्रीणनार्थाय त्रिरपः पृथिवीपते!। पितामहेभ्यश्च तथा प्रीणयेत् प्रपितामहान्। मातामहाय तत् पित्रे तत्पित्रे च समाहितः। दद्यात् पित्रेण तीर्थेन काम्यञ्चान्यत् शृणुष्व मे”। स्मृतिसारे धृतम् “वामहस्ते तिलान् दत्त्वा जलमध्ये तु तर्पयेत्। स्नानसाट्यञ्चले पात्रे रोमकूंपे न कुत्रचित्”! जलतर्पणे रोमरहितप्रदेशे “वामवाहौ वस्त्राच्छादिते तिलान् संस्थाप्य मुद्रारहितदक्षिणहस्ततर्ज्जन्यङ्गुष्ठयोरन्यतरेण तिलान् गृहीत्वा वामहस्ततलेन स्थापयित्वा तर्पयेदिति मदनपारिजातः। अतएव मरीचिः “मुक्तहस्तञ्च दातव्यं न मुद्रां दर्शयेत् क्वचित्। वामहस्ते तिला ग्राह्या मुक्तहस्तञ्च दक्षिणम्”। मुक्तहस्तं प्रसारितहस्तं यथा स्यात्। एवं मुद्रा प्रदेशिन्यङ्गुष्ठयोगे सन्दंशरूपः। मुक्तहस्तञ्च दक्षिणम्” इति दक्षिणहस्तं तिलरहितं कुर्य्यात् इति नैयतकालीनकल्पतरुः। तथाच नारदीये “अङ्गुष्ठानामिकाभ्यान्तु दक्षिणस्येतरस्थितान्। तिलान् गृहीत्वा पात्रस्थान् ध्यात्वा संतर्पयेत् पितॄन्”। देवलः। “रोमसंस्थान् तिलान् कृत्वा यस्तु संतर्पयेत् पितॄन्। पितरस्तर्षितास्तेन रुधिरेण मलेन च”। वृष्टिजलसम्पर्के तर्पणनिषेधमाह वायुपुराणम् “मेघे वर्षति यः कुर्य्यात् तर्पणं ज्ञानदुर्बलः। पितॄणां नरके घोरे गतिस्तस्य भवेद्ध्रुवम्”। तथा “शूद्रोदकैर्न कुर्वात तथा मेघादिनिःसृतैः”। इति मेघादि दर्शनादिति लौमुदी। योगियाज्ञवल्क्यः “यद्युद्धृतं जलञ्चेत्तु तिलान् संमिश्रयेज्जले। अतोऽन्यथा तु सव्येन तिलाग्राह्या विचक्षणैः”। अत्र शेषार्द्धं मनदपारिजाते लिखितम्। “अन्यथा वामहस्तेन” ततस्तर्पणमाचरेदिति”। वायुपुराणम्। “तिलदर्भैस्तु संयुक्तं श्रद्धया यत् प्रदीयते। तत्सर्वममृतं भूत्वा पितृणामुपतिष्ठते”। स्मृतिः “रविशुक्रदिने चैव द्वादश्यां श्राद्धवासरे। सप्तम्यां जन्मदिवसे न कुर्य्यात्तिलतर्पणम्”। मत्स्यपुराणे “संक्रान्त्यां निशि सप्तम्यां रविशुक्रदिने तथा। श्राद्धे जन्मदिने चैव न कुर्य्यात्तिलतर्पणम्”। श्राद्धे आमावास्यातिरिक्तश्राद्धे “नीलषण्डविमोक्षेण आमावास्यां तिलोदकैः। वर्षासु दीपदानेन पितॄणामणृणो भवेत्। अमावास्यान्तु ये मर्त्याः प्रयच्छन्ति तिलोदकम्। पात्रमौडुम्बरं प्राप्य मधुमिश्रं तपोधनाः!। कृतं भवति तत् श्राद्धं रहस्यञ्च सदा भवेत्। विशेषतश्च जाह्नव्यां सर्वदा तर्पयेत् पितॄन्। न कालनियमस्तत्र क्रियते सर्वकर्मसु”। बौधायनः “न जीवत्पितृकः कृष्णैस्तिलैस्तर्पणमाचरेत्। सप्तम्यां रविवारे च जन्मर्क्षदिवसेषु च”। स्मृतिः “निषिद्धदिनमासाद्य यः कुर्य्यात्तिलतर्पणम्। रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत्”। प्रतिप्रसवमाह स्मृतिः “अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च। उपाकर्मणि चोत्सर्गे युगादौ मृतवासरे। सूर्य्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे। तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्वदा”। स्कन्दपुराणम् “तोर्थमात्रे तु कर्तव्यं तर्पणं सतिलोदकैः। योऽन्यथा तर्पयेन्मूढः स विष्ठायां भवेत् कृमिः। विशेषतस्तु जाह्नव्यां सर्वदा तर्पयेत् पितॄन्”। एतत्तु निषिद्धदिनतर्पणविधायकम्। “तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके। निषिद्धेऽषि दिने कुर्य्यात्तर्पणं तिलमिश्रितम्” इति मदनपारिजातविद्याकरराजपेयिधृतमरीचिवचनात्। तिलाभावे पितृतीर्थेन प्रतिनिधिना तर्पणम् “तिलानाभप्यभावे तु सुवर्णरजतान्वितम्। तदभावे निषिञ्चेत्तु दर्भैस्तोयैर्न चान्यथा” इति याज्ञवल्क्यात्। सुवर्णरजतान्वितं सुवर्णरजतस्पृष्टम्। अतएव “सुलभं सकलं पुण्यं यज्ञदानादिजं फलम्। गङ्गातोयैश्च सतिलैर्दुर्लभं पितृतर्पणम्” इति भविष्यपुराणे गङ्गातोयस्य दुर्लभत्वमुक्तम् न च तदभावात्तर्पणाभावः शातातपः “पितृणां पितृतीर्थेन जलं सिञ्चद्यथो- विधि। दक्षिणेनाथ गृह्णीयात् पितृतीर्थे समीपतः”। गोभिलः “गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्य कर्मणि। गोत्रस्तु तर्पणे प्रोक्तः कर्त्ता एवं न मुह्यति। सर्वत्रैव पितः प्रोक्तः पिता तर्पणकर्मणि। पितुरक्षय्यकाले तु अक्षयां तृप्तिमिच्छता। शर्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्मणि। शर्मणोऽक्षय्यकाले तु पितॄणां दत्तमक्षयम्”। कार्ष्णाजिनिः “नाभिमात्रे जले स्थित्वा चिन्तयेदूर्द्ध्वमानसः। आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम्”। योगियाज्ञवल्क्यः “नामगोत्रस्वधाकारैस्तर्प्याः स्युरनुपूर्वशः”। तेन अमुकगीत्रः पिता अमुकदेवशर्म्मा तृप्यतामेतत्तिलोदकं तस्मै स्वधेति प्रयोगः सिध्यति। एवं मातामहादौ। एष चासम्बुद्धिप्रयोगो वाजसनेयीतरपरः। तेषान्तु सम्बुन्ध्यन्ततामाह ब्राह्मणसर्वस्वे जातूकर्ण्यः “प्रमीतपितृकस्तूशन्त्वस्त्वेत्यावाह्य नामगोत्रमुदाहृत्य यावता पितृकार्य्यमसावेतत्ते उदकमिति पितृन् पितामहान् प्रपितामहान्। एकैकस्मै त्रींस्त्रीन्दद्यात्”। अत्र चासाविति नाम गृह्णातीति कात्यायनोक्तस्य नाम्नः ते इति युष्मत्प्रयोगात् सम्बुद्ध्व्यन्तता प्रतीयते तस्य सम्बुद्ध्यमानात्मवाचित्वात्। असम्बुद्धिप्रथमान्तत्वेऽनन्वयापत्तेः। ततश्चामुकगोत्र! पितरमुकदेवशर्म्म~स्तृप्यस्वैतत्ते तिलोदकं स्वधेति प्रयोगः सिध्यति। एवं मातामहानामपि। ततो मात्रादीनां षण्णां तर्पणानि। द्वादशानां मध्ये यो जीवति तं विहाय वृद्धप्रपितामहादीत् गृहीत्वा पूरयेत्। एवं प्रव्रजतिते पतिते च। ततो विमातृज्येष्ठभ्रातृपितव्यमातुलादींस्तर्पयेत्। शङ्खः “वान्धवानां कृत्वा सुहृदां तर्पयेत्” सुहृदो मित्रादयः। मित्रायाप्यसवर्णाय जलं न देयम्। “सवर्णेभ्यो जलं देयं नान्यवर्णेभ्य एव च” इति याज्ञवल्कीयात्। भीष्मायासवर्णायापि भीष्माष्टम्यां तर्पणं कार्य्यम् “ब्राह्मणाद्यास्तु ये वर्णादद्युर्भीष्माय नो जलम्। संवत्सरकृत तेषां पुण्यं नश्यति सत्तम!” इत्यादि वचनात्। मन्त्रस्तु “वैयाघ्रपद्यगोत्राय इत्यादि। ब्राह्मणेनैतत् पितृतर्पणानन्तरं कार्य्यम् अन्येन पितृतर्पणात् पूर्वम्। अत्र वीजं वर्णज्यैष्ठ्यमिति हलायुधः। अपसव्येन दक्षिणामुखेन सतिलोदकेन सकृत् कर्त्तव्यम्। ततः कृताञ्जलिः” “भीष्मः शान्तनवोवीर” इत्यादि पठेत्। ततो येऽवान्धवा बान्धवा वा इत्यादिना एका- ञ्जलिर्देयः। योगियाज्ञवल्क्यः “निष्पीडयति यः पूर्वं स्नानवस्त्रञ्च तर्पणात्। निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः। तथा “अन्नप्रकरवत्तस्य अपसव्येन पीडनम्। अन्नप्रकरवत् श्राद्धोच्छिष्टसमीपान्नविकरणवत् तस्याधोवस्त्रस्य “स्नानशाट्यान्तु दातव्या मृदस्तिस्रो विशुद्धये” इति वशिष्ठवचने अधोवस्त्रस्य दुष्टस्यैव शुद्धये मृद्दानं प्रतीयते। योगियाज्ञवल्क्यः “वस्त्रनिष्पीडितं तोयं स्नातस्योच्छिष्टभागिनः। भागधेयं श्रुतिः प्राह तस्मान्निष्पीडयेत् स्थले”। अत्र मन्त्रमाह गोभिलः “ये चास्माकं कुले जाता अपुत्रागोत्रिणो मृताः। ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीडनोदकम्”। अशक्तौ शङ्खः। “आब्रह्मस्तम्बपर्य्यन्तं जगत्तृप्यत्वितिक्रमात्। अञ्जलित्रितयं दद्यात् एतत्संक्षेपतर्पणम्”। “आब्रह्मस्तम्बपय्यन्तं देवर्षिपितृमानवाः। तृप्यन्तु सर्वे पितरो मातृमातामहादयः। अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम्। आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्”।

जन्माष्टम्यां तर्पणस्य फलं यथा “तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति। गयाश्राद्धं कृतं तेन शताव्दं नात्र संशयः” ब्रह्म० वै० श्रीकृष्णजन्म खण्डः। तर्पणञ्च देवर्षिपितृमनुष्यणं जलाञ्जलिदानेन तृप्तिसम्पादनम्। यथा “एवं स्नात्वा पितृन् देवान् मनुष्यांस्तर्पयेन्नरः। नाभिमात्रे जले स्थित्वा चिन्तये दूर्द्ध्वमानसः। आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम्। त्रींस्त्रीञ्जलाञ्जलीन् दद्यादाकाशे दक्षिणे तथा। वसित्वा वसनं शुक्लं स्थले चास्तीर्णवर्हिषि। विधिज्ञास्तर्पणं कुर्य्युर्न पात्रे तु कदाचन। यदपां क्रूरमध्यं तु यदमेध्यन्तु किञ्चन। अशान्तं मलिनं यच्च तत्सर्वमपगच्छतु। गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना। प्रक्षिपेद्दिशि नैरृत्यां रक्षोप हतये द्रुतम्। अनाह्निकन्तु यद्भुक्तं पापाद् यच्च प्रतिग्रहम्। दुस्कृतं यच्च मे किञ्चिद्वाङ्मनःकायकर्म्मभिः। पुनातु मे तदिन्द्रस्तु वरुणः स वृहस्पतिः। सविता च भगश्चैव मुनयः सनकादयः। आब्रह्म स्तम्बपर्य्यन्तं जगत् तृप्यत्विति ब्रुवन्। क्षिपेदपोऽञ्जलींस्त्रींस्तु कुर्वन् सङ्क्षेपतर्पणम्” गारुडे २१५ अ०। तर्पण विशेषस्तु गारुडे २१९ अ० वह्निपुराणे नित्या ह्नक स्नानविधाननामाध्याये च द्रष्टव्यः। जीवत्पितृकस्य तर्पणनिषेधो यथा “दर्शस्नानं गयाश्राद्ध्वं विलैस्तर्पणमेव च। न जीवत्पितृको भूप! कुर्य्यात् कृत्वाघमाप्नुयात्” कालिका० पु० ८९ अ०। कर्त्तरि ल्यु। ५ तृप्तिकारके त्रि०। “सुरभिर्घ्राणतर्पणः” अमरः। “सन्तर्पणो नाकसदां वरेण्यः” भट्टिः।

तर्पणी = स्त्री तृप–णिच–करणे ल्युट् ङीप्। गुरुस्कन्दवृक्षे शब्दमा०।

तर्पणेच्छु = पु० तर्पणमिच्छति इष उ० नि० २ त०। १ भीष्मे शब्दर०। २ तर्पणेच्छुमात्रे त्रि०।

तर्पिन् = त्रि० तृप–णिच्–णिनि। १ तर्पके प्रीणयितरि स्त्रियां ङीप् सा च २ पद्मचारिणीलतायाम् स्त्री शब्दच०।

तर्पिली = स्त्री तृप–बा० इल गौरा० ङीष्। पञ्चचकारिण्याम्। कपिलका० रस्य वा लः। तल्पिलीतिरूपान्तरं तत्रार्थे। स्वार्थे क। तर्पिलिका तत्रार्थे। तत्रापि वा रस्य लः। तल्पिलिकापि तत्रार्थे।

तर्ब = गतौ भ्वा० पर० सक० सेट्। तर्बति अतर्बीत्। ततर्ब।

तर्बट = पु० तर्बति सततं गच्छति तर्ब–अटन्। १ वत्सरे २ चक्रमर्दवृक्षे च राजनि०।

तर्म्मन् = न० तॄ–मनिन्। यूपाग्रभागे अमरः।

तर्य = पु० ऋषिभेदे। “सदापृणो यजते वि द्विषो बधीद्वाहुवृक्तः श्रुतवित्तर्य्यः” ऋ० ५। ४४। १२ “सदापृणादयः पञ्चर्षयः” इति भाष्योक्तेः।

तर्ष = पु० तृष–भावे घञ्। १ अभिलाषे २ तृष्णायाञ्च अमरः। “निवृत्ततर्षैरुपगीयमानात्” भाग० १। ८ तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्। निवर्त्तते तदा तर्षः पापमन्तर्गतं यदा” भा० शा० २०४ अ०। तॄ–कर्मणि करणे–वा स। ३ समुद्रे ४ भेलके च उज्वल०।

तर्षण = न० तृष–भावे ल्युट्। पिपासायां जटाधरः।

तर्षित = त्रि० तषों जातोऽस्य तार० इतच्। तृषिते पिपासौ त्रिका०।

तर्षुल = त्रि० तृष–बा० उलच्। तृष्णायुक्ते “ज्ञानेन्द्रियाणीन्द्रियार्थान् नोपसयन्त्यतर्षुलम्” भा० २१३ अ०।

तर्ष्यावत् = त्रि० तृषावत् वेदे पृषो०। तृष्णायुक्ते। “निरुद्धचिन्महिषस्तर्ष्यावान् गोधा” १०। २८। १०। “तर्ष्यावान् तृषावान्” भा०।

तर्हि = अव्य० तद् + र्हिल्। तस्मिन् काले इत्यर्थे। “रक्षांसि वा एनं तर्ह्यालभन्ते यर्हि न जायते” ऐत० ब्रा०। “यर्हि वाव वो मयार्थो भविता तर्ह्येव वोऽहं पुनरागन्तास्मि” तै० स०।

तल = प्रतिष्ठायां वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट्। तालयति ते तलति। अतीतलत् त अतालीत्। तालयाम् बभूय आस चकार। तताल तेलतुः तलम्।

तल = पु० न० तल–अच्। स्वरूपे “शैलेयनद्धेषु शिलातलेषु” कुमा०। “हिमधाम्नि दर्पणतले च मुहुः” माघः। “विदाङ्गुर्वन्तु महतस्तलं विद्विषदम्भसः” “तलं स्वरूपं प्रमाणं वेति” मल्लिना०। २ ज्याघातवारणे। ३ कानने ४ कार्य्यवीजे न० मेदि०। ५ गर्त्ते पु० त्रिका०। ६ पादतलस्य मध्ये हेमच०। “इदं रसातलं नाम सप्तभं पृथिवी तलम्” भा० वि० ३६० अ०। “भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम्” रघुः। ७ तालवृक्षे पु० ८ चपेटे (चड) ९ त्सरौ १० खड्गमुष्टौ ११ सव्यहस्तेन तन्त्रोवादने पु० मेदि०। १२ गोधायां पु० हेमच०।

तलक = न० तल–बा० वुन्। पुष्करिण्याम् (तलाओ) हारा०।

तलकीट = पु० वृक्षभेदे “तलकोटस्य वीजेषु पचेदुत्कारिकां शुभाम्” सुश्रुते श्वासचिकित्सायाम्।

तलताल = पु० तलेन करतलेन ताड्यते ताड–कर्मणि घञ् डस्य लः। करतलेन वादनोये वाद्यभेदे “आक्षेटयन् खेलय~श्च तलतालं च वादयन्” भा० व० १७८ अ०।

तलत्राण = न० तलं करतलं त्रायते त्रै–ल्यु करणे ल्युट् वा। करतलत्राणकारके करतलरक्षके चर्ममये गोधाभेदे “यत्रैते सतलत्राणाः सुयोधनपुरोगमाः” भा० द्रो० ११९ अ०। “विबद्धासितलत्राणः क्षात्रधर्ममनुव्रतः” भा० व० ६७ अ०।

तलप्रहार = पु० तलेन चपेटेन प्रहारः प्र + हृ–घञ् ३ त०। (चापडमारा) चपेटाधाते। “तलप्रहारमशनेः सदृशं भीमनिस्वनम्” रामा० ल० ७६ अ०।

तलमीन = पु० तले जलनिम्ने स्थितो मीनः। (चिङ्गुडि) नलमीने अमरे पाठान्तरम्।

तलयुद्ध = न० तलस्य चपेटस्याघातेन युद्धम्। चपेटाघातेन युद्धे (चडाचडि) “बालानां तलयुद्धे संग्रामः सतृयुद्धे वा” वृ० स० ४७ अ० तलशब्दे इति पाठान्तरम्।

तललोक = पु० तलस्थो निम्नस्थः भूमेस्तलस्थो लोकः। पाताले “खर्लोकपालान् खगलोकपालान्नृलोकपालांस्तललोकपालान्” भाग० २। ४६। ४३ अ०।>

तलव = त्रि० तलं हस्तादितलं वाति निहन्ति ताडयति वागतिहिंसनयोः क। तलवाद्यवादके। “तान्नृत्तायानन्दाय तलवम्” यजु० ३०। २०। “तलवं तलवाद्र्यवादनम्” वेददी०।

तलवकार = पु० सामवेदशाखाभेदे “छान्दोग्ये तवलूकारा(तल्वकारा) दिशाखाभेदेषु विलक्षणागीतिहेतवोऽक्षरविकारादय आम्नायन्ते” सा० स० भाष्यम्। तस्यैवोपनिषत्। “केनेषितं पततीत्यादि”।

तलवारण = न० तले बाहुतले वारयति ज्याघातम् वारिल्यु। ज्याघातवाणार्थे हस्ततले वद्धे (चामाटी) वर्मभेदे

तलसारक = न० तले वक्षःस्थलाधोभागे सारोबलं यस्मात् कप्। अश्वस्य वक्षोऽधोभागे बद्धरज्जुभेदे (तङ्) हेमच०।

तलहृदय = न० तलस्य हृदयमिव। पादतलस्य मध्यस्थाने हेम०

तला = स्त्री तलं ज्याघातवारणार्थत्वेनास्त्यस्याः अच्। १ ज्याघातवारणार्थे हस्तबद्धे चर्ममये पदार्थे (चामाटी) अमरे पाठान्तरम् तलाऽस्त्यस्य इनि। २ गोधायुक्ते त्रि०। “ततः कवचधारी च तली खड्गी शरासनी” भा० उद्यो० १५७ अ०।

तलाची = स्त्री तलमञ्चति अन्च्–क्विप् ङीप् अञ्चतेरल्लोपे पूर्वाणो दीर्घः। नलनिर्म्मितकटे (दडमा) हारा०।

तलातल = न० सप्तसु अधोभुवनेषु पातालभेदे “ततोऽधस्तात्तलातले मयोनाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोक्याः संचिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत् प्रसादाल्लब्धपदो मायाविनामाचार्य्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते” भाग० ५। २४। ३८ “अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालभिति” भाग० ५। २४। ११। पातालकथने।

तलिका = स्त्री तलं वक्षःस्थलतलं बन्धनस्थानत्वेनास्त्यस्य बा० ठन्। अश्वहृदयस्थरज्जुभेदे(तड्)हेमच०।

तलित् = स्त्री तडित् + डस्य लः। विद्युति शब्दार्थचि०।

तलित = न० तल + तारका० इतच्। भृष्टमांसभेदे। यथा “शुद्धमांसविधानेन मांसं सम्यक् प्रसाधितम्। पुनस्तदाज्ये संभृष्टं तलितं प्रोच्यते बुधैः। अस्य स्तणाः। “तलितं बलमेधाग्निमांसौजःशुक्रवृद्धिकृत्। तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम्” भा० प्र०।

तलिन = न० तल–इनन्। १ शय्यायां हारा०। २ विरले ३ स्तोके ४ स्वच्छे त्रि० मेदि० ५ दुर्बले त्रि० हेम०।

तलिम = न० तल–बा० इमन्। १ कुट्टिमे (छात) २ शय्यायां ३ खड्गे ५ वितानके च मेदि०।

तलुन = पु० तल–उनन्। १ वायौ २ यूनि त्रि० स्त्रियां ङीष्।

तलेक्षण = पुंस्त्री तले ईक्षणमस्य। शूकरं शब्दार्थकल्प० स्त्रियां जातित्वात् ङीष्।

तलोदरी = स्त्री तलं निम्नमुदरमस्या बह्वच्कत्वेऽपि नासिकोदरेत्यांदिविशेषोक्तेः ङीष्। कृशोदर्य्यां भार्य्यायां शब्दार्थकल्पतरुः।

तलोदा = स्त्री तले उदकं यस्या उदकस्य उदादेशः। नद्यां हारा०।

तल्क = न० तल–वा० कन् न कित्त्वम्। वने त्रिका०।

तल्प = पुंन० तल–पक्। १ शय्यायाम्, २ अट्टालिकायां, ३ दारेषु च अमरः। “स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा” मनुः। “औदुम्बरस्तल्पो भवति” तैत्ति० १। २। ६। ५ “सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार” रघुः। “यत्रातपे दातुमिवाधितल्पम्” माघः। “सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः”। “गुरुतल्पोऽभिभाष्यैनस्तप्ते सुप्यादयीमये” मनुः। “गुरोस्तल्पं तल्पं कलत्रं यस्य” प्राय० वि०। “आचार्याणीं स्वां च सुतां गच्छंस्तु गुरुतल्पगः” याज्ञ०। “पितृव्यदारगमने भ्रातृभार्य्यागमे तथा। गुरुतल्पव्रतं कुर्य्यान्नान्या निष्कृतिरुच्यते” र्सवर्त्तः “स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः” “यस्तल्पजं प्रमीतस्य क्लीवस्य व्यधितस्य वा” मनुः। तल्पे भवः यत् तल्प्य रुद्रभेदे पु० “नमस्तल्प्याय गेह्याय” यजु० १६। ४४। तल्पे साधुः यत्। तल्प्य शय्यासाधौ त्रि० “शतं तल्प्या राजपुत्रा आशापालाः” शत व्रा० १३। १। ६। २।

तल्पकीट = पु० तल्पे खट्टायां जातः कीटः शा० त०। (छारपोका) कीटभेदे शब्दार्थचि०।

तल्पक = पु० तल्पे तत्संस्कारेऽधिकृतः बा० कन्। शय्यारचनायामधिकृते दासभेदे। “सूपव्यञ्जनकर्त्तारस्तल्पका व्ययकास्तथा। प्रसाधका भोजकाश्च गात्रसंवाहका अपि” कामन्दकीयनीतौ चरभेदकथने।

तल्पन = न० तल्प इवाचरति तल्प + क्विप्–कर्त्तरि ल्यु। १ करिपृष्ठे २ पृष्ठवंशस्य मांसे च हारा०।

तल्पल = न० तल्पं तथाकारं लाति ला–क। करिपृष्ठवंशे “सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षाः” माघः “तल्पलाः पृष्ठवंशाः” मल्लि० हारावल्यां तल्पनेत्यत्र तल्पलेति वा पाठः माघे तल्पनेति वा पाठः। अन्थतरपाठः लिपिकरप्रमादकृत इत्यवधेयम।

तल्ल = त्रि० तस्मिन् लीयते ली–ड। १ तस्मिन् लीने “तज्जलानिति शान्त उपासीत छान्दोग्योप० तल्लानित्यस्य भाष्ये “तज्जत्वात् तल्लत्वात् तदनत्वाच्चेत्युक्तम् २ विले त्रिका० ३ जलाधारविशेषे (तलाओ हिन्दिभाषा) मेदि०।

तल्लज = पु० तत् प्रसिद्धं यथा तथा लजति लज–कान्तौ अच्। प्रशस्ते अयन्तु उत्तरपदस्थः “पशंसावचनैश्च” पा० कृष्णसर्पन्नित्यं समस्तः अजहल्लिङ्गश्च कुमारीतल्लज इत्यादि।

तल्लिका = स्त्री तस्मिन् लीयते ली–ड संज्ञायां कन् कापि अत इत्त्वम् (ताली) कुञ्जिकायां शब्दार्थचि०।

तल्ली = स्त्री तत् प्रसिद्धं यथा तथा लसति लस–ड गौरा० ङीष्। १ तरुण्याम् मेदि०।

तल्वकार = पु० सामवेदस्य शाखाभेदे तलवकारशब्दे दृश्यम्।

तवक्षीर = न० तु–अच् नित्यकर्म्म०। (तिखुर) ख्याते पदार्थे “तवक्षीरन्तु मधुरं शिशिरं दाहपित्तहृत्। क्षयकासकफश्वासास्रदोषं हन्ति सेवनात्” २ गन्धलतायां स्त्री राजनि०।

तवराज = पु० तु–अच् तवः पूर्णः सन् राजते राज–अच्। यवामशर्कराभेदे राजनि०।

तवराजोद्भव = पु० तवराजादुद्भवति उद् + भू–अच्। यवासशर्कराजाते खण्डभेदे। “तवराजोद्भवः खण्डो दाहतृष्णाविनाशनः। मूर्च्छामोहस्य तापस्य श्वासस्य च निवारकः। इन्द्रियतर्पणः शीतः सदा मधुर एव च” राजनि०।

तवर्ग = पु० त + वर्ग। त थ द ध न रूपेषु वर्णेषु। तत्र भवः वर्गान्तत्वात् छ। तवर्गीय तत्र भवे वर्णे।

तवस् = न० तु–असुन्। १ वृद्धे २ महति ३ बले च निघण्टुः। “अल्पादचिन्तं तवसा जघन्यः” ऋ० ३। ३०। ८ “तवसा वलेन” भा०। “तवस्तमस्तवसां वज्रवाहो!” ऋ० २। ३३। ३। “प्रवाहिनां तवसं जग्मुरग्र्यम्” ऋ० १०। २८। ७। तवसे बलाय हितं–यत्। तवस्य वलहिते बलसाधने च त्रि० “तस्मै तवस्यमनुदाति” ऋ० २। २०। ८। तवोऽस्त्यस्य मतुप् मस्य वः सान्तत्वात् मत्वर्थे न विसर्गः। तवस्वत् बलयुक्ते त्रि० “वीर उशते तवस्वान्” ऋ० ९। ९७। ४६। पक्षे विनि तवस्विन् तत्रार्थे त्रि० उभयत्र स्त्रियां ङीप्।

तवागा = त्रि० तवसा वलेन गीयते गै–कर्म्मणि क्विप् पृषो०। प्रवृद्धबलयुक्ते “सृष्टिः स सुव स्पविरं तवागाम्” ऋ० ४। १८। १० “तवागाम् प्रवृद्धवलम्” भा०।

तविपुला = स्त्री चतुर्थवर्णात् परं तगणपूर्वके विपुलाछन्दोभेदे “तोऽब्धेस्तत्पूर्वान्या भवेत्” वृ० र०। अब्धेश्चतुर्थाक्षरात् परं तगणश्चेत् तपूर्वा तविपुलानाम छन्दः इति तदर्थः।

तविष = पु० सौ० तव–“तवेर्णिद्वा” उणा० टिषच्। १ स्वर्गे २ समुद्रे च “तविषताविषावब्धिं त्रिदिवं चाहतुः क्वचित्”। “३ देवकन्यायां ४ भूमौ ५ नद्याञ्च स्त्री उज्ज्व० टित्त्वात् ङीप्। ६ वृद्धे ७ महति त्रि० निघण्टुः। ८ शक्तौ ९ व्यपसाये पु० सि० कौ० १० बलवति च त्रि०। “घनो वृत्राणां तविषो बभूथ” ऋ० ८। ९६। १८ “तविषः प्रवृद्धो बलवान्वा” भा० “अहं ह्युग्रस्तविषस्तुविष्मान्” १। १६५। ६ मेदिन्यां तवीषेति दीर्घमध्यपाठो लिपिकरप्रमादकृतः ह्रस्वमध्यपाठस्यैव प्रयोगदर्शनात् उणादिसूत्रे तथैव ष्युत्पादितत्वाच्च।

तष्ट = त्रि० तक्ष–क्त। १ तनूकृते २ द्विधाकृते, च। ३ ताडिते ४ गुणिते च।

तष्टि = स्त्री तक्ष–क्तिच्। तक्षणे।

तष्टृ = पु० तक्ष–तृच्। १ त्वष्टरि (छुतार) २ जातिभेदे ३ विश्वकर्म्मणि ४ आदित्यभेदे च रमानाथः।

तस = अलङ्कारे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। तंसयति ते तंसति अततंसत्–त अतंसीत्। ततंस “प्रतिजानामीति ते पिता गर्भे मुष्टिमतंसयत्” यजु० २३। २४ अवतंसः उत्तंसः। भ्वादित्वपक्षे अस्य आत्मनेपदित्वं केचिदिच्छन्ति तंसते अतंसिष्ट।

तस = उत्क्षेपे दिवा० पर० सक० सेट्। तस्यति इरित् अतसत् अतसीत् अतासीत्। ततास तेसतुः। उदित् तसित्वा तस्त्वा। तस्तः “यस्य तस्य विना षष्ठीं तेनेति करणं विना” उद्भटः।

तसर = पु० तन्–क्सरन्। (गुटिपोकार सुता) सूत्रभेदे उणा०

तस्कर = त्रि० तत् करोति कृ–टच् “तद्वृहतोः करपत्योः” पा० मुट् दलोपश्च। १ चौरे २ पृक्काशाके (पिडिङ्) शाकभेदे पु० रत्नभा०। ३ मदनवृक्षे पु० जटा० ४ श्रवणे “व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता” रघुः “तस्करः कर्णचौरयोरिति” रघुटीकाधृतकोषान्तरं मल्लिनाथेन तु अस्य न कर्णार्थकतां स्वीचकार किन्तु तस्य श्लोकस्यार्थान्तरमाह स्म यथा “तस्करता चौर्य्यं परस्वेभ्यः परधनेभ्यः सविषयभूतेभ्यः व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता अपहार्य्याभावात् तस्करशब्द एव अपहृतः इत्यर्थः”। ५ कोपनायां नार्य्यां स्त्री शब्दार्थकल्प० टित्त्वात् ङीप्।

तस्करस्नायु = पु० तस्करस्य पृक्काशाकस्येव स्नायुरिव नाडिका अस्याः। काकनासालतायाम् राजनि०।

तस्थिवस् = त्रि० स्था–क्वसु। स्थितवति “स पाटलायां गवि तस्थिवांसम्” “तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि” रघुः।

तस्थु = त्रि० स्था–बा० कु द्वित्वञ्च। स्थावरे “देहञ्च सर्वसंघातो जगत् तस्थुरिति द्विधा” भाग० ७। ७२। श्लो०।

तस्थुस् = पु० ब० व० स्था–बा० कुसि द्वित्वञ्च। मानवे निघण्टुः।

***