तम = खेदे अक० इच्छायां षक० दिवा० शभा० पर० सेट्। ताम्यति। इरित् अतमत्–अतनीत्। तताम तेमतुः उदित्। तमित्वा तान्त्वा तान्तः। “यस्ताम्यति विसंज्ञश्च शेते” सुश्रु०। “ताम्येयुः प्रच्युताः पृथ्य्या यथा पूर्णां नदीं नराः। अवगाढाह्यपिद्धांसः” भा० शा० ९०३० श्लो०। “यदा वै तान्तः प्राणं लभतेऽथ संजिहीते” शत० ब्रा० ४। ३। ३। ११। “न मा तमन्न श्रमोन्नत तन्द्रत्” ऋ० २। ३०। ७ लुङि रूपम्।उद् + उत्कर्षेण खेदे। “तस्योत्ताम्यतो बाणमुज्जहार बलादहम्” रामा० अयो० ६५ अ०।नि + अतिशयार्थे अक०। नितान्तम्। “नितान्तदीर्घैर्जनिता तपोभिः” “गोरोचनाक्षेपनितान्तगौरे” कुमा०।परि + भृशं खेदे। “संतप्तवक्षाः सोऽत्यर्थं दूयनात् परिताम्यति” सुश्रु०।

तम = न० ताम्यत्यनेन तम–करणे घञर्थे संज्ञायां घ। १ अन्धकारे शब्दरत्ना०। २ पादाग्रे शब्दच०। ३ तमोगुणे राजनि० ४ राहौ पु० ज्यो० ५ तमालवृक्षे पु० शब्दच०।

तमक = पु० ताम्यत्यत्र तम बा–वुन्। श्वासरोगभेदे “तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः। विशेषाद्दुर्दिने ताम्येत् श्वासः स्यात्तमकोमतः” सुश्रुतः। “क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते। त्रयः श्वासा न सिध्यन्ति तमको दुर्वलस्य च” सुश्रुतः।

तमत = त्रि० तम–काङ्क्षायाम् अतच्। तृष्णापरे उज्वल०।

तमस् = न० तम–करणादौ–असुन्। त्रिगुणात्मकप्रधानस्व गुणभेदे “सत्वं रजस्तम इति प्रकृतेर्गुणास्तैः” भाग० १। ४। भा० आश्वमेधिकपर्वणि तस्य कार्य्यभेदादिकमुक्तं यथा “ब्रह्मोवाच। तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्। नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम्। एका दशपरिक्षेपं मनोव्याकरणत्मकम्। बुद्धिस्वामिकमित्येतत्पुरमेकादशं भवेत्। त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः। प्राणेभ्यस्तिस्र एवैताः प्रवर्त्तन्ते गुणात्मिकाः। तमो रजस्तथा सत्त्वं गुणानेतान् प्रचक्षते। अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः। अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानुवर्त्तिनः। अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः। तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः। रजसश्चापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तमः। नियम्यते तमो यत्र रजस्तत्र प्रवर्त्तते। नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते। नैशात्मकं तमो विद्यात् त्रिगुणं मोहसंज्ञितम्। अधर्मलक्षणञ्चैव नियतं पापकर्मसु। प्रवृत्त्यात्मकमेवाहुः रजः पर्य्यायकारकम्। प्रवृत्तं सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम्। प्रकाशः सर्वभुतेषु लाघवं श्रद्दधानता। सात्त्विकं रूपमेवन्तु लाघवं साधुसम्मितम्। एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः। समासव्यासयुक्तानि तत्त्वतस्तान्निबोधत। संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः। स्वप्नः स्तम्भो भयं लोभः शोकः स्वकृतदूषणम्। अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता। निर्विशेषत्वमन्धत्वं जथन्यगुणवृत्तिता। अकृते कृतमानित्वमज्ञाने ज्ञानमानिता। अमैत्री विकृतीभावोह्यश्रद्धा मूढभावना। अनार्ज्जवमसङ्गत्वं कर्म पापमचेतना। गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः। सर्व एते गुणावृत्तास्तामसाः संप्रकीर्त्तिताः। ये चान्ये विहिताभावा लोकेऽस्मिन् भावसंज्ञिताः। तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः। परिवादकथा नित्यं नित्यं ब्राह्मण निन्दकाः। अत्यागश्चाभिमानश्च मोहो मन्युस्तथाऽ क्षमा। मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते। वृथारम्भा हि ये केचिद्वृथादानानि यानि च। वृथा भक्षणमित्येतत् तामसं वृत्तमिष्यते। अतिवादोऽतितिक्षा च मात्सर्य्यमतिमानिता। अश्रद्दधानताचैव तामसं वृत्तमिष्यते। एवंविधाश्च ये केचिल्लोकेऽस्मिन् पापकर्मिणः। मनुष्या भिन्नमर्य्यादास्ते सर्वे तामसाः स्मृताः। तेषां योनिं प्रवक्ष्यामि नियताः पापकर्मिणाम्। अवाङ्निरयभावाय तिर्य्यङ्निरयगामिनः। स्थावराणि च भूतानि पशवो वाहनानि च। क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः। अण्डजा जन्तवश्चैव सर्वे चापि चतुष्पदाः। उन्मत्ता वधिरामूका ये चान्ये पापरोगिणः। मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः। अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः। तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम्। यथा ते सुकृतान् लोकान् लभन्ते पुण्यकर्मिणः। अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मिणः। स्वकर्मनिरतानाञ्च ब्राह्मणानां शुभैषिणाम्। संस्कारेणोर्द्ध्वमायान्ति यतमानाः सलोकताम्। स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः। अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु। पुनरावृत्तिधर्म्माणस्ते भवन्तीह मानुषाः। पापयोनिं समापन्नाश्चाण्डालामूकचूचुकाः। वर्णान् पर्य्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम्। शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः। स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे। अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः। ऋषयो मुनयो देवानुह्यन्तेऽत्र सुखेप्सवः। तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः। मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध इष्यते। वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः। सर्वमेतत्तमो विप्राः! कीर्त्तितं वो यथाविधि”। सांख्ये अधर्म्माज्ञानावैराग्यानैश्वर्य्याख्यास्तस्य धर्माउक्तायथा “अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्य्यम्। सात्विकमेतद्रूपं तामसमस्मात् विपर्य्यस्तम्” सा० का० “रजस्तु चलतया परितस्त्रैगुण्यं चालयद् गुरुणा वृण्वता च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्त्यते इति ततस्तती व्यावर्त्त्य तमोनियामकमुक्तं गुरु वरणकमेव तमः” सांत० कौ०। अयमंर्थः त्रयोगुणास्त्रैगुण्यं सत्वादीनि परितः स्वकर्म्मकरणाय चालयत् प्रवर्त्तयत् रजः गुरुणा गौरवान्वितेन वृण्वता यत्र यत्र कार्य्यजननाय तस्य प्रवृत्तिस्तत्र तत्र प्रतिबन्धकेन तमसा क्वचिदेव कार्य्ये प्रवर्त्त्यते कर्मक्षमं क्रियते इति। तथा च तस्मात् तस्मात् कार्य्यात् व्यावर्त्त्य रजसः प्रवृत्तिं रोधयित्वा तमो नियामकमिति। अन्योऽपि विशेषस्तत्रोक्तो यथा “प्रीत्यपीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः। अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः” “गुणा इति परार्थाः सत्त्वं लघुः प्रकाशकमित्यत्र च सत्त्वादयः क्रमेण निर्द्देक्ष्यन्ते। तदनागतावेक्षणेन तन्त्रयुक्त्या वा प्रीत्यादीनां यथासंख्यं वेदितव्यम्। एतदुक्तं भवति प्रीतिः सुखं प्रीत्यात्मकः सत्वगुणः, अप्रीतिर्दुखं अप्रीत्यात्मको रजोगुणः, विषादो मोहः विषादात्मकस्तमोगुण इति। ये तु मन्यन्ते न प्रीति र्दुःखाभावादतिरिच्यते एवं दुःखमपि न प्रीत्यभावादन्यदिति तान् प्रत्यात्मग्रहणम्। नेतरेतराभावाः सुखादयः अपि तु भावाः आत्मशब्दस्य भाववचनत्वात् प्रीतिरात्मा भावो येषां ते प्रीत्यात्मानः एवमन्यदपि व्याख्येयम्। भावरूपता चैषामनुभवसिद्धा परस्पराभावात्मकत्वे तु परस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः। स्वरूपमेषामुक्त्वा प्रयोजनमाह प्रकाशप्रवृत्तिनियमार्थाः अत्रापि यथासंख्यमेव। रजः प्रवर्त्तकत्वात्सर्वत्र लघु सत्वं प्रवर्त्तयेत् यदि तमसा गुरुणा न नियम्येत। तमोनियतन्तु क्वचिदेव प्रवर्त्तयति इति भवति तमोनियामकम्। प्रयोजनमुक्त्वा क्रियामाह अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च वृत्तिः क्रिया सा च प्रत्येकमभिसम्बध्यते। अन्योन्याभिभववृत्तयः एषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते। तथाहि सत्त्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते एवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्वरजसी अभिभूय मूढामिति। अन्योन्याश्रयवृत्तयः। यद्यप्याधाराधेयभावेन नाश्रयार्थो घटते तथापि यदपेक्षया यस्य क्रिया स तस्याश्रयः तथाहि सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसी प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्तमितरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेत रयोरिति। अन्योन्यजननवृत्तयः अन्यतमोऽन्यतमं जनयति जननञ्च परिणामः स च गुणानां सदृशरूपः अतएव न हेतुमत्त्वं तत्त्वान्तरस्य हेतोरभावात्। नाप्यनित्यत्वं तत्त्वान्तरे लयाभावात्। अन्योन्यमिथुनवृत्तयः अन्योन्यसहचराः अविनाभाववर्त्तिन इति यावत् चः समुच्चये भवति चात्रागमः “अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः। रजसोमिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः। तमसश्चापि मिथुने ते सत्त्वरजसी उभे। उभयोः सत्वरजसोर्मिथुनं तम उच्यते। नैषामादिः संप्रयोगो वियोगो वोपलभ्यत” इति। सा० त० कौ० “गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः”। “ऊर्द्ध्वं सत्वविशालस्तमोविशालश्च मूलतः सर्गः”। सा० का०। “सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्”। मनुः। चक्षुर्वृत्तिनिरोधके शार्वरादिके अन्धकारे “अदस्त्वयानुन्नमनुत्तमं तमः” “आसादितस्य तमसा नियतेर्नियोगात्” माघः। तच्च स्वपरप्रकाशकतेजः सामान्याभावरूपमिति नैयायिकाः अन्धकारशब्दे २०९ दृश्यम्। काणादा अपि तथैवाङ्गीचक्रुस्तच्च औलुक्यशब्दे १५८८ पृ० दर्शितम्। वेदान्तिनस्तु भावरूपं प्रतिपेदिरे यथा विवरणोपन्यासे। तमः प्रकाशवद्विरुद्धस्वभावयोरिति” शा० भाष्यव्याख्याने “ननु तमः प्रकाशदृष्टान्ते भावाभावरूपत्वमुपाधिः। आलोकाभावस्तम इति नैयायिकाः। रूपदर्शनाभावस्तम इति प्राभाकरा इति चेत् मैवं उपचयाऽपचयाद्यवस्थाभेदवत्त्वेनोपलभ्यमानत्वेनाभावत्वायोगात् नीलरूपवत्त्वेन द्रव्यत्वाच्च। ननु भावत्वपक्षे बहुला लोकवति देशे निमीलितनयनस्य कथं तमःप्रतीतिः बहुलालोकेन निवृत्त्यङ्गीकारात् सहावस्थानं तु मन्दालोकेनैव पूर्वमुक्तमिति चेत् न गोलकान्तर्वर्त्तितमसः प्रतीत्युपपत्तेः नच नेत्रस्यान्तर्वर्त्तिवस्तुग्राहकत्वासम्भवः पिहितकर्णस्यान्तरशब्दग्राहकत्वदर्शनात्। न चैवं गोलकान्तरस्थाञ्जनादेरपि निमीलितनयनेन ग्रहणप्रसङ्गः। तमोव्यतिरिक्तरूपिण आलोकसहितचक्षुर्ग्राह्यत्वनियमात्। अथ मतं द्रव्यत्वे सति तमसः आलोकविनाशितस्यालोकापगमे ह्यटिति नोत्पत्तिः कार्य्यद्रव्याणां द्व्यणुकादिक्रमेणैवारम्भादिति तन्न विवर्तवादितां क्रमानपेक्षणात् कारणं तु मूलाविद्यैव। अथापि तमो न रूपवद् द्रव्यं स्पर्शशून्यत्वादाकाशवदिति चेत् न वायुर्न स्पर्शवान् रूपशून्यत्वादाकाशवदित्याभाससमानयोगक्षेमत्वात् प्रत्यक्षविरोधस्य तुल्यत्वात्। अथालोकाभावे समारोपितं नीलं रूपं गोचरयतीति तमःप्रत्यक्षस्यान्यथा गतिरुच्येत एवमपि हेतुरनैकान्तिकः रूपवद्द्रव्यस्यैव धूमस्य चक्षुःप्रदेशादन्यत्र स्पर्शशून्यत्वात्। तत्र विद्यमान एव धूमस्पर्शोऽनुद्भूत इति चेत् तर्हि तमःस्पर्शोऽपि सन्नेव सर्वत्रानुद्भूत इति हेत्वसिद्धिः स्यात्। नच सतः सर्वत्रानुद्भवोऽसम्भावितः। आकरजे सुवर्ण्णादौ सतएव स्वपरप्रकाशकभास्वरूपस्योष्णस्पर्शस्य च सर्वत्रानुद्भवदर्शनात्तदेवं भाव- रूपतमोवादे न कोऽपि दोषः। नन्वभाववादेऽपि तथा उपचयाऽपचयाद्यवस्थानां प्रतियोग्यालोकोपाधिकत्वात् नीलरूपस्य चारोपितत्वादिति चेत् मैवं दुर्न्निरूपत्वात् तथाहि किमालोकमात्राभावस्तमः उत त्रैकालिकाऽभावः सर्वालोकाभावो वा प्रथमद्वितीयपक्षयोः प्रागभाव इतरेतराभावः प्रध्वंसाभावो वा तम इति दुर्मणं सवितृकिरणसन्तते देशे प्रदोपजन्मनः प्राग् जाते वा प्रदीपे दीपनाशे वा। तमोबुद्ध्यभावात्। तृतीये सर्वालोकसन्निधानमन्तरेण न निवर्त्तते। रूपदर्शनाभावस्तम इत्यप्ययुक्तं बहुलान्धकारसंवृतापवरकमध्यस्थितस्य वहीरूपदर्शनान्तस्तमोदर्शनयोर्युगपदेव भावात्। तस्मान्नाभावस्तम इति दृष्टान्ते नास्त्युक्तोपाधिः”। २२ तमोवदावरके अज्ञाने अविद्यायां “सहि देवः परं ज्योतिः तमः पारे प्रतिष्ठितम्” कुमा०। “आदित्यवर्णं तमसः परस्तात्” श्रुतिः। “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्” “महाभूतादि वृत्तौजाः प्रादुरासीत् तमोनुदः” मनुः। सांख्योक्ते अविद्याया २३ अष्टविधे भेदे च। “भेदस्तमसोऽष्टविधः” सां० का०। “तमसोऽविद्याय्याया अष्टविधो भेदः। अष्टास्य विधाः अव्यक्तमहङ्कारपञ्चतन्मात्रेषु अनात्मसु आत्मबुद्धिरविद्या तस्या अष्टविधविषयत्वादष्टविधत्वम्” सा० तत्वकौ०। २४ राहौ पु० न०। तस्य भूछायारूपत्वात् तथात्वम्। अगुशब्दे दृश्यम्। “तमोमुखे चेत् मुथहा तनुस्था” नील० ता०। २५ विशेषदर्शनविरोधिदोषे २६ कार्य्याकार्य्याविवेके च न० शब्दार्थचि०। समूहार्थकाण्डशब्दे परे कस्का० विसर्गस्य सः। तमकाण्डः “क्षपातमस्काण्ड मलीमसं नमः” माघः। “अवसमन्धेभ्यस्तमसः” पा० अच् समा०। अवतमसं सन्तमसम् अन्धतमसम्। तृतीयान्तेनानेन क्तान्तस्य समासे तृतीयाया अलुक्। तमसाकृतः तमसाच्छन्न इत्यादि। तमसाकतस्येदं अण्। तामसाकृत तमःसम्बन्धिनि त्रि० स्त्रियां ङीप्।

तमस = पु० तम–असच्। १ कूपे २ अन्धकारे च संक्षिप्तसारः ३ अन्धकारे ४ नगरे न० त्रिका०। ५ नदीभेदे स्त्री “संप्राप्य तीरं तमसापगायागङ्गाम्बु सम्पर्कविशुद्धिभाजः”। “विगाहितुं यामुनमम्बु पुण्यम्” भट्टिः। “यस्याः स्मरणात् ताम्यति पापं सा तमसा” जयमङ्गलः। गङ्गाम्बुसम्पर्केत्युक्तेः सा गङ्गासङ्गता यमुना चास्याः सन्निकृ- ष्टस्था। सेयं वाल्मीकमुनेराश्रमनिकटस्था यथाह रामा० आदि० २६ अ० “जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः”। “स तु तीरं समासाद्य तमसाया मुनिस्तदा। शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्। अकर्दममिदं तीर्थं भरद्वाज! निशामय। रमणीयं प्रसन्नाम्बु सन्मनुष्य मनो यथा। न्यस्यतां कलसस्तात! दीयतां वल्कलं मम। इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्”। “ददृशे तमसा तत्र वारयन्तीव राघवम्। ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान् हयान् संपरिवर्त्त्य शीघ्रम्। पीतोदकांस्तोयपरिप्लुतांस्तानचारयद्वै तमसाविदूरे” रामा० अर० ४५ अ०। “ततस्तु तमम्वातीरं रम्यमाश्रित्य राघवः” ४६ अ०।

तमस्काण्ड = पु० ६ त०। कस्का० विसर्गस्य सः। तमः समूहे “क्षपातमस्काण्डमलीमसं नभः” माघः।

तमस्तति = स्त्री ६ त०। अन्धकारसमूहे।

तमस्वत् = त्रि० तमस् + अस्त्यर्थे मतुप् मस्य वः सान्त त्वात् मत्वर्थे न विसर्गः। तमोयुते स्त्रियां ङीप् सा च २ रात्रौ स्त्री निघण्टुः ३ हरिद्रायाञ्च।

तमस्विन् = त्रि० तमोऽस्तीति विनि सान्तत्वात् मत्वर्थे न विसर्गः। १ तमोयुक्ते स्त्रियां ङीप्। सा च २ रात्रौ २ हरिद्रायाञ्च अमरः। “अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते”। भा० वि० २२ अ०।

तमाल = पु० तम–कालन्। स्वनामख्याते वृक्षभेदे अमरः। “तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः। कफपित्ततृषादाहश्रमश्रान्तिहरश्च सः” राजनि०। तत्पत्राकृतित्वात् २ तिलके ३ खड्गभेदे ४ वरुणवृक्षे च मेदि०। ५ कृष्णखदिरे शब्दच० ६ वंशत्वचि भरतः”। ७ पत्रके (तेजपात) राजनि०। “यत्तत्तालतमालशालसरलव्यालोलवल्लीलता” गङ्गास्तवः “अनन्ततानेकतमालतालम्” “तेनोपमीयेत तमालनीलम्” माघः। “एकाकिन्यपि यामि सत्वरमतः स्रोतस्तमाला कुलम्” सा० द०। तमालदले तु पर्य्युषितत्वदोषो नास्ति यथोक्तं आ० त० योगिनीतन्त्रे “विल्वपत्रं च माघ्यञ्च तमालामलकीदलम्। कह्लारं तुलसी चैव पद्मकं मुनिपुष्पकम्। एतत् पर्युषितं न स्यात् यच्चान्यत् कलिकात्मकम्”। स्वार्थे क। तमालक तत्रार्थे वंशत्वचि च तमालवृक्षे पु० न० शब्दरत्ना०।

तमालपत्र = न० तमालपत्रस्येवाकारोऽस्त्यस्य अच्। १ तिलके अमरः २ पत्रके (तेजपात) ३ तमालवृक्षे च पु० मेदि०। ६ त० ४ तमालवृक्षपत्रे न०। “तमालपत्रास्तरणासु रन्तुम्” रघुः।

तमालिका = स्त्री तम–कालन् संज्ञायां कन् कापि अत इत्त्वम्। १ ताम्रवल्ल्यां २ भूम्यामलक्यां च राजनि०। (तमलुक) ३ देशभेदे त्रिका०।

तमालिनी = स्त्री तमालवृक्षाः बहवः सन्त्यत्र पुष्करा० देशे इनि ङीप्। १ तमोलिप्तदेशे (तमलुक्) हेम०। तमालाकृतियुक्तपत्रत्वात् २ भूम्यामलक्यां राजनि०।

तमाली = स्त्री तम–कालन् गौरा० ङीष्। १ ताम्रवल्ल्यां (पान) २ वरुणवृक्षे च राजनि०।

तमि(मी) = त्रि० तम–इन् वा ङीप्। २ रात्रौ अमरः। “स तमीं तमोभिरधिगम्य तताम्” माघः। २ मोहे च तमिषीचिः।

तमिषीचि = स्त्री तमिं मोहं सिञ्चति सिच–इन् संज्ञायां षत्वं पृषो० दीर्घः। १ अप्सरोभेदे। “याः क्लन्दास्तभिषी चयोऽक्षकामा मनोमुहः। ताभ्यो गन्धर्वपत्नीभ्योऽप्सरोभ्योऽकरं समः” अथ० २। २। ५३ बलवति त्रि० “निरत्रसन् तमिषीचीरभैषुः” ऋ० ८। ४८। ११। “तमिषीचीललवत्यः” भा०। छाब्दसः जसः शस्।

तमिस्र = न० तमोऽस्त्यत्र ज्योत्स्नेत्यादि० नि० तमिस्रा रात्रिराश्रयत्वेनास्त्यस्य अच् वा। १ अन्धकारे २ क्रोधे च मेदि०। ३ तमःप्रधानरात्रौ स्त्री अमरः ४ दर्शरात्रौ वाचस्पतिः। ५ अन्घकारततौ स्त्री मेदि०। “सूर्य्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमस्रा” रघुः। “अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः” कुमा० “उज्झती शुचमिवाशु तमिस्रा” किरा०।

तमिस्रपक्ष = पु० तमिस्रास्त्यस्य अच् तादृशः पक्षः। कृष्णपक्षे “तमिस्रपक्षत्रुटिकूटभक्षितम्” नैष०। “तमिस्रपक्षस्य तिथौ भृगोः सुतः” वृ० स० ९ अ०। “प्राजेशमाषाढ तमिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य” २४ अ०।

तमुष्टुहीय = न० तमुष्टुहि इत्यादिकर्चमधिकृत्य प्रवृत्तः गहा० छ। सूक्तभेदे।

तमेरु = त्रि० ताम्यति तम–एरु। १ ग्लानियुक्ते “अतमेरुर्यज्ञोऽतमेरुर्यजमानस्य प्रजा भूयात्” यजु०। १। २३ “यज्ञो यागहेतुः पुरोडाशः अतमेरुर्भूयात्। तमु ग्नानौ ताम्यतीति तमेरुः औणादिकएरुप्रत्ययः न तमेरुः अतमेरुः। मस्माच्छादनेन ग्लानिरहितो भवतु। यजमानस्य प्रजा पुत्रपौत्रादिः अतमेरुग्लानिरहिता भूयात् यजमानस्य प्रजायाः कदापि दुःखं मास्त्वित्यर्थः” वेददी०।

तमोघ्न = पु० तमोऽन्धकार मोहमज्ञानं वा हन्ति हन–टक्। १ सूर्य्ये, २ वह्नौ, ३ चन्द्रे, ४ बोधे, ५ विष्णौ, ६ शिवे च मेदि०। मनुष्यकर्त्तृके तु न टक् किन्तु अण्। तमोघात अमनुष्ये तमोनाशके त्रि० तत्र सूर्य्ये “आशुगामी तमीघ्नश्च हरिदश्वश्च कीर्त्यसे” भा० व० ३ अ०। “यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वां प्रतिज्ञां समवाप्य वीरः” भा० द्रो० १४६ अ०।

तमोज्योतिस् = पु० तमसि अन्धकारे ज्योतिरस्य। खद्योते कीटे शब्दरत्ना०।

तमोनुद् = पु० तमोनुदति खण्डयति नुद–क्विप्। १ सूर्य्ये २ चन्द्रे ३ वह्नौ ४ दीपे च शब्दरत्ना० ५ अन्धकारनाशके त्रि० “एवमुक्तस्तदाऽत्रिर्वै तमोनुदभवच्छशी” भा० आ० १५६ अ०।

तमोनुद = त्रि० तमोऽज्ञानमन्धकारं वा नुदति नुद–क। १ अन्धकारनाशके २ अज्ञाननाशके ३ ईश्वरे पु०। “वायोरपि बिकुर्वाणात् विरोचिष्णु तमोनुदम्” महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः” मनुः।

तमोऽपह = पु० तमोऽपहन्ति अप + इन–ड। १ सूर्य्ये २ चन्द्रे ३ वह्नौ ४ बोधे च मेदि०। ५ तमोनाशकमात्रे प्रदीपादौ त्रि० “ग्रसते हि तमोऽपरं मुहुः” माघः। “पुत्रं तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः” रघुः। ६ मोहनाशके “आगमादिव तमोऽपहादितः” किरा०। बुद्धेरज्ञाननाशकत्वात् तथात्वम् “तत्राज्ञानं धिया नश्येत्” वेदान्तका०।

तमोभिद् = पु० तमो भिनत्ति भिद–क्विप्। १ शार्वरतमोभेदके खद्योते शब्दर० २ तमोभेदकमात्रे त्रि० क। तमोभिदोऽप्युक्तार्थे त्रि०।

तमोमणि = पु० तमसि मणिरिव। १ खद्योते त्रिका०। २ गोमेदके मणौ राजनि०।

तमोमय = त्रि० तमआत्मकम् तमःप्रचुरं वा तमस् + मयट्। १ अन्धकारात्मके ३ अज्ञानात्मके ३ तमःप्रचुरे च। ४ राहौ पु० “तमोमयं सैंहिकेयाख्यम्” वृ० स० ५ अ०। राहोश्च यथा तमोरूपत्वं तथा अगुशब्दे ४८ पृ० उक्तम्। “विसर्जात्मनः कायं नाभिनन्दंस्तमोमयम्” भाग० ३। २०। २२। तमोमयमन्धकारप्रचुरं रात्रिरूपं कायमित्यर्थः।

तमोऽरि = पु० ६ त०। १ सूर्य्ये २ चन्द्रे ३ वह्नौ ४ ज्ञाने च “तमोऽरिविम्बप्रतिविम्बधारी रुराव कान्ते। पवनाशनाशः” सुन्दरसमस्यापूरणम्। तमःशत्रुप्रभृतयोऽप्यत्र।

तमोलिप्ती = स्त्री तमसाऽल्पं लिप्यते स्म करणोपपदे लिप–क्त उप० स० ङीप्। देशभेदे। (तमलुक) शब्दरत्ना०।

तमोविकार = पु० ६ त०। तमसो विलारे निद्रासस्यादौ तमःशब्दे दृश्यम्। तमसेव विकारो यत्र। २ रोगे राजनि०। ३ तमिस्रारात्रौ शब्दार्थचि०।

तमोवृध् = त्रि० तमसि शार्व्वरे, तमसा आवरकेणाज्ञानेन वा बर्द्धते वृध–क्विप् ७ त० ३ त० वा। १ तमसि रात्रौ वर्द्धमाने प्रचुरसञ्चारिणि राक्षसादौ। “न्यर्पयतं वृषणा तमोवृधः” ऋ० ७। १४०। १। २ अज्ञानवृद्धे च।

तमोहन् = त्रि० तमोहन्ति हन–क्विप्। अज्ञाननाशके “ज्योतीरयं शुक्रवर्णं तमोहनम्” ऋ० १। १४०। १। तमोहन्तरि २ सूर्य्ये ३ चन्द्रे च “तमोहा यदि पापेन त्रयेणैव हि वीक्षितः” ज्यो० त०।

तमोहर = त्रि० तमोहरति हृ–अच् ६ त०। १ अन्धकारनाशके २ अज्ञाननाशके च ३ सूर्य्ये ४ चन्द्रे च पु० शब्दर० “निर्गुणं वामभागे च सव्यभागेऽद्भुता निजा। मध्येनाथ स्वयं ज्योतिस्तज्ज्योतिर्मे तमोहरम्” शब्दार्थचि० धृतवाक्यम्

तम्पा(म्बा) = तम्ब–अच् पृषो० वा। सौरभेय्याम् हेमच०।

तम्ब = गतौ भ्वा० पर० सक० सेट्। तम्बति अतम्बीत्। ततम्ब

तम्बिका = स्त्री तम्ब–ण्वुल् टाप् कापि अत इत्त्वम्। सौरभेय्यां हेमच०।

तम्बीर = पु० तम्ब–बा० ईरन्। “बली राश्यन्तगोऽन्यर्क्षगामी दीप्तांशकैर्मुहुः। दत्तेऽन्यस्मै कार्य्यकरस्तम्बीरोलग्नकार्य्ययोः” नी० ता० उक्ते योगभेदे।

तम्र = त्रि० ताम्यत्यनेन तम–करणे र। ग्लानिसाधने “प्रतम्रा अवपत्तमांसि” ऋ० १०। ७३। ५।

तय = गतौ रक्षणे च भ्वा० आ० सक० सेट्। तयते अतयिष्टतेये।

तर = पु० तॄ–भावे अप्। १ तरणे “पणं यानं तरे दाप्य पौरुषीऽर्द्धपणं तरे” “ब्राह्मणालिङ्गिनश्चैव न दाप्यास्ते पणं तरे” मनुः कर्त्तरि अच्। २ कृशानौ पु० मेदि०। तरत्यनेन करणे अप्। २ आतरे पणादौ। “दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत्” मनुः।

तरक्षु = पु० तरं गतिं मार्गं वा क्षिणोति मितद्रु० डु। मृगादने क्षुद्रव्याघ्रे अमरः। “श्वा कृष्णकर्णो गर्दभस्तरक्षुस्ते रक्षसामिन्द्राय” यजु० २४। ४०। प्रश्वमेधे राक्षसेन्द्रदेवताकपशुकथनम्। “तरक्षूनृक्षवानरान्” हरिवं० १६५ अ०।

तरङ्ग = पु० तॄ–अङ्गच्। (ढेउ) ऊर्म्मौ वायुना जलस्य सञ्चालनेन तिर्य्यगूर्द्धादिप्लवने अमरः। “समीरणोत्थेव तरङ्गलेखा” रथुः २ वस्त्रे ३ हयादीनां समुत्फाले उणादि०। ततः तारका० इतच् तरङ्गित जाततरङ्गे त्रि०। “साग- रप्रतिमं घोरं वाहनोर्मितरङ्गितम्” भा० भी० ८८ अ०। पुष्करा० देशे इनि ङीप् तरङ्गिन् तरङ्गयुक्तदेशे त्रि०। नद्यां स्त्री ङीप्।

तरङ्गिणी = स्त्री तरङ्ग + पुष्करा० नदी रूपदेशे इनि ङीप्। नद्याम् अमरः। “तरङ्गिणीवेणिरिवायता भुवः” माधः। “गजवाजिप्तनुष्याणां शोणितानां तरङ्गिणी” भा० भी० ९४ अ०।

तरङ्गित = त्रि० तरङ्गः संजातोऽस्य तार० इतच्। १ जाततरङ्गे २ चञ्चले च। तरङ्गशब्दे उदा० द्वश्यम्।

तरण = पु० तृ–करणे कर्मणि भावे वा ल्युट्। १ प्लवे (भेला) २ स्वर्गे। ३ प्लवने ४ देशान्तरगमने १ पारगमने च न० शब्दार्थचि० “भवति भवार्णवतरणे नौका” मोहमुद्गरः। “स्वप्ननदीतरणाववर्षणामेध्यदर्शनप्रयाणेषु तु सकृत्कालद्रव्यैकार्थत्वात्” कात्या० श्रौ० १। ७१३

तरणि = पु० तॄ–अनि। १ सूर्य्ये, २ भेलके, ३ अर्कवृक्षे, च अमरः ४ किरणे हेमच० ६ ताम्रे च। ७ नौकायां, ८ घृतकुमा र्य्याम् स्त्री मेदि०। वा ङीप् नौकायां ९ तारके १० शीघ्रगन्तरि त्रि०। “येवा धूर्षु तरणीन् यो वहन्ति” ऋ० ७। ६७। ८। “तरणींस्तारकान् शीघ्रगन्तृन् वा” भा० ११ शत्रूनुतीर्य्य वर्त्तमाने “पृत्सु तरणिर्नावा” ऋ० ३। ४९। ३ शत्रूनुत्तीर्य्यवर्त्तते इति तरणिः” भा० “सोऽयं व्याकरणार्णवैकतरणिः” वोपदेवः।

तरणिपोत = पु० तरणेः पोत इव। काष्ठाम्बुवाहिन्यां जटा०।

तरणिरत्न = न० तरणिप्रियं रत्नम्। सूर्य्यप्रिये १ माणिक्ये राजनि० तरणिमणिप्रभृतयोऽप्यत्र ग्रहयज्ञशब्दे २७६३ पृ० दृश्यम्

तरणी = स्त्री तरत्यऽनया तॄ–करणे ल्युट् ङीप्। १ नौकायां शब्दरत्ना० २ पद्मचारिणीलतायां शब्दच०। ३ घृतकुमार्य्यां राजनि०।

तरण्ड = पु० न०। तॄ–अण्डच्। १ बडिशीसूत्रबन्धनकाष्ठे, (छिप) २ प्लवे पु०। ३ न्त्रैकायां स्त्री मेदि० स्त्रीत्वपक्षे गौ० ङीष्। ४ कुम्भतुम्बीरम्भादिकृतप्लवे शब्दरत्ना० ५ देशभेदे पु० शब्दर०।

तरण्डक = न० तरण्ड + संज्ञायां कन्। तीर्थभेदे “ततो गच्छेत राजेन्द्र! द्वारपालं तरण्डकम्। तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः” भा० व० ८३ अ०। २ वडिशसूत्रमध्यवद्धलधुकाष्ठभेदे (फाता) न०। “संसारसागरावर्त्त पतज्जन्तुतण्डकम्” काशीख० ३३ अ०। ०३ नौकायां स्त्री गौरा० ङीप् शब्दरत्ना०।

तरण्डपादा = स्त्री तरण्ड एव पाद इव तरणहेतुत्वात् यस्याः। नोकाभेदे शब्दरत्ना०।

तरण्य = तरण गतौ कण्ड्वा० यक् भ्वा० प० सक० सेट्। तरण्यति अतरणीत् अतरण्यीत्।

तरत्सम = त्रि० तरत्समेत्यादि ऋचः सन्त्यत्र अच्। पावमानसूक्तानुर्गते सूक्तभेदे तरत्समन्दीयशब्दे दृश्यम्। “शुद्धवत्योऽथ कुष्माण्ड्यः पावमान्यस्तरत्समाः” हेमाद्रि श्राद्धकल्पधृतवाक्यम्।

तरत्समन्दीय = न० पावमानसूक्तान्तर्गते सूक्तभेदे। “जपं स्तरत्समन्दीयं पूयते मानवस्त्र्यहात्” मनुः। “तरत्समन्दीदीवतीत्येताः चतस्र ऋचोजपन्” कुल्लू०। ताश्च ऋचः ऋ० ९। ५८। १ प्रभूतयश्चतस्रः।

तरतम = त्रि० तरेति तमेति प्रत्ययार्थो बोध्यतयाऽस्त्यत्र अच्। नूनाधिकभावेन वर्त्तमाने तरतमौ हि प्रत्ययौ न्यूनाधिकभाववोधकाविति तदर्थकत्वादस्य तथात्वम्। “तरतमयीगयुक्तांश्च भावानतिरूक्षानतिसिग्धानत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत्” सुश्रु०। तस्य भावः ष्यञ्। तारतम्य न्यूनाधिकभावे न० “तारतम्येन वर्त्तमानः” शा० भा०।

तरद् = स्त्री तॄ–करणे अदि। १ प्लवे भेलके। कर्त्तरि अदि। २ कारण्डवखगे च मेदि०।

तरदी = स्त्री तरेण तरणेन दीयते खण्ड्यते दो–खण्डने घञर्थेक गौरा० ङीष्। कण्टकयुक्तवृक्षभेदे। राजनि०। “तरदी मधुरा तिक्ता गुर्वी बल्या कफापहा” राजनि०। टाप् तरदाप्यत्र तरटीति पाठान्तरम्।

तरद्वटी = स्त्री पक्वान्नभेदे “घृतेन मर्दितां दध्ना फेनिक्या मेलयेत्ततः। विधाय वटिकास्तस्या घृते मन्दाग्निना पचेत्। प्रलिप्ताः खण्डपाकेन कर्पूरेण विमिश्रयेत्। तत एताः समरिचास्तरद्वट्यस्तु ताः स्मृताः। बल्या पुष्टीकरी हृद्या वृष्या पित्तानिलापहा। सुस्निग्धा कफदाऽत्यर्थं किञ्चित् सन्धानकृद्धिता” शब्दार्थचि० वाक्यम्।

तरन्त = पु० तॄ–झच्। १ समुद्रे, २ प्लवे, ३ भक्ते, ४ राक्षसे च ५ नौकायां स्त्री गौरा० ङीष्। उणादिको०।

तरन्तुक = न० कुरुक्षेत्रस्थानभेदे। “तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च। एतत् कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते” भा० व० ८३४ अ०।

तरपण्य = न० तरस्य नद्यादिपारयानस्य पण्यं शुल्कम्। नद्यादेः पारयानार्थे देये शुल्के आतरे (भाडा) अमरः।

तरबालिका = स्त्री करपालिका + पृषो०। खड्गभेदे हेमच०।

तरम्बुज = न० मध्यजलके फलभेदे कालिङ्गशब्दे २९७ पृ० तद्गुणादि दृश्यम्। “ज्यैष्ठे मासि महेशानि! पौर्णमास्यां निशार्द्धके। तृष्णातुरा महाकाली भ्रमन्ती पितृकानने। तज्ज्ञात्वा ब्रह्मणा तस्यै फलं दत्तं तरम्बुजम्। तत्फलभक्षणात्तृप्ता वरदापि हरप्रिया। यो मे दद्यात् फलं रम्यं स चिरायुश्चतुर्युगम्”। उत्तरकामाख्यातन्त्रम्।

तरल = पु० तॄ–अलच्। १ हारमध्यस्थे मणौ, अमरः २ हारे,। ३ तले मेदि०। ४ चपले, ५ कामुके, ६ विस्तीर्णे, ७ भास्वरे, ८ मध्यशून्ये–द्रव्ये, ९ द्रवीभूते पदार्थे च त्रि० हेमच०। १२ हीरके रत्ने १० यवाग्वाम्, ११ सुरायाञ्च स्त्री घरणिः तत्र भास्वरे “तारावितानतरला इव यामवत्यः” किरा० “व्याधानुसार्य्यमाणतरलतारामृगा” काद०। “उत्कण्ठितासि! तरले” सा० द०। “तारापतिस्तरलविद्युदिवा भ्रवृन्दम्” रघुः। “वैरायितारस्तरलाः” माघः। हारमध्यमणौ “प्रवालमुक्तास्तरलाश्च हाराः” भा० क० ९४ अ० १४ अ०। “हारांस्तरलविद्धाश्च सूर्य्यभासा विभूषिताः हरिवं० १५२ अ०। भृशा० अभूततद्भावे क्यङ्। तरलायते “तथापि तरलायते चेतः” उद्भटः।

तरललोचना = स्त्री तरलं चञ्चलं लोचनं यस्याः। चञ्चलनयनायां स्त्रियां हेमच० २ चञ्चलनेत्रयुक्तमात्रे त्रि० कर्म०। ३ चञ्चले नेत्रे न०।

तरलित = त्रि० तरल इवाचरति तरलं करोति तरल + क्विप्–णिच् वा क्त। १ आन्दो लिते, २ कम्पिते, ३ धूते, ४ लुलिते च हेम०।

तरवारि = पु० तरं शत्रूणां गतिं वारयति वृ–णिच्–इन्। खड्गभेदे। (तरवार) इति भाषा। हेमच० असिशब्दे ५५१ पृ० तल्लक्षणादिकमुक्तं युक्तिकल्पतरावत्र विशेष उक्तो यथा “अङ्गं रूपं तथा जातिर्नेत्रारिष्टे च भूमिका। ध्वनिर्म्मानमिति प्रोक्तं खड्गज्ञानाष्टकं शुभम्। अभिन्ने दृश्यते यादृक् विभिन्ने घटिते तथा। यदेव दृश्यते चिह्नं तदङ्गं संप्रचक्षते। नीलकृष्णादिकं खड्गे रूपमित्यभिधीयते। तेनैव यत् प्रतीतं स्यात् तज्ज्योतिरिति गद्यते। अङ्गातिरिक्तं यज्जातिस्तन्माहात्म्योपसूचकम्। तन्नेत्रमिति जानीयात् खडगे खड्गविशारदाः। अङ्गातिरिक्तं खड्गादि यच्छुद्धत्वोपसूचकम्। तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम्। यः खड्गे जायते शब्दो दण्डदन्तादिना हते। स ध्वनिस्तुलना मानं ज्ञानमष्टविधन्त्विदम्। पञ्चाद्या निपुणेः खड्गे सम्भाव्यन्तेऽपि कृत्रिमाः। अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजाविति। शतमङ्गानि चत्वारि रूपाणि जातयस्तथा। त्रिंशन्नेत्राणि जानीयादरिष्टानां तथैव च। भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः। मानन्तु द्विविधं प्रोक्तमित्येषां संग्रहो मतः”। खड्गस्य शताङ्गनामानि लौहार्णवे “रूप्यस्वर्णगजोरुवूकदमनस्थूलाङ्गकृष्णारुणश्वेताम्भोजगदातिलानलकणाग्रन्थिस्थिरातैत्तिराः। मालाजीवकषट्पदोर्द्ध्वमरिचव्यालाश्वबर्हाञ्जनक्षौद्रक्षुद्रकमक्षिकातुषयवव्रीहिक्षुमासर्षपाः। सिंहीतण्डुलगोसिराशिवनखग्राहाक्षिकेशोपलद्रोणीकाककपालपत्रतुवरीविम्बीफलीसर्षपाः। नीलीरक्तवचारसोनसुमनाजिङ्गीशमीरोहितप्रोष्ठीमारिषभार्गवीखुरतडिन्मेघाद्रिगुञ्जाशराः। दूर्व्वाविल्वमसूरटुण्टुकशठीमार्ज्जारिकाकेतकीमूर्व्वावज्रकलायचम्पकबलान्यग्रोधवंशासनाः। ज्येष्ठीजालपीपिलिकानलरजःकुष्माण्डरोमस्नुहीकर्कन्धूबकुलारनालमहिषस्वच्छर्जुवक्रा इति। प्रोक्ता लौहविशारदेन मुनिना खड्गस्य भेदाः क्रमात्”। तस्य चत्वारि रूपाणि। “नीलः कृष्णश्च पिङ्गश्च धूम्रश्चेति चतुर्विधः। वर्णप्रकर्षः खड्गानां कथितो मुनिपुङ्गवैः”। चतस्रो जातयः। “व्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः। जातिभेदे विनिर्दिष्टः खड्गानां मुनिपुङ्गवैः”। त्रिंशन्नेत्राणि। “चक्रं पद्मं गदा शङ्खो डमरुर्द्धनुरङ्कुशः। छत्रं पताका वीणा च मत्स्यलिङ्गध्वजेन्दवः। कुम्भः शूलञ्च शार्द्दूलः सिंहः सिंहासनं गजः। हंसो मयूरो जिह्वा च दशनः खड्ग एव च। पुत्रिका चामरं शैलः पुष्पमाला भुजङ्गमः। त्रिंशदेतानि नेत्राणां खड्गानां कथितानि वै”। त्रिंशदरिष्टानि “छिद्रं काकपदं रेखाभिन्नं भेकश्च मूषिकः। विडालः शर्करा नीली मशको भृङ्गसूचिके। त्रिविन्दुः कालिका दारी कपोतः काक एव च। खर्परः शकली क्रोडी कुशपत्रक जालिके। करालकङ्कखर्जूरशृङ्गपुच्छखनित्रकम्। लाङ्गलं वडिशाख्यञ्च मुनिना तत्त्ववेदिना। प्रोक्तान्येतान्यरिष्टानि खड्गानां त्रिंशदेव हि”। द्विविधा भूमिः “दिव्यभौमविभागेन भूमिस्तु द्विविधा भवेत्”। अष्टधा ध्वनिः। “हंसकांस्याभ्रढक्कानां काकतन्त्री खराश्मनाम्। ध्वनयोऽष्टविधाः प्रोक्ता नागार्जुन मुनेर्मताः”। द्विविधं मानम्। “उत्तमाधमभेदेन मानं तद्द्विविधं भवेत्। इति प्रोक्तानि सूत्राणि खड्गानां ज्ञानहेतवे। एतानि तत्त्वतो ज्ञात्वा भवेन्नृपतिपूजितः” सूत्राध्यायः। “तत्र प्रथमतोऽङ्गानां लक्षणानि निवोधत”। लौहदीपे “रूप्यपत्रसमां भूमिरङ्गं श्वेतं प्रतीयते। ऊर्द्धं तत्तु महामूल्यं रूप्यवज्रमुशन्ति तम्। एष खड्गवरो दद्याल्लक्ष्मीमायुर्यशो बलम् १। स्वर्णरेखाबली तन्वी यद्भूमौ निकषोपमा। स्वर्णवज्रमिति प्राहुरायुर्लक्ष्मी जयप्रदम् २। गजशुण्डाकृतिर्भूमौ कृष्णायामङ्गसम्भवः। गजवज्रमिति प्राहूरक्तस्पर्शे तु तद्विशेत्। ज्वरादिव्याधिशमनं तस्य प्रक्षालनाम्भसा। अपिक्षीणोपि भूपालस्तद्वीर्य्यात् साधयेन्महीम् ३। एरण्डवीजप्रतिममङ्गं भूमिः सितेतरा। उर्वारुकमिदं नाम्ना शत्रुदर्पक्षयङ्करः। एतस्य स्पर्शमात्रेण नरः सम्यग्विमुच्यते। महिषाख्यमिदं वज्रं केचिदाहुर्मनीषिणः ४। अङ्गं दमनपत्राभं खड्गे यस्मिन् प्रतीयते। विद्याद्दमनवज्रञ्च तज्ज्ञेयं द्बिविधं बुधैः। नीला शुभ्रा भवेद्भूमिस्तत्र नीला गरीयसी। तस्मिन् पर्य्युषित तोयं गन्धे दमनकोपमम्। तत्प्रभावान् महीपालः कृत्स्नां पृथ्वीं हि साधयेत्” ५। शार्ङ्गधरीये “एका स्थूला सिता रेखा भूमिर्न्नीला दृढा यदि। स्थूलाङ्गमङ्ग वज्रं तद्विद्याल्लक्ष्मीयशःप्रदम्। एतत्क्षते भवेच्छोथः स्थूलश्चिरतरस्थितिः। एतं महान्तमपरे वदन्ति स्वड्कोविदाः ६। घृष्टायां दृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम्। अङ्गवज्रं भवेत्तस्य द्विधा भूमिः सिताऽसिता ७। लौहप्रदीपे “निरङ्गं रूप्यपत्राभमीषन्मणिनिभञ्च यत्। दुर्लभं तन्महामूल्यं कांन्तलौहं प्रचक्षते। कृष्णा भूमिर्भवेत् स्वच्छा पीता वज्राङ्गसंङता। कृष्णवज्रमिति प्राहुस्तत्क्षते मोह उच्यते। कृष्णा भूमिः सुवर्ण्णाभमीषच्छुक्लाङ्गसङ्गतम्। डाहुलीवज्रकं विद्यात् कालसंज्ञमथापरे ८। अरुणं सूक्ष्ममूर्द्धञ्चेदङ्गं भूमिः सितेतरा। अरुणाख्यमिदं वज्रं शत्रुदर्पनिसूदनम्। सूर्य्यांशुस्पर्शमात्रेण वह्निरूपां वहेत् शिखामु तस्य स्पर्शनमात्रेण पद्मकोषः स्फुटेन्निशि। दुर्ल्लमं तन्मनुष्याणां भाग्यैः कुत्रापि लभ्यते। तदयाजनसहस्रस्यारिष्टं नाशयति ध्रुवम् ९। श्वेतास्तिस्रो यदा रेखा आमूलादुपलक्षिताः। श्वेताङ्गमिति तद्विद्याद्यशोलक्ष्मी बलप्रदम् १०। अम्भोजदलसङ्काशमङ्गं भूमिः सितेतरा। अम्भोजवज्रं तज्ज्ञेयं कथितं मुनिपुङ्गवैः ११। अङ्गं यस्य गदाकारं भूमिश्चैव सितेतरा। गदावज्रमिदं ब्रूयात् तत्क्षते शूलसम्भवः १२। अङ्गं कृष्णतिलाकारं भूमिश्चैव सिताऽसिता। तिलवज्रमिदं ज्ञेयं लक्ष्मीबलयशःप्रदम्। तत्क्षते तिलतैलाभा वसा प्रच्यवतेऽधिकम् १३। धूम्रवर्णा भवेद्भूमिरङ्गं वह्निशिखोपमम्। अग्निवज्रमिदं ज्ञेयं शत्रूणां दाहकारकम्। अत्र शीतोदकं न्यस्तं तप्तं भवति च क्षणात्। शाणे वह्निं वमेद् यस्तु तथा सूर्य्यांशु सङ्गमात्। तत्क्षते बलवान् दाहो दग्धवच्च व्रणो भवेत्। एतत् परमभाग्येन लभ्यते धरणीतले १४। भूमिः सिताऽसिता वापि अङ्गञ्चेत् पिप्पलीप्रभम्। कणावज्रमिदं ज्ञेयमन्तर्दाहस्तु तत्क्षते १५। कृष्णा भूमिर्यदीयाङ्गे दृश्यते ग्रन्धिसञ्चयः। ग्रन्थिवज्रमिदम् ज्ञेयं वैरिपक्षविनाशनम्। तत्क्षते बलवान् दाह स्तृषा च ज्वर एव च १६। शालपर्णी दलाकारमङ्गं कृष्णासिपुत्रिका। स्थिरावज्रमिदं प्राहुस्तत्क्षते वेपथुर्भवेत् १७। यदा तित्तिरिपक्षाभमङ्गं भूमिः सितेतरा। एतत्तित्तिरिवज्रं स्यात् तत्क्षते बहुधेर्म्मकम् १८। वनमालासमा यस्मिन् माला खड्गे प्रदृश्यते। मालाङ्गवज्रं तद्विद्यात्तत्तोयं गन्धवद्भवेत्। अत्र तप्तोदकं न्यस्तं शीतं भवति तत्क्षणात्। एष दाहपरीतानामतिपित्तहतात्मनाम्। भवेत् परमभैषज्यं भाग्येनैतद्धि लभ्यते १९। यदा जीवकसङ्काशमङ्गं भूमिः सिताऽसिता। एतज्जीवकवज्रं स्यात् तत्क्षते तत्क्षणाज्ज्वरः २०। भूमिः सिताऽसिता क्षेत्रे स्वाङ्गं भृङ्गाभमिष्यते। तत्र चेन् मधु विन्यस्तं शोषामाप्नोति केवलम्। एतद्भ्रमरवज्रं स्यात्तत्क्षते स्याद्विसूचिका २१। ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते। ऊर्द्ध्ववज्रमिदं प्राहुर्विषवेगनिसूदनम्”। लौहप्रदीपे “ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते। लाङ्गलाङ्गन्तु तद्विद्यात् स्पर्शे तस्याऽहिनाशनम् २२। अङ्गं मरीचसङ्काशं भवेद्भूमिः सितेतरा। मरिचाङ्गमिदं वज्रं तत्क्षते कटुरक्तता। तत्प्रक्षालनतोयेन नश्यन्ति पीनसादयः २३। यदा सर्पफणाकारमङ्गं भूमिस्तु निर्मला। भुजङ्गवज्रं तद्विद्यात्तत्क्षते विषबद्रुजा। तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते। एकस्यास्य प्रसादेन कृत्स्नां शास्ति महीं नृपः २४। यदाऽश्वखुरसङ्काशमङ्गं भूमिस्तु निर्मला। अश्वाङ्गमिति तं विद्यात् खड्गं परमदुर्लभम्। तस्य संयोगमात्रेण वाजीमन्दीऽपि धावति। तस्य क्षालनतोयेन हयानां रोगनाशनम्। एतत्क्षते भृशं मूर्च्छा दाहश्च भ्रम एव च २५। मयूरपिच्छसदृशमङ्गं भूमिः सितेतरा। बर्हाङ्गमिति तं विद्यात्तत्क्षते वान्तिरिष्यते। सर्पाणामिह सर्वेषामस्य स्पर्शासहिष्णुता। एतदेव नृपतिभिर्भाग्यैः कुत्रापि लभ्यते २६। भूमिरञ्जनशुङ्काशाधारा चास्य सिता भवेत्। अञ्जनाख्यमिदं प्रायः सर्वदैवोपलभ्यते”। लौहप्रदीपे “धारा शुभ्रा भवेद्यस्य भूमिः कज्जलसन्निभा। कृष्णमङ्गैश्चितं वापि विद्यात् कज्जलवज्रकम्। मधुवर्णसमा भूमिरङ्गं वा मधुविन्दुवत्। क्षौद्राख्यमिति जानीयात् जयलक्ष्मीयशःप्रदम्”। शार्ङ्गधरीये “निम्नकक्षो भवेद् यत्र रात्रिन्दिवविलेपितः। मधुरो मधुवर्णाभः स खड्गो देववल्लभः। विशेषाच्चात्र रज्यन्ति सततं मक्षिकादयः”। “आसीमकोणिका यस्य क्षुद्राङ्गं कुण्डलीकृतम्। क्षुद्रवज्रकनामानं प्राह नागार्जुनो मुनिः। इदं कुण्डलवज्रञ्च प्राह लौहार्णवे मुनिः। अस्य क्षतेषु वलवान् दाहो मदविशेषितः २९। यदङ्गं मक्षिकाकारं भूमिश्चैव सिताऽसिता। स्नेहं शुष्यति वैवात्र मक्षिकाङ्गं तमादिशेत् ३०। अङ्गं यदा तुषाकारं या च भूमिः सिताऽसिता। तुषबज्रमिदं ख्यातं प्राह नागार्जुनो मुनिः ३१। अङ्गं यवफलाकारं भूमिः कृष्णा सिता तथा। यवाङ्गमिति तं विद्यात्तत्स्पर्शे कण्डुसम्भवः। एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः ३२। अङ्गं व्रीहि प्रसूनाभं भूमिर्ध्रूम्रा क्षतेऽतिरुक्। तद्व्रोहिवज्रं जानीयाच्छत्रूणां भयबर्द्धनम् ३३। अतसीफलसङ्काशमङ्गं भूमिः सिताऽसिता। अतसीवज्रमाहुस्तं तत्क्षते शिरसोरुजा ३४। यदा सर्षपवीजाभमङ्गं भूमिः सिताऽसिता। खरधारः खरस्पर्शः सर्षपाङ्गः सदुर्ल्लभः ३५। सिंह्याकारं भवेद्यस्य भूमिर्यस्य सिताऽसिता। सिंहीवज्रन्तु तद्विद्यात्तत्क्षते प्रलपेन्नरः। एतद्धावनतोयेन कासरोगापनाशनम् ३६। अङ्गं तण्डुलसङ्काशं भूमिर्ध्रुम्रा सिताऽसिता। तण्डुलाङ्गमिमं विद्याद्यशःश्रीबलवद्धनम्। एतत्पर्य्युषितं तोयं तण्डुलोदकसन्निभम्। अस्य प्रभावान्मनुजोभ्रष्टां हि लभते श्रियम् ३७। अङ्गञ्चेद्गोक्षुराकारं भूमिराघातनिःसहा। खड्गाधममिदं विद्याद्गोवज्रं नाम नामतः ३८। स्थूला दीर्घाः सिराः कृष्णा भूमिश्चैव सिताऽसिता। सिराङ्गमिति तं ब्रूयादेनं खड्गाधमं बुधाः ३९। शिवलिङ्गाकृतिश्चाङ्गे धाराचैव सिताऽथवा। शिवाङ्गमिति तं ब्रूयाच्छत्रूपक्षनिसूदनम् ४०। यदा व्याघ्रनखाकारमङ्गं भुमिस्तु पिङ्गला। नखवज्रमिदं विद्यात् तत्क्षते श्वयथुर्भवेत्। एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि ४१। ग्राह पुच्छीपमन्त्वङ्गं भूमिर्धूम्रा खराकृतिः। ग्राहाङ्गमिति जानीयाच्छत्रुवंशोपनाशनम्। अस्य स्पर्शनमात्रेण जीवन्मत्स्या जहत्यसून् ४२। यदा मनुजनेत्राभमङ्गं भूमिः सिताऽसिता। नेत्राङ्गमिति जानीयात् संग्रामे विजयप्रदम्। एतद्धावनतोयेन नूनमन्धोऽपि पश्यति ४३। अङ्गं केशसमं यस्य भूमिर्धूम्रा सिताऽसिता। केशाङ्गमिति जानीयात् क्लेशदुःखभयापहम् ४४। निरङ्गं स्थूलप्रकृतिमुपलाङ्गं विदुर्वुधाः। एतद्धि प्रायशो लोके दृश्यते द्विजसत्तम”! ४५। पद्मपुराणे “निरङ्गा निशिता धारा शाणे वह्निं वमत्यपि। द्रोणीवज्रमिदं ज्ञेयं पृथिव्यां नातिदुर्लभम् ४६। अङ्गं काकपदाकारं भूमिराघातनिःसहा। एष खड्गाधमस्त्याज्यो काकाक्षो भूतिमिच्छता ४७। यदा कपालमङ्गेषु दृश्यते स्पर्शतः खरम्। एतद्धि दुःखजनकं कपालाङ्गं बुधस्त्यजेत् ४८। तन्वी पत्रा बलीतुल्या सुवर्ण्णाङ्गाऽसिपुत्रिका। पत्रवज्रकमाहुस्तमा युर्वेदविदो जनाः”। लौहार्णवे “सुपर्णसन्निभा भूमिरङ्गं कालं प्रतीयते। तत् पत्रवज्रं काकस्य सुपर्णमुपजायते ४९। तुवरीदलसङ्काशमङ्गं यस्मिन् प्रतीयते। तुवरीवज्रमाहुस्तं तत्क्षते शिरसो भ्रमः। एष खडगाधमस्त्याज्यो यदीच्छेज्जीवनं निजम् ५० वेम्बीदलसमा भूसिरङ्गं विम्बीफलोपमम्। विम्बीबज्रन्तु तद्विद्यात्तज्जलं तिक्तमुच्यते। पित्तश्लेष्मविकाराणां प्रशमाय प्रयुज्यते ५१। प्रियङ्गुसदृशन्त्वङ्गं भूमिश्च कपिलाकृतिः। फलीवज्रमिदं प्रोक्तं शाणे धूम्रं वमत्यपि ५२। अङ्गं सर्षपपुष्पाभं भूमिश्चैव सिताऽसिता। एतत् सर्षपवज्रं स्यात् शाणे वह्निं वमत्यपि। अपि कुण्डलिकां याति एतदत्यन्तकोमलम्। एतत्प्रसादात् क्षितिपः कृत्स्नां साघयते महीम् ५३। नीलीरससमा भूमिरङ्ग नीलीतरङ्गवत्। नीलोवज्रमिदं दृष्टं शाणे वह्निशिखां वमेत्। एष खड्गवरोनृणामरिष्टभयनाशनः ५४। रक्तास्तिस्रो महारेखा भूमिश्चैव सिताऽसिता। रक्ताङ्गमिति जानीयाद्वैरिपक्ष विनाशनम्। शाणेन यस्तु रक्तां वा नीलां वा वमते शिखाम्। रक्तस्पर्शनमात्रेण स्वयमेव निकृन्तति। क्षतेऽस्य रक्त थुस्तृषा दाहश्च जायते ५५। अङ्गं वचादलसमं भूमिश्चैव सिताऽसिता। वचावज्रमिदं ज्ञेयं तत्क्षताद्विषनाशनम्। एष खड्वरो राज्ञा साधनीयः प्रयत्नतः ५६। रसोनादुत्तमं ह्यङ्गं भूमिस्तस्य दलोपमा। रसोनवज्रं जानीयात् शाणे वह्निं बमत्यपि। अस्य धावनतोयेन आमवातविनाशनम् ५७। निरङ्गा निर्मला भूमिर्द्धारा तीक्ष्णा खरः स्वरः। सुमना वज्रमेतत् स्याद्भुवि नात्यन्तदुर्लभम् ५८। जिङ्गिनी सदृशी दीर्घा यस्या रेखा सुविस्तरा। जिङ्गीवज्रमिदं नाम सर्वकामार्थसाधनम् ५९। अङ्गं शमीपत्रसमं भूमिर्धूम्रा सिताऽसिता। शमीवज्रमिदं ज्ञेयं शनैश्चर मुदावहम्। शाणेषु वमते वह्निं सहते वह्निपीडनम् ६०। रोहितशल्कसदृशमङ्गं भूमिः सिताऽसिता वापि। धूम्रा गम्भीरस्वरयुक्ता धारा तीक्ष्णाऽसिता भवेद्रेखा। रोहिताख्यमिदं वज्रं सर्वारिष्टविनाशनम्। वह्निसंस्पर्शमात्रेण किञ्चिच्चिमिचिमायते। इत्ययं दुर्लभः खड्गो देवानामपि कथ्यते ६२। शफरीवल्कलाकारमङ्गं भूमिः सिताऽसिता। प्रोष्ठीवज्रमिदं प्रोक्तं न्यस्तं तरति वारिणि। एष खड्गोत्तमो राज्ञां विपक्षकुलनाशकः। कदाचिल्लभ्यते भाग्यैर्लभ्यते तेन वै मही ६२। अङ्गं मारिषपत्राभं भूमिः स्याद्विषमच्छविः। इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नातिदुर्लभः ६३। भृङ्गराजस्य पुष्पाभमङ्गं भूमिर्दलप्रभा। आघातं सहते नैव एष खड्गाधमो मतः ६४। घारा तीक्ष्णा खुराकारा भूमिरङ्गविवर्जिता। आघातं सहते घोरं शाणे वह्निं वमत्यपि। खुराङ्गमिति जानीयात् पृथिव्यां नातिदुर्लभम् ६५। निर्मला सरला भूमिर्भवेच्चैव कदा कदा। मन्दा तीब्रा भवेद्धारा तडिद्वज्रस्य लक्षणम् ६६। नीलाञ्जनसमा भूमिरङ्गं जलतरङ्गवत्। मेघाङ्गभिति जानीयाच्छाणे शीतं भवत्यपि। एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः। भर्त्तुः प्रतापं शमयेद्रविविम्बं यथा घनः ६७। मन्दा धारा भृशं गाढा भूमिरङ्गविवर्जिता। पर्वताङ्गमिदं नाम सर्वत्रैवोपलभ्यते ६८। अङ्गं गुञ्जाफलसमं भूमिर्मीनदलोपमा। गुञ्जावज्रमिदं पृष्ठं तप्तं भवति घर्षणे। शाणे सिन्दूरसङ्काशं रजोवमति चासकृत्। एष खड्गवरो राज्ञा भाग्यादेवोपलभ्यते। अस्य प्रभावात्तन्नास्ति यन्न साधयते नृपः ६९। अङ्गं तनु शराकारं भूमिश्चैव सिताऽसिता। धारा तीक्ष्णा च वमति शाणे वह्निसमाः शिखाः। शरवज्रमिदं ज्ञेयं राज्ञां बाञ्छितसिद्धये ७०। दूर्व्वादलनिभा भूमिर्धारा तीक्ष्णा खरः स्वरः। शाणेन वमते वह्निं दूर्व्वावज्रं सुदुर्लभम् ७१। अङ्गं विल्वदलाकारं भूमिश्चैव सिताऽसिता। विल्ववज्रमिदं शाणे नीलपीते वमेच्छिखे। एष खड्गवरः प्रोक्तः शत्रूणां कुलनाशनः ७२। मसूरदलसङ्गाशा भूमिरङ्गं मसूरवत्। मसूराङ्गमिदं शाणे रजो वमति चारुणम् ७३। शणपुष्पनिभा रेखा दीर्घा भूमिः सितेतरा। शणाङ्गमिति जानीयात् खड्गं परमदुर्लभम् ७४। शटीदलसमा भूमि रङ्गं तत्कुसुमोपमम्। शटीवज्रमिदं प्रायो लभ्यते गुणवत्तरम् ७५। मार्जाररोमसदृशमङ्गं भूमिः सितेतरा। मार्जाराङ्गमिदं नाम्ना रोगशोकभयावहम्। एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः ७६। केतकीपत्रसदृशमङ्गं यस्मिन् प्रतीयते। विद्यात् केतकवज्रं तत् वाराणससमुद्भवम्” ७७। लौहप्रदीपे “अङ्गं मूर्वातन्तुनिभं भूमिर्मूर्वादलच्छविः। शाणेन वमते शुक्लां शिखां मौर्वी भवेत्ततः। मौर्व्यङ्गमिदमुत्कृष्टं यशःकीर्त्तिबलावहम् ७८। लिङ्गं तीक्ष्णं खरं गाढं शाणे वह्नेर्वमेत् कणम्। छिनत्त्यन्यविधं लौहं वज्राङ्गमिति तद्वदेत् ७९। कलायपुष्पसदृशमङ्गं भूमिः सिताऽसिता। कलायवज्रं जानीयात् तत्क्षते पाक इष्यते ८०। अङ्गं चम्पकपुष्पाभं भूमिः कृष्णा तथा सिता। शिखां शाणे वमेच्छीतं तिक्तं तस्य जलं मवेत् इदं चम्पकवज्रं स्यात् सर्वत्र विजयप्रदम् ८१। अङ्गं बलादलसमं भूमिः शुक्ला तथेतरा। बलावज्रमिदं ज्ञेयं नानाभावं भद्वेद्रुतम्। इत्ययं वातरोनाणां नाशने परमौषधम् ८२। अङ्ग वटारोहसमं भूमिर्वटदलच्छविः। वटवज्रमिदं ज्ञेयं खरं खड्गाधमं बुधैः। एतस्य स्पर्शमात्रेण नरोमुच्येत सम्पदा ८३। वंशनीली समा भूमिः खरधारा सिताकृतिः। वंशाङ्गमिति जानीयाद्वंशवृद्धिकरं परम् ८४। भूमिःसालदलाकारा अङ्गं लघु सितासितम्। सालाङ्ग एष खड्गः स्यात् पूज्यः सर्वार्थदायकः। अयं शाणे वमेद्वह्निं धारा चाप्यथ वा भवेत् ८५। भूमिः सिताऽसिता वापि अङ्गं ज्येष्ठीसमं लघु। ज्येष्ठीवज्रमिदं निन्द्यं न स्पृश्यं वा हितेच्छुभिः ८६। पुराणजालसदृशमङ्गं भूमिः सिताऽसिता। जालवज्रमिदं पूज्यं शत्रूसम्पत्तिनाशनम्। यदि शाणे वमेन्नीलां शिखां वह्निं वमेच्च वा। तदैष दुर्लभः खड्गो ह्यन्यथा भयहेतुकः ८७। अङ्गं पिपीलिकाकारं भूमिर्धूम्रा तथा सिता। पिपीलिकाङ्ग इत्येष तत्क्षते कण्डुसम्भवः। स्वयं यदि भवेद्धूम्रः शाणे पूज्यतमस्तदा ८८। नलपत्रसमा भूमिरङ्गन्तत्कुसुमोपमम्। नलाङ्गमिति जानीयाद्भर्तुः सर्वार्थसाधकः ८९। निरङ्गा निर्मला भूमिर्वृष्टं घृष्टं वमेद्रजः। दृढा धारा भृशं स्थूलाआघातं सहते न च। रजोवज्रमिदं निन्द्यं शत्रूणां विजयावहम् ९०। कुष्माण्डवीजसदृशमङ्गं भूमिः सिताऽसिता। कुष्माण्डवज्रं जानीयात्तत्क्षते वेगनिग्रहः ९१। अङ्गं नृरोमसदृशं भूमिर्धूम्रा सितासिता। रोमाङ्गमिति जानीयात्तत्क्षते पिडकोद्गमः ९२। भूमिः स्नुहीदलाकारा अङ्गं तत्कण्टकोपमम्। धारा तीक्ष्णारवस्तीक्ष्णो लघु मानं खरा स्पृशा। स्नुह्यङ्गः खड्ग इत्येष तत्क्षते दाहतृड्भ्रमः। मुखाक्षिकर्णनासानां दाहः पाकश्च जायते। अयं यदि च सर्पाणां फणासूपरि विश्यते। फणा विदारमाप्नोति सर्पोलोटयते शिरः। अस्य धावनतोयेन कुष्ठरोगविनाशनम् ९३। कर्कन्धू दलपृष्ठाभा भूमिरङ्गन्तु तत्समम्। कर्कन्धूवज्रं जानीयात् तत्क्षते दाहनाशनम्। एष खड्गाधमस्त्याज्यो जेतव्या यदि विद्विषः ९४। अङ्गं बकुलपुष्पाभं भूमिस्तत्फलसन्निभा। वकुलाङ्गमिदं पुण्यं शाणे सुरभिगन्धवत्। तन्नास्ति जगतीमध्ये यदनेन न साध्यते ९५। अङ्गं सम्मिश्रितं यस्मिन्न किञ्चिद्व्यक्तमीक्ष्यते। सर्वेषां दर्शनं वापि तीक्ष्णा धारा खरः स्वरः। एष काञ्जिकवज्रः स्याद्यत्नादेवोपलभ्यते। नैनं प्राप्यापि वर्द्धन्ते शेषाश्चित्रादयोपि च ९६। भूमिः कृष्णा निरङ्गा चेद्धारा तीक्ष्णा दृढापि च। आघातं सहते घोरं रक्तं स्पर्शेन या विशेत्। शाणेन वह्निं वमति ध्रुवं वाप्यतिघर्षणात् वा महिषाङ्गः स वै खड्गः पृथिव्यां नातिदुर्लभः ९७। अत्यन्तनिर्मला भूमिः शरीरं प्रतिविम्बितम्। धारा तीक्ष्णा स्वरस्तीक्ष्णः स्वच्छाङ्गं तद्विनिर्दिशेत् ९८। तस्मिन् यदा भवेद्रेखा ऋज्वी ऋज्वाख्यकं तदा ९९। अस्मिन्नपि भवेद्वक्रा रेखा वक्राभिधन्तु तत् १००। एतच्छतकमुद्दिष्टं खड्गानां प्रवरं बुधैः। प्रायशो लभ्यते लोके यदि सर्वगुणावहम्। इतीदं निखिलं प्रोक्तं वज्राणां लक्षणं मया। प्रयत्नैर्लिखितं व्यक्त सर्वेषां हितकाम्यया। इतः परन्तु लौहानां लक्षणं यत्र लक्ष्यते। तस्य दासो भवाम्येष प्रतिज्ञेति कृता मया। द्विलिङ्गमिश्रमालोक्य मिश्राङ्गमिति निर्द्दिशेत्। सर्वेषा मङ्गमालोक्य सर्वाङ्गमिति निर्दिशेत्”। अङ्गाध्यायः। खड्गस्य रूपाणि यथा। “नीलीकलायकुसुमच्छविगृञ्जनाभा या चेन्द्रनीलमणिकाचमणिप्रभा च। भूमिश्च या मरकतप्रतिमावभासा खड्गस्य नीलमिति रूपमिदं वदन्ति। तत्र चेन्निन्दितान्यङ्गान्यरिष्टानि बहून्यपि। दृश्यन्ते बहुदोषाश्च तथापि गुणवत्तरम् १। या कालकाम्बुदमसीरसकालसर्पगाढान्धकारकचभारसमा विभाति। भूमिश्च या भ्रमरबन्धुसमावभासा खड्गस्य कृष्णमिति रूपमिदं वदन्ति। अत्र नेत्राणि सम्पत्त्यै अरिष्टान्यशुभाय च। साधारणमिदं रूपं प्राह नागार्जुनो मुनिः २। या प्रावृषेण्यनवभेकसमानवर्णा गोमेदरत्नसदृशी च तु यस्य भूमिः। खड्गस्य पिङ्गमिति रूपमिदं वदन्ति भर्त्तुर्यशोबलधनक्षयकारणाय ३। या मन्दधूमसदृशी च शिरीषपुष्पतुल्या विभाति मलिनापि च खड्गभूमिः। नागार्जुनो वदति धूम्रमिदं हि रूपं भर्त्तुर्यशोबलधनावलिवर्द्धनाय ४। द्विरूपं मिश्रितं कृत्वा सङ्करं प्रवदेद्बुधः। त्रिभीरूपैः समेतन्तु खड्गं त्रिपुरसंज्ञितम्। रूपैश्चतुर्भिः संयुक्तं चतुरं खड्गमुत्तमम्”। रूपाध्यायः “जातिश्चतुर्विधा प्रोक्ता खड्गानां या पुरा मया। सम्प्रत्यपि प्रयत्नेन तासां लक्षणमुच्यते। शुद्धाङ्गः शुद्धवर्णश्च सुनेत्रः सुस्वरश्च यः। मृदुस्पर्शः सुसन्धेयस्तीक्ष्णधारो महागुणः। खड्गं व्राहणजातिं तं प्राह नागार्जुनो मुनिः। अस्य क्षते भवेच्छोथो थोरः सर्वाङ्गगोचरः। मूर्च्छा पिपासा दाहश्च ज्वरा मृत्युश्च जायते। अघृष्टं त्रिफलाकलकमर्द्धरात्रिन्दिवोषि- तम्। मलिनत्वं न सन्धत्ते निर्मलं कुरुते परम्। तरुणादित्यकिरणस्पर्शादेव तृणे स्थितः। दहेत् सर्वं न तु करं पुरुषस्य हि धारिणः। गायत्र्युच्चारमात्रेण

खरतां व्रजति स्फुटम्। एष खड्गवरः सर्वमरिष्टं नाशयेद्ध्रुवम्। अस्य प्रसादात् पुरुषस्त्रिलोकमपि साधयेत्। तस्मादेष मनुष्याणां सुलभो न हि भूतले। दृश्यते प्रायशः स्वर्गे कुशद्वीपे हिमालये १। धूम्रवर्णं महासारं तीक्ष्णधारं खरस्वरम्। सर्वाघातसहं सर्वनेत्रवर्णस्वराकरम्। खड्गं क्षत्त्रियजातिं तं जानीयात् खड्गकोविदः। अस्य क्षते भवेद्दाहस्तृषा दाहो ज्वरो भ्रमः। मृत्युश्च जायते शाणे वमेद्वह्निकणान् बहून्। संस्कारे चाप्यसंस्कारे नैर्मल्यं तस्य लक्ष्यते। शाणेऽप्यशाणे खरता मूर्द्ध्नि चात्यन्ततीक्ष्णता। रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम्। अयं खड्गवरः पूज्यो मनुष्यैरपि लभ्यते २। नीलवर्णः कृष्णवर्णः संस्कारे निर्मलो भवेत्। शाणेन खरता चास्य खाततुल्यं निकृन्तति। वैश्यजातिरयंखड्गः क्षते त्वङ्मात्रदर्शनम्। नात्युत्कृष्टो नातिहीनः सर्वत्रैवोपलभ्यते ३। सजलाम्भोदसङ्काशः स्थूलधारो मृदुस्वरः। संस्कारे चैव मलिनः शाणे चापि खरेतरः। शूद्रजातिरयं खड्गः क्षते नाल्पाऽपि वेदना। दूरादेषोऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः। प्रायशः सर्वलोकेषु ह्ययमेवोपदृश्यते ४। द्वयोर्लक्षणमालोक्य जारजं खड्गमादिशेत्। त्रयाणां लक्षणेनैव त्रिजातिं खड्गमादिशेत्। चतुर्णां लक्षणेनैव जातिसङ्कर उच्यते”। अथ त्रिंशन्नेत्राणां लक्षणानि “चक्राकारं यदा नेत्रं खड्गस्याङ्गे प्रदृश्यते। तं चक्रनेत्रं जानीयात् भर्त्तुः सर्वार्थसाधनम्। अनेनैकेन खड्गेन कृत्स्नां साधयते महीम् १। प्रफुल्लपद्मसङ्काशं नेत्रं पद्मदलोपमम्। यदि वा दृश्यते खड्गे पद्मनेत्रं समादिशेत्। अयं खड्गवरो यत्र तत्रैव कमलालया २। ऊर्द्ध्वा स्थूला यदा रेखा गदाकारा प्रतीयते। गदानेत्रमिटं विद्धि सर्वशत्रुनिसूदनम् ३। शङ्खाकारं यदा नेत्रं खड्गमध्येऽभिदृश्यते। शङ्खनेत्रमिदं सर्वदेवानामपि दुर्लभम् ४। डमरुप्रतिमं नेत्रं यस्य भूमौ प्रतीयते। सर्व्वार्थसाधकं खड्गं तं विद्यात्विजयप्रदम् ५। धनुःस्वस्यपं यन्नेत्रं धनुर्नेत्रमुशन्ति तम्। तस्य स्पर्शनमात्रेण मन्दोऽपि प्रमुखायते। अयं निशीथे विजने खड्गो झनझनायते ६। यन्नेत्रमङ्कुशाकारं तं विद्याद्गुणवत्तरम्। खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्वार्थसाधकम्। अलक्ष्मीपापरक्षोघ्नं कृत्याग्रहनिवारणम् ७। छत्राकारं यदा नेत्रं छत्रनेत्रं वदन्ति तम्। अस्य प्रभावात् क्षीणोऽपि सार्वभौमो भवेन्नृपः। दीनोऽपि च सुखी भूयात् सुखी भूयान्महेश्वरः। महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः। मण्डलेशश्चक्रवर्त्ती भवेदत्र न संशयः ८। पताकाकृति नेत्रञ्चेत् सर्वसम्पत्तिकारकम्। पताकानेत्रमाहुस्तं संग्रामविजयप्रदम् ९। नेत्रं वीणाकृति यदा वीणानेत्रमुशन्ति तम्। निशीथे विजने खड्गो वीणावत् स्वनमावहेत्। अस्य प्रभावात् स्वर्वेश्या अपि वश्या भवन्ति हि १०। मत्स्याकृति यदा नेत्रं मत्स्यनेत्रमिमं विदुः। अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् ११। शिवलिङ्गसमं नेत्रं लिङ्गनेत्रमिमं विदुः। मर्त्तुः सर्वार्थसंसिद्ध्यै शत्रूणां नाशनाय च। वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा रणे १२। ध्वजाकारं तु यन्नेत्रं ध्वजनेत्रं वदन्ति तम्। अस्य प्रभावात् भूपालः समग्रां लभते श्रियम् १३। यस्यार्द्धचन्द्रप्रतिमं नेत्रं स त्वर्द्धचन्द्रदृक्। तस्य धारणतो भूपोधरां कृत्स्नां लभते वै १४। यन्नेत्रं कलसाकारं कलसाख्यं तमादिशेत्। तस्य प्रभावात् सकलां भूमिं भूपो लभेत वै १५। शूलाकृति यदा नेत्रं शूलनेत्रं वदन्ति तम्। सर्वार्थसाधकः सर्वारिष्टाऽनिष्टप्रणाशनः १६। शार्दूलनेत्रं तं विद्यात् शार्दूलाकृतिनेत्रतः। शत्रुश्रेणीविनाशाय संग्रामे विजयाय च १७। सिंहाकृति यदा नेत्रं सिंहनेत्रमिमं विदुः। अस्य प्रभावात् क्षीणीऽपि कृत्स्नां साधयते महीम् १८। तत् सिंहासननेत्रं स्यात् नेत्रे सिंहासनोपमे। अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् १९। गजाकृति यदा नेत्रं गजनेत्रं वदन्ति तम्। अस्य प्रभावात् क्षिणोऽपि लभते राजसम्पदम् २०। नेत्रं हंसाकृति यदा हंसनेत्रं वदन्ति तम्। अस्य प्रभावात् भूपालो यशः प्राप्नीत्यनुत्तमम् २१। मयूराकृतिके नेत्रे तन्नेत्रमिति निर्दिशेत्। अस्य प्रभावान् मनुजः सर्पदर्पान्निसूदयेत् २२। जिह्वाकारं यदा नेत्रं जिह्वानेत्रं वदन्ति तम्। संग्रामखर्परेष्वेवं पिवेद्वैरिशिरोरजः २३। दन्ताकारं यदा नेत्रं दन्तनेत्रं वदन्ति तम्। अयं रिपुगणं मूर्द्ध्वि चर्वयत्यति भैरवम् २४। खड्गाकारं यदा नेत्रं खड्गनेत्रं वदन्ति तम्। अस्य प्रभावान्मनुजस्त्रिलोकीं वशयेदपि २५। मनुष्यपुत्रिकाकारं पुत्रिकानेत्रमुच्यते। अयं सशैलां सद्वीपां कृत्स्नां साधयते क्षितिम्। न चेयं पुत्रिका किन्तु जयलक्ष्मीरिह स्वयम्। तस्मान्नायं मनुष्याणामल्पभाग्येन लभ्यते २६। चामराकृतिनेत्रत्वात्तन्नेत्रमिति निर्दिशेत्। अस्य प्रभावात् जायन्ते चामरोद्धृतसम्पदः २७। एकाऽनेकशिखे शैलनेत्रे तन्नेत्रसंज्ञकम्। अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे। स्थिरीकरीति धरणीं धरणीं पर्वतो यथा २८। पुष्पमालासमं नेत्रं पुष्पनेत्रं वदन्ति तम्। अस्य प्रभावात्तुष्यन्ति ग्रहाः सर्वाश्च देवताः २९। भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम्। अयं शत्रूगणं हन्ति यथा मर्त्त्यं भुजङ्गमः ३०। सवर्णमसवर्णञ्च तत् सर्वं द्विविधं भवेत्। सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथा परम्। द्वयोरेकत्र पृष्ठे च तत् पुनः द्विविधं भवेत्। एकं लोके सुखं, नेत्रं ददाति द्विविधं द्वयोः। मूलमध्याग्रसंस्थानात् तत् पुनस्त्रिविधं मतम्। अग्रे चाग्र्यफलं ज्ञेयं मध्ये मध्यफलं मतम्। मूले फलं जघन्यं स्यात् प्राह नागार्जुनो मुनिः। एकं द्वे त्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः। एकं धर्मं, स्वर्गकामौ द्वेः त्रीणि च त्रिवर्गकम्। तत् फलानि प्रयच्छन्ति प्राह नागार्जुनो मुनिः। द्विनेत्रमिति जानीयात् स्वसंज्ञां नेत्रयोर्द्वयोः। त्रिनेत्रञ्च त्रिभिर्ज्ञेयं बहुनेत्रमतः परम्। यथोत्तरं गुणवहं खड्गमाहुरनुत्तमम्। दिङ्मात्रमिति निर्दिष्टं नेत्राणां शुभदायिनाम्। तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम्। यथा नेत्रस्य संस्थानं तथाऽरिष्टस्य लक्षयेत्। नेत्रेषु स्थाननियमो नारिष्टे स्थाननिर्णयः। प्रशस्ताङ्गोऽपि यः खड्गोऽरिष्टेनैकेन निन्दितः”। अथ त्रिंशदरिष्टानां लंक्षणानि “छिद्रवद्दृश्यते खड्गे स्वभावेन च लक्ष्यते। छिद्रारिष्टमिदं विद्धि भर्त्तुर्वीर्य्यबलापहम् १। यदा काकपदाकारमरिष्टं दृश्यते क्वचित्। अयं काक पदारिष्टः सर्व्वाभीष्टविनाशनः २। रेखाकारं यदारिष्टमूर्द्ध्वं वा तिर्य्यगेव वा। रेखारिष्टमिदं विद्धि भर्त्तुवीर्य्यबलापहम् ३। भिन्नभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः। भर्त्तुः कुलं यशो राष्ट्रं नाहत्वा त व्रजेत् स्वयम् ४। यदा भेकशिरोरूपमरिष्टं दृश्यते क्वचित्। भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ५। अरिष्टे मुषिकाकारे मुषिकारिष्टमुच्यते। अयं खड्गाधमः कुर्य्यात् पत्युः पातालसङ्गमम् ६। विडलनयनाकारो विन्दुरेकोऽतिविस्तरः। विडालारिष्टमेतत् स्यात् भर्त्तुः सर्वार्थनाशनम् ७। अरिष्टं शर्कराकारं यदा स्पर्शेन बुध्यते। शर्करारिष्टमेतत् स्याद्धनबुद्धिविनाशनम् ८। यदा नीलीरसाभासमरिष्टं दृश्यते क्वचित्। नील्यरिष्टमिदं ज्ञेयं यशोलक्ष्मीविनाशनम् ९। अरिष्टे मशकाकारे मशकारिष्टमुच्यते। भर्त्तुः कुलं यशो बुद्धिं धृतिं प्रीतिञ्च नाशयेत् १०। भृङ्गम प्रतिमो विन्दुरेकोऽनेकोऽथ वा यदा। भृङ्गमारिष्ट इत्येष धृतिस्मृतिविनाशनः ११। सूचीरूपमरिष्टञ्चेदूर्द्धं वा तिर्य्यगेव वा। सूच्यरिष्टमिदं नाम भर्त्तुः कुलविनाशनम् १२। त्रयश्चेद्विन्दवो राजन्! पङ्क्तयो विषमेण वा। उपर्य्युपरि वाधोऽधस्त्रिविन्द्वाख्यमरिष्टकम्। तस्य स्पर्शनमात्रेण सचेलः स्नानमाचरेत् १३। कालिकारिष्टमित्येतद्धि धीधृतिस्मृतिनाशनम् १४। एकत्र यदि नह्येष प्रयत्नेनापि संवृतः। दारीनाममहारिष्टं सर्वाभीष्टविनाशनम्। अनेकगुणसम्पन्नः खड्गोलोकैर्न गृह्यते १५। कपोतपक्षप्रतिममरिष्टञ्चेत्तदाह्वयम्। भर्त्तुः कुलं यशो विद्यां बलं बुद्धिञ्च नाशयेत् १६। काकाकृति यदा रिष्टं काकारिष्टं तदोच्यते। अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते १७। अरिष्टे खर्पराकारे खर्परारिष्टमुच्यते। भर्तुर्यशो बलं वीर्य्यं बुद्धिं प्रीतिञ्च नाशयेत् १८। यदान्यल्लोहशकलं लग्नं स्यादिव लक्ष्यते। शकलीति स वै खड्गः सर्वाभीष्टनिसूदनः १९। क्रीडीमुखसमाकारं यस्यारिष्टं प्रदृश्यते। क्रोड्यरिष्टमिदं नाम भर्त्तुः सर्वार्थनाशनम् २०। कुशपत्रसमाकारं यत्रारिष्टं तु लक्ष्यते। कुशपत्रारिष्टमिदं भर्त्तुर्दुःखाय कीर्त्तितम् २१। यस्मिन्निम्नमिवाभाति मध्ये वा दृश्यते क्वचित्। जलारिष्टमिदं नाम भर्त्तुः कुलधनापहम् २२। एकैकरेखा दीर्घाग्रा यदा पल्लविनी भवेत्। स्पर्शे नखे करेणेदं करालारिष्टमुच्यते। अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्न हि। दर्शनादेव नश्यन्ति यशोलक्ष्मी जयादयः २३। अरिष्टे कङ्कपत्राभे कङ्कारिष्टं तदुच्यते। अस्य स्पर्शनमात्रेण नश्यत्यायुर्यशो बलम् २४। खर्जूरवृक्षप्रतिमं यदाऽरिष्टन्तु लक्ष्यते। खर्जूरारिष्ट- मेतत् स्याद्भर्त्तुः कुलधनापहम् २५। गोशृङ्गाभमरिष्टञ्चेत् शृङ्गारिष्टं तदोच्यते। अनेन भर्तुर्नश्यन्ति लक्ष्मीबलकुलादयः २६। गोपुच्छाकृति चेत् स्वड्गे अरिष्टं संप्रवीक्ष्यते। पुच्छारिष्टमिदं नाम भर्तुः सर्वार्थनाशनम् २७। खनित्राभमरिष्टञ्चेत् खनित्रारिष्टमुच्यते। शूराणामपि संग्रामे भङ्गमेतत् प्रयच्छति २८। अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते। अयं पापात् पापतरः प्रेक्षणीयो न भूभुजा। अयमायुः श्रियं हन्ति विद्यां बलमशेषतः २९। अरिष्टं वडिशाकारं वडिशारिष्टमुच्यते। करोति कुटिलं सर्वं भर्त्तुः कुलनिकृन्तनम् ३०। इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः। विचार्य्येतानि मतिमान् खड्गं कोशे निधापयेत्। दिङ्मात्रमिदमुद्दिष्टमरिष्टानां हितात्मनाम्। अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम्। अरिष्टमेकमेव स्याद्द्विररिष्टं शुभावहम्। अन्योन्यमशुभं हन्याद्विषस्य हि विषं यथा। एकमारभ्य सप्रान्तमरिष्टं प्राह नान्यथा। यथोत्तरं द्विगुणितं फलमाहुर्मनीषिणः। अरिष्टाध्यायः। अथ द्विविधभूमिः। “दिव्यभौमविभागेन सभूमिर्या द्विविधा मता। दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा। तल्लक्षणमशेषेण लिख्यते तन्निबोधत। देवदानवयोर्मध्ये खड्गसृष्टिरभूत् पुरा। ते खड्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः”। दिव्यलक्षणं यथा “ये खड्गाः स्थूलधारा भृशमतिलघवो निर्मलाङ्गाः सुनेत्रा येऽरिष्टान्यस्वरूपाः सुविमलतनवश्चाप्यसंस्कारयोगात्। दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाकौ ते दिव्याः कुर्वतेऽमी कुलधनविजयश्रोयशो बुद्धिमाशु” १। अथ भौमलक्षणम्। वृहद्धारीते “पूर्वं महेशेन विषाणि यानि भुक्तानि तेषां पतितास्तु विन्दवः। पुरामृतं क्षीरसमुद्रमध्यादुत्पाद्य संगृह्य पपुः सुरेन्द्राः। तद्विन्दवो यत्र निपेतुरेष शुद्धायसा साकरतां जगाम। ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि। मूर्च्छादाहज्वरानाहशोकहिक्का वमीकराः। येऽमृतोत्थाः कंर्वुराङ्गा मन्दाङ्गाः सम्भवन्ति च। बलीपलितमालिन्यजराव्याधिविनाशनाः। यत्रैव पतितं यत्तु तत्तदाकरतां गताः”। तद्यथा “वाराणसीमगधसिंहलभूमिभागे नेपालभूमिषु तथाङ्गकलिङ्गदेशे। सौराष्ट्रिकेऽन्यतमधन्यमहीविभागे शुद्धायसां कृतिवराः प्रवदन्ति जन्म”। तथा। “वाराणसेयाः सुस्निग्धाः तीक्ष्णधाराः सदङ्गिनः। लघवः सुखसन्धेया ज्ञेयाश्चाभेद्य शालिनः। मागधाः कर्कशाः स्थूलधारा गूढतराङ्गिनः। गुरवो दुःखसन्धेयाः स्वड्गा ज्ञेया विचक्षणैः। नेपालदेशप्रभवा निरङ्गा निश्चलाश्च ये। ज्ञेयाः सदङ्गा मलिना लघवः स्थूलधारिणः। कालिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तन्तुहेतवः। सौराष्ट्रा निर्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशं खराः। सिंहलद्वीपजातानां चतुर्द्धा भेद उच्यते। केचित् सदङ्गा गुरवः कर्कशाः स्निग्धधारिणः। केचित् सदङ्गा लघवः सुस्निग्धा स्थूलधारिणः। एषां रूपेण मिश्रेण ज्ञेया हि द्विजजातयः। सामान्यात् द्विगुणञ्चौड्रं कलिर्दशगुणस्ततः। कलेः शतगुणं भद्रं भद्राद्वज्रं सहस्रधा। वज्रात् षष्टिगुणः पाण्डिर्निरविर्दशभिर्गुणैः। ततः कोटिसहस्रेण ह्ययस्कान्तः प्रशस्यते। आसान्तु लौहजातीनां वज्रं खड्गाय युज्यते। ये खड्गास्तीक्ष्णधारा भृशमतिगुरवः षड्गुणाढ्याः सुभेद्याः केचित् साङ्गा निरङ्गाः कतिचन समला निर्मलाः केचिदेव। ते भौमाः कुर्वतेऽमी धनविजयबलं षड्गुणा निर्गुणा ये ते दुःखं शोकमुग्रं दधति बलकुलश्रीयशीनाशनास्ते”। अथाष्टधा ध्वनिः। “ध्वनिरष्टविधः प्रोक्तो यः पूर्वं सूत्रसंग्रहे। तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम्”। तद्यथा। “पूर्वे चत्वारः शुभदाः परे निन्दास्पदास्तथा। विचार्य्य खड्गमानञ्च कर्त्तव्यं खड्गकोविदैः। धीरस्तार इति ख्यातो द्विविधः खड्गकोविदैः। घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः। यत्र हंसरवस्येव खड्गे नखहते ध्वनिः। हंसध्वनिरयं खड्गः सकलार्थप्रसाधनः १। कांस्यशब्द इवाभाति यस्मिन् खड्गे हते ध्वनिः। कांस्यध्वनिरयं खड्गः प्राह नागार्जुनो मुनिः २। मेघशब्द इवालक्ष्यो यत्र खड्गे हते ध्वनिः। अभ्रध्वनिरयं खड्गो भर्त्तुः सौभाग्यदायकः। ढक्का शब्द इवाभाति यस्मिन् खड्गे हते ध्वनिः। ढक्का ध्वनिरयं खड्गः सर्वशत्रुनिसूदनः ४। काकस्वर इवाभाति यस्मिन् खड्गे हते ध्वनिः। काकस्वरोऽयं खड्गः स्यात् श्रीयशःकुलनाशनः ५। तन्त्रीस्वरसमो यस्मिन् भवेत् खड्गे हते ध्वनिः। तन्त्रीध्वनिरयं खड्गः कुलश्रीधननाशनः ६। खरस्येव ध्वनिर्यत खरध्वनिरयं मतः। श्रीयशोज्ञानविज्ञानजयतेजो विनाशनः ७। प्रस्तरस्येव यस्येह हतस्य ध्वनिरुद्भवेत्। प्रस्तरध्वनिनामायं स निन्द्यः खड्गलक्षणे ८। गभीरतारध्वनिता खड्गस्याशुभलक्षणम्। उत्तानमन्द्रध्वनिता खड्गस्य शुभलक्षणम्। अप्यङ्गनेत्रहीनोऽपि खड्गः सुध्वनिरुत्तमः। अन्धः कुरूपो मनुजो यथा भुवि सुगायनः। सर्वलक्षणसम्पन्नः खड्गो यो ध्वनिवर्जितः। स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्जितः। नखेन वाऽथ दन्तेन तथा लौहशलाकया। लोष्टेन शर्कराभिर्वा ध्वनिविज्ञानमुच्यते”। अथ द्विविधमानम्। “यन्मानं द्विविधं प्रोक्तं तस्य लक्षणमुच्यते। उत्तमाधमभेदेन भेदो हि द्विविधो मतः। उत्तमं यद्विशालं स्याल्लघुमानं प्रकीर्त्तितम् १। अधमं तच्च यत् खर्वं गुरुमानं प्रकीर्त्तितम् २। तत् पुनस्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः। यो मुष्टिविंशतिसमायततीव्रधारो भर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलीभिः। मानेन चाष्टपलिकः स हि खड्गमध्येनातिप्रकृष्टमतिकष्टफलं ददाति। यो द्वादशाष्टनवमुष्टिभिरायतः स्यात् मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः। तावत् पलैः परिमितस्तु ततोऽधिको वा खड्गाधमो धनयशःकुलनाशनाय”। नागार्जुनोऽपि “यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा। प्रसरे तच्चतुर्थांशमिति वै मानमुत्तमम्। यावत्यो मुष्टयो दैर्घ्ये प्रसरे तत्त्रिभागिकः। पलैस्तदर्द्धैस्तुलितः स खड्गो मध्य उच्यते। यावत्यो मुष्टयो दैर्घ्ये तुर्य्यांशः प्रसरे तु तत्। अधमः कोर्त्तितः खड्गस्तत्समोवाधिकः पलैः। भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः”। भोजस्तु “दीर्घता लघुता चैव खड्गविस्तीर्णता तथा। दुर्भेद्यता सुघटता खड्गानां गुणसंग्रहः। खर्वता गुरुता चैव मन्दता तनुता तथा। सुभेद्यता दुर्घटता खड्गानां दोषसंग्रहः। इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषु निकृष्य खड्गयष्टेः। नृपतिरिति विचिन्त्ययो विधत्ते स चिरतरां श्रियमुच्छ्रितां लभेत” युक्तिकल्पतरुः।

तरस् = न० तॄ–करणादौ यथायथम् असुन्। १ बले २ वेगे, ३ तीरे, ४ वानरे च। ५ रोगे शब्दार्थचि०। “वन्धाय चिच्छिदुरिभास्तरसात्मनैव” “कुचयोर्युगेन तरसा कलिताम्” “तरसाकृष्य करोति काश्चन” इति च माघः। “कैलासनाथं तरसा जिगीषुः” रघुः।

तरस = न० तॄ–असच्। मांसे अमरः। “तरसमयाः पूर्वोक्त- मागाः” कात्या० श्रौ० २४। ५। २०। “तरसमयाः मांसमयाः” कर्कः। तरस् + अस्त्यर्थे अच्। २ वेगयुक्ते त्रि०

तरसत् = पुंस्त्री० तरस इवाचरति तरस + क्विप् शतृ। मृगभेदे स्त्रियां ङीप्। “अपस्ममत्तरसन्ती न भुज्युः” ऋ० १०। ९५। ८। “तरसन्नाममृगस्तस्य पत्नी” मा०।

तरसान = पु० तरत्यनेन तॄ–आनच् सुट् च। नौकायां उज्वलद०

तरस्थान = न० ६ त०। आतर (पारेर भाडा) ग्रहणस्थाने जटा०

तरस्वत् = त्रि० तरोऽस्त्यत्र वा मतुप् मस्य वः मत्वर्थे। सान्तत्वात् १ वेगयुक्ते भत्वम् २ रोगिणि च। स्त्रियां ङीप्। ३ चतुर्थमनोः पुत्रभेदे। “तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च” हरिवं० ७ अ०।

तरस्विन् = पु० तरस् + अस्त्यर्थे विनि सान्तत्वात् भत्वम्। १ वायौ २ गरुडे राजनि० ३ वेगवति, ४ शूरे च त्रि० अमरः। “असकृदेकरथेन तरस्विना” “निर्जितेषु तरसा तरस्विना” रघुः। स्त्रियां ङीप्। “कौमोदकी विष्णुगदा तरस्विनी” भाग० ८। १०। २३।

तरान्धु = पु० तरे तरणे अन्धुरिव गभीरत्वात्। नौकाभेदे वहित्रे त्रिका०।

तरालु = पु० तराय तरणाय अलति पर्य्याप्नोति अल–उन्। नौकाभेदे हारा०।

***