तन्त्र = न० तन्यते तनोति वा कर्त्त्रादौ यथायथं ष्टुन् तन्त्रिकुटम्बभरणे घञ् वा। १ कटुम्बभरणादिकृत्ये २ सिद्धान्ते ३ औषधे ४ प्रधाने ५ परिच्छदे ६ वेदशाखाभेदे ७ हेतौ ८ उभयार्थैकप्रयोगे। ९ इतिकर्त्तव्यतायाञ्च मेदि०। १० तन्तुवाये शब्दमाला ११ राष्ट्रे १२ परच्छन्दानुगमने १३ स्वराष्ट्रचिन्तायाम हेमच०। १४ प्रवन्धे शब्दरत्ना० १५ शपथे, धरणिः १६ धने १७ गृहे १८ वयनसाधने (ता~त) १९ कुले च नानार्थमञ्जरी। २० शिवाद्युक्तशास्त्रभेदे तल्लक्षणभेदादिकं यथा “सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च। देवतानाञ्च संस्थानं तीर्थानाञ्चैव वर्णनम्। तथैवाश्रमधर्मश्च विप्र संस्थानमेव च। संस्थानञ्चैव भूतानां यन्त्राणाञ्चैव निर्णयः। उत्पत्तिर्विबुधानाञ्च तरूणां कल्पसंज्ञितम्। संस्थानं ज्योतिषाञ्चैव पुराणाख्यानमेव च। कोषस्य कथनञ्चैव ततानां परिभाषणम्। शौचाशौचस्य चाख्यानं नरकाणाञ्च वर्णनम्। हरचक्रस्य चाख्यानं स्त्रीपुंसोश्चैव लक्षणम्। राजधर्मो दानधर्मो युगधर्मस्तथैवच। व्यवहारः कथ्यते च तथा चाध्यात्मवर्णनम्। इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते”। तस्य प्रशंसा। “विष्णुर्वरिष्ठो देवानां ह्रदानामुदधिर्यथा। नदीनाञ्च यथा गङ्गा पर्वतानां हिमालयः। अश्वत्थः सर्व वृक्षाणां राज्ञामिन्द्रो यथा वरः। देवीनाञ्च यथा दुर्गा वर्णानां ब्राह्मणो यथा। तथा समस्तशास्त्राणां तन्त्र शास्त्रमनुत्तमम्। सर्वकामप्रदं पुण्यं तन्त्रं वै वेद सम्मितम्। कीर्त्तनं देवदेवस्य हरस्य मतमेव च। पावनं श्रद्दधानानामिह लोके परत्र च”। तस्य श्लोक संख्या यथा “न शक्यं विस्तराद्वक्तुमपि वर्षशतैरपि। संक्षेपाद्वै प्रवक्ष्यामि लोककल्पोक्तवर्त्मना। दिवि देवि! नवलक्षं पाताले ब्रह्मशासने। लक्षमात्रं भारते च क्षितौ तन्त्राणि यानि च। आगमं त्रिविधं प्रोक्तं चतुर्थमैश्वरं स्मृतम्। कल्पश्चतुर्विधः प्रोक्त आगमो डामरस्तथा। यामलञ्च तथा तन्त्रं तेषां भेदाः पृथक् पृथक्। मुक्तकाख्यं सप्रपञ्चम् सारदाख्यञ्च नारदम्। महार्णवश्च कपिलो योगः कल्पः कपिञ्जलः। अमृत शुद्धिर्वीरश्च सिद्धसंवरणस्तथा। प्रथमोऽष्टसहस्रन्तु श्लोका दश प्रकीर्त्तिताः। द्वितीयोमुक्तकस्तत्र षट्सहस्राणि संख्यया। श्लोकाः शतार्द्धसंख्यातास्तृतीयस्त्रिसहस्रकः। शतद्वयं साधिकञ्च श्लोकानां पञ्चविंशतिः। त्रिंशो, त्तरसहस्राणि श्लोकानां भानुसंख्यया। प्रपञ्चः प्रथमे तन्त्रे द्वितीये वसुसंख्यया। सहस्राणि तथा श्लोकाः सप्तविंशतिसंख्यया। भूतनेत्रसहस्राणि तृतीयेऽब्धिसहस्रकम्। शतद्वयं पङ्क्ति १० श्लोकाः प्रपञ्चः कथितस्त्रिधा। कला १६ संख्या सहस्राणि सारदायाः प्रकीर्त्तिताः। पञ्चविंशाधिकाः श्लोका वसुश्लोकाश्च नारदे। विंशतिश्च सहस्राणि षट्सहस्राणि संख्यया। वसुश्लोकाश्च कथिताः कपिलः श्लोकसंख्यया। त्रयोदश सहस्राणि कलोत्तर शतत्रयम्। श्लोकसंख्या समुद्दिष्टा योगे कल्पे च संख्यया। वाणसंख्या सहस्राणि श्लोका नवतिः कीर्त्तिताः। श्लोकानान्तु सहस्राणि अष्टाविंशतिसंख्यया। श्लोकाश्च भानु १२ संख्याता स्तन्त्रेऽपि च कपिञ्जले। अमृतशुद्धौ सहस्राणि पञ्चश्लोकाधिकानि च। पञ्चैव कथिता नेत्र संख्यातानि यथार्थतः। वीरागमे षडधिकानि शतानि परिसंख्यया। सहस्राणि च तावन्ति श्लोकानान्तु ययार्थतः। पञ्चाधिकसहस्राणि श्लोकानामृतुसंख्यया। सिद्धसंवरणोक्तानि ईश्वरेण यथा पुरा। डामरःषड्विधो ज्ञेयः प्रथमो योगडामरः। श्लोकास्तत्र त्रयस्त्रिंशत् तथा पञ्च शतानि च। त्रिविंशतिसहस्राणि श्लोकानि चेह संख्यया। एकादश सहस्राणि संख्यया शिवडामरे। श्लोकाःसप्तैव निश्चित्य इश्वरेणैव भाषिताः। तावच्छ्र्लोकसहस्राणि पञ्च श्लोकशतानि च। गुणोत्तराणि दुर्गाया डामरे कथितानि च। नव श्लोकसहस्राणि नव श्लोकश तानि च। सारस्वते तथा श्लोकाः पञ्चैव परिकीर्त्तिताः। स्वर ७ संख्यसहस्राणि श्लोकानां ब्रह्मडामरे। पञ्चोत्तरशतान्यत्र संख्यातानि शिवेन तु। षष्टिः श्लोकसहस्राणि गन्धर्वडामरोत्तरे। श्नोकाश्च षष्टिसंख्याता ब्रह्मणाऽव्यक्तयोनिना। यामलाः षट् समाख्यातास्तन्त्रादावादियामले। द्वात्रिंशच्च सहस्राणि त्रयस्त्रिंशत् शतानि च। द्वितीये ब्रह्मसंज्ञे तु द्वाविंशतिश्च संख्यया। सहस्राणि शतान्यत्र तान्येव कथितानि च। तावत्संख्यसहस्राणि शतानि परिसंख्यया। विंशतिश्च तथा संख्या श्लोकाश्च विष्णुयामले। कालसंख्यसहस्राणि वेदसंख्यशतानि च। पञ्चषष्टि स्तथा श्लोका कनिष्ठे रुद्रयामले। नव श्लोकसहस्राणि त्रयोदश शतानि च। द्वाविंशतिस्तथा श्लोका गणेशयामलोत्तमे। रविसंख्यसहस्राणि आदित्याख्ये तु यामले। तन्त्रे नीलपताकायां सहस्राणि च पञ्च च। पञ्चविंशतिः श्लोकाश्च कथिता वामकेश्वरे। त्रयोदश सहस्राणि द्वे शते विंशतिस्तथा। श्लोकामृत्युञ्जये तन्त्रे संख्यातास्तन्त्रवेदिभिः। गजसंख्यसहस्राणि त्रिकसंख्याशतानि च। सप्त श्लोकास्तथैवात्र तन्त्रयोगार्णवोत्तमे। दश श्लोकसहस्राणि तावन्त्येव शतानि च। मायाख्ये च महातन्त्रे यथार्थतः प्रकीर्त्तिताः। पञ्च श्लोकसहस्राणि तावन्त्येव शतानि च। शतार्द्धसंख्यया श्लोका दक्षिणामूर्त्तितन्त्रके। दश श्लोकसहस्राणि तावन्त्येव शतानि च। त्रयोदश तथा श्लोकाः कालिकाख्ये च तन्त्रके। कालेश्वर्य्यास्तन्त्रवरेस हस्रतित्रयं महत्। श्लोकानां संख्यया चात्र तन्त्रराजे च संख्यया। नव श्लोकसहस्राणि नव श्लोकशतानि च। द्वाविंशतिः सहस्राणि हरगौर्य्याख्यतन्त्रके। तथा च विंशतिः श्लोकास्तन्त्रेऽस्मिन् परिकीर्त्तिताः। अर्कसङ्ख्यसहस्राणि द्वितीये तन्त्रवेदिभिः। अष्टाविंशतिश्च श्लोकाः संख्यातान्तन्त्रनिर्णये। कुब्जिकाख्ये महातन्त्रे श्लोकाश्च दशसंख्यया। सहस्राणि तथा सप्त संख्यातानिमनीषिभिः। द्वितीये षट्सहस्राणि तदर्द्धञ्च कनिष्ठके। अर्कसंख्यसहस्राणि तथाङ्कुशशतानि च। तावद्देव्या महातन्त्रे संख्यातानि द्विजोत्तमैः। द्वाशिंशतिः सहस्राणि द्वाविंशतिः शतानि च। कात्यायन्यास्तु तन्त्रस्य संख्यातानि मनीषिभिः। वसुश्लोकसहस्राणि तावन्त्येव शतानि च। प्रत्यङ्गिराथास्तन्त्रे च निश्चितानि यथार्थतः। भूतसंख्या सहस्राणि तथा तावच्छतानि च। महालक्ष्म्या स्तन्त्रराजे पञ्च श्लोकाश्च कीर्त्तिताः। गजसंख्यसहस्राणि श्लोकका सप्तसंख्यया। त्रिपुरार्णवे महातन्त्रे लिखिताः परमर्षिभिः। सरस्वत्याः सहस्रे द्वे द्वे शते संख्यया स्मृते। पञ्च श्लोकास्तथैवात्र विज्ञातव्या द्बिजातिभिः। द्वाविंशतिः सहस्राणि आद्ये तन्त्रोत्तमोत्तरे। अङ्गसंख्या शतान्यत्र श्लोकाः पञ्चदशैव तु। द्वाविंशतिः सहस्राणि तथा नव शतानि च। द्वात्रिंशच्च तथा श्लोका योगिन्यास्तन्त्रराजके। द्वितीये षट् सहह्राणि तथा च त्रिशतानि च। त्रयः श्लोकास्तथैवात्र वाराह्यास्तन्त्र उत्तमे। ऊर्म्मिसंख्यासहस्राणि तत्वसंख्यशतानि च। गवाक्षे तन्त्रराजेऽस्मिन् श्लोकाहि तत्वसंख्यया। वर्ण संख्यसहस्राणि द्वे शते परिनिश्चिते। श्लोकास्तयश्च संख्यातास्तन्त्रे नारायणीयके। वेदसंख्यसहस्राणि तान्येव च शतानि च। श्लोका नवतिःसंख्याता मृडानी तन्त्रराजके। तृतीये त्रिसहस्राणि त्रिशतानि कनिष्ठके। त्रिंशत् श्लोकाश्च संख्याताज्ञातव्यास्तन्त्रवेदिभिः”। वराहोत० उपतन्त्राणि यथा “सैद्धीक्तान्युपतन्त्राणि कपिलोक्तानि यानि च। अद्भुतानि च एतानि जैमिन्युक्तानि यानि च। वशिष्ठः कपिलश्चैव नारदो गर्ग एव च। पुलस्त्योभार्गवः सिद्धो याज्ञवल्क्योभृगुस्तथा। शुक्रो वृहस्पतिश्चैव अन्ये ये मुनिसत्तमाः। एभिः प्रणीतान्यन्यानि उपतन्त्राणि यानि च। विसंख्यातानि तान्यत्र धर्मविद्भि- र्महात्मभिः। सारात् सारतराण्येव संख्यातानि निबोधत”। वाराहीत०। शिवोक्तं चतुःषष्टिसङ्ख्यकं तन्त्रं यथा “सिद्धीस्वरं महातन्त्रं कालीतन्त्रं कुलार्णवम्। ज्ञानार्णवं नीलतन्त्रं फेत्कारीतन्त्रमुत्तमम्। देव्यागमं उत्तराख्यं श्रीक्रभं सिद्धियामलम्। मत्स्यसूक्तं सिद्धसारं सिद्धिसाराह्वयं तथा वाराहीतन्त्रं देवेशि! योगिनीतन्त्रमुत्तमम्। गणेशविमार्षणीतन्त्रं नित्यातन्त्रं शिवागमम्। चामुण्डाख्यं महेशानि! मुण्डमालाख्यतन्त्रकम्। हंसमाहेश्वरं तन्त्रं निरुत्तरमनुत्तमम्। कुलप्रकाशकं देवि! कल्पं गाथात्मकं शिवे!। क्रियासारं निवन्धाख्यं स्वतन्त्रं तन्त्रमुत्तमम्। सम्मोहनं तन्त्रराजं ललिताख्यं तथाशिवे!। राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम्। वृहच्च श्रीक्रमं तन्त्रं गवाक्षं सुकुमुदिनि!। विशुद्धेश्वर तन्त्रञ्च मालिनीविजयं तथा। समयाचारतन्त्रञ्च भैरवीतन्त्रमुत्तमम्। योगिनीहृदयं तन्त्रं भैरवं परमेश्वरि!। सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम्। तन्त्रान्तरञ्च देवेशि! नवरत्नेश्वरं तथा। कुलचूडामणितन्त्रं भावचूडामणीयकम्। मन्त्रदेवप्रकाशञ्च कामाख्यानामकं तथा। कामचेनुकुमारी च भूतडामरसंज्ञकम्। मालिनीविजयं तन्त्रं यामलं व्रह्म यामलम्। विश्वसारं महायन्त्रं महाकालं कुलामृतम्। कुलोड्वीशं कुब्जिकाख्यं यन्त्रचिन्तामणीयकम्। एतानि तन्त्ररत्नानि सकलानि युमे युगे। कालीविलसकादीनि तन्त्राणि परमेश्वरि!। कालकल्पे सुसिद्धानि अश्वक्रान्तासु भूमिषु। महाचीनादितन्त्राणि अविकल्पे महेश्वरि!। सुसिद्धानि वरारोहे! रथक्रान्तासु भूमिषु” इति महासिद्धिसारतन्त्रम्। “चतुःषष्टिश्च तन्त्राणि यामलादीनि पार्व्वति। सकलानीह वाराहे विष्णुक्रान्तासु भूमिषु। कल्प भेदेन तन्त्राणि कथितानि च यानि च। पाषण्ड मोहनायैव विफलानीह सुन्दरि!” विश्वसारतन्त्रम्। अन्यत्र च “दैत्यानां मीहनार्थं तु तन्त्रशास्त्रं शिवोदितम्” तत्र स्वराष्ट्रचिन्तायां औषधे च “तन्त्रावापविदा योगैः” माघः। शास्त्रे “इदानीं तत्प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम्” सुश्रुतः अनेकोद्देन सकृत्प्रयोगे “द्वौ दैवे प्राक् त्रयः पित्र्ये उदगैकैकमेव वा। मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम्” याज्ञ०। “पिवृश्राद्धे मातामहश्राद्धे च वैश्वदैविकं तन्त्रेण कार्य्यमिति” मिता०। २१ विध्यन्ते अङ्ग- समुदाये “दर्शपौर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्य तत्राम्नातत्वात्” आश्व० श्वौ० १। १। ३। तन्त्रमङ्गसंहतिः विध्यन्त इत्यर्थः स चावस्थानादिसंस्थाजपान्तः प्रधानस्य तन्त्रणात् तन्त्रमित्युच्यते” कर्कः। तन्त्रलक्षणादिकं कात्यां० श्रौ० उक्तं यथा “कर्मणां युगपद्भावस्तन्त्रम्” कात्या० श्रौ० १। ७। १ “यत्र प्रधानकर्मणां युगपद्भावः सह प्रयोगः तत्रारादुपकारकाणामङ्गानां तन्त्रं सकृदनुष्ठानं भवति। न प्रतिप्रधानं पृथक् पृथक् यद्धि सकृत् कृतं बहूनामुपकरोति तत्तन्त्रमित्युच्यते यथा बहूनां मध्ये कृतः प्रदीपः। कुतस्तन्त्रमिति हेत्वाकाङ्क्षायां त्रीन् हेतूनाह” कर्कः। “शक्यपुरुषार्थकृतत्वैकार्थसमवाय श्रुतिभ्यः” २ सू०। “प्रधानकर्मणां सह प्रयोगे सति तदङ्गानां सकृदनुष्ठानमुक्तम्। तत् कुतः शक्यत्वात् सकृदप्यनुष्ठितैरारादुपकारकैरङ्गैर्बहूनामपि प्राधानानामुपकारस्य कर्तुं शक्यत्वात् शक्नुवन्ति ह्यारादुपकारकाणि बहूनामुपकर्तुम्, अगृह्यमाणविशेषत्वात् प्रदीपवत् यथा एक एव प्रदीपो बहूनां मध्ये कृतः सन् सर्वेषामुपकरोति एवमेतान्यपीति। यद्यप्यङ्गानां प्रत्येकमेव विनियोगस्तथापि विधिना तावदनुष्ठानं सकृदेवोपकारकं भवति यथैव हि षट्सु भावनासु लिङ्पदेनैव कथम्भावमपेक्षमाणास्वपि सकृदाम्नाता एवाङ्गविधयः षण्णामपि प्रत्येकमङ्कानि समर्पयन्ति सत्यपि च कस्यचित् प्रधानोत्पत्तिविधिसन्निधौ प्रकरणवशेन संनिधिर्बाध्यते तथैव संहतानां प्रधानानां फलसाधनत्वात् कर्तृदेशकालैक्याच्च युगपत् सर्वेष्वनुष्ठातुं प्रारब्धेषु सकृत्कृतमेवाङ्गं सर्वचिकीर्षया कृतत्वात् सन्तमपि केनचित् संनिधिं बाधित्वा प्रकरणवशेन सर्वार्थं भवति। किं च पौर्णमास्यां यजेतेति त्रयाणां युगपदनुष्ठानमवगतं पृथक् पृथक् साङ्गेष्वनुष्ठीयमानेषु बाध्यते तस्मात् सकृदेवाङ्गानामनुष्ठानम्। तथा पुरुषार्थकृतत्वाच्च यतः सकृदनुष्ठितैरप्यङ्गैः पुरुषार्थः कृत एव भवति पुरुषार्थः पुरुषस्याभीष्टं फलम् तद्धि आग्नेयादिभिरङ्गोपकृतैः क्रियते आरादुपकारकाणि चाङ्गान्यनेकघटादिप्रकाशकप्रदीपवत् सर्वेषां सहैवोपकुर्वन्ति सकृत्कृतैरपि पुरुषार्थः कृतएव भवति। तथा एकार्थसमवायश्रुतेश्चाङ्गानां तन्त्रं भवति एकोऽर्थो यस्य एकार्थ एकफलो यः प्रधानानां समवायः समूहः स एकार्थसमवायः तत्र एकार्थे समवाये एकफले प्रधानसमूहे अङ्गानां तन्त्रश्रुतेः अङ्गानां सकृदनुष्ठानं श्रूयते यतः। तथाहि “ता एकविंशतिराहुतयोद्वावाधारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्तद्दशाग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाक्श्चाथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्ट यजुश्चेति तत्राग्नेयोपांशुयाजाग्नीषोमीयलक्षण एकफले प्रधानसमवाय आहुतीनामेकविंशतिसंख्या श्रूयते सा चाङ्गानां सकृत्करणपक्ष एवोपपद्यते न प्रतिप्रधानं पृथगनुष्ठानपक्षे। तस्मात् प्रधानानां सहप्रयोगे सकृदेवारादुपकारिका क्रिया सन्निपत्योपकारकाणां प्रतिप्रधानमावृत्तिरिति तु प्रागुक्तमेव। अथ प्रधानानां सह प्रयोगे कारणान्याह” कर्कः। “फलकर्मदेशकालद्रव्यदेवतागुणसामान्ये” ३ सू०। यत्रैकेन वाक्येन बहूनि प्रधानकर्माणि एकफलसाधनत्वेन विधीयन्ते तत्र तेषामितरेतरापेक्षाणां साधनत्वेन विधानात् सहप्रयोगः तद्यथा मित्राविन्दाश्रीराष्ट्रमित्रायुष्कामस्येति वैश्वदेवेन प्रजाकामं याजयेदिति अत्र मित्रविन्दाशब्देन समुदायवचनेन दशानां हविषां सहप्रयोगः वैश्वदेवशब्देन च समुदायवचनेनाष्टानां हविषाम्। सूत्रार्थस्तु सामान्य शब्दः प्रत्येकं सम्बध्यते फलसामान्ये कर्मसांमान्ये देशसामान्ये कालसामान्ये द्रव्यसामान्ये देवतागुणयोः सामान्य इति एकवाक्येनैकफलसाघनत्वेन विधानेऽपि फलादिसामान्ये सत्येव प्रधानानां सहप्रयोगो भवति फलं स्वर्गादि कर्म पञ्चप्रयाजता त्र्यनुयाजतेत्यादि। देशः समप्राचीनप्रवणादिः। कालः पूर्वाह्णापराह्णादिः। द्रव्यं दक्षिणाद्रव्यम् न तु हविर्द्रव्यम् अनेकेषु प्रधानकर्मसु तद्भेदस्यावश्यम्मावात् देवता प्रजापतीन्द्रादिः। तद्गुण उपांशुत्वाश्राव्यत्वादिः तस्मिन् सति प्रधानमपि सहैव भवति न पृथक्” कर्कः “तद्भेदे भेदः” ४ सू०। तेषां फलादीनां भेदस्तद्भेदः तद्भेदे तेषां फलादीनां सह प्रयोगकारणानां भेदे सति प्रधानानां प्रयोगभेदो भवति तत्र प्रयोगवचनभेदान्मित्रविन्दाप्रीतिकामाग्नेययोर्न सहप्रयोगः फलभेदाच्च श्रीकामराष्ट्रकाममित्रकामायुष्काममित्रविन्दानां पृथक् प्रयोगः। कर्मभेदेऽपि प्रयोगभेदो भवति तद्यथा कस्यचित् पञ्चप्रयाजता कस्यचिन्नवप्रयाजता यथा च क्रैडिनीया महाहविषोस्तन्त्रसहत्वे इतरेतरस्य विगुणत्वं भवति। देशभेदेऽपि तन्त्रभेदो भवति यथा वरुणप्रयासेषु मारुत्याः क्रैडिनीमहाहविषोश्च क्रैडिन्याः समदेशः महाहविषस्तु प्राचीनप्रवणः। कालभेदेऽपि सहप्रयोगो न भवति यथा दर्शस्य पौर्णमासस्य च “पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममावास्यया यजेतेति वचनेन कालभेदेन तयोर्विधानात्। यथा वा आनीकवतीसान्तपनीययोः पूर्वाह्णमध्याह्नरूपकालभेदात्तन्त भेदः। दक्षिणाद्रव्यैक्ये सति सहप्रयोगो यथा राजसूये त्रयाणां त्रिषंयुक्तानां येषां मते च त्रिषंयुक्तानां त्रयाणामप्येकस्मिन्नेवाहन्यनुष्ठानम् तेषां दक्षिणाद्रव्यभेदेन त्रयाणां त्रयाणां पृथगनुष्ठानम् न सर्वेषां सहप्रयोगः दक्षिणाभेदश्च त्रयाणां वामनः त्रयाणां श्यामः त्रयाणां बभ्रुरिति तत्र दक्षिणाभेदादानतिभेदः तद्भेदात्तत्कृतस्य स्वरूपस्य भेदः वामनानतैर्हि पूर्वं कर्म कर्त्तव्यम् श्यामानतैरुत्तरम् तन्त्रत्वे तूभाभ्यामानता उभयं कुर्य्युः। तत्र दक्षिणाव्यवस्था गम्यमाना बाध्येत। तस्मात् प्रतिदक्षिणं तन्त्रभेदः। अत्र एकवाक्येनेकफलार्थमेव विधाने देशकालकर्मैक्ये सत्यपि दक्षिणाभेदात्तन्त्रभेदः। देवताया देवतागुणस्य च सामान्ये सति उच्चारणमपि तस्या देवताया आवाहनत्यागादौ तन्त्रेण भवति यथा सप्तदशप्राजापत्येषु राजपेये प्रजापतेर्देवतायाः समानत्वाद्गुणस्योपांशुत्वस्य च समानत्वादनुवचनादौ तन्त्रेणोच्चारणं भवति यागोऽपि तन्त्रेणैव भवति। तथा च प्राजापत्यान् प्रकृत्य श्रूयते एकानुवाक्या भवत्येकयाज्यैकदेवत्या हि प्राजापत्या इत्युपांशुत्वाच् छागानां हविषोऽनूब्रूहोति अत्रानुवाक्याद्येकत्वे एकदेवतत्वं हेतुं ब्रुवन्ती एकदेवताकानां सिद्धं तन्त्रोच्चारणं दर्शयति। दर्शपूर्णमासयोरेव द्रव्यभेदेऽपि दध्नः पयसश्च देवताया इन्द्रस्य तद्गुणस्य चाश्राव्यत्वस्य समानत्वात्तन्त्रेणैव याग उच्चारणं भवति। देवतायां समानायामपि देवतागुणस्योपाशुत्वादेर्भेदे सति सहोच्चारणं न भवति यथा प्रकृतावेवापांशुजापाग्नीषोमयोः पुरोडाशाग्नीषोमयोश्च। इह देवतातद्गुणयोः सामान्ये यागस्य तन्त्रेणानुष्ठानमुच्यते अत्र सिद्धमेव देवतागुणसामान्ये तन्त्रेण यागानुष्ठानमुपजीव्य भेदो यागस्य भेदेनानुष्ठानपूर्वं निषिद्धः न द्रव्यभेदे गुणयोगादिति वा तस्य इति न पुनरुक्तिदोषादि।” कर्कः। तल्लक्षणविषयादिकं जैमिनिना एकदशाध्याये न्यरूपि तत एवागन्तव्यं संक्षेपतश्च जैमिनिशब्दे माधवेनोक्तं ३१४१ पृ० दर्शितम्। तत्र शास्त्रे “आसुरिरपि पञ्चशिखाय तेन बहुधा कृतं तन्त्रम्” “सप्तत्यां किल येऽर्थास्तेऽर्थाः षष्टितन्त्रस्य” सा० का०। २२ नीत्यवयवे। “तन्त्रैः पञ्चभिरेतच्चकार मनोरमं शास्त्रम्” पञ्चत०। तदवयपाश्च मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धाप्रणाशपरीक्षितकारकाख्याः। तन्त्रं वेत्ति ठक्। तान्त्रिक तन्त्रवेत्तरि त्रि०। तन्त्र विहितः ठक्। तान्त्रिक तन्त्रविहिते त्रि० स्त्रियां ङीप् “वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोःगत” तन्त्रसा० तान्त्रिकी दीक्षा २३ वशे च स्वतन्त्रः परतन्त्रः।

तन्त्रक = त्रि० तन्त्रात् अचिराहृतम् कन्। अभिनवे वस्त्रे अमरः पटे पु० शाट्यां स्त्री इति भेदः। “वसानस्तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ” भट्टिः।

तन्त्रकाष्ठ = न० तन्त्रस्थं काष्ठम्। तन्त्रस्थे काष्ठभेदे (ता~तेर काटि) प्रभृतौ त्रिका०।

तन्त्रता = स्त्री तन्त्रस्य भावः तल्। अनेकोद्देशेन सकृत्प्रवृत्तौ यथा तर्पणपूजनाद्यनेककर्मोद्देशेन सकृत्स्नाने कृते सर्वकर्माङ्गस्नानसिद्धिः। तद्विषयोदाहरणं प्रा० त० उक्तं यथा “आग्नेयाष्टकपालैन्द्रदध्यैन्द्रपयोयागानां त्रयाणामाग्नेयाष्टकपालोपांशुयागाग्नीषोमीयैकादशकपालयागानां त्रयाणां सकृत् सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकारः सिद्ध्यति तथा मानाब्रह्मबधसत्त्वे सर्वोद्देशेन सकृत् प्रायश्चित्ते कृते सर्वब्रह्मवधजन्यपापनाशः। तन्त्रतायाहेतुश्च अदृष्टार्थैकजातीयकर्मणः कालदेश कर्त्रादीनां प्रयोगानुबन्धिवैधहेतुभूतानामभेदे उद्देश्य विशेषाग्रहः” इति। एवञ्च “स्नातोऽधिकारी भवति दैवे पैत्रे च कर्मणि। पवित्राणां तथा जाप्ये दाने च विधिदर्शिते” इति विष्णूक्तम् “अस्नात्वा नाचरेत् कर्मजपहोमादि किञ्चनेति” दक्षोक्तञ्च, क्रियाङ्गस्नानं कर्तृसंस्कारद्वारैव तद्दिनकर्त्तव्याशेषकर्मार्थमेकमेव न तु प्रतिकर्म कर्त्तंव्यम्” इति रघुनन्दनः अधिकं तन्त्रशब्दे दृश्यम्।

तन्त्रधारक = पु० तन्त्रं कर्मज्ञापकपद्धतिग्रन्थं धारयति धारि–ण्वुल् ६ त०। “एकस्तत्र नियुक्तः स्यादपरस्तन्त्रधारकः। तृतीयं प्रश्नकं ब्रूयात् ततः कर्म समाचरेत्” गृह्यपरिष्टोक्ते कर्मस्वरूपज्ञापकपुस्तकवाचके। “तन्त्रधारकः पुस्तकधारकः” स० त० रघुनन्दनः।

तन्त्रयुक्ति = स्त्री तन्त्रोक्ता आयुर्वेदशास्त्रोक्ता युक्तिः। सुश्रुतोक्ते द्वात्रिंशद्भेदके युक्तिभेदे। ताश्च यथा “अथातस्तन्त्रयुक्तिनामाध्यायं व्याख्यास्यामः। द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति। तद्यथा। अधिकरणं योगः पदार्थो हेत्वर्थ उद्देशो निर्द्देश उपदेशः प्रदेशोऽतिदेशोऽपवर्गो वाक्यशेषोऽर्थापत्तिर्विपर्य्ययः प्रसङ्गएकान्तोऽनेकान्तः पूर्वपक्षो निर्णयोऽनुमतं विधानमनागतावेक्षणम् अतिक्रान्तावेक्षणम्। संशयो व्याख्यानं स्वसंज्ञा उदाहरणं निर्वचनं निदर्शनं नियोगो विकल्पः समुच्चय ऊह्यमिति अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमित्युच्यते। वाक्ययोजनमर्थयोजनञ्च। भवन्ति चात्र श्लोकाः। असद्वादिप्रयुक्तानां वाक्यानां प्रतिहेलनम्। स्ववाक्यानां सिद्धिरपि क्रियते तन्त्रयुक्तितः। व्यक्ता नोक्ताश्च ये ह्यर्था लीना ये चाप्यनिर्मलाः। लेशोक्ता ये क्वचित्तन्त्रे तेषाञ्चापि प्रसाधनम्। यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा। प्रबोध्यस्य प्रकाश्यार्थास्तथा तन्त्रस्य युक्तयः। यमर्थमधिकृत्योच्यते तदधिकरणं १ यथा रसं दोषं वा। येन वाक्यं युज्यते स योगः २। यथा तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षक पिप्पलीभिः। सिद्धं बलाभ्याञ्च सदेवदारु हितञ्च नित्यङ्गलगण्डरोगी”। सिद्धं पिवेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धं प्रयुक्तमेवं दूरस्थानामपि पदानामेकीकरणं योगः। योऽर्थोभिहितः सूत्रे पदे वा स पदार्थः ३। अपरिमिताश्च पदार्थाः। यथा स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणामर्थानामुपपत्तिर्दृश्यते तत्र योऽर्थः पूर्बापरयोगसिद्धोभवति स ग्रहीतव्यो यथा। वेदोत्पत्तिं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः। कतमस्य वेदस्यायमुत्पत्तिं पिवक्षुरिति। ऋग्वेदादयस्त्रयोवेदास्तत्र पूर्वापरयोगमुपलभ्य विद–विचारणे विन्दत्येतयोश्च धात्वोरनेकार्थयोः प्रयोग इति पश्वात्प्रतिप्रत्तिर्भवति। आर्युवेदोत्पत्तिमयं विवक्षुरित्येवं पदार्थः। यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः ४। यथा मृत्पिण्डोऽद्भिः प्रक्लिद्यते यथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति। समासकथनमुद्देशः ५। यथा शल्यमिति। विस्तरवचनं निर्देशः ६। यथा। शारीरमागन्तुकं चेति। एवमित्युपदेशः ७। यथा “तथा न जागृयाद्रात्रौ दिवा स्वप्नञ्च वर्जयेत्” अनेन कारणेनेत्युपदेशः। यथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति। प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः ८। यथा देवदत्तस्यानेन शव्य- मुद्धृतं तस्माद्यज्ञदत्तस्याप्ययमेवोद्धरिष्यतीति। प्रकृतस्यानागतेन साधनमतिदेशः ९। यथानेनास्य वायुरूर्द्धमुपतिष्ठते तेनोदावर्त्तः स्यादिति। अभिव्याप्यापकर्षणमपवर्गः १०। यथा स्वेद्या विषापसूष्टा अन्यत्र कीटविषादिति। येन पदेनानुक्तेन वाक्यं समाप्यते स वाक्यशेषः ११। यथा शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणमपि गम्यते पुरुष एवोक्त इति। यदकीर्त्तितमर्थादापद्यते सार्थापत्तिः १२। यथौदनं भक्ष्ये इत्युक्तेऽर्थादापन्नं भवति नायं पिपासुर्यवागूमिति। यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्य्ययः १३। यथा कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति। प्रकरणान्तरेण समापनं प्रसङ्गः १४। यथा प्रकारणान्तरितोयमर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः महाभूतशरीरसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतविद्यायां पुनरुक्तं यतोऽभिहितं पञ्चमहाभूतशरीरसमवायः पुरुष इति स खल्वेवं कर्मपुरुषश्चिकित्सायामधिकृतः सुर्वत्र। यदवधारेणोच्यते स एकान्तः १५। “यथा तृवृद्विरेचयति मदनफलं वामयतीति। क्वचित्तथा क्कचिदन्यथेति यः सोऽनेकान्तः १६। यथा केचिदाचार्य्या ब्रुवते द्रव्यं प्रधानं केचिद्रसं केचिद्वीर्य्यं केचिद्विपाकमिति। आक्षेपपूर्बकः प्रश्नः पूर्बपक्षः १७ यथा कफवातनिमित्ताश्चत्वारः प्रमेहा असाध्या भवन्तीति। तस्योत्तरं निर्णयः १८। यथा शरीरं प्रपीड्य पश्चादधोगत्वा वसामेदोमज्जानुविद्धं मूत्रं प्रसृजति वात एवमसाध्या वातजा इति। तथाचोक्तम् “कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः। अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः”। परमतमप्रतिषिद्धमनुमतम् १९। यथान्यो ब्रूयात्सप्त रसा इति। प्रकरणानुपूर्व्याभिहितं विधानम् २०। यथा सक्थिमर्म्माण्येकादशप्रकरणानुपूर्व्याभिहितानि। एवं वक्ष्यतीत्यनागतावेक्षणम् २१। यथा श्लोकस्थाने ब्रूयाच्चिकित्सितेषु वक्ष्यामीति। यत्पूर्बमुक्तं तदतिक्रान्तावेक्षणम् २२। यथा चिकित्सितेषु ब्रूयात् श्लोक स्थाने यदीरितसिति। उभयहेतुदर्शनं संशयः २३। यथा तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनं प्राणहरमिति। तत्रातिशयोपवर्णनं व्याख्यानम् २४। यथेह पञ्चविंशतिकः पुरुषोऽत्र व्याख्यायते। अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रकृत्यारब्धचिन्ता। अन्यशास्त्रासा- मान्या स्वसंज्ञा २५। यथा मिथुनमिति मधुसर्पिषोर्ग्रहणम्। लोके प्रथितमुदाहरणम् २६। यथोष्णभयाच्छीतमनुधावति। निश्चितं वचनं निर्वचनम् २७। यथायुर्विद्यतेऽस्मिन्ननेन वायुर्विन्दतीत्यायुर्वेदः। दृष्टान्तैनार्थः प्रसाध्यते यत्र तन्निदर्शनम् २८। यथाग्निर्वायुना सहितः कोष्ठे वृद्धिं गच्छति तथा वातपित्तकफजोदुष्टव्रण इति। इदमेब कर्त्तव्यमिति नियोगः २९। यथा पथ्यमेव भोक्तव्यमिति। इदं वेति विकल्पः ३०। यथा रसौदनः सवृता यवागूर्व्वा इदञ्चेदञ्चेति समुच्चयः ३१। यथा मांसवर्गे ऐणहरिणलावतित्तिरिशारङ्गाः प्रधानमिति। यदनिर्दिष्टं बुद्धिमता तदूह्यम् ३२। यथाभिहितमन्नपानविधौ चतुर्विधञ्चान्नमुपदिश्यते। भक्ष्यं भोज्यं लेह्यं पेयमेवञ्चतुर्विधे वक्तव्ये द्विविधमतिहितमत्रोह्यमिति। अन्नपाने विशिष्य द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवति किञ्चान्यत्। अन्नेन भक्ष्यमवरुद्धं त्वन्नसाधर्म्यात्। पेयेन लेह्यं द्रवसाधर्म्यात्। चतुर्विधश्चाहारः प्रायेण द्विविधः प्रसिद्ध इति। द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे। गया सम्यग्विनिहिताः शब्दन्यायार्थसंयुताः। योह्येता विधिवद्वेत्ति दीपोभूतास्तु बुद्धिमान्। स पूजार्हो भिषक् श्रेष्ठ इति धन्वन्तरेर्मतम्।”

तन्त्रवाय(प) = पु० तन्यते तन–कर्म्मणि ष्ट्रन् तन्त्रं सूत्रं वयति वपति वा वे–वप–वा अण् उप० स०। (ता~ति) ख्याते १ सङ्कीर्णजातिभेदे स्त्रियां जातित्वात् ङीष् योपधस्य तु टाप् इति भेदः। तदुत्पुत्तिः पराशरपद्धतावुक्ता यथा “ताम्रकुट्टाच्छङ्खकार्य्यां मणिकारश्च जायते। मणिकारात् ताम्रकुट्ट्यां मणिबन्धोऽत्र जायते मणिवन्धान्मणिकार्य्यां तन्त्रवायाश्च जज्ञिरे”। मनूक्तस्त्वस्माद्भिन्नः। आधारे घञ् ६ त०। २ तन्त्रे (ता~त) पुंन० शब्दरत्ना०।

तन्त्रहोम = पु० तन्त्रेण होमः। परिसमूहनवर्हिरास्तरण युक्ते होमे क्षिप्रहोगशब्दे दृश्यम्। तन्त्रमप्यत्र। “अङ्गहोमसमित्तन्त्रं शोषन्त्याख्येषु कर्मसु” छन्दोगप०

तन्त्रा = स्त्री तत्रि–भावे अ। ईषन्निद्रायां तन्द्रायां द्विरूपको०।

तन्त्रायिन् = पु० तन्त्रे कालचक्रे एतिर्गच्छति णिनि ७ त०। कालचक्रगामिनि सूर्य्यादौ। “तन्त्रायिणे नमोद्यावापृथिवीभ्याम्” यजु० ३८। १२ तन्यतेऽनेन तन्त्रं पटरचनाय शलाकायुक्तं यन्त्रभेदः तद्वत् नभञ्चि कालचक्रमपि तन्त्रमुच्यते” वेददी०।

तन्त्रिका = स्त्री तन्त्रयते तत्रि ई ततः स्वार्थे क पूर्वाणो ह्रस्वः। गुडूच्याम्। अमरः।

तन्त्रि = स्त्री तत्रि–इ। १ तन्त्र्याम् २ तन्द्रायां च “व्यपेततन्त्रि र्धर्म्मात्मा शक्त्या सत्समयाश्रितः” भा० आनु० १। ४२ अ०।

तन्त्रित = त्रि० तन्त्रा तन्द्रा जाताऽस्य तार० इतच्। आलस्ययुक्ते “धार्मिको नित्यभक्तश्च पितुर्नित्यमतन्त्रितः” भा० शा० १२७१३। “गव्यं दीर्वेण कालेन युक्तेनातन्त्रितेन च” भा० आनु० १६२ अ०। “अतन्त्रिता सा स्वयमेव वृक्षकान्” कुमा०।

तन्त्रिपाल = पु० सहदेवे तन्तिपालशब्दे दृश्यम्।

तन्त्रिपालक = पु० जयद्रथराजे शब्दम०।

तन्त्री = स्त्री तत्रि–ई। १ वीणागुणे २ गुडूच्यां ४ देहसिरायां मेदि०। “स ददर्श श्वमांसस्य कुतन्त्रीं विततां मुनिः” भा० शा० १४ अ०। ४ नदीभेदे ५ नाड्यां ६ युवतीभेदे शब्दर०। अस्य ङीवन्तत्वाभावेन बहुव्रीहौ स्वाङ्गे नाडीतन्त्रयोः पा० न कप् तदभावेऽपि न ह्रस्वः। बहुतन्त्रीर्ग्रीवा बहुतन्त्रीर्धमनी” सि० कौ०। स्वाङ्ग इत्युक्तेः बहुतन्त्रीका वीणेतादो कप्। “सप्ततन्त्री प्रथिता चैव वीणा” भा० व० १३४ अ०। अस्वाङ्गत्वेऽपि आर्षत्वात् न कप्। ७ रज्जौ “न लङ्घयेत् वत्सतन्त्रीं” मनुः “यस्य वाचा प्रजाः सर्वा गावस्तन्त्र्येव यन्त्रिताः” भाग० ३। १५। ८। ८ वीणायाञ्च “कण्डूयमानः सततं लोकानटति चञ्चलः। घट्टयानो नरेन्द्राणां तन्त्रीर्वैराणि चैव ह” हरिवं० ५७ अ०।

तन्त्वग्र = न० ६ त०। तन्तूनामग्रे ततोगहा० छ। तन्त्वग्रीय तद्भवादौ त्रि०।

तन्थी(स्थी) = अव्य० तन–बा थी। उर्म्यादिगणे तस्थीत्यत्र पाठान्तरम् पृषो०। स्वीकारे अभ्युपगमे। गतिसंज्ञकत्वात् समासे तन्थी(स्थी)कृत्य।

तन्द्रा = स्त्री तद्रि–भावे अ। १ ईषन्निद्रायाम् २ आलस्ये च हेमच० “तमोवातकफात्तन्द्रा” इति वैद्यकम् तल्लक्षणञ्च “इन्द्रियार्थेष्यसंवित्तिर्गौरवं जृम्भणं क्लमः। निद्रार्त्तस्येव यस्येहा तस्य तन्द्रां विनिर्द्दिशेत्” माधवः “शुचिर्गुरुवचोदक्षस्तन्द्रानिद्राविवर्जितः” “विषयेन्द्रियसंमोषस्तन्द्रालस्यविवर्जनम्” याज्ञ०। निद्रायां प्रबुद्धस्य क्लमाभावः। तन्द्रायां तु प्रबुद्धस्यापि क्लम इत्यनयोर्भेदः। तन्द्रा च सुखस्य मार्य्या निद्रायाः कन्या प्रीतेर्भगिनी यथाह “निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये। याभ्यां व्याप्तं जगत्सर्वम्” शब्दार्थचि० धृतवाक्यम् ३ पङ्क्क्तिछन्दसि न०। “तन्द्रं छन्दः” यजु० १५। ५। तद्रि सादे मोहे च तन्द्रति सीदति स्थानसंकोचेनेति तन्द्रं श्रेणी “पङ्क्तिर्वै तन्द्रं छन्दः” इति श्रुतेः” वेददी०

तन्द्रयु = त्रि० तन्द्रामालस्यं याति या–कु पृषो०। आलस्ययुक्ते “मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानाम्” ऋ० ८। ९२। ३० “तन्द्रयुरालस्ययुक्तः” भा०

तन्द्रवाप = पु० तन्त्रवाप + पृषो०। तन्द्रवाये शब्दार्थचि०।

तन्द्रालु = त्रि० सौ० तद्रि–आलुच्। १ ईषन्निद्रायुक्ते २ आलस्ययुक्ते च जटाधरः।

तन्द्रि = स्त्री सौ० तदि–क्रिन्। १ ईषन्निद्रायाम् २ आलस्ये च उणादिको० “विभक्तनक्तन्दिवमस्ततन्द्रिणा” किरा०। तद्रि–ई तन्द्रीत्यपि तत्रार्थे अयं न ङीबन्तस्तेन न सुलोपः। तन्द्रीश्च अत्यन्तश्रमादिना सर्वाङ्गेन्द्रियाप्रभुत्वम्। सर्वाङ्गेन्द्रियनिमीलनापादकत्वात् तथात्वम्। “क्षुघा च तन्द्र्या च विपन्नतां गतः” रामा० अयो० ८० अ०। “गततन्द्रीक्लमौ वापि क्षणेनैतौ महारथौ” २८८ अ०। जिततन्द्रीः गततन्द्रीः इत्थादौ ङीबन्तत्वाभावान्न ह्रस्वः न वा कप्।

तन्द्रिज = पु० यदुवंश्ये कनवकनृपपुत्रभेदे “तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु” हरिवं ३५ अ०।

तन्द्रित = त्रि० तन्द्रा जाताऽस्य तार० इतच्। जातालस्ये “य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः” “अतन्द्रिता सा स्वयमेव वृक्षकान्” कुमा०। अतन्त्रितेति पाठान्तरम्।

तन्द्रिपाल = पु० यदुवंश्ये कनवकनृपपुत्रभेदे तन्द्रिजशब्दे दृश्यम्

तन्नि = स्त्री तन्नयति नी–बा० डि। (चाकुल्या) चक्रकुल्यायां रत्नमाला। तन्विरित्यपि पाठः। पृषो०।

तन्वी = स्त्री तनुः कृशा स्त्री गुणवचनोदन्तत्वात् वा ङीष्। १ कृशाङ्ग्यां स्त्रियां तनुशब्दे उदा० “अप्रभूतमतनीयसि तन्वी” माघः। २ शालपर्ण्यां (शालपान) राजनि०

तन्मय = त्रि० तदात्मकम् तद् + मयट्। तदात्मके “तन्मयं विद्धि मां विप्र! धृतोऽहं यैर्मया च ते” हरिवं १६९ अ०।

तन्मात्र = न० तदेव एवार्थे मात्रच् सा मात्रा यस्य वा। सांख्यादिसिद्धेषु शब्दादिषु नत्वेषां शान्तादिर्विशेषोऽस्ति। यथोक्तं विष्णुपुराणे “तस्मिं तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता। तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते। न शान्ता नापि घोरास्ते न मूढाश्चाबिशेषिणः” इति। “तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः। एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च” सा० का०।

तन्यतु = पु० तनोति शब्दं तमो वा तन–यतुच्। १ वायौ २ रात्रौ च उज्वल०। स्तन–शब्दे बा० यतुच् सलोपश्च। ३ गर्जिते ४ अशनौ च माधवः। “न वेपसा न तन्यतेन्द्रम्” ऋ० १। ८०। १२ भाष्ये उक्तैव व्युत्पत्तिः। तन्यता गर्जितेन छान्दस उत आच्। “आविष्कृणोमि तन्यतुर्वृष्टिम्” वृ० उ०। “तन्यतुः पर्जन्यः” भा०।

तन्यु = त्रि० तन + बा० ल्यु न अनादेशः। विस्तृते “रजांसि चित्रा वि चरन्ति तन्यवः” ऋ० ५। ६३। ५।

तन्विन् = पु० तामसमनोरपत्यभेदे। “तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः” हरिवं० ७ अ०।

तप = उपतापे सक० ऐश्वर्य्ये अक० दि० आ० अनिट्। तप्यते अतप्त। तेपे तप्ता तप्स्यते तप्तः तप्तिः।अव–अधस्तासे। अवतप्तेनकुलस्थितम्” सि० कौ०।आ + सम्यक्तापे। आतप्तजाम्बूनदभूषिताङ्गः” हरिवं ९ अ०अनु + सन्तततापे अनुशोचने च। “अनुतप्ये भृशं तात! तव घोरेण कर्मणा” भा० व० १३७२० श्लो०। “अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम्” रामा० अयो० ४ अ०। “वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः” भा० व० २७ अ०

तप = दाहे चु० उभ० सक० सेट्। तपयति-ते अतीतपत्-त। “संप्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति” उद्भटः। “न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया” हितो० “कोऽत्र भूमिवलये जनान् मुधा तापयन् सुचिरमेति सम्पदम्” माघः।अव + अधोभागे तापने “अथावताप्य पृथिवीं पूषा दिवससंक्षये। जगामास्तं सहस्रांशुः” भा० उ० १८० अ०।

तप = दाहे भ्वा० उभ० सक० सेट्। ज्वलने निरु० तपति–ते अतापीत्–अतपीत् अतपिष्ट। तताप तेपे तपिष्यति ते “वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः” भा० अनु० १४ अ०। “त्वमेकैकस्तपसे जातवेदाः” भा० आ० २३२ अ० “तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च” गीता “तमस्तपति घर्मांशौ” शकु०। तपःकर्म्मकत्वेऽस्य कर्त्तर्य्यपि यक् तङ च तप्यते तपस्तापसः।अभि + पर्य्यालोचने “पृथिवीमन्तरिक्षं दिवं ताल्लो~कानभ्यतपत्” ऐत० व्रा० अभ्यतपत् पर्य्यालोचितवान्।उद् + दीप्तौ अक० आत्म० स्वाङ्गकर्मकत्वे सक० आत्म० “उत्त पते दीप्यते इत्यर्थः” सि० कौ०। पाणिमुत्तपते। स्वाङ्गेत्युक्तेः प० मैत्रस्य पाणिमुत्तपति” अन्यकर्मणि तु प०। उत्तपति सुवर्णं विलापयतीत्यर्थः” सि० कौ०। “तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः” भट्टिः। “करणं कुसुमेषुरुत्तपति यद्विशिखः” माघः।उप + पीडाजन्यतापे “आहिताग्निश्चेदुपतपेत्” आश्व० गृ० ४। १। १। उपतपेत् व्याधिभिरुत्पीड्येतेत्यर्थः।नि + नितरां तापे। “तदाहुर्निशोचति नितपति वर्षिष्यति वा” छा० उ०।निस् + निःशेषेण तापे पौनः पुन्य न तापे षत्वम्। “दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे” भा० आ० २२६ अ०। निष्टपति सुवर्णम् आसेवने तु नष त्वं निस्तपति सुवर्णं सुवर्णकारः। “यस्तु सूर्य्येण निष्टप्तं गाङ्गेयं पिबते जलम्” भा० आनु० २२६ अ०। षत्वे उभयतका ग्रहणम्।प्र + प्रकर्षेण तापे विक्रमहेतुके तापे च “भासस्तवोग्राः प्रतपन्ति विष्णो!” गीता “सूर्य्यः प्रतपतां श्रेष्ठः” भा० वि० ४२ श्लो० “भास्करात प्रतपिष्यतः” भा० व० १९० अ० “द्वितीयस्येव सूर्य्यस्य युगान्ते प्रतपिष्यतः” भा० व० २२ अ०।वि + उत्तापवत् सर्वम्। “रविर्वितपतेऽत्यर्थम्” भट्टिः दीप्यते इत्यर्थः पाणिं वितपते मैत्रस्य पाणिं वितपति सुवर्णं वितपतीत्यादि। “वितपन्नरातिम्” अथ० १२। २। ४५सम् + सम्यक्तापे। “दत्त्वापि च धनं काले सन्तपत्युःकारिणे” भा० शा० १६४ अ०।

तप = पु० तप–अच्। १ ग्रीष्मे ज्यैष्ठाषाढात्मके ऋतौ अमरः। “तपेन वर्षाः शरदा हिमागमः” माघः। “तपर्त्तुपूर्त्तावपिमेदसाम्भराः” नैष० “तपात्यये वारिभिरुक्षितानवैः” कुमा०। किञ्चित् कर्म्मोपपदे तापेः खच् ह्रस्वश्च २ तत्तापके परन्तपः भावे अप्। ३ तपसि च “अश्मकुट्टा निरशना दशपञ्चतपा इमे” हरिवं ४६ अ०।

तपः(स्क)कर = त्रि० तपः करोति अच् वा विसर्गस्य सः। १ तपःकारके (तपसी) २ मत्स्यभेदे पुंस्त्री शब्दरत्ना०। स्त्रियां जातित्वात् ङीष्।

तपःक्लेशसह = त्रि० तपसः क्लेशं सहते सह–अच्। इन्द्रियसंयमादिकारके तपस्विनि अमरः।

तपःस्थली = स्त्री ६ त०। १ काश्यां त्रिका०। २ तपस्यास्थलमात्रे च

तपती = स्त्री। सूर्य्यस्य कन्यायां संवरणनृपस्य भार्य्यायां कुरुराजमातरि। “ततः संवरणात् सौरी तपती सुषुवे कुरुम्” मा० आ० ९४ अ०। “संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे तस्यामस्य जज्ञे कुरुः” ९५ अ०। १७१ अ०। तत्कथा “अर्जुन उवाच तापत्य इति यद्वाक्यमुक्तवा- नसि मामिह। तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम्। तपतोनाम का चैषा तापत्या यत्कृते वयम्। कौन्तेया हि वयं साधो! तत्त्वमिच्छामि वेदितुम्। वैशम्पायन उवाच। एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम्। विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम्। गन्धर्व उवाच। हन्त ते कथयिष्यामि कथामेतां मनोरमाम्। यथावदखिलां पार्थ! सर्वबुद्धिमतांवर!। उक्तवानस्मि येन त्वां तापत्या इति यद्वचः”। “य एष दिवि घिष्ण्येन नाकं व्याप्नोति तेजसा। एतस्य तपती नाम बभूव सदृशी सुता। विवस्वतो वैदेवस्य सावित्र्यवरजा विभोः। विश्रुता त्रिषु लोकेषु तपती तपसा युता। न देवी नासुरी चैव न यक्षी न च राक्षसी। नाप्सरा न च गन्धर्वी तथा रूपेण काचन। सुविभक्ताऽनवद्याङ्गी स्वसितायतलोचना। स्वाचारा चैव साध्वी च सुवेशा चैव भामिनी। न तस्याः सदृशं किञ्चित् त्रिषु लोकेषु भारत!। भर्त्तारं सविता मेने रूपशीलगुणश्रुतैः। सम्प्राप्तयौवनां पश्यन् देयां दुहितरन्तु ताम्। नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन्। अथर्क्षपुत्रः कौन्तेय! कुरूणामृषभो बली। सूर्य्यमाराधयामास नृपः संवरणस्तदा। अर्घ्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः। नियमैरुपवासैश्च तपोभिर्विविधैरपि। शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः। अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्। ततः कृतज्ञं धर्मज्ञं रूपेण सदृशं भुवि। तपत्याः सदृशं मेने सूर्य्यः संवरणं पतिम्। दातुमेच्छत्ततः कन्यां तस्मै संवरणाय ताम्। नृपोत्तमाय कौरव्य! विश्रुताभिजनाय च”। भा० आ० १७१ अ०।

तपन = पु० तप–ल्यु। १ सूर्त्ये २ भल्लातकवृक्षे। ३ अग्न्यादौदाह युक्ते नरकभेदे ४ ग्रीष्मे च हेम०। ५ अर्कवृक्षे ६ क्षुद्राग्निमन्थवृक्षे ७ सूर्य्यकान्तामणौ च राजनि०। “पञ्चमः पञ्चतपसां तपनो जातवेदसाम्” माघः। स्त्रीणां यौवने ८ सत्वजातावङ्कारभेदे न० सा० द०। “यौवने सत्वजास्तासामष्टाविंशन्तिसख्यकाः। अलङ्काराः इत्युपक्रमे “विकृतं तपनं मौग्ध्यम्” इत्यादिना विभज्य “तपनं प्रियविच्छेदे स्मरावे शोऽथ चेष्टितमिति” लक्षितम्। ९ अग्निभेदे पु० “ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा। दहनः शोषणश्चैव तपनश्च महाबलौ। स्वाहाकारस्य विषये विख्याताः पञ्च वह्नयः” हरिवं १८० अ०। १० शिवे पु०। “यज्ञवाहाय दान्ताय तप्याय तपनाय च” भा० शा० २८६ अ० शिवस्तुतिः भावे ल्युट्। ११ तापेन० धरणिः।

तपनच्छद = पु० तपनप्रियः छदोऽस्य। दमनकवृक्षे राजनि०

तपनतनय = पु० ६ त०। १ यमे २ यमुनायां, ३ शमीवृक्षे च स्त्री राजनि०। ४ कर्णे ५ सुग्रीवे च पु० तपनसुतादयोऽप्यत्र।

तपनमणि = पु० तपनतेजस्को मणिः। सूर्य्यकान्तमणौ राजनि०

तपनात्मजा = स्त्री ६ त०। १ गीदावरीनद्यां हेम०। २ यमुनायां च। ३ यमे ४ कर्णे ५ सुग्रीवे च पु०।

तपनी = स्त्री तप्यते पापमनया तप–ल्युट् ङीप्। गोदावर्य्यां नद्यां हेमच०।

तपनीय = न० तप–अनीयर्। १ स्वर्णे कनकधुस्तूरे च अमरः। “भव्यानि तु तपनीयसंक्रमस्य” माघः। “असंस्पृशन्तौ तप्रनीयपीठम्” रघुः। स्वार्थे क। तपनीयक सुवर्णे राजनि०।

तपनेष्ट = न० ६ त०। ताम्रे धातौ राजनि०। तद्धातोः सूर्य्यप्रियत्वात् तथात्वम्।

तपस् = न० तप–असुन्। आलोचनात्मके ईश्वरज्ञानभेदे अन्तर्य्यामिब्राह्मणभाष्ये दृश्यम्। २ लग्नावधिकनवमस्थाने ज्यो० ३ स्वाश्रमविहितकर्मणि ४ वैधक्लेशजनके कर्मणि। “तपोतानशनात्परम्”। ५ क्षुत्पिपासाशीतोष्णादिद्वन्द्वसहने। ६ चित्तप्रसादहेतुभूते व्रतनियमोपासनादिकर्मणि। ७ मौनादिव्रते” ८ कायेन्द्रियमनसां समाधाने ९ शास्त्रीयमार्गेण कायेन्द्रियमनसां शोषणे। १० कृच्छ्रचान्द्रायणप्रजापत्यादिरूपे प्रायश्चित्ते। ११ शास्त्रविहिततप्तशिलारोहणादौ। १२ वानप्रस्थस्यासाधरणधर्मे। तपश्च शारीरादिभेदात् त्रिविधम् यथाह “देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्। व्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते। मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपोमानसमुच्यते” गीता। तदपि सात्त्विकादि भेदात् त्रिविधम् यथाह “श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तं सात्विकं परिचक्षते। सत्कारमानपूजार्थं तपोदम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्। मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत् तामसमुदाहृतमिति” गीता। १३ मनैन्द्रियाणामैकाग्र्ये “मनसश्चेन्द्रियाणाञ्च ह्यैकाग्र्यं परमन्तपः” इत्युक्तेः १४ जनोलोकादुर्द्धस्थे लोकभेदे। “तस्योपरि तपो- लोकस्तेजोमय उदाह्वतः। वैराजा यत्र ते देवा वसेयुर्द्देव पूजिताः। वासुदेवे मनो येषां वासुदेवाऽर्पितक्रियाः। तपसातोष्य गोविन्दमभिलाषविवर्जिताः। ते तपोलोकमासाद्य वसन्ति विजितेन्द्रियाः। शिलोञ्छवृत्तयो ये वै दन्तोलूखलिकाश्च ये। येऽश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये। ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डिलेशयाः। हेमन्ते शिशिरे वा ये क्षपन्ति सलिले क्षपाः। कुशाग्रनीरविन्दूंश्च तृषिता यतयोऽपिबन्। वाताशिनोऽतिक्षुधिताः पादाङ्गुष्ठाग्रभूस्पृशः। ऊर्द्ध्वहस्ता रविदृशस्त्वेकाक्षिस्थाननिश्चलाः। ये वै दिवा निरुच्छ्वासा मासोच्छ्वासाश्च ये परे। मासोपवासं कुर्वन्ति चातुर्म्मास्यव्रताश्च ये। ऋत्वन्ते तोयपाना ये ये षण्मासोपवासकाः। ये च वर्षानिमेषा वै वर्षधाराम्बुतर्षकाः। स्थाणुसाम्योपसंप्राप्ता मृगकण्डूतिसौख्यदाः। जटाटवीकोटरान्तःकृतनीडाण्डजाश्च ये। प्ररूढ बल्मीकाङ्गाश्च स्नायुनद्धास्थिसञ्चयाः। लताप्रतानैः परितो वेष्टितावयवाश्च ये। शस्यानि च प्ररूढानि यदङ्गेषु महीपते। इत्येतैर्नियमैर्ये तु क्लिष्टात्मानस्तपोधनाः। ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः”। १५ माघे मासि “तपाश्च तपस्यश्च शैशिरावृतू” यजु० २७। २४ “तपसे त्वा” यजुः ७। ३०। तपसे माघाय। तपति सूर्यो यत्र अमुन् तपाः” वेददी०। तत्र हि उत्तरायणप्रवृत्तौ रवेः प्रखरकरता अतएवाह “मकरे प्रखरो रविः”। १६ धर्मे “विनाप्यस्मदलं भूष्णुरिज्यायैतपसः सुतः” माघः १७ नियमे “समाधिमास्थाय तपोभिरात्मनः” निशम्य चैनां तपसे कृतोद्यमाम्” “तपः क्व वत्से क्व च तावकं वपुः” कुमा० “तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते” वेदान्तप०। “तमेतं ब्राह्मणा विविदिषन्ति वेदानुवचनेन यज्ञेन तपसा नाशकेन” श्रुतिः। “ब्राह्मणस्य तपो ज्ञानं तपःक्षत्रस्य रक्षणम्। वैश्यस्य तु तपोवार्त्ता तपः शूद्रस्य सेवनम्” मनुः तपश्च योगसाधनं क्रियायोगभेदः यथोक्तं पात० सू० भाष्यविवरणेषु “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” सू०। “नातपस्विनो योगः सिद्ध्यति अनादिकर्मक्लेशवासनाचिता प्रत्युपस्थितविषयजाला चाशुद्धिः नान्तरेण तपःमम्भेदमापद्यते इति तपस उपादानं तच्चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते” भा०। “व्यतिरेकमुखेन तपस उपायत्वमाह नातपस्विन इति तपसोऽवान्तरव्यापारमुपायोपयोगिनं दर्शयति अनादि कर्म्मेति। अनादिभ्यां कर्मक्लेशवासनाभ्यां चिता अतएव प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता। अशुद्धीरजस्तमःसमुद्रेको नान्तरेण तपःसम्भेदमापद्यते सान्द्रस्य नितान्तविरलता सम्भेदः ननूपादीयमानमपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपाय इति। अत आह। तच्चेति तावन्मात्रमेव तपश्चरणीयं न यावता धातुवैषम्यमापद्यतैत्यर्थः” विवरणम्। १८ अग्नौ तपोजाः।

तपस = पु० तप–असच्। १ सूर्य्ये २ चन्द्रे त्रिका०। ३ खगे सि० कौ०

तपसोमूर्त्ति = पु० चतुर्थमन्वन्तरे आङ्गिरसे सप्तर्षिभेदे तपोधृति शब्दे दृश्यम्।

तपस्तक्ष = पु० तपस्तक्षति तक्ष–अण् उप० स०। इन्द्रे हेमच०। तस्य इतरतपस्याद्वेषित्वात् तथात्वम्।

तपस्य = तपः करोति तपस् + कृतौ क्यच् अक० सेट्। तपस्यति अतपस्यीत् अतपसीत् तपस्या। “स्थाणुं तपस्यन्तमधित्यकायाम्” कुमा०।

तपस्य = पु० तपसि साधु यत्। १ फाल्गुनें मासि अमरः। “तपाश्च तपस्यश्च शैशिरावृतूः यजु० १५। ५७ “तपस्याय त्वा” ७। ३०। २ अर्जूने तस्य फाल्गुननामकत्वात् तथात्वम्। भावे अ। तपस्या। ३ तपश्चर्य्यायां स्त्री। तपसि भवः यत्। ४ तपोभवे त्रि० “स्विद्याच्चेत् तपस्याभ्योऽद्भ्यः स्वाहा” कात्या० श्रौ० २५। ११। २८। तपस्य–भावे घञ्। ५ तपश्चरणे पु०। “अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ”! भा० आनु० ९ अ०। तामसस्य मनोः ६ पुत्रभेदे पु० “पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप! छत्रिस्तपस्यः सुतपास्तपोमुलस्तपोऽशनः। तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः” हरिवं० ७ अ०

तपस्यामत्स्य = पु० स्त्री (तपसी)। मत्स्यभेदे शब्दर०।

तपस्विन् = त्रि० तपस् + अस्त्यर्थे विनि। १ तापसे, २ चान्द्रायणादिव्रतधारिणि, ३ अनुकम्प्ये, ४ दीने ५ प्रशस्ततपोयुक्ते च। स्त्रियां ङीप् “किं किं व्यवस्यति न वेद्मि तपस्विनी सा” सा० द०। “नवप्रसूतिर्वरटा तपस्विनी” नैष०। “कस्तपस्विविशिखेषु चादरः” किरा०। “पूर्य्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः” रघुः तपस्विभ्योऽधिको योगी” गीता ६ नारदे पु० शब्दरत्ना० ७ तपस्यामत्स्यभेदे शब्दर०। ८ घृतकरञ्जवृक्षे पु० ९ चटके पुंस्त्री राजनि० स्त्रियां जातित्वात् ङीष्। १० जटामास्यां ११ कटुरोहिण्यां स्त्री हेमच० गौ० ङीष्। १२ महाश्रावणिकायाः स्त्री भावप्र० हरिवंशोक्ते चतुर्थमन्वन्तरे काश्यपे १३ ऋषिभेदे तपोधृतिशब्दे प्रमाणं दृश्यम्। भागवतोक्ते द्वादशमन्वन्तरे १४ सप्तर्षिभेदे तपोमूर्त्तिशब्दे प्रमाणं दृश्यम्।

तपस्विपत्र = पु० तपस्विप्रियं पत्रमस्य। दमनकवृक्षे राजनि०।

तपात्यय = पु० तपस्य ग्रीष्मस्यात्ययोऽवसानं यत्र काले। १ वर्षाकाले “तपात्यये वारिभिरुक्षिता नवैः”। कुमा०। “तपात्यये पुष्पफलैरुपेतं महावनं राष्ट्रपतिर्ददर्श” भा० व० २४ अ०। ६ त०। २ ग्रीष्मस्यावसाने च।

तपान्त = पु० तपस्यान्तो यत्र। १ वर्षाकाले “ववर्ष शरवर्षेण तपान्ते जलदो यथा” भा० भी० ५४ अ०। ६ त०। २ ग्रीष्मस्यावसाने च।

तपित = त्रि० भ्वा० तप–दाहे क्त। तप्ते द्विरूपकोषः।

तपिनी = स्त्री नदीभेदे शब्दार्थचि०।

तपिष्ठ = त्रि० अतिशयेन तप्ता तप्तृ + इष्ठन् तृणोलोपः। अतिशयेन तापके। “तपिष्ठेन शोचिषा यः सुराधाः” ऋ० ४। ५। ४।

तपिष्णु = त्रि० तप–बा० इष्णुच्। तापकर्त्तरि तपने। “महता तपसा देवस्तपिष्णुः सेवितो मया। प्रीतेन चाहं विभुना सूर्य्येणोक्तस्तथाऽनघ!” भा० शा० ३२० अ०।

तपीयस् = त्रि० अतिशयेन तप्ता तप्तृ + ईयसुन् तृणोलोपः। १ भृशं तप्तरि २ तपस्याकारके “अतप्यतास्मिन् किल लोकतापनं तपस्तपीयांस्तपतां समाहितः” भाग० २। ९। ९।

तपु = त्रि० तप–उन्। १ तापके “तपोष्पवित्रं विततं दिवस्पदे” ऋ० ९। ८३। २ “तपोः शत्रूणां तापकस्य” भा०। २ तापयुक्ते ३ तप्ते च। “तपुर्ययुस्तु चरुरग्नि वा~ इव” ऋ० ७। १०४। २ तपुस्तप्तः” भा०

तपुषि = त्रि० तप–उसिन् वेदे नेकारस्य इत्। तापके। “व्रह्मद्विषे तपुषिं हेतिमस्य” ऋ० ३। ३०। १७;६। ५२। ३। “तपुषिस्तपतेर्हेतिर्हन्तेः” निरु० ६। २ स्त्रियां कृदिकान्तत्वात् वा ङीप्। २ क्रोधे स्त्री निघण्टुः। क्रोधस्य चित्ततापकत्वात् तथात्वम्।

तपुस् = पु० तप–उसि। १ सूर्य्ये २ अग्नौ च उणा०। ३ तापयुक्ते ४ तापये च त्रि०। “तपुर्जम्भ! यो अस्मध्रुक्” ऋ० १। ३६। १६ हे तपुर्जम्भ! तप्यमानरश्मियुक्त! अग्ने!” भा० “तपुरग्राभिरृष्टिभिः। १०। ८७। २३। “तपुरग्राभिस्तपनशीलाग्राभिः” भा० “तपूंषि तस्मै वृजिनानि सन्तु” ऋ० ६। ५२। २

तपोज = त्रि० तपसः तपस्यातः अग्नेर्वा जायते जन–ड। १ तपस्याजाते २ अग्निजाते अस्वप्सु स्त्री। “ऋषींस्तपस्वतो मम तपोजा अपि गच्छतात्” ऋ० १०। १५४। ५ “वाचो बन्धुस्तपोजाः” यजु० १०। ६ “वाचो बन्धुः वाण्या बन्धुभूताः “यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदतीति” श्रुतेः “आपोमयी वागिति” सामश्रुतेश्च। तथा तपोजा तपःशब्देनात्राग्निरुच्यते तपसोऽग्नेर्जातास्तपोजाः अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजाः” इति श्रुतेः “वायोरग्निरग्नेराप” इति शत० ब्रा० ५। ३। ५। १७। श्रुत्यन्तरात्” वेददी०

तपोदान = न० तप इव दानमत्र। तीर्थभेदे। “पुण्यतीर्थेषु कलिलं कुरुक्षेत्रं प्रकीर्त्तितम्। सिन्धूत्तमस्तपोदानं जम्बुमार्गमथापि च” भा० आनु० १६५ अ०।

तपोधन = त्रि० तपोधनं यस्य। तपोमात्रकारके १ तपस्विनि। “तपोधनाभ्यागमसम्भवामुदः” माघः तत्प्रियत्वात् २ दमनकवृक्षे पु० राजनि०। ३ मुण्डीरीवृक्षे स्त्री मेदि०। तप एव धनम्। ४ तपोरूपधने न०। “यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधनम्”। भा० आनु० ५२ अ०। तपोधनं मूल्यं यस्य। ५ तपसा लभ्ये स्वर्गादौ त्रि० “सर्वरत्नवरः स्वर्गे पारिजातस्तपीधनः” हरिवं० १२८ अ०।

तपोधृति = पु० तपसि धृतिःसन्तोषो यस्य। १ तपोरते तपस्विनि चतुर्थमन्वन्तरे २ भार्गवे सप्तर्षिभेदे “चतुर्थे चैव सावर्ण ऋषीन् सप्त निबोध मे” इत्युपक्रमे “द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा। आङ्गिरास्तपसोमूर्त्तिस्तपस्वी काश्यपस्तथा। तपोऽशनश्च पौलस्त्यः पौलहश्च तपोरविः। भार्गवः सप्तमस्तेषां विक्षेपस्तु तपोधृतिः” हरिवं० ७ अ०।

तपोनिधि = पु० तपो निधीयतेऽस्मिन् नि + धा–आधारे कि उप० स० तपोनिधिरिव यस्य वा। तपोधने तपस्विनि “विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम्” रघुः। “पतत्पतङ्गप्रतिमस्तपोनिधिः” माघः।

तपोभृत् = त्रि० तपो बिभर्त्ति भृ–क्विप् तुक् च ६ त०। तपोधारके “स्वर्गे तपोभृतां राजन्! फलं पुण्यस्य कर्मणः” हरिवं० ८ अ०।

तपोमय = त्रि० तपःप्रचुरः तपःस्रष्टव्यपदार्थालोचनं तदात्मको वा तपम् + मयट्। १ तपःप्रचुरे २ स्रष्टव्यपदार्थालोचनात्मके परमेश्वरे पु०। “त्रयीत्रयीधर्ममयस्तपोमयः” भाग० २। ४। १९। स्त्रियां ङीप्। “प्रविश्य वदरीं पुण्यां मुनिजुष्टां तपोमयीम्” हरिवं० २६४ अ०। “उपर्य्युपरि तत्रापि गतिस्तव तपोमयी” ७६ अ०।

तपोमूर्त्ति = पु० तपः आलोचनभेद एव मूर्त्तिरस्य, तपः प्रधाना मूर्त्तिरस्य वा। १ परमेश्वरे २ तपस्विनि च। रुद्रसावर्णिरूपतामसमन्वन्तरे सप्तर्षिमध्ये ३ ऋषिभेदे च “ऋषयश्च तपोमूर्त्तिस्तपस्व्यग्नीध्रकादयः” भाग० ८। १३। १३

तपोमूल = त्रि० तपो मूलमस्य। १ तपोहेतुके स्वर्गादौ तामसस्य मनीः २ पुत्रभेदे पु० तपस्यशब्दे दृश्यम्।

तपोरति = त्रि० तपसि रतिरस्य। १ तपःपरायणे तामसमनोः पुत्रभेदे पु० तपस्यशब्दे दृश्यम्।

तपोरवि = पु० तपसा रविरिव। १ सूर्य्यतुल्यतेजोयुक्ततपस्के चतुर्थमन्वन्तरे पौलहे सप्तर्षिभेदे तपोधृतिशब्दे दृश्यम्।

तपोलोक = पु० तपोनाम लोकः। ऊर्द्धस्थेषु सप्तसु लोकेषु भुवनभेदे तपःशब्दे दृश्यम्। स च भूमेस्ततुष्कोटि योजनोपरि वर्त्तते। “चतुःकोटिप्रमाणं तु तपीलोकोऽस्ति भूतलात्। उपरिष्टात् क्षितेरष्टौ कोटयः सत्यमीरिमम्” काशीख० २३ अ० उक्तेः। स च विराट्पुरुषस्य स्तनद्वयरूपेण कल्पितः यथाह भाग० २। ४। ३९। “भूर्लोकः कल्पितः पद्भ्यां भुवोलोकोऽस्य नाभितः। हृदा स्वर्लोक उरसा महर्लोको महात्मनः। ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात्। मूर्द्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः”।

तपोऽवट = पु० तपसोऽवट इव। ब्रह्मावर्त्तदेशे त्रिका०।

तपोवन = न० ६ त०। १ तापससेव्ये वनभेदे, “बधूर्भक्तिमती चैनामर्च्चितामातपोवनात्” तपोवनावृत्तिपथं गताभ्याम्” रघुः। २ तन्नामके तीर्थभेदे च।

तपोऽशन = पु० चतुर्थमन्वन्तरे समर्षिमध्ये पौलस्त्ये १ ऋषिभेदे तपोधृतिशब्दे दृश्यम्। २ तामसस्य मनोः पुत्रभेदे तपस्य शब्दे दृश्यम्।

तप्त = त्रि० तप–क्त। १ दग्धे २ तापयुक्ते च हेमच०। “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति” श्रुतिः। “स तप्तकार्त्तस्वरभास्वराम्बरः” माघः।

तप्तकाञ्चन = न० कर्म०। अग्निसंयोगभेदेन विमले काञ्चने। “तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम्” दुर्गाध्यानम्।

तप्तकुम्भ = पु० तप्तः कुम्भो यत्र। नरकभेदे तत्स्वरूपं यथा “अतःपरं भीमतरं तप्तकुम्भं निवोध मे। समन्ततस्तप्तकुम्भो वह्निज्वालासमावृतः। ज्वलदग्निचयोद्वृत्त तैलायश्चूर्णपूरितः” मार्क० पु०।

तप्तकृच्छ्र = न० “षट्पलन्तु पिबेदम्भस्त्रिफलन्तु पयः पिबेत्। पलमेकं पिबेत् सर्पिस्तप्तकृच्छ्रं विधीयते” स्मृत्युक्ते व्रत- भेदे, “पयोघृतमुदकं वायुं तप्तं प्रतित्र्यहं पिवेत् स तप्तकृच्छ्र इति गौतमोक्तेः पुंस्त्वमपि। “तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्। प्रतित्र्यहं पिवेदुष्णान् सछत्स्नायी समाहितः” मनुः। तप्तानिलपानन्तु तप्तक्षीरवाष्पपानम्। एतद्धादशाह साध्यम्। जलादिपरिमाणमुक्तं ब्रह्मपुराणे “तप्तकृच्छ्रं व्रतं कुर्वन् त्र्यहं सायं पिबेच्छुचिः। षट्पलानि सुतप्तस्य तोयस्य सुसमाहितः। प्रभाते त्रीणि दुग्धस्य सुतप्तस्य पिबेत् त्र्यहम्। पानं घृतस्य तप्तस्य मध्याह्ने त्रिदिनं पिबेत्। वायुभक्षस्त्र्यहं चान्त्यं निर्दहेत् पातकं द्विजः” याज्ञवल्क्यः। “तप्तक्षीरघृताम्बूना मेकैकं प्रत्यहं पिबेत्। एकरात्रोपवासस्तु तप्तकृच्छ्रस्तु साधनः” एतच्चतुरहसाध्यं तप्तकृच्छ्रम् प्रा० वि०।

तप्तपाषाणकुण्ड = पु० नरकभेदे नरकशब्दे दृश्यम्।

तप्तमाष = पु० तप्तं माषमितं सुवर्णादिकं यत्र। दिव्यभेदे। तद्विधिः वीरमित्रोदये दर्शितो यथा तत्र पितामहः “तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम्। कारयेदायसम्पात्रं ताम्रं वा षोडशाङ्गुलम्। चतुरङ्गुलखातन्तु मृण्मयं वापि मण्डलम्”। कर्षषोडशांशप्रमितं मण्डलं सूर्य्यमण्डलाकारं वर्त्तुलमिति यावत्। एतादृशं पात्रं घृततैलाभ्यां पूरयेदित्याह स एव “पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्तु तत्। सुवर्णं माषकन्तस्मिन् सुतप्ते निःक्षिपेत्ततः। अङ्गुष्ठाङ्गुलिमूलेन तप्तमाषकमुद्धरेत्” इति। सुवर्णमाषकङ्कर्षषोडशांशप्रमाणम्। सुवर्णग्रहणं रूप्यमाषनिवृत्त्वर्थम्। तन्माषपरिमितं हिरण्यं ताम्रं वा पिण्डीकृत्य निःक्षिपेत्। अङ्गुष्ठाङ्गुलिमूलेन अङ्गुष्ठतर्जनीमध्यमाभिरित्यर्थः। इदञ्च तप्तमाषोद्धरणम् प्राड्विवा केन घृततैलयोस्तापे समारब्धे धर्मावाहनादिशोध्यशिरः पत्रारीपणान्तं सर्वसाधारणं कर्म विधाय “त्वमग्ने। वेदाश्चत्वारः” इत्यादिना अग्निदिव्यप्रकरणोक्तेम मन्त्रेणाभिमन्त्र्य कारयितव्यम् शोध्यस्तु याज्ञवल्क्योक्तेन “त्वमग्ने! सर्वभूतानामित्यादि” मन्त्रेणाभिमन्त्र्य तप्तमाषमुद्धरेत्। अतएव वृहस्पतिः “समुद्धरेत्तैलघृतात् सुतप्तात्तप्तमाषकमिति”। कल्पान्तरमाह स एव “सौवर्णे राजते ताम्रे वायसे मृण्मयेऽपि वा। गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः। सौवर्णीं राजतीं ताम्रीमायसीं वा सुशोभनाम्। सलिलेन सकृद्धौतां प्रक्षिपे- त्तत्र मुद्रिकाम्। भ्रमद्वोचितरङ्गाद्ये ह्यनखस्पर्शगोचरे। परीक्षेदार्द्रपर्णेन चटत्कारसवोषकमिति”। ततः प्राड्विवाको धर्मावाहनादिपत्रारोपणान्तं साधारणं कर्म कृत्वा घृतमभिमन्त्रयेत्। मन्त्रस्तु तेनैव दर्शितः “ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत्। परं पवित्रममृतं घृत! त्वं यज्ञकर्मसु। दह पावक! पापं त्वं हिमशीतो भवेति च”। ततः प्राड्विवाकः शोध्येन “त्वमग्ने! सर्वभूतानामित्यादि मन्त्रेणाभिमन्त्रणं कारयित्वा मुद्रिकां ग्राहयेदित्याह स एव “उपोषितन्ततः स्नातमार्द्रवासःसमावृतम्। ग्राहयेन्मुद्रिकान्तान्तु घृतमध्यगतान्तथा। प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः” इति। अत्र तर्जन्यैव मुद्रिकोद्धरणं कार्य्यं तस्यां परीक्षाभिधानात् पक्षद्वयेऽपि शुद्ध्यवधारणोपायं वृहस्पतिराह “कराग्रं योन धुनुयात् विस्फोटो वा न जायते। शुद्धो भवति धर्मेण पितामहवचो यथेति”। कालिकापुराणेऽपि “न धुनेयुः कराग्रन्तु यस्य रक्तं न जायते। विस्फोटाद्यैस्तथा दोषैः स शुद्धो यस्य नोद्गतमिति”। रक्तं रक्तवर्णम्। यस्य कराग्रं विस्फोटाद्यैर्नोद्गतमित्यन्वयः। पितामहोऽपि “यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथाऽशुचिरिति”। तण्डुलपरीक्षाशब्दे अधिकं दृश्यम्।

तप्तमुद्रा = स्त्री वैष्णवैः शरीरधार्य्येऽग्नितप्तधातुमयमुद्राकृतभगवदायुधचिह्ने तद्विधिः हरिभक्तिविलासे १५ विलासे। “आषाढशुक्लद्वादश्यां हरौ शिशयिषौ सति। वैष्णवः पारणं कृत्वा तप्तमुद्राश्च धारयेत्। ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चैकान्तितर्द्धये। कुर्वन्नात्मार्पणं तप्तमुद्राभिर्देहमङ्कयेत्”। तप्तमुद्राधारणं वाराहे तप्तमुद्राप्रसङ्गे “चक्रादिधारणं पुंसां परं सम्बन्धवेदनम्। पातिव्रत्यनिमित्तं हि वलयादिविभूषणमिति”। तप्तमुद्राधारणफलं वायुपुराणे “अग्निनैव च सन्तप्तं चक्रमादाय वैष्णवः। धारयेत् सर्ववर्णानां हरिसालोक्य सिद्धये”। ब्रह्माण्डे “कृत्वा धातुमयीं मुद्रां तापयित्वा स्विकां तनूम्। चक्रादिविहितां भूप धारयेद्वैष्णवो नरः”। नारदीयपञ्चरात्रे “द्वादशारन्तु षट्कोणं वलयत्रयसंयुतम्। हरेः सुदर्शनं तप्नं धारयेत्तु विचक्षणः। सौपर्णे च श्रीभगवद्गरुडसंवादे तप्तमुद्राप्रकरणे “गरुत्मन्नविशेषेण सर्ववर्णेष्वयं विधिः। विप्रो वा क्षत्रियोवापि वैश्यः शूद्रस्तथैव च”। पाद्मे “अग्निहीत्रं यथा नित्यं वेदस्याध्ययनं यथा। ब्राह्मणस्य तथैवेदं तप्तचक्रादिधारणम्”। किञ्च तत्रैवोत्तरखण्डे श्री शिवोमासंवादे “शङ्खचक्राङ्कनं कुर्य्याद्ब्राह्मणो बाहुमूलयोः। हुताग्निनैव सन्तप्य सर्वपापापनुत्तये”। “चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा। धारयित्वैव विधिवद्ब्रह्मकर्म समारभेत्”। तदकरणे निन्दा तत्रैव “अधृत्वा विधिना चक्रं व्राह्मणः प्राकृतो भवेत्। न तस्य किञ्चिदश्नीयादपि क्रतुसहस्रिणः। र्सावेदविदोवापि सर्वशास्त्रविशारदः। अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत्। तप्तेनैवाङ्कनं कुर्य्यात् ब्राह्मणस्य विघानतः। श्रौतस्मार्त्तादि सिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च। हरेः पजाधिकारार्थं चक्रं धार्य्यं विधानतः। वैष्णवत्वस्य सिद्ध्यर्थं भक्ति सिद्ध्यै विशेषतः। उपवीतादिवद्धार्य्याः शङ्खचक्रादयस्तथा। ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः”। श्रुतयश्च “यो हवै सुश्लोकमौलेर्धर्म्माननुतिष्ठमानोऽग्निना चक्रं धत्ते। अग्निर्वे सहस्रारः सहस्रारो नेमिर्न्नेमिना तप्ततनुः सायुज्यं सलोकतामाप्नोतीति”। चक्रं बिभर्त्ति वपुषाभितप्त बलं देवानाममृतस्य विष्णोः। स एति नाकं दुरितं विधूय विशन्ति यद्यतयो बीतरागाः” इति। ऋक्परिशिष्टे “अतप्ततनुर्नतदामो अश्नुतेऽश्नुता सह इद्वहन्तस्तत् समासतेति” यजुषि ऋग्वेदीयाश्वलायन शाखायाञ्च। “प्रतद्विष्णोरब्जचक्रे सुतप्ते जन्माम्भोधिं वर्त्तते चर्षणीन्द्राः। मूले वाह्वोर्द्दधतेऽन्ये पुराणालिङ्गान्यन्ये तप्तान्यायुधान्यर्पयन्ते” इति। छन्द ऋक् परिशिष्टे “सहोवा च याज्ञबल्क्यस्तत् पुमानात्महिताय प्रेम्णा हरिं भजेत्। सुश्लोकभं मौलेर्धर्म्माण्यङ्गेष्वग्निनाधत्ते” इति। शतपथी श्रुतिः अथर्वपरिशिष्टे तप्तचक्रादिप्रकरणे “देवासो एवैतेन बाहुना सुदर्शनेन प्रयताः स्वर्गमायन्”। “येनाङ्किता मनवो लोकसृष्टिं वितन्वते ब्राह्मणास्तद्वहन्तीति”। पाद्मे तप्तमुद्राप्रसङ्गे “विष्णुचक्राडितं विप्रं पूजयेत् सर्वकर्म्मणि। विष्णुचक्रविहीनन्तु प्रयत्नेन विवर्जयेत्”। नारदीये “तप्तमुद्रा प्रसङ्गे “श्रीकृष्णचक्राङ्कविहीनगात्रः श्मशानतुल्यः पुरुषोऽथ नारी,। दृष्ट्वा नरस्तं नृपते! सवासाः स्नात्वा समर्चेद्धरिमङ्ग सद्यः” इति। वह्व्यश्च वेङ्कटाचार्य पादप्रभृतिभिर्बुधैः। श्रुतयः स्मृतयोह्यत्र विख्याता लिखिताः पराः। अतएव तदनादरे दोषाः पाद्मे “तप्तचक्राङ्कितं दृष्ट्वा ये निन्दन्ति नराधमाः। अवलोक्य मुखं तेषां आदित्यमवलोकयेत्”। अग्निपुराणे च दशरथं प्रति हतपुत्रविप्रावलापे। “शिलाबुद्धिः कृता किंवा प्रतिमायां हरेर्मया। किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हि चित्। तन्मुद्राङ्कितदेहस्य चेतसा नादरः कृतः। येन कर्मविपाकेन पुत्रशोको ममेदृशः”। अथ तप्तमुद्रा धारणमाहात्म्यं सौपर्णे “अशुचिर्वाप्यनाचारः सर्वधर्मवहिष्कृतः। प्रतप्तशङ्खचक्राभ्यामङ्कितः पङ्क्ति पावनः”। वाराहे तप्तमुद्राधारणप्रसङ्गे “म्लेच्छदेशे शुभे वापि चक्राङ्को यत्र तिष्ठति। योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे!। ब्रह्माण्डे “आयुधैर्वैष्णवैः सर्वैस्तापितैः स्वतनुं यदि। चिह्नयेद्वैष्णवो यस्तु स याति परमां गतिम्”। पाद्मे च “अग्नितप्नं पवित्रञ्च धृत्वा तु बाहुमूलयोः। त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम्। हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम्। तेन तीर्थानि यज्ञाश्च लभ्यन्ते नात्र संशयः। अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः। अङ्कयित्वा जपन्मन्त्रं संसारान् मोक्षभाग्भवेत्। अग्नितप्तेन चक्रेण बाहुमूलेषु लाञ्छिताः। ते सर्वे पापनिर्मुक्ता यान्ति विष्णोः परं पदम्”। किञ्च “अप्राकृता महात्मानी विष्णु चक्रेण लाञ्छिताः। विष्णुचिह्नविहीनास्तु प्राकृताः पतिताः स्मृताः। इति अत्र निषेधवचनं निर्मूलं सद्भिरनादृतम्। समूलं यच्चतत् सम्यग्विध्यभावादिना कृततत्परम्। अथ तद्धारणप्रकारः “तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः। कृष्णमभ्यर्च्च्य संपूज्य चक्रशङ्खौ तथा तपेत्। तत्र मन्त्रः “सुदर्शन! नमस्तेऽस्तु पाञ्चजन्य! नमोऽस्तु ते इति। अग्निमभ्यर्च्य मूलेन हुत्वा चाज्याहुतीः कृती। चक्रशङ्खगदादीनि शस्त्राण्यग्नौ प्रतापयेत्। तत्तन्मन्त्रैरथावाह्य तान्यभ्यर्च्य प्रणम्य च। गुरुं कृष्णञ्च संवन्द्य भक्त्या विज्ञापयेदिदम्। उच्छिष्टो भोजनादेव किङ्करः शरणागतः। तप्तचक्रगदादीनि तवाङानीश धारये” इति। अथ चक्रादीना मावाहनादिमन्त्रः। ओं नतो भगवते वासुदेवाय निर्णाशितसकलरिपुध्वजाय भगवन्नारायणकराम्भो रुहस्पर्शदुर्ल्ललिताय। “एह्येहि त्वं सहस्रार चक्रराज! सुदर्शन!। यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नसः। ओं नमो भगवते पाञ्चजन्याय विष्णुशङ्खाय गम्भीरधीर- ध्वन्याकुलीकृतकौरववाहिनीनाथाय त्रिरखादक्षिणावर्त्ताय त्रिप्रशस्ताय। एह्येहि पाञ्चजन्य! त्वं नारायणकरस्थित!। यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः। ओं रं णं मं नं पाञ्चजन्याय नमः। ओं भगवते खड्गाय नन्दकाय त्रैलोक्यपवित्राय जविने सकल सुरासुरसुन्दरीनेत्रोत्पलार्च्चिताय। एह्येहि खडग रत्न! त्वं नन्दकाख्य सुरार्च्चित। यज्ञभागं प्रगृह्णस्य पूजाञ्चैव नमो नमः। ओं खड्गाय नमः। ओं नमी भगवत्यै कौमोदक्यै भगवद्भट्टारकवासुदेवलालितायै। एह्येहि त्वं गदे! देवि! कौमोदक्यायुधेश्वरि!। यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमोनमः। सशराय शार्ङ्गाय नमः। इति। अथ धारणमन्त्रः। सुदर्शन! महाध्वान! सूर्य्यकोटिसमप्रभ!। अज्ञानान्धस्य मे नित्यं विष्णोर्म्मार्गं प्रदर्शय। तथा। पाञ्चजन्य! निजध्यानध्व स्तपातकसञ्चय!। पाहि मां पापिनं घोरं संसारार्णवपातिनम्। इत्थमुच्चारयन् मन्त्रं दक्षिणादिक्रमेण तु। भुजयोश्चक्रपूर्वाणि कृष्णशस्त्राणि घारयेत् कलत्रादिपरीवारान् निजान् सर्वांश्च वैष्णवः। भगवत्यर्पयन् तप्तमुद्राभिस्ताभिरङ्कयेत्”। तथा च वाराहे। “अङ्कये तप्तचक्राद्यैरात्मनोबाहुमूलयोः। कलत्रापत्यभृत्येषु पश्वादिषु च सम्पदे” “किञ्च आयसं विधिवत् कृत्वा षञ्चायुधविधानतः। तत्तन्मन्त्रेण मन्त्रज्ञः प्रतिष्ठाप्य पृथक् पृथक्। ललाटे च गदा धार्य्या मूर्घ्नि चापं शरन्तथा। नन्दकञ्चैव हृन्मध्ये शङ्खचक्रे भुजद्वये”। किञ्च। “दक्षिणे तु मुजे विप्रो विभृयाद्वै सुदर्शनम्। सव्ये च शङ्क्षं विभृयादिति ब्रह्मविदो विदुः”। अथ चक्रादिप्रतिकृति द्रव्यम्। सवप्रश्वपञ्चरात्रे “सौवर्ण्णं रजतं ताम्रं कांस्यमायसमेव वा। चक्रं कृत्वा तु मेधावी धारयेत् सुविचक्षणः इति। एवमेव प्रबोधन्यां द्वादश्यां भगवत्परैः। तप्तमुद्रा ध्रुवं धार्य्या द्वारकायां विशेषतः” तन्निषेधकवाक्यानि वैष्णवेतरविषयाणीति वैष्णवा मन्यन्ते स्मार्त्तास्तु श्रुतिस्मृतिविरुद्धत्वात् एतत् नानुतिष्ठन्ति विस्तरभयात् तन्निषेधवाक्यानि नोद्धृतानि।

तप्तवालुक = पु० तप्ता वालुका यत्र नरकभेदे नरकशब्दे दृश्यम्।

तप्तरहस = न० कर्म्म० अच् समा०। तप्ते रहःस्थानभेदे।

तप्तरूपक = न० नित्यकर्म० शुद्धरजते राजनि०।

तप्तशूर्मिकुण्ड = पु० तप्ता शूस्मिः सौहप्रतिना यत्र तादृशः कुण्डी यत्र। नरकभेदे नरकशब्दे दृशृम्।

तप्तशूर्म्मी = पु० नरकभेदे तत्प्राप्तिहेतुरुक्तः भाग० ५। २६। यथा “यस्त्विह वा अगम्यां स्त्रियं पुरुषोऽगम्यं वा पुरुषं योषिदभिगच्छति। तावमुत्र कशया ताडयन्तस्तिग्मया शूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति। स्त्रियं च पुरुषरूपया शूर्म्म्या” २६ तिग्मया तप्तया शूर्म्या प्रतिमया” श्रीधरः

तप्तसुराकुण्ड = पु० नरकभेदे ७ त०। नरकशब्दे दृश्यम्।

तप्तायनी = स्त्री तप्तेन अय्यतेऽत्र अय–आधारे ल्युट् ङीप्। भूमिभेदे “तप्तायनी मेऽसि” यजु० ५। ९। तप्तं पुरुषमयति प्राप्नोतीति तप्तायनी। यो हि दरिद्रः क्षेत्ररहितोऽहमिति सन्तप्यते तं तापोपशात्त्यर्थं प्राप्नोषि इत्यर्थः। यद्वा तप्तः सन्नरो यस्यामयति सा तप्तायनी नमासि” वेददी०

तप्यतु = त्रि० तप–यतुत्। तापके सूर्य्यादौ। “सूर्य्यस्तपति तप्यतुर्वृग्रा” ऋ० २। २४। ९।

***