तत्र = धारणे चु० आत्म० सक० सेट् इदित्। तन्त्रयते अतितन्त्रत इदित्करणं वेदे स्वरविशेषार्थम्।

तत्र = कुटुम्बधारणे भ्वा० प० अक० सेट् चान्द्राः। तन्त्रति अतन्त्रीत् ततन्त्र। “इतराभ्योऽपि दृश्यन्ते” पा० इत्युक्तेः प्रथमाद्यर्थे त्रल्। तत्र भवान् तत्र भवन्तमित्यादि।

तत्र = अव्य० तस्मिन् त्रल्। तस्मिन्नित्यर्थे “तत्रापि तत्रभवती भृशसंशयालोः” नैष०। “कथं तत्र विभागः स्यादिति चेत् संशयो भवेत्” मनुः।

तत्रत्य = त्रि० तत्र भवः अव्ययात् त्यप्। तत्र भवे त्रि०। “मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्जनै” भाग० १। ३१

तत्रभवत् = त्रि० पूज्यार्थे नित्य० स०। पूज्ये तत्रशब्दे उदा० “अद्य तत्रभवांस्तं च पितरं रक्ष किल्विषात्” रामा० अयो० ११३ अ०।

तत्साधुकारिन् = तत्साधु यथा तथा करोति कृ–णिनि सहसुपेति समासः। तस्य साघुकारिणि “आक्वेस्तच्छील तद्धर्मतत्साधुकारिषु” पा०।

तथा = अव्य० तेन प्रकारेण तद् + प्रकारे थाल् विभक्तित्वात्। १ तेन प्रकारेणेत्यर्थे २ साम्ये च अमरः। ३ अभ्युपगमे ४ पूर्वप्रतिवचने ५ समुच्चये, ६ निश्चये च मेदि०। तत्र साम्ये “यथा नदोनदः सर्वे सागरे यान्ति संस्थितिम्। तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्” मनुः। समुच्चये। “विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्” “ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे” मनुः। तेन प्रकारेणेत्यर्थे “कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गतः” भा० व० ११ नलोपाख्यानम्। “यथा क्रतुरस्मिन् लोके भवति तथेत्य भवति” छा० उप०। “यथा कामो भवति तथा क्रतुर्भवति” शत० व्रा० १४। ७। २। ७। ७ सत्ये च।

तथाकारम् = अव्य० तथा + कृ–निन्दितप्रतिवचने णमुल्। कथञ्चित् उक्तप्रकारेण कृत्वेत्यर्थे। “तथाकारमहं भोक्ष्ये” सि० कौ०।

तथागत = पु० तथा सत्यं गतं ज्ञानं यस्य यथा न पुनरावृत्तिर्भवति तथा तेन प्रकारेण गत इति वा तथा गतः सहसुपेति समासः। १ बुद्धमुनौ सुगते अमरः। “यथा गतास्ते मुनयः शिवां गतिं तथागतिं सोऽपि गतस्तथागतः” सर्वद० वौद्धागमः। २ पूर्वोक्तप्रकारेण गते त्रि०। “नलं दृष्ट्वा तथागतम्” भा० व० ७७ अ०। “श्रियं तथागतां दृष्ट्वा ज्वलन्तीमिव पाण्डवे” भा० स० १६ अ०।

तथाच = अव्य० तथा च च च द्वन्द्वः। उक्तस्य दृढीकरणार्थे “निरिन्द्रियाह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः। तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि” मनुः। “एतावानेव पुरुषो यज्जायात्मा प्रजेति ह। विप्राः प्राहुस्तथाचैतद्यो भर्त्ता सा स्मृताऽङ्गना” हितो०।

तथात्व = न० तथा + भावे त्व। तथाभूतत्वे। “तथात्वं चेदि न्द्रियाणामुपघाते कथं स्मृतिः” भाषाप०। “स्वरूपानन्दस्य तथात्वम्” सांख्य० सू०।

तथापि = अव्य० तथा च अपि च द्वन्द्वः। यद्यपीत्यनेनाक्षिप्तस्य समाधानार्थे “तथापि मम सर्वस्वं रामः कमललोचनः” उद्भटः। “यद्यपि का नो हानिः परस्य द्राक्षां रासभश्चरति। असमञ्जसमिति मत्वा तथापि तरलायते चेतः” उद्भटः। “सा चैवास्मि तथापि सुरतव्यापारनीलाविधौ” काव्यप्र०।

तथाभूत = त्रि० तेन प्रकारेण भूतः भू–कर्त्तरि क्त। तादृशेन रूपेण भूते। “तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयाम्” वेणी०। “स्मरस्तथाभूतमयुग्मनेत्रम्” कुमा०।

तथाराज = पु० तथेति राजते राज–अच्। बुद्धदेवे शब्दार्थचि०

तथाविध = त्रि० तथा विधा यस्य। तथाप्रकारे “तथाविधस्तावदशेषमस्तु सः” कुमा० “अतोऽभिलाषे प्रथमं तथाविधे”। “श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः”। “प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम्” इति च रघुः “तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः” मनुः

तथाहि = अव्य० तथा च हि च द्व०। १ निदर्शने २ प्रसिद्धमेवेत्यर्थे शब्दार्थचि०। ३ उक्ताथे दृढीकरणे।

तथैव = अव्य० तथा + सादृश्ये समुच्चये वा तस्यावधारणम्। तद्वदेवेत्यर्थे तत्समुच्चयावधारणे च शब्दार्थचि० “अस्ति पुत्रो वशे यस्य भार्य्या भर्त्तुस्तथैव च” चाणक्यः। “यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्। तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्” मनुः।

तथ्य = न० तथा + साधु यत्। १ यद्वस्तु यथाभूतं तथारूपावस्याने सत्ये २ तद्युते त्रि० अमरः। “काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्। तथ्येनापि ब्रुवन् दाप्योदण्डं कार्षापणावरम्” मनुः। “अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन” कुमा०। “भूय एव तु मां तथ्यैर्वचोभिरुपवृंहथ” भा० द्रो० ५५ अ०। “यदर्जुनगुणांस्तथ्यान् कीर्त्तयानं नराधम!” भा० द्रो० १५९ अ०।

तद् = त्रि० तन–अदि डिच्च। १ पूर्वोक्ते बुद्धिस्थे, २ परामर्शयोग्ये ३ विप्रकृष्टविषये। ४ ब्रह्मणि न०। “ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति गीता। “अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्” इत्युक्तेरस्य परोक्षवाचित्वम्। बुद्धिस्थत्वोपलक्षितधर्मावस्मिन्नेऽस्य शक्तिः। बुद्धिस्थत्वं च पूर्वानुभूतसंस्कारवत्तया, तेन स्मृतिविषयत्वेन तथात्वं बोध्यम्। तदर्थ एवास्य सर्वनामता शब्दपरत्वे न तथात्वम्। अतएव “एतत्तदोः सुलोपेऽकोरनञ्समासे हलि” पा० न सर्वनामकार्य्यमन्यथा एतत्तयोरिति स्यात्। सर्वनामकार्यञ्च त्यदादीनामः जसादौ शीभावादि वृत्तिमात्रे पुंवद्भावादिश्च। स तौ ते तस्मै तस्मात् तेषां तस्मिन् इत्यादि। तस्य च टेरकच् सकः तकौ इत्यादि च। “स किं सखा साधु न शास्ति योऽधिपम्” किरा०। “तौ गुरुर्गुरुपत्नी च” रघुः। “ते त्र्यहादूर्द्धमाख्याय चेरुश्चीरपरिग्रहाः” “ते हिमालयमामन्त्र्य” कुमा०। “तस्मै शंशस प्रणिपत्य नन्दी” कुमा०। “तस्मिन् मघोनस्त्रिदशान् विहाय” कुमा०। तस्मात्तान्यत्र वापयेत्” स्मृतिः। वृद्धसंज्ञत्वात् छ “तदीयमातङ्गघटाविघट्टितैः” माघः। ततः तत्र तर्हि तदा इत्यादि। ५ हेतौ अव्य० स्वरादेराकृतिगणत्वात् स्वरादि। “सन्तप्तानां त्वमसि शरणं तत् पयोदः प्रियायाः” मेघ०। “तदङ्गमग्र्यं मघवन्! महाक्रतोः” रघुः। अहेतावपि ६ सर्वनामसमानार्थे न०। “इन्द्रियदोषात् संस्काराच्चाविद्या” “तद्दुष्टज्ञानम्” का० सू० “तदित्यव्ययपदं सर्वनामसमानार्थकमविद्यां परामृशति साऽविद्या दुष्टज्ञानं व्यभिचारिज्ञानमतस्मिंस्तदभिज्ञानं व्यधिकरणप्रकारावच्छिन्न विशेष्यकम्” उप० वृत्तिः। ८ तदेत्यर्थे च “ज्यायसी चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन! तत् कर्म्मणि घोरे माम्। गीता ९ प्रसिद्धे त्रि० सर्वनामकार्य्यञ्च। “तं केशपाशं प्रसमीक्ष्य कुर्य्युः” कुमा०। तत्र ब्रह्मणि “तदित्यनमिसन्धाय फलं यज्ञतपःक्रियाः। दान क्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिरिति” गीता। तदिति ब्रह्माभिधानमुच्यार्य्य अनभिसन्धाय च कर्मणः फलमित्यर्थः “तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो” छा० उ०। तत्पदवाच्यार्थश्च तत्पदवाच्यार्थशब्दे उक्तः शरदा० अव्ययी० अच समासान्तः। तस्य समीपम् उपतदम्।

तदर्थ = त्रि० स अर्थोयस्य, तस्मै इदं वा “अर्थेन सह नित्यसमासो विशेष्यनिघ्नता चेति” वार्त्ति० समासो वा। १ तत्प्रयोजनके २ तदुद्देश्यके “अन्तेवासी वार्थांस्तदर्थेषु धर्मकृत्येषु योजयेद्दाहिता वा” दाय० त० आपस्तम्बः। ३ तस्याभिधेये ४ तत्प्रयोजने च ततो भावे ष्यञ्। तादर्थ्य तत्प्रयोजनकत्वे। “तादर्थ्ये चतुर्थी” मुग्ध वो०।

तदनन्यत्व = न० तयोरनन्यत्वम्। तयोर्भेदाभावे “तदनन्यत्व मारम्भणशब्दादिभ्यः” शा० सू०।

तदन्यबाधितार्थप्रसङ्ग = पु० तदन्यः बाधितार्थस्य प्रसङ्गः। प्रमाणबाधितार्थस्य प्रसङ्गरूपे प्रमाणबाधितार्थप्रसङ्गापरपर्य्याये तर्कभेदे। तत्स्वरूपादि “स चायं तर्कः पञ्चविधः आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणवाधितार्थप्रसङ्गभेदात् इति” विभज्य आत्माश्रयादीन् लक्षयित्वा जगदीशेनोक्तं यथा उक्तचतुष्कान्यः प्रसङ्गः प्रमाणबाधितार्थप्रसङ्गः। सोऽपि द्विविधो व्याप्तिग्राहको विषयपरिशोधकश्च तत्राद्यो यथा धूमो यदि वह्निव्यभिचारी स्यात्तदा जन्यो न स्यादिति। द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यान्निर्धूमः स्यादित्यादि”। विषयस्य व्यभिचारशङ्कानिवृत्तिद्वारा निश्चायकत्वेन परिशोधकत्वम्।

तदर्पण = न० तस्य स्वस्मिन् निक्षिप्तस्यार्पणं प्रत्यर्पणम्। निक्षिप्तद्रव्यस्य निक्षेप्तुरर्पणे। ६ त०। तस्यार्पणे च।

तदा = अव्य० तस्मिन् काले तद् + दाच् विभक्तित्वात् अ। तस्मिन् काले इत्यर्थे। “तदा विधिः कुण्डलनां विधोरपि” नैष०।

तदात्मन् = पु० स आत्मा यस्य। १ तत्स्वरूपे २ तदभिन्ने च। तस्य भावः ष्यञ्। तादात्म्य अभेदे “क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थवोधकम्। तादात्म्येन भवेदेषः समासः कर्मधारयः” शब्द० प्र०। “अभेदस्तादात्म्य तच्च स्ववृत्त्यसाधारणो धर्मः। असाघारणत्वं चैकमात्रवृत्तित्वम्। एकमात्रवृत्तित्वञ्च स्वमामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वम्। इत्येकमात्रवृत्तिधर्म एव विशेषणविभक्त्यर्थः। वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्य्यादया आघारादीनां मुख्यकालीनत्वं स्यात् एवमनुयाजमात्रस्योत्कर्षे तदूर्द्ध्वभाविनां सूक्तवाकसंवाकादीनां मुख्यकालीधर्मत्वादिना सामान्यप्रत्यासत्त्या सुज्ञेयत्वमेव। अभेदस्य संसर्गतामतेप्येतादृशानुगतभेदस्यैव तथात्वमुचितम्। तत्तद्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशेष्य तथात्वे घटो न नील इत्यादि वाक्यजन्यबोधे प्रतियोग्यभावान्वयीतुल्ययोगक्षेमावितिन्यायेन तादृशानुगतसम्बन्धावच्छिन्नप्रतियोगिताकाभावा एव भासेरन् नीलादिवृत्तिप्रतियोगिताकैकैकाभावः। तथा सति तादृशैकैकावभाव तात्पपर्य्येण प्रयुक्तस्य नीलोपि न नील इति वाक्यस्य प्रामाण्य स्यात्” व्युत्प० गदा० “सत्यैक्ये मिथोभेदस्तादात्मम् तच्च तत्सत्तातिरिक्तसत्ताकत्वाभावः” वेदा० प० “तदात्मनोपि निषिध्यमानत्वे तन्निषेधात्मके तदात्मनि जगत्प्रवेशात्। न हि घटः पटात्मेत्यनेन घटस्वरूपादन्यस्तदात्मा विहितः स्यात् यदि तु तादात्म्यं नामाभेदाख्यो धर्मः कश्चिदिष्यते स घटपटद्यधिकरणतया निषिध्यते तदा संसर्गाभाव एव स्यात्। तस्मान्निर्विशेषण तदात्मान्तर्भूतं जगदिति कोट्यन्तराभाव इति”। श्रीहर्षखण्डने अन्योन्याभावखण्डने उक्तम्।

तदात्व = न० तदेत्यस्य भावः तदा + त्व। तत्काले अमरः। “तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः। “तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् “आयत्य० गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः” इति च मनुः।

तदादितदन्तन्याय = पु० न्यायभेदे अन्तभूतस्य कर्त्तव्यत्वे शास्त्रतः प्राप्ते आदिभूतस्योत्कर्षेण विधानबोधके न्यायभेदे। स च न्यायः जैमि० पञ्चमस्य प्रथमे पादे दर्शितो यथा। अग्नीषोमीयपशौ श्रूयते “तिष्ठन्तं पशुं प्रयजन्तीति”। अत्र प्रकृतौ पशुमारणानन्तरं हविष्यासादिते पश्चात् प्रयाजादय इज्यन्ते इति विकृताविहापि पशुमारणानन्तरं हविष्यासादिते प्रयाजाः प्राप्ताः ते च तिष्ठन्तमिति वचनात् जीवत्येव पशौ अपकृष्यन्ते। तथा सवनीयपशौ अनुयाजानामुत्कर्षः श्रूयते यथा अग्निलाभादूर्द्ध्वमनुयाजेश्चरन्तीति। अत्र संशयः। प्रयाजमात्रस्योत्कर्षः प्रयाजाद्यङ्गकलापस्यापकर्षः अनुयाजाद्यङ्गकलापस्योत्कर्षो वा इति। श्रुतयोरेव प्रयाजानुयाजयोरपकर्षोत्कर्षौ नतु तदाद्यन्तकलापयोस्तदङ्गप्रयाजा पूर्वभाविनामाघारसामधेन्यादीनां तदाद्यपकर्षेऽत्यन्तव्यवहितत्वेन प्रधानकालीनत्वं न स्यात् प्रयाजमात्रापकर्षे तु भासते। तादृशश्च धर्मस्तद्व्यक्तित्वादिरूप एव। अपूर्वव्यक्तिनिष्ठ तादृशधर्मस्य विशेष्य ज्ञातुमशक्यत्वेऽपि एकमात्रवृत्तिमत्वं स्यात् एवमनुयाजमात्रोत्कर्षे तदूर्द्ध्वभाविनां सूक्तवाकसम्प्रवाकादीनामुत्कर्षात् प्रधानसन्निधिर्न विलुप्यते तस्मात् प्रयाजमात्रस्योत्कर्षः तथा च सूत्रम् “अङ्गानां मुख्यकालत्वात् यथोक्तमुत्कर्षः स्यात्”। अङ्गानां मुख्यकालकर्त्तव्यत्वानुरोधात् यथोक्तस्यानुयाजमात्रस्योत्कर्ष इति प्राप्ते ब्रूमः। प्रकृतियागे सक्रमपदार्थानुष्ठानस्य कॢप्तत्वात् विकृतावपि सक्रमाणां पदार्थानामतिदेशात् क्रमरूपाङ्गवाधस्यान्याय्यत्वात् उत्तरकालकर्त्तव्यकर्मपदार्थस्यानुपस्थित्यानुष्ठानविलोपापत्तेः तदुक्तम् पूर्वेणीपस्थितं कार्य्यमुत्तरं कर्मचोदनात्। प्राप्तं तदन्यथा भावे क्रमलोपाद्विलुप्यते”। तस्मात् प्रयाजापकर्षे तदङ्ग कलापस्यापकर्षः, अनुयाजोत्कर्षे तदाद्यङ्गकलापस्योत्कर्ष”, इति तत्त्वबौ०। अनया दिशा मासिकानां सक्रमाणां करणे उत्कर्षापकर्षौ कल्पनीयौ।

तदानीम् = अव्य० तस्मिन् काले–तद् + दानीम् विभक्तित्वात् अ। तदेत्यर्थे। “तदानीमपि पार्श्ववर्त्तिनाम्” भाग० ५। ८। ३१। तत्र भवः ट्युल् तुट् च। तदानीन्तन तत्र भवे त्रि० स्त्रियां ङीप्।

तदाप्रभृति = त्रि० तदा तत्कालः प्रभृतिरादिर्यस्य तदाशब्दस्य सप्तम्यर्थवृत्तेरपि कथञ्चित् प्रथमार्थवृत्तिता। तत् कालादिके “तदाप्रभृत्येव विमुक्तसङ्गः” कुमा०।

तदामुख = त्रि० तदा मुखं यस्य। प्रारब्धे।

तदित् = त्रि० तदेति इण–क्विप् तुक्। तद्विषयके स्तोत्रे। “वयमु त्वा तदिदर्थाः” ऋ० ८। २। १६ यद्विषयकं स्तोत्रं तदित् तदेवार्थः प्रयोजनं येषाम्” भा०।

तद्गत = त्रि० तत् गतः। १ तत्परे २ तदासक्ते च। तद्गतेनैव मनसा” रामा० वा० २ अ०। “शुचिस्तद्गतमानसः” गीता

तद्गुण = त्रि० तस्य गुण इव गुणोऽस्य। १ तत्तुल्यगुणके २ अर्थालङ्कारभेदे पु० ३९९ पृ० लक्षणादि दृश्यम्। ६ त०। १ तस्य गुणे पु०। “तद्गुणसारत्वात्” शा० सू०। तत्र प्रधाने गुणः विशेषणम्। ४ प्रधानविशेषणे तद्गुणसंविज्ञानः।

तद्गुणसंविज्ञान = पु० तत्र बहुव्रीहौ गुणस्य गुणीभूतस्य विशेषणस्य संविज्ञानं विशेष्यपारतन्त्र्येण बोधनं यत्र। व्याकरणोक्ते बहुब्रीहिसमासभेदे। भवति च लम्बकर्णमानयेत्यादौ गुणीभूतस्य कर्णस्याप्यानयने पारतन्त्र्येणा- न्वयवोधः। शब्द० प्र० स्वमते तल्लक्षणादिकमुक्त्वा प्राचीनमतसिद्धमप्युक्तं यथा “तदतद्गुणसंविज्ञानौ द्वौ भेदौ तदादिमः। विग्रहस्य विशेष्यो यस्तद्विशेष्यकबोधकृत्”। तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च बहुव्रीहेर्द्वौ भेदौ। तत्र विग्रहवाक्यस्य विशेष्यविधया प्रत्याय्योयोऽर्थस्तद्विशेष्यकबोधकृद्बहुब्रीहिः तयोरादिमस्तद्गुणसंविज्ञानस्तस्य स्वार्थगुणीभूतस्य सम्यग्विविशेष्यविधया विज्ञानं यस्मादिति व्युत्पत्त्या सान्वयसंज्ञकत्वात्। तद्भिन्नश्चातद्गुणसंविज्ञानश्चरमः इत्यर्थाद्गम्यते। घटस्वरूपः पदार्थः इत्यादितोहि घटः स्वरूपं यस्येति विग्रहस्थले स्वस्वरूपाभिन्नघटसम्बन्धित्वेन घटाभिन्नस्वस्वरूपसम्बन्धित्वेन वा विग्रहविशेष्यं कलसमेव विशेष्यविधया बोध्यते घटस्य स्वरूपं यस्मादिति विग्रहे च विग्रहस्य यद्विशेष्यं ततोऽन्यदेव स्वजन्यस्वरूपाभिन्नघटसम्बन्धित्वेन। कुटादिर्गण इत्यादिरपि कुट आदिर्यस्येति व्युत्पत्त्या कुटाभिन्नस्य स्वधर्मिकव्यवस्थाधर्मिणः सम्बन्धित्वेन धात्वन्तरमिव कुटमपि बोधयंस्तद्गुणसंविज्ञान एव बहुव्रीहिः। प्राचां मतेन तद्गुणसंविज्ञानबहुब्रीहिमन्यथा निर्वक्ति। “यः स्वार्थघटकार्थस्य खार्थान्वयिनि बोधने। अनुकूलो बहुब्रीहिः स तयोरथवादिमः”। यो बहुब्रीहिः स्वार्थस्यान्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधने समर्थः स तयोस्तदतद्गुणसंविज्ञानयोरादिमः। लम्बकर्णमानय हारग्रीवं पश्येत्यादौ हि बहुव्रीहिर्लम्बस्वकर्णसम्बन्धिनः स्वग्रीवावृत्तिहारसम्बन्धिनश्च स्वार्थस्यान्वयिनि कर्मत्वादौ स्वार्थघटकीभूतस्य तादृशकर्णहारादेरपि व्युत्पत्तिवैचित्र्येणान्वयबोधगे समर्थ इत्येवंविध एव तद्गुणसंविज्ञानस्तद्भिन्न एव चार्थादतद्गुणसंविज्ञानः। यथा दृष्टसागरमानय इत्यादाविति

तद्दिन = न० कर्म्म०। “तस्मिन् दिने। तद्दिनं स्यादनध्यायं व्रतं तत्र न कारयेत्” मल० त०। १ दिनमध्ये २ प्रतिदिने च मान्तम् अव्य० शब्दार्थ चि०।

तद्धन = त्रि० तदेव धनं यस्य। १ कृपणे हेमच० स हि सर्वमेव धनमपर्य्याप्ततयावधार्य्य आत्मनि तद्धनत्वमेवाभिमन्यते कर्म्म०। २ तस्मिन् धने न०।

तद्धर्म्मन् = त्रि० स धर्म्म यस्य अनिच् समा०। तथाभूतधर्म्मयुक्ते। “आक्वेस्तच्छीलतद्धर्म्म तत्साधुकारिषु” पा०

तद्धित = त्रि० तस्मै हितम्। १ तस्मै हिते। २ व्याकरणोक्ते प्रत्ययभेदे पुंन०। “तद्धिताः ४। १। ७६ पा० सूत्रेणाधिकृत्य “यूनस्तिः” इत्यादिना पञ्चमाध्यायसमाप्तिं यावद्ये प्रत्यया विहितास्ते तद्धितसंज्ञकाः। शब्द० प्रका० तल्लक्षणादिकमुक्तं यथा “विभक्त्यादित्रिकादन्यः प्रत्ययस्तद्धितं मतम्। नामप्रकृतिको नैवमतिव्याप्त्यादिदोषतः”। “विभक्तिधात्वंशकृद्भ्योऽन्यः प्रत्ययस्तद्धितः। वृक्षक इत्यादौ ह्रस्वाद्यर्थकः कादिरपि तद्धितमेवेति। तदन्यत्वेनापि प्रत्ययं विशेषयन्त्यन्ये। नामप्रकृतिकप्रत्ययत्वन्तु न तद्धितस्य लक्षणं विभक्तौ क्यजादौ चातिव्याप्तेः पचतितरामित्यादौ तरामाद्यव्याप्तेश्च”। विभजते। “तस्यापत्यं तद्विशेषस्तदृक्षेण युतेन्दुमान्। कालस्तथा तेन रक्तं तस्य व्यूहोऽथ वेत्ति तत्। अधीते वा देवताऽस्य सैवमादीन् यथायथम्। वोधयद्विविधानर्थांस्तद्धितं स्यादनेकधा” तेनास्य क्लीवत्वमपि “तद्धितस्याचामादेः”। “तद्धितश्चासर्वविभक्तिः” पा०। “समासतद्धितकृतां यत्किञ्चिदुपदर्शकम्। गुणप्रधानभावे च तस्य दृष्टो विपर्य्ययः” हरिकारिका। स च तद्धितो द्विविधः प्रकृत्यर्थभिन्नार्थकः स्वार्थिकश्चेति भेदात्।

तद्बल = पु० तस्मिन् बलं यस्मात्। १ वाणभेदे “क्षुरप्रतद्बलार्द्धेन्दुतारामुख्याश्च तद्भिदः” हेम०। अस्य स्त्रीत्वोक्तिः प्रामादिकी “पुमान्” इत्यधिकारे “देवासुरात्मस्वर्गगिरिसमुद्रनख केश दन्त स्तन भुज कण्ठ खड्ग शरपङ्काभिधानानि” पा० “पुंस्त्वे सभेदानुचराः सपर्य्यायाः सुरासुराः। स्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः” अम० च पुंस्त्वोक्तेः

तद्भाव = पु० तस्य भावः असाधारणधर्मः प्राप्तिर्वा। १ तस्यासाधारणे धर्मे यथा वटे घटत्वम्। गोर्गोत्वम्। २ तद्रूपप्राप्तौ च “अभूततद्भावे च्विः” “पयसस्तद्भावात्” कात्या० श्रौ० ४। ३। २३ सू०। ७ त० तस्मिन् भावः तद्विषयकचिन्तने “सदा तद्भावभावितः” गीता।

तद्राज = पु० तस्य राजा टच्। १ तस्य नृपतौ २ तदर्थविहिते तद्धितप्रत्ययभेदे च। “ते तद्राजाः” पा० ते अञादयस्तद्राजसंज्ञकाः स्युः “ञ्यादयस्तद्राजाः” पा० “पूगात् ञ्य इत्यारभ्य उक्ताः तद्राजसंज्ञका स्युः” सि० कौ०। तद्राजस्य बहुषु अस्त्रियाम् लुक्।

तद्र = अवसादे मोहे च सौ० पर० अक० सेट् इदित्। तन्द्रति अतन्द्रीत्। तन्द्रा

तद्र्यञ्च(च्) = त्रि० तदञ्चति गच्छति पूजयति वा–अन्च्–गतौ पूजायां वा क्विप् टेरद्र्यादेशः पूजार्थत्वे न नलोपः। १ तद्गामिनि २ तत्पूजके च।

तद्वत् = अव्य० तेन तुल्यं या तुल्या सा चेत् क्रियेत्यर्थे वति। १ तत्सदृशक्रियावति। तस्येव तत्रेव वा इत्यर्थे वति। २ तत्तुल्येऽर्थे यथा तद्वत् शिवस्य विभुता, तद्वत् शिवे भक्तिरित्यादि। “तद्वत्तादृशि च स्थितम्” स्वाङ्गलक्षणम्। “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठते निराश्रयं लिङ्गम्” “पुरुषस्य मोक्षार्थं प्रवर्त्तते तद्वदव्यक्तम्” सा० का०। “क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्येऽपि जन्मनि” मनुः। तद् अस्त्यर्थे मतुप् मस्य वः। ३ तद्विशिष्टे त्रि० “तद्वानपोहो वा शब्दार्थः” काव्य० प्र० “द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये”। “अथ वा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्” भाषाप० स्त्रियां ङीप्। तस्य भावःतल्। तद्वत्ता तद्विशिष्टत्वे स्त्री “पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता” भाषा०।

तद्विध = त्रि० सा विधा प्रकारो यस्य। तत्प्रकारे “धर्म्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा” मनुः। “क्व तद्विधात्वं क्व च पुण्यलक्षणा” कुमा०।

तन = विस्तृतौ तना० उभ० सक० सेट्। तनोति तनुते अतानीत् अतनीत् अतत–अतनिष्ट ततान तेनतुः तेने। उदित् तनित्वा तान्त्वा। ततः वितानः। “तनोति भानोः परिवेषकैतवात्” नैष०। “आचार्य्यस्तनुते विवृतिमिमां दायभागस्य”। दायभागटीका “ततान सोपानपरम्परामिव” रघुः। “यस्य तस्य विना षष्ठीं तेनेति करणं विना” उद्भटः। “तेनिरेऽभिरुचितेषु तरुण्यः” माघः

“स तमीं तमोभिरभिगम्य तताम्” माघः “तन्वता प्रथमतादृशि रागम्” माघः। अति + अतिशयविस्तारे। अतितत्। “तन्ततोऽतिततातितुत्” माघः।वि + अति + व्यतितहारेण विस्तारे आत्म० “वियति व्यत्यतन्वातां मूर्त्ती हरिपयोनिधी” भट्टिः।अधि + आरोप्य विस्तारे। “धनुरधितनोति” शत० ब्रा० ५। ३। ५। ७ अ०।अनु + सन्ततविस्तारे पश्चाद्विस्तारे च “परिपाल्यानुतनुयादेषधर्मः सनातनः” भा० शा० १३३ अ०।अप + अधोविस्तारे। अपतानकः।अव + सन्ततविस्तारे “विशालमूलावततं पवनाम्भोदधारिणम्” हरिवं० ८८ अ०।आ + दीर्घतया विस्तारे। आतानः (टाना देओया) सम्यग्- विस्तारे च “मौर्वी धनुषि चातता” रघुः। यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्य्यमेवातनुत” भाग० ५। २४। २२ “इदं ते लोभान्धस्य चेष्टितं चेतसि चमत्कारमातनोति” प्रवोध० च०।वि + आ + विशेषेण विस्तारे। “व्यातेने किरणावलीमुदयनः” किरणावली।उद् + ऊर्द्ध्वतो विस्तारे उत्तानः।प्र + प्रकर्षेण विस्तारे। “फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते” भा० शा० ९६१३ श्लो०। “तदुरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते” माघः। पक्षे प्रतन्यते।वि + विशेषेण विस्तारे वितानः (पडान देओया) “यथा लूता आतानवितानाभ्यामिति” वेदान्तप्र०।सम् + सम्यग्विस्तारे सन्तानः सन्ततिः सन्ततम् “सन्तता शुशुभे भूमिः” रामा० स० १४ अ०।

तन = उपकारे श्रद्धायां आघाते च वा० चुरा० उभ० पक्षे भ्वा० सक० शब्दे अक० सेट्। तानयति ते तनति अतीतनत् त अतानीत् अतनीत्। व्युपसर्गात् दैर्घ्ये अक० दीर्घीकरणे सक०। वितानयति दीर्घो भवति दीर्घं करोति वा। “वितानयति यः कीर्त्तिं वितनत्यमलं यशः” कविरहस्यम् “अयं वेदे गणव्यात्यसात् दिवा० “घोषा घोषादिन्द्राय तन्यति ब्रुवाणः” ऋ० ६। ३८। २। “तन्यति शब्दं करोति” भा०। चौरादिकस्य अदन्तत्वमिति तनयित्नुशब्दार्थे माधवः तनयित्नुशब्दे दृश्यम्।

तनय = पुंस्त्री० तनोति कुलम् तन–कयन्। १ पुत्रे। २ दुहितरि, ३ चक्रकुल्यायां, (चाकुलिया) लतायां, ४ घृतकुमार्य्याञ्च स्त्री टाप्। “अथैनमद्रेस्तनया शुशोच” कुमा०। तनयाशब्दस्य प्रियादिषु पाठात् पूर्वपदस्य न पुंवत्। तनया जाता अस्य तनयाजातः इत्यादिः। ५ लग्नावधिकपञ्चमस्थाने पु०। “जनयति तनयभवनमुपगतः” वृ० स०।

तनयित्नु = पु० चु० स्तन–शब्दे इत्नु पृषो० सलोपः अदन्तचुरा० तन–शब्दे इत्नु माधवः। १ अशनौ “अग्निं पुरा तनयित्नोरचित्तात्” ऋ० ४। ३। १ “तनयित्नुरशनिः” भा० २ मेघे च “एकपात्तनयित्नुरर्णवः” ऋ० १०। ६६। ११। “तनयित्नुर्मेघः” भा०।

तनस् = पु० तनोति वंशम् तन–असुन्। पौत्रादौ “मा शेषसा मा तनसा” ऋ० ५। ७०। ४। “तनसा पौत्रादिना” भा०

तना = स्त्री तन–अच् टाप्। धने निघण्टुः।

तनादि = पु० पा० धातुपाठोक्ते धातुगणे। स च धातु- पाठे वोपदेवेन तत्सूचकं द इत्यनुबन्धयुक्ततया पठितः “तनादिकृञ्भ्यौः”। “तनादिभ्यस्तथासोः” पा०। तनादौ गणे पठितः ठक्। तानादिक तद्गुणपरिते धातौ।

तनिका = स्त्री तन्यते धातूनामनेकार्थत्वात् बध्यते अनया करणे इन् संज्ञायां कन् कापि अतैत्त्वम्। बन्धनरज्वौ शब्दार्थचि०।

तनिमन् = पु० तनोर्भावः तनु + इमनिच्। १ तनुत्वे, २ कार्श्ये च। “विरलातपस्तनिमानमभजत” काद०। तनयति तनुं करोति तनु + णिच् इमनिच् डिद्वद्भावे टिलोपः। ३ यकृति। “अथ पार्श्वयोरथ तनिम्नोऽथ वृक्वयोः” शत० ब्रा० ३। ८। ३। १७। “तनिम्नः यकृतः” भा० तस्य तनूकरणात् तथात्वम्।

तनिष्ठ = त्रि० अयमनयोरतिशयेन तनुः तनु + इष्ठन् डिद्वद्भावः। द्वयोर्मध्ये एकस्मिन् अतिशयेन तनौ। वेदे बहुभ्यो निर्द्धारणेऽपि इष्ठन्। २ बहूनां मध्येएकस्मिन्, अतिशयेन तनौ च “एतेषां लोकानां अन्तरिक्षलोकस्तनिष्ठः” शत० ब्रा० ७। १। २। २०। लोके तु तत्रार्थे ईयसुन् तनीयानित्येव।

तनीयस् = त्रि० बहूनां मध्येऽयमतिशयेन तनुः ईयसुन् डिद्वत्। बहूनां मध्ये एकस्मिन् अतिशयेन तनौ “पक्षपुच्छानि तनीयांसीव” शत० ब्रा० ८। ७। २। १ स्त्रियां ङीप्।

तनु = स्त्री तनोति कर्म कार्श्यं वा तन–उन्। शरीरे अमरः २ त्वचि राजनि०। “तनुभिरवतुवस्ताभिरष्टामिरीशः” शकु०। “तनौ ममुस्तत्र न कैटभद्विषः” “वभार वाष्पैर्द्विगुणीकृतं तनुः” माघः। वा ऊङ्। तनूः इत्यपि तत्रार्थे तनूजः। ३ कृशे ४ अल्पे ५ विरले च त्रि० मेदि०। “तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम्” मनुः। स्त्रियां वा ङीप् तन्वी। “तव तन्वि! कुचावेतौ नियतं चक्रवर्त्तिनौ” उद्भटः। सा च ६ कृष्णभार्य्याभेदे “शैव्यस्य च सुतां तन्वीं रूपेणाप्सरसां समाम्” हरिवं० ११८ अ०। “भूतमुनीनैर्यतिरिह भतनामतभौ भतनाश्च यदि भवति तन्वी” वृ० र० उक्ते चतुर्विंशत्यक्षरपादके ७ छन्दोभेदे च तनोर्भावः तल् तनुता कार्श्ये स्त्री “तनुतां दुःखमनङ्ग मोक्ष्यति” कुमा० “सर्वाणि तनुतां यान्ति जलानि जलदक्षये” हरिवं० ३८२५। त्व तनुत्व तत्रार्थे न०। योगशास्त्रोक्तेषु दग्धवीजभावेषु अप्ररोहापन्नेषु ८ अस्मितादिषु “अविद्या क्षत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्” पात० सू०। “दग्धवी- जानामप्रवरोहस्तनुत्वमुच्यते प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति” भा०। तेन प्रतिपक्षभावनया अस्मितादिक्लेशानां तनुत्वात् तनुसंज्ञेति तदर्थः। ज्योतिषोक्ते स्त्री ९ लग्नस्थाने स्त्री०। “तनुनिधनखभेशाः केन्द्रकोणे त्रिलाभे” जातकाल०। स्वार्थे क। तनुक तनुशब्दार्थे।

तनुक्षीर = पु० तनु अल्पं क्षीरं निर्यासोऽस्य। आम्रातके राजनि०

तनुच्छद = पु० तनुं देहं छादयति छादेर्घः ह्रस्वश्च। १ कवचे वर्मणि। “तरुपलाशसवर्णतनुच्छदः” “मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम्” रघुः।

तनुच्छाय = पु० तन्वी स्वल्पाछाया यस्य। १ वर्वुरकवृक्षे राजनि०। ६ त० २ देहच्छायायां स्त्री। तन्वी अल्पा च्छाया यस्य। ३ अल्पछायायुक्ते त्रि०। तन्वी छाया कर्म०। ४ अल्पच्छायायां स्त्री।

तनुज = पुंस्त्री० तनोर्देहात जायते जन–ड ५ त०। पुत्रे हलायुधः २ कन्यायां स्त्री ३ लग्नावधिकपञ्चमस्थाने ज्यो०

तनुत्र = न० तनुं त्रायते त्रै–क। वर्मणि “काण्डीरः खाड्गिकः शार्ङ्गीरक्षन् विप्रांस्तनुत्रवान्” भट्टिः। “अक्षितारासु विव्याध द्विषतः स तनुत्रिणः” माघः।

तनुत्राण = न० तनुस्त्रायतेऽनेन त्रै–करणे ल्युट्। बर्मणि हारा०

तनुत्वच् = स्त्री तन्वी त्वम् वल्कलं यस्याः। क्षुद्राग्निमन्थे राजनि०। २ सूक्ष्मत्वग्युक्ते त्रि०।

तनुपत्र = पु० तनूनि कृशानि पत्राणि यस्य। १ इङ्गुदीवृक्षे राजनि०। २ स्वल्पपत्रयुक्तवृक्षमात्रे त्रि०।

तनुभव = पु० तनोर्भवति भू–अच् ५ त०। १ पुत्रे “दृश्यते तनुभवः शिशिरांशो” वृ० सं० १७ अ०। २ दुहितरि स्त्री

तनुभस्त्रा = स्त्री तनोर्देहस्य भस्त्रेव। १ नासिकायाम् शब्दरत्ना०। कर्म०। क्षुद्रभस्त्रायाम्।

तनुभृत् = त्रि० तनुं बिभर्त्ति भृ–क्विप् ६ त०। देहधारिणि “छायाफलं तनुभृतां शुभमादधाति” वृ० स० ६८ अ०।

तनुमध्या = स्त्री तनु कृशं मध्यं यस्याः। १ कृशमध्यायां स्त्रियां २ षडक्षरपादके छन्दोभेदे च। “तौ चेत् तनुमध्या”। “मूर्त्तिर्मुरशत्रोरत्यद्भुतरूपा। आस्तां मम चित्ते नित्यं तनुमध्या” छन्दोम०। ३ अल्पमध्यके त्रि०।

तनुरस = पु० तनो रस इव। घर्मे हारा०।

तनु(नू)रुट् = न० तनौ तन्वां वा रोहति रुह–क्विप् ७ त०। लोमनि शब्दर०।

तनु(नू)रुह = न० तनौ तन्वां वा रोहति रुह–क ७ त०। लोमनि शब्दर०।

तनुल = त्रि० तन–उलच्। विस्तृते संक्षिप्तसा०।

तनुवात = पु० तनुरल्पो वातोऽत्र। १ नरकभेदे हेमच०। २ अल्पवातस्थाने त्रि०।

तनुवार = न० तनुं देहं वृणोति वृ–अण् उपस०। कवचे सन्नाहे शब्दार्थचि०।

तनुवीज = पु० तनूनि कृशानि वीजानि यस्य। १ वीजवदरे। राजनि० २ स्वल्पवीजयुक्ते त्रि०।

तनुव्रण = पु० तनुरल्पो व्रणो यतः। बल्मीकरोगे शब्दर०।

तनुस् = न० तन–उसि। देहे उणादिको०।

तनुसञ्चारिणी = स्त्री तनु अल्पं सञ्चरति सम् + चर–णिनि ङीप्। १ वालिकायां शब्दार्थचि०। २ अल्पसञ्चारयुक्ते त्रि०।

तनुसर = पु० तनोः सरति सृ–अच् ५ त०। स्वेदे घर्म्मे शब्दार्थचि०।

तनुह्रद = पु० तनो र्ह्रद इव। पायौ त्रिका०।

तनू = पु० तनोति कुलं तन–ऊ। १ पुत्रे। “ता वां विश्वको नुवते तनूकृथे” ऋ० ८। ८६। १।। “तनोति तनूः पुत्रः” भा० तनोति कर्म उन् ऊङ्। २ शरीरे अमरः। ३ प्रजापतौ ४ गवि ५ अप्सु च तनूनपाच्छब्दे दृश्यम्।

तनूकृ = अतनुं तनुं करोति तनु + अभूततद्भावे च्वि कृञोऽनुप्रयोगः अल्पीकरणे तनूकरोति “लज्जां तनूकृत्य नरेन्द्रकन्या” रघुः। “समाधिभावनार्थः क्लेशतनूकरणार्थश्च” पात० सू०। “तनूकृद्बोधि प्रमतिश्च कारवे” ऋ० १। ३१। ९

तनूकृत = त्रि० तनूकृ–कर्मणि क्त। १ तष्टे २ अल्पीकृते च अमरः।

तनूज = पु० तन्वाः देहात् जायते जन–ड ५ त०। १ पुत्रे २ कन्यायां स्त्री। “समादिदेश प्रयतां तनूजाम्” कुमा० तनूजनि तनूजात तनूजन्मादयोऽप्यत्रार्थे यथायथं पुंस्त्री

तनूद्भव = पु० तनोरुद्भवति उद् + भू–अच् ५ त०। १ पुत्रे २ दुहितरि स्त्री। “पञ्चभूतपरित्यक्तं शावं तं स्वतनूद्भवम्” हरिवं० २० अ०।

तनूनप = न० तन्वा ऊनं कृशं पाति–पा–क। घृते शब्दच० तनूनपात्।

तनूनपात(द्) = पु० तनूं न पातयति पत–णिच्–क्विप् नभ्राङित्यादिना नञोन नलोपः। तनूनं पाति रक्षति पा–शतृ, तन्वा ऊनं कृशं पाति तनूनपं घृतं तदत्ति अद–क्विप् वा। अग्न्रौ, जठरस्थित्या भुक्तान्नादिपाचनादस्य देहापातकत्वम्। शतृपक्षे तनूनपान्तौ इत्यादि क्विप् पक्षे तनूनपादौ इत्यादि भेदः। २ घृते न० ६ त०। ३ प्रजापतिपौत्रे। “नराशंसः प्रतिशूरोमिमानस्तनूनपात् प्रतियज्ञय्य धाम” यजु० २०। ३७ तनूनपात् तनोति विस्तारयति सृष्टिं तनूः प्रजापति र्मरीचिस्तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः यद्वा तनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति तनूनपात् अग्निः यद्वा तनोति भोगानिति तनूः गौस्तस्या नपात् पौत्रं घृतम् गोः पयो जायते पयसआज्यमिति घृतं तनूनपाद्वा” वेददी० निरुक्ते अस्य निरुक्तिर्दर्शिता यथा “तनूनपादाज्यं भवति नपादित्यननन्तरायाः प्रजाया नामघेयं भवति गौरत्र तनूरुच्यते तता अस्यां भोगास्तस्याः पयो जायते, पयस आज्यं जायते। अग्निरिति शाकपूणिरापोऽत्र तन्व उच्यन्ते तता अन्तरिक्षे, ताभ्य ओषधिवनस्पतयो जायन्त ओषधिवनस्पतिभ्य एष जायते। तस्यैषा भवति। “तनूनपात् पथ ऋतस्य यानान् मध्वासमञ्जन्तस्वदया सुजिह्व” निरु० ८। ६। अग्न्युद्देश्यके ४ प्रयाजभेदे च। तनूनपाद्यागश्च वसिष्ठशुनकात्रिवध्र्यश्वराजन्यभिन्नानां पयाजेषु द्वितीयः वसिष्ठादीनां तु नरांशमो द्वितीय इति भेदः यथोक्तं आश्व० श्रौ० १। ५। ६ “प्रयाजैश्चरन्ति” “पञ्चैते भवन्ति” पञ्चवचनं नरांशसः तनूनपाद्वा द्व्यमुष्यायणस्यापि पञ्चैव भवन्ति न षडेत्येवमर्थम्। एत इति वचनम् अत्र पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्च भवन्ति नापठितेन सहेत्येवमर्थम्” नारा०। ये यजामहे इत्युपक्रमे “समिधः अग्न आज्यस्य व्यन्तु ३ वौ३षडिति वषट्कारः १५ सू०। “इति प्रथमः” १६ सू०। “त्ययं प्रथमः प्रयाजः” नारा० “तनूनपादग्न आज्यस्येति वेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्र्यश्वराजन्येभ्यः”। २१ सू०। “नरांशंसी अग्न आज्यस्य वेत्विति तेषाम्” २२। सू० “वसिष्ठादीनामयं द्वितीयः” नारा० “इडो अग्न आज्यस्य व्यन्त्विति तृतीयः”। २३ सू०। “सर्वेषामिति शेषः” नारा० “वर्हिरग्न आज्यस्य वेत्विति चतुर्थ आगूर्य्य पञ्चमे स्वाहाऽमुं स्वाहासुमिति” २४ सू० इत्यादि। वसिष्ठादिभिन्नानां समिद्यागतनूनपाद्यागः इडोयागः बहिर्यागः स्वाहाकारयाग इत्येते पञ्चैव प्रयाजा इत्यवधेयम्। वसिष्ठादीनां तनूनपात्स्थाने नरांशस इति भेदः। अतएव श्रुतौ “समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजतिं स्वाहाकारं यजतीत्येव पञ्च पठिताः वसिष्ठादिभिन्नषरतया व्यवस्याप्याः। “बभार वाष्पैर्द्विगुणी कृतं तनूस्तनूनपाद् धूमवितानमाधिजाः” माघः। “तनूं न पातयति जाठररूपेण धारयतीति” मल्लि०।

तनूनप्तृ = न पातयति नप्ता ६ त०। वायौ तनोति तनूः परमात्मा आकाशस्तस्य पुत्रो वायुस्तस्य नप्ता पौत्रः वायुहि आत्मजाताकाशजातत्वात् ब्रह्मपौत्रः “तखाद्वा एतस्मादात्मन आकाशः सम्भूत, आकाशाद्वायुः” इति श्रुतेस्तस्य तथात्वम्। “तनूनप्तुरेव शाक्वरस्येति यो वा अयं पवत एष तनूनपाच्छाक्वरः सोऽयं प्रजानामुपद्रष्टा प्रविष्टस्ताविमौ प्राणोदानौ” शत० वा० ३। ४। २। ५ “तन्वा देहस्य नपातयिता रक्षको देवस्तनूनप्ता अथवा सर्वतनूरात्मा प्रजापतिः तस्याकाशः पुत्रः तत् पुत्रो वायुरिति तनूनप्ता वायुः स च शाक्करः शक्तः सर्वं कर्त्तुम्”। भा०

तनूपा = पु० तनूं पाति पा–क्विप्। ६ त०। जठराग्नौ जठरानले “तनूपा अग्नऽसि तन्वं मे पाहि” यजु० ३। १७ जठरानलेन भुक्तान्ने जीर्णे रसवीर्य्यादिपाके सति देहपालनं भवतीति तस्य तथात्वम्। तन्वमिति छान्दसः प्रयोगः। २ देहपालकमात्रे च “असन्न उग्रोऽविता तनूपाः” ऋ० ४। १६। २० “तनूपाः इन्द्रः” भा०

तनूरुह = न० तनौ रोहति रुह क। १ लोमनि २ पक्षिणां पक्षे च मेदि०। “तनुमुत्फुल्लतनूरुहीकृतामिति” नैषधम्। ३ पुत्रे ४ गरुति ५ लोमनि च पु० हेमच०। “कुक्कुटस्तनु तनूरुहाङ्गुलिः” वृ० स० ६३ अ०। “तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरूहः” भा० आ० १०० अ०। “वलाहकाञ्जननिभं वराहकतनूरुहम्” हरिवं० ४३ अ०।

तनूर्ज = पु० मनुभेदोत्तमपुत्रे नृपभेदे। “औत्तभेयान् महाराज! दश पुत्रान् मनोरमान्। इष ऊर्जस्तनूर्जश्च मधुर्माधव एव च” हरिवं०७ अ०।

तनूहविस् = न० वैद्रिकेषु तनूरूपेषु हविःषु। “द्वादशाहान्ते तनूहवींषि निर्वपति” कात्या० श्रौ० ४। १०। ७। “तनूहवींषि अग्नये पवमानायेत्यादीनि निर्वपति” कर्कः तानि च “अग्नवे पवमानाय प्रथमा” ८ सू० “अग्नये पावक्रायाग्नये शुचये च द्वितीया” ९ सू० “अदित्यै चरुस्तृतीया” १०। इत्युक्तानि

तन्च = गतौ भ्वा० पर० सक० सेट्। तञ्चति अतञ्चीत्। ततञ्च ततचतुः तक्तः। तच्यते। उदित्। तञ्चित्वा तक्त्वा।

तन्च = सङ्कोचे रुधा० पर० सक० सेट्। पाणिनीयगणे अन्ज साहचर्य्यादयं वेडेव वोपदेवगणे उदित्करणं प्रामादिकम् किन्तु ऊदिदेव। तनक्ति अतञ्चीत् अताङ्क्षीत्। ततञ्च। “तनच्मि व्योम विस्तृतम्” भट्टिः।आ + आतञ्चनशब्दोक्तार्थेषु (दम्बलदेओया) “इन्द्रस्य त्वा भागं सोमेनातनच्मि” यजु० १। ४। “उद्वाथातनक्ति प्राग्घुतशेषेणेन्द्रस्यत्वेति” कात्या० श्रौ० ४। २। २३ “तां दुग्धस्थालीमुत्त- रत उद्वास्य प्राग्घुतशेषेण पूर्वदिने कृताग्निहोत्रशेषेण दध्ना दुग्धमातनक्ति अवशिष्टं दधि दुग्धमध्ये प्रक्षिपति दधित्वसम्पत्त्यर्थम्” कर्कः। १ भयहेतुकसङ्कोचे च न्यङ्क्वा० कुत्वम् आतङ्कः। आतङ्क्यम्।

तन्ज = सङ्कोचे रुधा० पर० सक०। पाणिनीयगणे (तन्चू) इत्यत्र तन्ज् इति पाठान्तरम् अयमूदित्त्वात् वेडेव। तनक्ति अतञ्जीत् अताङ्क्षीत्। ततञ्ज।

तन्तस् = दुःखे कण्ड्वा० अक० पर० सेट्। तन्तस्यति अतन्तस्यीत् अतन्तसीत्।

तन्ति = स्त्री तन–कर्मणि क्तिच् वेदे दीर्घनलोपाभावौ। १ दीर्घप्रसारितायां रज्वाम्। “वत्सानां न तन्तयस्त इन्द्र”! ऋ० ६। २४। ४। “तन्तिर्नाम दीर्घप्रसारिता रज्ज्वुः” भा० लोके तु ततिः तातिरित्येव क्वचिदार्षेऽपि तथा। “साऽसज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता” भाग० ७। २। ५२। २ गवां मातरि च तन्तिपालः। वा ङीप् तन्ती गवां मातरि “तन्तीं प्रसार्य्यमाणां वद्धवत्सां चानुमन्त्रयेतेयं तन्ती गवां मातेति गोपथब्रा० ३। ६। ७

तन्तिपाल = पु० तन्तिं गोमातरं पालयति पालि–अण् उप० स०। २ गोमातृपालके। अस्य “गोतन्तियवं पाले” पा० आद्युदत्तता। २ सहदेवे च “तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः” भा० वि० १० अ०। अत्र तन्त्रिपालेति पाठान्तरं तदभिप्रायेण तन्त्रिं वशीभूततां पालयतीति विग्रहेण तन्त्रिपालं वचनकरमिति नीलकण्ठेनोक्तम् “तन्त्रिपाल इति ख्यात नाम्नाऽहं बिदितस्तथा” भा० वि० ३९ अ० इत्यत्र तथैव पाठः।

तन्तु = पु० तन–तुन्। १ सूत्रे अमरः तन्तुवायः। तन्तुदामनपर्वणोः” नरसिं० पु० “तस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु” भाग० ९। ९। ७। “तिरष्क्रियन्ते कृमितन्तुजालैः” रघुः। २ ग्राहे हेम०। ३ सन्ताने “तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति” मनुः। “संवेष्टमानं बहुभिर्मोहात्तन्तुभिरात्मजैः। कोषकार इवात्मानं वेष्टयन्नावबुध्यसे” भा० शा० ३३१ अ०।

तन्तुक = पु० तन्तुनेव कायति कै–क। १ सर्षपे २ नाड्यां स्त्री गौरा० ङीष्।

तन्तुकाष्ठ = न० तन्तुयुक्तं काष्ठम्। (ता~तेर काटि) तन्तुवायोपकरणे तन्त्रकाष्ठभेदे शब्दर०।

तन्तुकीट = पु० तन्तोः तन्त्वर्थं कीटः। (गुटीपोका) कीटभेदे जटाधरः।

तन्तुन = पु० तन–बा० तुनन्। १ ग्राहे (हाङोर) ख्याते जलजन्तुभेदे हेम०।

तन्तुनाग = पु० तन्तुर्नाग इव। वृहद्ग्राहे त्रिका०।

तन्तुनाभ = पु० तन्तुर्नाभावस्य अच् समा०। (माकडसा) ल्तायाम्

तन्तुनिर्य्यास = पु० तन्तुरिव निर्य्यासो यस्य। तालवृक्षे। शब्दर०।

तन्तुपर्वन् = न० तन्तोः यज्ञोपवीतसूत्रस्य दानरूपं पर्व यत्र। चान्द्रश्रावणपौर्णमास्याम् तद्दिने हि वामनाय यज्ञोपवीतदानोत्सवः स्मृतौ विहितः। राघवभट्टधृतनारसिंह वचनम्। “शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने। सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः। मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोघयेत्”। तन्तुपर्व परमेश्वरोपवीतदानतिथिः श्रावणी पूर्णिमा” रघुनन्दनः। इयं तिथिः रक्षासूत्रबन्धरूपोत्सवदिनत्वात्तथेत्यपि तथा च तस्यां रक्षासूत्रबन्धनप्रकारः निर्णयसि० दर्शितो यथा “अत्रैव रक्षाबन्धनमुक्तं हेमाद्रौ भविष्ये “संप्राप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये। स्मानं कुर्वीत मतिमान् श्रुति स्मृतिविधानतः। उपाकर्मादिकं प्रोक्तमृषीणां चैव तर्पणम्। शूद्राणां मन्द्ररहितं स्मानं दानं च शस्यते। उपाकर्मणि कर्तव्यमृषीणां चैव पूजनम्। ततोऽपराह्णसमये रक्षापोटलिकां शुभाम्। कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषितैरिति” अत्रोपाकर्मानन्तर्यस्य पूर्णमासीतिथौ वार्षिकस्यानुवादो न तु विधिः गौरवात् प्रयोगविधिभेदे च क्रमायोगा च्छूद्रादौ तदयोगाच्च। तेन परेद्युरुपाकरणे पूर्वेद्युरपराह्णे तत्करणं सिद्धम्। इदं भद्रायां न कार्यम् “भद्रायां द्वे न कर्त्तव्ये श्रावणी फाल्गुनी तथा। श्रावणी नृपतिं हन्ति ग्रामं दहति फाल्गुनीति” संग्रहोक्तेः तत्सत्त्वे तु रात्रावपि तदन्ते कुर्य्यादिति निर्णयामृते। इदं प्रतिपद्युतायां न कार्यम् “नन्दायादर्शने रक्षाबलिदानं दशासु च। भद्रायां गोकुलक्रीडा देशनाशाय जायते” इति मदनरत्ने ब्रह्मवैवर्तात् भविष्ये “उपलिप्ते गृहमध्ये दत्तचतुष्के न्यसेत् कुम्भम्। पीठेतत्रोपविशेद्राजामात्यैर्युतश्च सुमुहूर्ते। तदनु पुरीधा नृपते रक्षां बध्नीत मन्त्रेण”। इदं रक्षाबन्धनं नियतकालत्वात् भद्रावर्जं ग्रहणदिनेऽपि कार्यं होलिकावत्। ग्रहसंक्रान्त्यादौ रक्षानिषेधाभावात् “सवेर्षामेव वर्णानां सूतकं राहुदर्शने” इति तत्कालीनकर्मपरमेव न त्वन्यत्र। अन्यथा होलिकायां का गतिः। अतएव “नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च। उपाकर्मणि चोत्सर्गे ग्रहवेघोन विद्यते” इति नियतकालीने तदभाव इति दिक्। उपाकर्मणीति तद्दिनभिन्नपरं तत्रतन्निषेधादित्युक्तं प्राक। मन्त्रस्तु “येन बद्धो बलीराजा दानवेन्द्रो महाबलः। तेन त्वामपि बध्नामि रक्षे! मा चल मा चल”। “ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च मानवैः कर्तव्योरक्षणाचारो द्विजान् संपूज्य शक्तितः” इति।

तन्तुभ = पु० तन्तुना सन्तत्या भाति भा–क। १ सर्षपे २ वत्से च जटाधरः। “मरीचं पिप्पलं कोषं जीरकन्तन्तुभं तथा। संस्कारे च समक्षे च महादेव्यै निवेदयेत्” कालि० पु०। “तन्तुभं सर्षपम्” रघुनन्दन।

तन्तुवर्द्धन = त्रि० तन्तुं सन्तानं संसारं वा वर्द्धयति छिनत्ति वा वृध–वृद्धौ णिच् ल्यु वर्द्धि छेदने ल्यु वा। १ तन्तुबर्द्धके २ तन्तुच्छेदके च। ३ परमेश्वरे पु०। “शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्द्धनः” विष्णु स०। “तन्तुं सन्ततिं संसारं वर्द्धयति छेदयति वा ज्ञानदानेन” भा०।

तन्तु(र)ल = न० तन्तुर्विद्यतेऽस्य र–लच् वा। मृणाले। हेमच०

तन्तुवाप = त्रि० तन्तून् वपति वप–अण् उप० स०। (ता~ति) तन्तुवाये जटाधरः।

तन्तुवाय = त्रि० तन्तून् वयति वे–अण् उप० स०। १ तन्तुवयनकर्त्तरि (ता~ति) २ लूतायां कीटभेदे च अमरः। ३ सङ्कीर्णजातिभेदे पुंस्त्री। स्त्रियां जातित्वात् ङीष्। सा च जातिस्तद्वृत्तिश्च मानवोक्ता यथा “नृपायां वैश्यसंसर्गादायोगव इति स्मृतः। तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः। शीलकाः केचित्तत्रैव जीवनं वस्त्रनिर्मितौ” “तन्तुवायो दशपलं दद्यादेकपलाधिकम्” मनुः।

तन्तुवायदण्ड = पु० तन्तोर्वायस्य दण्डः ६ त० वायते अनेन करणे–घञ वा कर्म्म०। वेमनि तन्तुवायसाधने दण्डे। (नराज)

तन्तुविग्रहा = स्त्री तन्तवो विग्रहे यस्याः। कदल्याम् त्रिका०। तत्त्वचि हि बहुसूत्राणि प्रादुर्भवन्ति।

तन्तुशाला = स्त्री तन्तूनां वयनाय शालां। (ता~तघर) तन्तुवयनगृहे हेम०।

तन्तुसन्तत = त्रि० तन्तुभिः सन्ततं व्याप्तम्। स्यूतवस्त्रे। (सि~ओयान) अमरः।

तन्तुसार = पु० तन्तव इव सारो मज्जास्य। गुवाकवृक्षे। त्रिका०

***