ज्ञ = पु० ज्ञा–क। १ बुधग्रहे “युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः” सू० सि०। २ पण्डिते “क्रिथासु बाह्यान्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः” प्रश्नो०। ३ ब्रह्मणि ४ मङ्गलग्रहे च धरणिः। सुपि उपपदे तत्तत्पदार्थज्ञातरि त्रि०। “आदेशं देशकालज्ञः” रघुः “विधिज्ञो विधिमास्थाय” ति० त०। स्वार्थे क। ज्ञक ज्ञातरि त्रि० स्त्रियां वा अत इत्त्वम् ज्ञका ज्ञिका।

ज्ञप = मारणे, आलोके, निशाने, तोषणे स्तुतौ च चुरा० उभ० सक० सेट् घटा०। ज्ञपयति–ते अजिज्ञपत्–त। ज्ञाक्म इत्यतेनैवेष्टसिद्धौ ज्ञपपाठश्चुरादिरुभयपदीति मते फलवत्कर्त्तरि परस्मैपदार्थः इति धातुप्रदीपः। वस्तुतस्तु ज्ञप्तिपदमनेनैव निष्पादितम्। तेन अनिर्दिष्टार्थतया ज्ञप्तिरिह ज्ञानम्। अतएव प्रच्छौ श ज्ञीप्से इत्यत्र अस्यैव सनन्तस्य निष्पादितेन ज्ञीप्सशब्देन ज्ञातुमिच्छा प्रतिपाद्यते। एवं ज्ञानपर्य्याये “प्रतिपज्ज्ञप्तिचेतना इत्यमरः” इति दुर्गासः। ज्ञप ज्ञाने च इति पाणिनिः। अधिकं ज्ञाधातौ वक्ष्यते।

ज्ञपित = त्रि० ज्ञप–ज्ञाने क्त नि० वा इट्। ज्ञाते अमरः। इडभावे। ज्ञप्तोऽप्यत्र।

ज्ञप्ति = स्त्री ज्ञप–भावे क्तिन्। १ बुद्धौ अमरः २ मारणे ३ तोषणे ४ तीक्ष्णीकरणे ५ स्तुतौ च।

ज्ञा = बोधे क्य्रा० प्र० सक० अनिट्। जानाति अज्ञासीत्। जज्ञौ। ज्ञाता ज्ञानं ज्ञातिः ज्ञातः जज्ञिवान्।अनु + अनुमतौ अनुमतिश्च स्वथंप्रवृत्तस्य निषेधनाभावेन स्वाभिमतत्वज्ञापनेन प्रवर्त्तनम्। “तं देवासो अनुजानन्तु कालम्” तैत्ति० ब्रा०। “अनुपवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्। सर्वं तदनुजानामि” भा० आ० २१३ अ०अप + निह्नवे आत्म०। आत्मानमपजानानः शशमात्रोऽनयद्दिनम्” भट्टिः।अगि + सम्यग्ज्ञाने “भक्त्या मागभिजानाति यावान्यश्चास्मि तत्त्वतः” गीता। “अभिज्ञाश्छेदपातानाम्” कुमा० अभिज्ञा च आद्यज्ञानम् अनुभवात्मकम्।प्रति + अभि + पूर्वदृष्टस्य वस्तुनः चक्षुरादिसन्निकर्षजे पूर्वसंस्कारोत्पन्ने स्मृतिभिन्ने ज्ञानभेदे यथा सोऽयं देवदत्तः इत्यादि ज्ञानम्। “तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि” हरिवं० १७६ अ०।सम् + अभि + प्रत्यभिज्ञाने “इग्द्रसेनां सह भ्रात्रा समभिज्ञाय वाहुकः” भा० व० ७५ अ०।अव + अनादरे हीनत्वेन ज्ञाने च। “अवजानासि मां यस्मात् ततस्ते न भविष्यति” रघुः। “अदेशकाले यद्दानमप्रात्रभ्येश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृतम्” गीता। “वसूनि देशांश्च विर्त्तयिष्यन् रामं नृपः संगिरमाण एव। तयावजज्ञे” भट्टिः।आ + सम्यग्ज्ञाने नियोगे च “न हि मनसा ध्यायतः कश्चनाजानाति” शत० ब्रा० ४। ६। ७। ५। “निथोगश्च निकृष्टस्य भृत्यादेः ष्रवर्त्तनम्। स्वार्थे णिच तत्रार्थे। “आज्ञापय ज्ञातविशेष! पुंसाम” कुमा०। ज्ञा–प्रेरणे चौरादिकस्येदं रूपमित्यन्ये।उप + आद्यज्ञाने “उप तज्ञ्जानीत यथा वयमिहाप्यसामेति” शत० ब्रा० ६। २। ३। ७। “उपज्ञा ज्ञानमाद्यं स्यात्” अमरः।निस् + निर् + निश्चयात्मके ज्ञाने। “विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति सान्तर्धीयते तां न निर्जानन्ति” ऐत० ब्रा०।परि + परितो ज्ञाने “इन्द्रो दक्षं परिजानादहीनम्” ऋ० १०। १३९। ६। “अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः” मनुः।प्र + प्रकृष्टज्ञाने। “यथा धर्मधर्मञ्च कार्य्य ञ्चाकार्य्यमेव च। अयथावत् प्रजानाति” “तस्य प्रज्ञा प्रतिष्ठिता” गीता।प्रति + प्रतिज्ञायां साध्यत्वेन पक्षनिर्देशे आत्मकर्त्तव्यत्वेन कथनभेदे च आत्म०। “साध्यनिर्देशः प्रतिज्ञा” गौत० सू०। साध्यवत्त्वेन पक्षनिर्देशः प्रतिज्ञेति तदर्थः। “प्रतिजज्ञे बधं चापि सर्वक्षत्रस्य भारत!” भा० व० ११७ अ०।। “प्रतिज्ञाय वनवासमिमं गुरोः” रामा० २। १०९ अ०। “तस्मै निशाचरेश्वर्य्यं प्रतिजज्ञे रघूत्तमः” रघुः। “कच्चिन्न पाने द्युते वा क्राडासु प्रमदासु च। प्रतिजानन्ति पूर्वाह्लेव्ययं व्यसनजं तव” मा० स० ५ अ० आर्षत्वात् पर०।वि + विशेषण ज्ञाने “ज्योतिर्वृणीत तमसो विजानन्” ऋ० ऋ० ३। ३९। ७। “आत्मानं चेथिजानीयादयमस्तीति पुरुषः” शत० ब्रा० १४। ७। २। १६। “कथभेतद् विजानीयां त्व- मादौ प्रोक्तवानिति” गीता। शिल्पशास्त्रविषयके ज्ञाने च “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” अमरः। ज्ञानमात्रे क्षणिकविज्ञानमिति बौद्धाः।सम् + सम्यग् ज्ञाने संज्ञायां चैतन्ये च आत्म०। संजानानान् परिहरन् रावणानुचरान् बहून्” भट्टिः। “रविस्तु संज्ञापयते लोकान् रश्मिभिरुल्वणैः” भा० शा ७१२७६७। प्रतिज्ञायाम् आत्म०। “संजानीष्व स्वमीशा” च मुग्धबोधम्।

ज्ञा = ज्ञपधात्वर्थे चुरा० उभ० सक० सेट् घटा०। ज्ञपयति ते अजिज्ञपत् त।

ज्ञा = प्रेरणे चुरा० उभ० सक० सेट्। ज्ञापयति ते अजिज्ञपत् त। अस्यैव रूपम् आज्ञापयतीत्यादि। “आज्ञापय ज्ञातविशेष! पुंसाम्” कुमा०।

ज्ञात = त्रि० ज्ञा–कर्म्मणि क्त। विदिते “ज्ञाततत्त्वोऽपि “खल्वेकः सन्दिग्धे कार्य्यवस्तुनि” माघः। “ज्ञाताज्ञाताः कुले मम” वायुपु०। भावे क्त। २ ज्ञाने न०। यावा० स्वार्थे कन्। ज्ञातक विदितार्थे।

ज्ञातनन्दन = पु० ज्ञातेन ज्ञानेन नन्दति नन्द–ल्यु ३ त०। अर्हद्भेदे हेम०।

ज्ञातल = त्रि० ज्ञातं ज्ञानं लाति ला–क। ज्ञानयुक्ते तस्यापत्यं शुभ्रांशतलेत्यत्र ज्ञातलेति पाठान्तरात् ढक्। ज्ञातलेय तदपत्ये पुंस्त्री०।

ज्ञातसिद्धान्त = पु० ज्ञातः सिद्धान्तः तत्त्वार्थो येन। सिद्धान्तज्ञे अमरः।

ज्ञाति = पु० जानाति छिद्रं कुलस्थितिं वा संज्ञायां क्तिच्। ज्ञा–कर्त्तरि करणे वा क्तिच्। १ पितरि २ पितृवंश्ये सपिण्डसकुल्यसमानोदकमगोत्रजरूपे एकगोत्रोत्पन्ने पितृव्यादौ अमरः। “ज्ञातेभेदो न नः कार्य्यः साक्षी त्वं मम नारद!” हरिवं० १२९ अ०। ज्ञातिश्च चतुर्विधः “सप्तमगुरुषपर्प्यन्तं सपिण्डः। ततस्त्रिपुरुषपर्य्यन्तं सकुल्यः। ततश्चतुर्थपुरुषपर्य्यन्तं समानोदकः। जन्मनामस्मृतिपर्य्यन्तमपि समानोदकः। ततः परं सगोत्रजः। ज्ञातिद्रोहे दोष्रो यथा “यानि कानि च पापानि ब्रह्महत्यादिकानि च। ज्ञातिद्रोहस्य पापस्य कलां मार्हन्ति षोडशीम्। “भर्वृभ्रातृपितृक्षातिश्वश्रूश्वशुरदेवरैः”। “ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्रात्तदः सदा” इति च याज्ञ०। “ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः” मनुः। ततः परस्म पुत्रशबदस्य समासे नाद्युदात्तता।

ज्ञातृ = त्रि० ज्ञा–तृन्। १ ज्ञानशीले २ वेत्तरि च ज्ञातुर्भावः अण्। ज्ञात्र ज्ञातृत्वे न० “संविच्च मे ज्ञात्रं च मे” यजु० ८७। “ज्ञात्रं विज्ञानसामर्थ्यम्” वेददी०।

ज्ञातेय = न० ज्ञातेर्भावः कर्म वा ढक्। १ ज्ञातित्वे २ ज्ञातिकर्म्मणि च। “ज्ञातेयं कुरुसौमित्रे! भयात्त्रावस्व राथवम्” भट्टिः

ज्ञान = पु० विषयान् जानाति ज्ञः अनिति अनः कर्म्म०। १ जीवे। भावे ल्युट्। २ बोधे न०। ३ विशेषेण सामान्येन चाववोधे। वेदान्तिमते ४ षदार्थग्राहिकायां मनोवृत्तौ, तच्च ज्ञानं नानाविधं यथा ज्ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम्। सविकल्पन्तु संज्ञादिद्योतकत्वादनेकधा। संकल्पसंशयम्रान्बिस्पृतिसादृश्यनिश्चयाः। ऊहोऽनध्यवसायश्च तथान्येऽनुभवा अपि”। इत्यादिभेदेनानेकविधा भवन्तीत्यर्थः। ५ सम्यग्बोधे। न्यायमते ६ बुद्धिमात्रे “बुद्धिस्तु द्विविधा मता। अनुभूतिः स्मृतिश्चैव” भाषा० तच्च प्रकारान्तरेण द्विविधं यथा “अप्रमा च प्रमा चेति ज्ञानं द्विविधमुच्यते, तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता। तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः। आद्यो देह आत्मबुद्धिः शङ्खादौ पीततामतिः। भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते। किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः। तदभावाऽप्रकारा धीस्तत्प्रकारा तु निश्चयः। स संशयो भवेद्या धीरेकत्राभावभावयोः। साधारणादिधर्मस्य ज्ञानं संशयकारणम्। दोषोऽप्रमायाजनकः प्रमायास्तु गुणो भवेत्। वित्तदूरत्वादिरूपो दोषो नानाविधो मतः। प्रत्यक्षे तु विशेषेण विशेषणवता समम्। सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ गुणः। पक्षे साध्यविशिष्टे च परामर्शोगुणो भवेत्। श्क्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः। शाब्दबोधे योग्यतायास्तात्पर्य्यस्याथवा प्रमा। गुणः स्याद्, भ्रमभिन्नस्तु ज्ञानमत्रोच्यते प्रमा। अथ वा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्। ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते। तत् प्रमा नाऽप्रमा नापि ज्ञानं यन्निर्विकल्पकम्। प्रकारत्वादिशून्यं हि सम्बन्धानवगाहि तत्” इति भाषा०। ७ बुद्धिवृत्तिनिरोधरूपे योगे “एकत्वं बुद्धिमनसोरिन्द्रियाणाञ्च सर्वशः। आत्मनो व्यापिनस्तात! ज्ञानमेतदनुत्तमम्” इति भा० शा० मोक्षधर्मः। एकत्वं बुद्धिमात्रेणावस्थानम् बुद्धिवृत्तिनिरोध इति यावत्। ८ देवताध्यानादौ ९ विवेकविज्ञाने शास्त्राचार्य्योपदेशजे परमात्मविषये साक्षान्मोक्षफले १० आत्मनिश्चये तत्त्वज्ञाने वेदान्तिमते ११ जीवेश्वरजगद्भे दभ्रमाधिष्ठानभूते नित्यस्वप्रकाशे सच्चिदानन्दरूपाद्वितीये परमार्थसत्ये, चैतन्ये। करणे ल्युट्। १२ आत्मानात्मसर्वपदार्थाव- बोधने विवेकसामर्थ्ये। १३ अहब्रह्मेत्युपासने। तच्चोपासनम् “ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः। नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः। निविकारो निराकारो निरवद्योऽहमव्ययः। नाहं देह इत्यादि। निरामयो निराभासो निर्विकल्पोऽहमाततः। नाहमित्यादि। निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहंमच्युतः। नाहमित्यादि। निर्भलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः। नाहमित्यादि। वेदान्तशास्त्रोक्तं बोध्यम। १४ शब्दयुक्तिभ्यामात्मनिश्चये। “अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्य्यापामन शौचं स्थैर्य्यमात्मविनिग्रहः। इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदःखदोषानुदर्शनम्। असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नत्यञ्च समचित्तत्वमिष्टानिष्टोपपत्तिषु। मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि। अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतजज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा” इति गोताक्तार्थेषु १५ ज्ञानसाधनेषु। तच्च सात्त्विकादिभेदात् त्रिविधम्। यथा “सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषुतजज्ञानं बिद्धि सात्त्विकम्”। (सात्त्विकं सर्वसंसारोच्छित्तिकारणम्)। “पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञान विद्धि राजसम्। यत्तु कृतस्तवदेकस्मिन् कार्य्ये सक्तमहेतुकम्। अतत्त्वार्थवदल्पञ्च तत् तामसमुदाहृतम्”। (राजसं तामसञ्च संसारकारणम्)। आत्मनः श्रवणमननाभ्यां परिनिष्पन्ने प्रमाणजन्यचतोवृत्त्यभिव्यक्तसच्चिद्रूप १६ परमात्मज्ञानसाधनशास्त्रादात्मतत्त्वस्यावगमे आत्मसाक्षात्कारे “लोकवासनया जन्तोः शास्त्रवासनयापि च। देहवासनया ज्ञानं यथावन्नैव जायते। ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः” “यथादशतलप्रख्ये पश्यत्यात्मानमात्मनि” इति ब्रह्मसाक्षात्काररूपज्ञानहेतुरुक्तः। १७ साङ्गवेदतदर्थविषयेऽवबोधे। महावाक्यजन्याखण्डाकारायां १८ बुद्धिवृत्तौ १९ स्वस्वरूपस्फुरणे। सांख्यमते गुणपुरुषान्यताख्यातिरूपे २० अध्यवसाये। ज्ञायतेऽनेन। ज्ञा–करणे ल्युट्। २१ वेदे २२ शास्त्रादौ च। तत्र प्रत्यक्षज्ञानोत्पत्तिप्रकारो मतभेदेन निरूप्यते। तत्र नैयायिकैः “आत्मा मनसा युज्यते मन इन्द्रियेणैन्द्रियं विषयेण तस्मादध्यक्षम्” इत्युक्त दिशा प्रत्यक्षं जायते। व्याप्तिज्ञानपरामर्शोत्तरमनुमितिर्जायते। वृत्तिज्ञानसहकृतपदज्ञानजन्यपदाथौपस्थितौ शाब्दबोधो जायते। गवादौ गोसादृश्यज्ञानेन गोसदृशो गवय इत्यादिना अतिदिष्टवाक्यार्थस्य स्मृतौ गवयो गवयवाच्य इत्यादि रीत्या उपमितिज्ञानं जायते इत्यङ्गीकृतम्। केचित् बौद्धमेदाः बाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतयावभास इत्यङ्गीचक्रुः” यथोक्तं सर्वद० स०

“बाह्यं ग्राह्यं नोपपद्यत एव विकल्पानुपपत्तेः। अर्थोज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, न पूर्वः उत्पन्नस्य स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात्। अथ मन्येथाः अतीत एवार्थोज्ञानग्राह्यः तज्जनकत्वादिति तदपि बालभाषितं वर्त्तमानतावभासविरोधात् इन्द्रियादेरपि ग्राह्यत्वप्रसङ्गाच्च। किञ्च ग्राह्यः किं परमाणुरूपोऽर्थः अवयविरूपो वा। न चरमः कृत्स्रैकदेशविकल्पादिना तन्निराकरणात्। न प्रथमः अतीन्द्रियत्वात् षट्केन युगपद्योगस्य बाधकत्वाच्च। यथोक्तम् “षट्केन युगपद्योगात् परमाणोः षडं शता। तेषामप्येकदेशत्वे पिण्डःस्यादनुमात्रकः” इति। तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति सिद्धम। तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नाञनवोऽपरः। ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते” इति। ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यत येन वेदनेन, तत्ततो न भिद्यते यथा ज्ञानेनात्म, वेद्यन्ते तैश्चनीलादयः। भेदे हि सत्यधुना अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्यग्राहकसम्वित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः। अत्रा प्यनादिरविच्छिन्नप्रवाहा भेदवासनैव निमित्तम्। यथोक्तम् “सहोपलम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रन्तिविज्ञानैर्दृश्ये तेन्दाविबाद्वय” इति। “अविभागोऽपि बुद्ध्यात्मा विपर्य्यासितदर्शनैः। ग्राह्यग्राहकसम्वित्तिभेदवानिव लक्ष्यते” न च रसवीर्य्यविपाकादिसमानमाशामोदकोपार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्ययेदकाकारविधुराया अपि बुद्धेर्व्यवहर्त्परिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्ष्णां केशेन्द्रनाडीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेः पर्य्यनुयोगायोगात। यथोक्तम् “अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते। विभक्तलक्षणग्राह्य- ग्राहकाकारविप्लवा। तथा कृतव्ययस्थेयं केशादिज्ञानभेदवत्। यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति”। तस्मादुबुद्धिरेवानादिवासनावशादनेकाकारावभासत इति” सिद्धम्।”

तदेतन्मतं बौद्धविशेषैर्निराकृतं तदपि तत्रैवोक्तं यथा। “अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तुजातं नास्तोति तदयुक्तं प्रमाणाभावात्। न च सहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात्। ननु भेदे सहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्न ज्ञानस्यान्तर्मुखतया भेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्वनियमासम्भवाच्च नीलाद्यर्थस्य ज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययादव्यतिरेकात्। अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राहमुल्लेख इति। यथोक्तम्” परिच्छेदान्तराद्योऽयं भागो बहिरिव स्थितः। ज्ञानस्याभेदिनो भेदपतिभासोऽप्युपप्लव” इति “यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासत” इति च। तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततया बहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत। भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रतिभासस्य भ्रान्तत्वमिति परस्पराश्रयप्रसङ्गाच्च। अविसंवादान्नीलतादिकमेव संविदाना वाह्यमेवोपाददते जगत्युपेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च। एवञ्चायमभेदबाधको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतोबहिर्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमिति भवदीय एव वाणो भवन्तं प्रहरेत्।” “ननु ज्ञानाभिन्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुश्रेयतोपपत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहिधाताम् “भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः। हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति”। तथा च यथा पुष्ट्या भोजनमनुभीयते यथा च भाषया देशः, यथा वा सम्भ्रमेण स्नेहः, तथा ज्ञानाकारेण ज्ञेतमनुमेयम्। तदुक्तम् “अर्द्धेन घटयत्येनां न हि सुक्त्रार्द्धरूपताम्। तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूप- तेति”। न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्वत्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं धटयेदिति च। तथाच बाह्यार्थसद्भावे प्रयोगः ये यस्मिन् सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः यथा अविवक्षति, अजिगमिषति मयि वचनगमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लेखना इति। तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम्। यथोक्तम् “तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम्। तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेदिति”। तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम्।”

वेदान्तिमते। “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” इत्युक्तरीत्या प्रत्यक्षस्थले इन्द्रियादिप्रणाल्या अन्तःकरस्य विषयदेशगत्या तदाकारेण षरिणामरूपवृत्तौ सत्यां विषयगताज्ञाननाशे अन्तःकरणवृत्त्यवच्छिन्नचैतन्येन विषयस्फुरणरूपं पौरुषेयज्ञानं ज्ञायते। वृत्तिरूपज्ञानन्तु मनो धर्म इति भेदः। यथोक्तं वेदा० प० १ परिच्छेदे “यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजस मन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयाकारेण परिणमते। स एव परिणामो वृत्तिरित्युच्यते। अनुमित्यादि स्थले तु अन्तःकरणस्य न वह्न्यादिदेशगमनं वह्न्यादेश्चक्षुराद्यसन्निकर्षात् तथा चायं घट इत्यादिप्रत्यक्षथले घटादेस्तदाकारवृत्तेश्च वहिरेकत्र देशे समवस्थानात् तदुभयावच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोरेकदेशस्थितत्वेन भेदाजनकत्वात्।” प्रत्यक्षेऽन्तःकरणवृत्तेः फलभेदस्तत्रैव ७ परि० दर्शितो यथा

“सा चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं प्रतम्। तथाहि अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभानप्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम्। एवं सति न सर्वदा घटादेर्भानप्रसङ्गः अनाघृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात्। तस्य चावरणस्य सदातनत्वे कदाचिदपि चटभानं न स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं तद्भासकस्य तदनिवर्तकत्वात् नापि वृत्त्युपहितचैतन्य परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्तिविशेषस्य तदुपहितचैतन्यस्य वा आवरण भञ्जकत्वमित्यावरणाभिभवार्था वृत्तिरुच्यते। सम्बन्धार्था वृत्तिरित्यप्रं मतम्। तत्राविद्योपाधिकोजीवोऽपरिच्छिन्नः स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटाटिकमवभासयति घटादिना समं सम्बन्धाभावात् तत्तदाकारवृत्तिदशायां तु भासयति तदा सम्बन्धसत्त्वात्। ननु अविद्योपाधिकस्य जीवस्यापरिच्छिन्नस्य स्वतएव समस्तवस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभिधानमसङ्गतम् असङ्गतत्व दृष्ट्या सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धो न स्यादिति चेत् उच्यते न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामः किन्तर्हि घटादिभानप्रयोजकं सम्बन्धविशेषम्। स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्यव्यञ्जकता लक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः। तथा हि तैजसमन्तःकरणं खच्छद्रव्यत्वात् स्वतएव जीवचैतन्याभिव्यञ्जनसमर्थं, घटादिकन्तु न तथा अस्वच्छद्रव्यत्वात्। खाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्यधर्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जनयोग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति। तदुक्तं विवरणे “अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्तियोग्यतामापादयतीति”। दृष्टञ्चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वं यथा कुद्यादेर्जलादिसंयोगदशायां मुखादिप्रतिविम्बग्राहिता। घटादेरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बगृअहित्वं चैतन्यस्याभिव्यक्तत्वञ्च तत्र प्रतिविम्बितत्वम्। एवंविधाभिव्यञ्जकत्वसिद्ध्यर्थमेतदुवृत्तेरपरोक्षस्थले वहिर्निर्गमनाङ्गीकारः। परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयोगाभावेन चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम्।”

सांख्यादिमते अर्थाकारेण परिणताया वुद्धिवृत्तेश्चेतने प्रतिविम्बनात् विषयप्र्काशरूपं ज्ञानम्। तत्र पौरुषेयबोधे वृत्तिः करणं, वृत्तिरूपज्ञाने च इन्द्रियादिकरणमिति भेदः। यथोक्तं सा० प्र० सू० भाष्ययोः। “द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा तत्साधकतमं यत् तत् त्रिविधं प्रमाणम्।” सू० “असन्निकृष्टः प्रभातर्यनारूढोऽनधिगत इति यावत्। एवंभूतस्यार्थस्य वस्तुनः परिच्छित्तिरवधारणं प्रमा सा च द्वयोर्बुद्धिपुरुषयोरुभयोरेव धर्मो भवतु। किं वैकतरमात्रस्योभयथैव तस्याः प्रमाया यत् साधकतमं फलायोगव्यवच्छिन्नं कारणं तत्प्रमाणं तच्च त्रिविधं वक्ष्यमाणरूपेणेत्यर्थः। स्मृतिव्यावर्तनायानधिगतेति। भ्रमव्यावर्तनाय वस्त्विति। संशयव्यावत्तनाय त्ववध्रणमिति। अत्र यदि प्रमारूपं फलं पुरुषनिष्ठमात्रमुच्यते तदा बुद्धिवृत्तिरेव प्रमाणम्। यदि च बुद्धिनिष्ठमात्रमुच्यते तदा तूक्तेन्द्रियसन्निकर्षादिरेव प्रमाणम्। पुरुषस्तु प्रमासाक्ष्येव न प्रमातेति। यदि च पौरुषेयबोधो बुद्धिवृत्तिश्चोभयमपि प्रमोच्यते तदा तूक्तमुभयमेव प्रमाभेदेन प्रमाणं भवति। चक्षुरादिषु तु प्रमाणव्यवहारः परम्परयैव सर्वथेति भावः। पातञ्जलभास्ये तु व्यासदेवैः पुरुषनिष्ठो बोधः प्रमेत्युक्तः पुरुषार्थमेव करणानां प्रवृत्त्या फलस्य पुरुषनिष्ठताया एवौचित्यात्। अतोऽत्रापि स एव मुख्यः सिद्धान्तः। न च पुरुषबोधस्वरूपस्य नित्यतया कथं फलत्वमिति वाच्यम् केवलस्य नित्यत्वेऽप्यर्थोपरागस्यैव फलत्वादिति। अत्रेयं प्रक्रिया। इन्द्रियप्रणालिकयार्थसन्निर्षेण लिङ्गज्ञानादिना वादौ बुद्धेरर्थाकारा वृत्तिर्जायते तत्र चेन्द्रियसन्निकर्षजा प्रत्यक्षा वृत्तिरिन्द्रियविशिष्टबुद्ध्याश्रिता नयनादिगतपित्तादिदोषैः पित्ताद्याकारवृत्त्युदयादिति विशेषः। सा च वृत्तिरर्थोपरक्ता प्रतिविम्बरूपेण पुरुषारूढा सती भासते पुरुषस्यापरिणामितया बुद्धिवत् स्वतोऽर्थाकारत्वासम्भवात्। अर्थाकारताया एव चार्थग्रहणत्वात् अन्यस्य दुर्वचत्वादिति। तदेतद्वक्ष्यति “कुसुमवच्च मणिः” जपास्फटिकयोरिव नोपरागः किन्त्वभिमान इति। योगसूत्रं च “वृत्तिसारूप्यमितरत्रेति”। स्मृतिरपि। “तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः। इमास्ताः प्रतिविम्बन्ति सरसीव तटद्रुमाः” इति। योगभाष्यञ्च “बुद्धेः प्रतिसंवेदी पुरुष” इति प्रतिध्वनिवत् प्रतिसंवेदः संवेदनप्रतिविम्बस्तस्याश्रय इत्यर्थः। एतेन पुरुषाणां कूटस्थविभुचिद्रूपत्वेऽपि न सर्वदा सर्वाभासनप्रसङ्गः असङ्गतस्य स्वतोऽर्थाकारत्वाभावात्। अर्थाकारतां विना च संयोगमात्रेणार्थग्रहणस्यातीन्द्रियादिस्थले बुद्धावदृष्टत्वादिति। पुरुषे च स्वस्वबुद्धिवृत्तीनामेव प्रतिविम्बार्पणसामर्थ्यमिति फलवलात् कल्प्यते। यथा रूपवतामेव जलादिषु प्रतिविम्बनसामर्थ्यं नेतरस्येति। रूपवत्त्वं च न सामान्यतः प्रतिविम्बप्रयोजकं शब्दस्यापि प्रतिध्वनिरूपप्रतिविम्बदर्शनात्। न च शब्दजन्यं शब्दान्तरमेव प्रतिध्वनिरिति वाच्यं स्फटिकलौहित्यादेरपि जपासन्निकर्षजन्यतापत्त्या प्रतिविम्बमिथ्यात्वसिद्धान्तक्षतेरिति। प्रतिविम्बश्च बद्धेरेव परिणामविशेषो विम्बाकारो जलादिगत इति मन्तव्यम्। केचित् तु वृत्तौ प्रतिविम्बतं सदेव चैतन्यं वृत्तिं प्रकाशयति तथा वृत्तिगतप्रतिविम्ब एव वृत्तौ चैतन्यविषयता न तु चैतन्ये वृत्तिप्रतिविम्बोऽस्तीत्याहुः। तदसत् उपदर्शितशास्त्रविरोधेन केवलतर्कस्याप्रयोजकत्वात् विनिगमनाविरहेण वृत्तिचैतन्ययोरन्योन्यविषयताख्यसम्बन्धरूपतयान्योन्यस्मिन्नन्योन्यप्रतिबिम्बसिद्धेश्च। बाह्यस्थलेऽर्थाकारताया एव विषयतारूपत्वसिद्ध्याऽऽन्तरेऽपि तत्तदर्थाकारताया एव विषयतात्वौचित्याच्चेति। ये तु तार्किका ज्ञानस्य विषयतां नेच्छन्ति तन्मते ज्ञानव्यक्तीनामनुगमकधर्माभावेन घटविषयकं पटविषयकं ज्ञानमित्याद्यनुगतव्यवहारानुपपत्तिः। केचित् तु तार्किका अनयैवानुपपत्त्या विषयतामतिरिक्तपदार्थमाहुः। तदप्यसत् अनुभूयमानानामर्थाकारतां विहाय विषयतान्तरकल्पने गौरवादिति। ननु तथापि स्वस्वोपाधिवृत्तिरूपैव वृत्तिचैतन्ययोरन्योन्यविषयतास्तु स्वोपाधिवृत्तित्वेनैवानुगमादलमाकाराख्यप्रतिविम्बद्वयेनेति चेन्न प्रतिविम्बं विना स्वत्वस्यापि दुर्वचत्वात्। स्वत्वं हि स्वभुक्तवृत्तिवासनावत्त्वम्। भोगश्च ज्ञानम्। तथा च विषयतालक्षणम्य विषयसामग्रीधटितत्वेजात्मश्रयः। तस्मादचैतन्यचैतन्ययोरन्योन्यविषयतारूपोऽन्योन्यस्मिन्नन्योन्यप्रतिविम्बः सिद्धः। अधिकन्तु योगवार्त्तिके द्रष्टव्यमिति दिक्। अत्रायं प्रमात्रादिविभागः। “प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव नः। प्रमार्थाकारवृत्तीनां चेतने प्रतिविम्बनम्। प्रतिविम्बितवृत्तीनां विषयो मेय उच्यते। साक्षाद्दर्शनरूपं च साक्षित्वं वक्ष्यति स्वयम्। अतः स्यात् कारणाभावाद्वुत्तेः साक्ष्येव चेतनः। विप्ण्वादेः सर्वसाक्षित्वं गौणं लिङ्गाद्यभावतः।” “ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे” देवीमा०। “कपाये कर्मभिः पक्वे ततो ज्ञानं प्रजायते” वेदा०। २४ परब्रह्मणि च “सत्थं ज्ञानमानन्दं ब्रह्म” श्रुतिः। २५ विष्णौ “सर्वज्ञः ज्ञानमुत्तयम्” विष्णु स०।

ज्ञानकृत = त्रि० ज्ञानेन कृतम्। बुद्धिपूर्बकृते तत्र पाषस्य बुद्धिपूर्बकृतत्वे विशेषः प्रा० त० उक्तो यथा “गोबधस्य बुद्धिपूवकत्वं तदा भवति यदि गां ज्ञात्वा एनां हन्मीतीच्छया हन्ति तदा कामनाद्वारैव ज्ञानस्य प्रवृत्त्यङत्वात्” “इत्थञ्च गवयादिभ्रमेण योगोबधस्तत्र गोबधस्यु न ज्ञानकृतत्वम् गोत्वे वाज्ञानात् यदि गोत्वेन जानन्नप्यन्योद्देशेन क्षिप्तनाराचादिना गां हन्ति तदापि न ज्ञानकृतत्वं तद्विषयत्वे नेच्छारूपद्वाराभावात्”।

ज्ञानगम्य = पु० ज्ञानेनैव गम्यः न कर्मणा न वा ज्ञानकर्मभ्याम्। ज्ञानमात्रगम्ये परमेश्वरे। “उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः” विष्ण् स०।

ज्ञानचक्षुस् = पु० ज्ञानं ज्ञानसाधनं वेदादिशास्त्रं चक्षुरिवास्य। शास्त्रावबोधेन सर्वार्थप्रकाशयुक्ते कर्म०। विदुषि २ शास्त्ररूपे नेत्रे च “सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः।

ज्ञानदग्धदेह = पु० ज्ञाननैव दग्धो देहोऽस्य। चतुर्थाश्रमिणि भिक्षौ तस्य ज्ञानेनैव जीवतोऽपि दग्धदहत्वात् मृतस्य न दाहान्तरं कार्य्यं यथोक्तं शौनकेन “सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च। न तस्य दहनं कार्य्यं नैव पिण्डीदकक्रिया। निदध्यात् प्रणवेनैव बिले भिक्षोः कलेवरम्। प्रोक्षणं खननञ्चापि सर्वं तेनैव कारयेत्”।

ज्ञानदर्पण = पु० ज्ञानं दर्पण इवास्य। पूर्वजिने मञ्जुधोषे त्रिका०।

ज्ञानद = त्रि० ज्ञानं ददाति दा–क। १ गुरौ २ उपदेष्टरि च ३ सरस्वत्यां स्त्री।

ज्ञानदातृ = त्रि० ज्ञानस्य दाता। उपदेष्टरि गुरौ “पितुर्दश गुणा माता गौरवेणेति निश्चितम्। मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो!” तन्त्र०। २ ज्ञानस्य दायकमात्रे त्रि० स्त्रियां ङीप्।

ज्ञाननिष्ठ = त्रि० ज्ञाने निष्ठाऽस्य। ज्ञानसाधभयुते तत्त्वविदुषि।

ज्ञानपति = पु० ६ त०। ज्ञानस्योपदेष्टृत्वात् स्वामिनि गुरौ २ परमेश्वरे च। ततः अश्वपत्या० अपत्यादौ अण्। ज्ञानपत तदपत्ये पुंस्त्री स्त्रियां ङीप्।

ज्ञानपावन = न० ज्ञानमिव पावनम्। तीर्थभेदे “ततो गच्छेत राजेन्द्र! ज्ञानपावनमुत्तमम्। अग्निष्टोममवाप्नोति मुनिलोकञ्च गच्छति” भा० व० ८४ अ०।

ज्ञानमय = पु० ज्ञान + मयट्। १ परमेश्वरे परब्रह्मणि २ शिवे च।

ज्ञानमुद्रा = स्त्री “तर्ज्जन्यङ्गुष्ठकौ सक्तावग्रतो विन्यसेदुहृदि। वामहस्ताम्बुजं वामजानुमूर्द्धनि बिन्यरेन्त्। ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी” तन्त्रसारोक्ते रामार्चनाङ्गे मुद्राभेदे।

ज्ञानयज्ञ = पु० ज्ञानं यज्ञ इवास्य। तत्त्वज्ञे। “ब्रह्माग्नायपरे यज्ञं यज्ञेनैवोपजुह्वति” इति वाक्येन तत्त्वक्षानस्य यज्ञ० रूपत्वमुक्तम्। अस्यार्थैः। अपरे कर्मयोगिनो विलक्षणा संन्थासिनः ब्रह्म तत्पदार्थः अग्निरिव होमाधारत्वात् तस्मिन् यज्ञं प्रत्यगात्मानं त्वम् पदार्थं यज्ञेनात्मनैव उपजुह्वति त्वंषदार्थाभेदेनेव ततस्वरूपतया पश्यन्तीत्यर्थः। “महापापवतां नणां ज्ञानयज्ञो न रीचते। प्रत्युत ज्ञानयज्ञे तु प्रद्वेषो जायते स्वतः” शब्दार्थचि० धृतवाक्यम्।

ज्ञानयोग = पु० युज्यते ब्रह्मणाऽनेन युज–करणे घञ् ज्ञानमव योगः। ब्रह्मप्राप्तिसाधने ज्ञानार्थनिष्ठाभेदे। “लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ!। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्” गीता।

ज्ञानलक्षणा = स्त्री ज्ञानं ज्ञानभेदो लक्षणं स्वरूपं यस्याः। न्यायमते अलौकिकप्रत्यक्षसाधने सन्निकर्षभेदे उपनयशब्दे १२१५ पृ० विवृतिः। मथुरानाथेन तु अन्यथैव सामान्यलक्षणाज्ञानलक्षणयोर्भेदो दर्शितः यथा “न च सामान्यप्रकारकज्ञानस्यैव सामान्यलक्षणात्वे ज्ञानलक्षणासाभान्यलक्षणयोः कार्य्य कारणभावे को भेदः इति वाच्यं कारणतावच्छेदकभेदेन कार्य्यतावच्छेदकभेदेन च भेदात्। सामान्यलक्षणायाः कार्य्यकारणभावास्तु तत्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताशालिज्ञानत्वेन, स्वरूपतस्तत्सम्बन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्सम्बन्धावच्छिन्नघटत्वाद्याश्रयताशालिमुख्यविशेष्यकप्रत्यक्षत्वेन, यावत्त्वस्य कार्य्यतावच्छेदकाघटकत्वेऽपि विनिगमनाविरहेण सकलघटभानम्। समवायसम्बन्धेन घटत्वप्रकारकज्ञानानन्तरं कालिकादिसम्बन्धेन घटत्वादिप्रकारकनिखिलघटविषयकप्रत्यक्षस्य समवायसम्बन्धेन घटत्वप्रकारेण घटत्ववतः कालादेः प्रत्यक्षस्य च वारणाय सम्बन्धान्तर्भावः। घटत्वादिप्रकारकज्ञानं विनापि द्रव्य त्वादिसामान्यलक्षणया जायमाने द्रव्यत्वादिप्रकारक घटादिमुख्यविशेष्यकप्रत्यक्षे व्याभचारवारणाय कार्य्यतावच्छेदके घटत्वादिप्रकारिताकेति। प्रकारित्वञ्चालौकिकं ग्राह्यं तेन घटत्वादिपकारकज्ञानं विनापि द्रव्यत्वादिविशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकोत्तरं द्रव्यत्व सामान्यलक्षणया जायमाने यावद्घटविशेष्यकप्रत्यक्षेऽलौकिकसन्निकर्षमर्य्यादया घटत्वप्रकारकं ग व्यभिचारः। न च तथापि कालिकादिसम्बन्धेन स्वरूपतो घटत्वादिप्रकारकतुद्ध्यात्मकगवादिविशेष्यकसमवायसंसर्गकद्रव्यत्व- प्रकारकस्मरणोत्तरं द्रव्यत्वसामान्यलक्षणया जायमाने याबद्धटमुख्यविशेष्यकप्रत्यक्षे उपनयमर्य्यादया समवायसम्बन्धेन स्वरूपती घटत्वप्रकारके व्यभिचार इति वाच्यम्। यथोक्तकार्य्यकारणभावस्यैव बाधकत्वेन तत्र समवायसम्बन्धेन घटत्वस्याप्रकारत्वात्। घटत्वप्रकारकज्ञानं विनाऽपि जातित्वरूपेण गोत्वादिजात्यन्तरप्रकारकज्ञानाद् जायमाने जातिस्वरूपेण घटत्वादिनिखिलजातिप्रकारकनिखिलजात्याश्रयप्रत्यक्षे व्यभिचारवारणाय स्वरूपत इति घटत्वादिप्रकारिताविशेषणं यथोक्तकार्यकारणभावस्यैव बाधकत्वेन तत्र कथञ्चिदपि स्वरूपतो घटत्वादेरप्रकारत्वात्। कालिकसम्बन्धेन स्वरूपतो घटत्वादिप्रकारकस्मरणादितो जायमाने विशेष्ये विशेषणमिति रोत्या समवायसम्बन्धे न घटादिप्रकारकधटवदित्याद्युपनीतभाने व्यभिचारवारणाय मुख्यविशेष्यत्वप्रवेशः। उपनीतभाने च घटो न मुख्यविशेष्यः बहिरिन्द्रियस्थले उपनीतं विशेषणतया भासते इति नियमात्। मुख्यविशेष्यत्वमप्यलौकिकं ग्राह्यं तेन कालिकसम्बन्धेन स्वरूपतो घटत्वादिस्मरणलौकिकसन्निकर्षाभ्यां जायमाने लौकिकालौकिकोभयघटत्वप्रकारिताशाल्ययं घट इति घटमुख्यविशेष्यकलौकिकप्रत्यक्षे न व्यभिचारः। अथ तथापि कालिकसम्बन्धेन स्वरूपतो घटत्वप्रकारकस्मरणाज्जायमाने समवायसम्बन्धेन घटत्वप्रकारकमुख्यविशेष्यकमानसोपनीतभाने व्यभिचारो मानसोपनीतं विशेषणतयैव भासत इति नियमाभावात् तत्र कालिकसम्बन्धेन घटत्वप्रकारेण प्रत्यक्षं न तु समवायसम्बन्धेन घटत्वप्रकारकमित्युक्तावपि घटवदिति घटादिस्मरणोत्तरं जायमाने परम्परासम्बन्धेन घटत्वप्रकारकमानसोपनोतभाने व्यभिचारो दुर्वारः तदनभ्युपगमे तादृशस्मरणोत्तरं निखिलघटाश्रयसाक्षात्कारानुपपत्तेः द्रव्यत्वप्रकारकज्ञानस्याऽप्रत्यासत्तित्वात् इति चेन्न लाघवात् यथोक्तरूपेण कार्यकारणभावकल्पने यथोक्तमानसे घटादिर्न मुख्यविशेष्यः किन्तु चक्रव्यूहवत् घटत्वपुटितो भवन्नेव भासत इत्येव कल्प्यते यथोक्तकार्य्यकारणभावस्यैव बाधकत्वात् तत्तदुपनीतभानान्यत्वप्रवेशे गौरवात् सर्वत्रैव मानसोपनीतभाने उपनीतं अवश्यं मुख्यविशेष्यतया भासते इति नियमाभावात्। असति बाधक एव मानसोपनीतस्य प्रकारत्वविशेष्यत्वलक्षणद्विविधविषयत्वाभ्युपगमात्। एवं स्वण्ठशो दण्डपुरुषोभयविषयकसमूहालम्बनस्मरणानन्तरं जा- यमाने दण्डप्रकारकदण्डाश्रयप्रत्यक्षेऽपि पुरुषो न दण्डांशे मुख्यविशेषतया भासते अपि तु चक्रव्यूहवत् दण्डपुटितः पुरुषः पुरुषपुटितश्च दण्डो भसते इति कल्प्यते। न च तथापि योगजधर्माधीनविशिष्टज्ञानं प्रति विशेषणज्ञानस्याहेतुत्वनये सामान्यज्ञानं विनाऽपि जायमाने सामाष्यप्रकारकसामान्याश्रयमुख्यविशेष्यकप्रत्यक्षे व्यभिचारः। गोन्धजविशिष्टज्ञानं प्रति विशेषणज्ञानस्य हेतुत्वनयेऽपि धोनजधर्मेण सामान्यतदाश्रये उभयविषयकनिर्विकल्पकं त्त्वनयित्वा जनिते सामान्यप्रकारकभामान्याश्रयमुख्यविशेष्यकप्रत्यक्षे व्यभिचार इति वाच्यं योगजधर्मजन्यतावच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्षविशेषणात्। तादृशयोगजज्ञाने सामान्याश्रयमुख्यविशेष्यतया भाने मानाभावाच्च। अपि च चक्रव्यूहवत् स्वप्रकारीभूतसामान्ये प्रकारीभूयैव भासते लाथवात्तथैव कल्पनात्। अत एव कालिकादिसम्बन्धेन स्वरूपतो घटत्वस्मरणानन्तरं विशेष्ये विशेषणमिति रीत्या कालिकादिसम्बन्धेनैव घटत्वप्रकारकं घटवदित्याकारकोपनीतभानं जायते न तु समवायसम्बन्धेन घटत्वप्रकारकैत्युक्तावेव व्यभिचारवारणस्सम्भवात् किं जात्यादिसामान्यलक्षणायाः कार्यतावच्छेदके स्वरूपतः प्रकारताघटितमुख्यविशेष्यत्वप्रवेशेन। न च तथाप्यत्र घटत्वमिति घटत्वविशेष्यकस्मरणोत्तरं जायमाने विशेष्ये विशेषणमिति रीत्या घटवदिदमित्याद्युपनीतभाने व्यभिचारवारणाय तदवश्यं निवेशनीयमिति वाच्यं स्वरूपतो घटत्वविशिष्टबुद्धिं प्रतिस्वरूपतो विशेषणीभूतघटत्वविषयकज्ञानस्य हेतुतया तादृशस्मरणोत्तरं तादृशोपनीतभानासम्भवात् घटत्वत्वघटकतयैव स्वरूपतो घटत्वज्ञानाभ्यु पगमेन व्यभिचारस्यापि विरहादित्यस्मत्कृतपूर्वपपक्षोऽपि निरस्तः। घटवदिति स्मरणोत्तरं जायमाने परम्परासम्बन्धेन घटत्वघ्रकारकमानसोपनीतभाने यथोक्तरीत्या योगजधर्मजन्ये घटत्वप्रकारकघटविशेष्यकप्रत्यक्षे च व्यभिचारवारणाय तत्प्रवेशस्यावश्यकत्वात्। एतेनाभावत्वाद्यखण्डोषाधिरूपसामान्यलक्षणाया अपि कार्य्यकारणभाबो व्याख्यातः जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानञ्च न प्रत्यासत्तिरिति सामान्यपदार्थनिर्वचनावसर एव प्रतिपादितं नन्वेवंरूपेण कार्यकारणभावे जातित्वरूपेणैकजातिमात्रप्रकारकज्ञानानन्तरं जातित्वावछिन्नजातिप्रकारकनिखिलजात्या एव प्रत्वक्षं कथं स्पाज्ज्वात्यन्तराश्रयस्य ज्ञानप्रकारीभूतजाति- व्यक्तेराश्रयत्वाभावात् स्वरूपतो घटत्वादिप्रकारकत्वस्य कार्यतावच्छेदकत्वाच्चेति चेन्न जातित्वरूपेण जातिप्रकारकलौकिकप्रत्यक्षदशायामन्ततो निर्धर्मितावच्छेदकस्यापि परम्परासम्बन्धेन जातित्वघटकनित्यत्वादिघाटकीभूताभावत्वाद्यखण्डोपाधिपकारकज्ञानस्यावश्यकत्वात् तत एव सामान्यज्ञानात् जातित्वावच्छिन्नजातिमत्त्वरूपेण निखिलजात्याश्रयस्य साक्षात्कारः जात्यन्तराश्रयस्यापि परम्परातम्बन्धेन तदाश्रयत्वात्। यत्र जातित्वरूपेण क्यत्किचुत् जातिप्रकारकशाब्दस्मृत्यादिधीस्तत्रापि मध्ये परम्परासम्बन्धेन ध्वं सत्वादिप्रकारकमानसोपनीतभानानन्तरमेव जातिमतः सर्वस्य प्रत्यक्षाभ्यु पगमात् क्षणविलम्बे क्षतिविरहात्। न च पम्परासम्बन्धेन ध्वं सत्वादिकज्ञानस्यैव तत्प्रयासत्तित्वे ध्वं सत्ववदित्येव तज्ज्ञानं स्यात् न तु जातिमदिति सामान्यप्रकारज्ञानस्य मुख्यविशेष्ये सामान्यप्रकारकज्ञानकत्वनियमादिति वाच्यं विशेषणज्ञानार्थं जातित्वघटकसामान्यलक्षणायाः मध्ये सकलजातिविशेष्यकज्ञानस्यावश्यकत्वात् ज्ञानलक्षणयैव जातिमदिति फलस्यापि सम्भवात् द्विविधविषयैस्यवेष्टत्वात्। एवं तद्व्यक्तित्वादिरूपेण घटत्वादिज्ञानानान्तर जायमाने तत्तद्व्यक्तित्वरूपेण घटत्वादिप्रकारकत दाश्रयप्रत्यक्षेऽपि परम्परासम्बन्धेन तद्यक्तित्वप्रकारकज्ञानमेव प्रत्यासत्तिरतो घटत्वादिसामान्यलक्षणायाः कार्यदिशि तदसंग्रहो न दोषाय इति भट्टाचार्य्यानुयायिनः”।

“ज्ञानलक्षणायाः कारणतावच्छेदकन्तु सामान्यतः संसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वं घटत्वादिप्रकारकज्ञानादिव घटत्वादिविषयकज्ञानादपि घटत्वादि प्रकारकोपनीतभानोदयात्। विनश्यदवस्थलौकिकसन्निकर्षजन्यघटघटत्वादिनिर्विकल्पकानन्तरमपि घटत्वादिप्रकारकप्रत्यक्षापत्तिवारणाय संसर्गावच्छिन्नेति विषयताविशेषणम्। केचित्तु ज्ञानलक्षणायाः सप्रकारकघटघटत्वादिज्ञानत्वं कारणतावच्छेदकं न चैवं विनश्यदवस्थलौकिकसन्निकर्षजन्यद्रव्यत्वादिविशिष्टबुद्ध्यात्मकघटत्वादिनिर्विकल्पकादपि प्रत्यक्षापत्तिरितिवाच्यम् इष्टत्वात् सर्वांशे निर्विकल्पकस्यैव प्रत्यासत्तित्वानभ्यु पगमादित्याहुस्तदसत् तथापि सर्बांशे निर्विकल्पकादपि इष्टापत्तेः सुकरतया कारणतावच्छेदके सप्रकारकत्वस्य उपादानस्यवैवर्थ्यात्। सविशेष्यकत्वसंसर्गकविषयतताशालित्वमादाय विनिगमनाविरहेण कार्य्यकारणभावस्यापत्तेः। ज्ञानलक्षणायाः कार्य्यतावच्छेद- कन्तु घटत्वादिप्रकारकप्रत्यक्षत्वं घटत्वादिज्ञानं विनापि जायमाने सामान्यलक्षणाजन्यघटादिमुख्यविशेष्यकप्रत्यक्षेव्यभिचारवारणाय विषयत्वमपहाय प्रकारिताप्रवेशः। प्रकारिता चालौकिकी ग्राह्या तेन निर्विकल्पकजन्यप्राथमिकतद्विशिष्टलौ किकप्रत्यक्षे न व्यभिचारः। न चैवं ज्ञानलक्षणासन्निकर्षो लौकिकसन्निकर्षद्वयमेव यत्र वर्त्तते तत्र कोदृक् ज्ञानं स्यादिति वाच्यं तत्र लौकिकालौकिकोभयतत्प्रकारिताकज्ञानस्यैव उत्पत्तेः बिषयतायाः साङ्कर्य्यखादोषत्वात्। न च तत्प्रकारकज्ञानं विनापि जायमाने योगजधर्मजतत्प्रकारकप्रत्यक्षे व्यभिचार इति वाच्यं योगजधर्मजन्यतदवच्छेदकतज्जात्यवच्छिन्नान्यत्वेन प्रत्यक्षविशेषणात् तत्प्रकारकज्ञानं, विना योगजधर्मेणापि तत्प्रकारकप्रत्यक्षजनात् योगजधर्मस्य निर्विकल्पकाजनक्त्वात्। न च चक्षुःसंयोगजन्यनिर्विकल्पकसहकारेण योगजधर्मजनिते तत्प्रकारकप्रत्यक्षे व्यभिचार इति वाच्यम् तत्र निर्विकल्पकजनकीभूतचक्षुःसंयोगादिसत्त्वे तत्प्रकारकलौकिकप्रत्यक्षस्यैव उत्पत्तेः अलौकिकप्रत्यक्षजनकयोगजधर्मसत्त्वेऽपि यथोक्तकार्य्यकारणभावस्यैव वाधकत्वेनालौकिकप्रत्यक्षस्यानुत्पत्तेः। न चैवं निर्विकल्पकोत्पत्तिकाले चक्षुःसंयोगादिनाशे तन्निर्विकल्पकसहकारेण योगजधर्म्मात्तत्प्रकारकसाक्षात्कारो न स्यादिति वाच्यम् इष्टापत्तेः। न चैवं तत्प्रकारकप्रत्यक्ष एव तज्ज्ञानस्य हेतुतया इदं रजतमिति शुक्तिविशेष्यकमानसभ्रमे शुक्तिज्ञानस्याहेतुतया शुक्तिज्ञानं विनापि तादृशभ्रमापत्तिरिति वाच्यं इदं रजतमिति शुक्तिविशेष्यकमानसभ्रमस्यापि शुक्तिज्ञानात्मकशुक्तिविशिष्टधीकारणसत्त्वेन यत्र कुत्रचिद्धर्मिणि शुक्तिप्रकारकत्वनियमात्। शुक्तिज्ञानविरहस्थले शुक्तिप्रकारकज्ञानसामान्यकारणविरहादेव तदभावात् विशेषसामग्रीसहिताया एव सामान्यसामग्र्याः फलोपधायकत्वात्। न चेदं रजतमिति शुक्तिविशेषय्कमानसभ्रमस्य न शुक्तिप्रकारकत्वनियंमः शुक्तिप्रकारकज्ञानप्रतिबन्धकदोषसत्त्वे तत्र तस्याः योगाप्रकारत्वादिति वाच्यं शुक्तिमुख्यविशेष्यकतादृशमानसभ्रमस्थले तादृशदोषे मानाभावात् लाघवाद्यथोक्तरूपेण ज्ञानलक्षणायाः कार्य्यकारणभावकल्पने फलबलेन तथैव कल्पनात्। न चैवं मातस्योपनीतभाने उपनीतस्य गुख्यविशेष्यतया भाने मानाभावः। मुख्यविशेष्यकत्वस्य कार्य्यतानवच्छेदकतया सामग्र्यास्तत्र मानत्वासम्भवात् इति वाच्यं मुख्यविशेष्यत्वस्य कारणानि यम्यतया वाधकासत्त्व एव मुख्यविशेष्यतया भानसम्भवात्, न चैवं मानसोपनीतभानवत् बहिरिन्द्रियजोपनीतभानेऽप्युपनीतस्य प्रकारत्वमुख्यविशेष्यत्वलक्षणद्विविधविषयतापत्तिरिति वाच्यं सामान्यलक्षणालौकिकसन्निकर्षन्यातिरिक्तस्य बहिरिन्द्रायिजतत्तन्मु ख्यविशेष्यकप्रत्यक्षस्यानुभवासिद्धतया अलीकतथा यावद्घिशेषसामग्रीबाधादेव तदुबाधात् मानसस्य तत्तदतिरिक्तस्यापि इदं रजतमित्यात्युपनीतविशेष्यकभ्रमस्य उपनीतशुक्त्यादिमुख्यविशेष्यकत्वमनुभवसिद्धमतोनालीकत्वं न च तथापि घटघटत्वादिनिर्विकल्पकोत्तरं जायमानेऽयं घट इत्यादिविशिष्टप्रत्यक्षे घटत्वादेमुर्ख्यविशेष्यत्वापत्तिः लौकिकसन्निकर्षरूपविशेषसामग्रीसत्त्वादिति वाच्यम् तथाप्यसतिबाधके घटाद्यंशे घटत्वादेः प्रकारत्ववन्मुख्यविशेष्यन्वस्यापीष्टत्वादिति। केचित्तु संसर्गावच्छिन्नतद्विषयताशालिज्ञानत्वेन कारणता योगजधर्म्माजन्यसामान्यलक्षणाप्रत्यासत्त्यजन्यतद्विषयकप्रक्षक्षत्वेन कार्यता तद्विषयता। चालौकिकी ग्राह्या तेन तल्लौकिकप्रत्यक्षे न व्यभिचारः:। एवञ्च तद्विषयकप्रत्यक्षत्वमात्रस्य कार्य्यतावच्छेदकतया इदं रजतमिति शुक्तिमुख्यविशेष्यकमानसभ्रमोऽपि न शुक्तिज्ञानं विना बहिरिन्द्रियजोपनीतभाने उपनीतस्य मुख्यविशेष्यत्वनिरासश्चोक्तक्रमेणेत्याहुरिति संक्षेपः।” मीमांसकवेदान्तिभिस्तु अस्याः प्रत्यासत्तित्वं नाङ्गीकृतम्। यथोक्तं वेदा० प०। “न च ज्ञानं प्रत्यासत्तिः ज्ञानस्य प्रत्यासत्तित्वे अनुमानमात्रोच्छेदप्रसङ्गः” इति। अस्यायमा। शयः वह्निव्याप्यधूमवान् परवत इति परामर्शात्मकज्ञानस्य अनुमितिहेतुतायाः सर्वैः स्वीकारात तजज्ञानस्य च वह्निविषयकत्वेन तदुत्तरं जायमानं वह्निमान् पर्वत इति ज्ञानमलौकिकप्रत्यक्षमेव स्वान्नानुमितिः न च समानविषयस्थले अनुमितिसामग्र्याः अलौकिकप्रत्यक्षसामग्र्याः प्रतिबन्धकत्वेन नालौकिकप्रत्यक्षमपि तु अनुमितिर्भबिष्यतीति चेन्न तादृशप्रतिबध्यप्रतिबन्धकभावकल्पनस्याप्रामाणिकत्वात्। अतएव इदं रजतमिति ज्ञानमनिर्वचनीयरजतविषयकं न देशान्तरस्थानुभूतरजतवि षयकमुपनयमर्य्यादया ज्ञानमिति स्थितम्।

ज्ञानवापी = स्त्री काशीस्थे वापीरूपे तीर्थभेदे तदाविर्भवादि कथा काशी० १२ अ०। “घटोद्भव! महाप्राज्ञ! शृण पापापनोदिनीम् ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाऽधुना। अनादिसिद्धे संसारे पुरा देवयुगे मुने!। प्राप्तः कुतशिदीशानश्चरन् स्वैरमितस्ततः। न वर्षन्ति यदाऽभ्राणि न प्रावर्त्तन्त निम्नगाः। जलाभिलाषो न यदा स्नानपानादिकर्म्मणि। क्षीरस्वादूदयोरेव यदासीज्जलदर्शनम्। पृथित्यां नरसञ्चारे वर्त्तमाने क्वचित् क्वचित्। निर्वाणकमलक्षेत्रं श्रीमदानन्दकाननम्। महाश्मशानं सर्वेषां वीजाना परमूषरम्। महाशयनसुप्तानां जन्तूनां प्रतिबोधकम्। संसारसागरावर्त्तपतज्जन्तुतरण्डकम्। यातायातातिसंखिन्नजन्तुविश्राममण्डपम्। अनेक जन्मगुणितकर्मसूत्रच्छिदक्षरम्। सच्चिदानन्दनिलयं परं ब्रह्म रसायनम्। सुखसन्तानजनकं मोक्षसाधनसिद्धिदम्। प्रविश्य क्षेत्रमेतत् स ईशानो जटिलस्तदा। लसत्त्रिशूलविमलरश्मिजालसमाकुलः। आलुलोके महालिङ्गं वैकुण्ठपरमेष्ठिनोः। महाहमहमिकायां प्रादुरास यदादितः। ज्योतिर्मयीभिर्मालाभिः परितः परिवेष्टितम्। वृन्दर्वृन्दारकर्षीणां गणानाञ्च निरन्तरम्। सिद्धानां योगिनां स्तोमैरर्च्यमानं निरन्तरम्। गीयमानञ्च गन्धर्वैः स्तूयमानञ्च चारणेः। अङ्गहारैरप्सरोभिः सेव्यमानमनेकधा। नीराज्यमानं सततं नागीभिर्मणिदीपकैः। विद्याधरीकिन्नरीभिस्त्रिकालं कृतमण्डनम्। अमरीचमरीराजिवीज्यमानमितस्ततः। तस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छा ह्यभवत्तढा। स्नपयामि महालिङ्गं कलसैः शीतलैर्जलैः। च स्वान च त्रिशूलेन दाक्षणांशोपकण्ठतः। कुण्डं प्रचण्डवेगेन रुद्रो रुद्रवपुर्धरः। पृथिव्यावरणाम्भांसि निष्क्रान्तानि तदा मुने!। भूप्रमाणाद्दशगुणैर्यैरियं वसुधा वृता। तैर्जलैः स्नपयाञ्चक्रे दुष्पृष्टैरन्यदेहिभिः। तुषारैर्जाद्धविनदैर्जंजपूकौ वहारिभिः। सम्भनोभिरिवात्यच्छैरनच्छैर्व्योमवत्मेवत्। ज्योत्स्तावदुज्ज्वलच्छायैः पावन्ते शम्भु नामवत्। पीयूषवत् स्वादुतरैः सुश्चस्पर्शैर्गवाङ्गवत्। निष्पापधीरकुम्ज्भीरैस्तरलैः पापिशर्म्मवत्। विजिताब्जमहागन्धैः पाटलामोदनोदिभिः। अदृष्टपर्वलोकानां मनोनयनहारिभिः। अज्ञानतापसन्तप्तप्राणिप्राणैकरक्षिभिः। पञ्चामृतानां कलसेः स्नपनातिफलप्रदैः। श्रद्धोपस्पर्शिहृदयलिङ्गत्रित्यहेतुभिः। अज्ञानतिमिरार्काभैर्ज्ञानदाननिदानकैः विश्वभर्त्तुरुमास्पर्शमुणातिसुखकारिभिः। महावभृथसुस्नातमहाशुद्धिविधायिभिः। सहस्रधाःरै कलसैः स ईशानो घटोद्धव!। सहस्रकृत्वः स्रपया मास संहृष्टमानसः। ततः प्रसन्नो भगवान् विश्वात्मा विश्वलोचनः। तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम्। तव प्रसन्नोऽस्मीशान! कर्मणानेन सुवत!। गुरुणानन्यपूर्वेण ममातिप्रीतिकारिणा। ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन!। अदेयं न तवास्त्यत्र महोद्यमपरायण। ईशान उवाच। यदि प्रसन्नोदेवेश! वरयोग्योऽस्म्यहं यदि। तदेतदतुलं तीर्थं तव नाम्तास्तु शङ्कर। श्रीविश्वेश्वर उवाच। त्रैलोक्यां यानि तीर्थानि भूर्भुवःस्वःस्थितान्यपि। तेभ्योऽखिलेभ्यस्तीर्थेभ्यः शिवतीर्थमिदं परम्। शिवो ज्ञानमितिब्रूयुः शिवशब्दार्थचिन्तकाः। तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात। अतो ज्ञानोदनामैतत्तीर्थन्त्रैलोक्यविश्रुतम्। अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते। ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत्। स्पर्शनाचमनाभ्याञ्च राजसूयाश्वमेधयोः। फल्गुतीर्थे नरः स्नात्वा सन्तर्ष्य च पितामहान्। यत् फलं समवाप्नोति तदत्र श्राद्धकर्मणा। गुरुपुष्यसिताष्टम्यां व्यतीपातो यदा भवेत्। तदात्र श्राद्धकरणाद्गयाकोटिफलं भवेत्। यत् फलं समवाप्नोति पितॄन् सन्तर्प्य पुष्करे। तत्फलं कोटिगुणितं ज्ञानतीर्थे तिलोदकैः। सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति। यत्फलं पिण्डदानेन तज्ज्ञानोदे दिने दिने। पिण्डनिर्वपनं येषां ज्ञानतीर्थे सुतेः कृतम्। मोदन्ते शिवलोके ते यावदाहूतसंप्लवम्। अष्टम्याञ्च चतुर्दश्यामपवार्सीं नरोत्तमः। प्रातः स्नात्वाऽथ पीत्वाम्भस्त्वन्तर्लिङ्ग मयो भवेत्। एकादश्यामुपोष्याथ प्राशेदु यश्चुलुकत्रयम्। हृदये तस्य जायन्ते त्रीणि लिङ्गान्यसंशयम्। ईशानतीर्थे यः स्तायाद्विशेषात् सोश्च्रवासरे। सन्तर्प्य देवर्षिपितॄन् दत्त्वा दानं स्वशक्तितः। ततः समर्च्च्य श्रीलिङ्गं महासम्भारविस्तरैः। तत्रापि दत्त्वा नानार्थान् कृतकृत्यो भवेन्नरः। उपास्य सन्ध्यां जानोदे यत् पाप काललोपजम्। क्षणेन तदपाकृत्य ज्ञानवान् जायते नरः। शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम। तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं स्मृतम्। स्यरणादपि पापौघा ज्ञानोदे क्षीयते ध्रुवम्। दर्शनात् स्पर्शनात् स्नानात् पानाद्धर्मादिसम्भवः। डाकिनीशाकिनीभूतप्रेतवेतानराचसाः। ग्रहकस्माण्डखेटाङ्गाः कालकर्णीशिशुग्रहाः। व्यरापस्मारविस्फोटतृतीयकचतुर्थकाः। सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्। ज्ञानोदतीर्थपानीयैर्लिङ्गं यः स्नपयेत् सुधीः। सर्वतीर्थोदकैस्तेन ध्रुवं संस्तपितं भवेत्। ज्ञानरूपोऽहमेवात्र द्रवमूर्त्तिं विधाय च। जाह्यविध्वंसनं कुर्य्याकुर्य्यां ज्ञानोपदेशनम्” “इति दत्त्वा वरान् शम्भुस्तत्रैवान्तरधीयत। कृतकृत्यमिवात्मानं सोऽप्यमंस्त त्रिशूलभृत्। ईशानो जटिलो रुद्रस्तत्पीत्वा परमोदकम्। अवाप्तवान् परं ज्ञानं येन निर्वृतिमाप्तवान्”।

ज्ञानसाधन = न० ६ त०। १ इन्द्रिये २ तत्त्वज्ञानसाधने श्रवणसनननिदिध्यासनादौ च।

ज्ञानापोह = पु० ६ त०। ज्ञानजसस्कारनाशजे विस्परणे।

ज्ञानाभ्यास = पु० ६ त०। १ ज्ञानसाधनश्रवणाद्यावृत्तौ “तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम्। एतदेकपरत्वञ्च ज्ञानाभ्यासं विदुर्बुधाः” इत्युक्तलक्षणे २ मननादौ च। बोधाभ्यासादयोऽप्यत्र। “सर्गादावेव नात्पन्नं दृश्यं नास्त्येव तत्सदा। इदं जगदहञ्चेति बोधाभ्यासं विदुः परम्” वेदान्तशा०

ज्ञानासन = न० “अथान्यदासनं कृत्वा मर्वव्याधिविनाशनम्। योगाभ्यासा भवेत् क्षिप्रं ज्ञानासनप्रसादतः। दक्षपादोरुमूले तु वामपादतलं तथा। दक्षपादतलं दक्षपार्श्वे संयोज्य धारयेत्। एतज्ज्ञानासनं नाम ज्ञानविद्याप्रकाशकम्। निरन्तरं यः करोति तस्य ग्रन्थिः श्लथा भवेत्” इति रुद्रयामलोक्ते आसनभेदे।

ज्ञानिन् = त्रि० ज्ञानमस्त्यस्य इनि। १ ज्ञानयुक्ते ब्रह्मसाक्षात् कारयुक्ते “चतुर्विधा भजन्ते माम्–आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ!”। “ज्ञानिनामपि सर्वेषां मद्गतेनान्तरात्मनां” गीता २ बोधयुक्तमात्रे त्रि० ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम्। यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः” देवामा०। ज्ञान + अस्त्यर्थे मतुप् मस्य वः ज्ञानवदप्यत्रार्थे “बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते” गीता। उभयत्र स्त्रियां ङीप्।

ज्ञानेन्द्रिय = न० ज्ञायतेऽनेन ज्ञा–करणे ल्युट् ज्ञान साधनमिन्द्रियम् कर्म०। १ ज्ञानसाधने इन्द्रिये श्रोत्रादौ “ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाश नासिका। ज्ञानेन्द्रियार्था विषयाः” शा० ति०। इन्द्रियशब्दे विवृतिः। “एतान्याकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक् २ क्रमेणीत्पन्नानि यथोक्तं देवीभागवते। “पञ्चभूतस्थम- त्त्वांशैः श्रोत्रादीनां समुद्मवः। ज्ञानेन्द्रियाणा राजेन्द्र! प्रत्येकमिति निश्चितम्”। क्रमशो दिग्वातार्कप्रचेतोऽश्विनो ज्ञानेन्द्रियाणां देवताः। शब्दस्पर्शरूपरसगन्धाश्च क्रमशो ज्ञानेन्द्रियाणां विषयाः।

ज्ञापक = त्रि० ज्ञा–णिच् ल्यु। बोधके।

ज्ञापन = न० ज्ञा–णिच्–ल्युट्। बोधने।

ज्ञीप्सा = स्त्री ज्ञप–सन्–भावे अ। ज्ञातुमिच्छायाम्।

ज्ञीप्स्यमान = त्रि० ज्ञप्र–सन्–कर्मणि शानच्। ज्ञातुमिमिष्यमाणे। “श्लाथह्रुङस्थाशपां ज्ञीप्स्यमानः” पा०।

ज्ञेय = त्रि० ज्ञा–कर्म्मणियत्। बोद्धव्ये। यथा व्याकरणादि पाणिन्यादेर्ज्ञेयैकदेशार्थमपि” शा० भा०। २ ज्ञातुं योग्ये ब्रह्मणि च। “ज्ञेयं यत् तत् प्रवक्ष्यामि यद् ज्ञात्वाऽमृतमश्नुते। अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते। सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लिके सर्वमावृत्य तिष्ठति। सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च। बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्। अविभक्तं विभक्तिषु विभक्तमिव च स्थितम्। भूतभर्त्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च। ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते”। “ज्ञानं ज्ञेयं ज्ञानगम्यं हृदिसर्वस्य धिष्ठितम्” गीता।

ज्या = जरायां क्य्रा० प्वा० पर० अक० अनिट्। जिनाति अज्यासीत्। जिज्यौ जिज्यतुः। जिनः।

ज्या = स्त्री ज्या–अघ्न्या० यक् नि०। १ घनुर्गुणे अमरः तस्य निरन्तराकर्षणेन धनुषो जराकरणात्तथात्वम्। २ वसुधायां तस्याः प्रतिक्षणं क्षीयमानत्वात् तथात्वं ३ मातरि स्वप्रसवेन तस्याः वयोहानेस्तथात्वम् मेदि०। गोलक्षेत्रान्तर्गते धनुराकारक्षेत्रस्थकेन्द्रस्थानात् उभयपार्श्वसंलग्ने ४ सरलरेखाभेदे। क्रमज्याशब्दे २३०३ पृ० जीवाशब्दे ३१३५ पृ० दृश्यम्। ताश्च चतुर्विं शतिसंख्यिकास्तत्र क्रमज्याशब्दे उक्तावशिष्टा उत्क्रमज्यामानसंख्याङ्काश्च सू० सि० उक्ता यथा “मुनयोरन्ध्रयमलारसषट्का मुनीश्वराः”। द्व्यष्टैकारूपषड्दस्राः सागरार्थहुताशनाः। खर्तुवेदानवाद्र्यर्थादिङ्नगास्त्र्यर्थकुञ्जराः। नगाम्बरवियच्चन्द्रारूपधरणिशङ्कराः। शरार्णवहुताशैकाभुजङ्गाक्षि शरेन्दवः। नवरूज्पमहीर्ध्रैकागजैकाङ्कनिशाकराः। गु णाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः। वस्वर्णवार्धय- मलास्तुरङ्गर्तुनगाश्विनः। नवाष्टनवनेत्राणि पावकैकयमाग्नयः। गजाग्निसागरगुणा उत्क्रमज्यार्द्धपिण्डकाः”

ज्याघातवारण = न० ज्याया आधातं वारयत्यनेन वारिकरणे ल्यु। गोधायां ज्याधातवारणार्थे धन्विनां हस्तनिबद्धे चर्म्मभेदे अमरः।

ज्यानि = स्त्री ज्या–नि। १ वयोहानौ २ तटिन्याम् ३ जीर्णे त्रि० मेदि०।

ज्यायस् = त्रि० अतिशयेन प्रशस्यो वृद्धो वा प्रशस्य + वृद्ध + वा ईयसुन् ज्यादेशः ईयसुनि आदेरात्त्वम्। १ अतिवृद्धे २ जीर्णे ३ प्रशस्ते च। “ज्यायान् पृथिव्या ज्यायानन्तरीक्षाज्ज्यायानेभ्यो लोकेभ्यः” छा० उ०। स्त्रियां ङीप्। “ज्यायसी चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन!” गीता

ज्यु = गतौ न्धा० आत्म० सक० अनिट्। ज्यवते अज्योष्ट जुज्युवे।

ज्युत = दीप्तौ भ्वा० पर० सक० सेट्। ज्योतति इरित्। अज्युतत् अज्योतीत्। जुज्योत।

ज्युत = दीप्त्तौ भ्वा० आत्म० अक० सेट्। ज्योतते अज्योतिष्ट। जुज्युते। ऋदित्। अजुज्योतत् त। ज्योतिः।

ज्येष्ठ = त्रि० अतिशयेन वृद्धः प्रशस्यो बा वृद्ध + प्रशस्य + वा इष्ठन् ज्यादेशः। १ अतिवृद्धे २ प्रशस्ये ३ अग्रजे भ्रातरि ४ अग्रजभगिन्यां स्त्री। ५ अश्विन्यादिनक्षत्रेषु अष्टादशे नक्षते स्त्री तद्रूपादि अश्लेषाशब्दे ४९७ पृ० दृश्यम्। ज्येष्ठानक्षत्रयुक्ता पौर्णमासी अण् ज्यैष्ठी सास्मिन् मासे पुनरण् संज्ञात्वात् ह्रस्वः। ६ ज्येष्ठ ज्यैष्ठमासे मेदि०। गौरा० ङीष्। ७ गृहगोधिकायां स्त्री शब्दरत्ना०। तस्याः दिग्भेदे रुतफलं ति० त० उक्तं यथा “वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रे हुताशे भयं याम्यामग्निभ्यं सुरद्विषि कलिर्लाभः समुद्रालये। वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चौत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने। ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः” अधिकं गृहगोधिकाशब्दे २६५७ पृ० दृश्यम्। ८ मध्यमाङ्गुलौ स्त्री हेमच०। ९ गङ्गायां स्त्री राजनि० तस्याः पार्वत्याः प्रथमं हिमालयाज्जातत्त्वात् तथात्वम्। ० परिणीते भर्त्तुरधिकस्नेहभाजने नायिकाभेदे रतिमञ्जरी। लक्ष्म्याः प्रथमोत्पन्नायां ज्येष्ठभगिन्याम् ११ अलक्ष्मीदेव्यां स्त्री। तदुत्पत्त्यादिकथा पद्मपु० उत्त० ख० उक्ता यथा “मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम। तस्मिन् प्रमथ्यमाने तु मया देवैश्च भाविनि।। ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससावृता। उत्पन्ना साऽब्रवीद्देवान् किं कर्त्तव्यं मयेति वै। तामब्रुवस्तदा देवीं सर्वे देवगणा भृशम्। येषां गृहान्तरे नित्यं कलहं संप्रवर्त्तते। तत्ते स्थानं प्रयच्छामो वासस्तत्र शुभानने!। यस्य गेहं कपालास्थिभस्मकेशादिचिह्नितम्। भाषन्ते परुषं नित्यं वसन्त्यनृतवादिनः। सन्ध्याकाले च ये पापाः स्वपन्ति मलचेतसः। तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी। कपालकेशभस्मास्थि तुषाङ्गाराणि यत्र तु। तत्र ते वसतिस्थानं भविष्यति न संशयः। अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्मतिः। तं भजस्व सदा देवि! कलुषेणावृता भृशम्। तृणाङ्गार कपालाश्मवालुकायसचर्मभिः। दन्तधावनकर्त्तारो भविष्यन्ति नराधमाः। रमख मलिना देवि! तेषां वेश्मसु नित्यशः। तिलपिष्टञ्च नक्तञ्च कालिङ्गशिग्रु गृञ्जनम्। छत्राकं विड्वराहञ्च विल्वकोषातकीफलम्। अलावुं श्रीफलं ये वै खादयन्ति नराधमाः। तेषां गृहे तव स्यानं देवि! दारिद्र्यदे! सदा। इत्यादिश्य सुराः सर्वे ते ज्येष्ठां कलिवल्लभाम्। पुनश्च मन्थनं चक्रुः क्षीराब्धिं सुसमाहिताः”। १२ नवदजातायां ब्रह्मप्रकृतिभूतायां देव्यां स्त्री “रौद्री विन्दोस्ततो नादाज्ज्येष्ठा वीजादजायत। वामा, ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः” शा० ति०। १३ परमेश्वरे पु०। “ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः” विष्णुस०। १४ प्राणे “प्राणो वा ज्येष्ठश्च श्रेष्ठश्च” छा० उ०। काशीस्थे १५ गौरीभेदे स्त्री ज्योष्ठस्थानशब्दे विवृतिः।

ज्येष्ठतात = पु० तातस्य ज्येष्ठः राज० पूर्वनि०। पितुरग्रजे भ्रातरि (जेटा)।

ज्येष्ठबला = स्त्री ज्येष्ठं बलं यस्याः। सहदेव्यां लतायां राजनि०।

ज्येष्ठवर्ण = पु० वर्णानां ज्येष्ठः राजद० पूर्वनि० कर्म० वा। ब्राह्मणे तस्य सर्ववर्ण्णश्रेष्ठत्वात् तंथात्वं। २ श्रेष्ठे वर्णे च।

ज्येष्ठवापी = स्त्री काशीस्थज्येष्ठस्थानस्थे वापीभेदे ज्येष्ठस्थानशब्दे विवृतिः।

ज्येष्ठश्वश्रू = स्त्री ज्येष्ठा मान्या श्वश्रूरिव संज्ञात्वात् पुंवद्भावः। पत्न्याः ज्येष्ठभगिन्यां (वडशाली) हेमच०।

ज्येष्ठसामन् = न० नित्यक्वर्म०। सामभेदे। तच्च साम “मूर्द्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत अजातमग्निम्। कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः” सामार्चि० १ प्र० १ अ० २ द० ५ क०। इत्यस्यां गोयमानम् “वामधेव्यं वृहत्साम ज्थेष्ठसामरथन्तरम्। तथा पुरुषसूक्तं च रुद्रसूक्तं ततः परमम्। आज्यदोहानि सामानि शान्तिकं भारुडानि च। पश्चिमे द्वारपालौ तु पठेतां सामगौ तथा”। इति दानपारिजातधृतवाक्यम्।

ज्येष्ठस्थान = न०। काशोस्थे तीर्थभेदे तत्स्थानमाहात्म्यादि कथा काशीख० ६३ अ०। “यमनेहसमारभ्य मन्दराद्रौ विनिर्यये। अद्रीन्द्रसुतया सार्द्धं रुद्रेणोक्षेन्द्रगामिना। तं वासरं पुरस्कृत्य जग्राह नियमं दृढम्। जैगीषव्या महामेधाः कुम्भयोने! महाकृती। विषमेक्षणपादाब्जं समीक्षिष्ये यदा पुनः। तदाम्बुविप्रुषमपि भक्षयिष्यामि चेत्थहो। कुतश्चिद्धारणायोगादथ वा शम्भ्वनुग्रहात्। अनश्नन्नपिबन् योगी जैगीषव्यः स्थितो मुने!। तं शम्भुरेव जानाति नान्यो जानाति कश्चन। अतएव ततः प्राप्तः प्रथमं प्रमथाधिपः। ज्यैष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः। तत्पर्वणि महायात्रा कर्त्तव्या तत्र मानवैः। ज्येष्ठस्थानं ततः काश्यां तदाभूदतिपुण्यदम्। तत्र लिङ्गं समभवत् स्वयं ज्येष्ठेश्वराभिधम्। तल्लिङ्गदर्शनात् पुंसां पापं जन्मशतार्ज्जितम्। तमोऽर्कोदयमाप्येव तत्क्षणादेव नश्यति। ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान्। ज्येष्ठेश्वरं समालोक्य न भूयो जायते भुवि। आविरासीत् स्वयं तत्र ज्येष्ठेश्वरसमीपतः। सर्वसिद्धिप्रदा गौरी ज्येष्ठा नाम समन्ततः। ज्यैष्ठे मासि सिताष्टम्यां तत्र कार्य्यो महोत्सवः। रात्रौ जागरणं कार्य्यं सर्वसम्प्त्समृद्धये। ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापीपरिप्लुता। सौभाग्यभाजनं भूयाद् योषा सौभाग्यभागपि। निवासं कृतवान् शम्भुस्तस्मिन् स्थाने यतः स्वयम्। निवासेश इति ख्यातं लिङ्गं तत्र परं तपः। निवासेश्वरलिङ्गस्य सेवनात् सर्वसम्पदः। निवसन्ति गृहे नित्यं नित्यं प्रैति पदं पुनः। कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः। ज्येष्ठां तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा। ज्येष्ठतीर्थेश्वरे काश्यां दत्त्वा दानानि शक्तितः। ज्येष्ठान् स्वर्गानवाप्नोति नरोमोक्षञ्च गच्छति। ज्येष्ठेश्वरोऽच्च्यः प्रथमं काश्यां श्रेयोऽर्थिभिर्नरैः। ज्येष्ठा गौरी ततोऽभ्यर्च्च्या सर्वज्येष्ठमभीप्सुभिः”। तत्रत्यं ज्योतिःस्वरूपलिङ्गन्तु ज्येष्ठेश्वराभिधं महादेवस्य नितम्बभूतम् तथोक्तं काशीख० ३२ अ०। “सर्वेषामपि लिङ्गानां मौलित्वं कृत्तिवाससः। अओङ्का- कारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः। गोकर्णभारभूतेशौ तत्कर्णौ परिकीर्त्तितौ। विश्वेश्वराविसुक्तौ च द्वावेतौ दक्षिणौ करौ। कर्णेशमणिकर्णीशौ द्वौ करौ दक्षिणेतरौ। कालेश्वरकपद्दीर्शौ चरणावतिनिर्म्लौ। ज्येष्ठेश्वरो नितम्बश्च नाभिर्वै मध्यमेश्वरः। कपर्दोऽस्य महादेवः शिरोभूषा श्रुतीश्वरः। चन्द्रोशो हृदयन्तस्य आत्मा वीरेश्वरः परः। लिङ्गं तस्य तु केदारः शुक्रं शुक्रेश्वरं विदुः। अन्यानि यानि लिङ्गानि परःकोटिमितानि च। ज्ञेयानि नखलोमानि वपुषो भूषणान्यपि। यावेती दक्षिणौ हस्तौ नित्यं निर्वाणदौ हि तौ। जन्तूनाममयं दत्त्वा पततां मोहसागरे”।

ज्येष्ठामूलीय = पु० ज्येष्ठां मूलं वा नक्षत्रमर्हति पौर्णमास्याम् छ। ज्यैष्ठे मासि तन्मासीयपौर्णमास्यां हि ज्येष्ठामूलयोरन्यतरस्य योगसम्भवात्तस्य तथात्वम्। यथा च तस्य तथात्वं तथा कार्त्तिकशब्दे १९४८ पृ० दर्शितम्।

ज्येष्ठाम्बु = न० नि० कर्म्म०। तण्डुलप्रक्षालने जले वैद्यकप० तस्यातीव श्रेष्ठगुणत्वात्तथात्वम्।

ज्येष्ठाश्रम = पु० ज्येष्ठ आश्रमो यस्य। “यस्मात् त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्। गृहस्थेनैव धार्य्यन्ते तस्मात् ज्येष्ठाश्रमो गृही” मनूक्ते १ गार्हस्थ्याश्रमयुक्ते कर्म०। २ गृहस्थश्रमे च “गृहस्थो ब्रह्मचारी च बानप्रस्थोऽथ भिक्षुकः। चत्वारश्चाश्रमाः प्रोक्ता सर्वे गार्हस्थ्यमूलकाः इत्युक्तेस्तस्य सर्वाश्रमपोषकत्वेन श्रेष्ठत्वात्तथात्वम्। ततः इनि। गृहस्थाश्रमीत्यप्यत्र।

ज्यैष्ठ = पु० ज्यैष्ठी पूर्णिमास्मिन् मासे अण्। ज्येष्ठानक्षत्रयुक्तयोगार्हपौर्णमासीधटिते वृषस्थरव्यारब्धे शुक्लप्रतिपदादिदर्शान्तरूपे १ चान्द्रे मासे “ज्यैष्ठे मासि क्षितिसुतदिने जाह्नवी मर्त्यलोके” ति० त०। तथाभूतेऽर्द्धमासात्मके २ पक्षे। ज्येष्ठामूलानक्षत्रयोरन्यतरनक्षत्रे पर्वान्तकाले गुरोरुदयास्तोपलक्षिते ३ वार्हस्पत्ये वर्षभेदे च कार्त्तिकशब्दे १९४९ पृ० विवृत्तिः। “ज्यैष्ठे संवत्सरे चैव ज्यैष्ठमासस्य पूर्णिमा। ज्येष्ठाभेन समायुक्ता महाज्यैष्ठी प्रकीर्त्तिता” राजमार्त्त०। ज्यैष्ठसंवत्सरश्च। “ज्येष्ठामूलोपगे जीवे वर्षं स्यात् शाक्रदैवतम्” विष्णुधर्म्मोत्तरोक्तः ग्राह्यः” ति० त०। वृषस्थरविके सौरे ४ मासभेदे च।

ज्यैष्ठी = स्त्री ज्येष्ठानक्षत्रेण तत्समीपस्थमूलानक्षत्रेण वा युक्ता पौर्णमासी अण् ङीप्। १ ज्येष्ठामूलानक्षत्रान्य- तरनक्षत्रयुक्तपौर्णमास्याम् ज्येष्ठेव स्वार्थे अण् ङीप्। २ गृहगोधिकायाञ्च। वल्लीशब्दे दृश्यम्।

ज्यैष्ठिनेय = पुंस्त्री ज्येष्ठायाः स्त्रियाः अपत्यम् ढक् इनङ्। ज्येष्ठाया अपत्ये। “ज्योष्ठो ज्यैष्ठिनेयः स्तुवीत” ता० ब्रा० २। १। २। “कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयो विवासितः” भट्टिः।

ज्यैष्ठ्य = न० ज्येष्ठस्य भावः ष्यञ्। १ श्रेष्ठत्वे २ वयसा अग्रजत्वे च। “विप्राणां ज्ञानतो ज्यैष्ट्यक्षत्रियाणान्तु बीर्य्यतः। वैश्यानां धान्यधनतः शूद्राणामव जन्मतः” मनुः

***