जीवपति = स्त्री जीवः जीवन् पतिरस्याः सपूर्वत्वात् वा न न ङीपौ जीवद्भर्त्तृकायां सधवायां “स्त्रीचैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिर्यशोगुणम्” भाग० ६। १९। २० वा कप् जीवपतिकादयोऽप्यत्र।

जीवपत्नी = स्त्री जीवः जीवन् पतिर्यस्याः सपूर्वत्वात् नः ङीप् च। जीवत्पतिकायां सधवायाम् “ब्राह्मण्याश्च वृद्धायाः जीवपत्न्याः जीवप्रजाया अगारे एतां रात्रिं वसेत्”। “बाचं विसृजेत् जीवपत्नीं प्रजां विन्देयेति” आश्व० गृ० १। ७। २१। २१। “तमेतमवेक्षितकृशरं वीरमूर्जवसूः जीवपत्नीति ब्राह्मण्यो मङ्गल्यादिमिर्वाग्भिरुपासीरन्” सं० त० गोभिलः।

जीवपत्रप्रचायिका = न० जीवस्य जीवपुत्रकस्य पत्राणि प्रचीयन्तेऽस्याम् “नित्यं क्रीडाजीविकयोः” पा० स०। क्रीडायां प्र + चि–भावे ण्वुल्। उदीचां क्रीडाभेदे। “जीवपत्रप्रचायिका उदीचां क्रीडा” सि० कौ०। प्राचां क्रीडायां तु पा० स्त्रे प्राचामिति विशेषणात् न षूर्वपदस्याप्युदात्तता किन्तु तत्पुरुषे प्रकृतिस्वरः।

जीवपुत्र = पु० जीवः जीबकः पुत्र इव हर्षहेतुत्वात्। (जिया~पोती) १ वृक्षभेदे। जीवः जीवन् पुत्रो यस्याः। २ जीवसुतायां स्त्रियां “सा जीवपुत्रा सुभगा भवत्यमरवर्णिनी” हरिवं० १३८ अ०। जीववत्सादयोऽप्यत्र। “काकवन्ध्या च या नारी मृतवत्सा च या भवेत्। बह्वपत्या जीववत्सा सा भवेन्नात्र संशयः” कालीस्तवः। “मृतप्रजा जीबपुत्रा धनेश्वरी” भाग० ६। १९। २१। ३ तादृशपुरुषे पु० “कच्चित् पुत्रा जीवपुत्राः सुसम्यक्” भाग० उ० २९।

जीवपुत्रक = पु० जीवयतीति जीव–क जीबः पुत्र इव हर्षहेतुत्वात् इवार्थे कन्। (जि~आपोती) वृक्षभेदे। शब्दर०।

जीवपुष्पा = स्त्री जीवयतीति जीव–णिच् अच्–जीवं जीवकं पुष्पं यस्याः। वृहज्जीवन्तीवृक्षे राजनि०। जीवः जन्तुः पुष्पमिव। २ जन्तुरूपपुष्पे न०। “अस्माकं शिविरे तावन्निशिताः शस्त्रपाणयः। शत्रूणां जीवपुष्पाणि विचिन्वन्तु नगेष्विव” रामा० सु० ४३ अ०।

जीवप्रिया = स्त्री जीवं प्रीणाति प्री–क ६ त०। १ हरीतक्याम्। राजनि०। ६ त०। २ जीववल्लभे त्रि०।

जीवभद्र = स्त्री जीवानां भद्रं यस्याः ५ ब०। जीवन्तीलतायां राजनि०। ६ त०। जीवकुशले न०।

जीवमन्दिर = न० ६ त०। शरीरे राजनि० तस्य जीवभोगायतनत्वात्तथात्वं जीवगृहादयोऽप्यत्र।

जीवमातृका = स्त्री ६ त०। “कुमारी धनदा नन्दा विमला मङ्गला बला। पद्मा चेति च विख्याताः सप्तैता जीवमातृकाः” विधानपारिजातोक्ते कुमार्य्यादौ मातृकासप्तके।

जीवयाज = पु० जीवैः पशुभिर्याजः याजनम् यज–णिच् भावे अच्। पशुभिर्याजने। “जीवयाजं यजते सोमपादिवः” ऋ० १। ३१। १५। अस्य भाष्ये “याजयतेर्घञ् णेरनिटीति णिलोपस्याचः परस्मिन्निति स्थानिवद्भावात् चजीः कुथिण्ण्यतोरिति कुत्वानाव इति” यदुक्तं तत् प्रामादिकं याजयतेर्हलन्त्वाभावात् घञोऽप्रसक्तेः “एरच् पा० इवर्णन्तादचः एव प्रसक्ते च।

जीवयोनि = स्त्री जीवा जीवनबती योनिः। सजीवजन्तौ “तिर्य्यङ्मनुष्यविबुधादिषु जीवयोनिषु” भाग० ३। ९। २०

जीवरक्त = न० जीवोत्पादकं रक्तम् शाक० त०। स्त्रीणामार्त्तवे शोणिते तस्य गर्भोत्पादकत्वेन तत्रस्थजीवोत्पादकत्वं यथाह सुश्रुतः “आर्त्तवं शोणितं त्वाग्नेयमग्नीषोमीयत्वादु गर्भस्य, पाञ्चभौतिकञ्चापि जीवरक्तमाहुराचार्य्याः विस्रता द्रवता रागः स्यन्दनं लघुता तथा। भूम्यादीनां गुणाह्येते दृश्यन्ते चात्र शोणिते”।

जीवला = स्त्री जीवं जीवनं लाति सेवनात् ला–क। सैंहलीलतायां राजनि०।

जीवलोक = पु० जीवानां लोकः भोगसाधनम्। १ संसारे “माता पिता गुरुजनः स्वजनो ममेति मायोपमे जगति कस्य भवेत् प्रतिज्ञा। एको यतो व्रजति कर्म पुरःसरोऽयं विश्रामवृक्षसदृशः खलु जीवलोकः। सायं सायं वासवृक्षं समेताः प्रातः प्रातस्तेन तेन प्रयान्ति। त्यक्त्वान्योन्यं तञ्च वृक्षं विहङ्गास्तद्वत् तद्वज्ज्ञातयो ज्ञातयश्चेति”। ममैवांशो जीवलोके जीवभूतः सनातनः” गीता। “जीवलोके संसारोपभोगार्थम्” श्रीधरः। कर्म०। २ जीवरूपे जने च “महागुणं हरति हि पौरुषेण तदा वीरोजीवति जीवलोके” भा० व० ३४ अ०। “आलोकमर्कादिव जीवलोकः” रघुः।

जीववल्ली = स्त्री जीवयतीति जीव–णिच्–अच कर्म०। क्षीरकाकोल्याम् राजनि०।

जीववृत्ति = स्त्री जीव एव वृत्तिः। पाशुपाल्ये हेमच०। तत्र जीवरक्षादिना वैश्यादेर्वृत्तिरिति तस्य तथात्वम्। जीवे वृत्तिः स्थितिरस्य। २ जीवनिष्ठे गुणादौ त्रि० “जीववृत्ती त्विमौ गुणौ” भाषापरिच्छेदकारिका।

जीवशाक = पु० कर्म्म०। मालवदेशप्रसिद्धे शाकभेदे। “जीवशाकः सुमधुरः वृंहणो वस्तिशोधकः। दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः” राजनि०।

जीवशुक्ला = स्त्री जीवतीति जीवा जीवन्त्येव शुक्ला क्षीरकाकोल्याम् राजनि०। अन्यस्य पक्वतायामेव शुक्लत्वमस्याः पुनर्जीवन्त्या एव तथात्वमिति तन्नामता।

जीवश्रेष्ठा = स्त्री जीवाय जीवनाय श्रेष्ठा। ऋद्धिनामौषधौ राजनि०।

जीवसंज्ञ = पु० जीव इति संज्ञाऽस्य। दामवृद्धिवृक्षे राजनि०।

जीवसाधन = न० जिवस्य जीवनस्य साधनम्। धान्ये राजनि०।

जीवसू = स्त्री जीवं जीवन्तं सूते सू–क्विप्। जीवत्पुत्रिकायां स्त्रियां हेमच०। “जीवसूर्वीरसूर्भद्रे! बहुसौख्यसमन्विता” भा० आ० १८९ अ०।

जीवस्थान = न० ६ त०। मर्मणि हला०।

जीवहीन = पु० “षडक्षरो जीवहीनः” विश्वसारतन्त्रोक्ते षडक्षरे मन्त्रे कुमारशब्दे २१०६ पृ० दृश्यम्।

जीवा = स्त्री जीव–अच् जीवयतेरच् वा टाप् ज्या–क्विप् संप्रसारणे दीर्धः सा अस्त्यस्य वा। १ धनुषो गुणे ज्यायां २ जीवन्तिकायानौषधौ, ३ वचायां, ४ शिञ्जिते, ५ भूमौ ६ जीवनोपाये च मेदि० जीव–भावे अ टाप्। जीवने जटा०। धनुराकारक्षेत्रस्य वृत्तस्थोभयरेखावृत्तसंलग्ने क्षेत्रभेदे तन्मानानयनादिकं लीला० दर्शितं तच्च क्षेत्रशब्दे २४०३ पृ० दर्शितम्। ग्रहस्पष्टगत्याद्युपपयोगिली राशिरूपक्षेत्रस्य जीवा तु क्रामज्याशब्दे २३०३ पृ० उक्ता अधिकं ज्याशब्दे वक्ष्यते ज्योत्पत्तिप्रकारः सि० शि० उक्तो यथा

“इष्टाङ्गुलव्यासदलेन वृत्तं कार्य्यं दिगङ्गं भलवाङ्कितं च। ज्यासंख्ययाप्ता नवतेर्लवा ये तदाद्यजीवा धनुरेतदेव। द्वित्र्यादिनिघ्नं तदनन्तराणां चापे तु दत्त्वोभयतो दिगङ्कात्। ज्ञेयं तदग्रद्वयबद्धरज्जोरर्धं ज्यकार्धं निखिलानि चैवम्। अथान्यथा वा गणितेन वच्मि ज्यार्धानि तान्येव परिस्फुटानि। त्रिज्याकृविर्दोर्गुणवर्गहीना मूलं तदीयं खल् कोटिजीवा। दोःकोटिजीवारहिते त्रिभज्ये तच्छेषके कोटिभुजोत्क्रमज्ये। ज्याचापमध्ये खलु योऽत्र वाणः सैवोत्क्रमज्या सुधियात्र वेद्या। त्रिज्यार्धं राशिज्या तत्कोटिज्या च षष्टिभागानाम्। त्रिज्यावर्गार्धपदं शरवेदांशज्यका भवति। त्रिज्याकृतीषु धातात् त्रिज्याकृतिवर्गपञ्चधातस्य। मूलोनादष्टहृतान्मूलं षट्त्रिंशदंशज्या। गजहयगजेषु ५८७८ भिघ्नी त्रिभजीवा वाऽयुतेन १०००० संभक्ता। पट्त्रिंशदंशजीवा तत् कोटिज्याकृतेषूणाम्। त्रिज्याकृतीषुधातान्मूलं त्रिज्योनितं चतुर्भक्तम्। अष्टादशभागानां जीवा स्पष्टा भवत्येवम्। क्रमोत्क्रमज्याकृतियोगमूलाद्दलं तदर्धांशकशिञ्जिनी स्यात्। त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदर्धांशकशिञ्जिनी वा। तस्याः पुनस्तद्दलभागकानां कोटेश्च कोट्यं शदलस्य चैवम्। अन्यज्यकासाधनमुक्तमेवं पूर्बैः प्रवक्ष्येऽथ बिशिष्टमस्मात्। त्रिज्याभुजज्याहतिहीनयुक्ते त्रिज्याकृती तद्दलयोः पदे स्तः। भुजोनयुक्तत्रिभखण्डयोर्ज्ये कोटिं भुजज्यां परिकल्प्य चैवम्। यद्दोर्ज्ययोरन्तरमिष्टयोर्यत्कोटिज्ययोस्तत्कृतियोगमूलम्। दलीकृतं स्यादुभुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा। दोःकोटिजीवाविवरस्य वर्गो दलीकृतस्तस्य पदेन तुल्या। स्यात् कोटिवाह्वोर्विवरार्धजीवा वक्ष्येऽथ मूलग्रहणं विनापि। दोर्ज्याकृतिर्व्यासदलार्धभक्ता लब्धत्रिमौर्व्योर्विवरेण तुल्या। दोःकोटिभागान्तरशिञ्जिनी स्याज्ज्यार्धानि वा कानिचिदेवमत्र। स्वगोऽङ्गेषुषडशेन (६५६९) वर्जिता भुजशिञ्जिनी। कोटिज्या दशभिः क्षुण्णा त्रिसप्तेषु० (५७३) विभाजिता। तदैक्यमग्रजीवा स्यादन्तरं पूर्वशिञ्जिनी। प्रथमज्या भवेदेव” षष्टिरन्यास्ततस्ततः। व्यासार्धेऽष्टगुणाब्ध्यग्नितुल्ये स्युर्नवतिर्ज्यकाः। कोठिजीवा शताभ्यस्ता गोदस्ततिथि (१५२९) भाजिता। दोर्ज्या स्वाऽद्र्यङ्गवेदांश (४६७) हीना तद्योगसंमिता। तदग्रज्या तयोश्चापि विवरं पूर्वशिञ्जिनी। तत्त्वदस्रा २२५ नगांशोना एवमत्राद्यशिञ्जिनी। ज्यापरम्परयैवं वा चतुर्विंशतिमौर्विकाः। चापयोरिष्टयोर्दोर्ज्ये मिथःकोटिज्यकाहते। त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्य दोर्ज्यका। चापान्तरस्य जीवा स्यात् तयोरन्तरसंमिता। अन्यज्यासाधने सम्यगियं ज्याभावनोदिता। समासभावना चैका तथान्यान्तरभावना। आद्यज्याचापभागानां प्रतिभागज्यकाविधिः। या ज्यानुपाततः सेष्टव्यासार्धे परिणाम्यते। आद्यदोःकोटिजीवाभ्यामेर्व कार्य्या ततो मुहुः। भांवनाः स्युस्तदग्रज्या इष्टे व्यासदले स्फुटाः। स्थूलं ज्यानयनं पाठ्यामिह तन्नो० दितं मया। उक्ता संक्षेपतः पूर्वं ज्योमत्तिः सुगमा च सा। सविशेषाधुना तत्र विशेषाद्विवृणोम्यतः”। तत्र तावदाचार्य्याणां पदवीमित्यादि श्लोकपञ्चकं सुगभम्। अत्र गणितेन ज्याज्ञानार्थं मूलमूतज्याचतुष्कसिद्धप्रकारमेवाह। तत्प्रकारो हि बीजगणितक्रियया। त्रिज्यार्धं राशिज्येत्यादि। त्रिज्यार्धेन १७१९ तुल्या त्रिंशदंशानां ज्या भवति। तस्याः कोटिज्या षष्टिभागानाम्। त्रिज्यावर्गार्धपदं पञ्चचत्त्वारिशदंशानां ज्या भवति। अथ त्रिज्यावर्गात् पञ्चगुणात् त्रिज्याकृतिवर्गपञ्चथातस्य मूलेन हीनादष्ट८ हृतात् पदं षट्त्रिंशदंशानां ज्या। अथ वा गज हयगजेषु ५८७८ निघ्नी त्रिज्याऽयुतेन १०००० भक्ता षट्त्रिंशदंशानां ज्या स्यात्। इति गणितलाघवम्। तत् कोटिज्यार्द्धाच्चतुष्पञ्चादंशानां ज्या। तथा त्रिज्यावर्गस्य पञ्चगुणस्यमूलं त्रिज्याहीनं चतुर्भक्तं सदष्टादशमागानां ज्या भवति। तत्कोटिज्यार्द्धात् द्विसप्ततिभागानाम्। अतोऽन्यथा साधनमाह। क्रमोत्क्रमज्येत्यादि। कोटिज्योना त्रिज्यामुजस्योत्क्रमज्या स्यात्। भुजज्योना त्रिज्याकोट्युत्क्रमज्या स्यात्। भुजक्रमज्योत्क्रमज्ययोश्च वर्गयोगपददलं भुजांशानामर्धस्य ज्या स्यात्। अथवा त्रिज्योत्क्रमज्याधातदलस्य मूलं तदर्धांशकशिञ्जिनी स्यादिति क्रियालाघवम्। एवमुत्पन्नज्याया अपि कोटिज्या सा तत्कोटिमागानाम्। ततः पुनरेवमन्यास्तदर्धांशकज्याः साध्याः। कोटेश्चैवमन्याः। तद्यथा। यत्र चतुर्विंशतिर्ज्यास्तत्र त्रिज्यार्धमष्टमं ज्यार्धम्। तत्कोटिज्या तु षोडशम्। शरवेदांशज्या द्वादशम्। अथाष्टमात् तदर्धांशप्रकारेण चतुर्थम्। ४। तत्कोटिज्या विंशम्। २०। एवं चतुर्थात् द्वितीयं २ द्वाविशं च। २२। द्वितीयादाद्यं २ त्रयोविंशं च २३। विंशतितमाद्दशमं १० चतुर्दशं च १४। दशमात् पञ्चमम् ५ एकोनविंशं च १९। द्वाविंशादेकादशं ११ त्रयोदशं त्त १३। चतुर्दशात् सप्तमं ७ सप्तदशं च १७। अथ द्धादशात् षष्ठ ६ मष्टादशं च १८। षष्ठात् तृतीयं ३ मेकविशं च २१। अष्टादशान्नवमं ९ पञ्चदशं च १५। त्रिज्या चतुर्विंशमिति। एवं किल पूर्वैरन्यज्यासाधनमुक्तम्। इदानीं विनाप्युत्क्रमज्ययाभिनवप्रकारेणाह। त्रिज्याभुजज्याहतीत्यादि। त्रिज्याभुजज्याधातेन त्रिज्याकृतिरेकत्रोनान्यत्र युता। द्वे चार्धिते। तयोर्मूले। आद्यं भुजोनखाङ्कांशानां दलस्य ज्या। द्वितीयं भुजाद्यखाङ्कांशानां दलस्यं। एवमतोऽप्यन्याः। तद्यथा। अष्टमात् षोडशं १६ ज्यार्धम्। षोडशाच्चतुर्थं च विंशं च ३०। चतुर्थाद्दशमं १०। चतुर्दशं च १४। एवं सर्वाण्यपि। प्रकारान्तरमाह। यद्दोर्ज्ययोरन्तरनित्यादि। इष्टदोर्ज्ययोर्यदन्तरं कीटिज्ययोश्च यत् तयोर्बर्गैक्यमूलस्य दलं भुजयोरन्तरार्धस्य ज्या भवति। एवमन्ययोरन्यान्याः। यथैका किल चतुर्थीं ४। अन्याष्टमी ४ दोर्ज्या। ताभ्यां द्वितीया मिध्यति। द्वितीयाचतुर्थीभ्यां प्रथमेत्यादि। तथा दोःकोटिज्ययोरन्तरवगदलस्य मूलं दोःकोटिभागान्तरार्धस्य ज्या स्यात। तथाष्टमी च दीजर्ब्बा। षोडशी १६ कोटिज्या। ताभ्यां चतुर्थी ८ स्यादित्यादि। अथ मूलग्रहणक्रियया विनापि दोःकोटिभागान्तरज्य्तानयनमाह। दोर्ज्याकृतिरित्यादि। दोर्ज्यावर्गस्त्रिज्यार्धेत भक्तः। तस्य त्रिज्यायाश्च विबरं दोःकोथन्तरस्य ज्या स्यात्। कानिचिदेबमत्र ज्यार्धानि साध्यानि। तद्यथा। यत्र किल त्रिंशज्ज्यार्धानि तत्र त्रिज्यार्धं दशमम्। १०। तत्कोटिज्या विंशतितमम्। शरवेदांशज्या पञ्चदशम्। षट्धिं शज्या द्वादशम्। तत्कोटिज्याष्टादशं ज्यार्धम्। अष्टादशभागानां ज्या षष्टम्। ६। तत्काटिज्या चतुर्विशमिति। क्रमोत्क्रमज्याकृतियोगमूलादित्यादिना पूर्वोक्तप्रकारेण दशमात् पञ्चमम्। तत्कोटिज्या पञ्चविंशम्। एवं द्वादशात् षष्ठं चतुर्विंशं च। षष्ठात् तृतीयं सप्तविंशं च। अष्टादशान्नवममेकविंशं च। एतान्येवानेन प्रकारेण सिध्यन्ति नान्यानि। अत उक्तं कानिचिदेवमत्रेति। यद्दोर्ज्ययोरन्तरमित्यादिप्रकारेण। अतोऽत्र पञ्चममेका दोर्ज्या। नवममन्या। आम्यां यद्दोर्ज्यायोरन्तरमित्यादिना प्रकारेण भुजयोरन्तरार्धस्य ज्योत्पद्यते। तच्च द्वितीयं ज्यार्धम्। तत्कोटिज्याष्टाविशम्। आभ्यां कमोत्क्रमज्याकृतियोगमूलाद्दलमित्यादिप्रकारेणाद्यं चतुर्दशं च। एवमन्याश्चतुर्दश सिध्यन्ति। अथ ज्याभावना। सा च द्वेधा। एका समासमावना। अन्यान्तरभावना। तदर्थमाह। स्वगोङ्गोषुषडंशेनेत्यादि। यत्र किल वसुत्रिवेदाग्नि ३४३८ तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र तावदुच्यते। तत्र मूलभूतज्यानां मध्ये काचनेष्टा भुजज्या तत्कोटिज्या च पृथक् स्थाप्या। भूजज्या स्वनवषडिषुरस ६५६९ विभागेन रहिता कार्य्या। कोटिज्या तु दशगुणा त्रिसप्तपञ्चभिर्भाज्या। तयोरेक्य तदग्रज्या। अन्तरं पूर्वज्या स्यात्। यथा त्रिज्यार्धं त्रिंशत्संख्याकं ३० ज्यार्धम्। ततः समासभावनयैकत्रिंशत्संख्यकम्। सस्माद्द्वात्रिं शत्संख्यमित्यादि। अन्तरभावनया त्वेकोनत्रिंशनष्टाविंशमित्यादि। पूर्णं दोर्ज्या कोटिज्यां त्रिज्यां च प्रकल्प्य प्रथमं खण्डमेवं षष्टिः ६० स्यात्। अथ यदि सैव त्रिज्या चतुर्विंशतिर्ज्यार्नि तदर्धमाह। कोटिजीवाशताभ्यस्तेत्यादि। अत्रापि त्रिज्यार्धमष्टमं ज्यार्धं सा भुजज्या। षोडशं कोटिज्या सा कोटिज्या अतगुणा नोदस्रतिथि (१५२९) भाजिता। या तु दोज्यां सा तु निजेन सप्ताङ्गवेदांशेन ४६७ हीना कार्य्या। यदि तयोरेक्यं क्रियते तदा नवमं ज्यार्धं भवति। यद्यन्तरं तदा सप्तमं स्यात्। एवं समासभावनया नवमाद्दशमं दशमादेकादशमित्यादि। तथान्तरभावनया सप्तमात् षष्ठं षष्ठात् पञ्चममित्यादि। एवं प्रथमं सप्तांशोनं तत्त्वदस्र २२५ मितं मवति। अथवा पूर्णं० दिर्ज्यां त्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथापि तदेव। ततः समासभावनया द्वितीयादीन्यखिलानि भवन्ति। अथ वा त्रिज्यां दोर्ज्यां प्रकल्प्य पूर्णं कोटिज्यां च प्रकल्प्य साध्यते तदा व्रयोविंशमुत्पद्यते तस्मादन्तरभावनया द्वाविंशम् २२। ततोऽप्येकविंशम् २१। एवम खिलान्यपि निष्पद्यन्ते। अथ भवानामाह। चापयोरिष्टयोरित्यादि। इष्टयोशापयोर्ये दोर्ज्येते कर्णभूमौ व्याप्ये। तयोरधस्तात् कोटिज्ये च। ततः प्रथमकोटिज्या द्वितीयदोर्ज्यया गुण्या। ततो द्वितीयकोटिज्या प्रथमदोर्ज्यया गुण्या। द्वे अपि त्रिज्यया भाज्ये। फलयोः समासश्चापैक्यभुज्यस्य ज्या भवति। अन्तरं चापान्तरस्य ज्या भवति। इयं सिद्धज्यातोऽन्यज्यासाघने भावना। तद्यया। तुल्यभावनया प्रथमज्यार्बस्य प्रथमज्यार्धेन सह समासभावनया द्वितीयं, द्वितीयस्य द्वितीये नैवं चतुर्थमित्यादि। अथातुल्यभावनया द्वितीयतृतीययोःसमासभावनया पञ्चमम्। अन्तरभावनया प्रथमं स्यादित्यादि। अथेष्टव्यासार्धे ज्याज्ञानार्थमाह। आद्यज्याचापमागानामित्यादि। यावद्भिरंशैरेका ज्या लभ्यते ते आद्यज्याचापांशाः। प्रतिमागज्यकाविधिरिति। त्रिसप्तपञ्चभि ५७३ र्भक्तेत्यादिना प्रागुक्तप्रकारेणैकभागस्य ज्यामानीय तद्भावनातो भागद्वयस्यैवं तेषां भागानां ज्या साध्या साभीष्टत्रिज्यया हृता वस्वनलाब्धिवह्निभि ३४३८ र्भक्ता प्रथमज्या स्यात्। तस्यास्तयैव सह भाव नया द्वितीयाद्याः सिध्यन्ति” प्रमिताक्षरा।

जीवातु = पु० जीवयति जीव–णिच् + कर्त्तरि आतुः जीवत्य- नेन जीव–करणे वा आतु। १ अन्ने २ जीवनौषधे ३ मृतसञ्जीवनौषधे च भावे आतु। ४ जीवने। मेदि० “रे हस्त! दक्षिण! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम्” उत्तरच०। “आर्त्तया पुनर्जीवातवे न मर्त्तवे” ताण्ड्य० ब्रा० १। ५। १८। जीवितुमिति भाष्योक्तेः तवेप्रत्ययान्तमित्यन्ये तथा च जीव–तुमर्थे तवे वा० दीर्घः। न मर्त्तवे इति साहचर्य्यात् जीवितुमित्यर्थकता तच्च तवेप्रत्ययान्ततयैव सिध्यतीति बोध्यम्।

जीवातुमत् = पु० जीवातु + मतुप्। आयुष्कामेष्टी देवताभेदे “आयुष्कामेष्ट्यां जीवातुमन्तौ” आश्व० श्रौ० २। १०। २। “जीवातुमन्तौ सव्योपर्य्युपस्था” २। १९। १६।

जीवात्मन् = पु० जीवति जीव–अच् कर्म। प्राणसञ्चारयुक्ते आत्मनि प्राणिनि “संयोगो योग इत्युक्तो जीवात्मपरात्मनोः” योगशा०। जीवात्मन्! पश्य भद्रं ते मातरं पितरञ्च ते” भाग० ६। १६। २।

जीवादान = न० ६ त०। “अयोगस्तूभ्योराध्मानं परिकर्त्तिका परिस्रावाः प्रवाहिका हृदयोपसरणमप्रग्रहोऽभियोगो जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्तीति” सुश्रुतोक्ते वैद्यनिमित्ते व्यापद्भेदे तच्च वमनविरेचनव्यापद्भेदः यथोक्तं तत्रैव।

“अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः। वैद्यातुरनिमित्तं वमनं च पञ्चदशधा व्यापद्यते तत्र वमनस्याधोगतिरूर्द्धं विरेचनस्येति पृथक्। सामान्यमुभयोः सावशेषौषधत्वं जीर्णौषधत्वं हीनाधिदोषापहृतत्वं वातशूलमयोगातियोगौ जीनादानमाध्मानं परिकर्त्तिका परिस्रावः प्रवाह्छिकाहृदयोपसरणं विबन्ध” इति।

जीवाधार = पु० ६ त०। हृदये हेमच०। “हृद्ययं तस्माद्धृदयम्” छा० उ० जीवस्य हृदयाधारत्वोक्तेस्तथात्वम्।

जीवान्तक = पु० जीवमन्तयति अन्ति–नामधा० ण्वुल्। जीवनार्थु प्राणिनाशके शाकुनिके अमरः २ प्राणिनाशकमात्रे त्रि०।

जीवार्द्धपिण्डक = पु० सूर्यसि० परिभाषिते चक्रस्थराशिकलानां १८० शतानामष्टमे भागे ३२६ यथाह सू० सि० “राशिलिप्ताष्टमो भागः प्रथमं ज्यार्द्धमुच्यते” तत्तद्विभक्ते लब्धो नमिश्रितं तद् द्वितीयकम्। आद्येनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः। खण्डकाः स्युश्चतुर्विंशज्ज्यार्द्धपिण्डाः क्रमादमी”। “एकराशिकलानामष्टादशशतानामष्टमोऽशस्तत्त्वाश्चिमितः २२५ प्रथममाद्यं ज्यार्द्धं सम्पू र्णजीवार्द्धपिण्डकः कथ्यते तदभिज्ञैः” रङ्ग०। अत्र चक्रार्द्धस्य धनुराकृतित्वात् तत्रोभयपार्श्वस्थरेखासंलग्नसरलरेखायाः ज्यारूपत्वात् तस्यार्द्धस्येव लाघवेन शास्त्रकारैर्ग्रहणेन तदीयार्द्धस्य पिण्डसंज्ञा कृतेति बोध्यम्। ज्यार्द्धपिण्डोऽप्यत्र।

जीवाला = स्त्री जीवमालाति आ + ला–क। सैंहल्यां लतायां राजनि०।

जीवास्तिकाय = पु० अर्हन्मतसिद्धे जिवपदार्थे अर्हच्छब्दे दृश्यम्। जीवशब्दे चोक्तप्रायः।

जीविका = स्त्री जीव–अ कन् अत इत्त्वम्। १ जीवनोपाये आजीवते। २ जीवन्तीवृक्षे मेदि०।

जीवित = न० जीव–भावे क्त। १ जीवने प्राणधारणे “जीवितनाथो भवेत्तस्याः” सा० द० “नाभिनन्देत मरणं नाभिनन्देतजीवितम्” जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः” मनुः। कर्त्तरि क्त। २ जीवनयुक्ते त्रि०। प्राङ् मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता” रघुः।

जीवितकाल = पु० ६ त०। आयुषि प्राणधारणसमये अमरः।

जीवितज्ञा = स्त्री जीवितस्य जीवनस्य ज्ञा–ज्ञानं यस्या। नाड्याम्। राजनि०। तस्याश्चलने हि नरस्य जीवनज्ञानात् तथात्वम्।

जीवितेश = पु० ६ त०। १ प्राणनाथे यमे ३ न्द्रे २ सूर्य्ये च शब्दरत्ना०। ४ जीवातौ हेमच०। ५ जीवितेश्वरे त्रि० मेदि०। “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुविरचन्दनोक्षिता जीवितेशवसतिं जगाम सा” रघुः। चन्द्रसूर्य्ययोश्च देहमध्यस्थेडापिङ्गलानाद्ध्योः स्थित्या प्राणसञ्चारणहेतुत्वात् तथात्वम्। “इडायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवाकरः” शा० ति० २५ पटले उक्तम्। इडाशब्दे ९३० पृ० दृश्यम् इडाशब्देऽनुक्तत्वात् प्रसङ्गात् इडापिङ्गलयोः स्वरूपादिकमत्रौच्यते “इडा बामे तयोर्षध्ये सुषुम्णा पिङ्गलापरे” शा० ति० “या वाममुष्कसंबद्धा सा श्लिष्यति सुषुम्णया। दक्षिणं मुष्कमाश्रित्य धनुर्वक्त्रा हृदिश्रिता। वामांसजत्वन्तरगा दक्षिणानासिकामियात्”। तथा दक्षिणमुष्कस्था नासयोर्बामरन्ध्रगा “पदार्थादर्शधृतवाक्यम्। तन्त्रान्तरेऽपि “सुषुम्णाकलितापीडामुष्कं दक्षिणमाश्रिता। हृद्गता दक्षभागस्य जत्रुमध्यममाश्रिता। दक्षिणानासिकाद्वारं प्राप्नोति गिरिजात्मजे!। वाममुष्कसमुद्भूता तथाप्ता सव्यनासिकामिति” अनयोः स्वरूपमुक्तं योगार्णर्वे “इडा च शङ्स्वकुब्दाभा तस्याः सव्ये व्यवस्थिता। पिङ्गलाऽसितरक्ताभा दक्षिणं पार्श्वमाश्रितेति” “अनेन पिङ्गलेडयोः क्रमेण सूर्य्याचन्द्रमसोः स्थितिरुक्ता भवति” पदार्थादर्शः।

जीविन् = त्रि० जीव–णिनि। प्राणधारके प्राणिमात्रे २ जीवनोपाययुक्ते च। जीविनां दारुणो रोगः कर्मभोगः शुभाशुभः। भक्तो वैद्यस्तं निहन्ति हरिभक्तिरसायनात्” ब्र० वै० गणे० ख०। तत्र कालेन जायन्ते मानवा दीर्घजीविनः”। “शक्तःपरजने दाता स्वजने दुःखजीविनः” मनुः। “पश्चात्तु शूद्राः कृषिजीविनिश्च” भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनि” मनुः स्त्रियां ङीप् “पुरुषायुषजीविन्यो निरातङ्कानिरीतयः। यन्मदीयाः प्रजास्तस्य” रघुः।

जीवेष्टि = स्त्री जीवोद्देशिका इष्टिः। वृहस्पतिसवे शब्दार्थचि०

जीवोत्पत्तिवाद = पु० जीवस्य सङ्कर्षणाभिघस्योत्पत्तिवादः। पाञ्चरात्रवैष्णवसिद्धान्ते जीव्यास्योद्भवसाधने वादे तत्र हि “ब्रह्मणो वासुदेवाख्याज्जोवः सङ्कर्षणाभिधः। जायते च मनस्तस्मात् प्रद्युम्नाख्यं ततः पुनः। अहङ्कारोऽनिरुद्धास्यश्चत्वारो विश्वरूपकाः। वासुदेवाराधनाद्यैर्जायते बन्धमोक्षणमिति”। तदेतन्मतं शा० सू० भा० निराकृतं यथा “उत्पत्त्यसम्भवात्” सू०। “येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणम् ईश्वरोऽभिमतस्तेषां पक्षः प्रत्याख्यातः, येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरोऽभमतस्तेषां पक्षः पत्याख्यायते। श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राक् निर्द्धारितः प्रकृतिश्चाधिष्ठाता चेति, श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः, तत् कस्थ हेतोरेष पक्षः प्रत्याचिख्यासित इति। उच्यते। यद्यप्येवंजातीयकोऽंशः समानत्वान्नविसंवादगोचरो भवत्यस्ति त्वंशान्तरं विसंवादस्थानमिति, अतस्तत्प्रत्याख्यानायारम्भः। तत्र भागवता मन्यन्ते भगवानेवैको वासुदेवः निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धाऽऽत्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्कर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेण अनिरुद्धव्यूहरूपेण च वासुदेवो नाम परमात्मोच्यते, सङ्कर्षणो नाम जीव, प्रद्युम्नो नाम मनः, अनिरुद्धो नामाहङ्कारः, तेषां वासुदेवः परा प्रकृतिः, इतरे सङ्कर्षणादयः कार्य्यं, तमित्थम्भूतं भगवन्तमभिगमनोपाद्रानेज्यास्वाध्याययोनैर्बर्षशतमिष्ट्रा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति। तत्र यत्तावदुच्यते योऽश्चौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्म सर्वात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्यावस्थित इति, तन्न निराक्रियते, “स एकधा भवति त्रिधा भवति” इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधा भवस्याधिगतत्वात्। यद्यपि भगवतोऽभिगमनादिलक्षणमाराधनम् अजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात्। यत् पुनरिदमुच्यते वासुदेवात् सङ्कर्षण उत्पद्यते सङ्कर्षणाच्च प्रद्युम्नः, प्रद्युम्नाच्चानिरुद्ध इति। अत्र ब्रूमः, न वासुदेवसंज्ञकात् परमात्मनः सङ्कर्षणसंज्ञस्य जीवस्योत्पत्तिः सम्भवति, अनित्यत्वादिदोषप्रसङ्गात् उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसजेरन, ततश्च नैबास्य भगवत्प्राप्तिमोक्षः स्यात् कारणाप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात्। प्रतिषेधिष्यति चाचार्य्यो जीवम्योग्पतिं “नात्माश्रुतेर्नित्यत्वाच्च” तस्मादसङ्गतैषा कल्पना” भा०।

“न च कर्त्तुः करणम्” सू०। “इतश्चासङ्गतैषा कल्पना, कस्मान्न हि लोके कर्त्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते। वर्णयन्ति च भागवताः “कर्त्त्रर्जीवात् सङ्कर्षणसंज्ञकात् करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽहङ्कार उत्पद्यते” इति। न चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः। न चैवम्भूतां श्रुतिमुपलमामहे” भा०।

“विज्ञानादिभावे वा तदप्रतिषेधः” सू०। “अथापि स्यान्न चैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हि ईश्वरा एवैते सर्वे ज्ञानैश्वर्य्यशक्तिबलवीर्य्यतेजोऽभिरैश्वर्य्यधर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति, तस्मान्नायं यथावणितं उत्पत्त्यसम्भवो दोषः प्राप्नोतीति। अत्रोच्यते, एवमपि तदप्रतिषेध उत्पत्त्यसम्भवस्याप्रतिषेधः प्राप्नोत्येव, अयमुत्पत्त्यसम्भवो दोषः प्रकारान्तरेणेत्यभिप्रायः, कथं यदि तावदयंमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्व मस्तीति, ततोऽनेकेश्वररुल्पनानर्थक्यम्, एकेनैवेश्वरेणेश्वरकार्य्यसिद्धेः। सिद्धान्तहानिश्च भगवानेको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात्। अथायमभिप्रायः एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसम्भवः। न हि वासुदेवात् सङ्कर्षणस्योत्पत्तिः सम्भबति सङ्कषेणाच्च प्रद्युम्नस्य, प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात्। भवितव्यं हि कार्य्यकारणयोरतिशयेन यथा मृद्घटयोः। न ह्यसत्यतिशये कार्य्यं कारणमित्यवकल्पते न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु एकैकस्मिन् सर्वेषु वा ज्ञानैश्वर्य्यादितारतम्यकृतः कश्चिद्भेदोऽभ्यु पगम्यते, वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते। न चैते भगवद्व्यूहाश्चतुःसङ्ख्या, ब्रह्नादिस्तम्बपर्य्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात्” भा०।

“विप्रतिषेधाच्च” सू०। “विप्रतिषेधश्चास्मिन् शास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः। ज्ञानैश्वर्य्यशक्तिबलववीर्यतेजांसि गुणाः आत्मान ऐवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्। वेदविप्रतिषेधश्च भवति चतुर्षु वेदेषुपरं श्रेयोऽलब्द्ध्वा शाण्डिल्य इदं शास्त्रम् अधिगतवान् इत्यादिवेदनिन्दादर्शनात्, तस्मादसङ्गतषा कल्पनेति सिद्धम्” भा० जीवस्य वास्तविकोत्पत्तिनिराकरणेन तस्य भाक्तोत्पत्तिमत्त्वं तत्रैव २ अ०। ३ पादे समर्थितं यथा

“चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्” सू०

“स्तो जीवस्याप्युत्पत्तिप्रलयौ जातो देवदत्तो मृतो देवदत्त इत्येवं जातीयकाल्लौकिकव्यपदेशाज्जातकर्मादिसंस्कारविधांनाच्चेति स्यात् कस्यचिद्भ्रान्तिः, तामपनुदामः, न जीवस्योत्पत्तिप्रलयौ स्तः शास्त्रफलसम्बन्धोपपत्तेः। शरीरानुविनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टाप्राप्तिपरिहारार्थौ विधिप्रतिषेधावक्नर्थकौ स्याताम्। श्रूयते च “जीवापेतं वाव किलेद म्रियते न जीवो म्रियते” इति। ननु लौकिकजन्ममरणव्यपदेशो जीवस्य दर्शितः सत्यं दर्शितं, भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः, किमाश्रयः पुनरयं मुख्यो यदपेक्षया भाक्त इति, उच्यते। चराचरव्यपाश्रयः। स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ, स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते तद्भावभावित्वात्। शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतः नासतोः। नहि शरीरसम्बन्धादन्यत्र जीवो जातो मृतो वा केनचिदुपलक्ष्यते। “स वा अय पुरुषो जायमानः शरीरमभिसम्पद्यमानः स उत्क्रामन् म्रियमाण” इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति। जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम्, अभावाज्जीवप्रादुर्भावस्य। जीवस्य परस्मादात्मनः उत्पत्तिर्वियदादीनामिवास्ति नास्ति येत्येतदुत्तरेण सूत्रेण वक्ष्यति। देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्तः इत्येतदनेन सूत्रेणावोच्यते” भा०।

“नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः” सू०। “अस्त्यात्मा जिवाख्यः शरोरेन्द्रियपञ्जराध्यक्षः कर्मफलसम्बन्धी, स किं व्योमादिवदेवोत्पद्यते ब्रह्मण आहोस्विदुब्रह्मवदेव नोत्पद्यते इति श्रुतिविप्रतिपत्तेर्विशयः कासुचिच्छ्रुतिष्वग्निविष्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्मात् ब्रह्मण उत्पत्तिराम्नायते कासुचित्त्वविकृतस्यैव परस्य ब्रह्मणः कार्यप्रबेशेन जीवभावो विज्ञायते न चोत्पत्तिराम्नायत इति। तत्र प्राप्नं तायदुत्पद्यते जीव इति कुतः प्रतिज्ञानुपरोधात्। (एकस्मिन् विदिते सर्बमिदं विदितम्) इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत। न चाविकृतः परमात्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात्। अपहतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः, विभागाच्चास्य विकारात्मसिद्धिः। यावान् हि आकाशादिः प्रविभक्तः सर्वो विकारः, तस्य चाकाशादेरुत्पत्तिः समधिगता जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखभाक् प्रतिशरीरं विभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसरे उत्पत्तिर्भवितुमर्हति” भा०

अपि च “यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः” इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा सर्वे एते आत्मानो व्युच्चरन्तीति भोक्तॄणामात्मनां पृथक् सृष्टिं शास्ति। “यथा सुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ति स्यरूपास्तथाक्षराद्विविधाः सोम्य! भावाः प्रजायन्ते तत्र चैवापियन्ति” इति च जीवात्मनामुत्पत्तिप्रलयाबुच्येते सरूपवचनात्। जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात्। न च क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति, श्रुत्यन्तरगतस्यापि अविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसहर्त्तंव्यत्वात्। प्रवेशश्रतिरम्येवं सति विकारभावापत्त्यैव व्याख्यातव्या “तदात्मानं स्वयमकृरुत” इत्यादिवत् तस्मादुत्पद्यते जिव इत्येवं प्राप्ते ब्रूमः, नात्मा जीव उत्पद्यत इति कस्मादश्रुतेः, न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयस्सु प्रदेशेषु। ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तं, सत्यमुक्तं उत्पत्तिरेव त्वस्य न सम्भवतीति वदामः। कस्मात् नित्यस्वाच्च ताभ्यः। चशब्दादजत्वादिभ्यश्च। नित्यत्व ह्यस्य श्रतिभ्योऽधिगम्यते, तथाजत्वमविकारित्वमविकृतस्यैव ब्रह्मणो जीवात्मनावस्थान ब्रह्मात्मता चेति। न चैवंरूपस्यात्पात्तरुपपद्यते, ताः काः श्रुतयः “न जीवो म्रियते” “स वा एष महानजः” “आत्माऽजरोऽमृतोऽभयो ब्रह्म” “न जायते म्रियाते वा विपश्चित्” अजो नित्यः शाश्वतोऽयं पुराणः” “तत् सृष्ट्वा तदेवानुप्राविशत्” “अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणि “स एष इह प्रविष्ट आनखाग्रेभ्य” “तत्त्वमसि” “अहं ब्रह्मास्मि” “अयमात्मा ब्रह्म सर्वानुभूः” इत्येबमाद्या नित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिवध्मन्ति। ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यते इत्युक्त अत्रोच्यते, नास्य प्रबिभागः स्वतोऽस्ति, “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” इति श्रुतेः, बुद्ध्याद्युपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसम्बन्धनिमित्तम्। तथा च शास्त्रम् “स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः” इत्येवमादि ब्रह्मण एवाविकृतस्य सतोऽस्यैकानेकबुद्ध्यादिमयत्वं दर्शयति। तन्मयत्वञ्चास्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवदुद्रष्टव्यम्। यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसम्बन्धान्ने तव्यम्, उपाध्युत्प्रत्तौ चास्योत्पत्तिस्तत्प्रलये च प्रलय इति। तथा च दर्शयति “प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति” इति। तथोपाधिप्रलय एवायं नात्मप्रलय इत्य तदपि, अत्रैव “मा भगवान्मोहमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्ति” इति प्रश्नपुर्वकंप्रतिपादयति, “न वा अरे अह ब्रवीम्यविनाशी वा अरऽयमात्मानुच्छित्तिधर्मा मात्मासंसर्गस्त्वस्य भवति” इति। प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात्। लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव। अत ऊर्द्ध्वं विमोक्षायैव ब्रूहीति च प्रकृतस्य व विज्ञानमयस्यात्मनः सर्वसं सारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात्। यस्मान्नैवोत्पद्यते प्रवि- लीयते वेति” शारीरकसूत्रभाष्ये शङ्कराचार्य्यः।

जीवोपाधि = पु० ६ त०। १ स्वप्नसुषुप्तिजाग्रदवस्थासु। त्रयो हि जीवस्योपाधयः। तत्र सुषुप्तौ बुद्ध्यादिसंस्कारवासितमज्ञानमात्रमुपाधिः। स्वप्ने जाग्रद्वासनामयं लिङ्गशरीरमुपाधिः। जाग्रदवस्थायां सूक्ष्मशरीरसंसृष्टं स्थूलशरीरमुपाधिरिति तत्तदुपाध्युपलक्षितसुषुप्त्यादेरप्युपाधित्वम्। “कार्य्योपाधिरयं जीवः कारणीपाधिरीश्वर” इत्युक्तेः अज्ञानस्य २ व्यष्टिशक्तिभेदे च तस्यास्तु समष्ट्यज्ञानकार्य्यत्वात् तदभिप्रायेणैव “मायोपाधिरयं जीवोह्यविद्योपाधिरीश्वरः” इत्यादौ मायाविद्ययोरभेदेऽपि भेदनिर्देशः।

जीवोर्णा = स्त्री ६ त०। जीवतो मेषादेरामणि “पवित्रमस्मिन् करोति शुक्लं जीवोर्णानाम्” कात्या० श्रौ० ९। २। १६। “जीवन्मेषरोमनिर्म्मितसूत्रनिर्म्मितम्” कर्कः।

जीव्या = स्त्री जीवाय हिता यत्। १ हरीतक्याम् २ जीवन्त्यां ३ गोक्षुरदुग्धायाञ्च राजनि० ४ जीवनोपाये त्रि० जीव्योपायं तु भगवान् मम किञ्चित् करोतु सः” हरिवं० २६३ अ०।

जु = रंहसि भ्वा० पर० अक० अनिट्। जवति। अजौषीत्। जुजाव। जवः जवनः। णिचि जावयति ते अजीजवत् त ततः सनि० जिजावयिषति। अस्य परस्मैपदित्वं गतिकर्म्मत्वञ्चनिघण्टूक्तम् “जयति जवति” इत्युपक्रमे इत्येते गतिकर्माण इत्युक्तेः। वेदे गणव्यत्यासः “वृष्टिं ये विश्वे मरुतो जुनन्ति” ऋ० ५। ५८। ३। “येन न पातमपां जुनाम” १। १८६। ५। अयं धातुः ऋ० भाष्ये सौत्र इति माधवः। दीर्घान्तोऽपि। “वातो न जूतः स्तनयद्भि रभ्वैः” ऋ० ४। १७। १२।

जु = गतौ सौ० आत्म० सक० अनिट्। जवते। अजोष्ट। जुजुवे। “यद्वि मनसा जवते तद्वाचा वदति” तैत्ति० स० ६। १। ७। २।

जुग = त्यागे भ्वा० पर० सक० सेट् इदित्। जुङ्गति। अजुङ्गीत् जुजुङ्ग। कर्म्मणि इदित्त्वात् जुङ्ग्यते।

जुगुप्सन = न० गुप–निन्दायां स्वार्थे सन्–भावे ल्युट्। १ निन्दने अमरः। कर्त्तरि युच्। २ निन्दाशीले त्रि०।

जुगुप्सा = स्त्री गुप–निन्दायां स्वार्थे सन्–भावे अ टाप्। निन्दायाम् अमरः। सा च वीभत्सरसस्य स्थायिभावः शान्तरसव्यभिचारिभावश्च। यथोक्तं सा० द० “अवि- रुद्धा विरुंद्धा वा यं तिरोधातुमक्षमाः। आस्वादाङ्क्ररकन्दोऽसौ भावः स्थायीति सम्मतः। रतिर्हासश्च शोकश्च क्रोधीत्साहौ भयं तथा। जगुप्सा बिस्मयश्चेत्थमष्टौ प्रोक्ताः शमाऽपि च “रसभेदे स्थायिभावभेदानुक्त्वा “दोषेक्षणादिभिर्गर्हा जुगुप्सा विप्नयोद्भवा ता लक्षयित्वा “शृङ्गारवीरयोर्हासोवीरे क्रोधस्तथ मतः। शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः” देहजुगुप्सा च शौचकार्य्यं यथोक्तं पात० सू० भा० “शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः” सू० “साङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी भवति किञ्च परैरसं सर्गः कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिमिराक्षालयन्नपि कायशुद्धिमपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्यते” भा०। देहे जुगुप्साया वैराग्यं भवति। तस्य निन्दनीयत्वे हेतुः विवेकचूडामणावुक्तो यथा “मज्जास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम्। पादीरुवक्षो भुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत्”। याज्ञवल्क्येन तु देहसंस्थितिमुपवर्ण्य “इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ” इत्युक्तं व्याख्यातं च मिता०

“इतीवृशमस्थिस्नाय्वाद्यारव्धमेतदशुचिनिधानं वर्ष्मास्थिरमिति यस्य वुद्धिरसौ कृती पण्डितो मोक्षाय समर्थो भवति वैराग्यस्य नित्यानित्यविवेकयोर्मोक्षोपायत्वात् अस्थिमूत्रपुरीषादिप्राचुर्य्यज्ञानस्य वैराग्यहेतुत्वात् अत एव व्यासः “सर्वाशुचिनिधानस्य कृतघ्नस्यविनाशिनः। शरीरकस्यापि कृते मूढाः पापानि कुर्वते। यदि नामास्य कायस्य यदन्तस्तद्यहिर्भवेत्। दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेदिति”। तस्मादीदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थमात्मोपासने प्रयतितव्यम्”।

जुगुर्वणि = त्रि० गॄ–स्तुतौ यङ्लुकि क्विपि वेदे नि० वनसंभक्तौ इन्–णत्वम् ६ त०। स्तोतॄणां संभक्तरि। “मन्द्रजिह्वा जुगुर्वणी” ऋ० १। १४२। ८।

जुङ्ग = पु० जुगि–अच्। वृद्धदारकवृक्षे अमरः। ण्वुल्। जुङ्गक तत्रार्थे पु०। राजनि०।

जुङ्गा = स्त्री जुगि–अच्। वृद्धदारकवृक्षे रमानाथः।

जुटक = न० जट–संहतौ अच् संज्ञायां कन् पृषो०। जटायां शब्दर०।

जुटिका = स्त्री जट–संहतौ बा० क्वुन् पृषो०। (झु~टी) ख्याते शिखाभेदे शब्दर०।

जुड = प्रेरणे चु० उभ० सक० सेट्। जीडयति ते अजूजुडत् त।

जुड = बन्धे (जोडादेअओया)। तुदा० कुटा०पर० सेट्। जुडति अजुडीत् जुजोड। घञि जुडः।

जुड = गतौ तु० पर० सक० सेट्। जुडति अतोडीत्। जुजोट। धञि जोडः।

जुत = दीप्तौ भ्वा० आत्म० अक० सेट्। जोतते अजोतिष्ट। जुजुते। ऋदित् अजुजोतत्।

जुन = गतौ तु० पर० सक० सेट्। जुनति अजोनात्। जुजोन।

जुम्बक = पु० वरुणे “पृथिवीं तृचा जुम्बकाय स्वाहा” यजु० २५। ९। “जुम्बकाय वरुणाय” वेददी० “प्रत्येव तिष्ठति जुम्बकाय स्वाहेत्यबभृथ उत्तप्तामाहुतिं जुहोति धरुणो वै जुम्बकः” शत० व्रा० १२। ३। ६। ५।

जुर्व = पु० बधे भ्वा० पर० सश० सेट्। जुर्वति अजूर्वीत्। जूर्त्तः जूर्त्तिः। क्विपि जूः।

जुल = पेषणे चु० उभ० सक० सेट्। जोलयति ते अजूजुलत् त

जुवस = त्रि० सो० जु–बा० अमुन् किच्च। वेगवति। “आ नः सोमः सहो जुवो रूपम्” ऋ० ९। ६५। १८।

जुष = तृतौ अक० तर्के सक० वा चु० उभ०षक्षे भ्वा० पर० सेट्। जोषयति ते जोषति अजूजुषत् त अजोषीत्।

जुष = हर्षे अक० सेवायां सक० तुदा० आ० सेट्। जुषते अजोषिष्ट जुजुषे जुषमाणाः। ईदित्। जुष्टः। ञीत् वर्त्तमाने क्त। जुष्टः। “पौलस्त्योऽजुषतशुचं विपन्नबन्धुः” भट्टिः “यत्र देवासो अजुषन्त विश्वे” यजु० ४। १। “इन्द्र! जुषस्व प्रवह” अथ० २। ५। १। “अजामेकाम्–अजोह्येत्येको जुषमाणोऽनुशेते” श्वेताश्वतंरोप०। “एषैव बुद्धिर्जुषतां सदात्मनाम्” भा० व० १२५९६ श्लो०। “सत्वं जुषाणाय भवाय देहिनात्” भाग० ८। ५। २३। “परजुष्टनयान्निवर्त्तमानः” दीधितिः। आर्षे गणव्य त्यसात् अददित्वम्। “देवा नाश्रद्दधानाद्दिहविर्जुषन्ति” भा० व० १२७३। आर्षत्वात् पदव्यत्ययः। “पारिजातगुणान् मर्त्या जुषन्ति यदि नारद!। देवानां मानुषाणां च न विशेषो भविष्यति” हरिवं० ७२७२। लेटि जोजिषत् “सुपेशसस्करति जोजिषद्धि” ऋ० २। ३५। १ “जुषी प्रीतिसेवनयोः लेट्यडागमः। विकरणः सिप्। इडागमश्च” भा०। प्राद्य पसर्गपूर्वकस्य प्रादिद्योत्यतत्तदर्थयुक्ते सेवनादौ।

जुष्कक = पु० जुष–कक् ततः संज्ञायां कन्। यूषे शब्दच०।

जुष्ट = न० जुष–कर्म्मणि क्त। १ उच्छिष्टे। २ सेविते त्रि० मेदि० “परजुष्टनयान्निवर्त्तमानः” दीधितिः। “पुण्यो महाब्रह्मसमूहजुथः” भट्टिः।

जुष्य = त्रि० जुष–कर्म्मणि क्यप्। १ सेव्ये भावे क्यप्। २ अवश्य सेवने न०।

जुहुराण = पु०। हुर्च्छ–सन्–आनच सनो लुक् छलोपश्च। १ चन्द्रे पु० उज्ज्वल०। २ कौटिल्यकारिणि त्रि०। “युयोध्यस्मज्जुहुराणमेनः” वृ० उ०। “जुहुराणं कुटिलकारिणम्” भाष्यम्।

जुहुवान = पु० हु–कर्म्मणि कानच्। १ अग्नौ २ वृक्षे च। संक्षिप्तसारे कठिनहृदये इत्युक्तिः रमध्यस्यैव तदर्थता हूर्च्छेस्तद्रूपसिद्धेस्तदर्थतौचित्यात् अतस्तत्र लिपिकरप्रमादात् जुहुवान इत्यपपाठः जुहुराण इत्येव पाठः समुचितः।

जुहू = स्त्री जुहोत्यनया हु–क्विप् नि० द्वित्वं दीर्घश्च। यज्ञिये स्रुगाख्ये पात्रमेदे सा च पलाशघटिता” “पालाशी जुहूः” कात्या० श्रौ० १। ३। ३४। “जुहोत्यनया जुहूः स्रुक् सा च पालाशी पलाशवृक्षकाष्ठनिर्म्मिता” कर्कः। “यस्य पर्णमयी जुहूर्मवति न स पापं श्लोकं शृणोति” श्रुतिः। “पर्णमयी पलाशकाष्ठमयीत्यर्थः”। एषा चानारभ्याधीताऽपि प्रकृत्यर्था यथोक्तं ताण्ड्य० ब्रा०।

“अनारभ्याधीतानां प्रकृतिगामित्वमिति न्यायेन क्रत्वङ्गत्वावगमात्। स च न्यायस्तृतीयाध्याये षष्ठापादस्य प्रथमाधिकरणे पर्णवाक्यमुदाहृत्याभिहितः। “प्रकृतौ विकृतौ वा साद्यस्य पर्णेत्यसौ विधिः। प्रकृतेरेव वा तुल्याद्वचनादुभयोरसौ। जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः। चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र किम्”। अनारभ्य श्रूयते “यस्य पर्णमयी जुहूर्भवति न स पापश्लोकं शृणोतीति”। तत्राव्यभिचरितक्रतुसम्बन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते। या जुहूः सा पर्णमयीति वाक्यञ्च प्रकृतिविकृत्योम्तुल्यमेव प्रवर्त्तते उभयत्राश्रयभूताया जुह्वाः सत्त्वात्। तस्मात् प्रकृतिविछत्योरुभयोरप्ययं विधिरिति प्राप्ते, ब्रूमः किमयं विधिर्विकृतौ चोदकात् पूर्वन्निविशते पश्चाद्वा। नाद्यः, आश्रयभूताया जुह्वाः चोदकमन्तरेणासम्भवात्। द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते, तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः”। जुहोत्यस्यां दिशि–आधारे क्विप्। २ प्राग्देशे प्राङ्मुखतयैव होमकरणात् तस्यास्तथात्वम्।

जुहूरा(वा)ण = पु० जुहूं र(व)णति र(वण–अण्। १ अस्ध्वर्य्यै। २ अग्नौ। ३ चन्द्रे विश्वः।

जुहूवत् = पु० जुहूपात्रं होमोद्देश्यतयास्त्यश्य मतुप् वा० मस्य वः। अग्नौ शब्दर०।

जुहोति = स्त्री जु–धात्वर्थनिर्द्देशे श्तिप्। होमभेदे “यजति जुहोतीनां कोविशेषः” कात्या० श्रौ० १। २। ५। इति प्रश्ने यजतिलक्षणमुक्त्वा “उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः” १। २। ७ इति लक्षितम्। “उपविष्टेन कर्त्त्रा होमो येषु त उपविष्टहोमाः स्वाहाकारेण प्रदानं येषु ते स्वाहाकरप्रदानाः य उपविष्टहोमाः स्वाहाकारप्रदानाश्च ते जुहोतयः इत्युच्यन्ते” कर्कः अतोऽस्य पुंस्त्वमेव स्त्रीत्वोक्तिः प्रामादिकी। “क्षरन्ति सर्वा बैदिक्यो जुहोतियजतिक्रियाः” मनुः।

जुह्वास्य = पु० जुहूरास्यमिवास्थ। होमीयवह्नौ। “हव्यवाहो जुह्वास्यः” ऋ० १। १२। ६।

जू = गतौ सौत्र० सक० प० सेट्। जवति अजावीत् जुजाव। जूतः।

जू = स्त्री सौ० जू–गतौ यथायथं कर्त्तृ भावादौ क्विप्। १ आकाशे २ सरस्वत्यां ३ पिशाच्यां च ४ जवने शब्दरत्ना० ५ जबयुक्ते त्रि० विश्वः। ६ त्वरागमने ७ गमने च स्त्री मेदि०।

जूट = पु० जट–संहतौ अच्–पृषो०। १ जटासंहतौ बन्धे २ जटायाम् शब्दार्थचि०। “जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम्” दुर्गाध्यानम्। “भूतेशस्य भुजङ्गबल्लिवलवस्रङ्नद्धजूटाजटाः” मालतीमा०। स्वार्थे क तत्रार्थे।

जूत = त्रि० सौ० जू–क्त। १ गते २ आकृष्टे च। “रथो ह वा मृतजात्यभिजूतः” ऋ० ३। ५। ८। ८। “अभिजूतः स्तोतृभिराकृष्टः” भा०। ३ दक्षे च “युवं श्वेतं पेदव इन्द्रजूतम्” ऋ० १। ११८। ९। “इन्द्रजूतं इन्द्रेण जूतं दत्तम्” भा०।

जूति = स्त्री जु–रंहसि भावे क्तिन् सातिहेतीत्यादिना नि०। १ वेगे अमरः। “उत स्मास्य पलयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशाः” ऋ० ४। ३८। ९ “मनो जूतिर्जुषता माज्यस्य” यजु० २। १६। “जूतिः जवतेर्गतिकर्मणाः” वेददी०। अत्र मनो ज्योतिः इति पाठः प्रामादिकः। नेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः” ऐ० उ० “जूतिश्चेतसो रुजादिदुःखित्वाभावः” २ भाष्योक्ताऽर्थेच।

जूतिका = स्त्री जूत्या कायति कै–क। कर्पूरभेदे राजनि०।

जूर = वयोहानौ अक० बधे सक० दिवा० आत्म० सेट्। जूर्य्यते अजूरिष्ट। ईदित्। जूर्णः। कोपे च “इच्छाविभङ्गाकुलमानसत्वात् भर्त्त्रे नखेम्यश्च चिरं जुजूरे” भट्टिः।

जूर्ण = पु० जूर–क्त। (उलुखड) तृणभेदे रत्नमालायां जूर्णाख्येति तत्पर्य्याये निर्द्देशात् तस्य तथात्वम्। जूर्णेति आख्या यस्य जुर्णाख्योऽप्यत्र।

जूर्णाह्वय = पु० जूर्णमाह्वयते काण्डेन स्पर्द्धते आ + ह्वे–बा० श। देवधान्ये (देधान) हेमच०।

जूर्णि = स्त्री ज्वर–रोगेनि० जट् जूर–वेगे वा नि०। १ स्त्रीरोगे २ वेगे। ३ आदित्ये ४ देहे ५ ब्रह्मणि च संक्षि० उणा०। जूर कोपे नि०। ६ क्रोधे निघण्टुः निरुक्ते ६। ४। ३। “अस्यानिरुक्तिरन्या दर्शिता “जूर्णिर्जवतेर्वा द्रवतेर्वा दुनोतेर्वा” तत्र पृषो०। तेन ७ वेगयुते ८ द्रवयुते ९ तपके च। “क्षिप्ता जूर्णिर्न वक्षति” ऋ० १। १२९। ८। “जूर्णिर्वेगवती सेना” भा०। १० स्तुतिकुशले च। “ऋषुणां जूर्णिर्होत्र ऋषूणाम्” ऋ० १। १२७। १०। “जूर्णिः स्तुतिकुशलः” भा०।

जूर्त्ति = स्त्री ज्वर–भावे क्तिन् ऊठ्। ज्वरे।

जूर्य्य = त्रि० जूर–कर्त्तरि बा० ण्यत्। १ जीर्णे “रण्वः पुरीव जूर्य्यः” ऋ० ६। २। ७। “जूर्य्यः जीर्णः” भा० २ वृद्धे च।

जूष = बधे भ्वा० उभ० सक० सेट्। जूषति ते अजूषीत् अजूषिष्ट जूजूष षे। जूषः।

जूष = पुंन० यूष + पृषो०। मुद्घादिक्राथे भरतः।

जूषण = न० जूष–ल्यु। वृक्षभेदे (धाइफुल) शब्दच०।

जृ = न्थक्कारे भ्वा० पर० सक० अनिट्। जरति अजार्षीत्। जजार।

जृभ = जृम्भे (हाइतोला) गात्रशैथिल्ये च भ्वा० आत्म० अक० सेट् इदित्। जृम्भते अजृम्भिष्ट। जजृम्भे। “आत्मानमाधाय मधुर्जजृम्भे” कुमा० जृम्भा जृम्भः। जृम्भितः। “जृम्भते मुहुरासीना बाला गर्भभरालसा” सा० द०।

जृभ = जृम्भणे भ्वा० आ० अक० सेट्। जृभते अजृभिष्ट जजृभे। ईदित्। जृब्धः।

जृम्भ = पुंन० जृभि–भावे घञ् अर्द्धर्चा० (हाइतोला) १ गात्रशेथिल्यापादके २ मुखविकाशकारके च व्यापारभेदे। भावे अ। तत्रार्थे स्त्री। जृम्भा च श्रमगर्भादिजनितजाद्यकार्य्या यवाह सा० द० “आलस्यश्रमगर्भाद्यैर्जाड्यं जृम्भासितादि कृत्” तत्कारकवायुश्च देवदत्तः। “विजृम्भणे देवदत्तः शुद्धस्कटिकसन्निभः” पदार्थादर्शे योगार्णवः। “क्षुतोत्पतनजृम्भासु जीवोत्तिष्ठाङ्गुलिध्वनिः। मुरोरपि च कर्त्तव्यमन्यथा ब्रह्महा भवेत्” तिथित०। ३ विकाशे ४ विस्कारे च पु० शब्दच०। “पीत्वैकं श्वासमनिलः पुनस्त्यजति वेगवान्। आलस्यनिद्रायुक्तस्य स जृम्भ इति कथ्यते” “जृम्भात्यर्थं समीरणात्। जृम्भावेगे समुत्पन्ने शोभने शयने नरम्। स्वापयेत् तेन नियमात् जृम्भावेगः प्रशाम्यति। जृम्भावेगक्षयं याति कटुतैलेन मर्द्दनात्। भोजनात् स्वादुभोज्जानां तथा ताम्बूलभक्षणात्” वैद्यकम्।

जृम्भक = त्रि० जृम्भ–ण्वुल्। १ जृम्भाकारके २ रुद्रगणभेदे पु० “पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्। जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलक्षणैः। यात्यमोघो महायक्षो दक्षिणं पक्ष्माश्रितः” भा० व० २३० अ०। जुम्भयति जृम्भि–ण्वुल्। ३ कृशाश्वमुनितनये ४ तदधिष्ठिते अस्त्रभेदे च “कृशाश्वतनयरूपाण्यस्त्राणि विश्वामित्रेण रामाय दत्तानि तत्कथा रामा० बा० २८ अ०।

“संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः। सत्यवन्तं सत्यकीर्त्तिं धृष्टं रभसमेव च। प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्। लक्ष्यालक्ष्याविमौ चैवदृढनामसुनाभकौ। दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ। पद्मनाभौ महानाभौ दुन्दुनाभस्वनाभकौ। ज्योतिषं शकुनञ्चैव नैरास्यविमलावुभौ। यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा। शुचिबाहुर्महाबहुर्निष्कलिर्विरुचस्तथा। सार्चिमाली धृतिमाली वृत्तिमान् सचिरस्तथा। पित्र्यः सोमनसश्चैव विधूतमकरावुभौ। करवीरं रतिञ्चैव धनधान्यौ च राघव!। कामरूपं कामरुचिं मोहमावरणं तथा। जृम्भकं सर्पनाथं च पन्थानवरुणौ तथा। कृशाश्वतनयान् राम! भास्वरान् कामरूपिणः। प्रतीच्छ मम भद्रन्ते पात्रभूतोऽसि राघव!। बाढमिमित्येय काकुत्स्थः प्रहृष्टेनानतरात्मना। दिव्यभास्वरदेहाश्च मूर्त्तिमन्तः सुखप्रदाः। केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा। चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा। रामं प्राञ्जलयो भूत्वाऽव्रुवन् मधुरभाषिणः। इमे स्म नरशार्दूल! शाधि किङ्करवाम ते। गम्यतामिति तानाह यथेष्टं रघुननदनः। मनसा कार्थकालेषु साहार्य्यं मे करिष्यथ। अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम्। एवमस्तिति काकुत्स्थ मुक्त्वा जग्मुर्यथागतम्” २८ अ०। स्वार्थे क अत इत्त्वम्। ४ जृम्भायां स्त्री (हाइतोला) सा च इन्द्रवृत्तयोर्युद्धे इन्द्रे वृत्तग्रस्ते देवैः सृष्टा ततः प्रभृति लोकप्राणवायुसंस्था यथाह भा० उ० ८ अ० “तती जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम्। अपावृत्याक्षिपद् वक्त्रे शक्रं कोपसमन्वितः। ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदिवेश्वराः। असृजंस्ते महासत्त्वाजृम्भिकां वृत्तनाशिनीम्। विजृम्भमाणस्य ततो वृत्तस्यास्यादपावृतात्। स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलनाशनः। ततः प्रभृति लोकस्य जृम्भिकाप्राणसंश्रिता”।

जृम्भण = न० जृभि–भावे ल्युट्। (हाइतोला) १ गात्रशैथि- ल्यापादके २ मुखविकाशकारके च व्यापारभेदे। “मुहुर्मुहुर्जृम्भणतत्पराणि–“अङ्गान्यनङ्गः प्रमदाजनस्य करोति लावण्यरसोत्सुकानि” ऋतुसं० “जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः” भाग० ३। २०। ४२। जृमिणिच्–ल्यु। २ जृम्भणकारिणि ३ जृम्भकास्त्रे च “जृम्भणं नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः। हरं स जृम्भयामास क्षिप्रकारी महाबलः” हरिवं० १८४ अ०। “जृम्भणं पातनञ्चैव त्वाष्ट्रञ्चापि सुदारुणम्” २३४ अ०।

जृम्भिणी = स्त्री जृभि–णिनि। एलापर्ण्याम् शब्दच०।

जृम्भित = त्रि० जृभि–क्त। १ चेष्टिते २ प्रवृद्धे च भावे क्त। ३ जृम्भायां ४ स्फुटने हेमच० स्त्रीणां ५ करणभेदे न० मेदि०।

जॄ = जरायां दिवा० पर० अक० सेट् जीर्य्यति इरित्। अजरत् अजारीत्। जीर्णः षित्। जरा। घटादि०। जरयति। “या न जीर्य्यति जीर्य्यतः” नीतभा० जीर्य्यते रतृन्। जरन्। जजार। जरीता जीर्णः। “जरितॄणां सतां भुवां सूतये” बामदेव्यगानमन्त्रः।

जॄ = जरायां वा चुरा० उभ० पक्षे क्य्रादि० प्वादि० अक० सेट्। घटा०। जरयति ते अजीजरत् त। जृणाति। इरत् अजरत्–अजारीत्।

जेतृ = त्रि० जि–तृच्। जयशौले। “जीता नृभिः इन्द्रः पुत्रम्” ऋ० १। १७८। ३। “जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम्” रघुः। स्त्रियां ङीप्। २ विष्णौ पु०। “अनधो विजयो जेता” विष्णुस०। जयत्यतिशेते सर्वभूतानि” इति जेता” भा०।

जेतव्य = त्रि० जि–कर्मणि तव्य। जेये “जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके” अमरः।

जेत्व = त्रि० जि–वनिप् वेदे नि० दीर्घस्यापि तुक्। जेतव्ये। “अस्थामात्रे जयतु जेत्वानि” ऋ०। ४७। २६। “जेत्वानि जेतव्यानि” भा०।

जेन्ताक = न० स्वेदसेवनार्थं गृहभेदे (भापरालशोयार घर) तन्निर्मितिप्रकारोऽभिहितश्चरके यथा

“अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षैत। तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्रिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिने पश्चिमे वा सूपतीर्ये समसुविभक्त भूमिभागे सप्ताष्टौ वा अरत्नीनुपक्रम्योदकात् प्राङ्मुखमुदङमुखं वाभिमुखतीर्थं कूटागारं कारयेत्। उत्सेधविस्तारतः परमरत्नीः षोडश ससन्तात् सुवृत्तं मृत्- कर्म्मसम्प्रन्नमनेकवातायनम्। अस्य कूटागारस्यान्तः समन्ततो भित्तिमरत्नीविस्तारोत्सेधां पिण्डिकां कारयेत् कपाटवर्जम्। मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रपुरुषप्रमाणं मृण्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत्। तञ्च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्। स यदा जानीयात् साधुदग्धानि काष्ठानि गतभूतानि अवतप्तञ्च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चाष्मणा युक्तमिति तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत् प्रवेशयंश्चैनमनुशिष्यात्। सौम्य! प्रविश कल्याणायारोग्याव चेति। प्रावश्य चैनां पिण्डिकासविरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषाविमोक्तव्या आ प्राणोच्छ्वासात्। भ्रश्यमाने ह्यतः पिण्डिकावकाशात् द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणान् जह्याः तस्मात् पिण्डिकामेनां न कथञ्चन मुञ्चेथाः त्वं यदा जानीया विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघुभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति। ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्येथाः। निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः। अपगतसन्तापक्लमस्तु मुहूर्त्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीथाः” अस्य स्वेदार्थकता शब्दकल्पद्रुमे उक्ता चिन्त्या “भूगृहेषु च जेन्ताके कृष्णगर्भगृहेषु च। विधूमाङ्गारतप्तेष्वभ्यक्तः स्विद्यति ना सुखम्” इति आधाररूपगृहादिसाहचर्य्यात् गृहमेदस्यैवोपक्रमात्। उपसंहारे च इति जेन्ताकस्वेद इति कीर्त्तनं सप्तमीतत्पुरुषपरम्। इति जेन्ताकः स्वेद इति संविसर्गपाठोऽनाकरः।

जेन्य = त्रि० जि–जन + णिच्–वा बा० डेन्थ। १ जयशीले “अग्निर्यज्ञेषु जेन्यो न विश्पतिः” ऋ० १। १२८। ७। “जेन्यः जयशीलः” भा०। २ उत्पाद्ये च “जनिष्ट हि जेन्यो अग्रे अह्नाम्” ऋ० ५। १। ५। “जेन्य उत्पाद्यः” भा० ३ जेतव्ये च “दग्धं पयो वृषणा जेन्यावसू” ऋ० ७। ७४। ३। “जेन्यं वसु धनं ययोः। वेदे पूर्वपददीर्घः। “जेन्यावसू जेतव्यधनौ” भा०। “गतं देवेभिर्जेन्यावसू” ऋ० ८। ३८। ७।

जेमन् = त्रि० जि–मनिन्। १ जयशीले “उदन्यजेव जेमना मदेरू” ऋ० १०। १०६। ६। “जेमना जयशीलौ औस्थाने आच् छान्दसो दीर्घाभावः। लोके तु जेमा जेसानौ इत्येव। जेतुर्भावः इमनिच् तृणो लोपः। २ जेतुर्भावे जये च ३ जयसामर्थ्ये पु०। “जेमा च महिमा च मे” यजु० १८। ४।

जेमन = न० जिम–भावे ल्युट्। भक्षणे अमरः।

जेय = त्रि० जि–कर्म्मणि यत्। जेतव्यमात्रे अमरः। “देबैरजेया निर्ज्जिताश्चार्जुनेन। तदा नाशंसे विजयाय सञ्जय!” भा० आ० १ अ० “विगृह्य शत्रून् कौन्तेय! जेयः क्षितिपतिस्तदा” भा० आश्र० ६ अ०।

जेष = गतौ भ्वा० आत्म० सक० सेट्। जेषते अजेषिष्ट ऋदित् अजिजेषत् त। “अपां तोकस्य तनयस्य जेषे” ऋ० १। ११०। ११।

जेह = यत्ने भ्वा० आत्म० अक० सेट्। जेहते अजेहिष्ट। ऋदित् अजिजेहत् त। “पात्रमृभवो जेहमानम्” ऋ० १। ११०। ५ “जेहमानं प्रयतमानम्” भा०। निरुक्ते अस्य गतिकर्मतोक्ता “ददृशानपवेर्जेहमानस्य” ऋ० १०। ३। ६। क्वचित् व्याप्त्यर्थताऽपि “सुगेभिररेणुभिर्जेहमानं पतत्त्रि” ऋ० १। १६३। ६। “जेहमानं यज्ञदेशं व्याप्नुवत्” भा०। गत्यर्थकधातोः प्राप्त्यर्थकत्वात् प्राप्त्यर्थतापि। “ये तातृषुर्देवत्रा जेहमानाः” ऋ० १०। १५। ९। “जेहमानाः प्राप्ताः” भा०।

जै = क्षये भ्वा० पर० अक० अनिट्। जयति। अजासीत्। अओदित् जानः।

जैगीषव्य = पु० जीगीषोरपत्यं गर्गाः यञ्। योगविदि मुनिभेदे तत्कथा भा० श० ५१ अध्याये शा० पर्वणि च २३५ अ० दृश्या। “असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्” भा० शा० ११ अ०। स्त्रियां लोहिता० नित्यं ष्फ षित्त्वात् ङीष्। जैगीषव्यायणी।

जैत्र = त्रि० जेतैव जेतृ + प्रज्ञादि० अण्। १ जयशोले अमरः। २ पारदे पु० ३ औषधे न० राजनि०। “रणाय जैत्रः प्रदिशन्निव त्वराम्” किरा० “शरीरिणा जैत्रशरेण यत्र” माघः। “देवसूतभुजालम्बी जैत्रमध्यास्त राघवः” रथुः। ततश्चतुरर्थ्यां कर्णा० फञ्। जैत्रायणि जैत्रादूरदेशादौ त्रि०।

जैत्ररथ = त्रि० जैत्रो रथोऽस्य। जयशीले हला०।

जैत्री = स्त्री जेत्र्येव जेतृ + स्वार्थे अण् ङीप्। जयन्तीवृक्षे। शब्दर०।

जैन = पु० जिन एव, जिनोदेवतास्य वा अण्। १ अर्हति २ अर्हदुपासके च।

जैपाल = पु० जयपाल + पृषो०। जयपालवृक्षे द्विरूपकोषः

जैमिनि = पु० मुनिभेदे स च सामवेदे वेदव्यासशिष्यः यथाह भाग० १३। ६। ९। “साम्नां जैमिनये प्राह तथा छन्दो- गसंहिताम्” स च दह्र्ममीमांसां प्रणीतवान्। तच्च शास्त्रं द्वादशाध्यायात्मकम्। तत्प्रतिपाद्यविषयाश्चाधिकरणमालायां माधवाचार्य्येण संगृहीता यथा

“धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः। प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः। अधिकारोऽतिदेशश्च सामान्ये न विशेषतः। ऊहोऽबाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात्”। “लक्षणान्यध्यायाः। द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी। तादृशस्य द्वादशाध्यायोपेतस्य शास्त्रस्य धर्मो विषयः। प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः। तत्र प्रथमेऽध्याये विध्यर्थवादादिरूपं धर्मे प्रमाणं निरूपितम्। द्वितीये यागदानादिकर्मभेदः। तृतीये प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्। चतुर्थे गोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम् न तु क्रत्वर्थत्वप्रयुक्त्येत्ये वमादयः। पञ्चमे क्रमनियतिविधेयत्वादयः। षष्ठे कर्तुरधिकारो नान्धादेरित्यादयः। सप्तमे समानमितरच्छ्येनेनेत्यादिप्रत्यक्षवचनेनाग्निहोत्रादिनाम्तानुमितवचनेन च सामान्यतोऽतिदेशः। अष्टमे सौर्य्यं चरुं निर्वपेदित्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमित्यादिलिङ्गेनाग्नेयपुरोडाशेतिकर्त्तव्यतैव नान्यस्येत्येवमादिर्विशेषतोऽतिदेशः। नवमे प्रकृतावग्नयेजुष्टं निर्वपामीति पठिते मन्त्रे विकृतौ सौर्य्यचरावग्निपदपरित्यागेन सूर्य्य पदप्रक्षेपेण च सूर्याय त्वा जुष्टं निर्वपामीत्येवमाद्यूहः। दशमे कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासम्भवेव लोप इत्येवमादिर्बाधः। एकादशे बहूनामाग्ने यादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इत्यादि तन्त्रम्। द्वादशे प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन वश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः। पादानामसाधारणं विषयं दर्शथति” “विध्यर्थवादस्मृतयोनाम चेति चतुर्विधम्। प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम्” “प्रथमे पादे विधिरूपं मानमीरितम्। द्वितीयेऽर्थवादरूपम्। अर्थवादो मन्त्रस्याप्युपलक्षणम्। तृतीये स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति। चतुर्थे उद्मिच्चित्रादिनामरूपम्” “उपोद्ध्वातः कर्मभेदमानं तस्यापवादगीः,। प्रयोगभेद इत्योते वितीयाध्यायपादगाः”।

द्वितीयाध्यायस्य प्रथमे पादे आख्यातमेवापूर्वबोधकमपूर्वसद्भाव इत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घाती वर्णितः। द्बितीये धातुभेदपुनरुक्त्यादिभिः कर्मभेदः। तृतीये रथन्तरादीनां कर्मभेदप्रामाण्यापवादः। चतुर्थे नित्यकाम्ययोः प्रयोगयोर्भेदः”। “श्रुतिर्लिङ्गं च वाक्यादि विरोधप्र्तिपत्तयः। अनारभ्योक्तिबह्वर्थस्त्राम्यर्था अष्टपादगाः”। “तृतीयाध्यायस्य प्रथमे पादे शेषत्ववोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता। द्वितीये लिङ्गम्। तृतीये वाक्यप्रकरणादि। चतुर्थे निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः। पञ्चमे प्रतिपत्तिकर्माणि। षष्ठेऽनारभ्याधीतानि। सप्तमे बहुप्रधानोपकारकप्रयाजादीनि। अष्टमे याजमानानि”। “प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता। फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः”। चतुर्थाध्यायस्य प्रथमे पादे प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादिप्रधानप्रयोक्तृत्वं विचारितम्। द्वितीये त्वप्रधानं बत्सापाकरणं शाखाच्छेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्। तृतीये जुहूपर्णमयीत्वादेरपापश्लोकश्रवनादिफलभाबाभाबचिन्ता। चतुर्थे राजसूयगतजथन्याङ्गाक्षद्यूतादिचिन्ता”। “श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्द्यवर्धने। श्रुत्यादेर्बलता चेति पञ्चमाध्यायपादगाः”। “पञ्चमाध्यायस्य प्रथमे पादे श्रुत्यर्थपाठदिभिः क्रमो निरूपितः। द्वितीये बाजपेय गतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादि क्रमविशेषः। तृतीये पञ्चप्रयाजादीनामावर्त्तनेनैकैकश्यमित्यादिवृद्धिः। अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादि वृद्ध्यभावः। चतुर्थे क्रमनियामकानां श्रुत्यथैपाठा दीनां प्रबलदुर्बलभावः। “अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने। दीक्षा सत्त्रं देयवह्नी षष्ठे पादेष्वमीस्थिताः”। षष्ठाध्यायस्य प्रथमे पादे कर्माधिकारः कर्तुरस्त्यन्धादेर्नास्ति स्त्रिया अस्ति योऽस्ति स च पत्या सहेत्येवमादिनाधिकारी निरूपितः। द्वितीये सत्त्राधिकारिणां प्रत्येकं कृत्स्नं फलम्। दर्शपूर्णमासयोः कर्त्रैक्यनियमः। काम्यकर्म समापनींयमित्येव मादयोऽधिकारिधर्मा उक्ताः। तृतीये द्रव्यस्य प्रतिनिधिरस्ति। देवादीनामग्न्यादीनामधिकारिणश्च स नास्तीत्यादिना निरूपणम्। चतुर्थे पदार्थलोपनं विचारितम्। अवत्तनाशे सत्याज्येन यजेत। इडाद्यर्थनाशे सति शेषान्नं ग्राह्यमित्यादिकम्। पञ्चमे कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्। ज्योतिष्टोमस्यैकादयो दीक्षाः। द्वादशाहस्य द्वादशदिक्षा इत्यादि निरूपितम्। षष्ठे सत्राधिकारिणस्तुल्य कल्पा एव। सत्त्रं विप्रस्यैवेत्येवमादिकं चिन्तितम्। सप्तमे पुत्रादिकं न देयम् महाभूमिर्न देयेत्येवमादिर्देयविचारः। अष्टमे लौकिकाग्नाविपनयनहोमः, स्थपतीष्टिस्तथैवेत्येवमाद्यग्निविचारः कृतः”। “प्रत्यक्षोक्त्यतिदेशोऽस्य शेषः सामनिरूपणम्। नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः”। “सप्तमाध्यायस्य प्रथमे पादे समान्रमितरच्छ्येनेनेत्यादि प्रत्यक्ष वचनातिदेशः। द्वितीये रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः। तृतीयेऽग्निहोत्रनामातिदेशः। चतुर्थे निर्वापौषधद्रव्यादिलिङ्गातिदेशः”। “स्पष्टलिङ्गादथास्पष्टात् प्रबलादपवादतः। अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः”। “अष्टमाध्यायस्य प्रथमे पादे स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापस्तद्धितेन देवत्यानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमित्यादीनि स्पष्टान्याग्नेयलिङ्गानि। द्वितीये त्वस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा वाजिने हविःसामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम् शीघ्रं तद्बुद्ध्यानुत्पादनात्। तृतीये प्रबलेन लिङ्गेनातिदेशः। तद्यथा आभिचारिकेष्टावाग्नावैष्णवसारस्वतवार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रम्माग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदेवत्यत्वम् शब्दोच्चारणपात्रेण सहसा प्रतिभामात् क्रमस्तु विलम्बितप्रतीत्या दुर्बलः चतुर्थे दर्विहोमेष्वति देशोऽपोद्यते”। “ऊहारम्भोऽथ सामोहो मन्त्रोहस्तत्प्रबङ्गता। नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्त्तिताः”। “नवमाध्यायस्य प्रथमे पादे उपोद्दातपूर्वकमूहविधारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं ब्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरुपोद्धातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्थ्यूह इत्यादिकऊहविचारारम्भः। द्वितीये सपरिकरः सामोहः। तृतीये मन्त्रोहः। चतुर्थे मन्त्रोहप्रसङ्गा पतितो विचारः”। “द्वारलोपोऽस्य विस्तारः कार्यैकत्वं समुच्चयः। ग्रहसामप्रकीर्णानि नञर्थश्चाष्टपादगाः” “दशमाध्यायस्य प्रथमे पादे बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा स्वयंकृता वेदिर्भवतीत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीतरण्रूपस्य द्वारस्य लोपेनावधातस्य बाधः। द्वितीये संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः। तृतीये बाधकारणं कार्यैकत्वम्। तद्यथा प्रकृतौ गबाश्वादि दक्षिणाया ऋत्विक्परिक्रयः कार्य्यः। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपायास्तदेव कार्य्यम्। ततो धेन्वा गवाश्वादि दक्षिणा विकृतौ चोदकप्राप्ता बाध्यते। चतुर्थे नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्टहोमैः सह समुच्चीयन्त इत्यादि समुच्चयः। पञ्चमे षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्य इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः। षष्ठे साम तृचे गेयमित्यादिर्बाध प्रसङ्गागतः सामविचारः। सप्तमे पश्वङ्गेषु हविर्भेदः। गृहमेधील्यमपूर्वकर्मेत्यादिर्बाध प्रसङ्गागतः प्रकीर्णविचारः। अष्टमे नानुयाजेष्विति पर्युदासो न सोम इत्यर्थवादो नातिरात्र इति प्रतिषेध इत्यादिर्बाधोपयुक्तो नञर्थविचारः”। “उपोद्दातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः। आवाप विस्तृतिश्चैकादशाध्यायस्य पादगाः”। एकादशाध्यायस्य प्रथमे पादे तन्त्रस्योपोद्धातो वर्णितः। द्वितीये तन्त्रावापौ संक्षेपेणोक्तौ। तृतीये तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्। चतुर्थे तथैवावापः प्रपञ्चितः”। “प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने। द्वादशाध्यायपादार्था इति पादार्थसंग्रहः”। द्वादशाध्यायस्य प्रथभे पादे पशुधर्माणां पशुपुरोदाशे प्रसङ्गः सौमिकवेदेरुत्तरकालीनकर्भसु प्रसङ्गः इत्यादि विचारः। द्वितीये सचनीयपशोस्तन्त्रित्वम् न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी न प्रकृतिः अन्वारम्भणीया विकृतिष्पपि स्यात् न तु प्रकृतावेवेत्यादिविचारः। तृतीये त्वावाससोः समुच्चयः। अघारगतानृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन यवब्रीदोर्वकल्प इत्यादिकं समुच्चयापवादत्वेनेत्युभयं चिन्तितम्। चतुर्थेचैन्द्रावार्हस्पत्ययाज्यानुवाक्ययुगलयोर्विकल्प इत्यादिकं प्राधान्येन याज्यानुवाक्ययोः समु- च्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्। तदेवं द्वादशाध्यायगतेषु षष्टिसंख्यकेषु पादेषु प्रतिपाद्या अर्थाः संगृहीताः। ननु यथोक्तेभ्यः पादार्थेभ्योऽन्येऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याह”। “उपोद्धातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः। तत्तत्पादगतवेन विचारान्तरमुन्नयेत्” “यथोक्तपादपतिपाद्यादन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः कश्चिदपवादः कश्चित् प्रसङ्गपतितः कश्चिदनुप्रसङ्गपतित इत्येवं पादान्तर्भाव उन्नेयः”। जैमिनिश्च भारतान्तरं चकार तस्य जैमिनिभारतेति संज्ञा तन्नामस्मरणे च वज्रपातभयवारणं यथा “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च। पुलस्त्थः पुलहश्चैव पञ्चैते वज्रवारकाः” शब्दकल्पद्रुमधृतपुराणवाक्यात् “मुनेः कल्याणमित्रस्य जैमिनेश्चापि कीर्त्तनाह। विद्युदग्निभयं नास्ति पष्ठिते च गृहोदरे” इत्युक्तेरपि तत्कीर्त्तनस्य विद्युदग्निभयनिवारकता। तत इदमर्थे छ। जैमिनीय जैमिनिप्रणीतशास्त्रादौ। “जैमिनीये च वैयासे विरुद्धार्थे न कश्चन” सांख्यप्रवचनभाष्यधृतपराशरोपपु०। “जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम्” माधवः।

जैव = त्रि० जीवस्येदम् अण्। १ आत्मसम्बन्धिनि २ वृहस्पतिसम्बन्धिनि ३ तत्क्षेत्रे धनूरशौ मीनराशौ तदधिदेवताके ४ पुष्यनक्षत्रे। ५ तदीये पाते च “कृताद्रिचन्द्राः जैवस्य त्रिखाङ्काश्च भृगोस्तथा” सू० सि०।

जैवन्तायन = पुंस्त्री जीवन्तस्य गोत्रापत्यं वा फञ्। जीवन्तर्षेः गोत्रापत्ये। स च यजुर्वेदमचारकवंशान्तर्गतः। यथाह “जैवयन्तायनाच्च रैभ्याच्च रैभ्यः” शत० ब्रा० १४। ७। ३। २६ पक्षे इञ्। जैवन्ति तत्रार्थे स्त्रियां ङीप्।

जैवन्तायनि = त्रि० जोवन्तास्यादूरदेशादि कर्णा० चतुरर्थ्यां फिञ्। जीवन्तस्यादूरदेशादौ।

जैवलि = पु० जीवलस्य राज्ञेऽपत्यम् इञ्। जीवलनृपापत्ये प्रबाहणे “तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालापत्य! साम” छा० उ०।

जैवातृक = पु० जीवयत्यनेन लोकं जीवनि वा आतृ–कन्वृद्धिश्च। १ चन्द्रे २ कर्पूरे अमरः। ३ पुत्रे संक्षिप्तसा०। ४ औषधे हेम० ५ दीर्घायुष्के त्रि० मेदि०। “जैवातृक! ननु श्रूयते पत्रिरस्याः मिथिलायां प्रहारवर्मासीत्” दशकु०।

जैवि = त्रि० जीवस्यादूरदेशादि सुतङ्गमा० चतुरर्थ्याम् ञि। जीवस्यादूरदेशादौ।

जैवेय = पुंस्त्री जीवस्य गुरोरपत्यं शुभ्रा० ढक्। जीवस्यापत्ये कचनामके मुनौ। जीवाया मौर्व्या इदम् स्त्रीत्वात् ढक्। २ ज्यासम्बन्धिनि त्रि०।

जैह्माशिनेय = पु० जिह्माशिनोऽपत्यं शुभ्रा० ढक् दाण्डिना० नि० टिलोपः। जिह्माशिनोऽपत्ये।

जैह्म्य = न० जिह्मस्य भावः ष्यञ्। कौटिल्ये। “जैह्म्यञ्च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम्” मनुः। “निषिद्धभक्षणं जैह्म्यमुत्कर्षश्च वचोऽनृतम्। रजस्वलामुखास्वादः सुरापानसमानि तु” याज्ञ०।

जोङ्ग = न० जुङ्ग्यते वर्ज्यते जुगि–वर्जने कर्मणि अप् पृषो०। कालीयके गन्धद्रव्यभेदे हारा०।

जोङ्गक = न० जुगि–ण्वुल् पृषो०। अगुरुचन्दने अमरः।

जोङ्गट = पु० जुगि–अटन् पृषो०। गर्भिण्या अभिलाषे दोहदे (साद) हारा०।

जोटिङ्ग = पु० जुट–इन् जोटिं गच्छति बा० ड खिच्च। १ महादेवे २ महाव्रतिनि च त्रिका०।

जोड = पु० जुड–बन्धने घञ्। बन्धने। जहिजोडम् सि० कौ०।

जोन्ताला = स्त्री जु–वुच् तस्यान्तमालाति आ + ला–क। देवधान्ये हेमच०।

जोष = पु० जुष–भावे घञ्। १ प्रीतौ २ सेवने च “को वां जोष उभयोः” ऋ० १। १२०। १। ३ सुखे न० शब्दर०।

जोषण = न० जुषी–प्रीतिसेवनयोः भावे ल्युट्। १ प्रीतौ २ सेवने च। स्वार्थे णिच्–भावे युच्। तत्रार्थे स्त्री “उत्तरे निगमाः यथेष्टं जोषणा श्रुतेः” कात्या० श्रौ० ५। १२। १६।

जोषम् = अव्य० जुष–बा० अमु। १ तूष्णीमित्यर्थे “इति जोषमवस्थितं द्विषः” माघः। २ सुखे च अमरः।

जोषा = स्त्री जोषयति जुष–णिच्–अच्। १ योषिति शब्दर० “चन्द्रेण जुधातोः सप्रत्ययान्तयाऽयं व्युत्पादितः” उज्ज्वलदत्तः।

जोषिका = स्त्री जु–स संज्ञायां कन्। १ जालिकायां शब्दर०। २ योषिति च।

जोषित = स्त्री जुष “हृसृरुहिजु(षि)युषिभ्यः” उणा० इति। स्त्रीमात्रे शब्दर०। हलन्तत्वात् वा टाप्। जोषिताऽपि तत्रार्थे शब्दर०।

जोष्टृ = त्रि० जुप–तृच् वेदे बा० इडभावः। सेवके। “उपेनमस्थुर्जोष्टारः” ऋ० ४। ४१। ९। “जोष्टारः सेवकाः” भा०। लोके तु जोषितृ इत्येव।

जौमर = न० जुमरेण निवृर्त्तः अण्। १ जुमरनन्दिकृते संक्षिप्तसाराख्ये व्याकरणे २ तदध्येतरि त्रि०।

जौलायन = पु० जुलस्यापत्यम् इञ् तत्र इञन्तत्वात् यूनि फञ्। जुलस्य यून्यपत्ये। ततः ऐषुकार्य्या० विषयार्थे भक्तल्। जौलायनभक्त तदीयविषये त्रि०।

जौहव = त्रि० जुह्वामवदाने योग्यम् जुहू–अण्। जुहूपदार्थेऽवदानयोग्येषु हृदयादिषु “हृदयं जिह्वां क्रोडं सव्यसक्थिपूर्वनडकं पार्श्वे यकृद्वुक्कौ गुदमध्यं दक्षिणा श्रोणिरिति जौहवानि” कात्या० श्रौ० ६। ७। ६। “जुह्वामवदानयोग्यानि प्रधानयागसाधनानि” कर्कः।

***