जि = जो अभिभवे भ्वा० पर० सक० अनिट्। जपति अजेषीत् जिगाय जिग्यतुः जिगयिथ जिगेथ। जेता जीयात् जेप्यति। जापयति–ते अजीजपत् त। जिगीषति। जेता जयी जितः जयः। “जयत्यतिवनो राभोलक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राधवेणानुप कितः” रामा० बहुकृत्वः प्रयोगः। “भर्वद्रव्याणि कुप्यञ्च यो यज्जयात तस्य तत्” मनुः। “दुर्य्योघनो द्रौपदि! त्वामगै- षीत्” भा० स० ६५ अ०। “जिगाय तस्य हन्तारं स रामः सार्बलौकिकः” भट्टिः “गर्जितानन्तरां घृष्टिं सौभाग्येन जिगाय सा” कुमा०। “जीयात् पण्डितगर्वपर्वतपविः श्रीवोपदेवकविः” मुग्धगो० अस्य तुबन्तुस्थाने तिवन्ती। जयति जयन्ति। “जयति जयति देवः” नाटकेषु वहुस्थाने कञ्चुकाद्युक्तिः। “नवरसरुचिरां निर्मिति मादधतो भारती कवेर्जयति” काव्यप्र०। जयश्च सर्वेभ्य उत्कर्षस्तेन स्वापेक्षयाप्युत्कर्षबोधनात् तस्य नमस्कारव्यञ्जकता यथाह काव्यप० “जयत्यर्थेन च नमस्कार आक्षिप्यते इति तामस्वि प्रणत इति”। अभिभवपूर्वकग्रहणे अयं द्विक०। दुह्याच् पज्दण्ड् रुधि प्रच्छि चिब्रू शासु जिमन्ध् मुषाम्। कर्मयुक् स्यादकथितन्तथा स्यान्नीहृकृष्वहाम्” इत्युक्तेः। शतं जयति देवदत्तम्” सि० कौ० “इन्द्रं वाजं जापयत” यजु० ९। ११। “यदि त्यध्वर्य्यव आजिं जापयेयुः” आश्व०। ९। ८। “इमाञ्च पृथिवीं कृत्स्मामेकाह्रा स व्यजीजपत्” भा० द्रे० ६२ अ० स्वार्थे णिच्। व्यजीजयत् इति षटि पुगभाव आर्षः। “गतिं जिरोषतः मादौ रुरुहातेऽपिकामिकाम्” भाग० २। १०। २५। “अगाहताष्टादशतां जिगोषया” नैष०। जेगीयते। कर्मणि अजीयत अजायि। “प्रागजीयत घृणा ततो मही” रघुः।अति + अतिशयेन जये “विराडियं सुपजा अत्यजैषीत्” अथ० १४। ३। ७४।वि + अति परस्परजये आत्म०। “व्यतिजिग्ये समुद्रोऽषि न धैर्य्यं तस्य गच्छतः” भट्टिःअधि + आधिक्येम जये “सपत्नांश्चाधिजोयास्म” भट्टिः।अनु + अनुरूपजये पश्चाज्जये च। “कौशल्योऽन्वजयत् महोम्” भा० शा० ३। २४ अ०।अमि + आभिमुख्यन जये। “ते चान्द्रमसमेव लोसमभिजयन्ति” प्रश्नो पु० १ अधिगमे च “वेदश्रुतिभिराख्यानैरर्थानधिजिगोषति” भा० शा० ८४६५।अव + अधरीकृत्य जये। “शरैर्पिध्वस्य तांश्चौरानवजित्य च तद्धनम्” भा० आ० ७७६। “अवजित्य सुशर्झाणं धनं चादाय सर्वशः” भा० वि० ३३ अ०।परा + पराक्रमपूर्वकजये आत्म०। पराजयते। “खं पराजयमानोऽसावुन्नन्या पवनात्मजम्” भट्टिः। “पराजितेनापि कृतौ हरस्य” कुमा०। ग्लानौ अक० तत्र “पराजेरसोढः” पा० सहार्थस्यापाद्यनता। “अध्ययनात् पराजयते ग्लायतीत्यर्थः सि० कौ० “तां पराजयुमानां सा प्रीते रक्ष्यां दशाननात्” भट्टिः।प्रति + प्रतिरूपजये। “अजाविकं मायया प्रत्यजैषीत्” भा० द्रो० १३५७ श्लो०। “वय प्रतिजिगोपन्तस्तत्र तान् समभिद्रुताः” ४३७६ शो०।वि + विशेषेण जये आत्म० बिजयते। “येब देवान् मनुष्यांञ्च पार्थो विजयते मृधे” भा० वि० १३४५ श्लो०। “जगादाद्रिर्विजषीष्ठाः। “दैत्यं कुलं विजिग्ये” भट्टिः

जि = त्रि० ज्या + वा० कि। १ क्षयशीले २ पिशाचे पु० एकाक्षरको०।

जिकन = पु० स्मृतिनियन्धकारके विद्वद्भेदे।

जिगत्न = पु० गम–क्त्नु सन्वच्च। प्राणवायौ उज्ज्वलद०।

जिगर्त्ति = पु० गॄ–बा० ति द्वित्वञ्च। आच्छादके। “जिगर्त्तिमिन्द्रो अपजर्गुराणः” ऋ० ५। वृ ९। ४ “जिगर्त्तिं गरन्तमाच्छादयन्तम्” भा०।

जिगीषा = स्त्री जि–सन् भावे अ। १ जयेच्छायां, २ प्रकर्षे, ३ उद्यमे च मेदि०। “वेवस्वत जगीषया” रघुः। “अगाहताष्टादशतां जिगीषया” नैष०।

जिघत्नु = पु० जिघांसु + पृषो०। जिघांसौ। “यो न सनुत्य उत वा जिघत्नुः” ऋ० २। ३०। ९। “जिघत्नुर्जिथांसुः” भा०।

जिघत्सा = स्त्री अत्तुमिच्छा अद–सन् घसादेशः भावे अ। १ भोजनेच्छायां २ क्षुधायां हेमच०।

जिघत्सु = त्रि० अचुमिच्छति अद–सन्–षमादेशे उ। क्षुधितेश्वमरः।

जिघांसु = त्रि० हन–सन्–उ। हननेच्छो “प्रशान्तचेष्टं हरिणं जिथांसुः” भा० २ रिपौ पु० हेमच०।

जिघृक्षा = स्त्री ग्रह–सन् भावे अ। ग्रहणेच्छायां “पदुरपि प्रियकण्ठजिघृक्षया” रघुः।

जिघ्र = त्रि० घ्रा–कर्त्तरि श जिघ्रादेशः। घ्राणकर्त्तरि “स्वामी निश्वमितेऽप्यसूयति मनोजिघ्रः सपत्नीजनः” सा० द० “अ तिघैः पुष्पगन्धानां पतङ्गैर्ग्लपिता वयम्” भट्टिः।

जिङ्गिनी = स्त्री जिगि–गतौ णिनि। (झिङ्गी) लतायां भावप्र० “जिङ्गिनीं मवुरोष्णा च कषाया योनिशोधिनी। कटुका व्रणहृद्रोगवातातीसारहृत् पटुः” भावप्र०

जिङ्गी = स्त्री जिगि–गतौ अच् गौरा० ङीष्। मञ्जिष्ठायामृअमरः।

जिज्ञासा = स्त्री ज्ञा–भावे अ। १ ज्ञातुमिच्छायां २ तदर्थविचारं च। “अथातो धर्म्मजिज्ञासा” जै० सू०। “अथातो ब्रह्मजिज्ञासा” शा० सू०। उभयत्र विचारार्थकताकरे दृश्या “दुःखत्रयाभिधातात् जिज्ञासा तदवथातके हेतौ” सां० का०।

जिज्ञासु = त्रि० ज्ञातुभिच्छुः ज्ञा–सन्–उ। १ ज्ञातुमिच्छौ २ मुनुक्षौ च “चतुर्विधा भजन्तेमाम्–“आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ!” गीता।

जिज्ञास्थि = न० अस्थ्। जिज्ञासा राजद० परनि० सालोपश्च। अस्थिजिज्ञासायाम्।

जित = त्रि० जि–क्विप्। जेतरि। “मारजित् लोकजिज्जिनः” अमरः “स्वर्जिता यजेत” “विश्वजिता यजेत” श्रुति। “यजेत वाश्वमेधेन स्वर्जिता गोषवेन वा” मनुः

जित = त्रि० जि–कर्म्मणि क्त। १ एराजिते २ पराभूते। भावे क्त। ३ जये न०। तदस्यास्ति अच्। ४ अर्हदुपासकभेदे पु० हेमच०।

जितकाशि = पु० जितः अभ्यासपटुतया दृढीकृतः काशिः मुष्टिर्येन। दृढमुष्टौ योधभेदे नीलकण्ठः।

जितकाशिन् = त्रि० जितेन जयेन काशते प्रकाशते काशणिनि। १ जिताहवे, जयिनि हेमच०। “अनिरुद्धो रणे बाणो जितकाशी महाबलैः” हरिवं० १७७ अ०।

जितक्रीध = त्रि० जितः क्रोधो येन। १ क्रोधशून्ये ३ विष्णौ पु०। “मनोहरो जितक्रोधो वीरबाहुर्विदारणः” विष्णुसं० “वेदमर्य्यादां स्थापयन् असुरान् हन्ति न तु कोपवशात्” भाष्योक्तेः तस्यास्यासुरहननाय न कोपः किन्तु वेदमर्य्यादारक्षार्थ एवेति न तस्य कोपशालितेति बोध्यम्। जितमन्युरयुभयत्र। “अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः” विष्णुस०।

जितनेमि = पु० जिता नेमिरत्र। आश्वत्थदण्डे हेमच०

जितलोक = त्रि० जितः आयत्तीकृतः कर्म्मादिद्वारा लोकः स्वर्गादिर्येन। इष्टापूर्त्तादिकर्म्मभिः आयत्तीकृतस्वर्गादिलोके धार्म्मिके “स एकः पितॄणां जितलोकानामा-

अथ ये शतं पितॄणां जितलोकानामाननन्दः शत० ब्रा० १४। ७। १। ३३। “पितॄणां दक्षिणमार्गानुयायिनाम् आद्धपिण्डपितृयज्ञादिकर्मभिः पितृतोषणद्वारा जितो लोको यैस्ते यद्वा जिता लोका येषामिति जितलोकाः” भा०। २ अभिभूतलोके त्रि०।

जितवत् = त्रि० जि + क्तवतु। १ कृतजये स्त्रियां ङीप् सा च उशीनरनृपस्य २ कन्यायाम्। “अस्ति मे मानुषे लोके नरदेवात्मजा सखी। नाम्ना जितवती नाम रूपयौवनशालिनी। उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः। दुहिता कथिता लोके मानुषे रूपसम्पदा” भा० आ० ९९ अ०

जितव्रत = त्रि० जितमायत्तीकृतं व्रतं येन। १ आयत्तीकृतव्रते पृथुवंश्ये २ हविर्द्धानपुत्रभेदे पु० “हविर्धानाद्धविर्धानी विदूरासूत षट् सुतान्। बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम्” भाग० ४। २३। ८।

जितशत्रु = पु० जितः शत्रुर्येन। १ पराजितरिपुके रिपुजयकर्त्तरि। २ अर्हतां पितृभेदे पु० हेमच०।

जिताक्षर = त्रि० जितानि आयत्तीकृतानि अक्षराणि शीघ्रं तद्वाचनपाटवादि येन। दृष्टिमात्रेण अक्षरवाचनशक्तियुक्ते।

जितात्मन् = त्रि० जितो वशीकृत आत्मा इन्द्रियं मनो वा येन। १ जितेन्द्रिये। २ श्राद्धभागार्हे देवभेदे पु० कीर्त्तिमच्छब्दे २०६१ पृ० दृश्यम्।

जितामित्र = त्रि० जितः अमित्रो येन। १ शत्रुपराजयकर्त्तरि २ जितकामादिरिपुके च। ३ विष्णौ पु० शब्दरत्ना० “अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः” विष्णुस० “जिता अमित्रा आभ्यन्तरा रागद्वेषादयो बाह्या रावणादयश्च येनासौ जितामित्रः” भा०।

जितारि = पु० जिता अरयो आभ्यन्तरा रागादयो बाह्याश्च रिपवो येन। १ बुद्धे त्रिका० २ वृत्तार्हत्पितरि हेमच० ३ जितशत्रौ शत्रुजयकारिणि ४ कामादिरिपुजयकर्त्तरि च त्रि० ५ अविक्षितो नृपस्य पुत्रभेदे पु० “अविक्षितः परिक्षित्तु शबलाश्वश्च वीर्य्यवान्। आदिराजो विराजश्च शाल्मलिश्च महाबलः। उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः” भा० आ० ९४ आ०।

जिताष्टमी = स्त्री आश्विनकृष्णाष्टम्यां जीमूतवाहनपूजाद्यङ्गभूतायां जीभूताष्टम्यां तत्र कर्त्तव्यमुक्तं चमत्कारचि० भविष्योत्तरे “इषेमास्यसिते पक्षे अष्टमी या तिथिर्भवेत्। पुत्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्रिका। शालिवाहनराजस्य पुत्रो जीमूतवाहनः। तस्यां पूज्यः स नारीभिः पुत्रसौभाग्यलिप्सया। प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः। पुष्करिणीं विधायाथ प्राङ्गणे चतुरस्रिकाम्”। विष्णुधर्म्मोत्तरे “पूर्वेद्युर परेद्युर्वा प्रदोषे यत्र चाष्टमी। तत्र पूज्यः सदा स्त्रीभिः राजा जीमूतवाहनः”। तथा च यद्दिने प्रदोषव्यापिनी अष्टमी तत्रैव व्रतम्। उभयदिने चेत् परदिने त्रिसन्ध्यव्यापित्वात्। उभयदिने प्रदोषाव्याप्तौ उदयगामिन्यां तदुक्तं निर्णयामृतसिन्धौ “लक्ष्मी व्रतं चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विनकृष्णपक्षे। तत्रोदयं वै कुरुते दिनेश! तदा भवेज्जीवितपुत्रिका सा” इति अस्यामष्टम्यां स्त्रीभिर्न भोक्तव्यम् “आश्विमम्यासिताष्टम्यां याः स्त्रियोऽन्नं हि भुञ्जते। मृतवत्सा भवेयुस्ता वैधव्यञ्च भवद्ध्रुवम्” वचनात्।

जिताहव = पु० जितः शत्रुराहवे येन। जितकाशिनि हेम०।

जितेन्द्रिय = त्रि० जितानि वशीकृतानीन्द्रैयाणि येन। यथेष्टमिन्द्रियप्रचारप्रतिरोधिनि १ वशीकृतेन्द्रिये “श्रुत्वा स्पृष्ट्वाथ दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः। न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः” मनूक्ते हर्षविषादशून्ये २ शान्ते जने। इन्द्रियजपश्च शौचकार्य्यः आत्मदर्शनयोग्यत्वे च हेतुः। यथोक्तं पात० सू० भा०

“सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च” पात० सू०। “भवन्तीति वाक्यशेषः शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्वस्य भवतीति। एतच्छौचस्थैर्य्यादधिगम्यत इति” भा०। २ कामवृद्धिवृक्षे पु० शब्दार्थचि०।

जितु(त्त)म = मिथुनराशौ “क्रियतावुरि जितु(त्त)म कुलीरलेय–पाथेय–यूककौर्पाख्याः। तौक्षिकआकोकेरो हृद्रोगश्चान्त्यभं चेत्थम्” ज्यो० त० मेषादिसंज्ञोक्तौ। अतिशयेन जित् जित्तम २ अतिशयजययुक्ते त्रि०।

जित्या = स्त्री जि–क्यप्। वृहद्धले कृष्टभूमिसमीकरणार्थं काष्ठमयपदार्थभेदे

जित्वन् = त्रि० जि–क्वनिप्। जयशीले। ततः कर्णा० चतुरर्थ्यां फिञ्। जैत्वनायनि जित्वनोऽदूरदेशादौ।

जित्वर = त्रि० जि–क्वरप्। जयशीले “सुराध्वरे घस्मरजित्वरेण” “शस्त्राण्युपायपायंसत जित्वराणि” भट्टिः “करदीकृतभूपालो भ्रातृभिर्जित्वरैर्द्विषाम्” माघः। क्वरपः टिड्ढाण ञित्यादि” पा० सूत्रे पाठात् स्त्रियां ङीप्। मुग्ध० मते क्ष्वरप् षित्त्वात् ईप् इति भेदः। सा च २ काशीपूर्य्यां त्रिका०।

जिन = पु० जि–नक्। १ बुद्धे अमरः २ अर्हन्नामबौद्धभेदे ३ विष्णौ च हेमच०। ४ अतिवृद्धे उणा०। ५ जित्वरे त्रि० मेदि०। तस्येदमण्। जैन जिनसम्बन्धिनि त्रि० “हस्तिना पीड्यमानोऽपि न गच्छेज्जैनमन्दिरम्”। तदीयमते च तच्च अर्हच्छब्दे ३८२ पृ० दर्शितम्।

जिनसद्मन् = न० ६ त०। जिनगृहे चैत्ये विहारे हेमच०।

जिनेन्द्र = पु० जिनानामिन्द्रः जिन इन्द्र इव वा। १ वुद्धे हला० २ व्याकरणकारके विद्वद्भेदे च। स्वार्थे अण्। तत्रार्थे “पाणिन्यमरजेनेन्द्राः जयन्त्यष्टादिशाब्दिकाः” कविकल्पद्रुमः।

जिनेश्वर = पु० ६ त०। बुद्धे हेमच०।

जिम = भक्षे भ्वा० पर० सक० सेट्। जेमति अजेभात्। उदित् जेमित्वा जान्त्वा जितः। “जेमनं लेप आहारः” अमरः

जिरि = हिंसायां स्वा० पर० सक० सेट्। जिरिणोति अजिरायीत्। अयं वैदिकः।

जिल्लिक = पु० दक्षिणस्थे देशभेदे, सोऽभिजनोस्य अण्। तस्य राजा वा अण्। जैल्लिक पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च बहुषु तस्य लुक्। तद्देर्शवासिषु तन्नृपेषु च ब० व०। “जिल्लिकाः कुन्तलाश्चैव सौहृदाननकाननाः” भा० स० ९ अ०।

जिव = प्रीणने भ्वा० पर० सक० सेट् इदित्। जिन्वति अजिग्वीत् जिजिन्व इदित्त्वात् नोपधालोपः जिन्व्यते। “भूभिं पर्ज्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः” ऋ० १। १६४। ५१। “इन्द्रेण जिन्वितो मणिरागमन्” अथ० ९। ३१। ७। “रश्मिरसि क्षयस्य क्षयं जिन्व सवितृप्रसूती” ताण्ड्य० ब्रा० १। ९। “अपां रेतांसि जिन्वति” ऋ० ८। ४४। १६। “यदा त्वं प्राण! जिन्वसि” ११। ४। १४। वृद्धौ च अक०। वेदे अस्य क्वचित् आत्म० “स जिन्वते जठरेषु प्रजज्ञीरन्” ऋ० ३। २। ११। “जिन्वते वर्द्धते” भा०। वेदे नमध्यस्यैव प्रयोगात् शब्दकल्पद्रुमे अन्त्यस्थवान्तस्थले तस्य निवेशनात् जिम्बतीति प्रयोगदर्शनाच्च अओष्ठ्यत्वभ्रान्त्या मत्कृतशब्दस्तोममहानिधौ जिम्बतीति औष्ठ्यान्ततया रूपप्रदर्शनं प्रामादिकमेब। कविकल्पद्रुमे अन्तःस्थवान्तमध्यं पाठात् धिविधातोरिव न मध्यत्वस्योचितत्वात्।

जिवाजिव = पुंस्त्री जीवञ्जीव + पृषो०। चकोरखगे शब्दर० जातित्वात् स्त्रियां ङीष्।

जिव्रि = पु० जॄ–रिक् रस्यवः। १ समये २ खगे च सि० कौ०।

जिष = सेके भ्वा० पर० सक० सेट्। जेषति अजेषीत्। उदित् जेषित्वा जिष्ट्वा। जिष्टः।

जिष्णु = पु० जिष–ग्स्नु। १ विष्णौ हेमच० २ इन्द्रे २ अर्ज्जुने च ३ जेतरि त्रि० मेदि०। तत्रार्ज्जुने जयशीले च। “यमुनाह्रदोपरिगंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम्” “भूभुजश्च परलोकजिष्णवः” माघः “अहं दुरापो दुर्द्धर्षो दमनः पाकशासनिः। तेन देवमनुष्येषु जिष्णुनामाऽस्मि विश्रुतः” भा० वि० ४४ अ०। इन्द्रे “जयंश्च जिष्णुश्चामित्रा~आ जयतामिद्रमेदिनौ” अथ० ११। ९। १८। विष्णौ “विष्णुर्विक्रमणाद्देवो जयनात् जिष्णुरुच्यते” भा० उ० ६९ अ०। जिष्णुनामनिरुक्तौ।

जिह्म = त्रि० हा–मन् सन्वत् आलोपश्च। १ कुटिले २ मन्दे ३ तगरवृक्षे न० मेदि०। “सस्मितजिह्मवीक्षितैः” ऋतुसं०। “जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्थेन कारयेत्” याज्ञ०। “सुहृदर्थमाहितमजिह्मधियाम्” माघः ४ कपटे न०। “तदाशु कर्त्तुं त्वयि जिह्ममुद्यते” किरा० “जिह्मं कपटम्” मल्लि०। ५ पिहिते त्रि० “जिह्मवारमपोर्णुत” ऋ० ८। ४। ५। “जिह्मवारं पिहितद्वारम्” भा०। ६ अधस्ताद्वर्त्तमाने च। “उच्चाबुध्नं चक्रतुर्जिह्मवारम्” ऋ० १। १११६। ११। “जिह्ममधस्ताद्वर्त्तमानम्” भा०। ७ अप्रसन्ने च। “विधिसमयनियोगाद्दीप्तिसंहारजिह्मम्” किरा० “जिह्ममप्रसन्नम्” मल्लि०।

जिह्मग = पुंस्त्री जिह्मं कुटिलं मन्दं वा गच्छति गम–ड। १ सर्पे स्त्रियां जातित्वात् ङीष्। २ मन्दगे त्रि० मेदि० स्त्रियां टाप्। “व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः” “स दृष्ट्वा जिह्मगान् सर्वांस्तीब्रकोपसमन्वितः” भा० आ० ९ अ०।

जिह्ममेहन = पुंस्त्री जिह्मं मन्दं मेहति मिह–ल्यु। भेके शब्दर० स्त्रियां जातित्वात् ङीष्।

जिह्मशल्य = पु० जिह्मं कुटिलं शल्यमस्मात्। खदिरवृक्षे जटा०

जिह्माशिन् = त्रि० जिह्मं मन्दमश्नाति अश–णिनि। मन्दभोजिनि ततः अपत्ये शुभ्रा० ढक्। जैह्माशिनेय तदपत्ये प० स्त्री।

जिह्वल = त्रि० ह्वल–अच् बा० सन्वच्च जिह्वं जिह्वाव्यापारं लाति ला–क वा। भोजनलोलुपे। “श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये च जिह्वलाः। एतन्ति नरके घोरे लुप्तपिण्डोदकक्रियाः” श्रा० त०।

जिह्वा = स्त्री लेढ्यनया लिह–स्वादे व “शेवयह्वजिह्वेत्यादिना” नि०। १ रसास्वादकरणे इन्द्रियभेदे २ तदधिष्ठाने गोलके (जिव) ख्याते पदार्थे च। तदिन्द्रियस्य जलीयत्वं मि० मु० समर्थितं यथा “रसनं जलीयं गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसव्यञ्जकोदकवत् रसनसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वे सतीति विशेषणीयम्। तस्याधिष्ठातृदेवता च प्रचेताः “दिग्यातार्कप्रचेऽश्वीत्यादि” शा० ति० उक्तेः। अग्नेर्जिह्वाश्च सप्त तन्नामानि “काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वरूपी च देवी लोलाय माना इति सप्त जिह्वाः” मुण्डकोप०। “तस्याः कफादिदोषात् लक्षणादिकं भाव० प्र० दर्शितं यथा “शाकपत्रप्रभा रूक्षा स्फुटिता रसनाऽनिलात्। रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला कफात्। परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके। सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा” अस्य क्लीवत्वं भरत आह स्म। जिह्वलः। इन्द्रिय प्ररत्वे तथात्वमिति तु युक्तम्। ३ वाक्ये निघण्टुः

जिह्वाजप = पु० जिह्वया जपः। “जिह्वाजपः स विज्ञेयो केवलं जिह्वया बुधैः” तन्त्रसारोक्ते जपभेदे। “उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशंभिर्गुणैः। जिह्वाजपः शतगुणः साहस्रो मानसः स्मृतः” तन्त्रसा० तत्फलमुक्तम्।

जिह्वानिर्लेखन = न० जिह्वा निर्लिख्यतेऽनेन निर् + लिखकरणे ल्युट्। (जिव आचडान) द्रव्यभेदे तल्लक्षणं यथा

“जिह्वानिर्लेखनं हैम राजतं ताम्रजं तथा। पाटित मृदु तत्काष्ठं मृदुपत्रमयं तथा। तत्काष्ठं दन्तधावनयोग्यकाष्ठम्। दशाङ्गुलं मृदु स्निग्धं तेन जिंह्वां लिखेत् सुखम्। तज्जिह्वामलवैरस्यदौर्गन्ध्य जडताहरम्” भाव० प्र०।

जिह्वाप = पु० स्त्री जिह्वया पिबति पा–क। १ कुक्वुर २ व्याघ्रे ३ विडाले ४ भल्लूके च शब्दरत्नावली ५ चित्रकव्याघ्रे विश्वः। स्त्रियां जातित्वात् सर्वत्र ङीष्।

जिह्वामल = ६ त०। जिह्वास्थितमले कुलुके त्रिका०।

जिह्वामूल = न० ६ त०। जिह्वाया मूले। तत्र भवः छ। जिह्वामूलीय अयोगवाहान्तर्गतवर्णभेदे। “जिह्वामूलीयस्य जिह्वामूलम्” सि० कौ०। स च कखयोः परयोः विसर्गस्थाने जातः। कवर्गे च “जिह्वामूले तु कुः प्रोक्तः” शिक्षायां कवर्गस्य जिह्वामूलस्थानत्वोक्तेस्तथात्वम्।

जिह्वारद = पु० स्त्री० जिह्वा रद इव यस्य। पक्षिणि हारा० तस्य जिह्वाया एव दन्तकार्य्यकारित्वात्तथात्वम्। स्त्रियां जातित्वात् ङीष्।

जिह्वारोग = पु० मुखरोगान्तर्गतजिह्वागतरोगभेदे। तल्लक्षणादि भावप्र० उक्तं यथा। “वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः। उपाजह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः। तत्र वातजस्य लक्षणमाह। जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा। स्फुटिता मनाग्विदीर्णा। प्रसुप्ता रसानभिज्ञतया सुप्तेव। शाकच्छदनप्रकाशा शाको मरुभूमि जातो द्रुमः तद्वत् कण्टकाचिता। पित्तजमाह। पित्तात् सदाहैरुपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च। कफजमाह। कफेन गुर्वी बहुलाचिता च मांसोच्छ्रयैः शालमलिकण्टकाभैः। बहुला स्थूला। मांसोच्छयैः मांसजकण्टकैः। अलासमाह। जिह्नास्थले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः। जिह्वां सरुक स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम्। प्रगाढः प्रकर्षेण गाढो दारुणः। कफरक्तमूर्त्तिः कफरक्ताभ्यां मूर्त्तिर्यस्य स कफरक्तज इत्यर्थः। जिह्मास्तम्भेन वायुरत्र बोद्धव्यः। भृशं पाकेनेति पित्तञ्च अतस्त्रिदोषजोऽयम्। असाध्यत्वञ्चास्य। उपजिह्विकामाह। जिह्वाग्ररूपः श्वयथुश्च जिह्वामुन्नाम्य जातः कफरक्तयोनिः। प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसावुपजिह्विकेति। जिह्वाग्ररूपः जिह्वाग्राकृतिः” भावप्र०। “पक्रान्नहरणाच्चैव जिह्वारोगः प्रजायते” शातात०।

जिह्वाशल्य = पु० जिह्वायाः शल्यमिवास्त्यस्य अच्। खदिरवृक्षे राजनि०।

जिह्वावत् = पु० यजुर्वेदीयवंशान्तगतर्षिभेदे। “अथ वंश” इत्युपक्रमे। “जिह्वावतो बाध्योगाज्जिह्वावा~ बाध्योगः” शत० ब्रा० १४। ९। ४। ३३। २ जिह्वायुक्ते त्रि०। स्त्रियां ङीप्।

जिह्वास्वाद = पु० जिह्वया स्वादः। लेहने (चाटा) हेमच०।

जीति = स्त्री जि–क्तिन् वेदे दीर्घः। जये “अजीतयेऽहतये परस्य स्वस्तये” ऋ० ९। ९६। ४। “अजीतये अजयाय” भा०। लोके तु ज्या–क्तिन् सम्प्रसारणे “अचः” इति पा० सम्प्रसारणस्य दीर्घः। २ हानौ स्त्री।

जीन = त्रि० ज्या–क्त सम्प्रसा० दीर्घः। जोर्णे अमरः “जीनकार्मुकवस्त्रादीन् पृथक् दद्यात् विशुद्धये” मनुः।

जीमूत = पु० जयति नभः, जीयतेऽनिलेन वा। जि–क्त। “जेर्मुट् चोदात्तः दीर्घश्च”। जीवनस्योदकस्य मूतं बन्धो यस्येति वा जीवनं जलं मूतं बद्धमनेन। मूङ् वन्धने कर्म्मणि क्तः पृषोदरादित्वात् साधु। ज्यानं जीर्णं ज्या–सं० क्विप्, जिया वयोहान्या मूतो बद्ध इति वा जीवनं मुञ्चति वा पृषो०। १ पर्वते २ मेधे ३ मुस्तायां ४ देवताडवृक्षे च अमरः ५ इन्द्रे ६ भृतिकरे ७ घोषकलतायां च हेम०। मेघे “यथा जीमूतशब्देन स्त्रीणां त्रासोऽभिजायते” दुन्दुभिपूजामन्त्रः। “जीमूतैरपिहितसानुरिन्द्रकीलः” किरा०। “जीमूतस्येव भवति प्रतीकम्” ऋ० ६। ७५। १ “प्रतिचरणविवृद्धरेफाः स्युरर्णार्णबव्यालजीमू तलीलाकरोद्दामशङ्खादयः” वृ० र० उक्ते ८ दण्डकभेदे तथा च एकादशभीरगणैः रचितो जीमूताख्यो दण्डकः। स्वार्थे क। जीमूतक तेष्वर्थेषु।

जीमूतकूट = पु० जीमूतो मेघः कूटेऽस्ये। पर्वते हारा०।

जीमूतकेतु = पु० विद्याधरपतौ राजभेदे जीमूतवाहन पितरि। नागानन्दे दृश्यम्।

जीमूतमूल = पु० जीमूतस्य मुस्तकस्य मूलामव मूलमस्य। शट्यां शब्दरत्ना०।

जीमूतवाहन = पु० जीमूतो मेधो वाहनमस्य। मेधवाहने १ इन्द्रे शालिबाहनपुत्रे २ नृपभेदे जिताष्टमीशब्दे दृश्यम्। जीमूतकेतोः विद्याधरस्य ३ पुत्रे च तत्कथा नागानन्दे दृश्या।

जीमूतवाहिन् = पु० जीमूतं मेघमुद्दिश्य वहति ऊर्द्ध्वं गच्छति वह–णिनि। धूमे हेमच०। मेघानां धूमादेवाविर्भावात् तस्य तथात्वम्।

जीर = पु० ज्या–रक् संप्र० दीर्घः। १ जीरके, २ खड्गे, ३ अणौ च। मेदि० जोरी रक् च” उणा० सौ० जु–रप्रत्ययः ईश्चान्तादेशः। ४ जवशीले ५ क्षिप्रे च उज्ज्वल० जीरदानुः। “उत नः सुद्योत्मा जीराश्वः” ऋ० १। १४१। १२। “जीराश्वः क्षिप्राश्वः” भा०। संज्ञायां कन्। (जीर) ख्याते पदार्थे मेदिनि०। मदनपालनिघण्टौ तस्य क्लीवता तद्भेदा गुणाश्चोक्ता यथा “जीरकं दीर्घकं शुक्लमजाजीकणजीरकम्। जीरकं जरणं कृष्णं वर्षकाली सुगन्धिकम्। कालिका वाष्पिका कुञ्चिकारवी चोपकुञ्चिका। पृथ्वीका सुखवी पृथ्वी स्थूलजाप्युपकालिका। जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु। संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत्। चक्षुष्यं पवनाध्मानगुल्मच्छर्दिबलासजित्” मदनपालः।

जीरण = पु० जीरक + पृषो०। जीरके राजनि०।

जीरदानु = पु० जीरं क्षिप्रं० जवशीलं वा ददाति दा–नु। १ जवशीलदाने, २ क्षिप्रदातरि च “विद्यामेषं वृजनं जीरदानुम्” ऋ० १। १६६। १५ “जीरदानुं जपशीलदानम्” भा० “जीरदानूरेतो दध्यत्योषधीषु गर्भम्” ५। ८३। १ “जीरदानुः क्षिप्रदानः” भा०।

जीरि = पु० जीर्य्यति जॄ–बा० रिक्। १ मनुष्ये “रक्षन्ति जीरयो वनानि” ऋ० ४। ५१। ६ “जीर्य्यन्ति इति जीरयो मनुष्याः” भा० जॄ–अन्तर्भू तण्यर्थे रिक्। २ जारके ३ अभिभावके च त्रि० “प्रजीरयः सिस्रते सध्र्यक् पृथक्” ऋ० २। १७। ३ “जीरयो जरयितारः” भा०।

जीर्ण = त्रि० जॄ–क्त। १ जरायुक्ते २ पुरातने च अमरः “वासांसि जीर्णानि यथा विहाय” गीता। “जीर्णमन्नं प्रशंसीयात् शस्यञ्च गृहमागतम्” चाणक्यः। २ शैलजे न० राजनि०। ३ उदराग्निना कृतपाके त्रि०। “अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम्” वैद्यकम्। द्रव्यभेदे जीर्णतासाधनद्रव्यभेदा जीर्णमञ्जर्य्यामुक्ता यथा “नारीकेलफलेषु तण्डुलमथ क्षीरं रसाले हितं जम्बीरोत्थरसो घृते समुचितः सर्पिस्तु मोचाफले। गोधूमेषु च कर्कटी हिततमा मांसात्यये काञ्जिकं नारङ्गे गुडनक्षणञ्च कथितं पिण्डारके कोद्रवः। पिष्टान्ने सलिलं पियालफलजे पथ्या सिता माषजे खण्डं क्षीरभवे तु तक्रमुचितं कोष्णाम्बु कोलम्बजे। मत्स्ये चूतफलं त्वजीर्णशमनं मध्वम्बुपानात्यये तैलं पौष्करजे कटूप्रशमनं शेषांस्तु बुद्ध्या जयेत्। पनसे कदलं कदले च घृतं घृतपाकविधावपि जम्बुरसः। तदुपद्रबशान्तिकरं लवणं लवणेषु च तण्डुलवारि वरम्। नारिकेलफलतालवीजयोः पाचनं य इह तण्डुलं विदुः। ते वदन्ति मुनयोऽथ तण्डुलान् क्षीरवारि परिपाचयत्यपि। दाडिमामलकतालतिन्दुकीवीजपूरलवलीफलान्यपि। बाकुलेन च फलेन पाचयेत् पाकमेति बकुलं स्वमूलतः। मधूकमालूरनृपादनानां परूषखर्ज्जूरकपित्थकानाम्। पाकाय पेयं पिचुमर्दवीजं घृतेऽपि तक्रं प्रवदन्ति पथ्यम्। गोधूममाषहरिमन्थसतीनमुद्गपाको भर्वेदिति च मातुलपत्रकेण। खर्ज्जूरिका विसकशेरुसितासु शस्तं शृङ्गाटके मधुफलेष्वपि भद्रमुस्तम्। पिशितपनसयोः स्यादाम्रवीजेन पाकः कृशरमहिषयोषित्क्षीरयोः सैन्धवेन। चिपिटपरिणतिः स्यात् पिप्पलीदीपिकाभ्या मपहरति तुषाम्भो वैदलानामजीर्णम्। कर्पूरपूगीफल नागवल्लीकाश्मीरजातीफलजातिकोशम्। कस्तूरिका सिह्लकनारिकेलजलं पचत्याशु समुद्रफेनः। श्यामाक नीवारकुलत्थषष्टिनिष्पाबकङ्गू दधिमस्तकस्तु। चिन्वाकुलत्थौ तिलतैलयोगात् जटाब्दनादस्य निहन्त्यथाम्रम्। कशेरुशृङ्गाटमृणालमृद्वी खर्ज्जूरखण्डा अपि नागरेण। पलाशभस्माम्बु तथार्द्रजो बा रसो निहन्याद्रसमिक्षुजातम्। अम्लेन केनाप्यथ व्योषणेन कोष्णाम्बुना वा घृतसेति पाकम्। तिलादितैलान्यपि काञ्जिकेन सर्ज्जस्य मज्जा पनसामलक्यौ। किमत्र चित्रं बहुमांसमत्स्यभोजी सुखी स्यात् परिपीय शुक्तम्। इत्यद्भुतं केवलवह्निपक्वमांसेन मत्स्यं परिपाकमेति। कपोतपारावतनीलकण्ठककपिञ्जलानां पिशितानि जग्ध्वा। काशस्य मूलं परिपेयमुष्णं सुखी भवेन्ना बहुशो न भूतम्। व्योषैः रसाला सुरभीयबस्तुमण्डेन कोष्णेन विपाकमेति। शङ्खस्य चूर्णेन हयारिगारी- पयोदधिक्षीरमुपैत्रि पाकम्। वटो वेसवाराल्लवङ्गेन फेनी शमं पर्पटः शिग्रुबीजेन याति। कणामूलतो लड्डुका पूपकादेर्विपाको भवेच्छस्कुलीमण्डयोश्च। श्वाविद्गोधागण्डकाश्चित्रतैलाद् यावत् क्षारात् कोलकूर्तादयोऽपि। जीर्य्यान्त्येवं पायसो मुद्गयूषात् सामुद्रादप्यारनालं सुखाय। तप्तं तप्तं हेम वा तारमग्नौ तोये क्षिप्तं सप्तकृत्वस्तदम्भः। पीत्वावश्यं दीर्घकालोपपन्नमम्भो जीर्णं शीघ्रमेवं जहाति। पालङ्किका केमुककारवेल्ली वार्त्ताकुवंशाङ्कुरमूलकानाम्। उपोद कालाबुपटोलकानां सिद्धार्थको मेधवरस्य पक्ता। शुण्ष्ठीसतीनस्य च नागरङ्गजम्बीरयोः कोद्रबको निहन्ता। जरामिरागेरिकचन्दनाम्यामभ्येति शीघ्रं बहुशो न मूतम्। पटोलवंशाङ्कुरकारवेल्लीफलान्य लाबूनि बहूनि जग्ध्वा। क्षारोदकं ब्रह्मतरोर्निपीय भोक्तुं पुनर्वाञ्छति तावदेव। विपच्यते शूरणको गुडेन तथालुकं तण्डुलतोयपानात्। जम्बीरनीरेण निशारसोनं मुस्तेन तूर्णं परिपाकमेति। चञ्चूकसिद्धार्थक वास्तुकानां गायत्रिसारक्वथितेन पाकः। शाकानि सर्व्वाण्युपयान्ति पाकं क्षारेण सद्यस्तिलनालजेन। आम्रातकोदुम्बरपिप्पलीनां फलानि च प्लक्षवटादिकानाम्। स्युः, शामनं पर्य्युषितोदकेन पियालमज्जा च कदुष्णकेन। स्नेहाजीर्ण रोगिणां मुद्गचूर्णं ज्वालां मुस्तो हन्ति वैरेचकानाम्। माषो भूयान्निम्बमूलेन पाकश्चिञ्चा मुञ्चत्यम्लतां चूर्णयोगात्। उष्णेन शीतं शिशिरेण चोष्णमम्लेन च क्षारगणो गुणाय। स्तेहेन वीक्ष्णं वम्कनातियोगे सिता हिता स्यादिति काशिराजः। ताम्बूलमध्वस्थितचूर्णकेन संदह्यते यस्य मुख्वं नरस्य। तैलेन वा केवलकाञ्जिकेन। सुखाय गण्डूषमसौ विदध्यात्। शीतोदकं नस्यजरोगहारि नारीपयश्चाञ्जनरुग्विनाशि। एलोदकं धूमगदे प्रशस्तं धात्रीप्रलेषोऽतिविरेचनेषु। मृगस्य मांसं श्रमजेऽनुकूलं प्रवातसुप्तिः सुरतावसाने। क्षीरोषणा सैन्धवसाधितन्तु छागाण्डमुक्तं सुरतातिरेके। श्रवणपूरणजे तिलतैलतः श्रवणपूरणमेव सुखं बिदुः। कवलजेषु गदेष्वथ कारयेत् कवलमार्द्र कऊद्रवजं पुनः”।

जीर्णक = त्रि० जीर्णप्रकारः स्थूला० कन्। जीर्णप्रकारे।

जीर्णज्वर = पु० कर्म्मधा०। द्वादशाहाधिककालोत्पन्ने ज्वरे तल्लक्षणादिकं भावप्रका० उक्तं यथा।

“यो द्वादशभ्यो दिवसेभ्यः ऊर्द्धं दोषत्रयेभ्यो द्विगुणेभ्य ऊर्द्ध्वम्। नॄणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णः”। जीर्णज्वरस्यैव विशेषं वातवलासकमाह। नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति। स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी। वातबलासकी नर ईदृग्भवेत्। शूनः शोथी। श्लेष्मभूथिष्ठो बहुश्लेष्मकः। जीर्ण्णज्वरी नरः कुर्य्यान्नोपवासं कदाचन। लङ्घनात् स भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः। पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा। लङ्घयेत् तत्र तत्पश्चात् पूर्वामेवाचरेत् क्रियाम्” तथा पूर्ववत्।

जीर्णदारु = पु० नित्यक०। वृद्धदारकवृक्षे (विधारा) राजनि०

जीर्णपत्र = पु० जीर्णं पत्रमस्य। पट्टिकालोध्रे शव्दार्थ०। २ जीर्णपत्रयुक्ते त्रि०। बहु० कप् कापि अत इत्त्वम। जीर्णपत्रिका २ वंशपत्रीतृणे स्त्री राजनि०।

जीर्णपर्ण = पु० जीर्णानि पर्णान्यस्य। १ कदम्बे। २ पुरातनपत्रयुक्ते त्रि०। कर्म्म०। २ पुरातनपत्रे न०। ४ पुरातनताम्बूले च। “पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः। जीर्णपर्ण्णं हरेदायुः सिरा बुद्धिप्रणाशिनी” वैद्यकम्।

जीर्णफञ्जी = स्त्री नित्यक०। वृद्धदारके वृक्षे (विधारा) राजनि०।

जीर्णबुध्न = पु० जीर्ण्णं बुध्नं मूलमस्य। पट्टिकालोध्रे राजनि० तदिव कायति कै–क। जीर्णबुध्नक। (केओटा मुथा) ख्याते मुस्तकभेदे।

जीर्णवज्र = न० जीर्णं पुरातनं वज्रं हीरकमिव। वैक्रान्तमणौ राजनि०।

जीर्णवस्त्र = न० कर्म०। पुरातनवस्त्रे पटच्चरे अमरः।

जीर्णा = स्त्री जॄ–क्त। स्थू लजीरके राजनि०।

जीर्ण्णास्थिमृत्तिका = स्त्री। कृत्रिममृत्तिकाभेदे।

“अथ वक्ष्ये तु जीर्णास्थिमृत्तिकाकरणं प्रिये!। शिलाजतुस्थले कुर्य्याद् दीर्घं गर्त्तं मनोहरम्। निःक्षिपेत् तत्र नानास्थिसञ्चयं द्विचतुष्पदाम्। सर्जिक्षारं महाक्षारं मृत्क्षारं लवणानि च। गन्धकोष्णजलं क्षेप्यं नानामूत्राणितत्र च। एवं कृत्वा मासषट्कं दद्यात् पाषाणमृत्तिकाम्। कङ्कास्थ्यूर्द्ध्वं तदूर्द्ध्वन्तु कुर्य्याद्वह्नीष्टकां शुभाम्। त्रिवर्षाज्जायते सर्वमेकीभूतं दृषत्समम्। ततो निष्कास्य तच्चूर्णं कृत्वा पात्राणि निर्ममेत्। प्रशस्तं भोजनं तत्र सूचयेदन्नदूषणम्। महाविषस्यंसंयोगात् तस्य भङ्गः प्रजायते। दूषीविषादिसंयोगात् पात्रे स्फोटा भवन्ति हि। तत्र क्षिप्तं क्षुद्रविषं पात्रं कृष्णं प्रजायते। एवं ज्ञात्वा तत्र दद्यान्न कदाचिद्विपादिकमिति रावणः” शब्दार्यचिन्तामणिः।

जीर्णि = स्त्री जॄ–क्तिन्। जीर्णतायाम्। अमरः।

जीर्णोद्धार = पु० जीर्णस्य पूर्वप्रतिष्ठापितलिङ्गादेरुद्धारः। १ पूर्वप्रतिष्ठापितलिङ्गादेः भग्नतादौ स्वस्थानादुद्धारे तद्विधानम् अग्निपु० ६७ अ० उक्तं यथा।

“भगवान् उवाच। जीर्णोद्धारबिधिं वक्ष्ये भूषितां स्नपयेद् गुरुः। अचलां बिन्यसेद् गेहे अतिजीर्णां परित्यजेत्। व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत्। संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः। सहस्रं नरसिहेन हुत्वा तामुद्धरेद् गुरुः। दारबीं दाहयेद्वह्नौ शैलजां प्रक्षिपेज्जले। धातुजां रत्नजां वापि अगतधे वा जलेऽम्बुधौ। यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत्। वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत्। यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेत् पुनः। कूपवापीतडागादेर्जीर्णोद्धारे महाफलम्” नि० सि० विशेषो यथा

“अथ जीर्णोद्धारः स च लिङ्गादौ दग्धे भग्ने चलिते वा कार्य्यः। अयं चानादिसिद्धप्रतिष्ठितलिङ्गादौ भङ्गादिदुष्टेऽपि न कार्यः। तत्र तु महाभिषेकं कुर्य्यादिति त्रिविक्रमः। कर्त्ताऽमुकदेवस्य जीर्णोद्धारं करिष्ये इत्युक्त्वा पुण्याहं वाचयित्वा आचार्य्यमृत्विजश्च वृत्वा लिङ्गे ओं व्यापकेश्वरहृदयाय नमः ओं व्यापकेश्वरशिरसे स्वाहेत्येवं षडङ्गं कृत्वाऽघोरमन्त्रं शतं जप्त्वाऽग्निं प्रतिष्ठाप्याधोरेण घृतसर्षपैः सहस्रं हुत्वा इन्द्रादिभ्यो नाम्ना वलिं दत्त्वा जीर्णदेवं प्रणवेन संपूज्य ब्रह्मादिमण्डलदेवतानां होमं पूर्वोक्तं कृत्वा देवं प्रार्थयेत। “जीर्णभग्नमिदं चैव सर्वदोषावहं नृणाम्। अस्योद्धारे कृते शान्तिः शास्त्रेऽस्मिन् कथिता त्वया। जीर्णोद्धारविधानञ्च नृपराष्ट्रहितावहम्। तदधस्तिष्ठतां देव! प्रहरामि तवाज्ञयेति”। ततः क्षीराज्यमधुदूर्वाभिः समिद्भिश्चाष्टोत्तरसहस्रं शतं वा देवमन्त्रेण हुत्वाऽङ्गानां दशांशेन लिङ्गचालनार्थं सहस्रं शतं वा पायसेन हुत्वा लिङ्गं प्रार्थयेत। “लिङ्गरूपं समातत्य येनेदं समधिष्ठितम्। यायास्त्वं संमितं स्थानं सन्त्यज्यैव शिवाज्ञया। अत्र स्थाने च या विद्या सर्वविद्यैश्वरैर्युता। शिवेन सह संतिष्ठेति” मन्त्रितजलेनाभिषिच्य विसर्जयेत्। ततोऽस्त्रमन्त्रितेन स्वनित्रेण खात्वा लिङ्गमानीय नद्यादौ वामदेवेन लिङ्गं प्रणवेन मूर्त्तिं क्षिपेत्। दारुजन्तु मधुनाऽभ्यज्याधोरेण दहेत्। हेमरत्नादिमयन्तु दग्धं चलितं वा पुनस्तत्रैव स्थापयेत। ततः शान्त्यै अघोरेण तिलैः सहस्रं हुत्वा प्रार्थयेत। “भगंवान् भूतभव्येश! लोकनाथ! जगत्पते!। जीर्णलिङ्गसमुद्धारः कृतस्तवाज्ञया मया। अग्निना दारुजं दग्धं क्षिप्तं शैलादिकं जले। प्रायश्चित्ताय देवेश! अघोरास्त्रेण तर्पितम्। ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं यदि। तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादान्महेश्वरेति”। ततो यजमानः पार्थयेत। “गोविप्रशिल्पिभूतानामाचार्य्यस्य च यज्वनः। शान्तिर्भवतु देवेश! अच्छिद्रं जायतामिदम्”। मूर्त्तौ तु विशेषः। “त्वत्प्रसादेन निर्विध्नं देहं निर्मापयत्यसौ। वासं कुरु सुरश्रेष्ठ! तावत्त्वं चाल्पके गृहे। वसन् क्लेशं सहित्वेह मुर्त्तिं वै तव पूर्बवत्। यावत् कारयेत् भक्तः कुरु तस्य च वाञ्छितमिति”। ततो नवां मूर्त्तिं लिङ्गं वा कृत्वोक्तविधिना स्थाषयेत्। भग्नमन्दिरादेः २ संस्कारे च स च विष्णुधर्मोत्तरे तृतीयकाण्डे उक्तो यथा “यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते। तस्य सीदति तद्राज्यं देववेश्म यथा तथा। कृत्वा जीर्णस्य संस्कारं तथा देवेशवेश्मनि। द्विगुणं फलमाप्नोति नात्रं कार्थ्या विचारणा”। विष्णुरहस्ये “पतितस्य च यः कर्त्ता पतमानस्य रक्षिता। विष्णोरायतनस्येह स नरो विष्णुलोकभाक्” अग्निपुराणे “पतितं पतमानन्तु तदार्द्धस्फुटितं नरः। समुद्धृत्य हरेर्धाम द्विगुणं फलमाप्नुयात्” देवीपुराणे “मूलाच्छतगुणं पुण्यं प्राप्नुयाज्जोर्णकारकः। तस्मात् सर्वप्रयत्नेन जीर्णस्योद्धारमाचरेत्”। हयशीर्षपञ्चरात्रे “वापीकूपतडागानां सुरधाम्नां तथानघ!। प्रतिमानां समानाञ्च संस्कर्त्ता यो नरो भुवि। पुण्यं शतगुणं तस्य भवेन्मूलान्न संशयः। प्रतिष्ठाया विधिः कार्य्यस्तथा मन्दिरनिर्मिते। प्रायः श्रीहयशीर्षोक्तेरनुसारेण वैष्णवैः। देवालयप्रतिष्ठा च ख्याता तल्लिखनेन किम्। श्रीमूर्त्तिस्थापनेनैवं संपूर्णा सा विशेषतः। देवगृहं देवतायाः प्रतिष्ठाविधिना सदा। संस्काय्यं मनुजानान्तु समुदायोऽस्य कर्म्मणा” हरिभक्ति० २० विलासः।

जीर्वि = पु० जृ–क्विन्। कुठारे उज्ज्वलदत्तः।

जीव = प्राणने असुधारणे भ्वा० अक० प० सेट्। जीवति अजीवीत् जिजीव। ऋदित् अजिजीवत् त जीवितं जीवनम् जीवः जीविका। “संशयं पुनरारुह्य यदि जीवति पश्यति” हितो० “यातः परमपि जीवेज्जीवितनाथो भवेतस्याः” सा० द० “ज्योग् जीवति” छा उ०। “शतं जीवन्तु शरदः” ऋ० १०। १८। १। प्राणधारणञ्च प्राणधारणोयोगोपवृत्ति धारणमपि “नक्षत्रैर्यश्च जीवति” मनुः। करणे सक०। “जीवेद्वैश्यस्य जीविकाम्” मनुः। जीवेत् कुर्य्यात्अति + अतिक्रम्य जीवने सक०। “अत्यजीवदमरालकेश्वरौ” रघुः।अनु + पश्चाज्जीवने अनुरूपजीवने च सक०। “जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर!” भा० उ० ४५३५ श्लो० “यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे। अद्य तामनुजीवामः” भा० द्रो० ४११ श्लो०।आ + वृत्तिकरणे उपभोगे च सक०। “आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयम्” याज्ञ०। “आजीवनुपभुञ्जानः” भिता०। “ययाजीवन्ति पुरुषं सर्वभूतानि सञ्जय!” भा० उ० १३२ अ०।उद् + उच्छ्वासने अक०। “उदजीवत् सुमित्राभूर्भ्राताऽश्लिष्यत्तमायतम्” भट्टिः।प्रति + उद् + प्रतिरूपोज्जीवने।उप + आश्रित्य वर्त्तने सक०। “पूर्वयसे पुत्राः पितरमुपजीवन्ति उत्तरवयसे पुत्रान् पिता” शत० ब्रा० १२। २। ३। १। “शेषास्तमुपजीवेयुर्यथैव पितरं तथा” मनुः। उपजीवी उपजीव्यः।

जीव = पु० जीव–कर्त्तरि क। १ प्राणिनि २ जीवन्तीवृक्षे ३ वृहस्पतौ च मेदि०। ४ कर्णे ५ क्षेत्रज्ञे त्रिका०। भावे घञ्। ६ असुधारणे अमरः करणे घञ्। ७ वृत्तौ आजीविकायां मेदि०। मनुष्यादिकीटपर्यन्ते ८ प्राणिमात्रे ९ कार्य्यकारणसङ्घाते। अनेकान्तवादिनां जीवास्तिकायसंज्ञया परिभाषिते १० पदार्थभेदे। त्रिविधश्चासौ अनादिसिद्धमुक्तबद्धभेदात्। अत्रानादिसिद्धोऽर्हन् जीवास्तिकायाख्यः। व्यपेतमोहादिबन्धो मुक्तः। मोहाद्यावृतस्तु बद्ध इति। ११ उपाधिप्रविष्टे वाङ्मनःप्राणकरणग्रामानुप्रविष्टे ब्रह्मणि। घटावच्छिन्नाकाशवत्शरीरत्रितयावच्छिन्ने १२ चैतन्ये। दर्पणस्थमुखप्रतिविम्बवद् बुद्धिस्थे १३ चैतन्यप्रतिविम्बे। १४ साभासाहङ्कारे चित्प्रतिविम्बे। प्राणादिकलापस्य १५ धारयितरि “प्राणान् क्षेत्रज्ञरूपेण धारयन् जीव उच्यते” इत्यभियुक्तोक्तेः १६ लिंङ्गदेहे। “एवं पञ्चविधं लिङ्गं त्रिवृत् षोडश विस्तृतम्। एष चेतनया युक्तो जीव इत्यभिधीयते” इति श्रीभानवतम्। पञ्चविधं पञ्चतन्मात्रात्मकम्। त्रिवृत् त्रिगुणम्। षोडश विकारात्मना विस्तृतमित्यनाद्यभिमानित्वेन इहलोक परलोकगामी व्यवहारिको जीव उच्यते। “यालाग्रशत भागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते” श्रुतिः। “बालाग्रशतशोभागः कल्पितस्तु सहस्रथा। तस्यापि शतशोभागो जीवः सूक्ष्म उदाहृतः” शङ्खः। “जीवो नाम देहादिव्यतिरिक्तस्तत्साक्षी त्वम्पदार्थो योऽयं विज्ञानमयः योऽयं संसरति योऽयं संसारी नतु देहादिर्जीवः तस्य दृश्यस्य द्रष्टृत्वानुपपत्तेः। “अस्ति देवि! परं ब्रह्मस्वरूपी निष्कलः शिवः। सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽव्ययः। स्वयं ज्योतिरनाद्यन्तो निर्विकारः परात्परः। निर्गुणः सच्चिदान्दस्तदंशा जीवसंज्ञकाः। अनाद्यविद्योपहिता यथाग्नौ विस्फुलिङ्गकाः। देवाद्युपाधिसम्भिन्नास्ते कर्मभिरनादिभिः। सुखदुःखप्रदैः पुण्यपापरूपैर्नियन्त्रिताः। तत्तज्जातियुतं देहमायुर्भोगञ्च कर्मजम्। प्रतिजन्म प्रपद्यन्ते तेषामप्यपरं पुनः। सूक्ष्मं लिङ्गशरीरं तदामोक्षादक्षयं प्रिये!” कुलार्ण०। १७ विष्णौ, “जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः” विष्णु० सह०। तत्र वृहस्पतौ

“जीवः सप्तनवद्विपञ्चमगतः” “जीवार्किभानुज्येज्यानां क्षेत्राणि स्युरजादयः” ज्योति० १८ पुष्यनक्षत्रे च। तस्य जीवाधिष्ठातृकत्वात् तथात्वम् अश्लेषाशब्दे ४९८ पृ० दृश्यम्। घटसंवृत आकाशे नीयमाने यथा घटे। घटो नीवेत नाकाशं तद्वत् जीवो नभोपमः”। आर्हतमतसिद्धजीवभेदाश्च अर्हच्छब्दे ३८४ पृ० दृश्याः। स च जीवो विभुरिति साङ्ख्यनैयायिकवैशेषिकपातञ्जलवेदान्तिनः। अणुप्ररिमाण इति रामानुजादयः। मध्यमपरिमाणः इति माध्यमिका। आत्मन्शब्दे ६७२ पृ० दृश्यम् “हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” छा० उ०। “भावनाख्यस्तु संस्कारो जीववृत्ती त्विमौ गुणौ” भाषा० जीव–क १९ जीवनयुक्ते त्रि०। “कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान् बहून्। जीवानन्यांश्च सुबहूंस्तत्र किं प्रतिभाति ते। धान्यवीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम!। सर्व्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते। अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च। वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज!। जीवाहि बहवो ब्रह्मन्! वृक्षेषु च फलेषु च। उदके बहवश्चापि तत्र किं प्रतिभाति ते। सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विज- सत्तम!। प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते। चंक्रम्यमाणा जीवांश्च धरणीसंश्रितात् बहून्। पद्भ्यां घ्नन्ति नरा विप्र! तत्र किं प्रतिभाति ते। उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः। ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते। जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा। अविज्ञानाच्च हिंसन्ति तत्र किं पतिभाति ते। अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा। के न हिंसन्ति। जीवान् वै लोकेऽस्मिन् द्विजसत्तम!।” भा० व० २०७ अ०। अत्र जीवस्य हिंसा देहवियोजनम्।

जीवक = पु० जीवयति जीव + णिच्–ण्वुल्। १ अष्टवर्गात्वर्गते १ ओषधिभेदे “जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ। रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ। जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत्” तदभावे विदारीमूलं प्रतिनिधितया देयमिति”। “जीवकर्षभकौ बल्यौ शीतौ शुक्लकफप्रदौ। मधुरौ पित्तदाहार्शःकार्श्यवातक्षयापहौ” भावप्र० २ पीतसालवृक्षे ३ क्षपणके च पु०। जीव–ण्वुल्। ४ प्राणधारके त्रि० मेदि०। ५ सेवके ६ वृद्ध्याजीविनि त्रि० ७ अहितुण्डिके पु० मेदि०।

जीवकाद्यतैल = न० चक्रदत्तोक्ते तैलभेदे। तच्च तैलं द्विविधं लघुवृहद्भेदात् यदाह तत्रैव “जीवकर्षभकौ द्राक्षासिता यष्टी बलोत्पलैः। तैलं नस्यं पयः पक्वं वातपित्तशिरोगदे”। लघु। “जीवकर्षभकौ द्राक्षा मधूकं मधुकं वला। नीलोत्पलं चन्दनञ्चविदारी शर्करा तथा। तैलप्रस्थं पचेदेभिः शनैः पयसि षड्गुणैः। जाङ्गलस्य तु मांसस्य तुलार्द्धस्य रसेन तु। सिद्धमेतद्भवेन्नस्यं तैलमर्द्धावशेषकम्। बाधिर्य्यं कर्णशूलञ्च तिमिरं गलशुण्ठिकाम्। वातिकं पैतिकञ्चैव शीर्षरोगं नियच्छति। दन्तचालं शिरः शूलमर्द्दितञ्चापकर्षति” वृहत्। चक्रद०।

जीवघन = पु० जीब एव घनो मूर्त्तिरस्य। हिरण्यगर्भे तस्य सर्व जीवसमष्टिरूपत्वात् तथात्वं यथाह प्रश्नोप० भा०। ओम् शब्दे २५६० पृ० तद्वाक्यम् दृश्यम्। “स एतस्माज्जीवघनात् परात् परम्”।

जीवजीव = पुंस्त्री जीवञ्जीव + पृषो०। चकोरखगे शब्दर० स्त्रियां जातित्वात् ङीष्। स्वार्थे क। तत्रार्थे। “हृत्वा रक्तानि वासांसि जायते जीवजीवकः” मनुः।

जीवञ्जीव = पुंस्त्री जीवं जीवयति विषगाशकत्वात् जीव–षा० खच्। चकोरपक्षिणि अमरः स्त्रियां जातित्वात् ङीष्। “जीवञ्जीविकसङ्घाश्चाप्यनुगच्छन्ति पण्डितान्” भा० उ०

जीवत्तोका = स्त्री जीवत् तोक यस्याः। जीवत्पुत्रिकायां स्त्रियां। (जेओ~त् पोयाती) हेमच०।

जीवत्पति = स्त्री जीवन् पतिर्यस्याः सपूर्वत्वात् वा न ङीपौ। सधवायां स्त्रियाम्। हेमच०।

जीवत्पितृक = पु० जीवन् पिता यस्य कप्। विद्यमानपितृके जने। “अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम्। न जीवत्पितृकः कुर्य्यात् कृते तु पितृहा भवेत्” ति० त०। तत्र जीवत्पितृकस्य श्राद्धविशेषेऽधिकारः निर्णयसिन्धौ व्यवस्थापितो यथा।

“जीवत्पितृकस्य साग्नेरेव वृद्धिश्राद्धेऽधिकारः न तु निरग्नेः “न जीवत्पिवृकः कुर्य्याच्छ्राद्धमग्निमृते द्विजः। येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः। पितामहेऽप्येवमेव कुर्य्याज्जीवति साग्निकः। साग्निकोऽपि न कुर्व्वीत जीवति प्रपितामहे” इति चन्द्रिकायां सुमन्तूक्तेरित्याहुः प्रयोगपारिजातेऽप्यनाहिताग्निर्न कुर्य्यादितीदं व्याख्यातम् तन्न “अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि। येभ्य एव पिता दद्यात्तानेवोद्दिश्य तर्पयेदिति” हारीतोक्तेः सौमन्तवन्तु वृद्धिश्राद्धभिन्नश्राद्धपरमित्युक्तं मदनरत्ने। श्राद्धपदं पिण्डपितृयज्ञपरमिति पृथ्वीचन्द्रोदयः। निर्णयामृते तु हारीतीयेऽनग्निकोनाहिताग्निरभिप्रेतः पूर्ववचने तु साग्निः श्रौताग्निः स्मार्त्ताग्निश्चोच्यते। तेनोभयाग्निहीनस्य नेत्युक्तं तन्न पूर्वोक्तदिशा गतिसम्भवेनाग्निपदस्य स्मार्त्ताग्निपरत्वे मानाभावात् वक्ष्यमाणनित्यानित्यसंयोगविरोधात् “पितरो जनकस्येज्या यावद्व्रतपनाहितम्। समाहितव्रतः पश्चात् स्वान् यजेत पितामहानिति, पृथ्वीचन्द्रोदये यमवचो विरोधाच्च। अपरार्केऽपि समावर्त्तने व्रह्मचारी स्वयमेव नान्दीश्राद्धं कुर्य्यादित्याहुः अतः पूर्वमेव साधु वोपदेवोऽप्येवमाह। यत्तु मतं जीवत्पितृकस्य पुत्रनामकर्म्मादौ न वृद्धिश्राद्धम् हारीतीये जन्मादावित्यादिशब्देन तत्प्राप्तावपि “उद्वाहे पुत्रजनने पुत्र्येष्ट्यां सौमिके मखे। तीर्थे ब्राह्मण आयाते षेडेते जीवतः पितुरिति” मैत्रपरिशिष्टे उद्वाह एव तस्योपसंहारात् एवं यत्र तु संस्कारादिपदं तदप्युद्वाहादिपरमेवेति तन्न उद्वाहपदस्य स्वविवाहपरत्वस्यापि सम्भवात् पुत्रविवाहपरत्वे मानाभावात् “नामकर्मणि बालानां चूडाकर्म्मादिके तथा” इत्यादिभिर्नित्यश्राद्धस्य चौलाद्यङ्गत्वावगतौ नित्यानित्यसंयोगविरोधाच्च अतो जन्मादाविति सर्वसंस्कारसंग्रहः। तथा च कात्यायनः “स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्भसु। पिण्डानोद्वाहनात्तेषां तस्थाभावे तु तत्क्रमात्”। सुतानां चौलादिसंस्कारेषु पिता स्वपितृभ्यः पिण्डान् श्राद्धम्। “पिण्डदोऽशहरश्चैषामिति” र्दशनात् औद्वहनाद्विवाहपर्य्यन्तं दद्यात् विवाहश्च प्रथमः “नान्दीश्राद्धं पिता कुर्य्यादाद्ये पाणिग्रहे बुधः। अत ऊर्द्ध्वं प्रकुर्व्वीत स्वयमेव तु नान्दिकमिति” स्मृतेः तस्य पितुरभावे तत्क्रमात् “असंस्कृतास्तु संस्कार्य्या भ्राषृभिः पूर्वसंस्कृतैरिति” यः कर्तृक्रमः तेन क्रमेण ज्येष्ठभ्रात्रादिर्दद्यादिति चन्द्रिकादयः। हेमाद्रिस्तु तस्य पितुरभावे यः पितृव्य मातुलादिः संस्कुर्य्यात् स तत्क्रमात् संस्कार्य्यपितृक्रमाद्दद्यान्नतु स्वपितृभ्य इति व्याचख्यौ। समावर्तनस्यापि विवाहप्राचीनसुतसंस्कारत्वात्पितैव नान्दीश्राद्धं कुर्य्यात् तदभावे ज्येष्ठभ्रात्रादिः तदभावे स्वयमेव कुर्य्यात्। उपनयनेन कर्म्माधिकारस्य जातत्वात् एवमाद्यविवाहेऽपीति पृथ्वीचन्द्रोदयन्वन्द्रिकादयः। मदनरत्नेऽप्येवम्। यदा तु पितरि संन्यस्ते प्रोषिते पतिते वा धर्म्मार्थं तत्पुत्रमन्यः संस्कुर्य्यात्तदा संस्कार्य्यपितुः पित्रादिभ्यो दद्यात् “पितरो जनकस्येज्या यावद्व्रतमनाहितम्। समाहितव्रतः पश्चात्स्वान् यजेत पितामहानिति” पृथ्वाचन्द्रोदये यमोक्तेः जीवत्पितृकस्य विशेषमाह कात्यायनः “वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति। येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः” इति। तीर्थ इव प्रायश्चिताङ्गश्राद्धेऽपि तस्याधिकारः। “पितरि जीवति यः श्राद्धं कुर्य्यात् स येषां पिताकुर्य्यात्तेषां कुर्य्यात्। पितरि पितामहे च जीवनि येषां पितामहः कुर्य्यात् तेषां कुर्य्यात् त्रिषु जीवत्सु नैव कुर्य्यात्” विष्णु० स० “जीवत्पितृकोऽपि” कात्या० श्रौ० सू० पिण्डपितृयज्ञेऽघिक्रियते च। “जीवान्तर्हितेऽपि” कर्कसू० “जोवपितृकस्य जीवेन पित्रादिना अन्तर्हितेऽपि व्यवहितेऽपि पितामहादेः पिण्डदानं भवति सोमादाविव “येभ्य एव पिता दद्यात्तेभ्यो दद्यात्तथा सुतः” इति कर्कस्मृतेः। “जीवपितृकस्य होमान्तमनारम्भो वा” सू०। “जोवपितृकस्य यजमानस्य होमान्तमेव पिण्डपितृयज्ञसंज्ञं कर्म भवति अथवाऽनारम्भ एव पिण्डपितृयज्ञस्य वाशब्दः पूर्वपक्षनिरासार्थः। अत्रानारम्भपक्ष एव युक्तः यतः पिण्डदानं प्रधानम्। तदभावे होमस्याङ्गभूतस्यानुष्ठानं न घटते। एवं जीवान्तर्हितेऽपीति पक्षं दूप- यित्वा जीवत्पितृकस्य होमान्तमित्यत्रोपपत्तिमाह” कर्कः। “न व्यवेते जातूकर्ण्यो न जीवन्तमति ददातीति” सू०। “जीवपितृकस्य होमान्तकर्म्म कुर्वतः यतोजातूकर्ण्य आचार्य्यो न व्यवेते जीवता पित्रा व्यवहिते पितामहादौ पिण्डदानं न भवतोत्याह कुतो न भवतीत्यत्र हेतुः “न जीवन्तमति ददातीति” शाखान्तरे श्रवणात् अतःप्रधाने पिण्डदाने जीवत्पितृकस्य निषिद्धे अनारम्भ एव घटते न होमान्तता। आपस्तम्बः “यदि जीवत्पिता न दद्यादा होमात् कृत्वा विरमेदिति” मानवे च “यदि दद्याद्येभ्य एव पिता दद्यात्तेभ्यो दद्यादिति” काठके “पितापुत्रौ चेदाहिताग्नी स्यातां येभ्यः पिता तेभ्यः पुत्रो दद्यात् पिता प्रेतः स्यात् पितामहो जीवेत् पित्रे पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दध्यादिति” कर्क० जीवपुत्रोऽप्यत्र। समासान्तविधेरनित्यत्वात् न कप्। जीवपितृ इत्यपि तत्रार्थे।

जीवथ = पु० जीव–अथ। १ कूर्मे २ प्राणे ३ मयूरे ४ मेधे च ५ चिरायुष्के ६ धार्मिके च ७ जीवनविति त्रि०। उणादिको०

जीवद = पु० जीवं जीवनं ददाति द्यति वा दा–दो–वा क। १ वैद्ये २ रिपौ ३ ग्रन्थिपर्णवृक्षे च मेदि० ४ जीवनदातरि त्रि०। ५ जीवन्तीवृक्षे स्त्री राजनि०।

जीवदातृ = त्रि० जीवं ददाति दा–तृच्। १ जीवनदायिनि स्त्रियां ङीप् सा च २ अद्धिनामोषधौ ३ जीवन्तीवृक्षे च राजनि०।

जीवदानु = त्रि० जीवं ददाति दा–बा० नु। १ जीवनदातरि “विरिप्सन्नुदादाय पृथिवीं जीवदानुम्” यजु० १। २८।

जीवदृष्टा = स्त्री जीवाय जीवनाय दृष्टा। जीवन्तीवृक्षे राजनि०

जीवधन = न० जीव एव धनम्। गवादिजन्तुरूपे धने त्रिका०

जीवधानी = स्त्री जीवा धीयन्तेऽस्याम् धा + अधि–करणे ल्युट् ङीप्। पृथिव्याम्। “ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त” भाग० २। १३। २। “जीवधानीं सर्वजीवाधारभूतां महीम्” श्रीघरः।

जीवन = न० जीव–मावे ल्युट्। १ वृत्तौ २ प्राणघारणे। करणे ल्युट्। ३ जले मेदि०। जलं विना प्राणधारणासम्भवात्तस्य जीवनकरणत्वम् अत एव “अन्नमयं हि सौम्य! मन आपोमयः प्राणः” छान्दोग्ये प्राणानां जलमयत्वसुक्त्वा तस्य तथात्वं श्चमर्थितं यथा।

“आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः” “अपांसौम्य! पीयमानानां योऽणिमा स ऊर्द्ध्वः समुदीषति स प्राणो भवति” “षोडशकलः सौम्य! पुरुषः पञ्चदशाहानि माशीः काममपः पिवापोमयः प्राणो, न पिबतो विच्छेत्स्यते” इति छा० उ०। ४ जीवनसाधने त्रि० “सर्वोऽर्च्यो जीवनः प्राता” मुग्धबो०। ५ हैयङ्गवीने शब्दच०। सद्योघृतस्यायुर्वृद्धिकरत्वेन जीवनहेतुत्वात् तथात्वम्। ६ मज्जनि राजनि० ७ वाते ८ जीवकौषधौ च पु० राजनि०। ९ क्षुद्रफलवृक्षे पु० शब्दच०। १० प्रत्रे पु० हेमच०। जीवयति जिव–णिच्–कर्त्तरि–ल्यु। ११ परमेश्वरे पु० “वीरहा रक्षणः सन्तो जीवनः पर्य्यवस्थितः” विष्णु स०। “सर्वाः प्रजाः प्राणरूपेण जीवयन् जीवनः” भा०। “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्” माषा० “जीवनं जीवनं हन्ति प्राणान् हन्ति समीरणः। किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिसा” उद्भटः। वृत्तौ १२ जीविकायाम्। “कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः। सेवा रूपं नृपो भैक्षमापत्तौ जीवनानि तु” याज्ञ० “विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः। धृतिर्भैक्षं कुसीदञ्च दश जीवनहेतयः” मनुः। १३ जीवदातरि “शीतस्तत्र ववौ वायुः सुगन्धिं जीवनः शुचिः” भा० व० १६८ अ०।

जीवनक = न० जीवन + संज्ञायां कन्। अन्ने हेमच०। कलौ प्राणस्यान्नगतत्वोक्त्या तस्य तथात्वम्।

जीवनयोनि = स्त्री ६ त०। न्यायोक्ते देहे प्राणसङ्खाचारकारणे अतीन्द्रिये १ यत्नभेदे। “यत्रो जीवनयोनिस्त्रु सर्वदातीन्द्रियो भवेत्। शरीरे प्राणसञ्चारकारणं परिकीर्त्तितम्” भाषापरि०। “जीवनयोनिर्यत्नो यावज्जीवनमनुवर्त्तते स चातीन्द्रियः। तत्र प्रमाणमाह शरीरे प्राणसञ्चारकारणं परिकीर्त्तितमिति। प्राणसञ्चारो हि अधिकः श्वासादिः प्रयत्नतः साध्यः। इत्था प्राणसञ्चारस्य यत्नसाध्यत्वानुमानात् प्रत्यक्षयत्नस्य बाधाच्चातीन्द्रिययत्नसिद्धिः। स एव जीवनयोनिप्रयलः” सुक्ता०

जीवना = स्त्री जीवयति जीव–णिच्–ल्यु। मेदोषधौ मेदि०

जीवनाघात = न० जीवनस्याघातो यस्मात्। विषे शब्दच०।

जीवनावास = पु० जीवनं जलमावालोऽस्य। वरुणे शब्दच०। ६ त०। २ प्राणायतने देहे च।

जीवनी = स्त्री जीवत्यनेन जीव–करणे ल्युट् ङीष्। १ काकोल्यां २ डोध्यां ३ मेदायां ४ महामेदायां ५ जोषन्त्याञ्च राजनि०। ६ यूथ्यां शब्दच०। संज्ञायां कन्। जीवनिका हरितक्याम् राजनि०।

जीवनीय = न० जीव–बा० करणे अनीयर्। १ जले हेमच०। २ जीवन्तीवृक्षे स्त्री अमरः। कर्मणि अनीयर्। ३ उपजीव्ये त्रि०। भावे अनीयर्। वर्त्तनीये। ४ विद्याशिल्पमित्यादिमनुव्याख्यायाम्। “एभिर्दशभिरापदि जीवनीयम्” कुल्लूक०।

जीवनीयगण = पु० औषधभेदे “अष्टवर्गश्च पर्णि न्यौ जीवन्ती मधुकं तथा। जीवनीयगणः प्रोक्तो जीवनन्तु पुनस्तथा” वैद्यकम्।

जीवनेत्री = स्त्री जीवं नयति नी–वृच् ङीप्। सैंहल्याम्। राजनि०

जीवनौषध = न० जीवनस्य जियमाणप्राणस्य रक्षणार्थमौषघम्। जीवातौ म्रियमाणस्य प्राणरक्षके औषघे अमरः।

जीवन्त = पु० जीव–कर्त्तरि झ। १ प्राणे, २ आयुर्विशिष्टे त्रि०। जीव–णिच्–क्त। ३ औषधे च उणा०।

जीवन्तिका = स्त्री जीव–जीव–णिच्–वा झ–संज्ञायां कन्। १ वन्दायां वृक्षोपरिजातनुतायां २ गुडूच्यां ३ जीवाख्यशाके मेदि० ४ जीयन्त्यां ६ हरीतक्यां च राजनि०।

जीवन्ती = स्त्री जीव–झ गौरा० ङीष्। (जीवै) ख्याते (जियाता) ख्याते १ वृक्षे। “जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा। रसायना बलकरी चक्षुष्या ग्राहिणी लघुः। जीवन्त्याः कोमलं पत्रं स्निन्नं तक्रसुभर्ज्जितम्। हिङ्गुना संयुते तैले तक्रं क्षिप्त्वा प्रलेहयेत्” भावप्र०। “कृशरेणाथ जीवन्त्या हविष्येण च सर्वशः” भा० स० ४ अ०। (चोडी) ख्याते गुर्जरदेशप्रसिद्धे २ लताभेदे ३ शयां ४ गुडूच्यां ५ वन्दायां ६ डीद्यां ७ हरितक्याम् राजनि०। सा च “हरितकी जीवन्ती खर्णवर्णिनी” इत्युक्तलक्षणा।

जीवन्त्याद्यघृत = न० चक्रदत्तोक्ते पक्वघृतभेदे “जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च। शठीं पुग्फरमूलञ्च व्याघ्रीं गोक्षुरकं वलाम्। नीलोत्पलं चामलकीं त्रायमाणां दुरालभाम्। पिप्पलीञ्च समं पिष्ट्वा घृतं वैद्यो विपाचयेत्। एतद्व्याघिसमूहस्य रोगे शस्यसमुत्वितम्। रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति”।

जीवन्मुक्त = त्रि० जीवन्ने व सुक्तः जीवन्येवात्जज्ञानेन बन्धरहिते “जीवन्मुक्तो नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञान बाघनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते अज्ञान कार्यसञ्चितकर्मसंशयविपर्दयादीनाचपि बाधितत्वादणिलबन्धरहितो ब्रह्ममिष्ट” इति वेदालला०। नञ्च जीवन्मुक्तो व्यवहरतिंन वा। आद्ये तस्य बद्धान्न विलक्षणता, द्वितीये देहस्यानुपयोगात् सद्यः पातप्रसङ्ग इत्यत आह। “अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेण आन्ध्यमान्द्यपटुत्वादिभाजनेनेन्द्रियग्रामेण अशनायापिपासाशोकमोहादिभाजनेन चान्तःकरणेन पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धान्यारब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यतीति” वे० सा०। दृष्टान्ते नोक्तमर्थं स्पष्टयति। “यथेन्द्रजालमिति ज्ञानवान् तदिदमिन्द्रजालं पश्यन्नपि परमार्थमिदमिति” न पश्यति। उक्तञ्च “सुषुप्तिवज्जाग्रति यो न पश्यति द्वयन्तु पश्यन्नपि चाऽद्वयत्वतः। तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः” इति वेदन्तासा०। “वेदविद्याकृतं ज्ञानं देशिकस्क मुखात् स्वयम्। गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः। प्रारब्धक्षयपर्य्यन्तं जीवन्मुक्ता भवन्ति ते” तन्त्रम्। अष्टोत्तरशतमुपनिषदाम्। २ कौलिके च “धन्यामाहेश्वराः स्वार्थप्रत्यभिज्ञानशालिनः। स्वपरिज्ञानमात्रेण जीवन्मुक्ता भवन्ति हि। महामन्त्रप्रभावेण कुलाचारप्रभावतः। स्वेच्छाचारा निर्विकल्पा जीवन्मुक्ताहि कौलिकाः” तन्त्रशास्त्रम् “योऽन्तर्व्योमवदत्यच्छः जीवन्मुक्त० उच्यते” कुलार्णवे। वेदान्तपरिभाषायां विशेष सुक्तो यथा। “निर्गुणब्रह्मसात्कारवतस्तु न लोकान्तरगमनं “न तस्य प्राणा उत्क्रामन्तीतिश्रुतेः किन्तु यावत्प्रारब्धकर्मक्षयं सुखदुःखे अनुमूय पश्चादपवृज्यते। ननु “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” इत्यादिश्रुत्या “ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्जु नेत्यादि” स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्म्मावस्थानमनुपपन्ननिति चेन्न तस्य “तावदेव चिरं यावन्न विमोक्ष्येऽथ सग्पत्स्ये कैवल्येनेत्यादि” श्रुत्या “नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपीत्यादि” स्मृत्या च उत्पादितकार्य्यककर्मव्यतिरिक्तानां सञ्चितकर्म्मणामेव ज्ञानयिनाश्यत्वावगमात्। सञ्चितं द्विविघं सुकृतं दुष्कृतञ्च। तथाच श्रुतिः “तस्य पुत्रादायमुपयन्ति सुहृदः साघुकृत्यां द्विषन्तः पापकृत्यामिति”। ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्य्यप्रारव्यकर्म्म ओऽपि निवृत्तेः कथं ज्ञानिनां देहधारणमुपपद्यत इति चेन्न अपतिबद्धज्ञानस्यैवाज्ञाननिवर्त्तकतया प्रारव्वकर्म्मरूपप्रतिवन्धकदशायामज्ञाननिवृश्वे- रनङ्गीकारात्। “नन्वेवमपि तत्त्वज्ञानादेकमुक्तौ सर्व्वमुक्तिः स्यात् अविद्याया एकत्वेनैतन्निवृत्तौ क्वचिदपिसंसारायोगादिति चेन्न इष्टापत्तेरित्येके। अपरे त्वेतद्दोषपरीहारायैव “इन्द्रोमायाभिरिति” वहुवचनश्रुत्यनु गृहीतमविद्यानानात्वप्रङ्गीकर्त्तव्यमित्याहुः। अन्ये त्वेकैवाविध्या तस्याश्चाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः नत्वन्यं प्रति व्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाश इत्यभ्यु पगमान्नैकमुक्तौ सर्वसुक्तिः। अतएव “यावदधिकारमवस्थितिराधिकारिकाणाम् इत्यस्मिन्नधिकरणे अधिकारिपुरुषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्य अधिकाराषाटकप्रारब्धकर्म्म समाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम्। तदुक्तमाचार्य्यवाचस्पतिमिश्रैः “उपासनादिसंसिद्धितोषितेश्वरचोदितम्। अधिकारं समाप्यैते प्रविशन्ति परम्पदमिति”। एतच्चैकमुक्तौ सर्ब्बमुक्तिरिति पक्षे नोपपद्यते। तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया”।

शा० सू० भाष्ययोश्च जाततत्त्वज्ञानानामपि यावत् प्रारब्धकर्मसमाप्तिस्तावद्देहादिसम्बन्धः समर्थितो यथा “यावदधिकारमवस्थितिराधिकारिकाणाम्” ३। ३। ३२ सू०। “विदुपो वर्त्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते। ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यान्न वेति नेयं चिन्तोपपद्यते। न हि पाकसाधनसम्पत्तावोदनो भवेत् न येति चिन्ता सम्भवति, नापि भुञ्जानस्तृप्येत् न वेति चिन्त्यते। उपपन्ना त्वियं चिन्ता, ब्रह्मविदामपि केपाञ्चित् इतिहासपुराणयोर्देहास्तरोत्तिदर्शनात्। तथा ह्यपान्तरतमानाम वेदाचार्थः पुराणर्षिर्विष्णुनियोगात् कलिद्वापरयोः सन्धो कृणद्वैपायतः सम्बभूवेति स्मरणं, वसिष्ठश्च ब्रह्मणो मानसं पुत्त्रः सन्निमिशापादपगतपूर्वदेहः पुनब्रह्मादेशात् मित्रावरुणाभ्यां सम्वभूवेति। भृग्वादीनामपि ब्रह्मण एव मानसानां पुत्त्राणां वरुणे यज्ञे पुनरुत्पत्तिः स्मर्यते। सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्त्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव। एवमेव दक्षनारदप्रभृतीनाभपि भूयसी देहान्तरोत्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ श्रुतावपि मन्त्रार्थवादयाः प्रायेणोपलक्ष्यते। ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशादनेकदेहागमन्यायेन, सर्वे चैते समधिगतसकलवेदार्थाः स्मर्यन्ते। तदेतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेत्यत उत्तरसुच्यते। न, तेषामपान्तरमःप्रभृतीनां वेदप्रवर्त्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानां अधिकारतन्त्रत्वात् स्थितेः। यथासौ भगवान् सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति, “अथ ततऊर्द्ध, उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता” इति श्रुतेः। यथा च वर्त्तमाना ब्रह्मविदः प्रारब्धमोगक्षये कैवल्यमनुभवन्ति “तस्य तावदेव चिरं यावत् न विमोक्ष्येऽथ सम्पत्स्ये” इति श्रुतेः। एवमपान्तरतगःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्णो यावदधिकारमवदिष्ठन्ते तदवसाने चापवृज्यन्त इत्यविरुद्धम्। सकृत्प्रवृत्तमेव हि तेऽधिकारफलदानाय कर्माशयमतिवाहयन्तः ख्वातन्त्र्येण गृहादिब गृहान्तरमन्यमन्यं देह्रं सञ्चरन्तः स्वाथिकारनिर्वर्तनायापरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्म्माय देहान् युगपत्क्रमेण वाधितिष्ठन्ति। न चैते जातिस्मरा इत्युच्यते, तएव ते, इति स्मृतिप्रसिद्धेः। यथा “सुलभा ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहं जानकं देहमाविश्य व्युद्य तेन पश्चात्तं स्वमाविवेश” इति स्मर्यते। यदि ह्युपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्म्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् ततोऽन्यदप्यदग्धवीजं कर्म्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वा शङ्क्येत, न त्वियमाशङ्का युक्ता ज्ञानात् कर्मवीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात्। तथा च श्रुतिः– “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे” इति “स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः। इति चैवमाद्या। स्मृतिरपि “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन!। ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुते तथा”। इति“वीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः” इति–चैवमाद्या। न चाविद्यादिक्लेशदाहे सति क्लेशवीजस्य कर्म्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते, न ह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते। प्रवृत्तफलस्य तु कर्म्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः “तस्य तावदेव चिरम्” इति शरोरपातक्षेपकरणात्। तस्मादुपपन्ना यावदधिकारमाधिकारिकाणामवस्थितिः, न च ज्ञानफलस्यानैकान्तिकता। तथा च श्रुतिरविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति “तद्यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्वीणां तथा मनुष्याणाम्ं इति। ज्ञानान्तरेषु चैश्वर्य्यादिफलेष्वासक्ताः स्युर्महर्षयः ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः बरमात्महा ने परिनिष्ठाय कैवल्यं ययुरित्युपपद्यते। “ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” इति स्मरणात्। प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः। कर्मफले हि स्वर्गादावनुभवानारूढे स्यादपि कदाचिदाशङ्का भवेद्वा न वेति, अनुभवारूढन्तु ज्ञानफलं “यत्साक्षादपरोक्षाद्व्रह्म” इति श्रुतेः, “तत्त्वमसि” इति च सिद्धवदुपदेशात्। न हि “तत्त्वमसि” इत्यस्य वाक्यस्यार्थः तत्त्वं मृतो भविष्यसि इत्येवं शक्यः परिणेतुम्। “तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्य्यश्च” इति सम्यग्दर्शनकालमेव तत्फलं सर्व्वात्मत्वं दर्शयति। तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः” भा०। ४। १ पादे च।

“तदधिगम उत्तरपूर्वाथयोरश्लेषविनाशौ तद्व्यपदेशात्” १३ सू०।

“गतस्तृतीयशेषः, अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रजायते, ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते न वा क्षीयत इति संशयः। किं तावत् प्राप्तं फलार्थत्वात् कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः। फलदायिनी ह्यस्य शक्तिः श्रुत्या समधिगता। यदि तदन्तरेणैव फलोपभोगमुपमृद्येत श्रुतिः कदर्थिता स्यात्। स्मरन्ति च ‘न हि कर्म्माणि क्षीयन्ते’ [म० भा०] इति। नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्तोति। नैष दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहदाहेष्ट्यादिषत्। अपि च प्रायश्चित्तानां दोषसंयोगेन विधानात् भवेदपि दोषक्षपणार्थता, नत्वेवं ब्रह्मविद्याया विधानमस्ति। नन्वनभ्यु पगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात्। नेत्युच्यते देशकालनिमित्तापेक्षो मोक्षः कर्मफलवद्भविष्यति। तस्मात् न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्वाघयोरश्लेषविनाशौ भवतः, उत्तरस्याश्लेषः, पूर्वस्य विनाशः। कस्मात्, तद् व्यपदेशात् तथा हि व्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्यामामिनो दुरितस्यानभिसम्बन्धं बिदुषो व्यपदिशति “यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि षापं कर्म न श्लिष्यते” इति। तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति “तद्यथेषीकातूमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति। अयमपरः कर्मक्षयव्यपदेशो भवति। “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मित् दृष्टे परावरे” इति। यदुक्तमनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रकदर्थनं स्यादिति। नैष दोषः, न हि वयं कर्मणः फलदायिनीं शक्तिमवजांनीमहे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति बदामः। शक्तिमद्भावमात्रे च शास्त्रं व्याप्रियते न प्रतिबन्धाप्रतिबन्धयोरपि। न हि कर्म क्षीयत इत्येतदपि स्मरणमौत्सर्गिकं न हि भोगादृते कर्म क्षीयते तदर्थत्वादितिं, इष्यत एव प्रायश्चित्तादिना दुरितस्य क्षयः “सर्वं पाप्मानं तरति” “तरति ब्रह्महत्यां योऽश्वमेधेन यजते”। य उचैनमेवं वेद” इत्यादि श्रुतिस्मृतिभ्यः। यत्तूक्तं नैमित्तिकानि प्रायश्चित्तानि भविष्यन्ति इति। तदसत्, दोषसंयोगेन चोद्यमानानामेषां दोषनिष्कृतिफलसम्भवे फलान्तरकल्पनानुपपत्तेः। यत्पुनरेतदुक्तं न प्रायश्चित्तवद्दोषक्षयोद्देशेन विद्याविधानमस्तीति अत्र ब्रूमः। सगुणासु तावद्विद्यासु विद्यत एव विधानं, तासु च वाक्यशेषे ऐश्वर्य्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्तीत्यतः पाप्मप्रहाणपूर्वकैश्वर्य्य प्राप्तिस्तासां फलमिति निश्चीयते। निर्गुणायान्तु विद्यायां यद्यपि विधानं नास्ति तथाप्यकर्त्रात्मत्वबोधात् कर्मप्रदाहसिद्धिः। अश्लेष इति चागामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते व्रह्मविदितिदर्शयति। अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेदे इव तथापि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्तेस्तान्यपि प्रलीयन्त इत्याह विनाश इति। पूर्वप्रसिद्धकर्तृत्वभोक्तृत्वस्वरूपविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि नेतः पूर्वमपि कर्त्ता भोक्ता वाऽहमासं नेदानीं नापि भविष्यति काले इति ब्रह्मविदवगच्छति। एवमेव च मोक्ष उपद्यते, अन्यथा ह्यनादिकालप्रवृत्तानां कर्मणां क्षयाभाये मोक्षाभावः स्यात्। न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति, अनित्यत्वप्रसङ्गात् परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य। तस्मात् ब्रह्नाधिगमे दुरितक्षय इति स्थितम्”। भा० “इतरस्याप्येवमसंश्लेषः पाते तु” ४। १। १४ सू० “पूर्वस्मिन्नधिकरणे बन्धहेतोरधस्य स्वाभाविकस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ, धर्मस्य पुनः शास्त्रोयत्वात् शास्त्रीयेण ज्ञानेनाविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते। इतरस्याऽपि पुण्यस्य कर्मण एवमधवदसंश्लेषो विनाशश्च ज्ञानवतो भवतः। कुतः, तस्याऽपि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात्। “उभे उहैवैष एतेन तरति” इत्यादिश्रुतिषु दुष्कृतवत् सुकृतस्याऽपि प्रणाशव्यपदेशात् अकर्त्रात्मबोधनिमितस्य च कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् “क्षीयन्ते चास्य कर्माणि” इति चाविशेषश्रुतेः। यत्रापि केवल एव पाप्मशब्दः पठ्यते तत्रापि तेनैव पुण्यमप्याकलितमिति दष्टव्यं, ज्ञानापेक्षया निकृष्टफलत्वात्। अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः ‘वैनं सेतुमहोरात्रे तरतः’ इत्यत्र सह दुष्कृतेन सकृतमप्यनुक्रम्य “सर्वे पाप्मानोऽतो निवर्तन्त” इत्यविशेषेणैव प्रकृतेषु पाप्मशब्दप्रयोगात्। पाते त्विति। तुशब्दोऽवधारणार्थः। एवं धर्म्माधर्मयोर्बन्धहेत्वोर्विद्यासामर्थ्यादश्लेषविनाशसिद्धेरवश्यम्भाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति।” भा० “अनारब्धकार्य्ये एव तु पूर्वे तदवधेः।” ४। १। १५ सू० “पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः, स किमविशेषेणारब्धकार्य्ययोरनारब्धकार्य्ययोश्च भवत्युत विशेषेणानारब्धकार्य्ययोरेवेति विचार्य्यते। तत्र “उभे उहैवैष एतेन तरति” इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते प्रत्याह अनारब्धकार्य्ये एव त्विति। अप्रवृत्ते फले एव पूर्वे जन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् ज्ञानोत्पत्तेः सञ्चित सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते नत्वारब्धकार्य्ये सामिभुक्तफले याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम्। कुत एतत्, “तस्य तावदेव चिरं यावन्न विमोक्ष्ये” इति शरीरपातावधिकरणात् क्षेमप्राप्तेः, इतरषा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरारपातप्रतीक्षां नाचक्षीत। ननु वस्तुबलेनैवायमकर्त्रात्मत्वबोधः कर्म्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत, न हि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति। उच्यते, न तावदनाश्रित्यारब्धकार्य्यं कर्म्माशयं ज्ञानोत्पत्तिरुपपद्यते, आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवगस्याऽन्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम्, अकर्त्रात्मत्वबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति, बाधितमपि मिथ्याज्ञानं द्विचन्द्रादिज्ञानवत्ं संस्कारवशात् कञ्चित् कालमनुवर्तत एव। अपि च नैवात्र विवदितव्यं ब्रह्मविदः कञ्चित् काल शरीरं ध्रियते न ध्रियत इति। कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणञ्चापरेण प्रतिक्षेप्तुं शक्येत। श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेनैतदव निरुच्यते तस्मादनारब्धकार्य्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय इति निर्णयः।” भा० “भोगेन त्वितरे क्षपयित्वा सम्पद्यते” ४। १। १९ सू० “अनारब्धकार्य्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् क्षय उक्तः, इतरे त्वारब्धकार्य्ये पुण्यपापे उपभोगेन क्षप यित्वा ब्रह्म सम्पद्यते “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति “ब्रह्मैव सन् ब्रह्माप्येति” इति चेवमादिश्रुतिभ्यः। ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तमेवं पश्चादप्यनुवर्तेत। न, निमित्ताभावात्। उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तं, न च तादृशमत्र किञ्चिदस्ति। नन्वपनः कर्माशयोऽभिनवमुपभोगमारप्स्यते। न, तस्य दग्धवीजत्वात्। मिथ्याज्ञानावष्टम्भं हि कर्म्मान्तरं देहपाते उपभोगान्तरमारभते, तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धमित्यतः साध्वेतदारब्धकार्य्यक्षये विदुषः कैवल्यमवश्यम्भावीति।” ४। १। भा० “यत्तु सञ्चितं कर्म्मान्तरं तन्न निमित्त फलम्य दग्धमूलत्वात्। अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम्। तदुक्तं योगशास्त्रे “क्लेशमूलः कर्म्माशयः सति मूले तद्विपाकः” इति तच्च मूलं ज्ञानाग्निना दग्धमितिकुत पुनः संसारः तस्माद्देहपातेकैवल्यमिति सिद्धम्” आ० गि० सांख्यकारिभायां तत्त्वकौमुद्यामत्रविशेषो उक्तो यथा “सम्यग्ज्ञानाधिगमाद्धर्म्मादीनामकारणप्राप्त। तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशंरीरः।” साङ्ख्यकारिका। “तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि कर्म्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपपभोगलक्षणाय फलाय कल्पते। क्लेशसलिलापसिक्तायां हि बुद्धिभूमौ कर्मवीजान्यङ्कुरं प्रसुवते तत्त्वज्ञाननिदाघनिपीतसकलकेशसलिलायामूषरायां कुतः कर्मवीजानामङ्कुरप्रसवः। तदिदमुक्तं धर्म्मादीनामकारणप्राप्ताविति अकारणत्वप्राप्तावित्यर्थः। उत्पन्नतत्त्वज्ञानेऽपि च संस्कारवशात्तिष्ठति। यथोपरतेऽपि कुलालव्यापारे चक्रं वेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति। कालपरिपाकवशात्तूपरते संस्कारे निष्क्रियं भवति। शरीरस्थितौ च प्रारब्धपरिपाकौ धर्म्माधर्म्मौ संस्कारौ। तथाच श्रूयते “भोगेन त्वितरे क्षपयित्वाथ सम्पद्यत” इति “तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति। प्रक्षीयमाणाविद्याबिशषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धतशरीरस्तिष्ठति” तत्त्वकौ०।

सा० सू० भाष्येऽप्युक्तं यथा “बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः” सू०। “सकृत् सम्प्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यवियेकावस्थो मध्यमविवेकेऽपि सति पुरुषे वाधितानामपि दुःखादीनां प्रारब्धवशात् प्रतिविम्बरूपेण पुरुषेऽनुवृत्त्या भोगो भवतीत्यर्थः। विवेकनिष्पतिश्चापुनरुत्थानादसम्प्रज्ञातादेव भवतीत्यतस्तस्यां सत्यां न मोगोऽन्तीति प्रतिपादयितुं मध्यविवेकत इत्युक्तम्। मन्दविवेकस्तु साक्षात्कारात् पूर्वं श्रवणमननध्यानमात्ररूप इति विभागः” भा०।

जीवन्मुक्तश्च सू०।

“जीवन्मुक्तोऽपि मध्यविवेकावस्थ एव भवतीत्यर्थः। जीवन्मुक्ते प्रमाणमाह” भा०। “उपदेश्योषदेष्टृत्वात् तस्तिद्धिः” सू०।

“शास्त्रेषु विवेकविषये गुरुशिष्यभावश्रवणाज्जीवन्मुक्तसिद्धिरित्यर्थः। जीवन्मुक्तस्यैबोपदेष्टृत्वसम्भवादिति” भा०।

“श्रुतिश्च” सू०।

“श्रुतिश्च जीवन्मुक्तेऽस्ति “दीक्षयैवनरो मुच्येत् तिष्ठेन्मुक्तोऽपि विग्रहे। कुलालचक्रमध्यस्थो विच्छिन्नोऽपि भ्वमेद्धटः”। “ब्रह्मैव सन् ब्रह्माप्येतीत्यादि” रिति। नारदीयस्मृतिरपि “पूर्वाभ्यासबलात् कार्य्ये न लोको न च वैदिकः। अपुण्यपापः सर्वात्मा जीवम्मुक्तः स उच्यते”। इति। ननु श्रवणमात्रेणा- प्युपदेष्टृत्वं स्यात् तत्राह” साङ्खप्रवचनभाष्यम्।

“इतरथान्धपरम्परा”। सू०।

“इतरथा मन्दविवेकस्याप्युपदेष्टृत्वेऽन्धपरम्परापत्तिरित्यर्थः। सामग्र्येणात्मतत्त्वमज्ञात्वा चेदुपदिशेत् कस्मिंश्चिदंशे खभ्रमेण शिष्यमपि भ्रान्तीकुर्य्यात् सोऽप्यन्यं सोऽप्यन्यमित्येवमन्धपरम्परेति। ननु ज्ञानेन कर्मक्षये सति कथं जीवनं स्यात् तत्राह” भा० “चक्रभ्रमणवद्धृतशरीरः”। सू० “कुलालकर्मनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव यथा कियत्कालं चक्रं भ्रमति। एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्मवेगेन चेष्टमानं शरीरं धृत्वा जीवन्मुक्तस्तिष्ठतीत्यर्थः। ननु ज्ञानहेतुसम्प्रज्ञातयोगेन भोगादिवासनाक्षये कथं शरीरधारणम्। न च योगस्य संस्काराभिभावकत्वे किं मानमिति वाच्यम्। “व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधपरिणाम” इति योगसूत्रतस्तत्सिद्धेः। चिरकालीनस्य विषयान्तरावेशम्य विषयान्तरसस्काराभिभावकतया लोकेऽप्यनुभवाच्चेति तत्राह।” भा० “संस्कारलेशतस्तत्सिद्धिः।” सू० “शरीरधारणहेतवो ये विषयसंस्कारास्तेषामल्पावशेषात् तस्य शरीरधारणस्य सिद्धिरित्यर्थः। अत्र चाविद्यासंस्कारलेशस्य सत्ता नापेक्ष्यते अविद्याया जन्मादिरूपकर्मविपाकारम्भमात्रे हेतुत्वात्। योगभाष्ये व्यासैस्तथा व्याख्यातत्वात्। “वीतरागजन्मादर्शनादिति” न्यायाच्च। न तु प्रारब्धफलककर्मभोगेऽपीति। यत्र च नियमेनाविद्यापेक्ष्यते स प्रयासविशेषरूपो भोगी मूढेष्वेवास्ति जीवन्मुक्तानां तु भोगाभास एवेति प्रागुक्तम्। यत् तु कश्चिदविद्यासंस्कारलेशोऽपि जीवन्मुक्तस्य तिष्ठतीत्याह तन्न धर्म्माधर्म्मोत्पत्तिप्रसङ्गात्। अन्धपरम्पराप्रसङ्गात्। अविद्यासंस्कारलेशसत्ताकल्पने प्रयोजनाभावाच्च। एतच्च ब्रह्ममीसांसाभाष्ये प्रपञ्चितमिति” भा०।

जीवन्मुक्ति = स्त्री जीवतो मुक्तिः। जीवतो बन्धनिवृत्तौ जीवतः पुरुषस्य कर्त्तृत्वभोक्तृत्वनिबन्धनसुखदुःखविशेषक्लेशादिरूपस्य निवृत्तौ। तस्या उपायास्तु श्रवणमननयोगाभ्यासादयः तन्त्रोक्तकुलाचाराश्च। “जीवन्मुक्तावुपायस्तु कुलमार्गो हि नापरः” इति तन्त्रोक्तेः।

जीवन्मृत = त्नि० जीवन्नव मृतः मृततुल्यः। जीवता कर्त्तव्यकार्य्यस्याकारणात् मृतसमे आत्मम्भरौ स हि जीवन्नपि वैश्वदेवातिथिभोजनाद्यन्तरेण आत्मनः पोषणेन नित्यका- र्य्याकरणात् मृतसमः। अतएवाह दक्षः “जीवन्तो मृतकाश्चान्ये य आत्मम्भरयो नराः”।

***