जलरङ्क = पुंस्त्री जले रङ्क इव। वकपक्षिणि हेमच० स्त्रियां जातित्वात् ङीष्।

जलरङ्कु = पु० जले रङ्कुरिव। दात्यूहखगे हारा०।

जलरञ्ज = पुंस्त्री जले रजति रन्ज–अच्। वकखगे हेमच० स्त्रियां जतित्वात् ङीष्।

जलर(रु)ण्ड = पु० जलस्य र(रु)ण्ड इव। १ जलावर्त्ते २ तीयरेणौ ३ भुजङ्गमे पुंस्त्री हेमच० स्त्रियां जातित्वात् ङीष् उकारयुक्तमध्यः मेदि०।

जलरस = पु० जलप्रधानो रसोऽस्य जलजातो वा इसः। १लबणे हारा० लवणस्य जलविशेषपाकेन जातत्वात् तथात्वम्। अतएव तस्य जलमध्ये निक्षेपे स्वप्रकृतिजलरूपत्वं भवतीति लोकवेदयोः प्रसिद्धम्। ६ त०। २ तोयस्य रसे च।

जलराक्षसी = स्त्री जलस्थिता राक्षसी। सिंहिकानाम्न्यां छायां गृहीत्वाऽऽकर्षिण्यां लवणाम्भसि स्थितायां राक्षस्याम् “शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्” भा० ब० २८१ अ०। सा हि हनूमता यथा हता तथा रामा० सु० १ अ० उक्तम्।

“प्लवमानन्तु तं दृष्ट्वा सिंहिका नाम राक्षमी। मनसा चिन्तयामास प्रवृद्धा कामरूपिणी। अद्य दीर्थस्य कालस्य भविष्याम्यहमाशिता। इदं मम महासत्वं चिरस्य वशमागतम्। इति संचिन्त्य मनसा च्छायामस्य समाक्षिपत्। छायायां गृह्यमाणायां चिन्तयामास वानरः। समाक्षिप्तोऽस्मि सहसा षङ्गूकृतपराक्रमः। प्रतिलोमेन वातेन महानौरिव सागरे। तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः। ददर्श स महासत्वमुत्थितं लवणाम्भसि। तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम्। कपिराज्ञा यथाख्यातं सत्वमद्भुतदर्शनम्। छायाग्राहि महावीर्यं तदिदन्नात्र संशयः। स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः। व्यवर्धत महाकायः प्रावृषीव वलाहकः। तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः। वक्त्रं प्रसारयामास पातालाम्बरसन्निभम्। घनराजीव गर्जन्ती वानरं समदिदवत। स ददर्श ततस्तस्या विकृतं सुमहन्मुखम्। कीयमात्रञ्च मेधावी मर्माणि च महाकपिः। स तस्या विकृते वक्त्रे वजसंहननः कपिः। संक्षिप्य मुहुरात्मानं निपपात महाकपिः। आस्ये तस्यानिमज्ज न्तन्ददृशुः सिद्धचारणाः। ग्रस्यमानं यथा चन्द्रं पूर्वं पर्वणि राहुणा। ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः। उत्पपाताथ वेगेन मनःसम्पातविक्रमः”।

जलराशि = पु० ६ त०। १ जससमूहे जलानां राशिरत्र। २ समुद्रे च “क्षमातलं बलजलराशिरानशे” माघः।

जलरुह् = न० जले रोहति रुह–क्विप् ७ त०। १ पद्मे हेमच०। क। जलरुहमप्यत्र हेमच० “जलं तच्छुशुभे छन्नं फुल्लैर्जलरुहैस्तथा” भा० आ० १२८ अ०। २ तोयरोहिमात्रे त्रि०।

जलरूप = पुंस्त्री जलस्य रूपमिव रूपमस्य शुभ्रत्वात्। १ मकरे त्रि० स्त्रियां जातित्वात् ङीष्। ६ त०। २ तोयस्य रूपे न०।

जललता = स्त्री जलस्य लतेव सन्ततिमत्त्वात्। तरङ्गलेखायां हारा०।

जलवरण्ट = पु० जलप्रधानो वरण्टः। (पानिबसन्त) वसन्तव्रणभेदे। हारा०।

जलवल्कल = पु० जलानां वल्कल इव। कुम्भिकायाम्। (पाना) हारा०।

जलवल्ली = स्त्री जलजाता वल्ली। शृङ्गाटकलतायां राजनि०।

जलवाद्य = न० जलं वाद्यमिव। पाणिताडने वाद्यतुल्यध्वनियुक्ते जले “आकाशगङ्गाजलवाद्यतज्ज्ञाः” हरिवं० २४८ अ०।

जलवानीर = पु० जलजातो वानीरः। अम्बुवेतसे शब्दार्थचि०

जलवायस = पुंस्त्री जले वायस इव कृष्णत्वात्। (पानिकौडी) मद्गुखगे। स्त्रियां जातित्वात् ङीष्।

जलवास = न० जलेन वास्यते सुरभीक्रियते वासि–कर्म्मणि अच। १ उशीरे राजनि०। तस्य जलसेचनेन सौरभीत्पादात्तथात्वम्। ७ त०। २ तोये वासे। “स चिन्तयामास मुनिर्ज्जलवासे कदाचन” भा० शा० २६२ अ०। जलं वासयति सुरभीकरोति वासि अण् उप० स०। ३ विष्णुकन्दे राजनि०।

जलवाह = पु० जलं वहति बह–अण् ऊप० स०। १ वारिवाहे मेघे हेमच० तन्नाममायके २ कर्पूरे च “साद्रिजलधिजलवाहपथम्” किरा०। ३ जलवाहकमात्रे त्रि० “जलवाहास्तथा मेघाः वायवस्तनयित्रवः” भा० स० ७ अ०।

जलविडाल = पुंस्त्री जले विडाल इव। (उद्विडाल) जलनकुले हारा०। स्त्रियां जातित्वात् ङीष्।

जलविन्दुजा = स्त्री जलविन्दुभ्यो जायते जन–ड। यावनालीशर्कराभेदे राजनि०। २ तोयविन्दुजातमात्रे त्रि०।

जलविपुव(त्) = न० जलप्रधान विषुव(त्)। राशिचक्रस्थे तुलाराशिरूपे स्थानभेदे “भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्” सू० सि० “भचक्रनामौ भगोलस्य ध्रुवद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितयं विषुवद् द्वयं समसूत्रगं परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये विषुववृत्तस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्सञ्ज्ञौ मेषतुलाख्यौ चेत्यर्थः” रङ्ग०। २ विषुवन्तु समाख्यातं तुलामेषभयोस्तथा” ज्यो० ऊक्ते २ तत्र रवेः संक्रमे च। संक्रान्तिश्च चलस्थिरभेदाभ्यां द्विविधा अयनसंक्रान्तिशब्दे ३३९ दर्शिता। जलविषुवसंक्रान्तिनक्षत्रतः स्थानविशेषे स्वनक्षत्रपाते तत्फलज्ञानार्थं जलविषुवचक्रं ज्यो० उक्तं यथा। “षड्मूर्द्ध्नि, वदने पञ्च, चत्वारि, हृदये, तथा। त्रितयं करणादेषु” पयोविषुवभक्रमात्” त्रितयं त्रितयमिति करपादेषु द्वादश इति २७ नक्षत्राणि स्थाप्यानि तत्र स्थानभेदे फलञ्चोक्तं “मानं वैरं बहुमुखलाभं भोगं त्रासं जलविषुवेषु” ज्यो०। पयोविषुवादयोऽप्यत्र।

जलवृश्चिक = पु० जले वृश्चिक इव। (चिङ्गडि) मत्स्ये त्रिका०।

जलवेतस = पु० जलजातो वेतसः। अम्बुवेतसे वेतसभेदे राजनि०

जलवैकृत = न० विकृतस्य भावः अण् ६ त०। दूर्निमित्तसूचके नद्यादीनां जलविकारभेदे तत्फलादिकमुक्तं वृ० स० ४६ अ० यथा।

“अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते। शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम्। स्नेहासृङ्मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि। परचक्रस्यागमनं सद्यः कथयन्ति षण्मासात्। ज्वालाधूमक्काथा रुदितोत्क्रुष्टानि चैव कूपानाम्। गीतप्रजल्पितानि च जनमरकाय प्रदिष्टानि। तोयोत्पत्तिरखाते गन्धरसविपर्य्यये च तोयानाम्। सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम्। सलिलविकारे कुर्य्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः। तैरेव च जपहोमं शममेवं पापमुपयाति”।

जलव्यध = पु० जलं विध्यति व्यध–अच्। कङ्कत्रोटमत्स्ये त्रिका०।

जलव्याल = पु० जलस्थो व्यालो हिंस्रः। (ढोडा) १ सर्पभेदे, अमरः। स्त्रियां जातित्वात् ङीष्। क्रूरकर्म्मणि २ जन्तौ च।

जलशय = पु० जले शेते शी–अच् ७ त०। विष्णौ हेमच० सप्तम्या वा अलुकि। जलेशयोऽप्यत्र।

जलशयन = पु० जलं शयनमस्य। विष्णौ हला०।

जलशायिन् = पु० जले समुद्रजले शेते शी–णिनि। नारायणे। “एकार्णवेऽहिशयने योगनिद्रामुपागतः। आस्त्री- र्य्यशेपमभजत् कल्पान्ते भगवान् प्रभुः” देवीमा०।

जलशुक्ति = स्त्री जलस्य शुक्तिरिव। शम्बूके अमरः।

जलशूक = न० जलस्य शूकमग्रमिव। शैवाले हेमच०। “क्षीरशुक्लाजलशूकमधुरवर्गं प्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात्” सुश्रुतः।

जलशूकर = पु० जलस्य शूकर इव। कुम्भीरे हेमच०।

जलसन्ध = पु० धृतराष्ट्रभेदे। “विविंशतिर्विकर्णश्च जलसन्धः सुलोचमः” भा० आ० ६७०। तत्पुत्रोक्तौ।

जलसमुद्र = पु० जलमयः समुद्रः। लवणादिषु सप्तसु समुद्रेषु शेषसमुद्रे “लवणजलधिरादौ दुग्धसिन्धुश्च तस्मात्” इत्युपक्रमे दध्नो घृतस्येक्षुरसस्य तस्मात् मद्यस्य च स्वाद्बजलस्य चान्त्यः” सि० शि०।

जलसरस = न० नित्यस० सरस् + संज्ञायाम् अच् समा०। सरोभेदे।

जलसर्पिणी = स्त्री जले सर्पति सृप–णिनि। जलौकायाम् (जोंक) हेमच०।

जलसूचि = स्त्री जलस्था सूचिरिव। १ कङ्कत्रोटमत्स्ये २ शृङ्गाटके ३ शिशुमारे ४ जलौकायां च मेदि० ५ काके पुंस्त्री हेमच०।

जलस्तम्भ = न० जलं स्तभ्यतेऽनेन स्तन्भ–करणे ल्युट्। १ जलसम्भनसाधने मन्त्रादौ। भावे ल्युट्। जलस्य २ सम्भने च जलस्तम्भनविद्या च दुर्य्योधनविदिता तया द्वैपायनह्रदजलं संस्तभ्य स सुष्वाप तत्कथा भा० शा० ३० अ०। “एवमुक्त्वा महाराज! प्राविणत्तं महाह्रदम्। अस्तम्भयत तोयञ्च मायया मनुजाधिपः” इत्यादिका।

जलस्था = स्त्री जले तत्समीपे तिष्ठति स्था–क। १ गण्डदूर्वायां राजनि० २ जलस्थितमात्रे त्रि०।

जलह = न० जलेन हन्यते–हन–वा० ड ३ त०। स्वल्पजलयन्त्रगृहे त्रिका०।

जलहरण = न०६ त०। तोयस्य स्थानान्तरनयने “लघुगुरुकनियमगतमिह फणिपतिमतमवगतमतिसुखनिगदपदम् दशवसुभुवनैर्यतिरिह यदि भवति हि रासकजनहृदयविहितमदम्। वसुविमलचतुष्कलगणहृतगुणिगणचरणविरामाहितसगणम् क्वचिदपि गुरुसहितं भवति कविहितं छन्दः सुन्दरि! जलहरणम्” इत्युक्तलक्षणे २ मात्रावृत्तभेदे।

जलहस्तिन् = पु० जले हस्तीव ७ त०। जलस्थे हस्तिरूपे जन्तुभेदे। हेमच०।

जलहार = त्रि० जलं हरति हृ–अण् उप० स०। जलहारके जलवाहके (भारि) प्रभृतौ स्त्रियां टाप् पा० मुग्धबो० षण् ईप्। “शिरसा धृतकुम्भाभिर्बद्धैरग्रस्तनाम्यरैः। यमना तीरमार्गेण जलहारीभिरावृतम्” हरिवं० ६१ अ०। अत्र पा० गौरा० ङीष्।

जलहारिन् = त्रि० जलं हरति हृ–णिनि। जलवाहके। स्त्रियां ङीप्। “याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते च” सुश्रुतः।

जलहास = पु० जलानां हास इव शुभ्रत्वात्। १ फेने, २ समुद्रफेने च। त्रिका०।

जलहोम = पु० जले क्षिप्तः होमः ७ त०। जले क्षेप्तव्ये वैश्वदेवादिहोमभेदे तद्विधिः सं० त० दर्शितो यथा “लौकिके वैदिके चैव हूतोच्छिष्टं जले क्षितौ। वैश्वदेवश्च कर्त्तव्यः पञ्चसूनापसुत्तये”।

जलह्रद = पु० जलप्रचुरो ह्रदः शा० त०। जलबहुले ह्रदे जलह्रदस्येदं तत्र भवो वा शिबा० अण्। जालह्रद तत्सम्बन्धिनि तत्र भवे च त्रि० स्त्रियां ङीप्।

जलाका = स्त्री जले आकायति प्रकाशते आ + कै–क। जलौकायां शब्दर०।

जलाकाश = पु० जलप्रतिविम्बितः जलावच्छिन्नो वा आकाशः शा० त०। जलप्रतिविम्विते २ जलावच्छिन्ने वा आकाशे “जलावच्छिन्नखे नीरं यत्, तत्र प्रतिविम्बितः। साभ्रनक्षत्रआकाशो जलाकाश उदीर्य्यते” शब्दार्थचि०। नीरूपस्याकाशस्य प्रतिविम्बासम्भवेन साभनक्षत्रेति विशेषणम्। एतच्च प्रतिविम्बवादे नीरूरस्य प्रतिविम्बासम्भवमभिप्रेत्य विवरणाचार्य्यैरवच्छिन्नवादोऽङ्गीकृतः। तन्मते जलावच्छिन्नआकाश एव जलाकाश इति भेदः। अवच्छिन्नवादशन्दे ४२० पृ० दृश्यम्।

जलाक्षी = स्त्री जलमक्ष्णोति व्याप्नोति कारणतया अक्ष–अण् गौरा० ङीष्। जलपिप्पल्यां शब्दर०।

जलाखु = पु० जले आखुरिव। जलनकुले त्रिका०।

जलाञ्चल = न० जलमञ्चति अन्च–बा० अलच् ६ त०। १ शैवाले जलस्याञ्चलमिव। २ स्वतो वारिनिर्गमे (स्वतो निर्गच्छद्वारिणि) मेदि०।

जलाञ्जलि = पु० जलपूर्णोऽञ्जलिः। १ जलपूर्णाञ्जलौ अञ्जलिपूर्णवारिणि उपचारात् २ तद्दानरूपायां पितॄणां तर्पणक्रियायाम्। “कुपत्रमासाद्य कुतो जलाञ्जलिः” चाण०।

जलाटन = पुंस्त्री जले अटति अट–ल्यु। १ कङ्कपक्षिणि स्त्रियां जातित्वात् ङीष्। २ जलौकायां स्त्री मेदि० तत्र गौरा० ङीष्।

जलाण्टक = पुंस्त्री जले अटति अट–ण्वुल् पृषो०। नक्रराजे हारा० स्त्रियां जातित्वात् ङीष्।

जलाण्डक = न० जले अण्ड इव कायति कै–क। प्रोताधाने क्षुद्रे मत्स्याण्डसंघाते जले अणुरिव कायति कैः क। जलाणुक इति पाठान्तरम् तत्रार्थे हेमच०।

जलात्मक = त्रि० जलमेवात्माऽस्य कप्। १ जलमये। २ जलौकायां स्त्री शब्दरत्ना० कापि अत इत्त्वम्।

जलात्यय = पु० जलस्यात्ययोः यत्र। १ शरत्काले ६ त०। २ जलानामपगमे च।

जलाधार = पु० ६ त०। जलानामाधारे तडागादौ अमरः। “आकाशमेकं हि यथा घटादिषु पृथक् भवेत्। तथात्मैकोऽप्यनेकस्तु जलाधारेष्विवांशुमान्” याज्ञ०।

जलाधिदैवत = पुंन० ६ त०। १ वरुणे हलायुधः लिपिकरप्रमादकृतपाठदर्शनात् पुंस्त्वोक्तिः प्रमादिकी शरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः पा० तत्पुरुषे परलिङ्गस्यैव विधानेन पुंक्लीवत्वस्यैवौचित्यात्। जलमधिदैवतमस्य। २ पूर्बाषाढानक्षत्रे न०।

जलाधिप = पु० ६ त०। १ वरुणे। “नाशक्नोदग्रतः स्थातुं विप्रचित्तेर्जलाधिपः” हरिवं० २५२ अ०। जलाधीशादयोऽप्यत्र। वत्सरभेदे २ जलपतौ रव्यादिग्रहे च जलशब्दे कृषिपराशरवाक्यम् दृश्यम् वत्सरभेदेन जलाधिपतिभेदानयनं तत्फलञ्च ज्यो० त० उक्तं यथा “जीवार्कबुधमन्दारकाव्यचन्द्रमसः क्रमात्। राजा मन्त्री जलाधीशः शस्यपोऽद्रि७ हृतात् शकात्”। सप्तहृतशकाङ्के एकशेषे जीवो राजा अर्को मन्त्रीबुधो जलाधिपः शनिः शस्याधिपः। द्व्यवशेषे रव्यादिः। त्र्यवशेषे बुधादिः। चतुरवशेषे मन्दादि। पञ्चावशेषे भौमादि। षडवशेषे काव्यादि। सप्तावशेषे चन्द्रादि। मालान्यायेन पुनः जीवादीनां ग्रहणम्।

जलान्तक = पु० जलमेवान्तो भूमण्डलस्य सीमा यत्र कप्। सप्तसमुद्रान्तर्गते स्वादूदके समुद्रे तदुत्तरं द्वीपान्तराभावेन तस्य भूमण्डलस्यान्तसीमात्वम्। “लवणेक्षुसुरासर्पिर्द्दधिदुग्धजलान्तकाः” त्रिका०। वासुदेवस्य सत्यभामायां पत्न्यां जाते २ पुत्रभेदे “जज्ञिरे सत्यमामायामित्युपक्रमे “रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः” हरिवं० १६३ अ०।

जलाम्बिका = स्त्री जलस्याम्बिकेव। कूपे हारा०।

जलायुका = स्त्री जलमायुरस्याः कप् वृषो०। जलौकायां (जोंक) शब्दरत्ना० तद्भेदलक्षणाधिकं सुश्रुते उक्तं यथा।

“अथ जलायुका वक्ष्यन्ते। जलमासामायुरिति जलायुका जलमासामोक इति जलौकसः। ता द्वादश तासां सविषाः षट्, तावत्य एव निर्विषाः। तत्र सविषाः कृष्णा कर्वुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति। तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा। वर्म्मिमत्स्यावदायता छिन्नोन्नतकुक्षिः कर्वुरा। रोमशा महापार्श्वा कृष्णमुख्यलगर्द्दा। इन्द्रायुधवदूर्द्धराजिभिश्चित्रिता इन्द्रायुधा। ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका। गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति। ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति। तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः। इन्द्रायुधादष्टमसाध्यमित्येताः सविषाः सचिकित्सिता व्याख्याताः। अथ निर्विषाः। कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति। तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धमुद्गवर्ण्णा कपिला। किञ्चिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला। यकृद्बर्णा शीथ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी। मूषिकाकृति वर्ण्णाऽनिष्टगन्धा च मूषिका। मुद्गवर्ण्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी। स्निग्धा पद्मपत्रवर्णाष्टादशाङ्गुलप्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा व्याख्याताः। तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि। तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति। तत्र सविषमत्स्यकीटदर्द्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भःसु च सविषाः। पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवालकोथजाता विमलेष्वम्भःसु च निर्विषार। भवति चात्र। क्षेत्रेषु विचरन्त्येताः सलिलेषु सुगन्धिषु। न च सङ्कीर्ण्णचारिण्यो न च पङ्केशयाः सुखाः। तासां प्रग्रहणमार्द्रचर्मणान्यैर्वा प्रयोगैर्गृह्णीयात्। अथैनां नवे महति थटे सरस्तडागोदकपङ्कमावाप्य निदध्यात् भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमोदकांश्च कन्दांश्चूर्ण्णीकृत्य शय्यार्थं तृण मौदकानि च पत्राणि। त्र्यहात्र्यतहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात्सप्तरात्राच्च घटमन्यं संक्रामयेत्। भवति चात्र। स्थूलमध्याः परिक्लिष्टाः पृथ्योषा मन्दचेष्टिताः। अग्रा हिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः। अथ जलौ कोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरुक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात्। गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरक- मध्ये मुहूर्त्तस्थिता विगतक्लमा ज्ञात्वा ताभीरोगं ग्राहयेत्। सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपावृणुयाद्गृह्णत्यै क्षीरविन्दुं वा दद्याच्छस्त्रपदानि वा कुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत्। यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति गृह्णतीं चार्द्रवस्त्रावच्छन्नां धारयेत्सेचयेच्च। दंशे तोदकण्डूप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्तैति शुद्धमाददानामपनयेत्। अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत्। अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैरनुलोममनुमार्जयेदामुखाद्वामयेत्तावद्यावत्सम्यग्वान्तलिङ्गानीति। सम्यग् वान्ता सलिलसरकन्यस्ता भोक्तुकामा सती चरेत्। या सीदति न चेष्टते सा दुर्वान्ता तां पुनः सम्यग्वामयेत्। दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति। अथ सुवान्तां पूर्ववत्सन्निदध्यात् शोणितस्य च योगायोगानवेक्ष्य जलौकोव्रणान्मधुनावघट्टयेच्छीताभिरद्भिश्च परिषेचयेद्बध्नीत वा व्रणं कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति। भवति चात्र। क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम्। जलौकसाञ्च यो वेत्ति तत्साध्यान् स जयेद्गदान्”।

जलार्क = पु० जलप्रतिविम्बितोऽर्कः। जलप्रतिविम्वितसूर्य्ये “प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः। अविकारादकर्त्तृत्वात् निर्गुणत्वात् जलार्कवत्” भाग० ३। २। १।

जलार्णव = पु० जलमयः अर्णवः। अन्त्ये स्वादूदके समुद्रे।

जलार्द्रा = स्त्री जलेनार्द्रा। आर्द्रतालवृन्ते “धुवित्रं तालवृन्तं स्यात् तद्वदुत्क्षेपणञ्च तत्। जलेनार्द्रं जलार्द्रा स्यात्” वैज० २ जलार्द्रवस्त्रे न० हारा० ३ जलेनार्द्रे च त्रि०। “पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः” मेघ०।

जलालु = पु० जलजात आलुः शा० त०। (पाणिया आलु) आलुकभेदे राजनि०।

जलालुक = ग० जलस्यालुरिव कायति कै–क। पद्मकन्दे शालूके राजनि०।

जलालुका = स्त्री जले अलति गच्छति अल–गत्यादौ बा० उक। जलौकायां शब्दर०।

जलालुका = स्त्री जले आलोक्यते आ + लोक–कर्म्मणि घञ्। जलौकायां भरतः।

जलावर्त्त = पु० आ + वृत–णिच्–भावे अच् ६ त०। जलस्य स्वतो भ्रमणे जटाधरः।

जलाशय = पु० जले तत्समीपे आशेते आ + शी–अच्। १ उशीरे अमरः २ नामज्जके गन्धद्रव्यभेदे राजनि०। आ + शीआधारे अच् ६ त०। ३ समुद्रे हेमच०। ४ जलाधारे तडागादौ “कुशेशयैरत्र जलाशयोषिताः” माघः। “न वासोभिः सहाजस्रं नाविज्ञाते जलाशये” “तेनैव सार्द्धं प्रास्येयुः स्नात्वा पुण्यजलाशये” मनुः। तद्भेदादि जलाशयोत्सर्गशब्दे दृश्यम्। जलमाशय आधारो यस्य। ५ शृङ्गाटके राजनि०। ६ गुण्डालीवृक्षे स्त्री राजनि०।

जलाशयोत्सर्ग = पु० ६ त०। कूपादेर्जलाशयस्य प्रतिष्ठारूपे उत्सर्गे जलाशयोत्सर्गतत्त्वे तस्य भेदलक्षणादिकमुक्तं यथा

“अथ जलाशयाः। ते च खननसाध्याश्चत्वारः। कूपवापीपुष्करिणीतडागरूपाः। तथाच मत्स्यपुराणम्। “एवमेव पुराणेषु तडागविधिरुच्यते। कूपवापीतडागेषु तथा पुष्करिणीषु च”। कूपोऽद्वार कोगर्त्तविशेषः वद्धसोपानकोऽयं वापीति द्वैतनिर्णयः। वस्तुतो वापीलक्षणं वक्ष्यते। पुष्करिणीतडागावाह वशिष्ठसंहितायाम् “चतुर्विंशाङ्गुलोहस्तोधनुस्तच्चतुरुत्तरः। शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता। एतत्पञ्चगुणः प्रोक्तस्तडागैति निश्चयः”। धनुर्हस्तचतुष्टयं चतुरुत्तरश्चतुर्गुणहस्तोयस्तद्धनुः तथाच विष्णुधर्मोत्तरे प्रथमकाण्डम् “द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयञ्च शतः स्मृतः। तच्चतुष्कं धनुः प्रोक्तं क्रोशोधनुःसहस्रकः”। कापिले “चतुर्विंशाङ्गुलोहस्तश्चतुर्भिश्च करैर्धनुः”। शयोहस्तस्तेन खातचतुर्दिक्षु विंशतिहस्तान्यूनतायां चतुःशतहस्तान्यूनान्तरत्वेन पुष्करिणी। चतुर्द्दिक्षु पञ्चचत्वारिंशद्धस्तान्यूनतायां सहस्रद्वितयहस्तान्यूनान्तरत्वेन तडागः। एतत्तु जलाधारपरं नतूपरितटपरम्। नव्यवर्द्धमानधृतोवशिष्ठः “शतेन धनुर्भिः पुष्करिणी त्रिभिः शतैर्दीर्धिका। चतुर्भिर्द्रोणः पञ्चभिस्तडागः। द्रोणाद्दशगुणा वापी” इति संहितायामन्तरपदश्रुतेरत्रापि तथावगम्यते। तेन चतुर्द्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायां द्वादशशतहस्तान्तरा न्यूनत्वेस दीर्घिका। चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यूनतायां षोडशशतहस्तान्तरान्यूनत्वे द्रोणः। चतुद्दिक्षु त्रिंशदधिकशतहस्तान्यूनतायां षोडशसहस्रहस्तान्तरान्यूनत्वेन वापी। करोऽत्र कफोण्युपक्रममध्यमाङ्गुल्यग्रपर्य्यन्तः तथाच कल्पतरुरत्नाकरयोः “मध्याङ्गुलिकूर्परयोर्मध्यः प्रामाणिकः करः”। तत्करणफलमाहादित्यपुराणम् “सेतुबन्धरता ये च तीर्थ- शौचरताश्च ये। तडागकुपकर्त्तारोमुच्यत्ते ते तृषाभयात्”। सेतुर्जलधारणहेतुर्बन्धः। तीर्थशौचं घट्टकपरिष्क्रारःः तेन सेतुबन्धवट्टपरिष्कारतडागादीनां करणे प्रत्येकं तृड्भयमोचनं फलम्। विष्णुः “अथ कूपकर्त्तुस्तत्प्रवृत्ते पानीये दुष्कृतार्द्धं विनश्यतीति”। तत्प्रवृत्ते कूपादुत्थिते। विष्णुधर्मोत्तरे “तडागकूपकर्त्तारस्तथा कन्याप्रदायिनः। छत्रोपानहदातारस्ते नराः स्वर्गगामिनः”। तोयं विना सङ्कुचितप्राणिदेशे तु नन्दिपुराणम् “योवापीमथवा कूपं देशे तोयविवर्ज्जिते। खानयेत् स दिवं याति विन्दौविन्दौ शतं समाः”। ततश्च वाप्यादिखनने प्रत्येकजलविन्दुसम संख्यशतवर्पावच्छिन्नस्वर्गप्राप्तिः फलम्। एतत्सङ्कल्पानन्तरं वास्तुयागसङ्कल्पः कार्य्यः। विष्णुः “कूपारामतडागेषु देवतायतनेषु च। पुनः संस्कारकर्त्ता तु लभते मौलिकं फलम्”। संस्कारविधौ तु “अजले जलमुत्पाद्य” इति वक्ष्यमाणवचनात् जलशून्यदेशखनन एवप्रतिष्ठा नतु पङ्कोद्धारमात्रे। मत्स्यपुराणे “प्रासादभवनादीनां विशेषं विस्तराद्वद। कुर्यात् केन विधानेन कश्च वास्तुरुदाहृतः” इत्युपक्रम्य वाप्यादीनामप्यभिधानात् आदिपदात् कूपादेर्ग्रहणम्। “प्रासादेऽप्येवमेव स्यात् कूपवापीषु शस्यते” इत्यभिधानाच्च, तेन वाप्यादिकरणेऽपि वास्तुयागः। महाकपिलपञ्चरात्रे “जलाधारग्रहार्थञ्च यजेद्वास्तुम् विशेषतः। व्रह्माद्यदितिपर्य्यन्ताः पञ्चाशत्त्रयसंयुताः! सर्वेषां कुलवास्तूनां नायकाः परिकीर्त्तिताः। असंपूज्य हि तान् सर्व्वान् प्रासादादीन्न कारयेत्। अनिष्पत्तिर्विनाशः स्यादुभयो धर्मधर्मिणोः”। व्रह्माद्यदितिपर्य्यन्ता इति कल्पान्तरम्। देवीपुराणोक्तेशादिकल्पोव्यवह्रियते। धर्मधर्मिणोस्तडागादितत्कर्त्रोः। तद्दिने तदकरणे उत्सर्गदिनेऽपि वाप्यादौ तत्करणम्। “प्रासादभवनोद्यानप्रारम्भपरिवर्त्तने। पुरवेश्मप्रवेशे च सर्वदोषापनुत्तये। इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत्। वास्तुयागमकुर्ब्बाणस्तवाहारो भविष्यति”। इति मत्स्यपुराणवचने पुरवेश्मप्रवेशे वास्तुयागप्राप्तेः पूर्व्वोक्तवचनेन प्रासादधर्म्मातिदेशादत्रापि प्रासादप्रतिष्ठावत् वाप्यादिप्रतिष्ठादिने वास्तुयागकरणम्। तदारम्भकालो दीपिकायामुक्तो यथा “पुष्यामैत्रकरोत्तराश्विबरुणब्रह्माम्बुपित्रेन्दुभैः शस्तेऽर्के शुभयोगतारतिथिषु क्रूरेष्ववीर्य्येपु च। पुष्टेन्दौ जलराशिगे दशमगे शुक्रे शुभांशोदये प्रारम्भः सलिलाशयस्य शुनदो जीवेन्दुपुत्रोदये”। पुष्यानुराधाहस्तोत्तरात्रयाश्विनीशतभिषारोहिणीपूर्व्वाषाढामघामृगशिरोभिः। मात्स्ये “चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम्। स्तम्भोच्छायादि कर्त्तव्यमन्यत्र परिवर्ज्जयेत्। अश्विनीरोहिणीमूलमुत्तरात्रयमैन्दवम्। स्वाती हस्तानुराधा च गृहा रम्भे प्रशस्यते। वब्ज्रव्याघातशूले च व्यतीपातातिगण्डयोः। विष्कुम्भगण्डपरिघवर्ज्जं योगेषु कारयेत्। आदित्यभौमवर्ज्जन्तु सर्वे वाराः शुभावहाः। प्रासादेऽप्येवमेव स्यात् कूपबापीषु चैव हि”। तदुत्सर्गफलम्।

“संक्षेपात्तु प्रवक्ष्यामि जलदानफलं शृणु। पुष्करिण्यादिदानेन विष्णुः प्रीणाति विश्वधृक्”। जलाशयकरणार्थं भूमिदाने फलमाह चित्रगुप्तः “जलाशयार्थं यो दद्यात् वारुणं लोकमाप्नुयात्”। भूमिमिति शेषः। कालमाह मत्स्यपुराणे “शृणु राजन्! प्रवक्ष्यामि तडागादिषु यो विधिः। चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा। माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत्। प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे। पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्”। अतीते प्रवृत्ते तथा च प्रतिष्ठासमुच्चये “माघे च फालगुने चैव चैत्रवैशाख्वयोरपि। ज्यैष्ठाषाढकयोर्वापि प्रवृत्ते चोत्तरायणे”। पुण्येऽह्नि अष्टमचन्द्रादिशून्ये ब्राह्मणवाचनं पुण्याहस्वस्त्यृद्धिवाचनम्। “पञ्चमी च द्वितीया च तृतीया सप्तमी तथा। दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी। आसु प्रतिष्ठा विधिवत् कृता शुभफला भवेत्”। मात्स्ये “आषाढे द्वे तथा मूलमुत्तरात्रयमेव च{??} ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा। हस्ताश्विनी रेवती च पुष्योमृगशिरस्तथा। अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते। बुधो वृहस्पतिः शुक्रस्त्रय एते शुभावहाः। एतन्निरीक्षितं लग्नं नक्षत्रञ्च प्रशस्यते। ग्रहतारावलं लब्ध्वा ग्रहपूजां विधाय च। निमित्तं सबलं ज्ञात्वा वर्जयित्वा तथाऽशुभम्। शुभयोगे शुभे लग्ने क्रूरग्रहविवर्जिते। लग्ने ऋक्षे च कुर्वीत प्रतिष्ठादिकमुत्तमम्। अयने विषुवे तद्वत् षडशीतिमुखे तथा। “सुराणां स्थापनं कार्य्यं विधिदृष्टेन कर्मणा”। भविव्ये “प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा। दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता। सोमो वृहस्पतिश्चैव शुक्रश्चैव तथा बुधः। एते सौम्यग्रहा प्रोक्ताः पतिष्ठायागकर्मणि”। प्रतिष्ठाधिकारे व्यवहारसमुच्चयः “कृष्णपक्षे च पञ्चम्यामष्टम्यामपि शस्यते”। दीपिकायां “पुष्याश्विशक्रभगदैवतवासवेषु सौम्यानिलेशमघरोहिणिमूलहस्तम्। पौष्णानुराधहरिभेषु पुनर्वसौ च कार्य्याभिषेकतरुकूपरथप्रतिष्ठा”। वसवी धनिष्ठा ईश आर्द्रा। “आर्द्रायाञ्चैव सौभाग्यमिति” प्रतिष्ठासमुच्चयात्। वापीदानादीनां पूर्त्तत्वात् स्त्रीशूद्राधिकारे जातूकर्णः “वापीकूपतडागादिदेवतायतनेषु च। अन्नप्रदानमारामाःपूर्त्त इत्यभिधीयते। अग्निहोत्रं तपः सत्यं वेदानामनुपालनम्। आतिथ्यं वैश्वदेवञ्च इष्टमित्यभिधीयते। ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते। इष्टापूर्त्तं द्विजातीनां धर्मः सामान्य उच्यते। अधिकारी भवेच्छूद्रः पूर्त्तधर्मे न वैदिके”। वैदिके वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः। एवं स्त्रीणामपि पूर्त्ताधिकारः। यथा नारीत्यनुवृत्तौ वृह स्पतिः “पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्त्रीयमातुलान्। पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः” एतेन जलाशयोत्सर्गादौ गोरवतारणानुमन्त्रणयोर्यजमानकर्त्तृकोमन्त्रपाठः। तत्रामन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्वति त्यागेऽप्यनधिकारः विशेषोपदेशविरहादिति द्वैतनिर्णयोक्तं निरस्तम्। मन्त्रपाठस्तु ब्राह्मणद्वारा “अमन्त्रस्य तु शूद्रस्य विप्रोमन्त्रेण गृह्यते” इति वराहपुराणात्। अमन्त्रस्येति परिभाषया स्त्रीणामप्यधिकारः। अस्य पूर्त्तत्वाद्वृद्धिश्राद्धमप्यादौ कर्त्तव्यम्। यथा गोभिलः “वृद्धिः पूर्त्तेषु युग्मानाश येत् प्रदक्षिणमुपचारः यवस्तिलार्थ इति”। हयशीर्ष पञ्चरात्रे “वापीकूपतडागानां पश्चिमे यागमण्डपम्। कुर्य्याद्यथाक्रमेणैव कन्यसं मध्यमेत्तमम्। कन्यसं दशहस्तन्तु कूपे शस्तं तथा नघ। द्विषट्कं कारयेद्वाप्यां पुष्करिण्यां चतुर्द्दश। द्विरष्टहस्तं कुर्वीत तडागमण्डपं शुभम्”। कन्यसङ्कनीयांसम्। सङ्कल्पविधिस्तु भविष्ये “गृहीत्वौडुम्बरं पात्रं वारिपर्णमुदङ्मुखः। दर्भत्रयं साग्रमूलं फलपुष्पतिलान्वितम्। जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः साधारणे। चोत्तरास्य ऐशान्यां तज्जलं क्षिपेत्”। मत्स्यपुराणे “प्रागुदक्प्लवने देशे तडागस्य समोपतः। चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखीम्”। कारयेदिति शेषः। तथा “सर्वतः समवर्णाः स्युः पताकाध्वजसंयुताः”। समवर्णा वक्ष्यमाण- लोकपालवर्णाः “अश्वत्थेडुम्बरप्लक्षवटशाखाकृतानि च। मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्”। तथा “कुलशीलसमापन्नः स्थापकः स्याद्द्विजोत्तमः”। स्थापक आचार्य्य इति रत्नाकरः। तथा “सौवर्णौ कुर्ममकरौ राजतौ मत्स्यडुण्डुभौ। ताम्रौ कुलीरमण्डकावायसः शिशुमारकः। एवमासाद्य तान् सर्वानादौ चेव विशाम्पते!। शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। सर्वौषध्युदकस्नानस्नापितोवेदपुङ्गवैः। यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः। पश्चिमं द्वारमाश्रित्य प्रविशेद्यागमण्डपम्। ततोमङ्गलशब्देन भेरीणाञ्च स्वनेन च। रजसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित्। षोडशारं भवेच्चक्रं पद्मगर्भं चतुर्मुखम्। चतुरस्रन्तु परितोवृत्तं मध्ये गुणोत्तरम्। वेद्याश्चोपरि तत्कृत्वा ग्रहा~ल्लोकपतींस्तथा। विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः। झषादीन् स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः” झषादीन्। कूर्मादीन्। “ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद्बुधः। विनायकन्तु विन्यस्य कमलामम्बिकान्तथा”। पूजयेदिति शेषः। मत्स्यपुराणम् “नवग्रहमखं कृत्वा तबः कर्म समारभेत्। अन्यथा फलदं पुंसां न काम्यं प्राप्यते क्वचित्”। ततः कर्म्मशेषस्तत्रैव दृश्यः। “जलाशयोत्सर्गस्य सर्वभूतोद्देश्यकत्वेन प्रकृष्टचेतनोद्देश्यकत्ववदप्रकृष्टचेतनोद्देश्यकत्यागत्वमपि ततश्च कीटादेर्ममेदमिति स्वीकारयोग्यत्वेन वेदमेयोद्देश्यगतस्वत्वाजनक त्यागरूपत्वादस्य यागत्वम्। अतएव जलाशयोत्सर्गमुपक्रम्य मत्स्यपुराणेऽपि “प्राप्नोति तद्यागबलेन भूय” इति यागत्वेनाभिहितं ततश्च तज्जलं स्वस्वत्वदूरीकरणेन नद्यादिवत् साधारणीकृवम् अतएव ‘मामान्यं सर्वभूतेभ्योमया दत्तमिदं जलम्। रमन्तु सर्वभूतानि स्नानपानावगाहनैः’ इति मन्त्रलिङ्गेनोपादानं विना कस्यापि स्वत्वमिति। ततश्चान्ययागवदुत्तरप्रतिपत्तेरश्रुतत्वात् साधारणजलस्य परिग्रहमात्रेण गोतमोक्तेन दातुः स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन स्वामित्वात्तत्र स्नानादावदोषः। तथाच गोतमः ‘स्वामी ऋक्थक्रयमंविभागपरिग्रहाधिगमेषु ब्राह्मणस्यार्त्विज्यं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः” इति परिग्रहोऽनन्य पूर्वस्य जलतृणकाष्ठादेः स्वीकार इति मिताक्षरा’।

जलाश्रय = पु० जलमाश्रयोऽस्य। वृत्तगुण्डावृणे राजनि० २ वलाकायां ३ शूलीतृणे स्त्री हारा०

जलाष = न० जायते जल–ड जः लाषोऽभिलाषो यत्र। १ सुखे निघ० अन्येच्छानधीनेच्छाविषयत्वात् तस्य तथात्वम्। अस्त्यर्थे अर्श० अच्। २ तद्धेतौ त्रि०। “यो अस्ति भेषजो जलाषः” ऋ० २। ३३। ७ “जलाषः सर्वेषां सुखकरः” भा० “गतिमेधपतिं रुद्रं जलाषभेषजम्” ऋ० ४६। ४। ३ जले निघ०।

जलाषाह् = त्रि० जलं सहते सह–ण्वि–पूर्वपददीर्घः सुपामादि० षत्वम्। जलसोढरि। सुषामादिगणे अमन्ततयैव पाठादन्यत्र न षत्वम्। जलासाहौ। स्वादौ झलि तु “साडेः षः” साड्रूपत्वे षत्वम् जलाषाट् जलाषाड्भ्यामित्यादि।

जलाष्टीला = स्त्री जलेनाष्ठीला। पुष्करिण्याम् हारा०।

जलासुका = स्त्री जलमेवासवोऽस्याः कप्। १ जलौकायाम् अमरः

जलाह्वय = पु० जले आह्वयः शोभमानतया कीर्त्तनमस्य। उत्पले राजनि०।

जलिका = स्त्री जलमुद्भवस्थानत्वेनास्त्यस्याः ठन्। जलौकायां भरतः।

जलुका = स्त्री जल–उक। जलौकायां शब्दर०।

जलूका = स्त्री जलमोको यस्याः पृषो०। १ जलौकायाम् हेमच० “न जलूकादिवत् संक्रमणमिहोपदिश्यते” तैत्ति० भा०।

जलेचर = पुंस्त्री जले चरति चर–ट वा अलुक् स०। हंसादौ स्त्रियां टित्त्वात् ङीप्। “यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः” भा० व० २१३ अ०। स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्” भा० आ० २१ अ०

जलेच्छया = स्त्री जलमेति इ–क्विप् जलेति शेते शी–अच्। जलोपेतस्थानरोहिणि हस्तिशुण्डावृक्षे शब्दर०।

जलेज = न० जले जायते जन–ड वा अलुक् समा०। वारिज १ पद्मे। “उद्भासीनि जलेजानि दुन्वन्त्यदयितं जनम्” भट्टिः। २ जले जातमात्रे त्रि०।

जलेजात = न० ७ त०। १ पद्मे शब्दरत्ना०। २ वारिजातमात्रे त्रि०।

जलेन्द्र = पु० ६ त०। १ वरुणे २ महादेवे जम्भलाख्ये ३ पूर्व्वयक्षे मेदि०।

जलेन्धन = पु० जलान्येवेन्धनानि यस्य। १ वाडवानले बाडवानलशब्दे दृश्यम्। २ सौरविद्युदादितेजसि शब्दार्थचि०।

जलेभ = पु स्त्री जलजात इभः। जलहस्तिनि स्त्रियां जातित्वात् ङीष्। “प्रस्फुरत्तिमिजलेमजिह्मगः” वृ० १२ अ०

जलेयु = पु० पूरुवंश्ये रौद्राश्वनृपस्याप्सरोजाते पुत्रभेदे “रौद्रा श्वस्य महेष्वासा दशाप्सरसि सूनवः” इत्युपक्रमे “स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः” भा० आ० ९४ अ०।

जलेरुहा = स्त्री जले रोहति–रुह–क–अलुक् स०। १ कुटुम्बिनीवृक्षे राजनि०। २ जलरोहिणि पद्मादौ त्रि०।

जलेला = स्त्री कुमारानुचरमातृभेदे “उत्क्राथिनी जलेला च महावेगाथ कङ्कणा” भा० स० ४७ अ०।

जलेवाह = पु० जले तोयाभ्यन्तरे वाही गतिरस्य। (डुवारि) ख्याते जलमज्जलेन तत्स्थपदार्थोत्तोलके पुरुषभेदे। “जलेवाहानथाहूय बहूंस्तत्र न्ययोजयत्। ते कृत्वा परमं यत्नमापुराभरणं न तत्” पाद्मे पा० ख०।

जलेश = पु० ६ त०। १ वरुणे २ समुद्रे च “कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्ण्णौ रसनं जलेशम्” भाग० ८। ७। २० विराड्रूपोक्तौ “पातयामास सेनायां जलेशस्य स दानवः” हरिवं २५२ अ०। जलेश्वरादयोऽप्यत्र। “भीमोद्भवां प्रति नले च जलेश्वरे च” नैष०। “यमकुवेरजले० श्वरवज्रिणाम्” रघुः। २ वर्षभेदे जलाधिपे रव्यादौ च।

जलेशय = पु० जले शेते शी–अच् अलुक् समा०। १ विष्णौ “सप्तसामोपगीतं त्वां सप्तार्णबजलेशयम्” रघुः। तस्य तथात्वं जलशायिशब्दे दृश्यम्। २ जलस्थायिमात्रे त्रि० “यस्य वृंहितशब्देन कूर्म्मोऽप्यन्तर्जलेशयः” भा० आ० २९ अ०। ३ मत्स्ये पुंस्त्री त्रिका०। योपधत्वात् स्त्रियां टाप्।

जलो(लौ)का = स्त्री जलमोकोऽस्य पृषो०। (जोंक) १ जलस्थे सरीसृपभेदे भरतोऽमुं द्विधा पपाठ।

जलोच्छास = पु० जलान्युच्छ्वसन्त्येभिः उद् + श्वस–घञ्। १ प्रवृद्ध जलस्य निर्गममार्गे २ परीवाहे अमरः। भावे घञ् ६ त०। ३ अधिकजलस्य सर्वतोवहने च। (छयलापि)।

जलोदर = न० जलप्रधानमुदरं यस्मात् ५ ब०। उदरामयरोगभेदे। “यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विविक्तोऽप्यथ वा निरूढः। पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि। स्नेहोपलिप्तेष्वथ वापि तेषुदकोदरम् पूर्ववदभ्युपैति। स्निग्धं महत्तत् परिवृत्तनामिसमाततं पूर्णमिवाम्बुना च। यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरन्तत्। जन्मनैवीदर सर्वं प्रायः कृच्छ्रतमं मतम्। बलिनस्तदजाताम्बुयत्नसाध्यं नवोत्थितम्” माधवकरस्तन्निदानाद्यारम्भ।

जलोद्वतगति = स्त्री “रसैर्जसजसा जलोद्धतगतिः” वृ० र० उक्ते द्वादशाक्षरपादके १ छन्दीभेदे। जलेन उद्धता गतिरस्य। २ जलेनोद्धतभतिके त्रि० “यदीयहलतो विलोक्य विपदं कलिन्दतनया जलोद्धतगतिः” छन्दोम०।

जलोद्भव = त्रि० जले उद्भवोऽस्य। १ जलजाते २ गुण्डालाक्षुपे ३ लघुब्राह्मीभेदे स्ती राजनि० जलमुद्भवत्यस्मात् भू अपादाने अप्। १ हिमालयस्थे देशभ्दे। “ततो हिमवतः पार्श्वं समभ्येत्यजलोद्भवम्। सर्वमल्पेन कालेन देशं चक्रे वशं बली” भा० स० २९ अ०। २ जलजाते त्रि० “गण्डकीन्तु समासाद्य सर्वतीर्थजलोद्भवाम्” भा० व० ८४ अ०। ३ लघुब्राह्म्याम् राजनि०।

जलोद्भूत = त्रि० जले उद्भूतः। १ जलभवे २ क्षुपभेदे स्त्री राजनि०

जलोरगा = स्त्री जले उरगीव दीर्घत्वात् विषवत्त्वाच्च पृषो०। जलोकायां सारसुन्दरी।

जलौकस् = स्त्री ब० व० जलमोको वसतिरासाम्। (जोंक) ख्यातायां रक्तपायां अमरः। अस्य बहुवचनत्वं प्रायिकम्। “जलोरगा जलौका तु जलोका च जलौकसीति” संसारावर्त्तोक्तेः। “अभिहितो जलौकसः” इति सुश्रुतोक्तेश्च। ३ जलस्थानके जन्तुमात्रे त्रि० “जलौकसां स सत्वानां बभूव प्रियदर्शनः” भा० अनु० ५० अ०।

जलौकस = पुंस्त्री जलमोकः स्थानमस्त्यस्याः–अच्। जलौकायां रायमुकुटः।

जल्प = वाग्विशेषे उक्तौ च भ्वा० पर० सक० सेट्। जल्पति अजल्पीत्। जजल्प तत्र कथाभेदे “मयि जल्पति कल्पनाधिनाथे रघुनाथे मनुतां तदन्यथैव” इति अनुमानशिरोमणिः। कथामात्रे “अनागमः प्रजानाञ्च प्रमादादिव जल्पतः” भा० स० २१ अ० “हसते जल्पते वैरी एकपात्रे च भुञ्जते” हरिवं० २० अ० अत्र आर्षत्वात् पदव्यत्ययः, भुञ्जते इत्यत्र गणव्यत्ययश्च।अनु + कथनोत्तरकथने पश्चात् कथने तुल्यरूपकथने च “जल्पन्त्यामनुजल्पति” भाग० ४। २५। ५८।अभि + आमिमुख्येन कथने “अन्योन्यमभिजल्पन्तः” रामा० आर० १ अ०।प्रति + प्रत्युत्तरकथने प्रतिरूपकथने च। “न चैवोक्ता नवाऽनुक्ता हीनतः परुषा गिरः। भारत! प्रतिजल्पन्ति सदा तूत्तमपुरुषाः” भा० स० ७० अ०।वि + अति + अन्योन्यकथने शब्दकर्म्मकत्वात् व्यतिहारे न तड्। व्यतिजल्पति” सि० कौ०।

जल्प = पु० जल्प–भावे घञ्। १ कथने। “इति प्रियां वल्गुविचित्रजल्पैः” भाग० १। ७। १८। आर्षेऽस्य क्लीवतापि। “तूष्णींभव न ते जल्पमिदं कार्य्यं कथञ्चन” भा० आ० १२९ अ० “कैकेयीं संश्रितं जल्पं नेदानीं प्रतिभाति मे” रामा० अयो० ६० अ०। उभयत्र जल्प्यमिति पाठस्तु सम्यक्। परमतनिराकरणपूर्वकस्वमतस्थापनरूपे विजिगीषोः २ कथाभेदे च। तल्लक्षणं गौतमेनोक्तं यथा

“यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः” गौत० सू०। व्याख्यातञ्चैतत् विश्वनाथेन।

“यथोक्तेषु यदुपपन्नं तेनोपपन्न इत्यर्थः। मध्यपद० लोपी समासः। तथा च प्रमाणतर्कसाधनोपालम्भः पक्षप्रतिपक्षपरिग्रह इत्यस्य योग्यतया परामर्शः अन्यथा जल्पस्य वादविशेषत्वापत्तिः प्रमाणतर्काभ्यां तद्रूपेण ज्ञाताभ्यां न तु ज्ञानेऽनाहार्य्यत्वं विवक्षितम् आरोपितप्रमाणभावेनाभासेऽपि जल्पनिर्वाहात्। यद्यपि छलादिभिरुपालम्भ एव न तु साधनं तथापि साधनस्य परकीयानुमानस्योपालम्भो यत्रेत्यर्थान्न दोषः। परपक्षदूषणे सति स्वपक्षसिद्धिरित्यतः साधने तदुपयोग इत्यन्ये। उभय पक्षस्थापनावत्त्वेन च विशेषणीयमतो वितण्डायान्नातित्याप्तिः “स प्रतिपक्षस्थापनाहीनः” इत्युत्तरसूत्रात् प्रकृते उभयपक्षस्थापनावत्त्वादेव च पञ्चावयवनियमोऽपि लभ्यत इति वदन्ति। अत्र च छलादिभिः सर्वैरुपालम्भो न विशेषेण व्याप्तिरपि तु तद्योग्यतयैव, योग्यतावच्छेदकन्तु वादभिन्नकथात्वमेव तत्र चोक्तवादत्वावच्छिन्नभेदस्तत्तद्वा दनेदो वा विशेषणमिति छलेत्यादिना विजिगीषुकथात्वं बोध्यते विजिगीषुर्हि छलादिकं करोति तथाचोभयपक्षस्थापनावती विजिगीषुकथा जल्प इत्यर्थः इत्यपि वदन्ति। अत्र चायं क्रमः वादिना स्वपक्षसाधनं प्रयुज्यनायं हेत्वाभासस्तल्लक्षणायोगादिति सामान्यतो न्यायसिद्ध इत्यादि विशेषतो वा। प्रतिवादिना स्वस्याज्ञानादिनिरासाय परोक्तसम्भवादेव लाभे उच्यमानग्राह्याणामप्राप्तकालार्थान्तरनिरर्थकानामलाभे उक्तग्राह्याणां प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासंन्यासहेत्वन्तराविज्ञातार्थविज्ञेयमतानुज्ञान्यूनाधिकपुनरुक्तनिरनुयोज्यानुयोगापसिद्धान्तानामलाभे पर्य्यनुयोज्योपेक्षणस्य मध्यस्थोद्भाव्यत्वा देवानुपन्यासार्हतया यथासम्भवहेत्वाभासेन परोक्तं दूषयित्वा स्वपक्ष उपन्यसनीयः। ततो वादिना तृतीयकक्षाश्रितेन परोक्तमनूद्य स्वपक्षदूषणमुद्धृत्यानुक्तग्राह्योच्यमानग्राह्यहेत्वाभासातिरिक्तोक्तग्राह्याणामलाभे हेत्वाभासेन यथासम्भवं प्रतिपक्षवादिनः स्थापना दूषणीया। अन्यथा क्रमविपर्य्यासेऽप्राप्तकालं चानवसरे दूषणीयेन च निरनुयोज्यानुयोगः यथा त्यक्ष्यसि चेत् प्रतिज्ञाहानिर्विशेसयसि चेद्धेत्वन्तरमित्यादिप्रतिज्ञाहान्यादिवद्धेत्वाभासानामुक्तग्राह्यत्वाविशेषेऽपि अर्थदोषत्वेनाप्रधानत्वाच्चरमसन्धानमिति”। उञ्छादि० अस्यान्तोदात्तता।

जल्पन = त्रि० जल्प–नन्द्या० ल्यु। १ कथके। भावे ल्युट्। २ कथने न०। अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानिः” वृ० सं० ४६ अ०।

जल्पाक = त्रि० जल्प–षाक। १ वाचाले बहुकुत्सितवादिनि अमरः। २ कथकमात्रे च स्त्रियां षित्वात् ङीष्। “जल्पाकीभिः महासीनः स्त्रीभिः प्रजविना त्वया” भट्टिः।

जल्पित = त्रि० जल्प–कर्म्मणि क्त। १ कथिते अमरः भावे क्त। २ कथने न०।

जल्हु = पु० दह–बा० हु पृषो०। १ अग्नौ “न पाप्रासो मनामहे नावायसौ न जल्हवः” ऋ० ८। ५१। ११। “न जल्हवः अनग्नयः” भा०।

जव = पु० सौ० जु–भावे अप्। १ वेगे। “जवेन पीठादुदतिष्ठदच्युतः” “जवेन कण्ठं सभयाः प्रपेदिरे” माघः। “जवेऽपि मानेऽपि च पौरुषाधिकम्” नैष०। कर्त्तरि अच्। २ तद्वति त्रि० अमरः।

जवन = न० जु–भावे ल्युट्। १ वेगे अमरः। “तं मन्ये मेघपुष्पस्य जवने सदृशं हयम्” भा० वि० ४५ अ०। कर्त्तरि ल्यु। २ जवयुक्ते त्रि० “आरुह्य जवनानश्वान् नियन्तुमुपचक्रमे” हरिवं० ११७ अ०। ततः दृढा० भावे इमनिच्। ३ जवनिमन् जवे पु०। ४ वेगयुक्ते देशभेदे पारस्यदेशे च हेमच०। सोऽभिजनोऽस्य अण्। ५ जावन तद्देशवासिनि त्रि० बहुत्वे अणो लुक्। ६ तद्देशबासिषु ब० व०। ७ स्वीकारीमृगे ८ घोटकमात्रे च पुंस्त्री राजनि०। ९ म्लेच्छजातिभेदे यवनजातौ पुंस्त्री स्त्रियां जातित्वात् ङीष्। “जवनी नवनीत कोमलाङ्गी शयनीये यदि नीयते कथञ्चित्” उद्भटः। रघुनन्दनमतेऽयं तालव्यादिः। जवनदेशभवत्वादस्य तथात्वम्।

जवनाल = न० जवनायालति पर्य्याप्नोति अल–अच्। (जनार) फलभेदे। “जवनालं स्मृतं स्वादु शीतं वायुकरं मतम्। कफपित्तविनाशि स्यात्” राजवल्लभः।

जवनिका = स्त्री सौ० जु–करणे ल्युट् संज्ञायां कन्। (कानात्) (चिक) प्रभृतौ व्यवधायकवस्त्रादौ अमरः। “रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः” हरिवं० ८६ अ०। “सतां जवनिकानिकामसुखिनाम्” माघः।

जवनी = स्त्री जु–करणे ल्युट् ङीप्। (कानात) १ जवनिकायाम् २ओषधिभेदे च हेमच०। ३ जवनजातिस्त्रियाञ्च।

जवस् = पु० सौ० जु–असुन्। १ वेगे। “आ श्येनस्य जवसा” ऋ० ११८। ११। “जवसा वेगेन” भा०।

जवस = न० सौ० जु–कर्म्मणि असच्। घासे शब्दरत्ना०।

जवा = स्त्री सौ० जु–अच्। १ स्वनामख्याते वृक्षे अमरः। “जवा कटूष्णेन्द्रलुप्तनाशकृत् मिषजां मता। विच्छर्द्दिकृद्रेचनिका सूर्य्यस्याराधने हिता” राजव०। पाटला० पुष्पेऽपि स्त्री” अरुणो गरुडभ्राता जवापुष्पसामप्रभः” हरिवं० २२७ अ०। “जवाकुसुमसङ्काशं काश्यषेयं महाद्युतिम्” सूर्य्यनतिमन्त्रः। “पारिजातवनैश्चैव जवाशोकवनैस्तथा भा० व० २३० अ०।

जवादि = न० “जवादि नीरसं स्निग्धमीषत् पिङ्गं सुगन्धिदम्। आतपे बहुलामोदं राज्ञां योग्यञ्च तन्मतम्” इत्युक्तलक्षणे मृगघर्म्मजाते कृत्रिमे गन्धद्रव्यभेदे राजनि०।

जवाधिक = पु० जवेनाधिकः। १ अधिकजवयुक्तेऽश्वे अमरः। २ अधिकवेगयुक्ते त्रि०।

जविन् = त्रि० जव + अस्त्यर्थे इनि। १ वेगयुक्ते हेमच० “समकालमिषुं क्षिप्तमानीयान्यो जवी नरः” याज्ञ०। स्त्रियां ङीप्। “अजवसो जविनीभिर्विवृश्चन्” ऋ० २। १५। ६।

जविन = पु० जव–बा० इनन्। कोकडवृक्षे राजनि०।

जवीयस् = त्रि० अतिशयेन जववान् ईयसुम् वतोर्लुक्। अतिशयितवेगयुक्ते “अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् मार्षत्” यजु० ४०। ४। स्त्रियां ङीप्। इष्ठन् जविष्ठोऽप्यत्र। “ऋतस्य न्यमन्ये मनसा जविष्ठा” ऋ० ४। २। ३।

जष = बधे भ्वा० उम० सक० सेट्। जषति ते अजाषीत्–अजषीत् अजषिष्ट। जजाष जेषतुःजेषे।

जस = मोक्षणे दिवा० पर० सक० सेट्। जस्यति इरित् अजसत् अजासीत् अजसीत् जजास जेसतुः अजस्रम्। उदित् जसित्वा जस्त्वा। जस्तः।

जस = बधे अनादरे च चुरा० उभ० सक० सेट्। जासयति ते अजीजसत् व।उद् + हिंसने। एतद्योगे कर्म्मणि षष्ठी। “निजौजसोज्जासमितुं जगद्द्रुहाम्” माथः। “धृत्या नाथस्य वैदेहि! मन्योरुज्जासयात्मनः” भट्टिः।

जस = गतौ निघण्टुः भ्वा० पर० सक० सेट्। जसति अजा(ज)सीत्। जसिस्ताडने उपक्षये च माधवः। जसुरिः।

जस = रक्षणे चु० उभ० सक० सेट् इदित्। जंसयति ते अज जंसत् त।

जसु = पु० जस–उन्। आयुधे “यदा बलस्य पीयतो जसुम्” ऋ० १०। ६८। ६। “जसुमायुधम्” भा०।

जसुरि = पु० जस–उरिन्। १ वज्रे उज्ज्वलदत्तः २ व्याथिते त्रि० “वि या जानाति जसुरिम्” ऋ० ५। ६१। ७। “जसुरिं व्यथितम्” “जसिस्ताडनकर्म्योपक्षयकर्म्मा वा” भा०। ३ उपक्षययुक्ते च।

जस्वन् = त्रि० जस–उपक्षये वनिप्। उपक्षयकर्त्तरि “मा स्वजने वृषभ!” ऋ० ६। ४०। ११। “जस्वने उपक्षयिणे” भा०।

जहक = त्रि० हा–क्वुन् द्वित्वञ्च। १ बाले २ त्यागिनि च उज्ज्वल०। ३ काले त्रिका० ४ निर्म्मोके संक्षिप्तछा० तस्य त्याज्यत्वात् तथात्वम्। ५ गात्रसङ्कीचन्यां स्त्री। “इतरजनाय जहका वैष्णवी” यजु० २४। ३६। “जहका गात्रसङ्कोचनी” बेददी०।

जहत्स्वार्था = स्त्री जहत् स्वार्थोयाम्। १ लक्षणाभेदे, यथा आयुर्घृतम् आयुर्घृतमित्यत्र आयुःसाधनस्य बोधनात् स्वार्थस्यायुषस्त्यागात् तथात्वम्। “जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा” हरिका० वैयाकरणभूषणे तु जहति पदानि स्वार्थं यस्यामिति विग्रहो दर्शितः।

जहदजहल्लक्षणा = स्त्री जहच्च अजहच्च स्वार्थो यां तादृशी लक्षणा। वाच्यार्थैकदेशत्यागेनैकदेशवृत्तौ लक्षणायाम् यथा सोऽयं देवदत्त इत्यत्र तत्कालैतत्कालरूपार्थत्यागेन केवलदेवदत्तमात्रार्थबोधनात् वाच्यार्थैकदेशवृत्तिता। एवं “तत्त्वमसि श्वेतकेती!” छा० उ० वाक्ये विरुद्ध सर्वज्ञत्वाल्पज्ञत्वार्थत्यागेन चैतन्यमात्रबोधनात् तथात्वम्।

जहल्लक्षणा = स्त्री जहत् स्वार्थोयाम् उत्तरपदलोपे कर्म्म०। जहत्स्वार्थायां लक्षणायाम्। यथा आयुर्घृतम्। लक्षणाभेदोदाहरणादिकं वेदान्तपरिभाषायां दर्शितं यथा

“प्रकारान्तरेण लक्षणा त्रिधा जहल्लक्षणा अजहल्लक्षणा जहदजहल्लजणा चेति तत्र शक्यार्थमनन्तर्भाव्य यत्रार्थान्तरस्य प्रतीतिस्तत्र जहल्लक्षणा यथा विषं भुंक्ष्वेत्यत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते। यत्र शक्यार्थमन्तर्भाव्यैव अर्थान्तरप्रतीतिः तत्राजहल्ल क्षणा यथा शुक्लः पट इति अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्त्तते। यत्र हि विशिष्टवाचकः शब्दः एकदेशं विहाय एकदेशे वर्त्तते तत्र जहदजहल्लक्षणा यथा सोऽयं देवदत्त इति अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या पदद्वयस्य विशेष्यमात्रपरत्वं यथा वा तत्त्वमसीत्यादौ तत्पदवाच्यसर्वज्ञत्वादिविशिष्टस्य त्वंपदवाच्येनान्तःकरणविशिष्टेनैक्यायोगात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः। वयन्तु व्रूमः सोऽयं देवदत्तः तत्त्वमसीत्यादौ विशिष्टवाचकानां पदानामेकदेशपरत्वेऽपि न लक्षणा शक्त्युपस्थितविशिष्टयोरभेदान्वयानुपपत्तावपि विशेष्ययोः शक्त्युपस्थितयोरेवान्वयबोधाविरोधात् यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यानित्यत्वायो- ग्यत्वेऽपि योग्यघटव्यक्त्या सहामित्यत्वान्वयः। यत्र पदार्थैकदेशस्य विशेषणतयैवोपस्थितिस्तत्रैव स्वातन्त्र्येणोपस्थितये लक्षणाभ्युपगमः यथा नित्यो घट इत्यत्र घटपदाद्घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं घटपंदस्य घटत्वे लक्षणा एवमेव बत्त्वमस्यादिवाक्येऽपि न लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोस्तत्त्वंपदार्थयोरभेदान्वये बाधकाभावात्। अन्यथा गेहे घटः घटे रूपं घटमानय इत्यादी घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्रपरत्वे लक्षणा च स्यात्। तस्मात्तत्त्वमस्यादिवाक्येषु आचार्य्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या। जहदजहल्लक्षणोदाहरणन्तु काकेभ्यो दधि रक्ष्यतामित्यादिकमेव। तत्र शक्यकाकत्वपरित्यागेनाशक्यदध्युपघातकत्वपुरस्कारेण काके काकशब्दप्रवृत्तेः”।

जहा = स्त्री जहाति हा–बा० श। मुण्डितिकायां (मुण्डिरी) शब्दच०।

जहानक = पु० हा–शीलार्थे शानच् संज्ञायां कन्। प्रलये हेमच०।

जहिजोड = अव्य० जहि जोड इत्युच्यते यस्या क्रियायाम् मयूर० स०। त्यागजोडार्थनियोगक्रियायाम्।

जहिस्तम्भ = अव्य० जहि स्वम्भ इत्युच्यते यस्यां क्रियायाम् मयू० स०। त्यागस्तम्भननियोगक्रियायाम्।

जहु = पु० हा + उन् नि० द्वित्वम्। १ अपत्ये “कृतानुपङ्ग आसनशयनाटनस्नानाशनादिषु सह मृगजहुना” भान० ५। ८। १३। “मृगजहुना मृगापत्येन” श्रीधरः। २ कुरुवंश्ये पुष्पवतोऽपत्ये राजभेदे “जज्ञे सत्यवतोऽपत्यं पुष्पवांस्तत्सुतो जहुः” भाग० ९। २२। ५।

जह्नु = पु० भरतवंश्ये आजबीढनृपपुत्रे १ नृपभेदे। “भरतस्यान्वये चैवाजमीढो नाम पार्थिवः। तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः। दुहिडमनुप्राप्ता गङ्गा यस्य महात्मनः” भा० अनु० ४ अ०। गङ्गायास्तद्दुहितृत्वकथा रामा० आदि० ४३ अ०।

“यता भगीरथो राजा ततो गङ्गा यशस्विनी। जगाम सरितां श्रेष्ठा भर्वपापप्रणाशिनी। यतो हि यजमानस्य जह्नोरद्भुतकर्म्मणः। गङ्गा संप्लावयामास यज्ञवाटं महात्मनः। तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव!। अपिबत्तु जलं सर्वं गङ्गायाः परमाद्भ तम्। ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः। पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम्। गङ्गां चापि नयन्ति स्म दुहिवृत्वे महात्मनः। ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः। तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च”। जह्नोरपत्यमण् ङीप्। जाह्नबी गङ्गायाम्। “जाह्नवीतीरसम्भूतां मृद मूर्द्ध्ना बिभर्त्ति यः” प्रा० त०। जह्नीरियं अण् वेदे पृषो० ह्रस्वाकारविपर्वथौ। जह्नावी जह्नुसम्बन्धिन्यां प्रजायाम्। “आ जह्नावीं सुमनसो पराजैः” ऋ० १। ११६। १९। “जह्नावी जह्नोर्महर्षेः सन्धन्धिनी प्रजा” भा०। २ विष्णौ च “सत्कर्त्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः” विष्णुस०। “जनान् संसारादपह्नुते अपनयतीति जह्नुः जहात्य विदुषः स्वभक्तान्नयति परं पदमिति वा” भा० तद्व्युत्पत्तिर्दर्शिता पृषो० साधु।

जह्नुकन्या = स्त्री ६ त०। १ गङ्गायाम्। “जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम्” मेघ० “जलनिधिमनुरूपं जह्नुकन्यावतीर्न्ना” रघुः। जह्नुतनयादयोऽप्यत्र।

जह्नुसप्तमी = स्त्री वैशाखशुक्लसप्तम्याम्। “वैशाखशुक्लसप्तम्यां जह्नुना मुनिना पुरा। क्रोधात् पीता पुनस्त्यक्ता कर्ण्णरन्ध्रात्तु दक्षिणात्। तस्यां समर्चयेद्देवीं गङ्गां भुवनमेखलाम्। स्नात्वा सम्यग् विधानेन स धन्यः सुकृती नरः। तस्यां सन्तर्पयेतु देवान् पितॄन् मर्त्यान् यथाविधि। साक्षात् पश्यन्ति ते गङ्गास्नातकं गतपातकम्” वराहपु०।

जह्मन् = न० हा–मनिन् पृषो० द्वित्वान्त्यलोपौ। उदके निघ० उदकनामसु तत्र जन्मेति पाठान्तरम्।

जा = स्त्री जन–बा० ड। १ मातरि २ देवरपत्न्याम् एकाक्षरको०। ४ जननकर्त्तरि त्रि० गवादौ उपपदे जन–विट् ङा। गोजा गविजाते त्रि०।

जागत = त्रि० जगती छन्दोऽस्य अण्। जगतीच्छन्दस्के मन्त्रादौ। जगत्यां भवः उत्सा० अञ्। २ जगतीच्छन्दसि भवे सामभेदे न०। ३ जगत्यां पृथिव्यां भवे च त्रि०।

जागर = पु० जागृ–भावे घञ् गुणः। १ निद्राक्षये (जागा) अमरः “त्रयोदशसमास्तीर्णा जागरेण सुदुःखिताः” भा० क० ९६ आ०। “रात्रिजागरपरो दिवाशयः” रघुः। २ अन्तःकरणस्य कृत्स्नवस्तुप्रकाशात्मके ३ वृत्तिभेदे।

जागरक = त्रि० जागृ–ण्वुल् गुणः। निद्रारहिते।

जागरण = न० जागृ–भावे ल्युट्। १ निद्राराहित्ये।

जागरित = न० जागृ–भावे क्त गुणः। १ जागरणे निद्राभावे २ इन्द्रियैरर्थज्ञाने स्वपदर्शनहेतुकर्म्मक्षये च जागरितमागच्छन् स्वोपाध्यन्तःकरणेन्द्रियसचिवस्तत्तदिन्द्रिय- विषयाननुमेयांश्च स्थूलान् व्यवहारिकान् सर्वाननुभवति यत्रावस्थायां तत् जागरितमित्युच्यते वेदान्तमतम्

जागरितस्थान = पु० जागरितं स्थानमस्य। वेदान्तिमतसिद्धे वैश्वानरे आत्मनि। तत्स्वरूपादिकं मुण्डकोपनिषदि तद्भाष्ये च दर्शितम्।

“जागरितस्थानो बहिःप्रज्ञः सप्नाङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः” मुण्डकोप०

“जागरितं स्थानमस्येति जागरितस्थानः। बहिः स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य स बहिःप्रज्ञो बहिर्विषयेषु प्रज्ञाऽविद्याकृताऽवभासत इत्यर्थः। तथा सप्ताङ्गान्यस्य “तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्द्ध्वैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ” अग्निहोत्रकल्पनाशेषत्वेनाग्निर्मुखत्वेनाहवनीय उक्त इत्येवं सप्ताङ्गानि यस्य स सप्ताङ्गः। तथैकोनविंशतिर्मुखान्यस्य बुद्धीन्द्रियाणि च दश वायवश्च प्राणादयः पञ्च मनो बुद्धिरहङ्कारश्चित्तमिति मुखानीव मुखानि तान्युपलब्धिद्वाराणीत्यर्थः। स एवं विशिष्टो वैश्वानरो यथोक्तैर्द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्त इति स्थूलभुक्। विश्वेषां नराणामनेकधा नयनाद्विश्वानरः। यद्वा विश्वश्च सौ नरश्चेति विश्वानरः विश्वानर एव वैश्वानरः। सर्वपिण्डात्मानन्यत्वात् स प्रथमः पादः” भा०।

जागरितान्त = पु० जागरितस्यान्तः तत्र विज्ञेयः। जागरितमध्ये तत्र विज्ञेये “स्वप्नान्तं जागरितान्तञ्चोभौ येनानुपश्यति” कठोप० “स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयमित्यर्थः। तथा जागरितान्तं जागरितमध्यं जागरितबिज्ञेयं चोभौ स्वप्नजागरितान्तौ येनात्मनानुपश्यति लोकः” भा०।

जागरितृ = त्रि० जागृ–शीलार्थे तृच्। जागरणशीले अमरः।

जागरिन् = त्रि० जागृ–शीलार्थे णिनि गुणः। जागरणशीले हेमच० स्त्रियां ङीप्।

जागरूक = त्रि० जागृ–ऊक। जागरणशीले अमरः “स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव” रघुः। २ स्वकर्त्तव्ये सावधाने अप्रमत्ते च “वर्णाश्रमावेक्षणजागरूकः” रघुः।

जागर्त्ति = स्त्री जागृ–भावे क्तिन्। जागरणे रायमु०।

जागर्य्या = स्त्री जागृ–भावे क्यप् गुणः। जागरणे। अ। जागराप्यत्र स्त्री अमरः।

जागुड = पु० १ देशभेदे सोऽभिजलोऽस्य अण्। २ तद्देशवासिनि त्रि० “जागुडान् रामठान् हूणान् स्त्रीराज्यानथ तङ्गणान्” भा० ब० व०। तत्र भवः अण्। ३ तद्देशभवे त्रि०। ४ कुङ्कुमे न०। “अवनिं जागुडकुङ्कुमामिताम्राम्” माघः।

जागृ = निद्राभावे अदा० पर० अक० सेट् जक्षा०। जागर्त्ति जाग्रति अजागरीत्। जागराम्–बभूव आस चकार जजागार। अस्य णपि वृद्धिः तद्भिन्ने ञिति णिति च गुणः विन्भिन्ने सर्वत्र आर्द्धधातुके गुणः। जागर्य्यते अजागरि जागरयति कर्म्मणि अजागरि अजागारि इति भेदः “कुसुमशरमुज्जागरयति” उमटः। जागरकः। जागृविः “जागर्त्ति लोको ज्वलति प्रदीपः” उद्भटः। इन्द्रियादिना बोधे प्रबोधे च। “या निशा सर्वभूतानां तस्यां जागर्त्ति संयमी। यस्या जाग्रति भूतानि सा निशा पश्यतो मुनेः” गीता। “पन्नगगवीगुम्फेषु चाजागरीत्” मल्लि०।

जागृवि = पु० जागृ–क्विन् न गुणः। १ नृपे उज्ज्वल० तस्य स्वकार्य्येऽप्रमतत्वात् तथात्वम्। २ अग्नौ हेम० ३ जागरणशीले त्रि० “समानमज्मन् पर्य्येति जागृविः” ताण्ड्य० ब्रा० १। ७। ६। “जागृविः जागरूकः” भा० “विभीदको जागृविर्मह्यमच्छान्” ऋ० १०। ३४। १। “जनस्य गोपा अजनिष्ट जागृविरग्निः” ऋ० ५। ११। १।

जाग्रत् = त्रि० जागृ–शवृ। १ जागरणकर्त्तरि २ साबधाने अप्रमत्ते ३ प्रकाशमाने च। “जाग्रत्कलङ्कैरवध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे” चन्द्रालोकः। स्त्रिया ङीप्। जीवानां श्रोत्रादिभिः ४ शब्दादिविषय ज्ञानावस्थाभेदे सा च त्रिधा “प्रमितिर्जागरे जाग्रद्भ्रमः स्वप्नोऽथ मूढता। पानादिजन्या सुप्तिः स्यादेवं जागरणं त्रिधा” शब्दार्थचि० धृतवाक्यम्। “एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम्” मनुः। “जाग्रत्स्वप्नः सङ्कल्पः पापः” ऋ० १०। १६४। ५। “जाग्रत्स्वप्नावस्थयोः सम्बन्धी पापः” भा०। “जाग्रत् स्वप्नसुषुप्तिधामरहितः प्राप्तः प्रबोधोदयः” प्रबो०।

जाग्रिया = स्त्रीं जागृ–भावे पक्षे शः रिङादेशः। जागरणे रायमुकुटः।

जाघनी = स्त्री जघनस्य समीपं शौषकोऽण् ङीप्। १ ऊरौ त्रिका० जघनस्यार्द्धे जघनैकदेशे भवः अण् ङीप्। २ पुच्छकाण्डे “अथ जाचन्या पत्नीः संयाजयन्ति जघनार्द्धं जाघनी जघनार्द्धाद्वे योषायै प्रजाः प्रजायन्ते” शत० ब्रा० ३। ८५। ६। “जाघनी वालदण्डः” भा०। “बनिष्ठु जाघनि चावद्यति” कात्या० श्रौ० ६। ७। १० तत्र जाघनी- शब्दस्य मतभेदेन कर्केण नानार्थतोक्ता यथा “जाघनी जघनप्रदेशे भवा पुच्छदण्ड इत्यर्थः जाघनी पशोः पुच्छमिति हरिस्वामिना। जाघनी बालदण्ड इति माधवाचार्य्याः। “जाघनी येन मशकानपनयतीति धूर्त्तस्वामिनः। जाघनी बालधिरुच्यत इति ज्ञानदीपिकाकारः। क्षुधार्तश्चात्तुमभ्यगाद्विश्वामित्रः श्वजाघनीम्। चण्डालहस्तादादाय धर्माधर्मविचक्षणः” (मनुः) इत्यत्र श्वजाघनीम् श्वपुच्छमिति स्मृतिचन्द्रिकाकारो व्याख्यातवान्। जाघनी पशोः पुच्छमित्यधिकरणमालायाम् तृतीयेऽध्याये। जाघनी चैकदेशत्वादित्यधिकरणे जाघनी कटी इति पितृभूतिहरिहरौ तदयुक्तम् कटिशब्दस्य श्रोणिपर्य्यायत्वात् श्रोण्योश्च पागुक्तत्वादिति अतः पुच्छकाण्डमेव जाघनीशब्देनोच्यते इति। विश्वामित्रस्य जाघनीहरणकथा प्रसङ्गादुच्यते।

“विश्वामित्रोऽथ भगवान् महर्षिरनिकेतनः। क्षुधापरिगतो धीमान् समन्तात् पर्य्यधावत। त्यक्त्वा दारांश्च पुत्रांश्च कस्यांचित् जनसंसदि। भक्ष्याभक्ष्यसमो भूत्वा निरग्निरनिकेतनः” इत्युपक्रमे “स ददर्श श्वमांसस्य कुतन्त्रीं विततां मुनिः। चाण्डालस्य गृहे राजन्! सद्यः शस्त्रहतस्य वै। स चिन्तयामास तदा स्तैन्यं कार्य्यमितो मया। न हीदानीमुपायो मे विद्यते प्राणधारणे। आपत्सु विहितं स्तैन्यं विशिष्टञ्च महीयसः। विप्रेण प्राणरक्षार्थं कर्त्तव्यमिति निश्चयः। हीनादादेयमादौ स्यात् समानात्तदनन्तरम्। असम्भवे वाददीत विशिष्टादपि धार्मिकात्। सोऽहमन्त्यावसानाय हराम्येनां प्रतिग्रहात्। न स्तैन्यदोषं पश्यामि हरिष्यामि श्वजाघनीम्”। इति निश्चित्य तां हर्त्तुमुपक्रान्तस्य चण्डालेन सह संवादो यथा “विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्ययन्। क्षुधितीऽहं गतप्राणो हरिष्यामि श्वजाघनीम्। क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः। क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम्। अवसीदन्ति मे प्राणाश्रुतिर्मे नश्यति क्षुधा। दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्यविवर्ज्जितः। सोऽधर्म बुध्यमानोऽपि हरिष्यामि श्वजाघनीम्। अटन् भैक्षं न विन्दामि यदा युष्माकमालये। तदा बुद्धिः कृता पापे हरिष्यामि श्वजाषनीम्” भा० शा० १४१ अ०। कथाशेषस्तत्र दृश्यः

जाङ्गल = पु० जङ्गले भवः जङ्गलप्रायो वा अण्। १ वनप्राये २ जङ्गलस्थपशुमांसे तत्रत्ये ३ उदके च शब्दार्थचि०। “अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः। स ज्ञेयो जाङ्गलो देशो बहुधान्यादिसंयुतः” कुल्लू० धृतवाक्योक्तलक्षणे ४ देशभेदे पु०। भावप्र० अन्यथा तल्लक्षणमुक्तं यथा

“आकाशशुभ्र उच्चश्च स्वल्पपानीयपादपः। शमीकरीरविल्वार्कपीलुकर्कन्धुसङ्कुलः। हरिणैणर्ष्यपृषत गोकर्णखरसङ्कुलः। सुखादुफलवान् देशो वातलोजाङ्गलः स्मृतः”। “बहूदकनगोऽनूपः कफमारुतरोगवान्। जाङ्गलोऽल्पाङ्गशाखी च पित्तासृङ्मारुतोत्तरः” तद्देशगुणास्तत्रोक्ता जाङ्गलानां पशूनां विशेषः तन्मांस गुणाश्च तत्रैवोक्ता यथा “हरिणैणकुरङ्गर्ष्य पृषतन्यङ्कुशंवराः। राजीवोऽपि च मुण्डी चेत्याद्याः जाङ्गलसंज्ञकाः। हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः। कुरङ्ग ईषत्ताम्रः स्यादेणतुल्याकृतिर्महान्। ऋष्यो नीलाङ्गको लोके सारोह्य इति कीर्त्तितः। पृषतश्चन्द्रविन्दुः स्याद् हरिणात् किञ्चिदल्पकः। न्यङ्कुर्बहुविषाणोऽथ शंवरो गवयो महान्। राजीवस्तु मृगो ज्ञेयो राजिभिः परितोवृतः। यो मृगः शृङ्गहीनः स्वात् स मुण्डीति निगद्यते। जाङ्गलाः व्रायशः सर्वे पित्तश्लेष्महराः स्मृताः। किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः”। “तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः” भा० भी० ९ अ०। ५ कपिञ्जलखगे पु० स्त्री मेदि० स्त्रियां जातित्वात् ङीष्।

जाङ्गलपथिक = त्रि० जङ्गलस्थः पन्थाः अच् समा०। तेनाहृतं तेन गच्छति वा ठञ्। १ जङ्गलपथेनाहृते २ तेन गन्तरि च।

जाङ्गुल = न० गम–यङ् लुक् बा० डुल पृषो० दीर्घः। १ विषे तस्य कुटिलगतित्वात् तथात्वं २ जालिनीफले शब्दरत्ना०।

जाङ्गुलि = पु० गम–यङ् लुक् बा० डुलि। १ विषवैद्ये शब्दरत्ना०। “परीक्षितं समश्नीयात् जाङ्गलिभिर्मिषग्वृतः” वैद्यकम्।

जाङ्गुलिक = पु० जाङ्गुली विषविद्या तामधीते वेद वा तया दीव्यति वा ठञ्। विषवैद्ये अमरः।

जाङ्गुली = स्त्री जाङ्गुलस्य विषस्येयम् अण्। विषविद्यायाम् हेमच०।

जाङ्घि = त्रि० जङ्घायां भवः तस्या इदं वा वाह्वादेराकृति० गणत्वात् इञ्। १ जङ्घाभवे २ तत्सम्बन्धिनि च।

जाङ्घिक = त्रि० जङ्घाभ्यां जीवति वेतना० ठञ्। १ घावके (धाओडे) २ उष्ट्रे पुंस्त्री० ३ श्रीकारीवृक्षे पु० राजनि०।

जाजलि = पु० ऋषिभेदे तस्य तपश्चरणकथादिकं भा० शा० २६२ अ दृश्यम् “वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः” इत्यादि। स च प्रवरप्रवर्त्तकः हेमा० व्र० दृश्यम्।

जाजिन् = त्रि० जज–योधे–ताच्छील्ये णिनि। योधशीले। “जजौजाजाजिजिज्जाजी” माघः।

जाझा(ट)लि = पु० ज(झ)ट–संधाते घञ्। त लाति लाबा- डि। वृक्षभेदे अमरः।

जाटालिका = स्त्री कुमारामुचरमातृभेदे “जाटालिका कानचरी दीर्घजिह्वा बलोत्कटा” भा० शा० ४७ अ०।

जाटासुरि = पु० जटासुरस्यापत्यम् इञ्। जटासुरापत्ये “जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्” भा० द्रो० १७५ अ०।

जाटिलिक = पुंस्त्री जटिलिकाया अपत्यं शिवा० अण्। जटिलिकाया अपत्ये स्त्रियां ङीप्।

जाठर = पु० जठरे भवः अण्। जठरस्थिते १ वह्नौ “जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः” सुश्रु०। २ कुमारानुचरभेदे “विद्युताक्षो धनुर्वक्त्री जाठरो मारुताशनः” भा० श० ४६ अ०। तस्येदमण्। ३ जष्ठरसम्बन्धिनि त्रि० स्त्रियां ङीप्। “नानाशनः स्यान्न महाशनः स्यादलोलुपः साधु भिरागतः स्यात्। यात्रार्थमाहारमिहाददीत तथास्य स्याज्जठरी द्वारमुप्तिः” भा० शा० २७० अ०।

जाठर्य्य = त्रि० जठरे भवः बा० ञ्य। जठरभवे रोगादौ “एतन्नवायसमेतेन जाठर्य्यं न भवति सन्नोऽग्निराप्यायते” सुश्रु०।

जाडार = पुंस्त्री जडस्यापत्यम् वा आरक्। जडस्यापत्ये।

जाड्य = न० जडस्य भावः ष्यञ्। १ जडतायां २ मौर्ख्ये च हेमच० “आलस्यश्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत्” सा० द०। “इदं जाड्यमिदं मौढ्यमिदमत्यद्भुतं वचः” हरिवं० ३०९ अ०।

जाड्यारि = पु० ६ त०। जम्बीरे राजनि०।

***