जप्य = त्रि० जप–कर्म्मणि यत्। १ जपनीय अघमर्षणादौ। “फलदानान्तु वृक्षाणां छेदने जप्यमृक्शतम्” मनुः। भावे यत्। २ जपे। “जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र संशयः” मनुः।

जप्येश्वर = पु० सिद्धस्थानभेदे। “जप्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी। त्रिशूली शङ्करस्तत्रं सर्व्वपापविमोचकः” तन्त्रवाक्यम्। जपस्थानशब्दे दृश्यम्।

जबारु = न० जवमान् (जरमाण)–रोहिन् + पृषो०। १ जबमानरोहिणि२ जरमाणरोहिणि च। “पृश्नेरग्रेकप आरूपितं जबारु” ऋ० ४, ५, ७। “जबारु जवमानरोहि जरमाणरोहि वा” भा०। “जबारु जवमानरोहि जरमाणरोहि” निरु०। ६। १७।

जबाला = स्त्री सत्यकामस्यर्षेः मातरि। जबालायां भवः अण्। जाबाल सत्यकामाख्ये ऋषो तत्कथा यथा

“सत्यकामोह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्य्यं भवति। विवत्स्यामि किं गोत्रोऽन्वहमस्मीति। सा हैनसुवाच नाहमेतद्वेद तात! यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि स सत्यकाम एव जाबालो ब्रवीथा इति। स ह हारिद्रु मतं गौतममेत्यावाच ब्रह्मचर्य्यं भगवति वत्स्याम्युपेयां भगवन्तिमिति। तं होवाच किं गोत्रोनुसोम्यासीति स होवाव नाहमेतद्वेद भो यद्गोत्र्योऽपृच्छं मातरं सा मां प्रत्यब्रवीद्बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाऽहमस्मि सत्यकामो नाम त्वमसीति सोऽहं सत्य- कामो जबालोऽस्मि भोः इति। तं हौवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोपत्वा नेष्ये न सत्यादगाः” इति।

जभ = मैथुने भ्वा० पर० सक० सेट्। जभति अजम्भीत्। जजम्भ जजम्भतुः जजभतुः। जभितः। मैथुनञ्च मैथुनेन घर्षणम्। ता इमा जभितुं पापा उपक्रामन्ति मां प्रभो!” भाग० ३। २०। २७। “जभितुं मैथुनेन घर्षयितुम्” श्रीधरः।

जभ = मैथुने भ्वा० पर० अक० सेट् इदित्। जम्भति धातूनामनेकार्थत्वात् भक्षणेऽपि “श्वा न्वस्य जम्भिषदपि” ऋ० १०। ८६। ४। “जम्भिषत् भक्षयतु” भा०।

जभ = जृम्भे चुरा० उभ० सक० इदित्। जम्भयति ते अजजम्भत् त। “जम्भयतमभितो रायतः शुनी” ऋ० १। १८२। ४ “हनु वृकस्य जम्भया” अथ० १९। ४७। ९।

जभ = जृम्भे आ० भ्वा० आत्म० सेट्। जभते अजम्भिष्ट जजम्भे जेभे।

जम = भक्षे भ्वा० पर० पर० सक० सेट्। जमति अजमीत् उदित् जमित्वा जान्त्वा। अयञ्च धातुः नैगमे २। १४ गत्यर्थकत्वेन। १। १७ जमदिति ज्वलत्यर्थत्वेन चोक्तः। जामिशब्दनिरुक्तौ च ३। ६ जमतेर्वा स्याद्गतिकर्म्मणो निर्गमनप्राया भवति” जमदग्निशब्दनिरुक्तौ च १। २४। “जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा” इत्युक्तम्।

जमज = त्रि० द्वि० व० यमज + पृषो०। यमजातयोः द्विरूपको०।

जमदग्नि = पु० जमन् प्रज्वलितोऽग्निरिव। भृगुवंश्ये ऋषिभेदे। तन्निरुक्तिः जमधातौ दर्शिता। भा० आ० ९३ अनु० अन्या निरुक्तिर्दर्शिता यथा “जाजमद्यजजानेऽहं जीजाहीह जिजायिषि। जमदग्निरिति ख्यातमती मां विद्धि शोभने!”। तदुत्पत्तिकथा “और्व स्तस्यां समभवदूरुं भित्त्वा महायशाः। महातेजा महावीर्य्यो बाल एव गुणैर्युतः। ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत। जमदग्नेस्तु चत्वार आसन् पुत्रा महात्मनः। रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः” भा० आ० ६६ अ० अस्योत्पत्तिकथा ऋचीकशब्दे १४१४ पृ० दर्शिता। स च एतन्मन्वन्तरे सप्तर्षिमध्यगतः यथा हरिवं० ७ अ० “गौतमश्च भरद्वाजो विश्वामित्रस्तथैव च। तथैव पुत्रौ भगवानृक्षीकस्य महात्मनः। सप्तमी जमदग्निश्च ऋषयः साम्प्रतं दिवि। साध्या रुद्राष्ट विश्वे च वसवो मरुतस्तथा”।

अयञ्च गोत्रकारकः तद्विवृतिः गोत्रशब्दे २७९६ पृ० दृश्या। जमदग्नेरपत्यम् गर्गा० यञ्। जामदग्न्य तद- पत्ये पु० स्त्री। बहुत्वे अस्त्रियाम् यञो लुक्। जमदन्तयः तदपत्येषु स्त्रियां तु न लुक्। जामदग्न्यःस्त्रियः।

जमन = न० जम–भावे ल्युट्। भक्षणे अमरकोषे “जेमनं लेप आहार” इत्यत्र जमनमिति पाठान्तरम्।

जम्पती = पु० द्वि० व०। जाया च पतिश्च द्व० जायाया जम्। दम्पत्योः स्त्रीपुरुषयोः अमरः। पक्षे जायापती तत्रार्थे।

जम्बाल = पु० जम्ब–घञ् जम्बमालाति आदत्ते आ + ला–क। १ पङ्के, अमरः। २ शैवाले, मेदि०। ३ केतक्यां शब्दच०। “जम्बूवज्जलविम्बवज्जलजबज्जम्बालवज्जालवत्” उद्भटः “क्षणं मौलिजजम्बालजटीकृत्य ध्रुवो ययौ” काशी० ख० १९ अ०।

जम्बालिनी = स्त्री जम्बाल + अस्त्यर्थे इनि। नद्याम् हेमच०।

जम्बीर = पु० जम–गम्भीरा० नि० ईरन् बुक् च। (जामीर नेवु) ख्याते वृक्षभेदे। “जम्बीरमुष्णं गुर्वम्लं वातश्लेष्मविबन्धनुत्। शूलकासकफक्लेशच्छर्दितृष्णामदोषजित्। आस्यवैरस्यहृत्पीडावह्निमान्द्यकृमीन् हरेत्। स्वल्पजम्बीरिका तद्वत्तृष्णाच्छर्दिनिवारिणी” भावप्र०। २ मरुवके, ३ अर्जके, ४ सितार्जके, राजनि० पृषो० ह्रस्वः जम्बिर तत्रार्थे पु० शब्दर०।

जम्बु(म्बू) = स्त्री जम–अदने कू नि० बुक् पृषो० वा ह्रस्वः। (जाम) १ वृक्षे अमरः तत्र ह्रस्वान्ते। “तस्या जम्बोः फलरसो नदीभूय पवर्क्षते” विक्रमादित्यः। परिणतजम्बूफलोपभोगहृष्टाः” किरा०। दीर्घान्ते। तस्याः जम्ब्वाः फलरसी नदी भूत्वा जलाधिपः” भा० भी० ७ अ० २ जम्बुनामके द्वीपे च जम्बुद्वीपशब्दे दृश्यम्। जम्ब्वाः फलम् अण् पक्षे अञ्। जाम्बव तत्फले न०। तस्या वा लुक् लुप् वा लुपि व्यक्तिवचनत्वात्। जम्बु न० जम्बू स्त्री।

जम्बुक = पु० जम्बु इव कायति वैक। (गोलावजाम) इति ख्याते १ वृक्षे। २ नीचे त्रि० ३ श्योनाके राजनि०। स्वार्थे क। ४ जम्बुशब्दार्थे। ५ शृगाले पुंस्त्री०। “गृध्राः कङ्का बलाः श्येनावायसा जम्बुकास्तथा” भा० द्रो० ९७ अ०। स्त्रियां जातित्वात् ङीष्। “मत्स्यमांसपरिभ्रष्टा किं जम्बुकि! निरीक्षसे” उद्भटः। ५ कुमारानुचरभेदे। “शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः” इत्युपक्रमे “सञ्चारकः कोकनदी गृध्रपत्रश्च जम्बुकः” भा० श० ४९ अ०। दीर्घमध्येऽपि तदनुचरे तत्रैवाध्याये चासवक्त्रश्च जम्बूकः शाकवक्त्रश्च कञ्जलः”।

जम्बुकेश्वर = पु० तीर्थभेदे शिवपु०।

जम्बु(म्बू)खण्ड = पु० जम्बुद्वीपे “भेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते!। जम्बूखण्डे च तत्रैव महाजनपदो नृप!” भा० भी० ७ अ०।

जम्बु(म्बू)खण्डविनिर्म्माण = न० जम्बुखण्डस्य विनिर्म्माणं निरूपणं यत्र। भा० भीष्मपर्वान्तर्गते अवान्तरपर्वभेदे। “जम्बूखण्डविनिर्म्माणं पर्वोक्तं तदनन्तरम्” भा० आ० १ अ० अवान्तरपर्वोक्तौ।

जम्बु(म्बू)द्वीप = पुंन० जम्बु(म्बू)वृक्षयुक्तो द्वीपः भूमेः सप्तद्वीपान्तर्गते द्वीपभेदे। तत्सीमाविभागादि विष्णु पु० उक्तं यथा। “जम्बुप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज!। कुशः क्रौञ्चस्तथाशाकः पुष्करश्चैव सप्तमः। एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः। लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्। जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः। तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः। चतुरशीतिमाहस्रो योजनैरस्य चोच्छ्रयः। प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः। मूले षोडशसाहस्रो विस्तारस्तस्य भूभृतः। भूपद्मस्यास्य शैलोऽसौ कर्णिकासंस्थितिः स्थितः। हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे। नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः। लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे। सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते! नाभिश्च प्रथमं वर्षं ततः किंपुरुषं स्मृतम्। हरिवर्षं तथैवान्यत् मेरोर्दक्षिणतो द्विज!। रमणञ्चोत्तरं वर्षं तथैबानु हिरण्यम्। उत्तरा कुरवश्चैव यथा वै भारतं तथा। नवसाहस्रमेकैकमेतेषां द्विजसत्तम!। इलावृतञ्च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः। मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तरः। इलावृतं महाभाग! चत्वार उपपर्वताः विष्कम्मा रचिता मेरोर्योजनायुतमुच्छ्रिताः। पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः। विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्मृतः। कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च। एकादशशतायामाः पादपा गिरिकेतवः। जम्बु द्वीपस्य सा जम्बूर्नामहेतुर्महामुने!। महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै। पतन्ति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः। रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै। सरित् प्रवर्त्तते सा च पीयते तन्निवासिभिः। न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्लमः। तत्- पानसुस्थमनसा जनानां तत्र जायते। तीरमृत्तत्र संप्राप्य सुखवायुविशोषिता। जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्। भद्राश्वं पूर्वतो मेरोः केतुमालञ्च पश्चिमे। वर्षे द्वे तु मुनिश्रेष्ठ! तयोर्मूलमिलावृतम्। वनं चैत्ररथं पूर्वं दक्षिणे गन्धमादनम्। वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्। अरुणोदं महाभद्रं संसितोदं समानसम्। सरांस्येताति चत्वारि देवभोग्यानि सर्वदा। शीतान्तश्चैव मुञ्जश्च कुवरी माल्यवांस्तथा। वैकच्छप्रमुखा मेरोः पूर्वतः केशराचलाः। त्रिकूटःशिशिरश्चैव पतङ्गो रुचकस्तथा। निषधाद्यो दक्षिणतस्तस्य केशरपर्वताः। शिखिवासाः सवैदूर्य्यः कपिलो गन्धमादनः। जारुधिप्रमुखास्तद्वत् पश्चिमे केशराचलाः। मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः। शङ्खकूटोऽथ ऋषभो हंमो नागस्तथापरः। कालञ्जराद्याश्च तथा उत्तरे केशराचलाः। चतुर्दशसहस्राणि योजनानां महापुरी। मेरोरुपरि मैत्रेय! ब्रह्मणः प्रथिता पुरी। तस्याः समन्ततश्चाष्टौ दिशासु विदिशासु च। इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः। विष्णु पदाद्विनिष्क्रान्ता पूरयित्वेन्दुमण्डलम्। समन्ताद्ब्रह्मणः पुर्य्यागङ्गा पतति वै दिवः। सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत। सीता चालकनन्दा च वंङ्क्षुर्भद्रा च वै क्रमात्। पूर्वेण शैलात् सीता तु शैलं यात्यन्तरीक्षगा। ततश्च पूर्ववर्षेण भद्राश्वेनैति साणवम्। भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून्। अतीत्योत्तरमम्भोधिं समभ्येति महामुने!। वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः। पश्चिमं केतुमालाख्यं वर्षमभ्येति सार्णवम्। तथाचालकनन्दापि दक्षिणेनेत्य भारतम्। प्रयाति सागरं भूत्वा सप्तभेदा महामुने!। आनीलनिषधायामौ माल्य वद्गन्धमादनौ। तयोर्मध्ये गतो मेरुः कर्णिकाकारसंस्थितः। भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा। पद्मानि लोकपद्मस्य। मर्य्यादाश्चैव बाह्यतः। जठरो देव कूटश्च मर्य्यादापर्वताबुभौ। तौ दक्षिणोत्तरायामा वानीलनिषधायतौ। मेरोः पश्चिभदिग्भागे यथा पूर्वौ तथा स्थितौ। त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्षपर्वतौ। पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ। इत्येते मुनिवर्य्योक्ता मर्य्यादापर्वतास्तव। जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम्। मेरोश्चतुर्दिशं ये तु प्रोक्ताः केशरपर्वताः। शीतान्ताद्या मुने! तेषामतीवेह मगोरमाः। शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः। सुरम्याणि तथा तेषु काननानि पुराणि च। लक्ष्मीविष्ण्वग्निसूर्य्यादिदेवानां मुनिसत्तम!। तान्यायतनगर्य्याणि जुष्टानि वरकिन्नरैः। गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः। क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम्। भौमाह्येते स्मृताः स्वर्गाधर्म्मिणामालया मुने!। नैतेषु पापकर्म्माणो यान्ति जन्मशतैरपि। भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज!। वराहः केतुमाले तु भारते कूर्म्मरूपधृक्। मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः। विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः। सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः। यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महामुने। न तेषु शोकोनायासो नोद्वेगः क्षुद्भयादिकम्। सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः। दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः। न तेषु वर्षवर्य्येषु भौमान्यम्भांसि तेषु वै। कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना। सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः। नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तम!”। “पराशर उवाच। उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद्भारतं नाम भारती यत्र सन्ततिः। नवयोजनसाहस्रो विस्तारोऽस्य महामुने। कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम्। महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः। विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्वताः। अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च। तिर्य्यकत्वं नरकत्वञ्च यान्त्यतः पुरुषा मुने!। इतः स्वर्गञ्च मोक्षश्च मध्यञ्चान्तश्च गन्यते। न खल्वन्यत्र मर्त्यानां कर्म्मभूमौ विधीयते। भारतस्यास्य वर्षस्य नव भेदान्निशामय। इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान्। नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः। अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः। योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात्। पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः। ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः। इज्यायुद्धबणिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः। वेदस्मृतिमुखाश्चान्याः पारिपात्रोद्भवा मुने!। नर्म्मदा सुरसाद्याश्च नद्यो विन्ध्यविनिर्गताः। तापीपयोष्णीनिर्विन्ध्याकावेरी प्रमुखा नदी। गोदावरीभीमरथीकृष्णवेन्नादिकास्तथा। सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः। कृतामलाताम्रपर्णीप्रमुखा मलयोद्भवाः। त्रिसामा ऋषिकल्लाद्याः शुक्तिमत्पादसम्भवाः। शतद्रुचन्द्रभानाद्या हिमवत्पादनिःसृताः। आसां नद्युपनदद्यश्च सन्त्यन्यास्तु सहस्रशः। पश्चिमे कुरुपञ्चालमध्यदेशादयोजनाः। पूर्वदेशादिकश्चैव कामरूपनिवासिनः। ओड्राः कलिङ्गामगधा दाक्षिणात्याश्च सर्वशः। तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथार्बुदाः। मारुका मालवाश्चैव पारिपात्रनिवासिनः। सौवीराः सैन्धवाहूणाः शाल्लाः शाकलवासिनः। मद्रामार्गास्तथाम्बष्ठाः पारसीकादयस्तथा। आसां पिबन्तः सलिलं वसन्ति सरितां सदा। चत्वारि भारते वर्षे युगान्यत्र महामुने!। कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित्। तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः। दानानि चात्र दीयन्ते परलोकार्थमादरात्। पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते। तत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने!। यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः। अत्र जन्मसहस्राणां सहस्रैरपि सत्तम!। कदाचिल्लभते जन्तुर्म्मानुष्यं पुण्यसञ्चयात्। गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे। स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्वात्। कर्म्माण्यसंकल्पिततत् फलानि सन्न्यस्य विष्णौ परमात्मरूपे। अवाप्य तां कर्म्ममहीमनन्ते तस्मिल्लंयं ये त्वमलाः प्रयान्ति। जानीम नैतत् क्व वयं विलीने स्वर्गप्रदे कर्म्मणि देहबन्धम्। प्राप्स्यामो धन्याः खलु ते मनुष्याये भारते नेन्द्रियविप्रहीणाः। नववर्षन्तु मैत्रेय! जम्बूद्वीपमिदं मया। लक्षयोजनविस्तारं संक्षेपात् कथितं तव। जम्बूद्वीपं समावृत्य लक्सयोजनविस्तृतः। मैत्रेय! वलयाकारः स्थितः क्षारोदधिर्बहिः”।

भाग० ५। १६ अ० तद्वर्णनमन्यथोक्तम् यथा

“यो वा अयं द्वीपः कुवलयकमलाभ्यन्तरकोषोनियुतयोजनविशालः समवर्त्तुलो यथा पुष्करपत्रम्।। ६।। यस्मिन्नव वर्षाणि नवयोजनसहस्रायामानि अष्टभिर्मर्य्यादागिरिभिः सुविभक्तानि।। ७।। “एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसाहस्रं तावतान्तर्भूम्यां प्रविष्टः।। ८।। उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गतानिति त्रयोरम्यकहिरण्मयकुरूणां मर्य्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसाहस्रपृथव एकैकशः पूर्वस्मात् पूर्वस्मादुत्तरेण दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति।। ९।। एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयः। अयुतयोजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा सङ्ख्यम्।। १०।। तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते।। ११।। मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतथोजनविस्तारोन्नाहामेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः।। १२।। चतुर्ष्वे तेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः।। १३।। ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः। यदुपस्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभाविकानि भरतर्षभ! धारयन्ति। देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति।। १४।। येष्वमरपरिवृढाः सह सुरत्वलनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति।। १५।। मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति।। १६।। तेषां विशीर्य्यमाणानामतिमधुरसुरभिसुगन्धिवहलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति।। १७।। यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनबधूनामवयवस्पर्शसुगन्धवातो दशयोजनम् समन्तादनुवासयति।। १८।। एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन नदी जम्बूनाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दति।। १९।। तावदुभयोरपि रोधसो या मृत्तिका तद्रसेनानुविध्यमाना च वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति।। २०।। यदुह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसूत्र कुण्डलाद्याभरणरूपेण खलु धारयान्त।। २१।। यस्तु महाकदम्बः सुपार्श्वपार्श्वनिरूढस्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात् पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति। याह्युपयुञ्जनानां मुखनिर्व्वासितोवायुः समन्ताच्छतयोजनमनुवासयति।। २२।। एवं कुमुदनिरूढोयः शतवन्तो नाम वटस्तस्य स्कन्धेभ्यो नीधीनाः पयोदधिमधुधृतगूडान्ना- द्यम्बरशय्यासनाभरणादयः सर्व एव कामदुधा नदाः कुमुदाग्रात् पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति। यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयापमृत्युशीतोष्णबैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति। यावज्जीवं सुखं निरतिशयमेव कुरङ्गकुररकुसुम्भवैकङ्कत्रिकुटशिखरपतङ्गरुचकनिषधशिति वासःकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनागकुञ्जरनीरदादयो गिरयो मेरोः कर्णिकाया इव केशरभूतामूलदेशे परित उपकॢप्ताः।। २३।। जठर देवकूटौ मेरुं पूर्वे णाष्टादशयोजनसहस्रमुदगायतो द्विसहस्रपृथूत्तङ्गौ भवतः। एवमपरेण पवनपारिपात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतौ। एवमुत्तरतः त्रिशृङ्गमकरौ अष्टाभिरेभिः परिष्कृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः। मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति।। २४।। तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्ल्रप्ताः”।। २५।। ६ अ०

“तत्र चतुर्द्धा विभज्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यन्दती नदनदीपतिमेवाभिनिविशति। सीताऽलकनन्दाव ङ्क्षर्भद्रेति।। ७।। सीता तु ब्रह्मसदनात् केशराचलादिशिखरेभ्योऽधोधः प्रस्रवन्ती गन्धमादनमूर्द्धसु पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति।। ८।। एवं माल्यवच्छिखरान्निष्पतन्ती तत उपरतवेगा केतुमालमभि वङ्क्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति।। ९।। भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि लवणार्णवं प्रविशति।। १०।। तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटानि अतिक्रम्य हेमकूटहिमकूटान्यतिरभसतररंहसा लुठन्ती भारतमभि वर्षं दक्षिणस्यां दिशि लवणजलधिमभिप्रविशति।। ११।। अन्ये च नदानद्यश्च वर्षे वर्षे सन्ति वहुशोमेर्व्वादिगिरिदुहितरः शतशः। “अत्रापि भारतमेव वर्षं कर्मक्षेत्रम्।। १२।। अन्यान्यष्टवर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमस्वर्गपदानि व्यपदिशन्ति”।। १३।। १७ अ०

“भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवः।। १६।। मलयो मङ्गलप्रस्थोमैनाकस्त्रिकूट ऋषभः कूटकः कोल्लः सह्यो देवगिरिऋव्यमूकः श्रीशैलो वेङ्कटो महेन्द्रोवारि- धारोविन्ध्यः शक्तिमानृक्षगिरिः पारिपात्रोद्रोणश्चित्रकूटोगोवर्द्धनोरैवतः ककुभोनीलोगोकामुख इन्द्रकीलः कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्ब प्रभवानदानद्यश्च सन्त्यसंख्याताः।। १७।। एतासामपोभारत्यः प्रजा नामभिरेव पुनन्तीनामात्मानं चोपस्पृशन्ति। चन्द्रवशा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरीवेन्ना पयस्विनी शर्करावर्त्ताऽङ्गभद्रा कृष्णवेन्ना भीमरथी गोदावरी निर्व्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्म्मदा चर्म्मण्वती अन्धः शोणश्च नदौ महानदी वेदस्मृतिः ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयूरोघवती सप्तवती सुषमा शतद्रूश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नोविश्चेति महानद्यः।। १८।। अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारन्धेन कर्मणा दिव्यमानुषनारकगतयोबह्व्य आत्मन आनुपूर्व्येण सर्वाह्येव सर्वेषां विधीयन्ते। यथावर्णविधानमपवर्गश्च भवति”।। २०।। १९ अ०

“जम्बुद्वीपस्य च राजन्नुप द्वीपानष्टौ ह्येके उपदिशन्ति। सगरात्मजाश्चाश्वान्वेषण समां महीं परितो निखनद्भिरुपकल्पितान्। तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्त्तनो रमणको मन्दहरिणः पाञ्चजन्यसिंहलोलङ्केति” २० अ०। अत्रत्य जनपदाश्च जनपदशब्दे उक्ता। भा० भी० ९ अ०। जम्बुद्वीपस्थ नदीभेदा उक्ता यथा।

“आर्य्या म्लेच्छाश्च कौरव्य! तैर्मिश्राः पुरुषा विभो!। नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्। गोदावरीं नर्मदाञ्च बाहुदां च महानदीम्। शतद्रूं चन्द्रभानाञ्च यमुनाञ्च महानदीम्। दृषद्वतीं विपाशाञ्च विपापां स्थूलबालुकाम्। नदीं वेत्रवतीञ्चैव कृष्णवेन्नाञ्च निम्नगाम्। इरावतीं वितस्ताञ्च पयोष्णीं देविकामपि। वेदस्मृतां वेदवतीं त्रिदिवामिक्षुमालवीम्। करीषिणीं चित्रवहां चित्रसेनाञ्च निम्नगाम्। गोमतीं धूतपापाञ्च गण्डकीञ्च महानदीम्। कौशिकीं निश्चितां कृत्यां निचितां लोहतारिणीम्। सरयूञ्च रहस्यां च शतकुम्भां तथैव च। चर्मण्वतीं चन्द्रभागां हस्तिसोमां दिशं तथा। शरावतीं पयोष्णीञ्च परां भीमरथीमपि। कावेरीं चुलकाञ्चापि वेणां शलबलामपि। नीवारां महिताञ्चापि सुप्रयोगां जनाधिप!। पवित्रां कुण्डलां सिन्धुं राजनीं पुरमालिनीम्। पूर्ब्बाभिरामां वीराञ्च भीमामोघवतीं तथा। पलाशिनीं पापहरां महेन्द्रां पाट- लावतीम्। करीषिणीमसिक्नीञ्च कुशचीरां महानदीम्। मकरीं प्रवरां मेनां हेमां घृतवतीं तथा। पुरावतीमनुष्णाञ्च शैव्यां तापीञ्च भारत!। सदानीरामघृष्याञ्च कुशधारां महानदीम्। सदाकान्तां शिवाञ्चैव तथा वीरवतीमपि। वास्तुं सुवास्तुं गौरीञ्च कम्पनां सहिरण्वतीम्। वरां वीरङ्कराञ्चापि पञ्चमीञ्च महानदीम्। रथचित्रां ज्योतिरपां विश्वामित्रां कपिञ्जलाम्। उपेन्द्रां बहुलाञ्चैव कुचीरां मधुवाहिनीम्। विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम्। विदिशां कृष्णवेणाञ्च ताम्राञ्च कपिलामपि। शेलुं सुवामां वेदाश्वां हरिदश्वां महोपमाम्। शीघ्राञ्च पिच्छलाञ्चैव भारद्वाजीञ्च निम्नगाम्। कौशिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम्। दुर्गामन्त्रशिलाञ्चैव ब्रह्मबोध्यां वृहद्वतीम्। यवक्षामथ रोहीञ्च तथा जाम्बूनदीमपि। मनसां तमसां दासीं वसाञ्च वरणामसीम्। नालां धृतिमतीञ्चैव पूर्णाशाञ्च महानदीम्। तामसीं वृषाभाञ्चैव ब्रह्ममेध्यां वृहद्वतीम्। एताश्चान्याश्च बहुधा महानद्यो जनाधिप!। सदानिरामयां कृष्णां मन्दगां सन्दवाहिनीम्। ब्रह्माणीञ्च महागौरीं दुर्गामपि च भारत!। चित्रोपलां चित्ररथां मञ्जुलां वाहिनीं तथा। मन्दाकिनीं वैतरणीं कोशां चापि महानदीम्। शुक्तिमतीं सलिङ्गाञ्च पुष्परेणूत्पलावतीम्। लोहित्यां करतोयाञ्च तथैव वृषकाह्वयाम्। कुमारीमृषिकुल्याञ्च मारिषाञ्च सरस्वतीम्। मन्दाकिनीन्तु पुण्याञ्च सर्वसङ्गाञ्च भारत!। विश्वस्य मातरः सर्व्वाः सर्व्वाश्चैव महाफलाः। तथा नद्यस्त्वप्रकाशाः शतशीऽथ सहस्रशः। इत्येताः सरितो राजन्! समाख्याता यथास्मृति”। अन्याः काश्चित् नद्यः कालिकापुराणोक्तास्तच्छब्दे २०१३ पृ० दर्शिताः। जम्बुद्वीपस्था जनपदाश्च भा० भी० ७ अ० उक्ताः जनपदशब्दे ३०२०पृ० दर्शिताः। कूर्म्मविभागशब्दे च तत्स्थानञ्चोक्तम्। २ जम्बु(म्बू)द्वीपाकारसंनिवेशयुक्ते दातव्यद्रव्यभेदे तद्विधानादि हेमा० दा० ख० ब्रह्माण्डपु०

“शृणु देवि! महादानं जम्बु(म्बू)द्वीपाह्वयन्तु तत्। यथाह भगवानद्य पद्मयोनिर्जनार्दनः। पुण्येऽह्नि पुण्यनक्षत्रे पुण्यकाले तु सर्वतः। विषुवत्ययनादौ च ग्रहणे चन्द्रसूर्य्ययोः। व्यतीपातेऽथ वा कुर्य्याज्जन्मर्क्षे वा विशेषतः। अष्टम्यां पञ्चदश्यां वा नित्यं वा दानमाचरेत्। पुण्यदेशेषु सर्वेषु नदीदेवालयादिषु। दानं गृहे वा दातव्यं श्रद्धा वा यत्र जायते। विप्रन्तु वेदविद्वासं गुरु सम्पूज्य यत्नतः। भूलेपनादि यत्कार्य्यं सर्वं विप्रेण कारयेत्। विलेपयेत्सर्वभूमिं गोमयेन सवारिणा। तत्र विंशतिहस्तन्तु लेपयेत्परिमण्डलम्। लवणेनोदधिं तत्र परितः परिकल्पयेत्। प्रादेशमात्रं विस्तारादष्टद्रोणेन पार्व्वति!। तत्राक्षतान्निर्विकिरेत् श्वेतपुष्पैः समन्ततः। तन्मध्ये कारयेन्मेरुं धान्यभारत्रयेण वै। मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णकल्पद्रुमसंयुतः स्यात्। पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः। पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्य्यसरोजरागैः। श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः स्यात्। शुक्लाम्बराण्यम्बु धरावली स्यात् पूर्वेण पीतानि च दक्षिणे तु। वासांसि पश्चादथ कर्वुराणि रक्तानि चैवोत्तरतोघनाली। व्रह्मा तु मध्ये कमलासनस्थश्चतुर्मुखः काञ्चननिर्मिताङ्गः। चतुर्भुजश्चात्र निवेशनीयो दधत् स्रुचं चात्र कमण्डलुञ्च। तथाक्षसूत्रं जपसाधनञ्च कृष्णाजिनं चोपवीतं च बिभ्रत्। गङ्गां चतुर्द्धा पतितां निधाय चतुर्दिशं चोदकपूर्णरूपाम्। रौप्यान्महेन्द्रप्रभृतीनथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण। नानाद्विजौघानि च राजतानि मृगाश्च सर्वत्र निषेशनीयाः। पूर्वेण मन्दरगिरिर्यवतण्डुलाभ्याम् शुक्लाम्बरेण परितः परिवेष्टितान्तः। प्लक्षेण काञ्चनमयेन वृषेण तद्वद्रौप्येण वृक्षमृगपक्षियुतो विधेयः। याम्येन गन्धमदनोऽत्र गिरिस्तु कार्य्यो मुद्गैश्च जम्बुतरुणा च हिरण्मयेन। हैमेन यक्षपतिना च विराजमानः पीताम्बरेण परितः परिवेष्टितश्च। पश्चात्तिलाचलमथोपरि कर्बुराभम् वासः सपिप्पलहिरण्मयहंसयुक्तम्। आकारयेद्विपुलमत्रसुगन्धपुष्पम् रौप्येण शक्तिघटितेन विराजमानम्। संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वभपि माषमयं सुवस्त्रम्। न्यग्रोधवृक्षमपि हेममयं सधेनुम् रौप्यैश्च शक्तिघटितैश्च शुभं विधायं। मेरोश्च पुष्पाभरणञ्च कार्य्यम् घृतोदकं प्रस्रवणञ्च दिक्षु। क्षीराज्यदध्ना मधुना सरांसि प्रागादि तेषां च यथाक्रमेण। हेमादिकूटनिषधौ क्रमशश्च याम्ये सौम्ये च नीलसितशृङ्गयुतौ क्रमेण। प्रादेशमात्रं परिनिःसृतास्ते प्रागायता ह्युपरि वस्त्रयुताश्च सर्वे। प्रत्येकमत्र वसनच्छदपर्वतानाम् भारेण धान्यपरिमाणमुशन्ति सन्तः। शक्त्या च रौप्यकृतपक्षियुताश्च सर्वे सौगन्धिपुष्पफलवस्त्रयुगा विधेयाः। आनीलनिषधायामौ माल्यवद्गन्धमादनौ। तेषां मध्यगतो मेरुस्तौ च धान्यविनिर्मित। निषधः पारिपात्रश्च मर्य्यादापर्वताविमौ। मेरोः पञ्चमभागेन यथा तौ गन्धमादनौ। गन्धमादनशैलोऽसौ पूर्वपश्चाद्यथाविधौ। श्वेततण्डुलनिर्माणौ दक्षिणोत्तरतः स्थितौ। सितान्तःप्रमुखाः सर्वे दक्षिणे ककुभादयः। शङ्खकूटादयश्चैव उत्तरे परिकीर्त्तिताः। तांस्त्रीन् केशरशैलाश्च कृत्वा धान्यमयान् शुभान्। वस्त्रैरावेष्ट्य शैलेन्द्रं मेरुमन्यांश्च वेष्टयेत्। दक्षिणं भारतं वर्षं तत् किंपुरुषसंवृतम्। हरिबर्षं ततः प्रोक्तं मेरोर्दक्षिणतस्ततः। इलावृतं वृतं मेरोश्चतुर्थं वृषभं तथा। रम्यं हिरण्मयं तस्मात् कुरवश्चेति चोत्तराः! भद्राश्वः केतुमालश्च पूर्वपश्चिमतः स्थितौ। प्रोक्तानि नव वर्षाणि जम्बुद्वीपे तु नामतः। हिमाद्रिमध्ये देवेशं श्रियञ्च विनिवेशयेत्। प्रसादाभिमुखावेतौ काञ्चनेन विनिर्मितौ। शङ्ख–चक्र–गदापाणिं पीतवाससमच्युतम्। किरीट–केयूर–धरं श्रीवत्साङ्कितवक्षसम्। पद्मासने समासीनां पद्महस्तां सुलोचनाम्। प्रसन्नवदनां देवीं तस्य दक्षिणतोन्यसेत्। कैलासमध्यतो माञ्च त्वां चैव विनिवेशयेत्। मां च शङ्करनामानं त्वां च गौरीं वरानने!। चनुर्मुजं वृषस्थञ्च जटिलं चन्द्रमौलिनम्। खट्वाङ्गशूल–वरदाभय–हस्तञ्च मां न्यसेत्। मदुत्सङ्गगतां त्वां च दर्पणेन्दीवरान्विताम्। भद्रासने भगवन्तं हयरूपमुखं हरिम्। सौवर्णं स्थापयेद्देव भारते कूर्म्मरूपिणम्। वाराहं केतुमाले वै मत्स्यं कुरुषु चोत्तरे। सौवर्णानथ वा रौप्यान् स्थापयेत्तु यथाक्रमम्। एवं जम्ब्वाह्वयं द्वीपं कृत्वा चैव यथाविधि। अर्घपाद्यासनं स्नानं यथावत् स्थापनं क्रमात्। ब्रह्मादयस्तथा देवाः शैलाः कल्पद्रुमास्तथा। स्वनाममन्त्रैः पुजार्हा नमस्कारान्तदीपितैः। गन्धपुष्प–नमस्कार–धूप दीप–फलै–स्तथा। तथोपहरणाद्यैश्च पूजयित्वा प्रयत्नतः। भद्राश्ववर्षे होमन्तु सर्पिषा च समाचरेत्। स्वनाम मन्त्रैर्होतव्यं स्वाहाकारसमायुतैः। दशोत्तरशतं हुत्वा ब्रह्मणे मेरवे तथा। इतरेषाञ्च सर्वेषामष्टोत्तरशताहुतीः। स्नानार्थं यजमानस्य पुरतः कलशन्न्यसेत्। आढकोदरपूर्णन्तु स्वकूर्चं वस्त्रवेष्टितम्। गन्धाः सुमनसस्तस्य कुशाग्रान्विनिवेशयेत्। याश्च श्रेयो विधास्यन्ति ताश्चात्रावाहयेत्ततः। गङ्गाद्याः सरितः सर्व्वा समुद्राश्च सरांसि च। आयान्तु यजमानस्य दुरितक्षयकारकाः। इत्यावाह्य ततस्तस्य कलशं विमलोदकम्। अभ्यर्च्य गन्धपुष्पाद्यैः स्थापयेत् प्रीतिपूर्वकम्। स्नापयेत् प्राङ्मुखं तत्र दातारं कलशोदकैः। ऋग्भिर्वरुणदेवीभिः पाबमानीभिरेव च। दानकाले च सम्प्राप्ते दाता नारी नरोऽथवा। स्नापितो गुरुणा तेन सार्द्धं दानं समाचरेत्। त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः। प्रत्येकं पर्व्वतान् सर्व्वान् प्रणिपातपुरःसरम्। मध्यभं गुरवे दद्यादिमं मन्त्रमुदीरयेत्। अन्यस्मै वा प्रदातव्यं तस्यानुज्ञामवाप्य च। यथा च भूरादिसमस्तलोकास्त्वयि स्थिता भूधरराज! नित्यम्। अमी सुरा असुरा लोकनाथा ब्रह्मादयो देवगणाश्च नित्यम्। त्वत्सम्प्रदानादहमप्यशेषैः पापैर्विमुक्तस्तु यथा भवेयम्। श्रेयस्तथा पर्वतराज! मह्यं कुरु प्रभो! देववरैश्च सार्द्धम्। इतीदमुक्त्वा प्रददेत्तु मेरुं सकाञ्चनं राजतवस्त्रयुग्मम्। प्रत्येकमेकं द्विजपुङ्गवानाम् प्रागादि दद्यादितरान् क्रमेण। सुरासुराणाममृतार्थकृत्यैः त्वया कृतं मन्दरशैल! सत्य!। तथा च मां रक्ष च सर्वतस्त्वं तव प्रसादाद्विरजा यथाहम्। गन्धाद्रिमादन इतीरितभूधरेन्द्र! वेदोदितस्य गरुडाय नमोऽस्तु तुभ्यम्। त्वत्सम्प्रदानहतपापसमस्तदीषं छायाषिशैलवर रक्ष च मामजस्रम्। देवालयाय विपुलाय नमोऽचलाय हंसाय वेदपुरुषाय नमोऽच्युताय। युष्मत्प्रदाननिहताखिलपापराशिं हंसेन सार्द्धममराचल! पाहि मां त्वम्। वन्दे सुपार्श्वममराचलमप्रमेयन्धेनुञ्च देवसुरभिं प्रणतोऽस्मि नित्यम्। त्वद्दानभक्तियुतसत्क्रिययाहमद्य त्वामेव यामि शरणार्थमवेहि मां त्वम्। श्रीवत्सवक्षस–मनादिमजं समस्तलोकाधिपं सकलकारणनच्युतञ्च। नारायणं शरणमेमि धराधरेन्द्रैः सार्द्धं श्रिया हिमवतः स्थितिमादिमीडे। देवाय देवगणपूजितपादपद्मयुग्माय भक्तजनदुःखविनाशनाय। कैलासशैलनिलयाय भवाय नित्यं गौरीप्रियाय वरदाय नमः शिवाय। चक्रं त्वनादिनिधनः शरणागतं माम् भद्राश्वनामनि गतो हरिरच्युतोऽसौ। आस्ते घनाघनवपुः सनकादियोगिपूगैरभिष्टुतपुरातनकीर्त्तियुक्तः। मध्ये महार्णवहिमाचलयोर्निषण्णं कूर्माकृतिं शरणमेमि भवाभवाय। पारावरं मथितमत्र सदा दधाति यस्त्वं नमामि सुरपूजितमप्रमेयम्। वाराहरूपिणमनन्तमनन्तकेतुम् लोकखणपिणमनेकशिरोक्षिपादम्। वन्दे महीधरममेय- मपारकीर्त्तिं यज्ञेशमेति शरणं हरमीशितारम्। देवस्तथोत्तरकुरुष्वपि नित्यमास्ते मत्स्यः सुरेन्द्रगणपूजितपादपद्मः। रक्षत्वशेषजगतां पतिरच्युतोऽसौ संसारदुःखचलितं शरणागतं माम्। उक्त्वैवमात्रमघनाशनदानमन्त्रं प्रत्येक–मेकं द्विजपुङ्गवानाम्। भुक्त्वा शुभानि मनसेच्छति यानि वासौ गच्छेच्च यत्र न निवर्त्तयतीह मर्त्त्यः। गुरवे दक्षिणां दद्यात् सुवर्णञ्चैव वाससी। यागोपकरणं सर्वं गुरवे विनिवेदयेत्। इत्याह भगवान् प्रीतः पार्व्वत्याः परमेश्वरः। अहमप्यव्रवं सर्वं युष्माकं मुनिसत्तमाः!।”

जम्बूनदी = स्त्री जम्बूफलरसजाता नदी। १ जम्बूफलरसजाते नदीभेदे जम्बूद्वीपशब्दे ३०४३ पृ० विवृतिः। २ व्रह्मलोकात् प्रवर्त्तमानासु सप्तसु नदीषु मध्ये नदीभेदे च “ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते। वस्वोकसारा१ नलिनी२ पावनी च सरस्वती३। जम्बूनदी४ च सीता५ च गङ्गा६ सिन्धुश्च७ सप्तमी” भा० भी० ६ अ०।

जम्बूमार्ग = न० पुष्करस्थे तीर्थभेदे पुष्करोपक्रमे “प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत्। जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम्। अश्वमेधमवाप्नोति सर्व्वकामसमन्वितः। तत्रोष्य रजनीः पञ्च पूतात्मा चायते नरः। न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चात्तमाम्। जम्बूमार्गादुपावृत्य गच्छेत्तण्डुलिकाश्रमम्” भा० व० ८२ अ०। “जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः” भा० अनु० २५ अ०। “जम्बूमार्गं गमिष्यामि जम्बूमार्गे वसाम्यहम्। एबं सङ्कल्पयानोऽपि रुद्रलोके महीयते” हरिव० १४१ अ०।

जम्बूल = पु० जम्बूं तन्नामफलं लाति ला–क। १ जम्बूवृक्षे २ केतकवृक्षे च मेदि०। “जम्बूजम्बूलवृक्षाद्यं कद्रुकन्दलभूषितम्” हरिवं० ९७ अ०। ३ वरकन्यापक्षयोः परिहासवचने न० नीलकण्ठः।

जम्बूलमालिका = स्त्री ६ त०। १ वरकन्यापक्षयोः परिहासवचनसमूहे। “आशीभिर्बर्द्धयित्वा च देवर्षिः कृष्णमब्रवीत्। अनिरुद्धस्य वीर्य्याख्यो विवाहः क्रियतां विभो!। जम्बूलमालिकां द्रष्टुं श्रद्धा हि मम जायते। ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात्” हरिव० १८८ अ०। “जम्बूलमालिका कन्यावरयोर्मुखचन्द्रिका” हारावल्युक्तार्थकतया उद्वा० त० व्याख्यानात् २ तत्रार्थे च।

जम्बू(म्बु)वनज = न० जम्बुवन इव जायते जन–ड ७ त०। श्वेतजवापुष्पे। “पारिभद्रं पाटला च बकुलं गिरिशालिनी। तिलकं जम्बुवनजं पीतकं तगरन्त्वपि। एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चने” वामन पु०

जम्बूवृक्ष = पु० कर्म्म०। जम्बूनामके (जामगाछ) वृक्षे स च वृहत्क्षुद्रभेदेन द्विक्धः यथाह भाव० प्र०

“फलेन्द्रा कथिता नन्दी राजजम्बूर्सहाफला। तथा सुरभिपत्रा च महाजम्बूरपि स्मृता। राजजम्बूफल स्वादु विष्टम्भि गुरु रोचनम्। क्षुद्रजम्बूः सूक्ष्मपत्रा नादेयी जलजम्बुका। जम्बः संग्राहिणी रूक्षा कफपित्तास्रदाहजित्”।

जम्भ = पु० जम–अच्–नुम्। १ दैत्यभेदे। करणे घञ्। २ दन्ते कर्म्मणि घञ्। ३ जम्बीरे। भावे घञ्। ४ सक्षणे मेदि०। कर्म्मणि घञ्। ५ अंशे। करणे घञ्। तूणे ६ हनौ च हेमच०। जम्भदैत्यश्च महिषासुरपिता। स च इन्द्रात् पराजयमासाद्य महादेवं प्रसाद्य त्रैलोक्यविजयिपुत्ररूपवरप्राप्तौ गृहे गमनात् प्रागेव नारदोपदेशात् इन्द्रेण युद्धायाहूतः स्नानच्छलेन सरोऽवगाहकाले महिषीं दृष्ट्वा तस्यां गर्भमाधाय इन्द्रेण युद्धं कृतवान् तेन निपातितश्च तत्कथा मार्क० पु० दृश्या। कालिकापु० ६१ अ० तस्य रम्भेतिनामेति भेदः। अन्योऽपि तन्नामाऽसुरो विष्णुनाहतो यथोक्तं मा० व० १०२ अ०। “असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः। यज्ञच्छिद्रकरक्रूरस्त्वयैव विनिपातितः” हरिं प्रति देवानामुक्तिः। ७ रावणानुचरभेदे “पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः। प्ररुजश्चारुजश्चैव प्रघसश्च्रैवमादयः। ततोऽभिपतता तेषामदृश्यानां दुरात्मनाम्। अन्तर्द्धानबधं तज्ज्ञश्चकार स विभीषणः” भा० व० २८४ अ०। ८ भक्ष्ये सि० कौ०। तत्र भक्षणे “इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः” भा० उ० ६३ अ०। दन्ते “इमं जम्भसुतं पिबः” ऋ० ८। ९१। २। “जम्भसुतं दन्तैरमिषुतम्” भा० सुजम्भाहरितजम्भा। जभि–जृम्भायां भावे घञ्। ९ जृम्भयाञ्च। “जम्भा सुहरिततृणसोमेभ्यः” पा० बहुव्रीहौ अनिच् समा०। सुजम्भा हरितजम्भा तृणं जम्भो भक्ष्यं यस्य तृणजम्भा सोमजम्भा। स्वार्थे क। जम्भक तत्रार्थे जभ–ण्वुल्। जम्भक भक्षके त्रि०।

जम्भका = स्त्री जम्भैव स्वार्थे क। जृम्भायां राजनि०। पक्षे जम्भिकाप्यत्र।

जम्भग = पु० जम्भाय भक्षणाय गच्छति गम–ड। राक्षसभेदे। “देवा यक्षास्तथा नागा गन्धर्वाप्सरोऽसुराः। क्रराः सर्पाः सुपर्ण्णाश्च तरवे जम्भगाः खगाः” तर्पणमन्त्रः।

जम्भद्विष् = पु० जम्भमसुरं द्वेष्टि द्विष–क्विप्। इन्द्रे हेमच०।

जम्भभेदिन् = पु० जम्भमसुरं भिनत्ति भिद–णिनि ६ त०। इन्द्रे अमरः जम्भरिपुप्रभृतयोऽप्यत्र। मार्क० पु० तन्मूलं दृश्यम्।

जम्भर = पु० जम्भं भक्षणरुचिं राति ददाति रा–क। १ जम्बीरे शब्दच०। वा रस्य नः। जम्बल १ तत्रार्थे २ बुद्धभेदे च मेदि०। ३ राक्षसीभेदे स्त्री। “समुद्रस्योत्तरे तीरे जम्भला नाम राक्षसी। तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्” ज्यो० त०।

जम्भा = स्त्री जभि–जृम्भायां भावे अ। जृम्भायां राजनि०।

जम्भारि = पु० जम्भस्य भक्ष्यस्य असुरभेदस्य वा अरिः। १ वह्नौ २ वज्रे च विश्वः ३ इन्द्रे च। “जम्भारिदम्भोलयः” नैष०

जम्भिन् = पु० जभ–णिनि नुम्। १ जम्बीरे शब्दच० तत्रार्थे न० हेमच०। २ ज्रम्भाषुक्त्रे त्रि०।

जम्भीर = पु० जभ–गम्भीरा० ईरन् नुम् च। १ जम्बीरे अमरः २ मरुवके भरतः।

जम्भ्य = पु० जम्भ एव स्वार्थे यत् जभ–कर्म्मणि ण्यत् वा दन्ते। “यस्तद्दर्शपूर्णमासयोर्विद्यस्मादिमाः प्रजा अदन्तका जायन्ते यस्मादासां जायन्ते यस्मादासां प्रभिद्यन्ते यस्मादासां संतिष्ठन्ते यस्मादासां पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते यस्मादधर एकाग्रे जायन्तेऽथोत्तरे यस्मादणीयाम्स एवाधरे प्रथीयांस उत्तरे यस्माद्दंष्ट्रा वर्षीयसी यस्मात् समा एव जम्भ्याः” शत० ब्रा० ११। ४। १। ५। “दंष्ट्राभ्यां मलिम्लून् जम्भ्यैस्तस्करान्” यजु० ११। ७८ “दन्ता जम्भ्याः जम्भावर्तिमाश्रिता जम्भ्याः” २ वेददीपोक्तर्थे च।

जय = पु० जि–भावे अच्। परापेक्षया १ उत्कर्षलाभे (जित हओया) २ वशिकरणे इन्द्रियजयः। “मौनं सदासनजयः स्थैर्य्यं प्राणजयः शनैः” भाग० ३२ ८। ६। ३ शत्रुपराङ्मुखीकरणे ४ संग्रामादिजये। “सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः। विभागः संप्रयोगश्च सत्प्रतिग्रह एव च” मनुना तस्य धर्म्यस्वत्वहेतुत्वमुक्तं तच्च क्षत्रियस्यैव “स्वामी ऋक्थक्रयसंविभागपरिग्रहाविगमेषु व्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोरिति” गौतमस्मृतेः। “जयो रन्ध्र्यहारिणाम्” रघुः। “समदुःखसुखे कृत्वा लाभालाभौ जयाजयौ” गीता। जि–कर्त्तरि अच्। ५ परमेश्वरे पु० तस्य सर्वभूतजयित्वात् तथात्वं “नयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः” विष्णूस०। ६ जयन्ते इन्द्रपुत्रे असुरजयात्तस्य तथात्वम् ७ युधिष्ठिरे क्रोधजयात् गुह्यतन्नामकत्वाद्वा तस्य तथात्वम्। विराटनगरे छद्मवेशेन स्थायिनः युधिष्ठिरस्य यथा गुह्यं तन्नाम तथोक्त “जयोजयन्तो विजयो जयत्सेनो जयद्बलः। इति गुह्यानि नामानि तेषां चक्रे युधिष्ठिरः” भा० वि० ५ अ०। ८ अग्निमन्थवृक्षे रोगजयात्तस्य तथात्वम्। ९ दानवभेदे “जयो निकुम्भः कुपथश्च दानवो ररक्षुरेते दशदानवाधिपम्” हरिवं० २४२ अ०। १० विश्वामित्रसुतभेदे। “मधुच्छन्दा जयश्चैव देवलश्च तथाष्टकः। कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः” २७ अ०। ११ सोमवंश्ये सृञ्जयनृपपुत्रभेदे “ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः। दिविजाता महात्मान आयुर्धीमानमावसुः” इत्युपक्रमे “आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः। स्वर्भानुतनयायाञ्च प्रभायां जज्ञिरे नृप!। नहुषः प्रथमं यज्ञे वृद्धधर्म्मा ततः परम्। रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुतः” इति आयुपुत्रभेदानुक्त्वा “अनेनसः सुतो राजा प्रति क्षत्रो मक्षायशाः। प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम विश्रुतः। सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः” हरिवं० २९ अ०। ऐलस्योर्वशीगर्भजाते १२ सुतभेदे। “ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप। आयुः श्रुतायुः सत्यायू रथो ह विजयो जयः” भाग० ९। १५। १। दशमे ब्रह्मसावर्णिमन्वत्तरे १३ द्विजभदे “दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान्। तत्सुता भूरिसेनाद्या हविष्मत्प्रमुखा द्विजाः। हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा द्विजाः” भाग० ८। १३। १०। १४ जनकवंश्ये मैथिले नृपभेदे। “जन्मना जनकः सोऽभूत् वैदेहस्तु विदेहजः। मिथिलो मथनाज्जातो मिथिला येन निर्म्मिता” इत्युपक्रमे “श्रुतस्ततो जयस्तस्माद्विजयोऽस्मादृतः सुतः” भाग० ९। १३। १६। सोमवंश्ये १५ सृञ्जयसुते १६ सङ्कृति नृपसुते च। “कुशात् प्रतिक्षत्रवृद्धात् सृञ्जयस्तत्सुतो जयः। ततः सुतः कृतस्यापि जज्ञे हर्य्यश्ववान् नृपः। सहदेवस्ततोऽहीनो जयत्सेनस्तु तत्सुतः। सङ्कृतिस्तम्य च जयः क्षत्रधर्म्मा महारथः” भाग० ९। १७। १०। अत्र जयस्य द्विधा कीर्त्तनात् तद्वंशे द्वौ जयौ। १७ इक्ष्वाकुवंश्ये विजननन्दननूपभेदे हेम०। १८ विष्णुदौवारिकभेदे। जयविजयौ हि विष्णुद्वारपौ भगवद्दिदृक्षया वैकुण्ठगतान् नग्नान् समकादीन् भगवदभ्यन्तरे गमनाय निवार्य्य वेत्रेण ताडयन्तौ तैरभिशप्तौ हिरण्याक्षाद्यसुरभावेन जातौ तत्कथा भाग० ३। १६ अ०। “मानसात्मसुता युष्मत्पूर्वजाः सनकादयः। चेरुर्विहायसा लोकान् लोकेषु विगतस्पृहाः। त एकदा भगवतो वैकुण्ठस्यामलात्मनः। ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम्” इत्युपक्रमे।

“तस्मिन्नतीत्य मुनयः षडसज्जयानाः कक्षाः समानवयसावथ सप्तमायाम्। देवावचक्षत गृहीतगदौ परार्द्ध्यकेयूरकुण्डलकिरीटविटङ्कवेशौ। मत्तद्विरेफ बनमालिकया निवीतौ विन्यस्तया सितचतुष्टयबाहुमध्ये। वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्तेक्षणेन च मनाग्रभसं दधानौ। द्वार्य्येतयोर्निविविशुर्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रकपाटिकायाः। सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या ये संचरन्त्यविहता विगताभिशङ्काः। तान् वीक्ष्य वातवसनांश्चतुरः कुमारान् वृद्धान् दशार्द्धवयसो विदितात्मतत्त्वान्। वेत्रेण चास्खलतयतामदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकूलशीलौ। ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः स्वर्हत्तमा अपि हरेः प्रतिहारपाभ्याम्। ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत्कामानुजेन सहसा त उपप्लुताक्षाः। श्रीमुनय ऊचुः। कोवाइहैत्य भगवत्परिचर्य्ययोच्चैस्तद्धर्मणां निवसतां विषमस्वभावः। तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां कोवात्मवत्कुहकयोः परिशङ्कनीयः। नह्यन्तरं भगवतीह समस्तकुक्षावात्मानमात्मनि नभो नभसीव धीराः। पश्यन्ति यत्र युवयोः सरलिङ्गिनोः किं व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य। यद्वा मनुष्यपरमस्य विकुण्ठभर्त्तुः कर्त्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम्। लोकानितो व्रजत मन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र। तेषामितीरितमुभाववधार्य्य धोरं तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः। सद्यो हरेरनुचरावुरु बिभ्यतस्तत्पादग्रहावपततामतिकाररेण। भूयादघोनि भगवद्भिरकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम्। माधोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतोरबोधः। एवं तदैव भगवानरविन्दनाभः स्वानां विबुध्य सदतिक्रममार्य्यहृद्यः। तस्मिन् ययौ परमहंसमहामुनीनामन्वेषणीयचरणौ चलयन् सहश्रीः”। ततः कुमरैः मगवन्तं दृष्ट्वा कृतां तत्स्तुतिमुपवर्ण्योक्तम्।

“इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम्। प्रति- नन्द्य जगादेदं वैकुण्ठनिलयो विभुः। श्रीभगवानुवाच। एतौ द्वौ पार्षदौ मह्यं जयो विजय एव च। कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम्। यस्त्वेतयोर्धृतो दण्डो भवद्भिर्भामनुव्रतैः। स एवानुमतोऽस्माभिर्मुनयो! देवहेलनात्”। ततः कथाशेषो यथा “श्रीभगवानुवाच। एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्यनुबद्धयोगौ। भूयः सकाशमुपयास्यत आशु योवः शापो मयैव निमितस्तदवैत विप्राः!। श्रीब्रह्मोवाच। अथ ते मुनयोदृष्ट्वा नयनानन्दभाजनम्। वैकुण्ठं तदधिष्ठानं विकुण्ठञ्च स्वयंप्रभम्। भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च। प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम्। भगवाननुगावाह यातं मा भैष्टमस्तुताम्। ब्रह्मतेजःसमर्थोऽपि हन्तुं नेच्छे मतन्तु मे। मयि सरम्भयोगेन निस्तीर्य्य ब्रह्महेलनम्। प्रत्येष्यतं निकामं मे कालेनाल्पीयसा पुनः। द्वाःस्थावादिश्य मगवान् विमान श्रेणिभूषणम्। सर्वातिशयगं लक्ष्म्या जुष्टं स्वन्धिष्ण्यमाविशत्। तौ तु गीर्वाणवृषभौ दुस्तराद्धरिलोकतः। हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ। तदा विकुण्ठधिषणात्तयोर्निपतमानयोः। हाहाकारो महानाबी द्विमानाग्रेषु पुत्रकाः!। तावेव ह्यधुना प्राप्तौ पार्पदप्रवरौ हरेः। दितेर्जठरनिर्विष्टं काश्यपं तेज उस्वणम्। तयोरसुरयोरद्य तेजसा यमयोर्हि वः। आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति”। भाग० ३। १२ अ०–१६ अ०। जयति संसारमनेन। जि करणे अच्। १९ भारतादौ ग्रन्थभेदे। “व्रह्मचारिकाण्डं भविष्यपुराणम् “अष्टादश पुराणानि रामस्य चरितं तथा। विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत!। कार्ष्णाख्यं पञ्चमो वेदो यन्महाभारतं स्मृतम्। सौराश्च धर्म्मा राजेन्द्र! मानवोक्ता महीपते!। जयेति नाम एतेषां प्रवदन्ति मनीषिणः” इति “नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम्। देवीं सरस्वतीञ्चैव तती जयमुदीरयेत्” सर्वपुराणारम्भे पाठ्यश्लोकः। २० दक्षणद्वारे गृहे शब्दार्थचि०। षष्टिवर्षमध्ये अष्टाविंशतितमे २१ वतसरे। तत्फलं यथा “क्षत्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः। पीडितास्ते वरारोहे! जये सर्वे न संशयः” ज्यो० त०। जये कुशलः आकर्षा० कन्। जयक जयकुशने त्रि०। २२ कुमारानुचरनागभेदे। “प्रददावग्निपुत्रस्य महापारि- षदावुभौ। जयं महाजयञ्चैव नागौ ज्वलनसूनवे” मा० श० ४६ अ०। २३ द्रुपदराजपुत्रभेदे “जघान सुरथं नाम द्रुपदस्य सुतं विभुः। पुनः शत्रुञ्जयं नाम सुरथस्यानुजं रणे। रथानीकं जयानीकं जयञ्चात्र निजघ्निवान्” भा० द्रो० १५६ अ०। २४ अर्जुने “यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः। अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्” भा० आश्व० ८० अ०। मातरं प्रति बभ्रुवाहनोक्तिः। “इत्युक्त्वा सोऽब्रवीत् पुत्रं मणिपूरपतिं जयः” ८१ अ०। २५ धृतराष्ट्रपुत्रभेदे। “दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा। तती दुःशासनश्चैव दुःसहश्चैव भारत!। दुर्मर्षणो विकर्णश्च चित्रसेनोविविंशतिः। जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत!। वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः” भा० आ० ६३ अ०।

जयकोलाहल = पु० जयस्य कोलाहलो यस्मिन्। १ पाशक क्रीडाभेदे शब्दच०। ६ त०। २ जयध्वनौ।

जयढक्का = स्त्री जयसूचिका ढक्का। वाद्यभेदे।

जयतीर्थ = न० तीर्थभेदे शिवपु०।

जयत्सेन = पु० १ विराटनगरे छद्मवेशिनि नकुले पाण्डवे। जयशब्दे दृश्यम्। जयन्ती सेनाऽस्य। २ विक्रान्तसैन्यके नृपे। ३मागधनृपभेदे। “मगधेषु जयत्सेनस्तेषामासीत् स पार्थिवः। अष्टानां प्रवरास्तेषां कालेयानां महासुराः” भा० आ० ६७ अ०। ४ पुरुवंश्ये सार्वभौमाख्यनृपपुत्रे। “अहंयातिः खलु कृतवीर्य्यदुहितरमुपयेमे भानुमतीं नाम तस्यामस्य जज्ञे सार्वभौमः। सार्वभौमः खलु जित्वा जहार कैकेयीं सुनन्दां नाम तामुपयेमे तस्यामस्य जज्ञे जयत्सेनो नाम। जयत्सेनः खलु वैदर्भी मुपयेमे सुश्रुतां नाम तस्यामस्य जज्ञे अवाचीनः” भा० आ० ९५ अ०। ५ सोमवंश्ये अहीननृपपुत्रे च। जयशब्दे मूलं दृश्यम्।

जयदत्त = पु० इन्द्रपुत्रे जयन्ते हेमच०।

जयदुर्गा = स्त्री दुर्गामूर्त्तिभेदे तन्मूर्त्तिलक्षणं तन्त्रसारे “काला भ्राभां कटाक्षेररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि (त्रिशूलम्) करैरुद्वहन्तीं त्रिनेत्राम्। सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः”। अस्याः मन्त्रप्रयोगादिकं तत्रैव दृश्यम्।

जयदेव = पु० गीतगोविन्दकाव्यकारके केन्दुविल्वग्रामवासिनि कविभेदे “भावं शृङ्गारसारस्वतमयजयदेवस्य विष्वग्- वचांसि” गीतगो०

जयद्बल = पु० विराटावासे छद्मवेशिनि पाण्डवे सहदेवे जयशब्दे दृश्यम्।

जयद्रथ = पु० १ पौरवे वृहन्मनसो नृपस्य यशोदेव्यां जाते पुत्रभेदे। तदुत्पत्तिकथा “वृहद्दर्भसुतो यस्तु राजा नाम्ना वृहन्मनाः। तस्य पत्नीद्वयञ्चासीद्वैनतेयमुते शुभे। यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते। जयद्रथस्तु राजेन्द्र! यशोदेव्यां व्यजायत” हरिवं० ३१ अ०। सिन्धुदेशाधिपवृद्धक्षत्रसुते २ राजभेदे। स च घृतराष्ट्रकन्यां दुःशलामुपयेमे। स च सौवीरदेशाधिपः “जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे! स एषः” भा० व० २६४ स च द्रीपदीं हृत्वा पलायमानो विजित्य भीमेन गृहीतो युधिष्ठिराज्ञया मुक्तश्च। ततो निर्वेदमासाद्य तपसा तोषितात् रुद्रतो वरं लेभे तत्कथा यथा

“जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ। प्राधावत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः। तं भीमसेनो धावन्तमवतीर्य्य रथाद्बली। अभिद्रुत्य निजग्राह केशपक्षे ह्यमर्षणः। समुद्यम्य च तं भीमो निष्पिपेष महीतले। शिरो गृहीत्वा राजानं ताडयामास चैव ह। पुनः सञ्जीवसानस्य तस्योत्पतितुमिच्छतः। पदा मूर्द्ध्नि महाबाहुः प्राहरद्विलपिष्यतः। तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना। स मोहमगमद्राजा प्रहारवरपीडितः। सरोषं भीमसेनं तु वारयामास फाल्गुनः। दुःशलायाः कृते राजा यत्तदाहेति कौरवः। भीम उवाच। नायं पापसमाचारो मत्तो जीवितुमर्हति। कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः। किन्नु शक्यं मया कर्त्तुं यद्राजा सततं घृणी। त्वञ्च वालिशया बुद्ध्या सदैवाम्मान् प्रबाधसे। एवकृक्त्वा मटास्तस्य पञ्च चक्रे वृकोदरः। अर्द्धचन्द्रेण वाणेन किञ्चिदबुवतस्तदा। विकत्थयित्वा राजानं ततः प्राह वृकोदरः। जीवितुञ्चेच्छसे मूढ! हेतुं मे गदतः शृणु। दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च। एवं ते जीवितं दद्यामेष युद्धजितो विधिः। एवमस्त्विति तं राजा कष्यमाणो जयद्रथः। प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम्। तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसंज्ञं पांशुगुण्ठितम्। ततस्तं रथमास्थाप्य भीमः पार्थानुगस्तदा। अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम्। दर्शयामास भीमस्तु तदवस्थं जयद्रथम्। तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत्। राजानञ्चाब्रवीद्भीमो द्रौपद्याः कथ्यतामिति। दासभावं गतो ह्येष पाण्डूनां पापचेतनः। तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चेममधमाचारं प्रमाणं यदि ते वयम्। द्रौपदी चाब्रवीद्भीममभिवीक्ष्य युधिष्ठिरम्। दासीऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः। स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्। ववन्दे विह्वलो राजंस्तांश्च दृष्ट्वा मुनींस्तदा। तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः। तथा जयद्रथ दृष्ट्वा गृहीतं सव्यसाचिना। अदासो गच्छ मुक्तोरसि मैवं कार्षीः पुनः पुनः। स्त्रीकामञ्च धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान्। एवंविधं हि कः कुर्य्यात्त्वदम्यः पुरुषाधमः। गतसत्वमिव ज्ञात्वा कर्त्तारमशुभस्य तम्। संप्रेक्ष्य भरतश्रष्ठः कृपाञ्चक्रे नराधिपः। धर्मे ते वर्द्धतां बुद्धिर्मा चाधर्मे मनः कृथाः। साश्वः सरथ पादातः स्वस्ति गच्छ जयद्रथ!। एवमुक्तस्तु सव्रीडस्तूष्णीं किञ्चिदवाङ्मुखः। जगाम राजा दुःखार्त्ती गङ्गाद्वाराय भारत। स देवं शरणं गत्वा विरूपाक्षमुमापतिम्। तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः। बलिं स्वयं प्रत्यगृह्णात् प्रीयमाणस्त्रिलोचनः। वरञ्चास्मै ददौ देवः स जग्राह च तच्छृणु। जयद्रथ उवाच। समस्तान् सरथान् पञ्च जयेयं युधि पाण्डवान्। इति राजाव्रवीद्देवं नेति देवस्तमब्रवीत्। महेश्वर उवाच। अजय्यांश्चाप्यबध्यांश्च वारषिष्यसि तान् युधि। ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम्। वदर्य्यां तप्ततपसं नारायणसहायकम्। अजितं सर्वलोकानां देवैरपि दुरासदम्। मया दत्तं पाशुपतम् दिव्यमप्रतिमं शरम्। अवाप लोकपालेभ्यो वजादीन् स महाशरान्”।

“प्रधानं शस्त्रविदुषां तेन कृष्णेन रक्ष्यते। सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः। समानस्यन्दने पार्थमास्थाय परवीरहा न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः। कः पुनर्मानुषो भावो रणे पार्थं विजेष्यते। तमेकं वर्जयित्वा तु सर्वं यौधिष्ठिरं बलम्। चतुरः पाण्डवान्राजन्! दिनैकं जेष्यसे रिपून्”। स च भारतयुद्धकाले द्रोणरचितचक्रव्यू हद्वारे स्थित्वाऽर्जुनमृते युधिष्ठिरादीन् चतुरो भ्रातॄन् जिगाय। अभिमन्युञ्च जघान। तद्बधकुपितेनार्ज्जुनेन श्वः सूर्य्यास्तमयात् प्रागेव त्वां हन्ता तथा त्वामहत्वा स्वयं वा मर्त्तेति प्रतिज्ञाय स निहतः तच्छिरश्च अन्यत्र तपस्यतस्तत्पितुर्हस्तेऽलक्षितं शरपरम्परया पातितं तेन च तस्य शिरसो भूमौ पातनेन स्वशिरः शतधाभूतं तत्कथा यथा भा० द्रो० १४४ अ०।

“एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। अव्रवीत् पाण्डवं राजंस्त्वरमाणो जनार्द्दनः। एष मध्ये कृतः षड्भिः पार्थ! वीरैर्महारथैः। जीवितेप्सुर्महाबाही! भीतस्तिष्ठति सैन्धवः। एताननिर्जत्य रणे षड्रथान् पुरुषर्षभ!। न शक्यः सैन्धवो हन्तुं यत्तो निर्व्याजमर्जुन। योगमत्र विधास्यामि सूर्य्यस्यावरणं प्रति। अस्तं गत इति व्यक्तं प्रेक्ष्यत्येकः स सिन्धुराट्। हर्षेण जीविताकाङ्क्षी विनाशार्थं तव प्रभो!। न गोप्स्यति दुराचारः स आत्मानं कथञ्चन। तत्र छिद्रे प्रहर्त्तव्यं त्वयास्य कुरुसत्तम। व्यपेक्षा नैव कर्त्तव्या गतोऽस्तमिति भास्करः। एवमस्त्विति बीभत्सुकेशवं प्रत्यभाषत। ततोऽसृजत्तमः कृष्णः सूर्य्यस्या वरणं प्रति। योगी योगेन संयुक्तो योगिनामीश्वरो हरिः। सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः। त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप!। ते पहृष्टा रणे राजन्नापश्यन् सैनिका रविम्। उन्नाम्य बक्त्राणि तदा स च राजा जयद्रथः। वीक्षमाणे ततस्तस्मिन् सिन्धुराजे दिवाकरम्। पुनरेवाब्रवीत् कृष्णो धनञ्जयमिदं वचः। पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम्। भयं विपुलमुत्सृज्य त्वत्तो भरतसत्तम। अयं कालो महाबाहो! बधायास्य दुरात्मनः। इत्येवं केशवेनोक्तः पाण्डुपुत्रः प्रतापवान्। न्यबधीत्तावकं सैन्यं शरैरर्काग्निसन्निभैः”।

“एवं तान् व्याकुलीकृत्य त्वदीयान् स महारथान्। उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम्। इन्द्राशनिसमप्रख्यं दिव्यमन्त्राभिमन्त्रितम्। सर्वभारसहं शश्वद्गन्धमाल्यार्च्चितं महत्। वज्रेणास्त्रेण संयोज्य विधिवत् कुरुनन्दनः। समादधन्महबाहुर्गाण्डीवे क्षिप्रमर्जुनः। तस्मिन् सन्धीयमाने तु शरे ज्वलनतेजसि। अन्तरीक्षे महानादो भूतानामभवन्नृपः। अव्रवीच्च पुनस्तत्र त्वरमाणो जनार्द्दनः। धनञ्जय! शिरश्छिन्धि सैन्धवस्य दुरात्मनः। अस्तं महीधरश्रेष्टं यियासति दिवाकरः। शृणुष्वैतच्च कार्य्यं मे जयद्रथबधं प्रति। वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः। स कालेनेह महता सैन्धवं प्राप्तवान् सुतम्। जयद्रथममित्रघ्न! तञ्चोवाच तदा नृपम्। अन्तर्हिता पुरा वाणी मेघदुन्दभिनिस्वना। तवात्मजो मनुष्येन्द्र! कुलशीलदमादिमिः। गुणैर्भविष्यति विभो! सदृशो वंशयोर्द्वयोः। क्षत्त्रियप्रवरो लोके नित्यं शूराभिसत्कृतः। शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः। शिरश्छेत्स्यति संक्रुद्धः शत्रुरालक्षितो भुवि। तच्छ्रुत्वा सिन्धुराजश्च ध्यात्वा चिरमरिन्दमः। ज्ञातीन् सर्व्वानुबाचेदं पुत्रस्नेहाभिनोदितः। संग्रामे युध्यमानस्य वहतो महतीं धुरम्। धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः। तस्यापि शतधा मूर्द्धा फलिष्यति न संशयः। एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्। वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः। स तप्यते च तेजस्वी तपो घोरं दुरासदम्। समन्तपञ्चकादस्माद्बहिर्वानरकेतन!। तस्माज्जयद्रयस्य त्वं शिरश्छित्त्वा महामृधे। दिव्येनास्त्रेण रिपुहन्! घोरेणाद्भुतकर्मणा। सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज!। उत्सङ्गे पातयाद्याशु वृद्धक्षत्रस्य भारत!। अथ त्वमस्य मूर्द्धानं पातयिष्यसि भूतले। तवापि शतधा मूर्द्धा फलिष्यति न संशयः। यथा चेदं न जानीयात् स राजा तपसि स्थितः। तथा कुरु कुरुश्रेष्ठ! दिव्यमस्त्रमुपाश्रितः। न ह्यसाध्यमकार्य्यं वा विद्यते तव किञ्चन। समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन!। एतच्छ्रुत्वा तु वचनं सृक्कणी परिसंलिहन्। इन्द्राशनिसमस्पर्शं दिव्यमन्त्र भिमन्त्रितम्। सर्वभारसहं शश्वद्गन्धमाल्यार्च्चितं शरम्। विससर्ज्जार्जुनस्तूर्णं सैन्धवस्य बधे धृतम्। ततो धनञ्जयः शीघ्रं शरं तं भास्करत्विषम्। उज्जिहीर्षुः शिरः कायात् सैन्धवस्य महात्मनः। स पार्थभुजनिर्मुक्तः शरः श्येन इवाशुगः। छित्त्वा शिरः सिन्धुपतेरुत्पपात विहायसि। तच्छिरः सिन्धुराजस्य शरैरूर्द्ध्वमवाहयत्। दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च। शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः। योधयामास तांश्चैव पाण्डवः षण्णहा० रथान्। ततः सुमहदाश्चर्य्यं तत्रापश्याम भारत। समन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः। एतस्मिन्नेव काले तु वृद्धक्षत्री महीपतिः। सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष!। उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्। सिन्धुराजस्य मूर्द्ध्वानमुत्सङ्गे सनपातसत्। तस्योत्सङ्गे निपतितम् शिरस्तच्चारुकुण्डलम्। वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम!। ततोभीतस्व तस्याथ वृद्धक्षत्रस्य भारत! उत्तिष्ठतस्तत् सहसा शिरोऽगच्छद्धरातलम्। ततस्तस्य नरेन्द्रस्य पुत्रमूर्द्धनि भूतलम् गते तस्यापि शतधा मूर्द्ध्वागच्छदरिन्दम! ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम्। वासुदेवं सबीभत्सुं प्रशशसंसुर्महारथम्। ततो विनिहते राजन्। सिन्धुराजे किरीटिना। तमस्तद्वासुदेवेन संहृतं भरतर्षम!। पश्चाज्ज्ञातं महीपाल! तव पुत्रैः सहानुगैः! वासुदेवप्रयुक्तेयं मायेति नृपसत्तम!।”

“जयद्रथबधे राजन्! दुर्य्योधनधनञ्जयौ। सवितारं निरीक्षेते प्रौढा बाला बधूरिव” उद्भटः।

जयद्रथबध = पु० जयद्रथस्य बधमधिकृत्य कृतो ग्रन्थः अण् तस्य आख्यायिकायां लुपि व्यक्तिवचनत्वात् पुंस्त्वम्। भारतद्रोणपर्वान्तगते अवान्तरपर्वभेदे तच्च द्रोणपर्वणि ८५ अध्यायावधि १५ ३ अध्यायपर्य्यन्तम् “जयद्रथबधः पर्व घटोत्कचबधस्ततः” भा० आ० १ अ०। अवान्तरपर्वोक्तौ।

जयद्रथविमोक्षण = न० जयद्रथस्य विमोक्षणमधिकृत्य कृतो ग्रन्थः अण् तस्य आख्यायिकायां लुपि व्यक्तिवचनत्वात् क्लीवता। भारतवनपर्वान्तर्गते अवान्तरपर्वभेदे तच्च पर्वं वनपर्वणि २७ अध्यायात्मकम्। “द्रौपदीहरणं तत्र जयद्रथविमोक्षणम्” भा० आ० १ अ० अवान्तरपर्वोक्तौ।

जयधर्म्मन् = पु० कुरुसेनानीभेदे। “कमलाक्षः परक्राथी जयधर्म्मा सुदर्शनः। एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्” भा० द्रो० १५६ अ०।

जयध्वज = पु० कार्त्तवीर्य्यार्ज्जुनस्य तनये आवन्त्र्ये नृपभेदे “शूरसेनश्च शूरश्च धृष्णोक्तः कृष्ण एव च। जयध्वजश्च नाम्नासीदावन्त्यो नृपतिर्महान्। कार्त्तवीर्य्यस्य तनया वीर्य्यवन्ती महावलाः। जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः” हरिवं० ३४ अ०।

जयन = न० जि–करणे ल्युट्। १ हयादिसन्नाहे “तुरङ्गिणो जयनयुजश्च वाजिनः” माघः। भावे ल्युट्। २ जये मेदि०।

जयनी = स्त्री इन्द्रकन्यायाम् त्रिका०।

जयन्त = पु० जि–झ। १ इन्द्रपुत्रे अमरः २ शिवे ३ चन्द्रे च त्रिका०। विराटावासे छद्मवेशिनि ४ भीमे तस्य तथागुह्यनामता जयशब्दे दृश्या। ५ विष्णौ “जयन्तः सर्वविज्जयी” विष्णुस०। ६ रुद्रभेदे “अजैकपादहिर्बुध्नो विरूपाक्षोऽथ रैवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः। सावित्रश्च जयन्तश्च पिनाकी चापराजितः” भा० शा० २०८ अ०। रुद्रीक्तौ “अजैकपादहिर्वुघ्नो विरूपाक्षश्च रैवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः। रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः” विष्णुध० “यथा जयन्तेन शचीपुरन्दरौ” “त्रिविष्टपस्येव पतिं जयन्तः” इति च रघुः। ७ तालभेदे “आदिताले जयन्तः स्यात् शृङ्गाररससंयुतः। रुद्रसंख्या क्षरपद आयुर्वृद्धिकरः परः” सङ्गीतदामोदरः।

जयन्ती = स्त्री जि–झ गौरा० ङीष्। १ दुर्गाशक्तिभेदे “जयन्ती मङ्गला काली भद्रकाली कपालिनी। दर्गा शिवा क्षमा धात्री स्वहा स्वधा नमोऽस्तुते” कालिपु०। २ जयन्तभगिन्यां शक्रपुत्र्यां ३ पताकायां च मेदि०। ४ स्वनामख्याते वृक्षभेदे सा च नवपत्रिकान्तर्गता “कदली दाडिमी धान्यं हरिद्रा मानकं कचुः। विल्वोऽशोको जयन्ती च विज्ञेया नव पत्रिकाः” दुर्गार्च्चापद्धत्युक्तेः। तदधिष्ठात्री देवता च कार्त्तिकी मूलं तत्रैव दृश्यम्। “जयन्ती मदगन्धाढ्या तिक्ता चैव कटूष्णिका। कृमिमूत्रामजित् ख्याता कण्ठशोषणकृन्मता। कृष्णा रसायनी तत्र सैव सर्वत्र पूज्यते” राजनि०। “तच्छाकं विषदोषघ्नं चक्षुष्यं मधुरं हिमम्” राजव० “जयं पुण्यञ्च कुरुते जयन्तीमिति तां विदुः। रोहिणीसहिता कृष्णा मासे च श्रावणेऽष्टमी। अर्द्धरात्रादधश्चोर्द्ध्वं कलयापि यदा भवेत्। जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी” ति० त० स्कान्दोक्ते ५ श्रावणकृष्णाष्टमी रोहिणीयोगे कृष्णाष्टमीशब्दे २२२१ पृ० विवृतिः। “अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी। मुहूर्त्तोविजयो नाम यत्र जातो जनार्द्दनः” हरिवं० ६० अ० “यत्र स्वोच्चगतश्चन्द्रो लग्नादेकादशे स्थितः। जयन्तो नाम योगोऽयं शत्रुपक्षविनाशकृत्” ज्योतिषोक्ते ६ यात्रायोगविशेषे पु०। “प्रभावनीके तनवै जयन्तीः” माघः। स्वार्थे क। जयन्तिका तत्रार्थे संज्ञायां कन्। हरिद्रायां राजनि०। दुर्गासखीभेदे च। तद्भेदाश्च काशी० ४७ अ० दर्शिता यथा। “यथा जया च विजया यथा चैव जयन्तिका। शुभानन्दा सुनन्दा च कौमुदी च यथोर्मिला। यथा चम्पकमाला च यथा मलयवासिनी। कर्पूरलतिका यद्वदसृग्धारा यथा शुभा। अशोका च विशोका च यथा कमलगन्धिनी। यथा च मन्दनिःश्वासा यथा मृगमदोत्तमा। यथा च कोकिलालापा यथा मयूर- भाषिणी। गन्धपद्मनिधिर्यद्वदनुक्तज्ञा यथा च सा। दृगञ्चलेङ्गितज्ञा च यथा कृतमनोरथा। पानचित्तहरा यद्वत्तथा स्त्वेषा सुलक्षणा”।

जयपत्र = न० जयसूचकं पत्रम्। राज्ञा दत्ते जयसूचके पत्ररूपे राजकीयलेख्यभेदे। राजलेख्य पत्रं च चतुर्विधं यथाह वशिष्ठः “राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा। राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत्। शासनं प्रथमं ज्ञेयं जयपत्रं तथाऽपरम्। आज्ञाप्रख्यापनापत्रं राजकीयं चतुर्विधम्”। जयपत्रलक्षणभेदादिकं वीरमि० दर्शितं तत्राह व्यासः

“व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः। जयपत्रन्ततो दद्यात् परिज्ञानाय पार्थिवः। जङ्गमं स्थावरं येन प्रमाणेनात्मसात्कृतम्। भागाभिशापसन्दिग्धे यः सम्यग्विजयी भवेत्। तस्मै राज्ञा प्रदातव्यं जयपत्रं सुनिश्चितम्। पूर्व्वोत्तरक्रियापादं तत्प्रमाणपरीक्षणम्। निगदस्मृतिवाक्यञ्च यथासभ्यं विनिश्चितम्। एतत्सर्वं समासेन जयपत्रेऽभिलेखयेदिति”। प्रमाणस्य पृथग्ग्रहणात् क्रियापादेन प्रत्याकलितमत्र गृह्यते। परिज्ञानाय प्राङ्ग्यायस्य बोधनाय। भागेऽभिशापे वा सन्दिग्धे। विवादपदमत्रोपलक्षणम्। तेन विवादविषयो यो यत्र विवादे स तत्र लेखनीयः। जयपत्रं राजमुद्राङ्कितं कार्य्यमित्याह वृद्धवशिष्ठः “यथोपन्यस्तसाध्यार्थं संयुक्तं सोत्तरक्रियम्। सावधारणकञ्चैव जयपत्रकमुच्यते। प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया”। अत्र च राज्ञः सभ्यानाञ्च स्वहस्तोऽप्यपेक्षितः इत्याह कात्यायनः “सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम्। लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः। सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः। यथा लेख्यविधौ तत्र स्वहस्तन्दद्युरेव ते”। क्वचित्पश्चात्काराख्योऽपि जयपत्रभेद उक्तस्तेनैव “अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः। निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना। पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते। अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते। वृत्तानुवादसंसिद्धन्तच्च स्याज्जयपत्रकमिति।”

जयपाल = पु० जयं पालयति पालि–अण् उप० स०। १ विधौ २ विष्णौ ३ भूपाले च शब्दच० (जमाल्गाटा) ४ स्वनामख्याते वृक्षभेदे। “जयपालः कटुः पाके उष्णश्चैव विरेचनः। कृमिश्लष्मामजठरामयहृत् दीपनोमतः” राजनि०।

जयपुत्रक = पु० पुत्र इव पुत्रकः जयसूचकः पुत्रकः। पाशकभेदे शब्दर०।

जयप्रिय = पु० विराटनृपभ्रातृभेदे। “गजानीकः श्रुतानीको वीरभद्रः सुदर्शनः। श्रुतध्वजो बलानीको जयानीको जयप्रियः विजयो लब्धलक्ष्यश्च जयाश्वो रथवाहनः। चन्द्रोदयः कामरूपो विराटभ्रातरः शुभाः” भा० द्रो० १५८ अ०। २ कुमारानुचरमातृभेदे स्त्री “ऋक्षाऽम्बिका निष्कुष्टिका वामा चत्वरवासिनी। सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया” भा० शल्य० ४७ अ०।

जयमङ्गल = पु० जयेन मङ्गलमस्मात्। १ राजबाह्ये हस्तिभेदे शब्दरत्ना० “चतुर्विंशतिवर्ण्णाङ्घ्रिः कथितो जयमङ्गलः। शृङ्गारवीरयीरेव ताले चा~चपुटे च सः” सङ्गीतदा० उक्ते २ ध्रुवकभेदे च।

जयमङ्गलरस = पु० जयेन रोगजयेन मङ्गलं यस्मात् तादृशो रसः। वैद्यकोक्ते सर्वज्वरनाशके औषधभेदे। “हिङ्गूलसम्भवं सूतं गन्धकं टङ्कणं तथा। ताम्रं वङ्गं माक्षिकञ्च सैन्धवं मरिचं तथा। समं सर्वं समाहृत्य द्विगुणं स्वर्णभस्मकम्। तदर्द्धं कान्तलौहञ्च रूप्यभस्मापि तत्समम्। एतत् सर्वं विचूर्ण्याथ भावयेत् कनकद्रवैः। शेफालीदलजैश्चापि दशमूलरसेन च। किराततिक्तकक्वाथैस्त्रिवारं भावयेत् सुधीः। भावयित्वा तु तत्कार्य्या गुञ्जाद्वयमिता वटी। अनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम्। जीर्ण ज्वरं महाघोरं चिरकालसमुद्भवम्। ज्वरमष्टविधं हन्ति साध्यासाध्यमथापि वा। पृथगदोषांश्च विविधान् समस्तान् विषमज्वरान्। १ मेदोगतं २ मांसगतमस्थि ३ मज्जा ४ गतं तथा। ५ अन्तगतं महाघोरं ६ वह्निस्थञ्च विशेषतः। ७नानादोषोद्भवञ्चैव ज्वरं ८ शुक्रगतं तथा। निखिलं ज्वरनामानं हन्ति श्रीशिवशासनात्। जयमङ्गलनामायं रसः श्रीशिवनिर्म्मितः। बलपुष्टिकरश्चैव सर्वरोगनिवर्हणः” भैषज्यरत्नाबली। अत्र द्विगुणं स्वर्णभस्मकमित्यत्र सर्वेषां समस्तानां यन्मानं ततो द्विगुणं स्वर्णमिति मुख्यः कल्पः। प्रत्येकापेक्षया द्विगुणमिति कनिष्ठः कल्पः।

जयरात = पु० कलिङ्गराजसुतभेदे। कलिङ्गसुतयुद्धोपक्रमे “जयरातरथम्प्राप्य मुहुः सिंह इवानदत्। जयरातमथाक्षिप्यानदत् सव्येन पाणिना” भा० द्रो० १५५ अ०।

जयवाराहतीर्थ = न० तीर्थभेदे शिवपु०।

जयवाहिनी = स्त्री जयस्य जयन्तस्य बाहिनी। १ शच्याम् २ इन्द्राण्याम् हेमच०। “चारुधारा महेन्द्राणी चेन्द्राणी जयवादिनीति” पाठान्तरम्। कम्म०। २ ज य युक्तसैन्य स्त्री शब्दार्थचि०।

जयशब्द = पु० जयसूचकः शब्दः शाक० त०। १ जयध्वनौ। “उद्घुष्टनैकजयशब्दविराविताशाम्” वृह० १० अ०।

जयसिंह = पु० जयपुराधीश्वरे जयसिंहकल्पद्रुमाख्यस्मृतिनिबन्धकारके नृपभेदे।

जयसेन = पु० जययुक्ता सेनाऽस्य। १ मागधे नृपभेदे “श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः” भा० स० ४ अ०। आयुनृपवंश्ये २ अहीनसुते नृपभेदे। “सहदेवस्ततोऽहीनो जयसेनस्तु तत्सुतः” भाग० ९। १७। १०।

जयस्तम्भ = पु० जयसूचकः स्तम्भः। देशान्तरजयानन्तरं स्वकीर्त्तिख्यापनाथ राज्ञा खाते जयसूचके स्तम्भे। “त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः” “निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः” रघुः।

जयस्वामिन् = पु० कात्यायनकल्पसूत्रव्याख्यातृभेदे। “तत्र शिरः कर्णौ चाप्रावृत्तौ तद्व्यतिरिक्तं सर्वं शरीरमाच्छादनीयमिति जयस्वामिनः” कात्या० श्रौ० १०। ६। २ सूत्रभाव्ये कर्कः।

जया = स्त्री जि–अच्। १ जयन्तीवृक्षे अमरः। रोगजयात् तस्यास्तथात्वम्। २ दुर्गासहचरीभेदे। जयन्तिकाशब्दे दृश्यम्। “नन्दा भद्रा जया रिक्ता पूर्णा च प्रतिपत्क्रमात्” ज्यो० उक्ते उभयपक्षीयतृतीयाष्टमीत्रयोदशीरूपे ३ तिथिभेदे ४ हरीतक्यां मेदि०। ५ विजयायां (भाङ्ग) ६ नीलदूर्वायाम्। ७ अग्निमन्थवृक्षे राजनि०। ८ पताका भेदे युक्तिकल्पतरुः। “जयः कल्याणवचन आकारो दातृवाचकः। जयं ददाति सा नित्यं सा जया परिकीर्त्तिता” ब्रह्मवै० उक्तनिरुक्तियुक्तायां ९ दुर्गायाम्। “जया त्वं विजया चैव संग्रामे च जयप्रदा। ममापि विजयं देहि वरदा त्वञ्च साम्प्रतम्” भा० वि० ६ अ० दुर्गास्तुतिः। सा च गौर्य्यादिषु षोडशसु मातृषु अन्यतमा। यथाह गृह्यपरिशिष्टम् “गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः। शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह। आदौ विनायकः पूज्यो ह्यन्ते च कुलदेवता”।

जयादित्य = पु० व्याकरणग्रन्थकारके विद्वद्भेदे।

जयानीक = पु० १ द्रुपदपुत्रभेदे जयशब्दे दृश्यम्। २ विराटभ्रातृभेदे जयप्रियशब्दे दृश्यम्।

जयावती = स्त्री जय–अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घः ङीप्। कुमारानुचरमातृभेदे। “जयावती मालतिका ध्रुवरत्ना भयङ्करी” भा० श० ४७ अ०। कुमारानुचरमातृगणोक्तौ।

जयावहा = स्त्री जयं रोगजयमाबहति आ + वह–अच्। भद्रदन्तीवृक्षे राजनि०।

जयाश्रया = स्त्री जयमाश्रयति आ + श्रि–अच्। जरडीतृणे राजनि०।

जयाश्वः = पु० विराटभ्रातरि जयप्रियशब्दे दृश्यम्।

जयाह्वा = स्त्री जयस्याह्वा आह्वा यस्याः। भद्रदन्तीवृक्षे राजनि०

जयिन् = त्रि० जि–शीलार्थे इनि। जयशीले। “उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः” काव्यप्र० “जगति जयिनस्तेते भावा नवेन्दुकलादयः” सा० द०। “पौरस्त्यानेवमाक्रामन् तांस्तान् जनपदान् जयी” रघुः स्त्रियां ङीप्।

जयिष्णु = त्रि० जि–बा० इष्णुच्। १ जयशीले। “आरुग्णाश्च यथा वीरा दुरावाराजयिष्णवः” भा० द्रो० ३३ अ०।

जयुस् = त्रि० जि–उसि। जयशीले। “वि जयुषा रथ्या यातमद्रिम्” ऋ० ६। ६२। ७ “वि जयुषा ययथुः सान्वद्रेः” १। ११७। १६ “जयषा जयशीलेन” मा०।

जय्य = त्रि० जेतुं शक्यः जि–यत् “क्रय्यजय्यौ” तदर्थे पा० नि०। जेतुं शक्ये अमरः। “सोऽयं मनुष्यलोकः पुत्रेणैव जय्योनान्येन कर्म्मणा” शत० ब्रा० १४। ४३। २४।

***