जज = युद्धे भ्वा० पर० अक० सेट्। जजति अजाजीत्–अजजीत् जजाज जेजतुः

जज = युद्धे भ्वा० प० अक सेट् इदित्। जञ्जति अजञ्जीत् जजञ्ज “पृथुजयी असूर्य्येव जञ्जती” ऋ० १। १६८। ७। कर्म्मणि जञ्ज्यते

जज्झ = शब्दकरणे भ्वा० अक० सेट् निरु०। जज्झति अजज्झीत्” “भरुतो जज्झतीरिव” ऋ० ५। ५२। ६। “जज्झतीः शब्दकारिण्यः “जज्झतीरापो भवन्ति शब्दकारिण्यः” निरु० ६। १६।

जज्ञि = त्रि० ज्ञा–जन–वा किन् द्वित्वञ्च। ज्ञातरि २ जाते च।

जञ्ज = त्रि० जजि–अच्। १ योद्धरि भावे घञ्। २ योधने। उञ्छादि० घञन्तत्वेन अन्तोदात्तता।

जञ्जन = त्रि० जन–घङ् लुक्–अच्। पृषो० पुनः १ पुनर्जन्मवति ततोऽभूततद्भावे च्वि भूवोऽनुप्रयोग पृषो० शत्वदी जञ्जणा भूतद्भाबे “जिह्वाभिरहनन्नमदर्चिसा जञ्जणाभवन्” ऋ० ८। ४३। ८। २ ज्वलति निरु०।

जञ्जपूक = त्रि० जप + यड्–ऊक। अतिशय जपशीले।

जञ्जभ्यमान = त्रि० जभ–यङ्–शानच्। गात्रविनामेन विदारितमुखे पूर्ब्बमीमांसा।

जट = संहतौ भ्वा० पर० अक० सेट्। जटति अजाटीतजटीत्। जजाट जटतुः जटा।

जटा = स्त्री जट–अच् जन–उणा० टन् अन्त्यलोपश्च। १ केश विकारे अन्योन्यसंलग्नकेशे २ व्रतिनः ३ शिखायां ४ शठायाम् अमरः। ५ मूले ६ शाखायां मेदि०। ७ कपिकच्छ्वम् राजनि०। ८ जटामांस्यां ९ रुद्रजटायां १० शतावर्य्यां रत्नमाला० ११ वेदपाठवेदे ऋग्वेदशब्दे १४११। १२ पृ० दृश्यम्

जटाचीर = पु० जटासहितं चीरं वसनमस्य। शिवे त्रिका०।

जटाजूट = पु० जटानां जूटोबन्धः। जटासमूहे। (झु~टि) “जटाजूट समायुक्तामर्द्धेन्दुकृतशेखराम्” दुर्गाध्यानम् “शम्भोर्जटाजूटतटादिवापः” माघः।

जटाज्वाल = पु० जटेव ज्वालाम्य। प्रदीपे हारा०।

जटाटङ्क = पु० जटा टङ्कैवास्य। शिवे महादेवे त्रिका०।

जटातीर = पु० जटामटति अट–ईरन्। महादेवे त्रिका०

जटाधर = पु० ६ त०। शिवे १ महादेवे शब्दर०। २ बुद्धभेदे त्रिका०। ३ दाक्षिणात्ये देशभेदे स च देशः “क्रौञ्चद्वीपजटाधर कावेर्य्योरिष्यमूकश्च” वृ० स० १४ अ० दक्षिणस्या मुक्तः ४ कोषकारभेदे च ५ जटाधारके त्रि०।

जटामांसी = स्त्री जटां मन्यते मन–स दीर्घश्च। स्वनामख्याते गन्धद्रव्यभेदे। “जटामांसी भूतजटा जटिला च तपस्विनी। मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा। स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत्” भावप्र०।

जटायु(स्) = पु० जटां याति या–कु जटा + ऊर्णा० युच् वा जट–संहतौ अच् जटं संहतमायुरस्य वा। १ स्वनामख्याते खगभेदे, २ गुग्गुलौ च मेदि० “द्वौ पुत्रौ विनतयास्तु गरुडोऽरुण एव च। तस्मात् जातोऽहमरुणात् संपातिश्च ममाग्रजः। जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम!। सोऽहं राम। सहायस्त भविष्यामि यदीच्छसि। सीतां च तात रक्षिष्ये त्वयि यात सलक्ष्मणे “जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत्। पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा संकथित पुनः पुनः” रामा० आर० १४ अ० “सखा दशरथस्यासीज्जटायुररुणात्मजः। गृध्रराजो महावीरः सम्पातिर्यस्य सीदरः। स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्। सक्रोधोऽभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम्। अथैनमव्रवीद्गृध्रो मुञ्च मुञ्चस्व मैथिलीम्। ध्रियमाणे मयि कथ हरिष्यसि विशाचर!। न हि मे मीक्ष्यसे जीबन् यदि नोत्सृजसे वधूम् उक्त्वैवं राक्षसेन्द्रं तं चकर्त्त नखरैर्भृशम्। पक्षतुण्ड प्रहारैश्च बहुशो जर्जरीकृतम्। चक्षार रुधिरं भूरि गिरिप्रस्रवणैरिव। स बध्यमानोगृध्रेण रामप्रिय हितेषिणा। खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः। निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम्। ऊर्द्धमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः” भा० व० २७८ अ० तत्कथा दृश्या।

जटाल = पु० जटा–अस्त्यर्थे सिध्मा० लच। १ वटवृक्षे २ कच्चुरे ३नुष्कके ४ गुग्गुलौ च राजनि० ५ जटायुक्ते त्रि० “चीरिणः शिखिनश्चास्य जटालोर्द्धशिरोरुहाः” हरिवं० १८३ अ०। ६ जटामांस्यां स्त्री राजनि०।

जटावत् = त्रि० जटा–अस्त्यर्थे मतुप् मस्य वः। १ जटायुक्ते स्त्रियां ङीप् सा च २ जटामांस्यां राजनि०।

जटावल्ली = स्त्री जटेव वल्ली। रुद्रजटायाम् राजनि०।

जटासुर = पु० जटायुक्तोऽसुरः। १ असुरभेदे। स च ब्राह्मणरूपञ्चद्मना वनगतयुधिष्ठिरावासे स्थित्वा भीमे वनान्तरंगते युधिष्ठिरादित्रय सहितां द्रौपदीं जहार ततोयदृच्छा प्राप्तेन भीमेन हतः। तत्कथा वनपर्वणि जटासुरबध पर्वणि दृश्या। २ तदधिष्ठाने देशभेदे स च देशः वृ० स० १४ अ० कूर्मविभागे ऐशान्यामुक्तः। “भल्लापलोलजटासुर कुनटखषघोषकुचिकाख्याः”।

जटासुरबध = पु० जटासुरस्य बधमधिकृत्य कृतो ग्रन्थः अण् आख्यायिकायां लुप् लपि व्यक्तिवचनत्वात् पुंस्त्वम्। भारततनपर्वात्तर्गतेऽवान्तरपर्वभेदे। “जटासुरबधः पर्व यक्षयुद्धमतः परम्” भा० आ० अ० वनपर्वणि अवान्तरपर्वोक्तौ।

जटि(टी) = पु० जट–इन्। १ वटवृक्षे, शब्दरत्ना० २ जटायां ३ समूहे उणादिको० ४ जटामांस्यां स्त्री वा ङीप् अमरः। ङीबत्तः ५ पर्कटीवृक्षे शब्दर०।

जटिन् = गु० जटा अस्त्यस्य इनि। १ प्लक्षे (पाकुड) अश्वत्यतुल्यपत्रयुक्ते वृक्षभेदे। २ जटावति त्रि०। “सुरापानापनुत्त्यर्थं चीरबासा जटी ध्वजी” मनुः।

जटिल = पुं स्त्री जटा–अस्त्यर्थे पिच्छा० इलच्। १ सिंहे शब्दच० स्त्रियां जातित्वात् ङीष्। २ जटायुक्ते त्रि०। “विवेश कश्चिज्जटिलस्तपोवनम्” कुमा० “मुण्डी वा जटिलो वा स्यात् अथ वा स्यात् शिखाजटः” मनुः। ३ ब्रह्मचारिणि च। “जटिलञ्चानधीयानं दुर्बलं कितवं तथा” मनुः। स्त्रियां टाप् ४ जटावत्यां स्त्रियां। ५ जटामांस्यां अमरः ६ पिप्पल्यां मेदि०। ७ वचायाम् ८ उच्चटायां रत्नमाला ९ दमनकवृक्षे राजनि०।

जटु(डु)ल = पु० जट–उलच् पृषो० टस्य डो वा। देहस्थे कृष्णचिह्नभेदे पिप्लौ (जडुल) अमरः।

जठर = पुंन० जायते जन्तुर्गर्भो वास्मिन् जन–अर–ठान्तादेशः। १ कुक्षौ। २ बद्धे, ३ कठिने च त्रि० मेदि०। ४ देशभेदे “अतऊर्द्धं जनपदान्” इत्युपक्रमे “जठराः कुकुराश्चैव सदर्शार्णाश्च भारत!” भा० भी० ९ अ०। “आस्तेऽस्याः जठरे वीर्य्यमविषह्यम् सुरद्विषाम्” भाग० ७। ७। ९। “वायुवेगसमौ वीरौ जठरौ तुरगोत्तमौ” रासा० अयो० १०७। १३। “यः कदाचित् सम्यक् पचति कदाचिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः” सुश्रु०। जठरयन्त्रणा जठरव्यथा जठरामयः।

जठरनुद् = पु० जठरं नुदति रेचनाय नुद–क्विप् ६ त० आरग्बधे (सा~दाल) शब्दच० तस्य सेवने हि उदरभङ्गातस्य तथात्वम्।

जठराग्नि = पु० जठरस्थितोऽग्निः। कौक्षेये अन्नादिपाचके वह्नौ “अन्नरसोजठराग्निना पच्यमानोरक्ततां प्रतिपद्यते” मिताक्षरा जठरानलादयोऽप्यत्र “जठराग्निर्हि वायुना संधुक्ष्यमाणोऽन्नं पचति तत्पकारो योगार्णवे उक्तो यथा “आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा। संप्रविश्यान्नमध्यं तु पृथक् किट्टं पृथक् मलम्। अग्नेरूर्द्धं जलं स्थाप्य तदन्नञ्च जलोपरि। जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः। वायुनाध्मायमानोऽग्निरत्युष्णं कुरुते जलम्। अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः। द्विधा भवति तत् पक्कं पृथक किट्टं पृथग् रसम्। रसेन तेन ता नाड्यः संपूर्य्यन्ते क्रनण च। प्रतर्पयन्ति सम्पूर्णास्ताश्च देहं समन्ततः”।

जठरामय = पु० ६ त०। उदररोगे राजनि० अतिसारशब्दे १०६ पृ० दृश्यम्। जठरगदादयोऽव्यत्र। “भवति धरणि जे चतुर्थगे ज्वरजठरगदासृगुडुव” वृ० स० १०४ अ०

जठल = न० जठरं सादृश्येनास्त्यस्य अर्श० अच् रस्य लः। जठरवदुदकाधारे “चतस्रो नाष्ठो जठलस्य जुष्टाः” ऋ० १। १८२। ६। जठलस्य जठरवदुदकाधारस्य” भा०।

जड = त्रि० जलति घनीभवति जल–अच् डस्य लः। इष्टं वानिष्टं वा न वेत्ति योमोहात्। परवशग भवेदिह नाम्ना जडसंज्ञकः पुरुषः” क्तलक्षणे १ मन्दबुद्धौ २ मूर्खे ३ वेदग्रहणासमर्थे “अनंगौ क्लीवपतितौ जात्यन्धबधिरौ तथा। उन्मत्तजदुमूकाश्च ये च केचिन्निरिन्द्रियाः” मनुः “वेदाग्रहणसमर्थो जडः” इति दायभागः ४ हिमग्रस्ते हिमेन मन्दक्रिये ५ मूके ६ अपज्ञे च मेदि०। ७ जले न० रायमुकुटः। ८ सीसके न० राजनि०। ९ चेतनभिन्ने अज्ञानादि समूहे वेदान्तः। तन्मते हि पदार्थोद्विधा जडोऽजडश्च तत्र जडीऽज्ञानतत्कार्य्यसंथः। अजडश्चेतनः इति भेदः। “अज्ञानाटिसकलजडसमूहोऽवस्तु” वेदान्तसा० “वेदामस्ते कि वा जननि! वयमुच्चैर्जडधियः” कालीस्तवः “नापृष्टः कस्यचिद् ब्रूयात् नचान्यायेन पृच्छतः। जानन्नपि हि मेधावी जडवत् लोक आचरेत्” मनुः। तस्य भावः ष्यञ जाड्य न० तल् जडता स्त्री त्व

जडत्व = न० इमनिच् जडिमन् पु० जडभावे।

जडक्रिय = त्रि० जडस्य हिमक्लिष्टस्येव क्रियास्य। चिरक्रिये। हलायुधः

जडता = स्त्री जड + भावे तल्। अपाटवे शीतलत्वे “उदञ्च द्रोमाञ्चं व्रजति जडतामङ्गमखिलम्” सा० द० “भुजलता जडतामबलाजनः” रघुः। “अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः। अनिमिषनयननिरीक्षणतुष्णीम्भावादयस्तत्र” सा० द० उक्ते व्यभिचारिगणभेदे। ष्यञ् जाड्य त्व जडत्व तत्रार्थे न०।

जडभरत = पु० जडोमूक इव भरतः। आङ्गिरसप्रवरसुते योगिभेदे सहि पूर्व्वतरजन्मनि भरतनामा नृपतिरासीत् स च वानप्रस्थाश्रमे हरिणशिशुपालनेन तत्स्नेहवशात् मृत्युकाले तमनुस्मरन् मृगत्वमाप्त्वा कर्म्मक्षयात् तद्देहं त्यक्त्वा पुनः आङ्गिरसपवरस्य पुत्रतामासाद्य स्नेहदोषेण पुनस्तिर्य्यग्योनिप्राप्तिशङ्कया ज्ञानवानपि जडत्वमिव व्यञ्जयन्नासीत्। तत्कथा च भाग० ५ स्क० स्थिता दिङमात्रमत्र प्रदर्श्यते। “अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्य्यगुणा नव सोदार्य्या अङ्गजा बभूवुः। मिथुनञ्च यवीयस्यां भार्य्यायाम्। यस्त तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरभरतमुत्सृष्टमृगशरीरम् चरमशरीरेण विप्रत्वंगतमाहुः। तत्रापि स्वजनसङ्गाच्च भगवतः कर्म्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मनः प्रतीवातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतखपूर्वजन्माबलिरात्मानमुन्मत्तजडान्धबधिर- स्वरूपेण दर्शयामास लोकस्य। तस्यापि ह वा आत्म जस्य स विप्रः पुत्रस्नेहानुबद्धमना आसमावर्त्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्म्मनियमाननभिप्रेतानपि समशिक्षयत्। अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति। स चापि तदुह पितृसन्निधावेवासध्रीचीनमिव स्म करोति। छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः सप्रणवशिरस्त्रिपदां सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास। एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणकर्म्माण्यनभियुक्तान्यपि स्वयमनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं ग्रह एव प्रमत्तौपसंहृतः। अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसस्थया पतिलोक मगात्। पितर्य्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्य्यवसितमतयोन परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्। स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्म्माणि च कार्य्यमाणः परेच्छया करोति। विष्टितो वेतनतोवा याच्ञया यदृच्छया वोपसादितमल्पं बहुमिष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम्। नित्यनिवृत्तनिमित्त स्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःखयीर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः। शीतोष्ण वातवर्षेषु वृषैवापावृताङ्गः पीनसंहननाङ्गः स्थण्डिलसंवेशनानुमर्द्दनामज्जनरजसा महामणिरिवानभिव्यक्तव्रह्मवर्च्चसः कुपटावृतकटिरुपवीतेनोरुमषिणाद्विजातिरिति ब्रह्मबन्धुरिति संज्ञयाऽतज्ज्ञजनावमतो विचचार। यदा तु परत आहारङ्कर्म्म वेतनतईहमानः स्वभ्रातृभिरपि केदारकर्म्मणि निरूपितस्तदपि करोति। किन्तु न समं विषमं न्यूनमधिकमिति वेद। कणपिण्याकफलीकरणकुलमाषस्थालीपुरीषादीनप्यमृतवदभ्यवहरति। अथ कदाचित् कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकामः। तस्य ह दैवविमुक्तस्य पशोः पदवीन्तदनुचराः परिधावन्तो निशि निशीथसमये तमसा पावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्ष माणमङ्गिरःप्रवरसुतमपश्यन्। अथ तएनमनवद्यलक्षणमवमृष्य भर्त्तृकर्म्मनिष्पत्तिं मन्यमानाबद्ध्वा रशमया चण्डिकागृहमुपनिन्युर्मुदा बिकसितवदनाः। अथ पणयस्तं स्वबिधिनाभिपिच्याहतेन वाससाच्छाद्यभूषणानुलेपस्रक्ताम्बूलादितिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः। अथ वृषलराजपतिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे। इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत् सिक्तमनसां भगवत्कलाधीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्म्मातिदारुणं यद् व्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्व्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालभनं तदुपलभ्य व्रह्मतेजसाऽतिदुर्विपहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली। भृशममर्षरोषावेशरभसविलसितभृकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामैवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृकणशीर्ष्णां गलात् स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त्त च विजहार च शिरःकन्दुकलीलया। एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति। न वा एतद्विष्णुदत्त! महदद्भुतं यदसंभ्रमः स्वशिरश्छेदे आपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवताऽनिमिषाऽरिवरायुधेनाप्रमत्तेन तैस्तैर्भावैरभिरक्ष्यमाणानां तत्पदमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम्”। ९ अ० “अथ सिन्धुसौवीरपतेरहूगणस्य व्रजतैक्षुमत्यास्तटे तत्कुलपतिना शिविकावाहपुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवरौपलब्धः। एष पीवानसंहननाङ्गोगोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्हौवाह शिविकां स महानुभावः! यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण उपधार्य्य पुरुषानधिवहत आह। हे वाढारः माध्वतिक्रामत किमिति विषममुह्यते यानमिति?। अथ त ईश्वर- वचः सौपालम्भमुपाकर्ण्य उपायात्तुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः। न वयं नरदेव! प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः। अयमधुनैव नि युक्तोऽपि न द्रुतं व्रजति नानेन सह वोढु मुह वयं पारयामैति। सांसर्गिकोदोष एव नूनमेकस्यापि सर्वेषां संसर्गिणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसावृतमतिराह अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक ऊहिवान् सुचिरं नातिपीवानसंहननाङ्गो रजसा चोपद्रुतो भवान् सखे! नो वा परएते संघट्टिन इति बहुविप्रलब्धोऽप्यविद्यया विहितद्रव्यगुणकर्म्माशये स्वचरमकलेवरेऽवस्तुनि संस्थानविशेषे अहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णी शिविकां पूर्ववदुवाह। अथ पुनः स्वशिविकायां विषममतायां प्रकुपित उवाच रहूगणः। किमिदमरे त्वं जीवन्मृतोमां कदर्थीकृत्य भर्तृशासनमतिचरसि। प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनतायाः यथा प्रकृतिं स्वां भजिष्यसीति। एवं बह्वबद्धमभिभाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृता शेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्य्यायां मातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह। श्रीब्राह्मण उवाच। त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर! भावः। गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवादः। स्थौल्यं कार्श्य व्याधयश्चाधयश्च क्षुत्तुड्भयं कन्तिरिच्छा जरा च। निद्रारतिर्मन्युरहं मदः शुचो देहेन जातस्य हि मे न सन्ति। जीवन्मृतत्वं नियमेन राजन्नाद्यन्तवद् यद्विकृतस्य दृष्टम्। खस्वाम्यभाबो ध्रुवईड्य! यत्र तर्ह्युच्यतेऽसौविधिकृत्ययोगः। विशेषबुद्धेर्बिवरं मनाक् च पश्यामि यन्न व्यवहारतोऽन्यत्। क ईश्वरस्तत्र किमीशितव्य मथापि राजन्! करवाम किन्ते। उन्मत्तमत्तजडवत् स्वसंस्थां गतस्य मे वीर! चिकित्सितेन। अर्थः कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः। श्रीशुक उवाच। एतावदनुवादपरिभाषया प्रत्युदीर्य्य स मुनिवर उपशमशील उपरतानात्मानिमित्त उपभोगेन कर्म्मारब्धं त्यपस्यन् राजयानमपि तथैवोवाह। स चापि पाण्डवेय! सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्श्रद्वयाधिकृताधिकारस्तद्धृदयग्रन्थिविमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयाऽवरुह्य शिरसा तत्पादमूलमुपसृतः क्षमापयन् विगतनृपदेव स्मय उवाच। कस्त्वं निगूढश्चरसि द्विजानां बिभर्षिसूत्रं कतमोऽवधूतः। कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत शुक्लः। नाहं विशङ्के सुरराजवज्रा न्न त्र्यक्षशूलान्न यमस्य दण्डात्। नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात्। तद् ब्रूह्यसङ्गो जडवन्निगूढविज्ञानवीर्य्योविचरस्यपारः। वचांसि योग ग्रथितानि साधो! न नः क्षमन्ते मनसापि भेत्तुम्। अहञ्च योगेश्वरमात्मतत्त्वविदां मुनीनां प्रवरं गुरुवै! प्रष्टुं प्रवृत्तः किमिहारणं यत्साक्षाद्धरिं ज्ञानकलावतीर्णम्। स वै भवान् लोकनिरीक्षणार्थमव्यक्तलिङ्गोविचरत्यपि स्वित्। योगेश्वराणां गतिमन्दबुद्धिः कथं विवचक्षीत गृहानुबद्धः” १० अ०। ततः तेन रहूगणनृपाय योगमुक्त्वा प्रारब्धावमाने मुक्तो बभूवेति कथा तदुत्तराध्यायादौ स्थिता।

जडा = स्त्री जडं करोति जड + णिच्–अच्–टाप्। १ शूक शिम्ब्याम् अमरः २ भूम्यामलक्याम् रत्नमा०।

जडिमन् = पु० जडस्य भावः दृढा इमनिच। जाड्ये। “जनित जडिम व्याकुलं व्याहरन्तो” “इष्टानिष्टापरिज्ञानं यत्र प्रश्नेष्वनुत्तरम्। दर्शनश्रवणाभावो जडिमा सोऽभिधीयते” इत्युज्ज्वलभण्युक्ते अवस्थाभेदे।

जतविल = त्रि० जतुना निर्वृत्तादि काशा० इल। जतुद्रव्य निर्वृत्तादौ १ कल्कद्रव्ये २ वह्नेरुद्दीपने द्रव्यभेदे।

जतु = न० जन–ड तोऽन्तादेशः। १ अलक्ते, २ लाक्षायाञ्च। स्वार्थे क। तत्रार्थे मेदि०। “शणं तैलं घृतञ्चैव जतुदारूनि चैव हि” भा० आ० १४४ अ०। “अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत्” भा० शा० ३०० अ०। ३ चर्म्मचटिकायां स्त्री “सन्धिभ्यो जतूः” यजु० २४। २५। “जतूः पत्राख्याः पक्षिणीः” मेदि०। तस्य विकारः “त्रपुजतुनोः सुक् च” पा० अण् सुक् च। जातुष तद्विकारे (कड चुडि) प्रभृतौ आभरणे।

जतुक = न० जतु इव कायति कै–क। १ हिङ्गौ मेदि०। २ जनीनाम गन्धद्रव्ये स्त्री भरतः। ३ चर्म्मचटिकायां स्त्री (चामचिका) शब्दरत्ना०। ४ पर्पट्यां मालवदेशप्रसिद्धलतायां स्त्रीभावप्र० “पर्पटी रञ्जना कृष्णा जतुका जननी जनी। जतुकृष्णाग्निसंस्पर्शा जतूका चक्रवर्त्तिनी। पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः। विषव्रणहरी कण्डूकफपित्तास्र कुष्ठनुत्” भावप्र० तद्गुणोक्तिः।

जतुकारी = स्त्री जतुकवत् संश्लेषमृच्छति ऋ + अण् उप० स० गौरा० ङीष्। जतुकालतायां राजनि०।

जतुकृत् = स्त्री जतुवत्संश्लेषं करीति कृ–क्विप् ६ त०। जतुकालतायाम् अमरः।

जतुकृष्णा = स्त्री जत्विव कृष्णा। जतुकालतायाम् भावप्र०।

जतुनी = स्त्री० जतु संश्लेषेण तद्रूपं नयति स्वसंश्लिष्टद्रव्यम् नी–क्विप् ६ त०। चर्म्मचटिकायां त्रिका० तस्य संश्लेषात् द्रव्यस्य जतुवद्रूपापत्तिर्लोकसिद्धा।

जतुपुत्रक = पु० जतुनिर्म्मितः पुत्र इवा (पुत्तली)। पाशकगुटीयां तस्य जतुनिर्म्मितत्वेन तथात्वम्। काष्ठादि रचितस्य तु उपचारात् तन्नामता।

जतुमणि = पु० “सममुत्सन्नमरुजं मण्डलं कफरक्तजम्। सहजं लक्ष्म चैकेषां लक्ष्योजतुमणिश्च सः” इति माधवकरोक्ते रोगभेदे।

जतुमुख = पु० जतुनेव संश्लिष्टं मुखमस्य शा० त०। व्रीहिभेदे “कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखनाराचकत्वरितककुक्कुटान्तकपारावतकपाटलप्रभृतयो व्रीहयः” सुश्रु०।

जतुरसः = पु० ६ त०। अलक्तके राजनि०।

जतू = स्त्री जतुः चर्म्मचटिका प्राणिजातित्वेऽपि वेदे नि० ऊड्। पक्षिभेदस्त्रियाम् “ऋक्षो जतूः मुषीलका ते त्रय इतरजनानाम्” यजु० २४। ३६। जतूः मुषीलका एतौ पक्षिविशेषौ” वेददी०।

जतूकर्ण्ण = पु० ऋपिभेदे। तस्य गोत्रापत्यम् गर्गा० यञ्। जातूकर्ण्य तद्गोत्रापत्ये तस्य छात्त्रः कण्वा० अण् यलोपश्च। जातूकर्ण तच्छात्रे। जातूकर्ण्यश्च उपस्मृतिकर्त्ता यथाह हेमा० दा० अङ्गिराः “जावालिर्नाचिकेतश्च स्कन्दोलौगाक्षिकश्यपौ। व्यासः सनत्कुमारश्च शतद्रुर्जनकस्तथा। व्याघ्रः कात्यायनश्चैव जातूकर्ण्यः कपिञ्जलः। बौधायनः कणादश्च विश्वामित्रस्तथैव च। उपस्मृतिकृतएतान् प्रवदन्ति मनीषिणः”। जातुकर्ण्य इत्यत्र जातूकर्ण इति पाठः लिपिकरपमादात् तच्छात्त्रस्य उपस्मृति कर्त्तृत्वमभिप्रेत्य वा तथा पाठ इत्यन्ये।

जतूका = स्त्री जन–उलूका० नि०। १ चर्म्मचटिकायां अमरः। २ जनीनामगन्धद्रव्ये शब्दर०।

जत्रु = न० जन–रु तोऽन्तादेशः। स्कन्धवक्ष सन्धौ “ग्रीवा पञ्च- दशास्थि स्यात् जत्र्वेकैकं तथा हनु” याज्ञ० वक्षोऽंसयोः सन्धिः जत्रुः” मिता० “ऊर्द्धजत्रुगतान् करोति च विशेषतः” सुश्रु० “जत्रुदेशे भृगं वीरो व्यवासीदद्रथे तदा” भा० व० १७ अ०। स्वार्थे–क तत्रार्थे शब्दरत्ना०।

जत्वश्मक = न० जतुरूपमश्मकम्। शिलाजतुनि राजनि०।

जन = जनने जुहो० पर० अक० सेट् घटा०। जजन्ति। अजनीत् अजानीत् घटा०। जनयति जनितः वि–अति परस्परजनने आत्म०। व्यतिजजन्ते। सार्वधातुकसधोरिट् व्यतिजज्ञिपे व्यतिजज्ञिध्वे

जन = जनने दि० आ० अक० सेट् जायते अजनि अजनिष्ट। जजान जज्ञतुः ईदित्। जातः। घटा०। जनयति। उभयोरपि उपसर्गात् परयोस्तत्तदुपसर्गद्योत्यार्थयुक्तजनने तत्र।अति–अतिक्रम्य जनने सक०।अधि + आधिक्येन जनने। आधिपत्येन जनने च “तेजस एव तदध्यापोजायन्ते। “व्राह्मणोजायमानोऽपि पृथिव्यामधिजायते” मनुः।अनु + पश्चाज्जनने अक०। “पुत्रिकायां कृतायां च यदि पुत्रोऽनुजायते” मनुः। पश्चादुत्पत्त्या सादृश्य करणे सक०। “असौ कुमारस्तमतोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः” रघु०।सम् + अनु + सम्यगनुजनमे सक० “पितॄन् समनुजायन्ते नरा मातरमङ्गनाः” रामा० अयो० ३५। २६।अभि + अभिलक्ष्यीकृत्य जनने सक० “भवन्ति सम्पदं दैवीमभिजातस्य भारत!”। “अज्ञानञ्चाभिजातस्य पार्थ! सम्पद मासुरीम्” गीता। सम्यग्जनने आभिमुख्येन जनने अक० “शुचीनां श्रीमतां गेहे योगभ्रष्टोऽसि जायते” “कामात् क्रोधोऽभिजायते” गीता।प्रति + प्रतिरूपजनने अक०। “प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे प्रश्नो०।वि + विशेषेण जनने विरुद्धजनने विकारे च “पतिना रहिता तस्मात् पुत्रं देवी व्यजायत” रामा० आदि० ७० अ०। गर्भमोचने सक० “यूनां मत्ता प्रथमं विजज्ञतुः” ऋ० ९। ६८। ५। “पशुस्तिष्ठन् गर्भं धृत्वानुप विश्य विजायते” शत० ब्रा० ७। ४। १। १। “काममाविजनितीः सम्भवेम” तै० स० ३। ५। १। ५ “तस्मात् व्यजायत” रामा० बा० १। ७०। “यक्षी पुत्रं व्यजायत” बा २७। ८।

जन = पु० जन–अच्। १ लोके “जनस्तुषाराञ्जनपर्वताविव” मावः २ महर्लोकादूर्द्धलोके ३ असुरभेदे च जनार्द्दनः। तल्लोकप्राप्तिहेतुकथनं भूमेरुच्चतोक्तिश्च “इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये!। क्षणार्द्धेन विमानं तज्जनलोक निनाय तान्। निवसन्त्यमलायत्र मानसाः ब्रह्मणः सुताः। सनन्दनाद्या योगीन्द्रा सर्वे तेह्यूर्द्धरेतसः। अन्ये तु योगिनोये वै ह्यस्खलद्ब्रह्मचारिणः। सर्व्वद्वन्द्वविनिर्मुक्तास्ते वसन्त्यत्र निर्मलाः। महर्लोकः क्षितेरूर्द्धमेककोटिप्रमाणतः। कोटिद्वये तु संख्यातो जनो मूलोकतोजनैः” काशी० ख०।

जनक = पु० जन–णिच्–ण्वुल्। १ पितरि अमरः “शुध्येत्तुजनकस्त्रिभिः” शु० त०। २ उत्पादके त्रि० “जन्यानां जनकः कालो जगतामाश्रयोमत्र भाषा० “३ उपस्मृतिकारके ३ऋषिभेदे जतूकर्णशब्दे दृश्यम् निमिवंशजाते ४ विदेहनृपभेदे। इक्ष्वाकुवंश्यनिमिवसिष्ठयोरन्योन्यशापात् विदेहताप्राप्तौ वसिष्ठस्य देहप्राप्तिमुक्त्वा रामा० उत्त० ५६ अ०। निमेर्जनकोत्पत्तिकथोक्ता यथा “दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते। तञ्च ते याजयामासुर्यज्ञदीक्षां मनीषिणः। तञ्च देहं नरेन्द्रस्य रक्षन्तिस्म द्विजोत्तमाः। गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः। ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत्। आनयिष्यामिते चेतस्तुष्टोऽस्मि तव पार्थिव!। सुप्रीताश्च सुखः सर्वे निमेश्चेतस्तदाऽब्रुवन्। वरं वरय राजर्पे क्व ते चेतोनिरूप्यताम्। एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाऽव्रवीत्। नेत्रेषु सर्वभतानां वसेयं सुरसत्तमाः!। वाढमिन्येव विबुधानिमेश्चेतस्तदाब्रुवन्। नेत्रेषु सर्वभूतानां वायुभतश्चरिष्यसि। त्वत्कृते निमिषिष्यन्ति चक्षूंषि पृथिवीपते!। वायुभूतेन चरता विश्रामार्थं मुहुर्मुहुः। एवमुक्त्वा तु विबुधाः सर्वे जग्सुर्यथागतम्। ऋषयोऽपि महात्मानो निमेर्देहं समाहरन्। अरणिन्तत्र निक्षिप्य मथनञ्चक्रुरोजसा। मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा। अरण्यां मथ्यमानायां प्रादुर्भूतो महातपाः। मथनान्मिथिरित्यादुर्जननाज्जनकोऽभवत्। यस्माद्विदेहात्संम्भूतोवैदेहस्तु ततः स्मृतः। एवं विदेहराजश्च जनकः पूर्वकाऽभवत्। मिथिर्नाम महातेजा स्तेनायं मैथिलोऽभवत्। इति सर्वमशेषतो मया कथितं संभवकारणन्तु सौम्य। नृपपुङ्गवः शापजं द्विजस्य द्विजशापाच्च यदद्भुतं नृपस्य”। ५ शम्बरासुरपुत्रभेदे। “सेनस्कन्धोऽतिसेनश्च शनको जन- कस्ततः” हरिव० १६३ अ०। “तद्धैतज्जनको वैदेहो याज्ञवल्क्यं प्रपच्छ” शत० व्रा० ११। ३। १। २। “सहस्नमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति” १४। ५। १। १।

जनकतनया = स्त्री जनकस्य तनयेव तत्पाल्यत्वात्। रामकलत्रे जनकयज्ञे वेद्यां हलाकर्षणजातायां सीतायां सा हि सत्ययुगे वृहस्पतिसुतकुशध्वजकन्या वेदवती नामासीत् त्रेतायां सीताजातत्वात् सीतानामा बभूव रामा० उत्त० १७ अ० तत्कथा यथा।

“कुशध्वजो नाम पिता ब्रह्मर्षिरमितप्रभः। वृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो वृहस्पतेः। तस्याहं कुर्वती नित्यं वेदाभ्यासं महात्मनः। सम्भूता वाङ्मयी कन्या नाम्ना वेदवती स्मृता। ततो देवाः स गन्धर्वायक्षराक्षसपन्नगाः। ते चापि गत्वा पितरं वरणं रोचयन्ति मे। न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर!। कारणं तद्वदिष्यामि निशामय महाभुज!। पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः। अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता। दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः। शम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत्। तेन रात्रौ शयानो मे पिता पापेन हिंसितः। ततो मे जननी दीना तच्छरीरं पितुर्मम। परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम्। ततो मनोरथं सत्यं पितुर्नारायणं प्रति। करोमीति तमेवाहं हृदयेन समुद्वहे। इति प्रतिज्ञामारुह्य चरामि विपुलं तपः। एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव!। नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात्। आश्रये नियमं घोरं नारायणपरीपसया। विज्ञातस्त्वं हि मे राजन्! गच्छ पौलस्त्यनन्दन!। जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते।” ततस्तां कामयमानेन रावणेन सा धर्षिता तस्मै शापं दत्त्वा ममार तत्कथा “एवमुक्तस्तया तत्र वेदवत्या निशाचरः। मूर्धजेषु तदा कन्यां कराग्रेण परामृशत्। ततो वेदवती क्रुद्धा केशान् हस्तेन साऽच्छिनत्। असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदाऽकरोत्। सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम्। उवाचाग्निं समाधाय मरणाय कृतत्वरा। धर्षितायास्त्वयाऽनार्य! न मे जीवितमिष्यते। रक्षस्तस्मात् प्रवेक्ष्यामि पश्यतस्ते हुताशनम्। यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने। तस्मात्तव बधार्थं हि समुत्पत्स्याम्यहं पुनः। न हि शक्यः स्त्रिया हन्तुं पुरुषः पापनिश्चय!। शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत्। यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा। तस्मात् त्वयोनिजा साध्वी भवेयं धर्मिणः सुता। एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम्। पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः। सैषा जनकराजस्य प्रसूता तनया प्रभो!। तव भार्या महाबाहो! विष्णुस्त्वं हि सनातनः। पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्तथा। उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम्। एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः। क्षेत्रे हलमुखोत्कृष्टवेद्यामग्निशिखोपमा। एषा वेदवती नाम पूर्वमासीत् कृते युगे। त्रेतायुगमनुप्राप्य बधार्थं तस्य रक्षसः। उत्पन्ना मैथिलकुले जनकस्य महात्मनः”। कालिकापु० ३७ अ० तस्याः पृथिव्या उत्पत्तिरुक्ता। कल्पभेदादविरोधः। जनकात्मजाजनकतनयादयोऽप्यत्र।

जनकराजकूप = पु० तीर्थभेदे।

जनकसप्तरात्र = पु० सप्तभिः रात्रिभिःसाध्यः अण् तस्य लुक् अच् समा० जनकेन दृष्टः सप्तरात्रः। जनकदृष्टे सप्तरात्रसाध्ये यागभेदे। “जनकसप्तरात्रमृद्धिकामः अभिप्लव चतुरही विश्वजिन्महाव्रतं ज्योतिष्टोमः” आश्व० श्रौ० १०। ३। १४। “जनकसप्तरात्रस्याहःक्ल प्तिरुच्यते। अभिप्लव चतुरहो विश्वजिन्महाव्रतं ज्योतिष्टोम इति” नारा० “जनक सप्तरात्रः चतुर्म्यो विश्वजिन्महाव्रतम्”। कात्या० श्रौ० २३। ५। ९ “चतुर्भ्यः पार्ष्टिकेभ्यः परो विश्वजिन्महाव्रतं च”।

जनकारिन = पु० जनैः कीय्य ते कॄ–बा० कर्म्मणि णिनि। अलक्तके राजनि०।

जनकेश्वर = पु० जनकेन स्थापितः ईश्वरः। जनकस्थापिते शिवलिङ्गरूपे तीर्थभेदे शिवपु०।

जनङ्कम = पुंस्त्री जनेभ्योगच्छति वहिः गम–खच् मुम् च। चण्डाले स्त्रियां जातित्वात् ङीष्। “अवधीत्। जनङ्गम इवैष यदि हतवृषो वृषन्ननु। स्पर्शमशुचिवपुरर्हति प्रतिमाननान्तु नितरां नृपोचिताम्” माघः।

जनचक्षुस् = न० जनस्य चक्षुरिव। लोकचक्षुर्वत्प्रकाशके सूर्य्ये “मुहूर्त्ताभ्युदिते सूर्य्ये जनचक्षुषि निर्म्मले” हरिवं १४३। लोकश्चक्षुःप्रभृतयोऽप्यत्र। “लोकचक्षुर्दिवाकरः” आदित्यहृयम्।

जनजन्मादि = पु० जनस्य जनिमतो जन्मन आदिः। पर मेश्वरे। “जननो जनजन्मादिः” विष्णुस०।

जनत् = पु० जन–भावे अति। जनने जनद्वच्छब्दे दृश्यम्।

जनता = स्त्री जनानां समूहः तल्। जनसमूहे अमरः। “आगामिनीं गृहिरे जनतास्तरूणाम्”। “विहिताञ्जलिर्जनतया दधती” माथः।

जनत्रा = स्त्री जनान् त्रायते त्रै–क। जङ्गमकुट्याम्” हारा०।

जनदेव = पु० जनोदेव इव उपमितस०। नरदेवे नरश्रेष्ठे राजनि “जनको जनदेवस्तु मिथिलायां जनाधिपः” भा० शा० २१८ अ०।

जनद्वत् = पु० जनत् जननमस्त्यस्य मतुप् मस्य वः। जनन गुणयोगिनि वह्नौ “अग्नये तपस्वते जनद्वते पावकवते स्वाहा” ऐत० व्रा० ७। ८।

जनधा = पु० जनं दधाति धा–क्विप्। जनपोषके वह्नौ स हि जनानां जठरस्थित्यान्नादेः पाचनेन रसवीर्य्यसम्पादनद्वारा पोषकः इति तस्य तथात्वम्” तैत्ति० व्रा० ४१। १। १। १। १। उदा०।

जनन = न० जन–भावे ल्युट्। १ उद्भवे २ जन्मनि (स्वादृष्टो पनिबद्धशरीरग्रहणे) ३ आविर्भावे च “यदैव पूर्वं जनने शरीरम्” कुमार०। दीक्षितस्य यज्ञादिषु ४ दीक्षादिसंस्कारभेदे दीक्षितस्य दीक्षारूपजन्मवत्त्वात् तथात्वम् “पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ये दीक्षयन्तीत्यादि” श्रुतेः। “मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने। तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनादिति” मनुः। आधारे ल्युट्। ५ वंशे। जन–णिच्–भावे ल्युट्। ६ उतपादने। “अन्योऽन्यशोभाजननाद् वभूव” कुमार०। कर्त्तरि ल्यु। ७ उत्पादके त्रि० “सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः” ऋ० २। ४। १। ८ परमेश्वरे पु० “जननो जनजन्मादिः” विष्णुस०।

जननाशौच = न० जनननिभित्तमशौचम्। प्रसवनिमित्ताशौचे अशौचशब्दे ४८६ पृ० दृश्यम्।

जननि = स्त्री–जन अनि। जनीनामगन्धद्रव्ये शब्दरत्ना०।

जननी = स्त्री जनयति जन–णिच्–अनि जन–अपादाने अनि वा, ङीप्। १ मातरि “जनन्यां संस्थितायान्तु समं सर्वे सहोदराः। भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः” मनुः। २ दयायां भेदि० ३ जनीनामगन्धद्रव्ये ४ चर्मचटिकायां शब्दर० ५ बूथिकायां शब्दच० ६ कटुकायां ७ मञ्जिष्ठायाम् ८ अलक्तके च राजनि०। ९ उत्पादकस्त्रीमात्रे “वदा मस्ते किं वा जननि! बयमुच्चैर्जडधियः” कालीस्तवः “वीजप्ररोहजननीं ज्वलनः करोति” रघुः। “मासेन स्त्रीजननी” विष्णुसू०। १० जटामांस्यां राजनि०।

जनपद = पु० जनाः पद्यन्ते गच्छन्ति यत्र पद–आधारे घ। देशे। अमरः। “कुलानि जातीः श्रेणीश्च गणान् जनपदानपि” याज्ञव०। जनपदभेदाश्च भा० भी० ९ अ० दर्शिता यथा “अतऊर्द्धं जनपदान्निबोध गदतो मम। तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः। शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च। मत्स्याः कुशट्टाः कौशल्याः कुन्तयः काशिकोशलाः। चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः। उत्तमार्णा दशार्णाश्च मेकलाश्चोत्कलैः सह। पाञ्चालाः कोशलाश्चैव नैकपृष्ठा युगन्धराः। बोधा मद्राः कलिङ्गाश्च काशयोऽपरकाशयः। जठराः कुकुराश्चैव सदशार्णाश्च भारत”। कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः। गोमन्ता मल्लकाः पाण्ड्याः विदर्भानूपवाहिकाः। अश्वकाः पांशुराष्ट्राश्च गोपराष्ट्राः करीतयः। अधिराज्यं कुशट्टाश्च मल्लराष्ट्रञ्च केरलाः। वारवाश्यापवाहाश्च वक्रा वक्रातयः शकाः। विदेहा मगधाः कक्ष्या मलया विजयास्तथा। अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च। मल्लाः सुदेष्णाः प्रह्रादा माहिषाः शशकास्तथा। वाह्लीका वाटधानाश्च आभीराः कालतोयकाः। अपरान्ताः परान्ताश्च पक्वणाश्चर्म्मचण्डकाः। अटवीशिखराश्चैव मेरुभूताश्च मारिष!। उपावृत्तानुपावृत्ताश्च सुराष्टाः केकयास्तथा। कुट्टाः परान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः। अन्ध्राश्च बहवो राजन्नन्तगिर्य्यास्तथैव च। बहिर्गिर्य्याङ्गमलदा मागधा मालवाझटाः। मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप!। पुण्ड्रा भागाः किराताश्च सुदेष्णा यामुनास्तथा। शका निषादनिषधास्तथैवानर्त्तनैरृताः। दुर्गलाः पूतिमत्स्याश्च कुन्तलाः कुशलास्तथा। तीरग्रहाः शूरसेना ईजिकाः कन्यकागणाः। तिलभारा मसीराश्च मधुमत्ताः सुकन्दुकाः। काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा। अभीसारा उलूताश्च शैवाला वाह्लिकास्तथा। दर्व्वीचरा नवादर्ब्बा वातजामरथोरगाः। बहुवट्टाण कौरव्य! सदामानः सुमल्लिकाः। उद्ध्रा करीषका- श्चापि कुलिन्दोपत्यकास्तथा। वानायवो दशाः पार्श्वा रोमाणः कुशविन्दवः। कच्छा गोपालकच्छाश्च जाङ्ग लाः कुरुवर्णकाः। किराता वर्व्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः। ओड्रा म्लेच्छाः ससैरिन्ध्राः पार्व्वतीयाश्च मारिष!। अथापरे जनपदा दक्षिणा भरतर्षभ!। द्रविडाः केरलाः प्राच्या मूषिका वनवासिकाः। कर्णाटका माहिषका विकल्पा मूषकास्तथा। झिल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः। कोकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः। समङ्गाः कनकाश्चैव कुकुराङ्गारमारिषाः। ध्वजिन्युत्सवसंकेतास्त्रिगर्त्ताः शाल्वसेनयः। व्यूढकाः कोरकाः प्रोष्ठा समवेगवशास्तथा। तथैव विन्ध्यपुलिकाः पुलिन्दा वल्कलैः सह। मालवा वल्लवाश्चैव तथैवापरवर्त्तकाः। कुलिन्दाः कालदाश्चैव दण्डकाः करटास्तथा। मूषकास्तनबालाश्च मनीमा घटसृञ्जयाः। अलिदायाः शिवाटाश्च स्तनपाः सुनयास्तथा। ऋषिका विदर्भाः काकास्तङ्गनाः परतङ्गनाः। उत्तराश्चापरे म्लेच्छा जना भरतसत्तम!। यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः। सकृद्वहाः कुलत्थाश्च हूणाः पारसिकैः सह। तथैव रम णाश्चीनास्तथा च दशमालिकाः। क्षत्रियोपनिवेशश्च वैश्यशूद्रकुलानि च। शूद्राभीराश्च दरदाः कश्मीराः पशुभिः सह। खाशीकाश्चान्तचाराश्च पह्नवा गिरिगह्वराः। आत्रेयाः सभरद्वाजास्तथैव स्तनपोषकाः। द्रोषकाश्च कलिङ्गाश्च किरातानाञ्च जातयः। तोमरा हन्यमानाश्च तथैव करभञ्जकाः। एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च”। वृ० स० १४ अ० कूर्मविभागे तु तेषां मध्ये केषाञ्चित् दिग्भेदेन स्थितिर्दर्शिता ते च कूर्म्मविभागशब्दे पृ० उक्ता देशानां सीमादि तत्तच्छब्दे उक्तं वक्ष्यमाणञ्च केचिद्भेदास्तु पु० मध्यादिदेशभेदेन उक्ता यथा “तैमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः। शूरसेना मुद्रकारा बोधकाः सपटच्चराः। मत्स्याः किराताः कुल्याश्च कुन्तयः कुन्तिकोशलाः। आवन्ताश्च कुलिङ्गाश्च कोलाश्चैवान्ध्रकैः सह। मध्वदेश्या जनपदाः प्रायशः परिकीर्त्तिताः। वाह्लिका वाटधानाश्च आभीराः कालतोयकाः। परन्ध्राश्चैव शूद्राश्च पह्नवाश्रात्मखण्डिकाः। गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः। शका द्रुह्याः पुलिन्दाश्च पारदा हारमूर्त्तिकाः। रामठाः कण्ठकाराश्च केकयादेशमानिकाः। क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च। आत्रेयोऽथ भरद्वाजः व्रस्थलाः सदशेरकाः। लम्बकास्तनपानाश्च सैनिकाः सह साङ्गजैः। एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत। अङ्गावङ्गामद्गुरका अन्तर्गिरिबहिर्गिराः। ततः प्रवङ्गा मातङ्गा मलया मलवर्त्तकाः। सूक्ष्मोत्तराः प्रविजया भार्गवाङ्गेयमालवाः। प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः। शाल्वमागधगोनर्द्दाः प्राच्या जनपदाः स्मृताः। तथाऽपरे जनपदा दक्षिणापथवासिनः। पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च। सेतुकामुख्यकाश्चैव कुपथाचारवासिकाः। नवराष्ट्राः माहिषकाः कलिङ्गाश्चैव सर्वशः। कावेराश्च सहैषीकैराटव्याः शवरास्तथा। पुलिङ्गाविन्ध्यमूषीका वैदर्भा दण्डकैः सह। कुलीयाश्च शिरालाश्च रूपसास्तामसैःसह। तथा तैत्ति रकाश्चैव सर्वे कारस्करास्तथा। नासिकाद्याश्च ये चान्ये ये चैवान्तरनर्मदाः। भानुकच्छाः समाहेयाः सह सारस्वतैस्तथा। काच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चार्बुदैः सह। इत्येते अपरान्ताश्च शृणु ये विन्ध्यवासिनः। मालवाश्च कुरूषाश्च मेकलाश्चोत्कलैःसह। उत्तमाशाः दशार्णाश्च भोजाः किस्किन्धिकैः सह। तोषलाःकोशलाश्चैव त्रैपुरा वैदिकास्तथा। तुसुरास्तूम्बुराश्चैव पटुमान्निषधैः सह। अनूपास्तुण्डिकेराप पीतिहोत्रा अवन्तयः। एते जनपदाः ख्याता विन्ध्यपृष्ठनिबासिनः। अतो देशान् प्रवक्ष्यामि पवताश्रायणश्च ये। निर्दारा हंसवर्णाश्च कुपथा अपथाः खथाः। कुथप्रावरणाश्चैव उर्णादर्भाः समुद्रकाः। त्रिगर्त्ता मण्डलाश्चैव किराताश्चामरैः सह”। शक्तिसङ्गमतन्त्रे देशभेदसीभाद्युक्त यथा “देशव्यबस्था देवेशि! कथ्यते शृणु तत्परा। वैदानाथं समारभ्य भुवनेशान्तगं शिवे!। तावदङ्गाभिधो देशो यात्रायां नहि दुष्यति। रत्नाकरं समारभ्य ब्रह्मपुत्रान्तगं शिवे!। वङ्गदेशो मया प्रोक्तः सर्वसिद्धिप्रदर्शकः। जगन्नाथात् पूर्वभागात् कृष्णातीरान्तगं शिवे!। कलिङ्गदेशः संप्रोक्तोवाममार्गपरायणः। कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे!। दक्षिणस्यां महेशानि! कालिङ्गः परिकीर्त्तितः। सुब्राह्मण्यं समारभ्य यावद्देवो जनार्द्दनः। तावत् केरलदेशः स्यात् तन्मध्ये सिद्धकेरलः। रार्थश्वरात् व्यङ्कटेशात् हंसकेरलनामकः। अनन्तशैलभार भावत्मादिव्यपं परे। तावत् सर्वेशनामा तु केरलः परिकीर्त्तितः। शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम्। तावत्काश्मीर देशः स्यात् पञ्चाशद्योजनान्तकः। कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्वतम्। कामरूपाभिधो देशो गणेश गिरिमूर्द्धनि। त्रिपञ्चकं समारभ्य मध्ये चोज्जयिनी शिवे। मार्ज्जारतीर्थं राजेन्द्र! कोलापुरनिवासिनी। तावद्देशो महाराष्ट्रः कर्णाटस्वामिगोचरः। जगन्नाथादूर्द्धभागादर्वाक् श्रीभ्रमरान्तिकात्। तावदन्ध्राभिधो देशः सौराष्ट्रं शृणु सादरम्। कोङ्कणात् पश्चिमं तीर्थं समुद्रप्रान्तगोचरम्। हिङ्गलाटान्तको देवि! दशयोजनदेशतः। सौराष्ट्रदेशो देवेशि! तस्मात्तु गुर्ज्जराभिधः। श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः। तैलङ्गदेशो देवेशि! ध्यानाध्ययनतत्परः। सुराम्बिकां समारभ्य मलयाद्र्यन्तगं शिवे!। मलयालाभिधोदेशो मन्त्रसिद्धि प्रवर्त्तकः। रामनाथं समारभ्य श्रीरङ्गान्तं किलेश्वरि!। कर्णाटदेशो देवेशि! साम्राज्यभोगदायकः। ताम्रपर्णीं समारम्य शैलार्द्धशिखरोर्द्धतः। अवन्तीसंज्ञको देशः कालिका तत्र तिष्ठति। भद्रकाली महापूर्वे रामदुर्गाच्च पश्चिमे। श्रीविदर्भाभिधो देशो वैदर्भी तत्र तिष्ठति। गुर्ज्जरात् पूर्वभागे तु द्वारकातो हि दक्षिणे। मरुदेशो महेशानि! उष्ट्रोत्पत्तिपरायणः। श्रीकोङ्कणादधोभागे तापीतः पश्चिमे परे। आभीरदेशो देवेशि! विन्ध्यशैले व्यवस्थितः। अवन्तीतः पूर्वभागे गोदावर्य्यास्तथो त्तरे। मालवाख्यो महादेशो! धनधान्यपरायणः। द्रविडतैलङ्गमध्ये चोलदेशः प्रकीर्त्तितः। लम्बकर्णाश्च ते प्रोक्तास्तद्भेदोवान्तरे भवेत्। कुरुक्षेत्रात् पश्चिमे तु तथा चोत्तरभागतः। इन्द्रप्रस्थान्महेशानि! दशयोजनकद्वये। पाञ्चालदेशो देवेशि! सौन्दर्य्यगर्वभूषितः। पाञ्चालदेशमारभ्य म्लेच्छाद्दक्षिणपूर्वतः। काम्बोजदेशी देवेशि! वाजिराजिपरायणः। वैदर्भदेशादूर्द्धञ्च इन्द्रप्रस्थाच्च दक्षिणे। मरुदेशात् पूर्वभागे वैराटः परिकीर्त्तितः। काम्बोजाद्दक्षभागे तु इन्द्रप्रस्थाचु पश्चिमे। पाण्ड्यदेशो महेशानि! महाशूरत्व कारकः। गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे!। विदेहभूः समख्याता तैरभुक्ताभिधः स तु काम्बोज देशमारभ्य महाम्लेच्छात्तु पूर्व्वके। वाह्लीकदेशोदेवेशि! अश्वोत्पपत्तिपरायणः। तप्तकुण्डं समारभ्य रामक्षेत्रान्तकं शिवे!। किरातदेशोदेवेशि! विन्ध्यशैलेऽव- तिष्ठति। करतोयां समारभ्य हिङ्गलाटान्तगः शिवे। मुलतानदेशोदेवेशि! महाम्लेच्छपरायणः। हिङ्गुपीठं समारभ्य मक्केशान्तं महेश्वरि!। खुरसानाभिधोदेशो म्लेच्छमार्गपरायणः। तन्मध्ये चोत्तरे देवि! ऐराकः परिकीर्त्तितः। काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे। भोटान्तदेशो देवशि! मानसेशाच्च दक्षिणे। मानसेशाद्दक्षपूर्वे चीनदेशः प्रकीर्त्तितः। कैलानीरं समारभ्य सरयूं परितः परे। आमरगान् महेशानि! महाचीनाभिधो भवेत्। जटेश्वरं समारभ्य योगिन्यन्तं महेश्वरि। नेपालदेशोदेवेशि! शिलहट्टं शृणु प्रिये। गणेश्वरं समारभ्य महोदध्यन्तगं शिवे!। शिलहट्टाभिधो देशः पर्वतेतिष्ठति प्रिये!। वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे। गौडदेशः समाख्यातः सर्वविद्याविशारदः। गोकर्णेशात् पूर्व्वभागे आर्य्यावर्त्तात्तु चोत्तरे। तैरभुक्तात् पश्चिमे तु महापुर्य्याश्च सर्व्वतः। महाकोशलदेशश्च सूर्य्यवंश परायणः। व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे!। मगधाख्यो महादेशो यात्रायां न हि दुष्यति। दक्षोत्तर क्रमेणैव क्रमात् कीकटमागधौ। चरणाद्रिं समारभ्य गृध्रकूटान्तकः शिवे!। तावत् कीकटदेशः स्यात्तदन्तर्मागधो भवेत्। जगन्नाथप्रान्तदेशश्चोत्कलः परिकीर्त्तितः। कामगिरिं समारभ्य द्वारकान्तं महेश्वरि!। स्त्रीकुन्तलाभिधो देशोहूणं शृणु महेश्वरि!। कामगिरेर्द्दक्षभागे मरुदेशात्तथोत्तरे। हूणदेशः समाख्यातः शूरास्तत्र रमन्ति च। अथाप्यङ्गं समारभ्य कोटिदेशस्य मध्यगे। समुद्रप्रान्तदेशो हि कोङ्कणः परिकीर्त्तितः। ब्रह्मपुत्रात् कामरूपात् मध्यभागे तु कैकयः। मागधाद्दक्ष भागे तु विन्ध्यात् पश्चिमतः शिवे!। शौरसेनाभिधोदेशः सूर्य्यवंशप्रकाशकः। हस्तिनापुरमारभ्य कुरुक्षेत्रा च्च दक्षिणे। पाञ्चालपूर्व्वभागे तु कुरुदेशः प्रकौर्त्तितः। कुरुदेशात् पूर्वभागे कामाद्रेर्दक्षिणे शिवे!। सिंहलाख्यो महादेशः सर्वदेशोत्तमोत्तमः। शिलहट्टात् पूर्व्वभागे कामरूपात्तथोत्तरे। पुलिन्ददेशोदेवेशि! नरनारायणः परः। गणेश्वरात् पूर्व्वभागे समुद्रादुत्तरे शिवे!। कच्छ देशः समाख्यातः सुदेवं शृणु सादरम्। पुलिन्दादुत्तरेभागे कच्छाच्च पश्चिमे शिवे!। मत्स्यदेशः समाख्यातो मत्स्यबाहुल्यकारकः। वैराटपाण्ड्ययोर्मध्ये पूर्वदक्षक्रमेण तु। मद्रदेशः समाख्यातो माद्रीह तत्र तिष्ठति। शूरसेनात् पूर्ब्बभागे गण्डक्याः पश्चिमे! शिवे!। सौवीरदेशो देवेशि! सर्व्वदेशाधमाधमः। अवन्तीतः पश्चिमे तु वैदर्भाद्दक्षिणोत्तरे। लाटदेशः समाख्यातो वर्वरं शृणृ पार्वति!। मायापुरं समारभ्य सप्तशृङ्गात्तथोत्तरे। वर्वराख्यो महादेशः सैन्धवं शृणु सादरम्। लङ्काप्रदेशमारभ्य मक्वान्तं परमेश्वरि!। सैन्धवाख्यो महादेशः पर्वते तिष्ठति प्रिये!। एते षट् पञ्चाशद्देशा मया प्रोक्ता महेश्वरि!। एतन्मध्येऽपि देवेशि! देशभेदा ह्यनेकशः। कोटिशः सन्ति देवेशि! एते मुख्याः प्रकीर्त्तिताः। रहस्यातिरहस्यञ्च गोप्तव्यं पशुसङ्कटे। इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि”। तत्र भवः उत्सा० अञ्। जनप्रदादागत अण् तस्येदम् अण्वा। जानपद तत्र भवे तत आगते तत्सम्बन्धिनि च। “नीवारपाकादिकडङ्गरीयैरामृष्यते जानपदैर्नकच्चित्। “देयं चौरहृतं द्रव्यं राज्ञाजानपदाय तु” याज्ञ० स्त्रियां तु वृत्तौ जानपदेत्यादि पा० ङीष्। वृत्तावेव ङीषो नियमात् अन्यत्र जानपदा अञन्तस्य ङीपि जानपदी तत्रभवस्त्रियां पित्त्वात् आद्युदात्तता। “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्याथे आत्मार्थे पृथिवीं त्यजेत्” नीतिसारः।

जनपदिन् = त्रि० जनपदाः सन्त्यस्य स्वत्वेन इति। जनपदस्वामिनि। “जनपदिनां जनपदेन समानशब्दानाम्” पा० “जनपदिनां जनपदस्वामिनाम्” सि० कौ०। स्त्रियां ङीप्।

जनप्रवाद = पु० जनेषु प्रवादः ७ त०। जनापवादे वचनीय तायां हेमच०।

जनप्रिय = पु० ६ त०। १ शोभाङ्कनवृक्षे २ धन्याके च राजनि०। ३ लोकप्रियमात्रे त्रि०।

जनभक्ष = पु० जनानां भक्षः भज–बा० कर्म्मणि स। २ यजमानानां कामदानेन भजनीये। “सत्रासाही जनभक्षो जनं सहः” ऋ० २। २। १। ३। २ जनानां भक्षणे च।

जनमेजय = पु० जनमेजयति एज–णिच्–खश्। १ परीक्षितो नृपतेः पुत्रे २ कुरुनामभूपपुत्रभेदे च। “ततः संवरणात्सौरी तपती सुषुवे कुरुम्। राजन्नेतं प्रजाः सर्व्वा धर्म्मज्ञ इति वव्रिरे। तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्खलम्। कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः। अविक्षितमभिष्यन्तं तथा चैत्ररथं मुनिम्। जनमेजय ञ्च विख्यातं पुत्रांश्चास्यानुशुश्रमः। पञ्चैतान् वाहिनी पुत्रान् व्यजायत मनस्विनी। जनमेजयस्य तनया भुवि ख्याता महाबलाः” भा० आ० ९४ अ०। ३ पुरुनृपपुत्रे च “पुरोः पुत्रो महावीर्य्यो राजासीज्जनमेजयः” हरिव० ३१ अ०। तत्र परीक्षितःपुत्रो जनमेजयः सर्पसत्त्रे भारत श्रुतवान् तत्कथा भा० आ० ५० अ०। “मन्त्रिणाञ्च वचः श्रुत्वा स राजा जनमेजयः। पर्म्यतप्यत दुःखार्त्तः प्रत्यपिंषत् करं करे। निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः। मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः। दुर्धरं वास्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि। मुहूर्त्तमिव च ध्यात्वा निश्चित्य मनसा नृपः। अमर्षी मन्त्रिणः सर्व्वानिदं वचनमब्रवीत्। जनमेजय उवाच। श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति। निश्चितेयं मम मतिर्या च तां मे निबोधत। अनन्तरञ्च मम्येऽहं तक्षकाय दुरात्मने। प्रतिकर्त्तव्यमि त्येवं येन मे हिंसितः पिता। ऋषेर्हि शृङ्गिणोवाक्यं कृत्वा दग्ध्वा च पार्थिवम्। इयं दुरात्मता तस्य काश्यपं यो न्यवर्त्तयत्। यद्यागच्छेत् स वै विप्रो ननु जीवेत् पिता मम। परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः! काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च। स तु वारितवान्मोहात् काश्यपं द्विजसत्तमम्। सञ्जिवीवयिषु प्राप्तं राजानमपराजितम्। महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। द्विजस्य योऽददद्द्रव्यं मा नृपं जीक येदिति। उतङ्कस्य प्रियं कर्त्तुमात्मनश्च महत् प्रियम्। भवताञ्चैव सर्वेषां गच्छाम्यपचितिं पितुः”। “सौतिरुवाच। एवमुक्त्वा ततः श्रीमान्मन्त्रिमिश्चानुमोदितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः। ब्रह्मन्! भरतशार्दूलो राजा पारीक्षितस्तदा। पुरोहितमथाहूय ऋत्विजो वसुधाधिपः। अब्रवीद्वाक्यसम्पन्नः कार्य्यसम्पत्करं वचः। यो मे हिंसितवांस्तातं तक्षकः स दुरात्मबान्। प्रतिकुर्य्यां तथा तस्य तद्भवन्तो ब्रुवन्तु मे। अपि तत्कर्म्म विदितं भवतां येन पन्नगम्। तक्षकं सं प्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्। यथा तेन पिता सह्यं पूर्वं दग्धो विषाग्निना। तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम्। ऋत्विज ऊचुः। अस्ति राजन्महत् सत्रं त्वदर्थं देवनिर्मितम्। सर्पसत्रमिति ख्यातं पुराणे परिपठ्यते। आहर्त्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप!। इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः। सौतिरुवाच। एवमुक्तः स राजर्षिर्म्मेनेदग्धं हि तक्षकम्। हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम!। ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणास्तदा- आहरिष्यामि तत् सत्रं सम्भाराः सम्भ्रियन्तु मे” ५९ अ०। “श्रुत्वा ते सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यागच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा”। इत्युपक्रमे “इदं प्रश्चाद्द्विजयेष्ठं पर्य्यपृच्छप् कृ तञ्जलिः। जनमेजय उवाच। कुरूणां पाण्डपानाञ्च भवान् प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज!। कथं समभवद्भेदस्तेषामक्लिष्टकर्म्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्। पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतन्ममाचक्ष्व यथावृत्तं द्विजोत्तम!। सौतिरुवाव। तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशम्पायनमन्तिके। व्यास उवाच। कुरूणा पाण्डवानाञ्च यथा भेदीऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि। गुरोर्वचनमाज्ञाय स तु बिप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम्। राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः। भेदं सर्वविनाशञ्च कुरुपाण्डवयोस्तदा”। ६० अ०

“वैशम्पायन उवाच। गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। संपूज्य च द्विजान् सर्वांस्तथाऽन्यान् विदुषो जनान्। महर्षेर्विश्रुतस्येह सर्वलोकेषु घीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः। श्रोतुं पात्रञ्च राज्रंस्त्वं प्राप्येमां मारतीं कथाम्। गुरोर्वक्त्रपरिष्यन्दो मनः प्रोत्साहतीव मे। शृणु राजन्! यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च”। ६१ अ०। “स कदाचिम्मृगयां गतः पारीक्षितो जनमेजयः कस्मिंश्चित् स्वविषये आश्रममपश्यत्” भा० आ० ३ अ०। “परीक्षितस्तु दायादो धार्मिकोजनमेजयः। जनमेजयस्य दायदास्त्रय एव महारथाः। श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः”। “द्वावृक्षौ तव वंशेऽस्मिन् द्वावेय च परीक्षितौ। मीमसेनास्त्रयो राजन् द्वौ चापि जनमेजयौ”। “ऋक्षस्य च द्वितीयस्य भीमसेनोऽभवत् सुतः।” “अभिमन्योः परीक्षित्तु पिता तव जनेश्वर!” मा० आ० ३२ अ०। ४ पुरञ्जयनृपपुत्रे “जनमेजयो महाराज! पुरञ्जयसुतीऽभवत्। जनमेजयस्य राजर्षेर्महाशालोऽभवत्सुतः” हरिव० ३१ अ०।

जनयति = स्त्री जन–णिच्–वा० भावे अति वेदे नि० णि० लोपामावः। उत्पादने “जनयत्यै त्वा संयौमि” अक्षु०। १। २२।

जनयितृ = पु० जन–णिच्–तृच्। १ पितरि २ उत्पादके त्रि० ३मातरि स्त्री ङीप्।

जनरव = पु० ६ त०। लोकापवादे। “परीवादस्तथ्यो भवति वितथोवाऽपि महतां तथाप्युञ्चैर्धाम्नी हरति महिमानं जनरवः” उद्भटः।

जनराज = पु० जनेषु राजते राज–क्विप् ७ त०। जनाधप “जनराडसि रक्षोहा” यजु० ५। २४। जनराजादयोऽप्यत्र।

जनवल्लभ = पु० ६ त०। १ श्वेतरोहितवृक्षे राजनि० २ लोकप्रिये त्रि०।

जनवाद = पु० ७ त०। लोकापवादे। “द्यूतं च जनवादञ्च परीवादं तथानृतम्” मनुः। तत्र साघु कथा० ठक्। जानवादिक जनप्रवादसाधौ त्रि०। अलुक्स०। जने वादोऽप्यत्र ततः साध्वर्थे कथादि० ठक्। जानेबादिक तत्साधौ त्रि०।

जनश्रुत = त्रि० जने श्रुतः विख्यातः। १ लोकविख्याते २ राजभेदे पु० तस्यापत्यम् इञ्। जानश्रुति तदपत्ये पौत्रायणे “जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी आस” छा० उ०।

जनश्रुति = स्त्री जनेभ्यः श्रूयते श्रु–क्तिन्। सत्यासत्यसाधारणलोकप्रसिद्धायां किंवदन्त्याम् अमर०।

जनस् = स्त्री हि० व०। जनयतः जन–णिच्–असुन्। सर्वभूतजनयित्र्योःद्यावापृथिव्योः। “पायुं जमसी उभे अनु” ऋ० २। २। ४। २ २ जनलोके न० “जनस्तपःसत्यनिवासिनो जनाः भाग० ३। १३। २५।

जनस्थान = न० १ दण्डकारण्ये जटाधरः। २ तत्रत्यस्थानभेदे तच्च स्थानं पूर्वम् इक्ष्वाकुराजपुत्रदण्डस्य राजधानी आसीत् दण्डेन च शुक्राचार्य्यकम्या बलात्कारेणाक्राम्याघर्षिता तेन कुपितेन वसिष्ठेन शप्तोदण्डस्तत्कथा रामा०। उत्त० यथा “सप्तरात्रेण राजासौ सभृत्यबलवाहनः। पापकर्म्मसमाचारो बधं प्राप्स्यति वुर्मतिः। सर्वसत्वानि यानीह जङ्गमानि स्थिराणि च। सर्वेषां पांशुवर्षेण क्षयः क्षिप्रं भबिष्यति। दण्डस्य विषयो यावत् तावत् स वनमाश्रमम्। पांशुभूत मिवाकस्मात् सप्तरात्रात् भविष्यति। इत्युक्त्वा क्रोधसस्तप्तस्तदाश्रमनिवासिनम्। जनं जनपदस्यान्ते स्थीयतामित्यवोचत। सप्ताहात् भस्मसाद्भूतः स चापि ब्रह्मतेजसा। तस्य दण्डस्य विषयोविन्ध्यशैलस्य सानुषु। तपस्विनः स्थिता यत्र तज्जनस्थानमुच्यते” “प्राप्य चाशु जनस्थानं स्वरादिभ्यस्तथाविधम्” “अमी जनस्थानमपोद विघ्नम्” रघुः। “जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः। भा० श० ४० अ० “खरेणासीन् महद्वैरं जनस्थाननिवासिना” भा० आ० २७६ अ०। ३ जनानां स्थाने च “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया” सा० द०।

जना = स्त्री जन–वा० अङ्। उत्पत्तौ।

जनातिग = त्रि जनमतीत्य गच्छति अति + गम–ड। लोकातीते।

जनाधिनाथ = पु० ६ त०। लोकाधिपे राजनि०। “जनाधिनाथो न ययौ वितृष्णमाम्” माघः जनाधिपादयोऽप्यत्र

जनान्त = पु० ६ त०। १ जनसमीपे २ जनमर्य्यादायाञ्च। (जेला) ख्याते ३ सीमाभेदान्विते देशभेदे धनञ्जयः।

जनान्तिक = न० “त्रिपताककरेणान्यानपवार्य्यान्तरा कथा। अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्तिकम्” सा० द० उक्ते १ अप्रकाशकथने नाटकेऽस्य भूरिप्रयोगः। ६ त०। २ जनसमीपे च।

जनार्द्दन = पु० जनैरर्द्द्यते याच्यते पुरुषार्थलाभाय अर्द्दयाचने कर्म्मणि ल्युट्। जनं जननमर्द्दति हिनस्ति ताडयति जनान् समुद्रवासिनोऽसुरभेदान् अर्द्दयति वा कर्त्तरि ल्यु। “१ विष्णौ परमेश्वरे “सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्द्दनः” विष्णु स० २ जनपीडके त्रि०। “जनावनायोद्यमिनं जनार्द्दनम् क्षये जगज्जीनपिवं वदन् शिवम्” मैष० गयातीर्थस्थे ३ विष्णुमूर्त्तिभेदे तद्धस्ते जीवत्पुरुषेण स्वपिण्डस्य दानविधिः वायु पु० गयामाहात्म्ये यथा “जनार्द्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः। आत्मनोऽप्यथ वान्येषां सव्येनापि तिलैर्विना। जीवता दधिसंमिश्रं सर्वे ते विष्णुलोकगाः। यस्तु पिण्डो मया दत्त स्तव हस्ते जनार्द्दन!। मामुद्दिश्य त्वया देव! तस्मिन्पिण्डे मृते प्रभो!। एष पिण्डो मया दत्तस्तव हस्ते जनार्द्दन! अन्तकाले गते महा त्वया देयो गयाशिरे। जनार्द्दन! नमस्तुभ्यं ममस्ते पितृमोक्षद!। पितृमात्रे ममस्तुभ्यं नमस्ते पितृरूपिणे। गयायां पितृरूपेण स्वयमेव जनार्द्दनः। त्वां दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात्”। ४ शालग्रामभेदे शालग्रामशब्दे दृश्यम्। तन्नाम्ना भोजनकालै हरेः स्मरणीयता “भोजने च जनार्द्दनम्” इत्युक्तेः “आसत्तिमासाद्य जनार्द्दनस्य” माघः

जनाशनै = पु० जनानश्नाति अश–भोजने ल्यु। १ वृके राजनि०। २लोकभोजिनि त्रि०। भावे ल्युट् ६ त०। ३ लोकभक्षणे न०।

जनाश्रय = पु० जनानां लोकानामाश्रयः। मण्डपे अमरः।

जनासाह् = पु० जनान् सहते सह–ण्वि पूर्वदीर्घः। लोकसहिष्णौ “क्षत्रं जनाषाडिन्द्र! तव्यम्” ऋ० १। ५४। ११। “सहेः साडः” पा० अत्र षत्वम्।

जनि(नी) = स्त्री जनं–भावे इन् वा ङीप्। १ उत्पत्तौ “जनिः कर्त्तुः प्रकृतिः” पा० २ अभूतप्रादुर्भावे। जायते स्वयं गर्भो वाऽस्याम्, आधारे इ। २ नार्य्याम्। ३ मातरि ४ स्नुषायां च अमरः ५ जायायाम्। जायते आरोग्यमनया। ६ ओषधिभेदे ७ जतुकायाञ्च शब्दरत्ना०। ८ जनीनामगन्धद्रव्ये रायमुकुटः। “उदीर्य्य धुर्य्यं कपटाज्जनीं जनः” नैष०।

जनिका = स्त्री जनि(नी) + स्वार्थे क। १ जनिशब्दार्थे। जनयति जन–णिच्–ण्वुल् कापि अत इत्त्वम्। २ उत्पादिकायां स्त्रियां स्त्री।

जनित = त्रि० जन–णिच्–क्त। उत्पादिते “सेनाचरीभवदि भाननदानवारिवासेन यस्य जनिता सुरभीरणश्रीः” नैष०। “ज्ञातिजनजनितनामपदाम्” माघः।

जनितृ = पु० जन–अन्तर्भूतण्यर्थे तृच्। १ पितरि शब्दरत्ना०। २ मातरि स्त्री ङीप् शब्दच०।

जनित्व = पु० जन–णिच्–इत्वन्। १ पितरि २ मातरि स्त्री उज्जल०। जन–भविष्यति इत्वन्। ३ जनिष्यमाणे “अदितिर्जातमदितिर्जनित्वम्” यजु० २५। २३। “जनित्वं जनिष्यमाणम्” वेददी०।

जनित्वन = न० जन–भावे वा० इत्वन। जनमे। “जनित्रनाय मीमहे” ऋ० ८। २। ४२। “जनित्वनाय जननाय” भा०।

जनिनीलिका = स्त्री जन्या नीलिका। १ महानीलीवृक्षे राजरि

जनिमत् = त्रि० जनिर्जन्मास्त्यस्य मतुप्। जन्मयुक्ते स्त्रियां ङीप् वेदे मस्य वः। जायायुक्ते “अम्यदस्त्यमेनांश्चिज्जनिवतश्चकर्थ” ऋ० ५। ३१। २ जनिवतोजायावतः” भा०।

जनिमन् = पु० जन–मावे मनिन्। जन्मनि उज्व०।

जनिष्य = त्रि० जन–बा० भविष्यति–स्य। जनिष्यमाणे “कुतएव जनिष्यांस्तु मृषावादपरायणः” मा० शा० १९९ अ०। “जातो वापि जनिष्यो वा” रामा० आर० ६६। १४।

जनेष्ट = पु० ६ त०। १ मुद्गरवृक्षे राजनि० २ जतुकायां ३ वृद्धिनामौषधौ ४ हरिद्रायां ५ जातीपुष्पवृक्षे स्त्री राजनि० ६ जनाभिमते त्रि०।

जनोदाहरण = स० जनैरुदाह्रियते उद् + आ + हृ–कर्म्मणि ल्युट्। यशसि धनञ्जयः।

जनौ = त्रि० जनानवति अव–क्विप् ऊठि वृद्धिः। जनरक्षके।

***