छि = स्त्री छो–वा० कि। गहायाम एकाक्षरकोषः।

छिक्कनी = स्त्री छिक् इत्यव्यक्तं नासिकाशब्द कनात शब्दा यते कन–अच् गौरा० ङीष्। (नाक्छिकनी, वृक्षमः “चिक्कनी कटुका रुच्या तीक्ष्णोष्णा पह्निपित्तकृत्। वात रक्तहरी कुष्ठकृमिवातकफापहा” भावप्र० तद्गुणीक्तिः।

छिक्कर = पु० छिक् इत्यव्यक्तं शब्दं करोति कृ–ट। वृ० स० ८६ अ० उक्ते छिक्कारे मृगभेदे “कुक्कुटेभपिरील्यश्च शिखिकञ्जनछिक्वराः” “स्त्रीसंज्ञा भाषभषककपिश्रीकर्णछिक्कराः” “छिक्करः कटपूरी च पिरीली चाह्नि दक्षिणाः”।

छिक्का = स्त्री छिक् इत्यव्यक्तं शब्दं करोति कृ–ड। क्षुते। शन्दरत्ना०।

छिक्कार = पु० छिगित्यव्यक्तं शब्दं करोति कृ–अण्। मृगभेदे। “छिक्कारो मृगजातिः कृकवाकः कुक्कुटः प्रोक्तः” वृ० स० ८६ अ०।

छिक्किका = स्त्री छिक्का क्षुतं साध्यत्वेनास्त्यस्याः बा० ठन्। छिक्कन्यां (नाकछिकनी) भावप्र०। छात तत्रार्थे।

छित = त्रि० छा–क्त वा इत्। छिन्ने अमरः इडभावपक्षे

छित्ति = स्त्री छिद–क्तिन्। १ छेदने कर्त्तरि क्तिच्। २ करञ्जवृक्षे शब्दर०।

छित्त्वर = त्रि० छिद–ष्वरप् पृ० दस्य तः। १ वैरिणि, २ धूर्त्ते ३ छेदके च उणादिको। षित्त्वात् स्त्रियां ङीष्।

छिद = द्वैधीकरणे रुधा० उभ० सक० अनिट्। छिनत्ति छिन्ते इरित्। अच्छिदत्, अच्छेत्सीत् अच्छित्त। “न छिन्द्यान्नखलोमानि” “न च्छिन्द्यात् करजैर्नखम्” मनुः “अच्छिन्दन्नुत्तमाङ्गानि” भा० व० १२। ६३ अ०। भिदादित्वात् अङ् छिदा। “कर्म्मस्थः पचतेर्भावः कर्म्मस्थाश्च भिदादयः” इत्युक्तेः ततः कर्म्मकर्त्तरि प्रत्ययः छिद्यते कटःस्वयमेव। छिदुरः स्वयंछिन्नः।अप + अपकृष्य छेदने “एतस्यै वा एषापच्छिद्यैषैव पुनर्भवत्यपि” शत० व्रा० ५। ३। ४। ९।अव + विभागमेदे। स च दैशिकः कालिकश्च अवच्छेदशब्दे ४२० पृ० दृश्यम्। वि + अव + व्यावर्त्तने निरासने व्यवच्छेदः।आ + आकृष्य हरणे। (काडियालओया) अपहरणे “आछिन्द्युरितरासु च” नारदः। “मिषतामाच्छिन्नत्ति नः” कुमा०। सम्यक्छेदे च। “आच्छेत्स्याम्यहमेतस्य धनुर्ज्यामपि चाहवे” भा० व० १९६ श्लो०।उद् + समूलनाशने। “किं वा रिपूंस्तव गुरु स्वयमुच्छिनत्ति” रधुः “उच्छेत्तु प्रभवति यन्न सप्तसप्तिः” शकु०।परि + इयत्तया विभागे परिच्छेदः। “यशःपरिच्छेत्तुमियत्तयालम्” रघु०। “परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना” कुमा०।वि + विभागे भेदे च “विच्छिद्य तौ शरैर्वारौ” हरिवं० ८५३० श्लो०। “यदर्द्धेविच्छिन्नं भवति कृतसन्धानमिव तत्” शकु०।

छिद् = त्रि० छिद–क्विप्। छेदनकर्त्तरि। “रामस्य हृदयच्छिदः” रामा० सु० ३७। १०

छिदक = न० छिद–क्वुन्। वज्रे उणादिको०।

छिदा = स्त्री छिद–भावे भिदा० अङ। छेदने।

छिदि = स्त्री छिद्–इन् किच्च। १ परशौ २ वज्रे उज्वल०। ३ छेत्तयि त्रि०।

छिदिर = पु० छिद–किरच्। १ कुठारे २ पावके, ३ रज्जुभेदे, ४ करवाले च मेदि० ५ असौ उज्वल०।

छिदुर = त्रि० छिद–कुरच्। १ वैरिणि, २ धूर्त्ते ३ छेदके, ४ छेदनद्रव्ये च मेदि०। कर्म्मकर्त्तरि कुरच्। ५ स्वयंछिन्ने त्रि०। “संलक्ष्यते न च्छिदुरोऽपि हारः” रघुः।

छिद्र = भेदने अद० चुरा० उभ० सल० सेट्। छिद्रयति ते अचिच्छिद्रत् त। छिद्रितः छिद्रम्।

छिद्र = न० छिद–रक् छिद्र–अच् वा। १ दूषणे, २ गर्त्ते, ३ अवकाशे ४ ज्योतिषोक्ते लग्नतोऽष्टमस्थाने। “छिद्राख्यमष्टमं स्थानम्” ज्यो० त०। “छिद्र निवारयेत् सर्वं श्वशूकरमुखानुगम्” मनुः। “छिद्रेष्वनर्था बहुलीभवन्ति” शकु० “नास्यच्छिद्रं परोविद्यात् विद्याच्छिद्रं परस्य तु” मनुः। देहे छिद्रसंख्यामाह याज्ञ० मिताक्षरयोः “रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च। सप्तषष्टिस्तथा लक्षाः सार्द्धाः स्वेदायनैः सह। वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः” याज्ञ०। “पूर्वोदितसिराकेशादिसहितानां रोम्णाम्परमाणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदस्रवणशुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्द्धाः पञ्चाशत्सहस्रसहिताः वायवोयैर्विभक्ताः पवनपरमाणुभिः पृथक् कृता विगण्यन्ते” मिता०। एता सूक्ष्मच्छिद्रसंख्याः स्थूलच्छिद्रसंख्या तु नब मुखनेत्रवर्णना साद्वयपायूपस्थ स्थानभेदात् तत्संख्याः तुल्यत्वेन ५ नव संख्यायां च

छिद्रकर्ण = त्रि० छिद्रयुक्तः कर्णोऽस्य। दुर्लक्षणरूपच्छिद्रयुक्त कर्णविशिष्टे छिन्नकर्णशब्दे दृश्यम्।

छिद्रदर्शिन् = त्रि० छिद्रं पश्यति दृश–णिनि। १ रन्ध्रान्वेषिणि रिपौ। कण्डरीकशब्द १६३१ पृ० दर्शिते योगभ्रष्टे बाभ्रव्यपुत्रे २ विप्रभेदे च “छिद्रदर्शीं सुनेत्रश्च तथा बाभ्रव्यवत्सयोः। जातौ श्रोत्रियदायादौ वेद वेदाङ्गपारगौ” हरिवं० २३ अ०।

छिद्रवैदेही = स्त्री छिद्रप्रधाना वैदेही। गजपिप्पल्याम् राजनि०

छिद्रान्तर = पु० छिद्रमन्तर्मध्ये यस्य। नले। राजनि०।

छिद्राफल = न० छिद्रं दूषणमाफलति आ + फल–अच्। कपटहेतौ मायारूपे फले राजनि०।

छिद्रित = त्रि० छिद्र–कर्म्मणि क्त। १ कृतवेधे विद्धे हेमच०। छिद्र + तारका० इतच्। २ जातच्छिद्रे।

छिद्वर = त्रि० छिद–ष्वरच् वा दस्य न तः। छित्वरशब्दार्थे विश्वः।

छिन्न = त्रि० छिद–क्त। १ कृतच्छेदने लूने अमरः। “सच्छिन्नधन्वा विरथः” देवीमा०। २ विभक्ते च “छिन्नाभ्रमिव नश्यति” गीता। ३ मन्त्रभेदे कुमारशब्दे २१६० पृ० दृश्यम्। ततः “अनत्यन्तगतौ क्तात्” पा० कन्। छिन्नक ईषच्छिन्ने। “अनत्यन्तगतिः साकल्येन सम्बन्धाभावः प्रकृतिवाच्यया छिदाक्रियया क्तार्थस्य कर्म्मण एकदेशप्रतीत्या साकल्येन सम्बन्धाभावो गम्यते” सि० कौ०। आगन्तुषु षट्सु व्रणेषु ३ वृणभेदे। “अनेकाकृतिरागन्तुः स भिषग्भि पुरातनेः। समासतो लक्षणतः षड्विधः परिकीर्त्तितः। छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च। घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम्। तिरश्चीन ऋजुर्वापि यो व्रणश्चायतो भवेत्। गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते”।

छिन्नकर्ण = त्रि० छिन्नः कर्णोऽस्य “कर्णे लक्षणस्य” पा० पूर्वस्य दीर्घे प्राप्ते विष्टादित्वात् न दीर्घः। छिन्नकर्णरूप दुर्लक्षणयुक्ते। छिन्नकर्णकर्म्मविपाकस्तु भृगुमारते ९ अ० दृश्यः।

छिन्नग्रन्थिनी = छिन्ना ग्रन्थिनी संज्ञायां कन्। त्रिपर्णिकालतायाम्। राजनि०।

छिन्नद्वैध = त्रि० छिन्नं द्वधं संशयोऽस्य। वेदान्तदिश्रवण परिपाकेण निवृत्तमंशये। छिन्नसंशयादयोऽप्यत्र

छिन्ननास = त्रि० छिन्ना नासाऽस्य। द्विधा भूतनासिके तस्य रोगस्य कर्म्मविपाको भृपुभारते ८ अ० दृश्यः।

छिन्नपत्री = स्त्री छिन्नं पत्रं यस्याः ङीष्। अम्बष्ठायाम्। (आकनादी) राजनि०।

छिन्नमस्ता = स्त्री छिन्नं मस्तं यस्याः। दशमहाविद्यान्तर्गते देवीभेदे। “भैरवी छिन्नमस्ता च विद्या धूमावती तथा” तन्त्रसारः।

छिन्नरुह = पु० छिन्नः सन् रोहति रुह–क। १ तिलकवृक्षे राजनि० २ गुडूच्याम् स्त्री अमरः ३ स्वर्णकेतक्यां ४ शल्लक्याञ्च स्त्री राजनि०।

छिन्नवेशिका = स्त्री छिन्नो वेशो यस्याः संज्ञायां कन्–टापि अतैत्त्वम्। पाठायाम् (आकनादी) शब्दच०।

छिन्नश्वास = पु० कर्म्म०। क्षुद्रश्वासशब्दे २३८३ पृष्ठे दर्शित सुश्वतवाक्योक्ते श्वासभेदे।

छिन्ना = स्त्री छिद–क्त। १ गुडूच्यां २ पुंश्चल्याञ्च विश्वः।

छिन्नीद्भवा = स्त्री छिन्नाप्युद्भभवति उद् + भू–अच्। प्रडूज्या राजनि०।

छिलिहिण्ड = पु० पातालगरुडवृक्षे छिलिहिण्डः परो वृष्यः कफघ्नः पवनापहः” भावप्र० तद्गुणोक्तिः

छुछुका = स्त्री छुछु इत्यव्यक्तशब्दं कायति कै–क पृषो० छुछुन्दर्य्याम् (छु~छो) शब्दार्थचि०

छुछुन्दर = पुंस्त्री छछु इत्यव्यक्तः शब्दोर्दार्य्यतेऽस्मात् द्वृपादाने अप् पृषो०। (छु~छो) इति ख्याते मूषिकरं उन्दुरशब्दे ११८८ पृ० सुश्रुतवाक्ये दृश्यम्। “छुछुन्दरेण विड्भङ्गो ग्रीवास्तम्भीविजम्भृणम्” सुश्रु०। स्त्रियां जातित्वात् ङीष्। पृषो० छुछुन्दरिरप्यत्र “मत्स्यछुछु न्दरिमत्कुणगन्धो यथा” सुश्रुतः। “छुच्छुन्दरिः शुभान् गन्धान (हृत्वा) पत्रशाकन्तु बर्हिण” मनुः। “पत्रशाकं शिर्खा हृत्वा गन्धांश्छुछुन्दरिः शुभान्” याज्ञ०।

छुच्छु = स्त्री छुछुकायाम् “शिवा श्यामा रला छुच्छु पिङ्गला गृहगोधिका शूकरा परपुष्टा च पुन्नामानश्च वामतः” वृ० स० ८६ अ० यात्रायां तस्या वामतः शुभदत्वमुक्तम्।

छुट = छेदने वा चुरा० उभ० पक्षे तु० कुटा० पर० सक० सेट्। छोटयति ते छुटति। अचुच्छुतत् त अच्छुटीत्।

छुड = छादने तु० कु० पर० सक० सेट्। छुडति अच्छुडीत् चुच्छोड

छुड = पिधाने भ्वा० प० सक० सेट्। छोडति अच्छोडीत् चु च्छोड।

छुद्र = न० छद–रक् पृषो०। १ प्रतीकारे २ रश्मौ च उणादिको०।

छुप = स्पर्शे तु० पर० सक० अनिट्। छुपति अच्छापसीत् चुच्छोप।

छुप = पु० छुप–कर्त्तरि क, घञर्थे क वा। क्षुपे ह्रस्वशास्वे वृक्षे २ स्पर्शने मेदि०। ३ चपले त्रि० आधारे क। ४ युद्धे पु० विश्वः।

छुबुक = न० चुबुक + पृषो०। चुबुके ओष्ठाधरप्रदेशे। “कर्ण्णाभ्यां छुबुकादधि” ऋ० १०। १६३। १। “छुबुकं व्यपदिशन्नुव चैष वै प्रतिष्ठा वैश्वानरः” शत० व्रा० १०। ६। १। ११।

छुर = छेदे भ्वा० पर० सक० मेट्। छोरति अच्छोरीत्। चुच्छोर

छुर = लेपने तु० कु० पर० सक० सेट्। छरति अच्छुरीत्। चुच्छोर छुरितः। “छुरितमिव वियद्घनैर्विचित्रैः” वृ० स० २४० अ०। “कुसुमलवच्छुरितपर्य्यन्ते पर्य्यङ्कतले” दशकु०। “मनःशिलाविच्छुरिता तिषेदुः” कमा०

छुरा = स्त्री छुर–क। सौधलेपनद्रव्ये सुधायां चर्ण्णे (कलि चुन्) हारा०।

छुरिका = स्त्री छुर–छेदे क स्वाथं क टापि अत इत्त्वम् छुर–बा० क्वुन् वा। स्वनामख्याते अस्त्रभेदे।

छुरिकापत्री = स्त्री छुरिकेव पत्रमम्याः ङीष। श्रेतालतायाम् राजनि०।

छुरित = त्रि० छुर–क्त। २ खचिते जटाधरः। २ लिप्ते ३ छिन्ने च त्रि० “परस्परेण च्छुरितामलच्छवी” माघः।

छुरी = स्त्री छुर–क गौरा० ङीष्। छुरिकायाम अमिधेनौ भरतः।

छूरिका = स्त्री छुरिका + पृषो०। १ छुरिकार्थ २ बन्धघ्रायां गवि “गोषु व्राह्मणसस्थासु छूरिकायाश्च भेदने” छूरिकाया बन्ध्याया गोर्वाहनार्थं नासाभ दने” कुल्लू०

छूरी = स्त्री छुरी–पृषो०। छुरिकायां हेम०।

छृद = सन्दीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। छर्दयति ते छर्दति अचिच्छृदत्–त अचच्छर्दत् त अच्छदीत्।

छृद = देवने दौप्तौ च अक० वसने सक० रुधा० उभ० सेट्। छणत्ति छृन्ते इरित्। अच्छृदत् अच्छर्दीत्। अच्छर्द्दिष्ट छर्द्दिष्यति–छर्त्स्यति उदित् छर्दित्वा छृत्त्वा छृन्नः

छृप = याचने द्विक० शब्दे अक० वा चुरा० उभ० पक्षे भ्वा० पर० सेट्। छर्पयति ते छर्पति। अचिच्छृपत् त–अच च्छर्पत् त। अच्छर्पीत्

छेक = पु० छो–वा० डेकन। १ गृहासक्ते मृगपक्ष्यादौ २ नागरे विदग्धे त्रि० मेदि०। विदग्धप्रिये शब्दालङ्काररूपे ३ अनुप्रासभेदे अनुप्रासशब्दे १७८ पृ० दृश्यम्। ४ मत्तायां स्त्रियां स्त्री शब्दार्थचि०।

छेकापह्नुति = स्त्री अर्थालङ्कारभेदे। अलङ्कारशब्दे पृ० ३९८ दृश्यम्

छेद = छेदने अद० चु० उभ० सक० सेट्। छेदयति ते अचिच्छेदत् त

छेद = पु० छिद–भावे घञ् अच वा। २ छेदने “अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः” कुमा०। कर्त्तरि अच्। २ छेदके, भाजके “छेदंगुणं गुणं छेदमिति” लीलावती। कर्म्मणि घञ्। ३ खण्डे, त्रि० “वलाहकच्छेदविभक्तरागाम्” कुमा०। “विसकिसलयच्छेदपान्येयवन्तः” मेघः। खण्डार्थस्य तु त्रिलिङ्गत्वेन स्त्रियां गौरा० ङीष्। ततोनित्यमर्हति ठञ्। छैदिक नित्यच्छेदार्हे वेतसा

छेदन = न० छिद–भावे ल्युट्। १ द्विधाकरणे “करपाददतोभङ्गे छदने कर्णनासयोः” याज्ञ०। करणे ल्युट्। २ छेदनसाधने “तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्” भा० स० ५४ अ०। कर्त्तरि ल्यु। ३ छेदके त्रि०

छेदनीय = पु० छेदनाय जलकालुष्यभेदनाय हित–छ। १ कतकवृक्षे राजनि०। छिद–कर्म्मणि अनीयर्। २ छेद्ये त्रि०

छेदादि = पु० नित्यमर्हतीत्यर्थे ठञ्प्रत्ययनिमित्ते शब्दगणे स च गणः “छेद भेद द्रोह दोह नर्त्त कर्ष तीर्थ संप्रयोग विप्रयोग प्रयोग विप्रकर्ष प्रेषण संप्रश्न विप्रश्न विकर्ष प्रकर्ष (विराग विरङ्ग च)” पा० ग० सू०। छैदिकः

छेदि = पु० छिद–इन्। १ वज्रे उज्ज्व०। २ छेत्तरि त्रि०। ३ वर्द्धकौ पु० धरणिः।

छेदित = त्रि० छेदो जातोऽस्य तारका० इतच्। द्विधाकृते हेमच०।

छेद्य = त्रि० छेत्तुं योग्यः कर्म्मणि योग्यार्थे ण्यत्। भेत्तुं योग्ये “शीर्षच्छेद्यमतोऽहं त्वाम्” भट्टिः। छेद्याक्षिरोगप्रतिषेधोपायाः सुश्रुतोक्ता यथा “अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः। स्निग्धं भुक्तवतो ह्यन्न मुपविष्टस्य यत्नतः। संरोषयेत्तु नयनं भिषक्चूर्णैस्तु लावणैः। ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम्। अर्म्म यत्र बलीजातं तत्रैतल्लगयेद्धिषक्। अपाङ्गं प्रेक्षमाणस्य वडिशेन समाहितः। मुचुण्ड्यागृह्य मेधावी सूचीसूत्रेण वा पुनः। नचोत्तापयता क्षिपं कार्य्यमभ्युन्नतं तु तत्। शस्त्रपातभयाच्चास्य वर्त्मनी ग्राहयेद्दृदम्। ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम्। उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत्। विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात्। नीत्वा कनीन कीपान्तं छिन्द्यान्नातिकनीनकम्। चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमर्क्षति। कनीनकबधादस्रं नाडी चाप्युपजायते। हीनच्छेदात्पुनर्वृद्धिं शीघ्रमेबाधिगच्छति। अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम्। छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम्। प्रतिसारणमक्ष्णोस्तु ततः कार्य्यमनन्तरम्। यवनालस्य चूर्णेन त्रिकटोर्ल्लवणस्य च। स्वेदयित्वा ततः पश्चाद्बध्नीयात् कशलो भिषक्। देशर्त्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम्। व्रणवत् संविधानन्तु तस्य कुर्य्यादतःपरम्। त्र्यहान्मुक्त्वा करम्वेदं दत्त्वा शोधनमाचरेत्। करञ्जवीजामलकमधुकैः साधितं पयः। हितमाश्च्योतनं शूले द्विरह्नः क्षौद्रसंयुतम्। मधुकोत्पलकिञ्जल्कदूर्वा कल्कैश्च मूर्द्धनि। प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते। लैख्याञ्जनैरपहरेदर्म्मशेषं भवेद्यदि। अर्म्म चाल्यन्दधिनिभन्नीलं रक्तमथापि वा। धूसरन्तनु यच्चापि शुक्रवत्तदुपाचरेत्। चर्म्माभम्बहलं यत्तु स्नायुमांसघनावृतम्। छेद्यमेव तदर्म्म स्यात्कृष्णमण्डलगञ्च यत्। विशुद्धवर्णमक्लिष्ट क्रियास्वक्षिगतक्लमम्। छिन्नेऽर्म्मणि भवेत्सम्यग्यथास्वमनुपद्रवम्। सिराजाले सिरायास्तु कठिनास्ताश्च बुद्धिमान्। उल्लिखेन्मण्डलाग्रेण वडिशेनावलम्बिताः। सिरासु पिडका जाता या न सिध्यन्ति भेषजैः। अर्म्मवन्मण्डलाग्रेण तासाञ्छेदनमिष्यते। रोगयोश्चैतयोः कार्य्यमर्म्मोक्तं प्रतिसारणम्। विधिश्चापि यथादोषं लेखनद्रव्यसम्भृतः। सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः। उत्तरे च त्रिभागे च वडिशेनावलम्बिताम्। छिन्द्यात्ततोऽर्द्धमग्रे स्यादश्रुनाडी ह्यतोऽन्यथा। प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते। लेखनीयानि चूर्णानि व्याधिशेषस्य मेषजम्। शङ्खं समुद्रफेनञ्च मण्डूकीञ्च समुद्रजाम्। स्फटिकं कुरुविन्दञ्च प्रबालाश्मन्तकन्तथा। वैदूर्य्योपलकं मुक्तामयस्ताम्ररजांसि च। समभागानि सम्पिष्य सार्द्ध्वं श्चोतोऽञ्जनेन तु। चूर्णाञ्जनं कारयित्वा भाजने मेष शृङ्गजे। संस्थाप्योभयतः कालमञ्जयेत्सततं बुधः। अर्म्माणि पिडकां हन्यात्सिराजालानि तेन वै अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽर्बुदमेव च। अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते। वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः। मण्डलाग्रेण तीक्ष्णेन मूले छिन्द्याद्भिषग्वरः। ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत्। स्थिते च रुधिरे वर्त्म दहेत्सम्यक्शलाकया। क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि। तीक्ष्णैरुभयतो भागैस्ततो दोषमधिक्षिपेत्। वितरेच्च यथादोषमाभष्यन्दक्रियाविधिम्। शस्त्रकर्म्मण्युपरते मासञ्च स्यात्सुयान्त्रतः”।

छेमण्ड = पु० छमण्ड + पृषो० अत एत्त्वम्। मातृपितृहीने बालके (छो~ड) उज्ज्वलदत्तः।

छेलक = पुंस्त्री छो–कर्म्मणि बा० डेलकन्। १ छागे २ छाग्यां स्त्री टाप्। नावप्र० छागशब्दे दृश्यम्।

छेलु = पु० छो–बा० डेलु। सोमराज्याम् शब्दच०

छैदिक = त्रि० छेदं नित्यमर्हति ठञ्। नित्यछेदार्हे वेतसे पु०

छो = छेदने दि० पर० सक० अनिट्। छ्यति अच्छात् अच्छासीत्। चच्छौ। छातः–छितः।

छोटिका = स्त्री छुट–ण्वुल्। तर्ज्जन्यङ्ग ष्ठध्वनौ (तुडी देओया)

छोटिन् = पु० छुट–णिनि। कैवर्त्ते त्रिका०।

छोरण = न० छुर–भावे ल्युट्। १ परित्यागे त्रिका०।

छोलङ्ग = पु० छुर–वा० अङ्गच् रस्य लः। मातुलुङ्गे (टावालेवु) शब्दरत्ना०।

छोहारा = स्त्री द्वीपान्तरखर्जूरिकायाम्। “खर्जूरी गोस्तनाकारा परद्वीपादिहागता। जायते पश्चिमे देशे सा छोहारेति कीर्त्त्यते” भावप्र० खर्जूरशब्दे २४६८ पृ तद्गुणा दृश्याः।

छ्यु = गतौ भ्वा० आत्म० सक० अनिट्। छ्यवते अच्छ्योष्ट णेश्चङि अचि(चु)च्छ्यवत् त। णेः सनि चु(चि) च्छ्यावयिषति ते। इति वाचस्पत्ये छकारादिशब्दार्थनिरूपणम्।

—ज—

= जकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञस्तस्योच्चारणस्थानं तालु, आभ्यन्तरप्रयत्नः जिह्वामव्यभागेन तालुस्पर्शः वाह्यप्रयत्नाश्च घोषसंवारनादाः अल्पप्राणश्च। मातृकान्यासेऽस्य वाममणिबन्धे न्यासः। तन्त्रोक्ता अस्य वाचकशब्दा यथा “जश्चतुराननः शूली भोगी च विजया स्थिरा। बलदेवो जयो जेता धातकी सुमुखी विभुः। लम्बोदरी स्मृतिः शाखा सुपभा कर्त्तृकाधरा। दीर्घबाहूरुचिर्हंसो नन्दी तेजाः सुराधिपः। जवनो वेगितो वाममणिवन्धपदात्मकः। हृन्मारुतेश्वगो वेशी चामोदी मदविह्वलः” वर्ण्णोद्धारतन्त्रम्। अस्य ध्येयरूपं यथा “जकारं परमेशानि! या स्वयं मध्यकुण्डली। शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा। त्रिशक्ति सहितं वर्णम् त्रिविन्दुसहितं प्रिये!” कामधेनुतन्त्रम्। काव्येऽस्य प्रथमविन्यासफलं वृत्त० र० टी० उक्तं “जोमित्रलाभमित्यादि”।

= पु० जि–जन–जु–वा ड। १ मृत्युञ्जये २ जन्मनि ३ पितरि ४ जनार्द्दने त्रि० मेदि० ५ विषे ६ भुक्तौ ७ तेजसि ८ पिशाचे च। शब्दरत्ना०। ९ वेगे एकाक्षरकोषः “जो गुरुमध्यगतः” इत्युक्ते गुरुमध्ये प्रान्तयोर्लघुद्वययुक्ते छन्दःशास्त्रप्रसिद्धे (।ऽ।) त्रिवर्णे १० गणे तस्य काव्यप्रथमविन्यासे। “भुजगोरुज ज” इत्युक्तेः रोगःफलम् सर्पोऽस्य देवः” ११ जाते त्रि० “प्रावृट् शरत्कालदिवां जे” पा० अलुक् स०। प्रावृषिजः शरदिजः कालेजः दिविजः। “विभाषा वर्षखरशरेत्यादि” पा०। वर्षेज वर्षज इत्यादि। “तत्पुरु कृति बहुलम्” पा०। मनसिजः मनोजः सरसिजं सरोजमित्यादि। जरायजः अण्डजः स्वेदजः उद्भिज्जः”। १२ वेगिते १३ जेतरि त्रि० शब्दरत्ना०।

जकुट = पु० जं जातं कुटति कुट–क। १ मलयाचले २ वार्त्ताकृपुष्पे न० मेदि०!

जक्ष = भक्षे मक० हासे अक० जक्षा० स्वपादि० प० सेट्। स्वपादिश्च रुदाद्यन्तर्गणस्तेन झलादेः सार्वधातुकस्य इट्। जक्षिति जक्षितः अभ्यस्तसंज्ञः तेन जक्षति। अजक्षीत् “उतेव स्त्रीभिः सह मोदमानो जक्षदुते वापि भयानि पश्यन्” शत० व्रा० १४। ७। १। १४। “अश्नत्यां कश्चिदश्नाति जक्षत्यां सह जक्षिति” भाग० ४। २५। ५७। “हविर्जक्षिति निःशङ्कोमखेषु मघवानसौ” जक्षिमोऽनपराधेऽपि” भट्टिः। अस्यान्तःस्थादितां केचित् मन्यन्ते। “यक्ष्यतामिति येऽप्युक्तास्ते वै यक्षास्व यक्षणात्” विष्णुपु० यक्षनामनिरुक्तौ तथादर्शनात्।

जक्ष = दाने भ्वा० इदित् आ० सक० सेट्। इदित्करणसामथ्यास अनुपधस्यापि नुम्। जङ्क्षते अजङ्क्षिष्ट। मित्। अजङ्क्षि अजाङ्क्षि (जा) जङ्क्षम्। इदित्करणात् जङ्क्षयते।

जक्षण = न० जक्ष–भावे ल्यट। भक्षणे हेमच०।

जगच्चक्षुस् = पु० जगतां चक्षुरिव प्रकाशकत्वात्। सूर्य्ये हेमच०

जक्षादि = पु० “जक्ष जागृ दरिद्रा च चकास्तिः शास्तिरेव च। दीधी वेवी च विज्ञेयो जक्षादिः पञ्चकोगणा” इत्युक्ते अभ्यस्तसंज्ञे धातुपञ्चके “नाभ्यस्ताच्छतुः” पा जक्षत् जाग्रत् इत्यादि।

जगत् = पु० गम–क्विप् नि० द्वित्वम् तुक् च। १ वायौ २ जङ्गमे त्रि० मेदि०। ३ विश्वे न० अमरः। ४ लोके सचराचरे प्रपञ्चभूते भोगोपयोगिपरिकरसहिते मायामये संसारचक्रे यथोक्तमभियुक्तैः “न निरूपयितुं शक्या विस्पष्टं भासते च या। सा मायेतीन्द्रजालादौ लोकाः संप्रतिपेदिरे। स्पष्टं यथा जगच्चेदमशक्यं तन्निरूपणम्। मायामयं जगत् भाति वीक्षस्वापक्षपाततः”। “जगद्योनिरयोनिस्त्वं जगदन्तोनिरन्तकः। जगदादिरनादिस्त्वं जगदीशोनिरीश्वरः” कुमा०। “जगतः पितरौ वन्दे पार्व्वतीपरमेश्वरौ” रघुः। “यदा स देवो जागर्त्ति तदेद चेष्टते जगत्” मनुः। लोके “जगत्यपर्य्याप्तसहह्रभानुना” “युगान्तकालप्रतिसंहृतात्मनोजगन्ति यस्यां सविकाशमासत” माघः। जङ्गमे “जगतां तस्थुषश्च” सन्ध्यामन्त्रः। क्विबन्तत्वात् जगत् जगतौ इत्यादिरूपम् “पृषन्महज्जगच्छतृवच्च” पा० निपातनपक्षे जगत् जगन्तौ इत्यादिरूपमिति केचिदाहुस्तच्चिन्त्यम् तस्य शतृतुल्यत्वेऽपि “नाभ्यस्ताच्छतुरिति” पा० निषेधात् न नुम्। शतृतुल्यत्वप्रयोजनं तु स्त्रियां ङीप् जगती

जगत्कर्त्तृ = पु० ६ त०। १ ईश्वरे तदभेदात् २ चतुर्मुखादौ हेमच०।

जगच्छन्द = पु० जगती च्छन्दोऽस्य वेदे नि० बुंवद्भावः। जगत्या छन्दसा स्तुत्ये। “खरोऽसि गयोऽमि जगच्छन्दाः” ता० व्रा० १। ५। १५।

जगत्पति = पु० ६ त०। १ परमेश्वरे तद्भेदात् २ हरिहरादौ “यदा च तस्याधिगत्रे ञगतपतेः” कुमा० जगदीशादयोऽप्यत्र। “जगदीशो निरीधरः” कुमा०

जगत्प्राण = पु० जगत् प्राणित्यस्मात् प्र + अन्–अपादाने घञ् ६ त०। वायौ अमरः “जगत्प्राण! प्राणानपहरसि किन्ते व्यवसितम्” सा० द०।

जगत्साक्षिन् = पु० ६ त०। १ईश्वरे २ सूर्य्ये च हेमच०।

जगत्सेतु = पु० जगतः सेतुरिव सर्वमर्य्यादाकारकत्वात्। परमेश्वरे जगतां सन्तारणहेतुत्वादसंभेदकरत्वाच्च वर्णाश्रमादीनां, “एष सेतर्विधरणो लोकानामसंभेदाय” श्रुतेस्तस्य तथात्वम्। अलुक् समा०। जगतः सेतुरप्यत्र” “औषधं जगतः सेतुः” विष्णुस०।

जगती = स्त्री गम–क्विप् “पृषन्महज्जगच्छतृवत्” पा० शतृतुल्यत्वात् ङीप्। १ भुवने। २ पृथिव्यां “आर्य्यभट्टमते भमेश्चलत्वात् गतिमत्त्वेन तथात्वम्। अन्यमते जगदाघारत्वात् तस्यास्तयात्वमिति भेदः। ३ द्वादशाक्षरपादके छन्दोभेदे छन्दःशब्दे दृश्यम्। ४ जम्बुक्षेत्रे हेमच०। ततोभवादौ उत्सा० अञ्। जागत जगतीभवादौ। स्त्रियां टाप्। छन्दःशब्दे उदा०।

जगदम्बा = स्त्री ६ त०। दुर्गायां स्वार्थे क। जगदम्बिकाप्यत्र। “सृष्टिस्थितिविनाशानां बिधात्री जगदम्बिका” देवीगीता। जगद्धात्रीशब्दे उदा०

जगदादि = पु० ६ त०। १ परमेश्वरे। २ तदभेदाच्चतुराननादौ “जगदादिरनादिस्त्वम्” कुमा०

जगदादिज = पु० हिरण्यगर्मरूपेण जगतामादौ जायते जन–ड। परमेश्वरे। “भ्राजिष्णुर्भोजनं भोक्ता सहि० ष्णुर्जगदादिजः” विष्णुस०।

जगदाधारः = पु० ६ त०। १ वायौ शब्दच०। २ जगदाश्रये काले च “कालोहि जगदाधारः” ति० त०। जगदाश्चयादयोऽप्यत्र “जन्यानां जनकः कालो जगतामाश्रयोमतः” भाषा०।

जगदायु(युस्) = पु० जगतामायुःसाधनत्वात् आयुः पृषो० वा सलोपः। वायौ। “अहं केशरिणः क्षेत्रे वायुना जगदायुना” भा० व० १४७ अ०। “चायुना द्विपदां श्रेष्ठः कथितो जगदायुषा” भा० शा० ३४० अ०।

जगद्गुरु = पु० ६ त०। १ परमेश्वरे। “सहि पर्व्वेषामपि गुरुः कालेनानवच्छेदात्” पात० सू० तस्य सर्वगुरुत्वमुक्तम् तदभेदात् २ शिवादौ “अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम्” (शिवम्) कुमा०। “मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः” रघुः। ३ जगतामुपदेष्टरि नारदादौ। “नारदस्तु जगतोगुरुरुच्चैर्विस्मयाय गगनं विललङ्घे” नैष० जगद्भ्योगुरुः पञ्चमीत०। ४ जगद्भ्यो गुरुद्रव्येच।

जगद्गौरी = स्त्री जगत्सु मध्ये गौरी। ममसादेव्यां शब्दर०।

जगद्दीप = पु० जगतोदीपैव प्रकाशकत्वात्। परमेश्वरे “तस्य भासा सर्वमिदं विभाति” श्रुतिः तदभेदात् २ शिवादौ “जगद्योनिं जगद्दीपं जयिनं जगतोगतिम्” भा० द्रो० २०३ शिवस्तवः।

जगद्धातृ = पु० ६ त०। १ परमेश्वरे। दुर्गामूर्त्तिभेदे स्त्री ङीप्। तस्याः पूजाकालव्यवस्था। निगमकल्पसारे ज्ञानसारस्वते ग्रन्थे च दुर्गाकल्पे “श्रीशिव उवाच। प्रसीद जगतां मातर्ज्जगन्निस्तारकारिणि!। अतएव महेशानि! तवाहं शरणागतः। त्वया यत् कथितं पूर्वं तत्सर्वञ्च श्रुतं मया। जगद्धात्री महादुर्गा चतुर्वर्गफलप्रदा। तम्याः पूजाविधिदिनं कालस्तन्न प्रकाशितम्। तदेव कथयेशानि। श्रेतुमिच्छामि साम्प्रतम्। श्रीदेव्युवाच। कथयामि महेशान! सावधानावधारय। तस्याः पूजाविधिदिनं समयं भावभेदतः। कार्त्तिके शुक्लपक्षे च या दुर्गानवमी तिथिः। सा प्रशस्ता महादेव! महादुर्गाप्रपूजने। प्रातश्च सात्विकी पूजा मध्याह्ने राजसी मता। सायाह्ने तामसी पूजा त्रिविधा परिकीर्त्तिता। जपयज्ञादिभिर्देव! इति त्रैकालिकी मता। अथान्यत मंप्रवक्ष्यामि शृणुष्व परमेश्वर!। सप्तम्यादि नवम्यान्तं पूजाकाल इतीरितः। त्रिदिने त्रिविधा पूजा दशम्याञ्च विसर्ज्जयेत्। पूजा परेऽह्नि देवेश! तत्राप्यत्र विसर्जनम्। वेधितायाः प्रकारेण तत्र पूजा प्रकीर्त्तिता। शिव उवाच, त्रिसन्ध्याऽव्यापिनी सा तु यदि स्यान्नवसी तिथिः। त्रिकाले त्रिविधा पूजा कथं देव्या जगन्मयि!। कथयस्व महेशानि! इति मे संशयोहृदि। श्रीदेव्युवाच। सा प्रात र्व्यापिनी यत्र वासरे नवमी तिथिः। त्रिसन्ध्यं पूजयेत्तत्र वासरे जरदम्बिकाम्। मुहूर्त्तव्यापिनी चापि तत्र ग्राह्या महेश्वर!। एककाले त्रिधा पूजां साधकोनैव कारयेत्”। तत्पूजायां दशम्या बलिदाननिषेधः तन्त्रान्तरे “श्री पार्वत्युवाच। दशम्यां वलिदानन्तु निषिद्धं जगदीश्वर!। कथं त्रिकालं पूजा सा सम्भवत् परमेश्वर!। शिव उवाच “नवमीतिथिमाश्रित्य यत्र पूजाविथिर्भवेत्। निषिद्धं बलिदानन्तुं दशम्यां तत्र सुन्दरि!। नवमीदिनमाश्रित्य पूजाबिधिरिहोदितः। दशम्यां बलिदानन्तु निषिद्धं नात्र पार्वति”। ज्ञानामृतसारे पूर्वं प्रकारमुक्त्वा “मुहूर्त्तव्यापिनी चापि प्रातश्चेन्नवमी तिथिः। तद्दिने पूजनं कार्य्यं त्रिसन्ध्यं वरवर्णिनि!। त्रिकालं पूजयेत्तत्र नैककाले कदाचन”। कात्यायनीतन्त्रे ७ पदले। “कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य च। उषस्यर्द्धोदितो भानुर्दुर्गामाराध्य यत्नवात्। पुत्रारोग्यं बलं लेभे लोकसाक्षित्वमेव च। तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि। प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम्”। शक्तिसङ्गमतन्त्रे “कार्त्तिकस्य सिते पक्षे नबम्यां जगदीश्वरीम्। त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत्। मृण्मयीं प्रतिमां शक्त्या जयद्धात्र्या विधानतः। पूजयित्वा परदिने प्रतिमां तां विसर्ज्जयेत्। पुत्रपौत्रधनैश्वर्य्य संयुताऽस्य भवेत् पुरी”। तन्त्रान्तरे। “कुजवारे युगाद्यायां नवम्यान्तु जगत्प्रसूः। प्रादुर्भूता महेशानी तत्र तां परिपूजयेत्” तन्त्रान्तरे। “त्रिकालं पूजयेद्दुर्गां मूलेनैकाक्षरेण च(दू~)। नानारत्नविधानेन गीतवाद्यपुरःसरम्। कार्त्तिकस्य सिते पक्षे नवम्याञ्च विशेषतः। कृत्वैवं साधकश्रेष्ठो लभेद्राज्यमकण्टकम्”। योगिनीरन्त्रे “कार्त्तिकेऽमलपक्षे तु नवम्याञ्च विशेषतः। उद्बुद्धान्तु जगद्धात्रीं पूजयेद्दीपमालया” आगम तत्त्वसारे “कार्त्तिकेऽमलपक्षे तु नवम्याः भौमवासरे। धाविर्भूता जगद्धात्री युगादौ दैत्यनाशिनी”। उत्तरकामाख्यातन्त्रे “कार्त्तिके शुक्लपक्षे तु त्रेयायां प्रथमेऽहनि। त्रिसन्ध्यं पूजयेद्देवीं दुर्गां मम्पत्प्रवृद्धये”। कुब्जिकातन्त्रे “कार्त्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम्। दुर्गां प्रपूजयेद्भक्त्या धर्म्मकामार्थसिद्धये। दुर्गाकल्पे विद्योत्पत्तौ “कार्त्तिके शुक्लपक्षेऽह्नि भौमवारे जगत्प्रसूः। सर्वदेवहितार्थाय दुर्वृत्तशमनाय च। आविरासीत् जगच्छान्त्यै युगादौ परमेश्वरी”। व्रतकालविवेकधृतवचनम् “कार्त्तिकेऽमलपक्षस्य त्रेतायां नवमेऽहनि। पूजयेत्तां जगद्धात्रीं सिंहपृष्ठे निषेदुषीम्”। स्मृतिः। “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमीक्षले न तत्र तिथियुग्मता”। कृत्यतत्त्वार्णवे “कार्त्तिकेऽमलपक्षे तु युगाद्या नवमी स्मृता। पूर्वाह्णसमये तत्र पूजाविधिरिहोदितः”। कृत्यतत्त्वार्णवे भविष्यपुराणम् “कार्त्तिके शुक्लपक्षे तु युगाद्या नवमी स्मृता। पूर्वाह्ण समये काष्ठाव्यिका परदिने यदि। तत्प्व पूजादिकं कुर्य्यात् पिण्डनिर्वपणादृते”। स्मृतिसागरे “कार्त्तिकस्य युगा- द्यायामृद्धिकामोऽर्च्चयेदुमाम्”। ततश्च उक्तवचनेषु तत्तिथेर्युगादित्वेन कीर्त्तनात् तत्पूजायाश्च युगाद्यदिनकर्त्तव्यत्वेन विधानात् पूर्वापरदिनयोस्तस्याः सम्बन्धे परदिन एव कर्त्तुव्यता न तु युग्मशास्त्रेण अष्टमी विद्धाया ग्राह्यता युगाद्या वर्षवृद्धिश्चेत्यादि वचनात् यत्तु “श्रावणी दौर्गनवमी दूर्वा चैव हुताशिनी। पूर्बविद्धैव कर्त्तव्येत्यादि” वचनं तत् एतद्भिन्न नवमीकर्त्तव्यदुगन्नितपरम् तच्च व्रतं व्रतशब्दे वक्ष्यमाणं दृश्यम्। जगद्धात्रीविद्योत्पत्तिमाह कात्यापनीतन्त्रे ७६ पृ०। “पार्वत्युवाच। भगवन्! प्राणनाथेश! सर्व तत्त्वविशारद!। श्रुता कात्यायनीविद्यासमुत्पत्तिस्त्रिलोचन!। महादुर्गाजगद्धात्रीविद्योत्पत्तिर्भवेद्यतः। तत् सर्वं ब्रूहि मगवन्! कृपया परमेश्वर!। इति देवी प्रश्ने “श्रीशिव उवाच। शृणु पार्वति! वक्ष्यामि रहस्यं परमाद्भुतम्। यत् श्रुत्वा लभते देवि! सौमाग्यसुखमुत्तमम्। पुरा पुरन्दरमुखाः स्वेश्वरत्वाभिमानिनः। पाहुः किमीश्वरोऽस्त्यस्मानतिरिच्य सुरानिति। अप्य दुर्गा जगन्माता नित्या चैतन्यरूपिणो। एतेषां धर्मसेतूनामिन्द्रादीनां नियन्त्रणम्। करिष्यामीति निस्सिव्य ज्योतीरूपं दधावलम्। तेषामाविर भूद्दुर्गा जगद्धात्री जगन्मयी। कोटिसूर्य्यप्रतीकाशं चन्द्रकोटिसमप्रभाम्। ज्वलन्तं पर्वतमिव सर्वलोक भयङ्करम्। तद्ददृशुः सुराः सर्वे भयमापुर्महौजसः। किमेतन्न विनिश्चेतुं शक्तास्ते ह्यभवन् सुराः। वायु माहुः समाहूय किमेतत् परमाद्भुतम्। विजानीहि मरुद्वीर मातरिश्वन्! दिशां पते!। ततो वायुर्द्रुतं तत्र गत स्तेजोऽन्तिकं ततः। तमन्तिकमुपायातं प्राह तेजो मयी ततः। बलवन्! कस्त्वमायातो वीर्य्यं किञ्चास्ति वा त्वयि। आदातुं शक्यते सर्वं पृथिवीतलसम्भवम्। इति प्रत्युक्तवान् वायुः क्षणं तत्रैव तिष्ठति। आदत्स्वैतत् तृणमिति निदधौ वायवे तृणम्। वायुः सर्वप्रयत्नेन नादातुं तत्क्षमोऽभवत्। ततो देवाः प्राहुरग्निं भीता उद्दिग्नमानसाः। अग्ने! एतद्विजानीहि किमेतत् कर्म चाद्भुतम्। इत्युक्तो देवतावृन्दैरग्निस्तेजोऽन्तिकं गतः। अमरो जातवेदा वा तेजोवागित्युवाच तम्। स प्रोक्तवानग्निरस्मि सर्वदाहकशक्तिकः। दहैतत् तृणमत्यल्प मिति तस्मै तृणं ददौ। अग्निः सर्वप्रयत्नेन दग्धुं नैततत्क्षमोऽभवत्। ततो निववृते वह्निर्भूत्वा सोऽपत्र- पान्वितः। एकत्रस्थाः सुराः सर्वे मन्त्रयामासुरुत्तमम्। इयमेवेश्वरी नूनं स्तोष्यामोनेश्वरावयम्। इति निश्चित्य सुधियस्तुष्टुवुः परमेश्वरीम्। प्राहुर्द्देवगणाः सर्वे त्वमीशा नेश्वरा वयम्। ईश्वरत्वाभिमानेन यदस्माकं सुदुष्कृतम्। क्षन्तुमर्हसि तत् सर्वं कृपया जगदम्बिके। तवरूपं सुगोप्यं यन्मङ्गल्यं सर्वमङ्गलम्। तद्द्रष्टुं वयमिच्छामो देहि दर्शनमुत्तमम्। इत्युक्तानां सुबुद्धीनामाविरासीच्छिवाम्बरे। तेजस्यन्तर्हिते तस्मिन् चमत्कारि कलेवरे। मृगेन्द्रोपरि सुस्मेरा सर्वालङ्कारभूषिता। चतुर्भुजा महादेवी रक्ताम्बरधरा शुभा। वालार्क सदृशी देहे नागयज्ञोपवीतिनी। त्रिनेत्रा कोटिचन्द्राभा देवर्षिगणसेविता। दर्शयामास देवानामेबं रूपं जगन्मयी। ततस्तां तुष्टुवुर्देवा जगद्धात्रीं महेश्वरीम्। वरं प्रापुः सुरगणायथेष्टं त्रिदशालये। तत्रैवान्तर्हिता देवी महादुर्गा जगन्मयी”। इयमेव कथा प्रायशः केनोपनिषदि स्थिता तद्वाक्यञ्च इन्द्रशब्दे ९४२ पृ० दर्शितम्। इयांस्तु विशेषः तत्र इन्द्रादिप्रबोधनाय प्रादुर्भूतया ब्रह्मशक्त्या हैमवत्या ब्रह्महात्म्येनैव इन्द्रादीनामसुरजयशक्तिरुक्ता अत्र तु शक्तिशक्तिमतोरभेदेन जगद्धात्रीरूपेणाविर्भूताया देव्या माहात्म्योक्तिरिति।

जगद्बल = पु० जगतां बलमस्मात्। वायौ त्रिका०। तस्यैव व्यानरूपस्ववृत्तिभेदात् सर्वबलजक्रियाहेतुत्वस्य भङ्ग्या छान्दोश्ये उक्तत्वात् तस्य तथात्वम् यथा “अथोयान्यन्यानि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनमाजेः सरणं दृतस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत”। बलस्य च सर्वक्रिया हेतुत्वं छान्दोग्ये भूमविद्यायामुक्त यथा “बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवताभको वलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रीता भवति मन्ता भवति बोद्धा भवति कर्त्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्वलेन पर्वता बलेन देवमनुष्या बलेन पशवश्चवयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलसुपास्स्वेति”। सर्वक्रियाणां वायुकार्य्यत्वं च सुश्रुते दर्शितं यथा “वायव्याः स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टादयः सर्वशरीरस्पन्दनं लघुता च” तेन सर्ववष्टान्तां वायुकार्य्यत्वोक्त्या बलस्य च तत्र हेतुत्वोक्त्या च वायोरेव बलहेतुत्वमवसीयते।

जगद्योनि = स्त्री जगता योर्वारिवोत्पत्तिस्थानत्वात्। १ परमेश्वरे तस्य जन्मादिहेतत्वात् तथात्वम्। २ शिवे ३ विष्णौ ४ चतुर्मुखे तु नद्वभेदोपचारात् “जगद्योनिरयोनिस्त्वम्” कुमा० ब्रह्मस्तवे। “जगद्योनिं जगद्दीपं जयिनं जगतोगमिम” भा० भी० २० अ० शिवस्तवे। “नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम्” हरिव० १०७ अ०। विष्णुस्तवे। ५ पृथिव्यां शब्दच० तस्याः भूतचतुष्टयोत्पत्तिस्थानत्वात् तथात्वम्।

जगद्वहा = स्त्री जगन्ति वहति धारयति वह–अच्। सर्वधरायां मेदिन्याम् त्रिका०।

जगद्विनाश = पु० जगतोऽखिलकर्म्मवतो विनाशोऽत्र। कल्पान्ते प्रलयकाले। प्रलये च सर्व्वक्रियाशून्यत्वं यथाह मनुः। “यदा स्वपिति शान्तात्मा तदा सर्वं निमी लति। तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः। स्वकर्म्मभ्योनिवर्त्तन्ते मनश्च ग्नानिमृच्छति। युगपत् प्रलीयन्ते यदा तस्मिन् महात्मनि। तदाये सर्वभूतात्म सुखं स्वपिति निर्वृतः। तमीऽयन्तु समाश्रित्य चिरन्तिष्ठति सेन्द्रियः। न च स्वं कुरुते कर्म्म तदोत्क्रामति मूर्त्तितः”।

जगनु(न्नु) = पु० जगता नम्यते नम–बा० कर्म्मणि डुवा पृषो० तनोपः। १ जन्तौ वैश्वानरे २ वह्नौ च मेदि०। विश्वे जगन्नु रिति पाठस्तत्रार्थे। तत्र जन्तोश्चेतनत्वेन जगतां नम्यमानत्वात् वह्नेस्तु सर्वैर्नम्यमानत्वात् तथात्वम्

जगन्नाथ = पु० ६ त०। १ परमेश्वरे “एष सर्वेश्वरः” इत्यादिश्रुतेस्तस्य सर्वेश्वरत्वात् तथात्वम्। तदभेदात् २ विष्णौ। अर्श० अच्। ३ तदीयक्षबभेदे न० तत्क्षेत्रस्य तन्नामताकारणं स्कन्दपु० उत्कलखण्डे यथा “एतत्क्षेत्रवरं चास्य वपुर्भूतं महात्मनः। स्वयम् वपुष्मान् यत्रास्ते स्वनाम्ना ख्यापितं हि तत्”। तत्स्थानसीमातीर्थभेदादि पुरुषोत्तमतत्त्वे उक्त यथा ब्रह्मपुराण “पृथिव्यां मारतं वर्षं कर्म्मभूमिरुदाहृता। न खल्वन्यत्र मर्व्यानां भूमौ कर्म्म विधीयते। तत्रास्ते भारते सर्वे दक्षिणोदधिसंस्थितः। ओड्रदेश इति ख्यातः स्वर्गमीक्षप्रदायकः। समुद्रादुत्तरे तीरे यावद्विरजमण्डलम्”। तीर्थकाण्डकल्पतरौ वामनपुराणम् “उपोष्य रजनीमकां विरजां स नदीं ययौ। स्नात्वा वैरजसे तीर्थे दत्त्वा पिण्डं पितुस्तथा। दर्शनार्थं ययौ धीमानजितं पुरुषोत्तमम्। तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः। उपोष्य स तिलान् दत्त्वा महेन्द्र। दक्षिणं ययौ”। उपोष्य स्थित्वा। तथा “आदौ यद्दारु प्लवते सिन्धोः प्रारे अपूरुषम्। तदालभस्वदुर्दूनो! तेन याहि परं स्थलम्” तैत्ति० श्रुतिः। अस्य व्याख्या सांख्यायनभाष्ये “आदौ विप्रकृष्टे देशे वर्त्तमानं यद्दारु दारुमयं पुरुषोत्तमाख्यदेवताशरीरं प्लवते जलस्योपरि वर्त्तते अपूरुषं निर्म्मातृरहितत्वेन अपूरुषं तत् आलभस्व दुर्दूनो! हे! होतः, तेन दारुमयेन देवेन उपास्यमानेन परं स्थलं वैष्णवं लोकं गच्छेत्यर्थः। अथर्ववेदेऽपि “आदौ यद्दारु प्लवते सिन्धोर्म्मध्ये अपूरुषम्। तदा लभस्व दुर्दूनो तेन याहि परं स्थलम्”। अत्रापि तथैवार्थः मध्ये तीरे। स्कन्दपुराणम् “इन्द्रद्युम्न! प्रसन्नस्ते भक्त्या निष्कामकर्मभिः। उत्सृज्य वित्तकोटीस्तु यन्ममायतनं कृतम्। भङ्गेऽप्येतस्य राजेन्द्र! स्थानं न त्यज्यते मया”। ब्रह्मपुराणे “विरजे विरजा नाम ब्रह्मणा संप्रतिष्ठिता। तस्याः सन्दर्शने मर्त्यः पुनात्यासप्तमं कुलम्। स्नात्वा दृष्ट्वा तु तां देवीं भक्त्याऽऽ पूज्य प्रणम्य च। नरः स्ववंशमुद्धत्य मम लोकं स गच्छति। आस्ते वैतरणी नाम सर्वपापहरा नदी। तस्यां स्नात्वा नरश्रेष्ठ। सर्वपापैः प्रमुच्यते”। वैतरणी मधिकृत्य महाभारते “आयातभागं सर्वेभ्योभागेभ्यो भागमुत्तमम्। देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतीम्। इमां गाथां समुद्धृत्य मम लोकं स गच्छति। देवायनं तस्य पन्थाः शक्रस्यैव विराजते”। ब्रह्मपुराणे “आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम्। दृष्ट्वा प्रणम्य तं भक्त्या मरोविष्णुपुरं व्रजेत्”। तथा “विरजायां मम क्षेत्रे पिण्डदानं करोति यः। स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः। मम क्षेत्रे मुनिश्रेष्ठ! विरजे ये कलेवरम्। परित्यज्यन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै। नदी तत्र महापुण्या विन्ध्यपादविनिर्गता। चित्रोत्पलेति विख्याता सर्वपाप हरा शुभा”। चित्रोत्पला महानदी। तथा “सत्यं सत्यं पुनः सव्यं क्षेत्रं तत् परमं महत्। पुरुषाख्यं सकृद्दृष्ट्वा सागराम्मःसकृन्मृतः। ब्रह्मविद्यां सकृज्जत्वा गर्भवासो न विद्यते”। पुरुषोत्तमक्षेत्रदर्शनसागरमरणब्रह्मविद्याजपानां प्रत्येकं गर्मवासाजनकत्वम्। कूर्म्मपुराणे “तीर्थं नारायणस्यास्य स्नात्वा तु पुरुषोत्तमम्। अत्र नारायणः श्रीमानास्ते परमपूरुषः। पूजयित्वा परं विष्णुं तत्र स्नात्वा द्विजोत्तमाः!। ब्राह्मणान् भोजयित्वा तु विष्णुलोकमवाप्नुयात्”। श्राद्धकल्पतरौ वायुपुराणे “धूतपापं तथा तीर्थं सुभद्रादक्षिणस्तथा। गोकर्णोगजकर्णश्च तथा च पुरुषोत्तमः। एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते”। व्रह्मपुराणे “चक्रं दृष्ट्वा हरेर्दूरात् प्रासादोपरिसस्थितम्। सहसा मुच्यते पापात् सर्वस्मादिति मे मतिः”। तथा “मार्कण्डेयह्रदे गत्वा स्नात्वा चोदङ्मुखः शुचिः। निमज्जेत्त्रींश्च वारांश्च इमं मन्त्रमुदीरयन्”। “मार्कण्डेयह्नदे त्वेवं स्नात्वा दृष्ट्वा तु शङ्करम्। दशानामश्वमेधानां फलं प्राप्नोति मानवः। पापैः सर्वैर्बिनिर्मुक्त्वः शिवलोकं स गच्छति। तत्र भुक्त्वा वरान् भोगान् यावदाहूतसंपलवम्। इह लोकं सामासाद्य ततो मोक्षमवाप्नुयात्। कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिःप्रदक्षिणम्। पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम्”। “भक्त्या प्रदक्षिणं कृत्वा महाकल्पवटं नरः। सहसा मुच्यते पापात् जीर्णत्वच इवोरगः। छायां तस्य समासाद्य कल्पवृक्षस्य भो द्विजाः!। ब्रह्महत्यां नरो दह्यात् पापेष्वन्येपु का कथा। दृष्ट्वा कृष्णाङ्गसम्भूतं ब्रह्मतेजोमयं वटम्। न्यग्रोधाकृतिनं विष्णुं प्रणिपत्य च भोद्विजाः!। राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम्। तथा स्ववशमुद्वृत्य विष्णुलोकं स गच्छति। वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम्। सर्वपापविनिर्मुक्तस्ततोविष्णुपुरं व्रजेत्। दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम्। सङ्कर्षणं सुभद्राञ्च स याति परमां गतिम्। प्रविश्यायतनं विष्णोः कृत्वा तं त्रिःप्रदक्षिणम्। सङ्कर्षणं स्वसन्त्रेण भक्त्व्याऽऽ पूज्य प्रसादयेत्”। एवं प्रसाद्य चानन्तमजेयं त्रिदशार्च्चितम्। कैलाशशिखराकारं चन्द्रात् कान्ततराननम्। नीलवस्त्रधरं देवं फणाविकलमस्तकम्। महावलं हलधरं कुण्डलैकविभूषणम्! रौहिणेयं नरोभक्त्या लभेताभिमतं फलम्। सर्व्वपापविनिर्म्मुक्तोविष्णुलोकं स गच्छति। आहूतसंप्लवं यावत् भुक्त्वा तत्र सुखं नरः। पुण्यक्षयादिहागत्य पवरे योगितां कुले। ब्राह्मणप्रवरोभूत्वा सर्व्वशास्त्रार्थपारगः। ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभान्। एवगभ्यर्च्च्य हलिनं ततः कृष्णं विचक्षणः। द्वादशाक्षरमन्त्रेण पूजयेत् सुममाहितः”। आहूतसंप्लवं यावत् भूतसंप्लवं यावत् आप्रलय कालम् इति यावत् छान्दसोभकारस्य हकारः। द्वादशाक्षरमन्त्रेण ओं नमोभगवते वासुदेवाय इत्यनेन। “द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम्। पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै। तस्मात्तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम्। संपज्य गन्धमाल्याद्यैः प्रणिपत्य प्रसादयेत्” एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम्। सर्वपणहरं देवं सर्वकामफलप्रदम्। ज्ञानदं द्विभुजं देवं पद्मपत्रायतेक्षणम्। महोरसं महाबाहुं पीतवस्त्रं शुभाननम्। शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम्। सर्वलक्षणसंयुक्तं वनमालाविभूषितम्। दृष्ट्वा नरोऽञ्जलिं बद्ध्वा दण्डवत् प्रणिपत्य च। अश्वमेधसहस्राणां फलं प्राप्नोति भोद्विजाः!। यत् फलं सर्वतीर्थेषु स्नानदाने प्रकीर्त्तितम्। नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च”। अत्र यद्यपि दृष्ट्वा प्रणम्योति श्रवणात् समुच्चितएव फलान्वयोऽन्यथा वाक्यभेदः स्यात् तथापि शेषे दर्शनमात्र एव फलोपसंहारात् प्रत्येकं फलान्वयैति वदन्ति। ब्रह्मपुराणे “ततः पूज्य स्वमन्त्रेण सुभद्रां भक्तवत्सलाम्। प्रसादयेत्ततोविप्राः! प्रणि पत्य कृताञ्जलिः”। स्वमन्त्रेण प्रणवादिनमोन्तेन नाम्ना। यथा गारुडे “प्रणवादिनमोऽन्तेन चतुर्थ्यन्तञ्च सत्तमाः!। देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्त्तितः”। “एवं प्रमादा तां देवीं जगद्धात्रीं जगद्धिताम्। बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम्। कामगेन विमानेन नरोविष्णुपुरं व्रजेत्। निष्क्रम्य देवतागारात् कृतकृत्योभवेन्नरः। प्रणम्यायतनं पश्चात् वजेत्तत्र च भोद्विजाः!। भक्त्या दृष्ट्वा च तं देवं प्रणम्य नरकेशरिम्। मुच्यते पातकैर्म्मर्त्यः समस्तैर्नात्र संशयः”। नरकेशरिं नरकेशरिणम्। तथा ‘अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च। सर्वपापविनिर्मुक्तोनरोयाति परंपदम्’। तथा “श्वेतगङ्गां नरः स्नात्वा यः पश्येत् श्वेतमाधवम्”। तथा “कुशाग्रेणापि राजेन्द्र! श्वेतगाङ्गेयमम्वु च। स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः। यस्त्विमां प्रतिमां लोके माधवाख्यां शशिप्रभाम्। विहाय सर्वलोकान् वै मम लोके मही यते”। तथा “श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम्। एकार्णवजले मग्नं रोहितं रूपमास्थितम्। वेदानां तारणार्थाय रसातलतले स्थितम्”। तथा “आद्यावतारणं रूपं माधवं मत्स्यरूपिणम्। प्रणम्य प्रयतोभूत्वा सर्व्वदुःखाद्विमुच्यते”। तथा “पूर्व्वोक्तेन तु मन्त्रेण नमस्कृत्य तु तं वटम्। दक्षिणाभिमुखोगच्छेत् धन्वन्तरशतत्रयम्”। धनुश्चतुर्हस्त्वम्। तथा “उग्र सेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम्। गत्वाचम्य शुचिस्तत्र ध्यात्वा नारायणं परम्। न्यसेदष्टाक्षरं मन्त्रं पश्चाद्धस्तशरीरयोः”। “समुद्रोदकेन नाचामेत्” तस्यापेयत्वस्य तैत्तिरीयश्रुतावुक्तत्वात्। “यैः कृतः सर्वभक्षोऽग्निस्त्वपेयश्च महोदधिः। क्षयी चाप्यायितश्चन्द्रः कोन नश्येत् प्रकोप्य तान्” इति मनुनाभिहितत्वाच्च” तस्यास्मृश्यत्वेऽपि विधिभेदेनैव तस्य स्पृश्यता यथाह ब्रह्मपुराणम् “एवमुच्चार्य्य विधिवत्ततःस्नानं समाचरेत्। अन्यथा भोद्विजश्रेष्ठाः! स्नानं तत्र न शस्यते”। वनपर्वणि “अग्निश्च तेजो वडवा च देहोरेतोधाविष्णोरमृतस्य नाभिः। एवं ब्रुवन् पाण्डव! सत्यवाक्यमतोऽवगाहेत अप्तिं नदीनाम्। अन्यथा हि कुरुश्रेष्ठ! स्प्रष्टव्योन महौदधिः। कुशाग्रेणापि कौन्तेय! देवयोनिरपांपतिः। देवान् पितॄंस्तथा चान्यान् सन्तर्प्याचम्य वाग्यतः” (अन्यान् ऋषीत्) ब्रह्मपु०। “कृत्वा त्वाब्दैवतै र्मन्त्रैरभिषेकञ्च मार्ज्जनम्। अन्तर्जले जपेत् पश्चात् त्रिरावृत्त्यघमर्षणम्”। अव्दैवतैः “आपोहिष्ठा” इत्यादिभिः। अघमर्षणम ऋतञ्च सत्यञ्चेत्यादि। “हस्तमात्रं चतुःकोणं चतुर्द्वारं सुशोभनम्। पुरं विलिख्य भो विप्रास्तीरे तग्य महोदधेः। एवं मण्डलमालिख्य पूजये त्तत्रभोद्विजाः!। अष्टाक्षरविधानेन नारायणमजं विभुम्। ओंनमो नारायणाय” इत्यष्टाक्षरमन्त्रः। ब्रह्मपुराणे “तीर्थे चाभ्यर्च्च्य विधिवत् नारायणमनामयम्। रामं कृष्णं सुभद्राञ्च प्रणिपत्य च सागरम्। दशानामश्वमेधानां फलं प्राप्नोति मानवः। सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः। कुलैकविंशमुद्धृत्य विष्णुलोकञ्च गच्छति। पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः। अक्षयां पितरस्तेषां तृप्तिं संप्राप्नुवन्ति वै”। तथा “कोट्यो नव नवत्यश्च तत्र तीर्थानि सन्ति वै। तस्मात् स्नानञ्च दानञ्च होमं जपसुरार्च्चनम्। यत् किञ्चित् क्रियते तत्र चाक्षयं भवति द्विजाः!। ततोगच्छेतद्विजश्रेष्ठाः! तीर्थं यज्ञाङसम्भवम्। इन्द्रद्युम्नसरोनाम यत्रास्ते पावनं शुभम्। गत्वा तत्र शुचिः श्रीमानाचम्य मनसा हरिम्। ध्यान्वोपस्थाय च जपन्निदं मन्त्रमुदीरयेत्”। “एवमुच्चार्य्य विधिवत् स्नात्वा देवानृषीन् पितॄन्। तिलोदकेन चान्यांश्च सन्तर्प्याचम्य वाग्यतः। दत्त्वा पितॄणां पिण्डांश्च संपूज्य पुरुषोत्तमम्। दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः”। तथा “नाना नद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे। ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा। स्नानदानादिकं तस्मात् देवताप्रेक्षणादिकम्। यत् किञ्चित् क्रियते तात! तस्मिन्। कालेऽक्षयं भवेत्। एवं कृत्वा पञ्चतीर्थमेकादश्यामुपोषितः”। “ज्यैष्ठे शुक्ल दशम्यान्तु पश्येत् श्रीपुरुषोत्तमम्। स पूर्वोक्तं फलं प्राप्य क्रीडित्वा चाच्युतालये। प्रयाति परमं स्थानं यस्मान्न विनिवर्त्तते”। तीर्थभेदेन स्नानान्तरावृत्तिमाह निगमः। “नावर्त्तयेत् पुनः कर्म्म तर्पणादिकमन्वहम्। काम्यनैमित्तिके हित्वा एकं ह्येकत्र वासरे। व्यपोह्य चाष्टमं भागमुदयाद्यत्र कुत्रचित्। तिथ्योर्युग्मेऽप्ययुग्मे वा यद्यदाह्निकमाचरेत्”। ब्रह्मपु० “मार्कण्डेयाबटः कृष्णोरौहिणेयोमहोदधिः। इन्द्रद्युम्नसरश्चैव पञ्चतीर्थी विधिः स्मृतः”। मार्कण्डेयावटोमार्कण्डेयह्रदः। कष्णोऽक्षयवटः “न्यग्रोधाकृतिनं विष्णुमिति” पूर्वोक्तात्। वराहपुराणे “यस्तिष्ठेदेकपादेन कुरुक्षेत्रे नराधिप!। वर्षाणामयुतं सप्त वायुभक्षोजितेन्द्रियः। ज्यैष्ठे मासि सिते पक्षे द्वादश्यान्तु विशेषतः। पुरुषोत्तममासाद्य ततोऽधिकफलं लभेत्। अग्निपुराणे “वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता। तत्र मां लेपयेद्गन्धलेपनैरतिशोभनम्”। तथा “ज्यैष्ठ्यामहञ्चावतीर्णस्तत् पुण्यं जन्मवासरम्। तस्यां मे स्नपनं कुर्य्यात् महास्नानविधानतः। ज्यैष्ठे प्रातस्तने काले ब्रह्मणा सहितञ्च माम्। रामं सुभद्रां संस्नाप्य मम लोकमवाप्नुयात्”। तथा “आषाढम्य सिते पक्षे द्वितीया पुष्यसंयुता। तस्यां रथे समारोप्य रामं मां भद्रया सह। यात्रोत्सवं प्रवर्त्त्याथ प्रीणयेच्च द्विजान् बहून्”। तथा “पुष्याभावात्तथा कार्य्या सदा सा प्रीतये मम”। स्कन्दपुराणे “फाल्गुन्यां क्रीडनं कुर्य्यात् दोलायां मम भूमिप!”। ब्रह्मपुराणे “उत्तरे दक्षिणे विप्रास्त्वयने पुरुषोतमे। दृष्ट्वा रामं सुभद्राञ्च विष्णु लोकं व्रजेन्नरः। नरोदोलागतं दृष्ट्वा गोविन्दं पुरु- षोत्तमम्। फाल्गुन्यां संयतोभूत्वा गोविन्दस्य पुरं व्रजेत्। विषुवद्दिवसे प्राप्ते पञ्चतीर्थीविधानतः। कृत्वा मञ्चगतं कृष्णं दृष्ट्वा तत्राथ भोद्विजाः। नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्। विमुक्तः सर्वपापेभ्योविष्णुलोकञ्च गच्छति। यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम्। वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम्”। तथा “मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदैवते। पौर्णमास्यां तथा स्नानं सर्वकालं हरेर्द्विजाः। तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम्। बलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम्। तथा “स्नातः पश्यति यः कृष्णं व्रजन्तं दक्षिणामुखम्। गुण्डिकामण्डपं यान्तं ये पश्यन्ति तथास्थितम्। कृष्ण वलं भुभद्राञ्च ते यान्ति भवनं हरेः। ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम्। हरिं रामं सुभताञ्च विष्णुलोकं व्रजन्ति ते”। तथा, सम्बत्सरमुपोषित्वा मासत्रयमथापि वा। तेन जप्तं हुतं तेन तेन तप्तं तपोमहत्। स याति परमं स्थानं यत्र योगेश्वरोहरिः”। तथा “दृष्ट्वा रामं महाज्यैष्ठ्यां कृष्णं सह सुभद्रया। विष्णुलोकं नरो याति समुद्धृत्य शतं कुलम्”। तथा “वार्षि कांश्चतुरोमासान् यावत् स पुरुषोत्तमे। काशीवासयुगान्यष्टौ दिनेनैकेन लभ्यते”। मत्स्यपुराणे “कोटिजन्मकृतं पापं पुरुषोत्तमसन्निधौ। कृत्वा सूर्य्यग्रहे स्नानं विमुञ्चति महोदधौ’। ब्रह्मपुराणे “पथि श्मशाने गृहमण्डपे वा रथ्याप्रदेशेऽपि च यत्र तत्र। इच्छन्ननिच्छन्नपि यत्र तत्र संत्यज्य देहं लभते च मोक्षम्। देहं त्यजन्ति पुरुषाः ये तत्र पुरुषोत्तमे। कल्पवृक्षं समासाद्य मुक्तास्तेनात्र संशयः। वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम्। ते दुर्लभं परं मोक्षमाप्नुवन्ति न संशयः”। तत्रैव “तथा चैवोत्कले देशे कीर्त्तिवासा महेश्वरः। सर्वपापहरं तस्य क्षेत्रं परमदुर्लभम्। लिङ्गकोटिसमायुक्तं वाराणस्या समं शुभम्। एकाम्रकेति विख्यातं तीर्था ष्टकसमस्थितम्। तीर्थं विन्दुसरोनाम तस्मिन् क्षेत्रे द्विजो त्तमाः!। देवानृषीन् मनुष्यांश्च पितॄन् सन्तर्पयेत्ततः। तिलोदकेन विधिना नामगोत्रविधानवित्। स्नात्वैवं विधिवत्तत्र सोऽश्वमेधफलं लभेत्। पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस्तटे। पितॄणामक्षयां तृप्तिं ते कुर्व्वन्ति न संशयः। ततः शम्भोर्गृहं गच्छेद्वाग्य तः संयतेन्द्रियः। प्रविश्य पूजयेत् पूर्वं कृत्वा तत्र प्रदक्षिणम्। ग्रगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम्। अदीक्षितश्च वा देवान् म्लमन्त्रेण चाच्चयेत्”। तथा सर्वपापविनिर्मुक्तोरूपयोवनगर्वितः। कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति’। पश्येद्देवं विरूपाक्षं देवीञ्च शारदां शिवाम्। गणचण्डं कार्त्तिकेयं गणेशं वृषमं तथा। कल्पद्रुमञ्च सावित्रीं शिवलोकं स गच्छति। एतन्मया मुनिश्रेष्ठाः। क्षेत्रं प्रोक्तं सुदुर्लभम्। कोलार्कस्योदधेस्तीरं भक्तिमुक्ति फलप्रदम्। स्नात्वैव सागरे दत्त्वा सूर्य्यायार्घं प्रणम्य च। नरोवा यदि वा नारी सर्वकामफलं लभेत्। ततः सूर्य्यालयं गच्छेत् पुष्पमादाय वाग्यतः। प्रविश्य पूजयद्भानुं कुर्य्यात्त त्रिःप्रदक्षिणम्। दशानामश्वमेधानां फलं प्राप्नोति भानवः” स्कन्दपु० उत्कलखण्डे। “तथा चानदिनं देव्याः सिद्धाः ब्रह्मर्षयस्तथा। समर्च्चि तुमिहायान्ति देवेशं न तथान्यतः। अहो तत्परमं क्षत्रं विस्तृतं दशयोजनैः। तीर्थराजस्य सलिलादुत्थितं वाल्काचितम्। नीलाचलन महता मध्यस्थेन विराजितम्। एक स्तनमिव पृथ्व्याः सुदूरात् परिभावितम्”। ब्रह्माणं प्रति विष्णुवाक्यम्। “सागरस्योत्तरे तीरे महा नद्यास्तु दक्षिणे। स प्रदेशः पृथिव्यां हिं सर्व्वतीर्थ फलप्रदम एकाम्रकाननाद् यावद् दक्षिणोदधितीरभूः। पदात् पदात् श्रेष्ठतमः क्रमेण परिकीर्त्तितः! सिन्धु तीरे च यो ब्रह्मन् गजते नीलपर्व्वतः। पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम्। सुरासुराणां दुर्ज्ञेयं माययाच्छादित मम। सर्व्वसङ्गपरित्यक्त स्तत्र तिष्ठामि देहभृत्। सृष्ठ्या लयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम्। नीलाद्रेरन्तरभुवि कल्पन्यग्रोधमूलतः। वारुण्यां दिशियत् कुण्डं रोहिणं नाम विश्रुतम्। तत्तीरे निवसन्तो मां पश्यलश्चर्मचक्षुषा। तदम्भसा क्षीणपापा मम सायुज्यमाप्नुयुः। व्रतेषु तीर्येषु च यज्ञदानयोः पुण्यं यदुक्त विमलात्मनां हि। अहर्निवासाल्लभते च सर्वं निमेबवासात् खलु चाश्वमेधिकम्” “जैमिनिरुवाच। उदकार्तः समागत्य कुतश्चिद्वायसोत्तमः। कारणोदक संपूर्णे तस्मिन्कुण्डे निमज्जितः। विलोक्य माधवं नीलरत्नकान्तिं कृपानिधिम्। काकदेहं समुत्सृज्य लुठमानं मुहुः क्षितौ। शङ्खचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः”। यमं प्रति लक्ष्मी वाक्यम्। “पञ्चक्रोशमिदं क्षेत्र समुद्रान्तर्व्यवस्थितम्। त्रिकोश तीर्थराजस्य तट भूमौ सुनिर्म्मलम्। सुवर्णवालुकाकीर्णं नीलपर्ब्बत शोभितम्। योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः। संयम्य विषयग्रामं समुद्रतटमास्थितः। उपासितुं जगन्नाथं चतुःषष्ट्युत्तमः प्रभुः। यमेश्वर इतिख्यातो यमसंयमनाशनः। यं दृष्ट्रा पूजयित्वा तु कोटि लिङ्गफलं लभेत्। सीमा प्रतीचि क्षेत्रस्य शङ्खाकारस्य मूर्द्धनि। शङ्खाग्रे नीलकण्ठः स्यादेतत् क्रोशं सुदुर्लभम्। परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै। शङ्खस्योत्तरभागस्तु समुद्रोदकसंप्लुतः। यत्सम्पर्कात् समुद्रोऽत्र तीर्थराजत्वमागतः। यथाऽयं भगवान् मुक्तिप्रदोदृष्टि पथं गतः। तथेदं मरणात् क्षेत्र सिन्धुस्नानाद्विमुक्तिदम्। चिच्छेद ब्रह्मणः पूर्व्वं रुद्रः क्रोधात्तु पञ्चमम्। तच्छिरो दुस्त्यजं ब्रह्मन्। व्रह्माण्डं परिवभ्रमे। तत्रागतो यदा ब्रह्म कपालं परिमुक्तवान्। कपालमोचनं तीर्थं द्वितीयावर्त्तसंस्थितम्। तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम्। तृतीयावर्त्तसीमायां शक्तिं मे विमलाह्वयाम्। जानीहि धर्मराज! त्वं भुक्तिमुक्तिफल प्रदाम्। नाभिदेशे स्थितं ह्येतत् त्रयं कुण्डं वटो विभुः कपालमोचनं यावदर्द्धाशनी प्रतिष्ठिता। मध्यं शङ्खस्य जानीयात् सुगुप्तं चक्रपाणिना। तां दृष्ट्वा प्रणमेद् यस्तु भोगान् सोऽश्नाति शाश्वतान्। सिन्धुराजस्य सलिलात् यावन्मूलं वटस्य वै। कीटपक्षिमनुष्याणां मरणात् मुक्तिदो मतः। अन्तर्वेदीतीयं पुण्या वाञ्छ्यते त्रिदशैरपि। अत्रस्थितान् हि पश्यन्ति सर्व्वांश्चक्राब्जधारिणः। कामाख्या क्षेत्रपालश्च विमलां चान्तरा स्थिता। साक्षाद्ब्रह्म स्वरूपोऽसौ नृसिंहो दक्षिणे विभोः। अन्तर्वेद्या रक्षणार्थं शक्तयोऽष्टौ प्रकल्पिताः। उग्रेण तपसा पूर्वमहं सर्वेण भाविता। पत्न्यर्थं सा मया सृष्ट्वा गौरी तप्त्वाथ भाविनी। सर्वसौन्दर्य्यवसतिर्वपुषोमे विनिर्गता। तदा दृष्टा मया भद्रे वचनं मे प्रियं कुरु। अन्तर्वेदीं रक्ष मम परितस्त्वं स्वमूर्त्तिभिः। साऽत्र तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता। मङ्गला वटमूले तु पश्चिमे विमला तथा। शङ्खस्य पूर्वभागे तु सस्थिता सर्व मङ्गला। अर्द्धाशनी तथा लम्बा कुवेरदिशि संस्थिता। कालरात्रिर्दक्षिणस्यां पूर्व्वस्यान्तु मरीचिका। कालरात्व्यास्तथा पश्चात् चण्डरूपा व्यवस्थिता। रुद्राण्या श्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शङ्करः। आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम्। कपालमोचनं नाम क्षेत्रपालं यमश्वरम्। मार्कण्डेयं तथेशानं विश्वेशं नीलकण्ठकम्। वटमूले वटेशञ्च लिङ्गान्यष्टौ महेशितुः। यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते”। तन्नैवेद्यान्नस्य चण्डालादिस्पर्शे स्थानभेदे भोज्यता। कैश्चिदपि निबन्धृभिः तन्नैवेद्यान्नस्य चण्डालादिना स्पर्शे भोज्यताया अनुक्तेः तन्मूलीभूतवचनानाम मूलकत्वं निबन्धृभिरधृतत्वात् समूलकत्वे तत्क्षेत्रमध्ये एव भक्ष्यता तथाहि “प्रविशन्तस्तु तत्क्षेत्रं सर्वेः स्युर्विष्णुमूर्त्तयः। यत्रान्नपाचिका लक्ष्मर्भोक्ता यत्र जनार्दनः। चण्डालेनापि संस्पृष्टं ग्राह्यं तत्रान्नमग्रजैः” ब्रह्मवैवर्त्तपुराणवचनस्य समूलत्वे तत्क्षत्रप्रवेशमात्रेण सर्वेषाम् विष्णुमूर्त्तित्वनिर्देशेन तत्क्षेत्रस्थे एवान्त्यजादिस्पर्शे न दुष्टत्वं नान्यत्री। “विष्ण्वालयगतं तद्धि निर्माल्यं पतितादयः। स्पृशन्ति चेन्न दुष्टं हि यथा विष्णुस्तथैव ते” इति उत्कलखण्डीयवाक्यस्य समूलत्वे विष्ण्वालयगतमिति विशेषणात् तत्रैव तस्य स्पर्शदोषराहित्यं नेतरत्र। यत्तु “चिरस्थमपि संशुष्कं नीतं वाऽदूरदेशतः। यथा तयोपयुक्तं तु सर्वपापापनोदनम्” तत्रत्यवाक्यान्तरम् तत्र नीतं वाऽदूरदेशत इत्यकार प्रश्नेषः वोध्यः वा एवार्थे अदूरत एव निकटेस्थितमेव नीतं केनापि दुष्टतामिति व्याख्येयम् पूर्व्वोक्तवचनद्वयैकवाक्यत्वात्। वैष्णवास्तु तन्न मन्यन्ते। ते हि सर्वत्र तदन्नस्योपयोगं कुर्वन्ति। वङ्गदेशीयानां स्मार्त्तानां तु अन्यस्थानगतस्य पावनत्वेऽपि न भक्षणाचरणम्। “शाल्ग्रामो हरेर्मूर्त्तिर्जगन्नाथस्य भारत!। कलेर्दशसहस्रान्ते त्यक्त्वा यायात् हरेः पदम्” ब्रह्मवै० पु०। “कलेर्दश सहस्राणि विष्णुस्तिष्ठतिमेदिनीम्। तदर्द्धं जाह्नवीतोयं तदर्द्धं ग्राम्यदेवता” इति च पठन्ति। “विमला तत्र देवः स्यात् जगन्नाथस्तु भैरवः” इति तन्त्रोक्ते तत्क्षेत्रस्थे पीठरक्षके ३ भैरवभेदे पु०। भामिनीविलासरसगङ्गाधरादिग्रन्थकारके ४ विद्वद्भेदे। “जगन्नाथस्यायं सुरधुनि! समुद्धारसमयः” तत्कृतगङ्गालहरी

जगन्निवास = पु० ६ त०। १ परमेश्वरे तदभेदात् २ विष्णौ च “जगन्निवासो वसुदेवसद्मनि” माघः। ईश्वरस्य प्रलये सर्वभूताधारत्वात् तथात्वम्।

जगन्मङ्गल = न० जगतां मङ्गलं यस्मात्। कालीकवचभेदे “श्रीजग न्मङ्गलं नाम कवचं पूर्वसूचितम्” भैरवीत०।

जगन्मोहिनी = स्त्वी जगन्ति मोहयति मुह–णिच्–णिनि ६ त०। १ महामायायां २ तदभिमानिन्यां दुर्गायां च।

जगर = पु० जागर्त्तियुद्धेऽनेन जागृ–अच् पृषो०। कवचे हेम०।

जगल = पु० जन–ड गल–अच् कर्म्मधा०। १ सुराकल्के (मेओया) अमरः २ मदनवृक्षे ३ पिष्टमद्ये ४ धूर्त्ते त्रि० मेदि० कवचे न० हेम०। गोमये न० रत्नमाला। तत्र सुराकल्कगुणाः भावप्र० उक्ता यथा “ग्राह्युष्णोऽजगलः पक्ता रूक्षतृट्कफ शोफहृत्”।

जग्ध = त्रि० अद–कर्म्मणि क्त। १ भुक्ते अमरः मावे क्त। २ भोजने न०।

जग्धि = स्त्री अद–क्तिन्। १ भोजने, २ सहभोजने च अमरः। “गर्हितान्नाद्ययोर्जग्धिः” स्मृतिः।

जग्मि = पु० गम–किन् द्वित्वम् १ वायौ तस्य सततगतित्वात् तथात्वम्। २ गन्तरित्रि० स्त्रियां वा ङीप्।

जगुरि = त्रि० गॄ–निगरणे किन् द्वित्वं वेदे उत्त्वम्। उद्गूर्ण्णे। “दूरे ह्यध्वा जगुरिः पराचैः” ऋ० १०। १०८। १। २ जङ्गमे च “इमामृचमधिकृत्य जगुरिः जङ्गम्यतेः” ११। २५। निरुक्ते उक्तेस्तथात्वम्

जघन = न० वक्रं हन्ति हन–यङ् अच् पृषो०। स्त्रीणां १ श्रीणिपुरोभागे, २ श्रोणौ च। “चीनांशुकमिव पीनस्तनजघनायाः कुलीनायाः” उद्भटः। “जघनेन घनेन सा” भट्टिः। “गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्। प्रयागं जघनस्थानम्” भा० व० ८५ अ०।

जघनकूपक = पु० द्वि० ब० जघनस्य कूप इव कायतः कै–क। कुकुन्दरयोः हला०।

जघनचपला = स्त्री “प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तु चपलायाः। लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला” वृ० र० उक्ते मात्रावृत्तभेदे।

जघनेफला = स्त्री० जघने इव मध्यभागे फलमस्याः अलुक्स०। काकोडुम्वरिकायाम् अमरः।

जघन्य = त्रि० जघनमिव शाखा० यत् जघने भवः दिगा० यत् वा। १ चरमे २ गर्हिते “धर्म्मार्थकामाः सममेव सेव्यायोह्येकसक्तः स जनोजघन्यः” ३ लक्षणयुक्ते नरे ४ अल्पे ५ शूद्रे च शब्दर०। “जघन्यं सेवमानान्तु संयतां वासयेद्गृहे। उत्तमां सेवमानस्तु जघन्योबधमर्हति” मनुः वर्ग्यादि० अकर्मधारये तत्पुरुषे अस्मात् उत्तरपदस्याद्युदात्तता। ६ राजानुचरभेदे तल्लक्षणादि वृ० स० ६९ अ० उक्तं यथा “पञ्चापरे वामनको जघन्यः” इत्यादिना। विभज्य “मालव्यसेवी तु जघन्यनाद्या खण्डेन्दुतुल्यश्रवणः सुगन्धिः। शुक्रैणसारः पितुनः कबिश्च रूक्षच्छविः स्थूलकराङ्गुलीकः। क्रूरो धनी स्थूलमतिः प्रतीतस्ताम्रच्छविः स्यात् परिहासशीलः, उरोऽङ्घ्रिहस्तेष्वसिशक्तिपाशपरश्वधाङ्कश्च जघन्यनामा”। “जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः” गीता।

जघन्यज = पु० जघन्ये चरमे जायते जन–ड। १ शूद्रे, २ कनिष्ठे त्रि० मेदि०। “ततोविष्णुरजघन्यो जघन्यजः” हरिव० ९ अ०। “जघन्यजस्तक्षकश्च श्रुतसेनेति यः सुतः” भा० आ० ३ अ० जघन्यप्रभवादयोऽप्यत्र। “जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः” मनुः।

जघन्यभ = न० कर्म्म०। “आर्द्राश्लेषा तथा स्वातिर्ज्येष्ठा च भरणी तथा। शततारा जघन्यानि तारासु कथितानि वै” ज्यो० उक्तेषु षट्सु नक्षत्रेषु।

जघ्नि = पु० हन–किन् द्वित्वञ्च। हननसाधनास्त्रादौ।

जघ्नु = त्रि० हन–कु द्वित्वञ्च। घातके उणा०।

जघ्रि = त्रि० घ्रा–किन् द्वित्वम्। घ्राणकर्त्तरि “भ्राजन्त्यभि विक्त जघ्रिः” ऋ० १। १६२ १५।

जङ्गम = त्रि० गम–यड्–अच्। सततगतियुते। “शरीरिणां स्थावरजङ्गमानाम” कुमा० “गुल्मैः स्थावरजङ्गमैः” मनुः

जङ्गमकुटी = त्री जङ्गमा कुटीव। छत्त्रे त्रिका०।

जङ्गमगुल्म = पु० कर्म्म०। रक्षके पदातिसमूहे “एवंविधान्नृपोदेशान् गुल्मैः स्थावरजङ्गमैः। तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत्” मनुः।

जङ्गमविष = न० सुश्रुतोक्ते विषभेदे तत्स्थानादि तत्रोक्तं यथा “अथाऽतो जङ्गमविषविज्ञानीयमध्यायं व्याख्यास्यामः। जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश। समासेन मया यानि विस्तरस्तेषु वक्ष्यते। तत्र दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुखसन्दंशविशर्द्धितगुदास्थिपित्तशूकशवानीति। तत्र दृष्टिनिःश्वासविषास्तु दिव्याः सर्पाः। भौमास्तु दंष्ट्राविषाः। मार्जारश्ववानरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाक (सौम्यकीटभेदः) गृहगोधिका कृकलासचतुष्पादकीटास्तथान्ये दंष्ट्रानखविषाः। चिपिटपिच्चटककषायवासिकसर्षपवासिक तोटकवर्च्चःकीटकौण्डिल्यकाःशकृन्मूत्रविषाः। मूषिकाः शुक्रविषाः। लूताश्च लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्त्तवविषाः। वृश्चिकविश्वम्भरराजीवमतस्योच्चिटिङ्गाः समुद्रवृश्चिकाश्चालविषाः (अनःपुच्छाग्रवर्त्तिकण्ठकः) (हुल) इति। चित्रशिरःसरावकुर्दिशतदारुकारिमेदकशारिकामुखामुखसन्दंशविशर्द्धितमूत्रपुरीषविषाः। मक्षि- काकणभजलायुका मुखसन्दंशविषाः। विषहतास्थिसर्पकण्टकवरटीमत्स्यास्थिकेत्यस्थिविषाणि। शकुलीमत्स्यरक्तराजीवरकमत्स्याश्च पित्तविषाः। सूक्ष्मतुण्डोच्चिटिङ्गवरटाशतपदीशूकवलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः। कीटसर्पदेहा गतासवः शवविषाः शेषास्त्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः। राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण। संदूषयन्त्यभिरतिप्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेच्च। दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतञ्च। मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति। मज्जन्ति ये चात्र नराश्वनागास्तेच्छर्द्दिमोहज्वरदाहशोफान्। गच्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत”।

जङ्गल = न० गल–यङ्–अच् पृषो०। १ यने, २ रहसि शब्दार्थचि० ३ मांसे स्त्री मेदि० ४ निर्वारिदेशे शब्दर०।

जङ्गाल = पु० गम–यङ् लुक् बा० ड जङ्गं कुटिलगतिम् अलति वारयति अल–अण्। जलगतिवारणार्थे सेतौ (जाङ्गाल) जटाधरः।

जङ्गिड = पु० राक्षसादिभयनिवारके मणिभेदे। “मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम्” “अयं नोविश्वभेषजं जङ्गिडः पात्वंहसः” “देवैर्दत्तेन मणिना जङ्गिडेनमयोभुवा” अथ० २। ४। १। ३। ४।

जङ्गुल = न० गम–यङ् लुक् वा० डुल। विषे त्रिका०।

जङ्घा = स्त्री जंघन्यते कुटिलं गच्छति गत्यर्थकस्य हन्तेः कौटिल्ये यङ् लुकि अच् पृषो०। गुल्फजान्वोरन्तराले अवयवे अमरः। “पादजङ्घयोः सन्धाने गुल्फः” “जङ्घयोः सन्धाने जानु नाम” सुश्रु०। “चत्वार्य्यरत्निकास्थीनि जङ्घयोस्तावदेव च” याज्ञ०।

जङ्घाकर = त्रि० जङ्घां तत्साध्यगतिं करोति कृ–“दिवाविभेत्यादिना” पाट०। जङ्घाकरिके धावके जङ्घाकर + स्वार्थे क। तत्रार्थे

जङ्घाकरिक = त्रि० कॄ–अप् करः विक्षेपः ६ त० ततः अस्त्यर्थे ठन्। जङ्घाचालनेनाजीविनि धावके (धाउडे) अमरः।

जङ्घात्राण = न० त्रायतेऽनेन त्रै–करणे ल्युट् ६ त०। जङ्घासन्नाहे त्रिका०।

जङ्घाप्रहत = त्रि० जङ्घा तद्गतिः प्रहतास्य निष्ठान्तत्वात् परनि जङ्घागतिशून्ये मन्दगतिके। ततः अक्षद्यूता० निर्वृत्तेऽर्थे ठञ्। जाङ्घाप्रहतिक तन्निर्वृत्ते त्रि०।

जङ्घाप्रहृत = त्रि० जङ्घा प्रहृताऽस्य। प्रहृतजङ्घाव्यापारे। ततः अक्षद्यूता० निर्वृत्तेऽर्थे। जाङ्घाप्रहृतिक तन्निर्वृत्ते त्रि०।

जङ्घाबन्धु = पु० ऋषिभेदे। “जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः” भा० स० ४ अ०।

जङ्घारथ = पु० जङ्घा रथ इव यस्य। ऋषिभेदे। तस्य गोत्रापत्यम् इञ्। जाङ्घारथि तद्गोत्रापत्ये बहुत्वे तु यस्का० गोत्रप्रत्ययस्य लुक्। जङ्घारथास्तद्गोत्रापत्येषु

जङ्घारि = पु० विश्वामित्रभेदे। “मार्गमर्षिर्हिरण्याक्षो जङ्घारि र्बाभ्रवायणिः” भा० आनु० ४ अ०। विश्वामित्रपुत्रोक्तौ।

जङ्घाल = त्रि० जङ्घा वेगवती अस्त्यस्य लच्। धावके जङ्घाजी विनि। “हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः। राजीवश्च, तथा मुण्डी जङ्घालाः परिकीर्त्तिता” भावप्र० उक्तेषु मृगेषु पु० स्त्री। “जङ्घालाः प्रायशः सर्व्वे पित्तश्लेष्महराः स्मृताः। किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः भावप्र० तन्मांसगुणोक्तिः।

जङ्घाशूल = न० जङ्घायाः शूलमिव। जङ्घायां व्यथाकारके शूलरोगभेदे। “जङ्घाशूलमुरुस्तम्भं सप्तरात्रेष नाशयेत्” गरुडपु०।

जङ्घिल = त्रि० अतिशयवेगवती जङ्घास्त्यस्य पिच्छा० इलच्। वेगवज्जङ्घाविशिष्टे धावके।

***