छा = पु० छो–क्विप्। १ पारदे एकाक्षरको० २ छेदनकर्त्तरि त्रि०।

छाग = पुंस्त्री छो–गन् स्वनामख्याते पशुभेदे अमरः। जातित्वात् स्त्रियां ङीष्। २ पुरोडाशे न० शब्दार्थचि०। छाग्या दुग्धम् अण्। २ छाग्या दुग्धे न० छागस्येदमण्। ४ छागसम्बन्धिनि त्रि० स्त्रियां ङीप्। छागस्य लक्षणादिकं वृ० सं० दर्शितं यथा “छागशुभाशुमलक्षणमभिधास्ये नवदशाष्टदन्तास्ते। घन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये। दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति। ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमपि शुमदम्। स्तनवदवलम्बते यः कण्ठेऽजानां मणिः स विज्ञेयः। एकमणिः शुभफलकृद्धन्यतमा द्वित्रिमणयो ये। मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च। अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च। विचरति यूथस्याग्रे प्रथमं चाम्भोऽवगाहते योऽजः। स शुभः सितमूर्धा वा मूर्धनि वा टिक्किका यस्य। स पृषतकण्टशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः। कृष्णचरणः सितो वा कृष्णो वा श्रेतचरणो यः। यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन। यो वा चरति सशब्दं मन्दं च स शोभनश्छागः। ऋष्यशिरोरुहपादो यो वा प्राक्पाण्डुरोऽपरे नीलः। स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गोक्तः। कुट्टकः कुटिलश्चेव जटिलो वामनस्तथा। ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते। अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कनखा विवर्णाः। निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये चासिततालुजिह्वाः। वर्णैः प्रशस्तैर्मणिभिश्च युक्ता मुण्डाश्च ये ताम्रविलोचनाश्च। ते पूजिता वेश्मसु मानवानां सौख्यानि कुर्वान्त यशः श्रियं च”। बलौ तस्य शुभाशुभत्व युक्तिकल्पतरौ दर्शितं यथा “तेषा शुभाय निर्दिष्टं पशुवस्तुत्रयं बलौ। ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैब च। देवजातिभिरुत्सृज्यास्ते सर्वार्थोपसिद्धये। ये पीता हरिता वापि नरजातेरुदीरिताः। ये शुक्लाश्च महान्तो वा रक्षो जातेः शुमप्रदाः। यो मोहादथ वाऽज्ञानाद्बलिमन्ये प्रयच्छति। बध एव फलं तस्य नान्यत् किञ्चित् फलं भवेदिति”। तन्मासगुणा भावप्र० उक्ता यथा “छागलो वर्करश्छागो वस्तोऽजः छेलकः स्तुभः। अजा छागी स्तुभा चापि छेलिका च गलस्तनी। छागमांसं लघु स्निग्धं स्वादुपाकं त्रिदोषनुत्। नातिशीतमदाहि स्यात् स्वादु पीनसनाशनम्। परं बलकरं रुच्यं वृंहणं विर्य्यवर्द्धनम्। अजाथा अप्रसूताया मांसं पीनसनाशनम्। शुष्ककासेऽरुचा शोषे हितमग्नेनश्च दीपनम्। अजासुतस्य बालस्य मांसं लघुतरं स्मृतम्। हृद्यं ज्वरहरं श्रीष्ठं सुखदं बलदं भृशम्। मांसं निष्कुषि ताण्डस्य (खासि) छागस्य कफकृद्गुरु। स्रोतःशुद्धिकरं बल्यं मांसदं वातपित्तनुत्। वृद्धस्य वातलं रूक्षं तथा व्याधिमृतस्य च। ऊर्द्धजत्रुविकारघ्नं छागमुण्डं रुचिप्रदम्।” तद्दुग्धादिगुणास्तत्रोक्ता यथा “छाग कषायं मधुरं शीतं ग्राहि पयो लघु। रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम्। अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात्। नात्यम्बुपानाद् व्यायामात् सर्वव्याधि हर पयः। आजं दध्युत्तम ग्राहि लघु दोष त्रयापहम्। शस्यते श्वासकासार्शःक्षयकासेषु दीपनम्। तद् घृतगुणा घृतशब्द २७९८ पृ० दृश्याः। तन्मूत्रगुणाः “गोजाविमहिषीणां तु स्त्रीणां मूत्रं प्रशस्यते। खरोष्ट्रेभनराश्वानां पुंसां मूत्र हितं स्पृतम्” “अनादेशे पशुश्छागः” ति० त० “मात्स्यहारिणकौरभ्रभशाकुनच्छागलार्षभैः” याज्ञ०। “षण्मा सांश्छागमांसेन” मनुः “अनादेशे यज्ञे स एव पशुशब्दवाच्यः यथाह कात्या० श्रौ० ६। ३। २०। “छागं मन्त्राम्नानात्” सू०। “अजं पशुमुपाकरोति होता यक्ष्यदश्विनौ छागस्येत्यादिषु भन्त्रेषु छागस्याम्नानात् तथा “अग्नीषोमाभ्यां छागस्य वपायै मेदसोऽनुब्रूहीति” यदि च छागी याग- साधनं भवति तदा अयं मन्त्रः संगताथो भवति नान्यथा। पुन कीवृशम्। “पन्नदम्” सू०। “पन्नदो जातदन्त इति निगमषूक्तम्”। “अव्यङ्गम्” सू०। विगतमङ्गं चक्षुःकर्णादिकं यस्यासौ व्यङ्गः अन्यूनाङ्गगम् शाखान्तरात्” कर्कः “वायव्यं श्वेतमालभेत” श्रुता छाग एवालभ्यः “छागो वा मन्त्रवर्णात्” जै० सू० तथा निर्णयात्।

छागण = पु० छया छादनेन गण्यते गण–कर्म्मणि अच्। छगण + स्वार्थे अण्–बा। करीषाग्नौ त्रिका०।

छागभोजिन् = पु० छागं भुङ्क्ते भुज–णिनि। १ वृके राजनि०। २ छागमासभक्षके त्रि० स्त्रियां ङीप्।

छागमय = न० छाग + मयट्। स्कन्दस्य षष्ठे वक्त्रे “षष्ठ छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्। षटाशरोभ्यन्तरं राजन्। नित्यं मातृगणार्चितम। “षण्णान्तु प्रवरं तस्य शीर्षाणामिह शब्द्यते। शक्तिं येनासृजद्दिव्याम भद्रशाख इति स्म ह” भा० व० २२७ अ०

छागमुख = पु० छागस्य मुखमिव मुखमस्य। १ कुमारानुचरभेदे २ कुमारे कार्त्तिकेये च तस्य षष्ठशिरसच्छागतुल्याकारत्वात् तथात्वम् “कुमारास्ते विशाखञ्च पितृत्वे समकल्पयन्। स भूत्वा भगवान् संख्ये रक्षंश्छागमुखस्तदा” भा० व० २२७ अ०।

छागमित्र = पु० छागस्य मित्रम्। देशभेदे तत्र भवः काश्या० ठक् ञिठ् वा इदित्। छागमित्रक तद्भवे त्रि० स्त्रियां ढञि ङीप् जिठि टाप्।

छागरथ = पु० छागोरथोऽस्य। छागवाहने वह्नौ हेमच०

छागल = पुंस्त्री छगल एव प्रज्ञा० अण्। १ छागे पशुभेदे। छगलस्यार्षेर्गोत्रापत्यम् अण्। २ आत्रेये ऋषिभेदे आत्रेयभिन्ने तु छागलिरित्येव छगलशब्दे दृश्यम्। स्वार्थे क। तत्रार्थे संज्ञायां कन्। “श्वेतं सुपाक समदीर्घवृत्तं निःशल्कलं छागलकं वदन्ति। गले द्विकण्टः किल तस्य पृष्ठे कण्टः मुपथ्यो रुचिदोबलप्रदः” राजनि० उक्ते ४ मत्स्यभेदे

छागलाद्यघृत = न० चक्रदत्तोक्ते छागमांसपक्वे घृतभेदे यथा “छागमांसतुलां गृह्य साधयेल्ललणाम्भसि। पादशेषेण तेनैव घृतपस्थं विपाचयेत्। ऋद्धिवृद्धी च मेदे द्वे जीवकर्षभकौ तथा। काकाली क्षीरकाकोली पृथक् कल्केः पलोन्मितैः। सम्यक्सिद्धे त्ववतार्य्य शीते तस्मिन् प्रदापयेत्। शर्करायाः पलान्यष्टौ मधुनः कुडबं क्षिपेत्। पलं पलं पिवेत् प्रातर्यक्ष्माणं हन्ति दुर्ज्जयम्। क्षतक्षयञ्च कासञ्च पार्श्वशूलमरीचकम्। स्वरक्षयमुरोरोगं श्वासं हन्यात् सुदारुणम्”। “तोयद्रोणद्वितये मांसं छागलस्य पलशतं पक्त्वा। जलमष्टांशं सुकृतं तस्मिन् विपचेद् घृतं प्रस्थम्। कल्केन जीवनीयानां कुडवेन तु मांससर्पिरिदम्। पित्तानिलं निहन्यात् तज्जानपि रसकयोजितं पीतम्। श्वासकासावुग्रौ यक्ष्माणं पार्श्वहृद्रुजां घोराम्। अध्वव्यपायशोषं शमयति चैवापरं किञ्चित्। छागशकृद्रसमूत्रक्षीरैर्दध्ना च साधितं सर्पिः। सक्षारं यक्ष्महरं कासश्वासोपशान्तये परमम्”। भैषज्यरत्नाबल्यां विशेषो यथा “आजं चर्म्मविनिर्गुक्तंत्यक्तशृङ्गनखादिकम्। पञ्चमूलीद्वयञ्चैव जलद्रोणे विपाचयेत्। तेन पादावशेषेण घृतप्रस्थं विपाचयेत्। जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैव शतावरी। छागलाद्यमिदं नाम्ना सर्ववातविकारनुत्। अर्दिते कर्णशूले च बाधिर्य्ये मूकमिन्मिने। जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः। अपतानेऽपतन्त्रे च सर्पिरेतत् प्रशस्यते। पृथगूर्द्धं तुलां पञ्चमृलद्वन्द्वाजमां सर्याः। निःक्वाथ्य सलिलद्रोणे क्वाथे पादावशेषिते”। “छागमांसतुलां गृह्य दशमूल्याः पलं शतम्। अश्वगन्धपलशतं वाट्यालकशतं तथा। घृताढकं पचेत्तोयैश्चतुर्भागावशेषितैः। क्षीरं स्नेहसमं दद्यात् शतावर्य्या रसं तथा। ताम्रपात्रे दृढे चैव शनैर्मृद्वग्निना पचेत्। अस्यौषधस्य कल्कस्य प्रत्येकं शुक्तिसम्मितम्। जीवन्ती मधुकं द्राक्षा काकोल्यौ नीलमुत्पलम्। मुस्तं सचन्दनं रास्ना पर्णिनीद्वयं शारिवे। मेदे द्वे च तथा कुष्ठं जीवकर्षभकौ शटी। दार्व्वी प्रियङ्गुः त्रिफला नतं तालीशपद्मकौ। एलापत्रं वरी नागजातीकुसुम धान्यकम्। मञ्जिष्ठा दाडिमं दारु रेणुकं शैलवालुकम्। विडङ्गं जीरकञ्चैव पेषयित्वा विनिःक्षिपेत्। वस्त्रपूते च शीते च शर्कराप्रस्थसंयुतम्। निधापयेत् स्निग्धभाण्डे आर्द्रे वा भाजने शुभे। अस्यौषधस्य सिद्धस्य शृणु वीर्य्यमतःपरम्। देवदेवं नमस्कृत्य संपूज्य गणनायकम्। पिबेत् पाणितलं तस्य व्याधिं वीक्ष्यानुपानतः। सर्ववातविकारेषु अपस्मारे विशेषतः। उन्मादे पक्षघाते च आध्माने कोष्ठनिग्रहे। कर्णरोगे शिरोरोगे बाधिर्थ्ये चापतन्त्रके। भूतोन्मादे च गृघ्रस्यां सोद्गारे चाक्षिपातजे। पार्श्वशूले च हृच्छूले वाह्यायामार्हिते तथा। वातकण्टकहृद्रोगमूत्रकृच्छ्रे सपङ्गुले। क्रोष्टुशीर्षे तथा खञ्जे कुब्जे चाध्मानमिन्मिने। अपतानेऽन्तरायामे रक्तषित्ते तथोर्द्ध्वगे। आनाहेऽर्शोविकारेषु चातुर्थकज्वरेऽपि च। हनुग्रहे तथा शोषे क्षीणे चैवापवाहुके। दन्तापतानवे भग्ने दाहे चाक्षेपके तथा। जीर्णज्वरे विषे कुष्ठे शेफस्तम्मे मदात्यये। आद्यबातेऽग्निमान्द्ये च वातरक्तगदेषु च। एकाङ्गरोगिणे चैव तथा सर्वाङ्गरोगिणे। हस्त कम्पे शिरःकम्पे जिह्वाकम्पे जडे भ्रमे। क्षीणेन्द्रिये नष्टशुक्रे शुक्रनिःसरणे तथा। स्त्रीणां वातास्रपाते च पटले चाक्षिस्यन्दने। एकाङ्गस्पन्दने चैव सर्वाङ्गस्पन्दने तथा। नागादिजनिते वाते स्त्रीणामप्राप्तिहेतुके। आभिचारिकदोषे च धनसन्तापसम्भवे। य वातप्रभवा रोगा ये च पित्तसमुद्भवाः। शिरोमध्यगता ये च जङ्घापार्श्वादिसंस्थिताः। मातृग्रहाभिमूतश्च शिशुर्यश्च विशुष्यति। प्रक्षीणबलमांसश्च न वर्त्मगमनक्षमः। घृतेनानेन सिध्यन्ति वज्रमुक्तिरिवासुरान्। निहन्ति सकलान् रोगान् घृतं परमदुर्लभम्। रसायनं वह्निबलप्रदञ्च वपुःप्रकर्षं विदधाति रूपम्। दन्तावलेन्द्रेण समानतेजा दीर्घायुषं पुत्रशतं करोति। स्त्रीणां शतं गच्छति वातिरेकं न याति तृप्तिं सरसः समाङ्गः। अपुत्रिणी पुत्रशतं करोति शतायुषं कामसमं बलिष्ठम्। महत् घृतं नाम तु छागलाद्यं विनिर्मितं वातनिसूदनञ्च। शिवं शुभं रोगभयापहञ्च चकार हारीतमुनिर्विशिष्टः। शृगालवर्हिणः पाके पुमांसं तत्र दापवेत्। मयूरी जम्बुकी च्छागी वीर्य्यहीनाः स्वभावतः। भाषितं काशिराजेन छागमेव नपुंसकम्”।

छागवाद्वन = पु० छागोवाहनमस्य। वह्नौ त्रिका०।

छात = त्रि० छो–क्त। १ छिन्ने २ दुर्बले अमरः। “छातेतराम्बुच्छटा”

छात्त्र = पु० छत्त्रं गुरोर्वैगुण्यावरणं शीलमस्य छत्त्रा० ण। १ अन्तेवासिनि शिष्ये २ मधुभेदे न “वरटाः कपिलाः पीताः प्रायोहिमवतोवने। कुर्वन्ति छत्त्राकारं तु तज्जं च्छात्त्रं मघु स्मृतम्। छात्त्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु। स्वादुपाकं कृमिघ्नं च रक्तपित्तप्रमेहजित्। भ्रमतृण्मीहविषहृत् तर्पणञ्च गुणापिकम्” भावप्र०।

छात्त्रगण्ड = पु० छात्त्री गण्ड इव। पद्यस्य पादमात्रवेत्तरि अल्पज्ञे मन्दे शिष्ये हारा०।

छात्त्रदर्शन = न० छात्त्रं मधुभेद इव दृश्यते दृश–कर्म्मणि ल्युट्। १ मधुतुल्यास्वादे हैयङ्गवीने शब्दच०। ६ त० २ शिष्यस्य दर्शने च।

छात्त्रव्यंसक = पु० छात्रो व्यंसकः मयू० परनि०। मन्दशिष्ये

छात्त्रि = स्त्री चु० छद–क्तिन्। छादने। कर्त्तरि क्तिच्। २ छाद्के अस्य शालाशब्दे परे “छात्त्र्यादयः शालायाम्” पा०। आद्युदात्तता। छात्त्रिशाला “यदापि शालान्त स्तत्पुरुषे नपुंसकलिङ्गोभवति तदापि “तत्पुरुषे शालायां नपुंसके” पा० इत्येतस्मान् पूर्वविप्रतिषेधेनायमेव खरः छात्त्रिशालम् सि० कौ०

छात्त्र्यादि = पु० “छात्त्र्यादयः शालायात्” पा० शालान्त तत्पुरुषे आद्युदात्ततानिमित्ते शब्दगणे स च गण छात्त्रि पेलि भाण्डि व्याडि आखण्डि आटि गोमि” छात्त्रिशाला छात्त्रिशालम्।

छाद = न० छादयात् चु० छद–अच्। पटले (छात्) चाल। इतिख्याते पदार्थे जटाधरः।

छादन = पु० चु०–छद–ल्यु। १ नीलाम्लानवृक्षे। भावे ल्युट्। २ छादने। “छादनार्थं प्रकीर्णश्च कटैश्च तृणसङ्गतैः” हरिवं० ६६ अ०। करणे ल्युट्। ३ पत्रे न० राजनि०। “छादने वक्रदारुणि” अमरनिर्देशात् कर्तारि ल्यु। ४ छादके त्रि०। “फणाभृतां छादनमेकमोकसाम्” माघः।

छादित = त्रि० छद–क्त “वादान्तत्यादिना पक्षे णिलोभावः। आच्छादिते छन्ने।

छादिषेय = न० छदिषे हितम् “छदिरुपधिबलेर्ढक्” पा०। ढक्। तृणे।

छाद्मिक = त्रि० छद्मना चरति व्यवहरति ठक्। १ कापटिके कपटव्यवहारिणि “धर्म्मध्यजी सदा लुब्धश्छाद्मिको लोकदम्भकः” मनुः।

छान्दड = पु० ऋषिभेदे

छान्दस = पु० छन्दोऽधीते वेत्ति वा पक्षे अण्। वेदाध्येतरि १ श्रोत्रिय अभरः। छन्दसो व्याख्यानो ग्रन्थः तत्रभवो वा अण्। २ वेदव्याख्याने ग्रन्थे ३ वेदभवे च त्रि०। तस्येदम् अण। ४ वेदमम्बन्धिनि त्रि० स्त्रियां सर्व्वत्र ङीप्। “छान्दसीभिरुदाराभिः श्रुतिभिः (कर्णैः) ससलङ्कृतः (वराहः)” हरिवं० २२३ अ०। छान्दसः प्रयोगः। ततो मनोज्ञा० भावे वुञ्। छान्दसिका छान्दसभावे स्त्री।

छान्दोग्य = न० छन्दोगानां धर्म्म आम्नायः समूहो वा “चरणेभ्यो धर्म्मवत् पा० छन्दोगोक्थेभ्योञ्य” पा० ञ्य। छन्दोगानामाम्नायभेदे उपनिषद्रूपे। उपनिषच्छवदे १२२२ पृ० दृश्यम्। तेषां २ धर्म्मे ३ समूहे च।

छान्दोमिक = त्रि० छन्दोमस्येदम् ठक्। यज्ञभेदसम्बन्धिनि १ सूक्ते २ अहनि च “छान्दोमिकं सूक्तम्” निरु० ७। २१। “अहनी च्छान्दोमिके” २२। ६। ३३ कात्या० श्रौ० कर्कः

छाया = स्त्री छो–ण। १ आतपाभावे २ प्रतिविम्बे ३ सूर्य्यपत्नी भेदे संज्ञाप्रतिकृतौ० ४ कान्तौ च अमरः ५ पालने ६ उत्कोचे ७ पङ्क्तौ मेदि०। ८ कात्यायन्यां शब्दरत्ना०। ९ तमसि हेमच०। तत्र अनातपे “छायामिषे सानुगतां निषेव्य” कुमा०। “छायामच्छामृच्छति सलिलस्य” माघः “छायेव तस्यालगतिस्य पश्चात्” नैष०। “स्वं रागादुपरि वितन्वतोत्तरीयम्। कान्तेन प्रतिपदवारितातपायाः। स छत्रादपरविलासिनीसमूहाच्छायासीदधिकतरा तद परस्याः” माघः। “गुहां प्रविष्टौ सुकृतस्य लोके छायातपौ व्रह विदो वदन्ति” श्रुतिः संज्ञाप्रतिकृतिछायाकथा हरि वं० ९ अ०। “सै वै विवस्वतः पूर्व्वं श्राद्धदेवः प्रजापतिः यमश्च यमुना चैव यमजौ संवभूवतुः। श्यामवर्णं च तद्रूपं संज्ञा दृष्ट्वा विवस्वतः। असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः। मायामयी तु सा संज्ञा तस्याश्छायासमुत्थिता। प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर!। उवाच किं मया कार्य्यं कथयस्व शुचिस्मिते!। स्थिताऽस्मि तवनिर्दोशे शाधि मां वरवर्णिगि!। संज्ञोवाच अहं याम्यामि भद्रन्ते स्वमेव भवनं पितुः। त्वयेह भवने मह्यं वस्तव्यं निर्व्विकारया इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा। संभाव्यास्ते न चाख्येयमिदं भगवते क्वचित्। छायोबाच। आ कचग्रहणाद्देवि! आ शापान्नैव कर्हिचित्। आख्यास्यामि मतं तुभ्यं गच्छ देवि! यथासुखम्। वैशम्पायन उवाच। समादिश्य सवर्णान्तु तथेत्युक्ता तया च सा। त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी। पितुः समीपगा सा तु पित्रा निर्भत्सिता तदा। भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः। अगच्छद्बडवा भूत्वाऽऽच्छाद्य रूप मनिन्दिता। कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह। द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्। आदित्यो जनयामास पुत्रमात्मसमं तदा। पूर्वजस्य मनोस्तात सदृशोऽयमिति प्रभुः। मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते। द्वितीयोयः सुतस्तस्याः स विज्ञेयः शनैश्चरः। सततं पार्थिवी तात। स्वस्य पुत्रस्य वै तदा। चकाराभ्यधिकं स्नेहं न तथा पूर्व्वजेषु वै। मनुस्तस्याक्ष मत्तत्तु यमस्तस्या न चक्षमे। ता स रोषाच्च वाल्याच्च भाविनोऽर्थस्य गौरवात्। पदा सन्तर्जयामास छायां वैवस्वतो यमः। तं शशाप ततः क्रोधात् सावर्णजननी नृपः। चरणः पततामेष तवेति भृशदुखिता”। छाया च तमोरूपद्रव्यान्तरमिति मीमांसकाः। तेन “त्वंदूरमपि गच्छन्ती हृदयं न जहासि मे। दिवावसानच्छायेव पुरोमूलं वनस्पतेः” शकु०। छायागतिरुक्ता सङ्गच्छते” नैयायिकास्तु तेजःसामान्या भाव एव तमश्छायादिकमङ्गीचक्तुः तत्र गत्यादिकमौपचारिकम्” “अत्र च तेजःसामान्याभावप्रयोजकस्य छायासम्बन्धित्वम् यथा वृक्षस्यातपसम्बन्धप्रतिरोधात् छायासम्बन्धित्वं तथा च वृक्षप्रयुक्तातपाभावः” इति बोधः “छाया बाहुल्ये” पा०। छायान्तस्तत्पुरुषो नपुंसकं स्यात् पूर्व्वपदार्थबाहुल्ये” इक्षूणां छाया इक्षुच्छायम् सि० कौ०। कस्य बाहुल्यमित्यप्रेक्षायां छायायानिमि त्तभूतावरकद्रव्याणामेव बाहुल्यमर्थाक्षिप्तं तच्च षष्ठी तत्पुरुषे पूर्व्वपदार्थगतमित्याशयेन पूर्व्वपदार्थेत्युक्तम्। “इक्षुच्छायानिषादिन्य” इत्यत्र आङ्प्रश्नेषः” सि० कौ०। “आवरकद्रव्यस्यैकत्वे तु “विभाषा सेनासुराच्छायेत्यादि” पा० वा क्लीवत्वम् कुड्यछाया कुद्ध्यच्छायम्। आतपाभावश्च तेजःसामान्यप्रभासञ्चाराभावः तेन प्रदीप प्रभावरकपदार्थस्य प्रभानिरोधसम्बन्धित्वात् शङ्कुच्छाया नरच्छाया इत्यादि। दीपादिच्छायामानज्ञानार्थो व्यवहारःछायाव्यवहारः तत्र करणसूत्रं लीला० उक्तं यथा। “अथ छायाव्यवहारे करणसूत्रं वृत्तम्। छाययोः कर्णयीरन्तरे यै तयोर्वर्गविश्लेषभक्तारसाद्रीषवः। सैकलब्धेः पदघ्नन्तु कर्ण्णान्तरं भान्तरेणोनयुक्तं दलेस्तः प्रभे। उदाहरणम्। नन्दचन्द्रैर्मितं छाययोरन्तरं कर्ण्णयोरन्तरं विश्वतुल्यं ययोः। ते प्रभे वक्ति योयुक्तिमान् वेत्त्यसौ व्यक्तमव्यक्तयुक्तं हि मन्येऽखिलम्। न्यासःछायान्तरं। १९। कर्ण्णान्तरम्। १३। अनयोर्वर्गान्तरेण। १९२। भक्ता रसाद्रीषवः। ५७६। लब्धं ३। सैक स्यास्य। ४। मूलम्। २। अनेन कर्ण्णान्तरं। १३। गुणितं। २६। द्विस्थं। २६। भान्तरेण। १९। ऊनयुतं। ७। ४५। तदर्द्धे लब्धे छाये ७/२। ४५/२ तत्कृत्योर्योगपदमित्यादिना जातौ कर्ण्णौ २५/२। ५१/२। छायान्तरे करणसूत्रं वृत्तार्द्धम्। शङ्गुः पदीपतलशङ्कुतलान्तर घ्नश्छाया भवेद्विनरदीपशिखौच्च्यभक्तः। उदाहरणम्। शङ्कुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिः सार्द्धकरत्रया चेत्। शङ्कोस्तदा काङ्गुलसम्मितस्य तत्र प्रभा स्यात्कियती वदाशु। न्यासःशङ्कुः १/२ प्रदीपशङ्कुतलान्तरं ३ अनयोघातः ३/२ विनरदीपशिखौच्च्येन। ३। भक्तोलब्धानि छायाङ्गुलानि। १२। अथ दीपोच्छ्रित्यानयनाय करणसूत्रं वृत्तार्द्धम्। छायाहृते तु नरदीपतलान्तरघ्ने शङ्कौ भवेन्नरयुते खलु दीपकौच्च्यम्। उदाहरणम्। प्रदीपशङ्क्वग्तरभूस्त्रिहखा छायाङ्गुलैः षोडशभिः सना चेत्। दीपोच्छ्रितिः स्यात्कियती वदाशु प्रदीपशङ्क्वन्तरमुच्यतां मे। न्यासःशङ्कुः। १२। छायाङ्गुलानि। १६। शङ्कुप्रदीपान्तर हस्ताः। ३। लब्धं दीपकौच्च्यं हस्ताः ११/४। प्रदीप शङ्क्वन्तरभूमानानयनाय करणसूत्रं वृत्तार्द्धम्। विशङ्कु दीपोच्छ्रयसङ्गुणा भा शङ्कूद्धृता दीपनरान्तरं स्यात्। उदाहरणम्। पूर्व्वोक्तएव दीपोच्छ्रायः ११/४ शङ्क्व ङ्गुलानि। १२। छाया। १७। लब्धाः शङ्कुप्रदीपा न्तरहस्ताः। ३। छायाप्रदीपान्तरदीपौच्च्यानयनाय करणसूत्रं सार्द्धं वृत्तम्। छायाग्रयोरन्तरसङ्कुणा भा छायाप्रमाणान्तर हृद्भवेद्भूः। भूशङ्कुघातः प्रभया विभक्तः प्रजायते दीपशिखौच्च्यभेवम्। त्रैराशिकेनैव यदेतदुक्तं व्याप्तं स्वभेदैर्हरिणेव विश्वम्। उदाहरणम्। शङ्कोर्भार्कमिताङ्गुलस्य सुमते! दृष्टा किलाष्टाङ्गुला छायाग्राभिमुखे करद्वयमिते न्यस्तस्य देशे पुनः। तस्यैवार्कमिताङ्गुला यदि तदा छाया प्रदीपान्तरं दीपौच्च्यञ्च कियद्वद व्यवहृतिं छायाभिधां वेत्सि चेत्। न्यासःअत्र छायाग्रयोरन्तरमङ्गुलात्मकं। ५२। छाये च। ८। १२। अनयोराद्या। ८। इयमनेन। ५२। गुणिता। ४१६। छायाप्रमाणान्तरेण। ४। भक्ता लब्धं भूमानम्। १०४। इदं प्रथमच्छायाग्रदीपतलयोरन्तरमित्यर्थः। एवं द्वितीयच्छायाग्रमानं। १५६। भूशङ्कुघातः प्रभया विभक्तैति जातमुभयतोऽपि दीपौच्च्यं सममेव हस्ताः ६/१/२ एवमित्यत्र छायाव्यवहारे त्रैराशिककल्पनयाऽऽ नयनं वर्त्तते तद्यथा। प्रथमच्छायातोद्वितीयच्छाया।। १२। यावताधिका तावता छायावयवेन यदि छायाग्रान्तरतुल्या भूर्ल्लभ्यते तदा छायया किमिति एवं पृथक् पृथक् छायाप्रदीपतलान्तरप्रमाणं लभ्यते। ततोद्वितीयं त्रैराशिकं यदि छायातुख्ये भुजेशङ्कुः केटिस्तदा भूतुल्ये भुजेकिमिति लब्धं दीपकीच्च्यमुभयतोऽपि तुल्यमेव। एवं पञ्चराशिकादिकमखिलं त्रैराशिककल्यनयैव सिद्वम्। “भवेत्सैव (मेघविस्फूर्जितैव) च्छाया तयुगगयुता स्याद् द्वादशान्ते यदा” इत्युक्ते ऊनविंशत्यक्षरपादके १ छन्दोभेदे च। शङ्कुछाया हि दिग्देशकालज्ञानोपायः यथोक्तं त्रिप्रश्नाधिकारे सूर्य्यसिद्धान्तरङ्गनाथाभ्याम्। तत्र चं त्रयाणां दिग्देशकालानां प्रश्नाः त्रिप्रश्नाः तेषामधिकार इति त्रिपश्नशब्दार्थः। तत्रादौ दिग्ज्ञानमाह। “शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपिवा समे। तत्र शड्क्वङ्गुलैरिष्टैः समं मण्डलमालिखेत्। तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्वादशाङ्गुलम्। तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः। तत्र विन्दू विधायोभौ वृत्ते पूर्वापराभिधौ। तन्मध्ये तिमिना रेखा कर्त्तव्या दक्षिणोत्तरा। याम्योत्तरादिशोर्मध्ये तिमिना पूर्वपश्चिमा। दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि”। सू० सि० “तत्र दिक्साधनोपक्रमे प्रथममम्बुसंशुद्धे जलवत्समीकृते शिलाप्रदेशे। अपि वाथ वा तदभावेऽन्यत्र वज्रलेपे चत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः शङ्कस्थाङ्गुलविभागमानगृहीतैरभीष्टसङ्ख्याकाङ्गुलैर्व्यासार्धरूपैवृत्तमवक्रमालिखेत्। सर्वतः केन्द्राद्वृत्तपरिधिरेखा तुल्या यथा स्यात् तथेत्यर्थः। ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्ये कल्पनया द्वादशसङ्ख्याकाङ्गुलानि तुल्यानि यस्मिंस्तं द्वादशविभागाङ्कितमित्यर्थः।। शङ्कुं समतलमस्तकपरिधिकाष्ठदण्डं स्थापयेत्। ततः पूर्वापरार्धयोर्दिनस्य प्रथमद्वितीयभागयोस्तच्छायाग्रं स्थापितशङ्काश्छायान्तप्रदेशो मण्डलपारधौ यस्मिन् विमागे स्पृशेत्। दिनस्य प्रथमविभागेऽनुलणं छायाह्रासाद्वृत्ते यत्र प्रविशति, दिनस्यापरार्धे छायानुक्षणवृद्धेर्वृत्ते यत्र निर्गच्छतीत्यर्थः। तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्बापरसञ्ज्ञौ क्रमेण वृत्ते परिधिरेखायां कृत्वा तन्मध्ये पूर्वापरविन्द्वन्तरमध्ये तिमिना मत्स्येन रेखा कार्या सा दक्षिणोत्तररेखा भवति। मत्स्यस्तु विन्द्वन्तरालसूत्रमितेन व्यामार्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य हलद्वयसयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्याकारं स्थानं भवति। तत्रैकः संयोगो मुखं बाह्यवृत्तभागसम्मार्जगेन, अपरसंयोगखु पुच्छमितरवृत्तभागद्वयसम्मर्जनेन। मुखपुच्छानध्यृज्वी रेखा दक्षिणोत्तररेखा। तत्र पूर्व्वविन्दोः सव्यं रेखाग्रं दक्षिणा दिक्। पश्चिमविन्दोः सव्यं रेखाग्रसुतरा दिक। अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः। शङ्कुरपि तत्स्थानान्निष्कास्यः इति केवला दक्षिणोत्तररेखा स्थितेति तात्पर्य्यमु। दक्षिणोत्तरदिशोर्मध्यस्थाने तिमिना दक्षिणोत्तररेखामितेन व्यासार्धेन दक्षिणोत्तरस्थानाभ्यां पूर्बवत् प्रत्येकं वृत्तं विधाय पूर्बवत् सिद्धेन मत्स्येनेत्यर्थः। पूर्वपश्चिमा रेखा कार्या। तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा, पश्चिमविन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मार्जनेन केवला पूर्वापररेखापि सिद्धा। अथ रेखासंयोगस्थानाद्दिक्साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् तद्वृत्तपरिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्चतुष्टयं वृत्ते सिद्धम्। तद्वत् यथा दक्षिणोत्तराभ्यां पूर्वापरा साधिता तत्प्रकारणेत्यर्थः। एवकारोऽन्यप्रकारनिरासार्थकः। हि निश्चयेन। विदिशः कोणदिशो दिशां पर्वादिसिद्धदिशां ये मध्यमत्स्या अव्यवहितदिग्द्वयान्तरोत्पन्ना लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः। रेखावृत्तसंयोगस्थत्वेन ज्ञेयाः। अत्रोपपत्तिः। क्षितिजपूर्वापरवृत्त संयोगौ पूर्वापरविभागस्यौ पूर्वापरदिशे तत्र पूर्वापरविभागज्ञानं सूर्य्योदयास्ताभ्यां तत्र क्षितिजे पूर्वापरवृत्तं कत्र लग्नमिति ज्ञानं तु विषुवद्वृत्तक्रान्तिवृत्तसम्पातस्थसूर्य्यस्योदयास्तस्थलज्ञानेन विषुवद्वृत्तस्य पूर्वापरक्षितिजवृत्तसम्पातयोः सम्बद्वत्वात्। अघान्यस्मिन् दिने सूर्य्यस्योदयास्तावग्रागान्तररेण याम्योत्तरे भवत इति सूर्य्योदयास्तस्थानाभ्यामग्राशान्तरेणोत्तरयाम्ये पूर्वापरस्थानं भवतीति क्षितिजस्य महत्त्वाद्दूरत्वाच्च तद्दानेन पूर्वापरज्ञानमशक्यमतस्तत्सूत्रेण स्वामीष्टप्रदेशे तज्ज्ञानार्थमभीष्टसमस्थले क्षितिजानुकारं वृत्तं कृतम्। तत्रापि सूर्य्योदयास्तसमसूत्रण स्थलद्ञानस्य दुःशकत्वात् छायार्थं शङ्गुः स्थाप्यः। तथापि सूर्य्योदये छायानन्त्याद्वृत्तपरिधौ तदग्रस्पर्शाभावः। परन्तु यथा यथा सूर्य ऊर्द्घ भवति तथा तथा छायाह्रासाद्यत्र छाया वृत्तपरिधौ यदा प्रविशति तत्स्थानात् तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्धज्याकारेण देयस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कुस्यानस्य पश्चिमा। छायाग्रस्य पूर्वा परसूत्राद्भुजान्तरेण याम्योत्तरपतनात् सूर्य्यापरदिशि छायापतनाच्च। एवं दिनापरार्धे सूर्य्यो यथा यथाधः सञ्चरति तथा तथा छायावृद्धः शङ्कुच्छायावृत्तपरिधौ यत्र यदा निर्गच्छति तात्कालिको वक्ष्यमाणभुजो व्यस्तो-ऽर्द्धज्याकारेण तत्स्थाने देयस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कुस्थानस्य पूर्वा। तत्सूत्रं पूर्वापरसूत्रम्। इदं शङ्कोरुपलक्षणत्वेन ज्ञानं तथा छायोपलक्षणेनापि प्रदेशस्य पूर्वापरसूत्रज्ञानम्। तथा हि। यत्र छायाग्रं विशति तत्रापरा, छायाग्रं यतो निर्गच्छति तत्र पूर्वा। तत्रापि प्रवेशनिर्गमयोरेककालत्वासम्भवाद्यत्कालिकः प्रवेशस्तत्काले छायायाः पाश्चमत्वं तत्र वस्तभूतं तत्काले निर्गमनस्य पूर्वत्वासम्भवः। एवं निर्गमकाले निर्गमस्थानस्य पूर्वत्वं वस्तुभूतं तत्काले प्रवेशस्य पश्चिमत्वासम्भवः। एककालिकसिद्ध्यर्थमुमयोरेकतर चिह्नं चाल्यं तात्कालिकभुजयोरन्तरेण तत्र पूर्वचिह्नं भुजान्तराङ्गुलैरयनदिशि चाल्यम्। पश्चिमचिह्नं वा त्यस्तायनदिशि चाल्यम्। तत्सूत्रं सूत्रमध्यदेशस्य पूर्वापरसूत्रम्। एतन्मध्ये स्थापितशङ्कोश्छायाग्रप्रवेशनिर्गमचिह्नाभ्यां यथोक्तरीत्या मुजदानेन सिद्धपूर्वापरसूत्रेणाभिन्नत्वात्। तदुक्तं सिद्धान्तशिरोमणौ “तत्कालापमजीवयोस्तु विवराद्भाकर्णमित्या हतात् लम्बज्याप्तमिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता” इति। तदेतद्भगवता लोकानुकम्पया खल्पान्तरत्वादेकतरवि न्दुचालनं नोक्तं सुखार्थं किञ्चित्स्थूलावेव निर्गभप्रवेशविन्दू पूर्वापराभिधावुक्तौ। एवञ्चाभीष्टस्थानं प्रवेशनिर्गमसूत्रमध्ये यथा भवति तथानेन प्रकारेण मण्डलकेन्द्रशङ्कुस्थापनादिनाऽभीष्टप्रदेशे पूर्वापरदिशे साध्ये इति। तन्मध्ये दक्षिणोत्तररेखाविन्दुद्वयोत्पन्नमध्यमत्स्यरेखैवेति। याम्योत्तरमध्ये पूर्वापरा रेखा तद्दि ङ्मध्यमत्स्येनेति याम्योत्तरदिशोरित्यादि सम्यगुक्तम् ननु पूर्वापरविन्दुभ्यां मत्स्येन या दक्षिणोत्तररेखा तदग्राभ्यां मत्स्येन रेखा पूर्वापरविन्दुस्पृष्टैवेति पूर्वं तस्या एव विन्द्वन्तरत्वेन सिद्धत्वात् पुनं साधनं व्यर्थमन्यथा दक्षिणोत्तररेखाया अप्यसङ्गतत्वापत्तेरिति चेत् सत्यम्। दक्षिणोत्तररेखाशुद्ध्यर्थमेव पूर्वापरविन्दुस्पृष्टरेखायाः पुनः साधनमिति केचित्। वस्तुतस्तु दक्षिणोत्तरपूर्वापरसूत्रसगातरूपाभीष्टस्थानात् केन्द्रात् प्रागुक्तवृत्तस्य वक्ष्यमाणोपयोगित्वेनावश्यकत्वात् तस्य च पूर्वापरविन्द्वन्तरख्यत्राधिकव्याससूत्रत्वाद्विन्द्वन्तररेखा मूला ग्रयोर्बर्धनीया सा तत्र वृत्ते पूर्वापररेखा भवति। तस्या विन्दोरुपर्यधश्च वक्रत्वं कदाचित् स्यादतः प्रथममेव पूर्णरेखासिद्ध्यर्थ विन्द्वन्तरसिद्धमत्स्यमुखपुच्छगत- रेखाया विन्द्वतराधिकत्वेन तदुत्पन्नमत्स्यरेखाया ऋज्व्याः सुतरामधिकत्वेन पुनः पूर्वापररेखासाधनं युक्ततरमिति तत्त्वम्। एवमेवाव्यवहितदिग्द्वयान्तरोत्पन्नलघुमत्स्यैश्चतुर्मिः सूत्रैर्वृत्ते कोणदिशः। तदिदमभीष्टस्थानकेन्द्रकमण्डले दिगष्टकं सिद्धम्।। अथ दिक्सूत्रसम्पातरूपाभीष्टस्थानात् तात्कालिकच्छायाग्रस्थानमाह” र० ना० “चतुरश्रं बहिः कुर्य्यात् सूत्रैर्मध्याद्विनिर्गतैः। भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता” सू० मि०। “मध्यादभीष्टस्थानाद्दिग्रेखा सम्पातरूपाद्विनिर्गतैर्निःसृतैरष्टदिग्रेखारूपैः। बहिर्दिक्सूत्रसम्पातकेन्द्रवृत्ताद्बहिः। अनेनैव वृत्तकरणं पूर्वमनुक्तं द्योतितम्। अन्यथा बहिरित्यस्यानुपपत्तेः। पूर्ववृत्तग्रहणे तु दिग्रेखासम्पातस्य मध्यत्वानुपपत्तेः। चतुरश्रं कोणरेखाधिकसूत्रकर्णद्वयतुल्यं समचतुर्भुजं कुर्य्यात्। यथा च तद्दर्शनम्। तत्र चतुरश्रे भुजसूत्राङ्गुलैर्वक्ष्यमाणभुजमितसूत्रस्याङ्गुलैर्निर्गमप्रवेशकालिकैर्दत्तैः पूर्वापरसूत्रादर्धज्यावद्दीयमानैस्तत्र वृत्ते यस्मिन् प्रदेशे भुजाग्रं ततप्रदेशे इष्टप्रभा निर्गमप्रवेशान्यतरकालिकच्छायाग्रमुक्तम्। प्रतीतिस्तु दिक्सूत्रसम्पातस्थशङ्कुना ज्ञेया। अत्रोपपत्तिः। वक्ष्यमाणभुजस्य छायाग्रपूर्वापरसूत्रान्तरत्वेन प्रतिपादितत्वादिष्टच्छायाग्रमुक्तदिशा ज्ञातं सम्यक्। चतुरश्र करणं वक्ष्यमाणाग्रसाधकप्राच्यपररेखानुकाररेखाया वृत्तान्तस्तद्बहिर्वा ऋजुत्वसिद्ध्यर्थमिति। अथ पूर्वापररेखायाः सञज्ञान्तरसाह” र० ना०। “प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम्। उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्यते” सू० सि०।

“प्राक्पश्चिमाश्रिता पूर्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते। सैव रेखोन्मण्डलं विषुवन्मण्डलम्। चः समुच्चये। उभयसञ्ज्ञकं कथ्यते। अत्रीपपत्तिः। क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरे तत्सूत्रं पूर्वापरसूत्रमिति। पूर्वापरवृत्तस्य भूमावूर्ध्वाधरानुकारिवृत्तत्वेनादर्शनाद्रेखाकारंतयैव दर्शनाच्च पूर्वापरवृत्तमपि तत्सूत्रम्। पूर्वापरवृत्तस्य सममण्डलत्वेनाभिधानात् तद्रेखासममण्डलसञ्ज्ञोक्ता। अथ स्वनिरक्षदेशक्षितिजवृत्तस्योन्मण्डलाख्यस्य तत्संयीगयोः संलग्नत्वात् तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात् पूर्वापरसूत्रमुन्मण्डलसञ्ज्ञम्। एतेनान्यदेशक्षितिजसञ्ज्ञया स्वदेशक्षितिजसञज्ञा स्तुतरां सिद्धेति पूर्वापरसूत्रस्य क्षिति- जवृत्तसञ्ज्ञा द्योतिता। पूर्वापरस्थानयोः क्षितिजवृत्तस्य संलग्नत्वादुल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च। एवं निरक्षदेशपूर्वापरवृत्तं विषुवन्मण्डलाख्यं पूर्वापरस्थानयोः संलग्नमिति तन्मध्यसूत्रत्वेनापि पूर्वापरसूत्रस्य सिद्धत्वात् पूर्वापरसूत्रं विषुवन्मण्डलसञ्ज्ञं क्रान्तिवृत्तस्य दृग्वृत्तस्य च चलत्वात् कादाचित्कत्वेन पूर्वापरस्थानसंलग्नत्वात् तत्सञ्ज्ञा नोक्तेति ध्येयम् अथाग्राज्ञानमाह” र० ना०। “रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा। इष्टच्छायाविषुवतोर्मध्यमग्राऽभिधीयते” सू० सि०। “तस्मिंश्चतुरश्रे पूर्वापररेखात उत्तरभागे विषुवद्भाग्रगाऽक्षभाग्रप्रदेशस्थाक्षमाङ्गुलान्तरितेत्यर्थः। प्राच्यपरा रेखा पूर्वापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण यथेष्टच्छायाग्ररेखाभुजान्तरेण तथाक्षभान्तरेण कार्या। अनन्तरमिष्टच्छायाविषुवतोरिष्टच्छायाग्ररेखाक्षभाग्ररेखयोरित्यर्थः। मध्यं चतुरश्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तुल्यम्। अग्रा कर्णवृत्ताग्रोच्यते। अत्रोपपत्तिः। भुजस्य कर्णवृत्ताग्रा पलभासंस्कारेणाग्रे उक्तत्वद्दक्षिणगोले पलभाधिकोत्तरभुजसद्भावेन पलभोनो भुजोऽग्रेति, प्राच्यपरसूत्रादुत्तरभागेऽक्षभाग्ररेखा भुजमध्ये भवतीति द्वयो रेखयोरन्तरमग्रा पलभोनभुजरूपा। एवमुतरगीले उत्तरभुजस्य पलभाल्पत्वाद्धुजोनपलभाग्रेति पलभारेखा प्राच्यपरसूत्रादुत्तरभागस्था भुजरेखातोऽप्यग्रान्तरेणोत्तरदिशीति द्वयो रेखयोरन्तरं भुजोनपलभारूपं कर्णवृत्ताग्रा। एवं दक्षिणभुजस्य पलभोनाग्रात्वात् पलमायुतो मुजोऽग्रति प्राच्यपरसूत्राद्भु जाग्रपलभारारेखयोः क्रमेण याभ्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्यरूपमग्रा, पलभायाः शङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छाया मम्बुन्धाद्युक्तम् गोले शङ्कुतलस्य दक्षिणत्वाद्ग्रहापरदिशि छायासद्भावाच्च। अतएव प्राच्यपरसूत्राद्दक्षिणभागे दक्षिणभुजवशादक्षभाग्ररेखाकल्पने उक्तानुपपत्त्या सम्यगुत्तरभागे पूर्वापरसूत्रादिति विषुवडाग्रगेत्यत्र व्याख्यातम्” अथ प्रसङ्गाज्ज्ञातच्छायातः कर्णज्ञानं तच्छुद्धिं चाह र० ना०। “शङ्कुच्छायाकृतियुतेर्मलं कर्णोऽस्य वर्गतः। प्रोज्झ्य शङ्कु कृतिं मूलं छाया शङ्कुर्विपर्ययात्” सू० सि० “हादशाङ्गुलशङ्कुच्छाययोर्वर्गयोगात पदं छायाकर्णः स्यात्। अथास्य शुद्धिरूपं छायासाधनमाह। अस्येति। छायाकर्णस्य वर्गात् शङ्कु वर्णं चतुश्चत्वारिंशु- दधिकं शतं विशीध्य मूल छाया। प्रकारान्तरेण छायाकर्णशुद्धिमाह। शङ्कुरिति। विपर्ययाच्छायासाधनवैपरीत्यावछायाकर्ण्णवर्गाच्छायावर्गं विशोध्य मूलमित्यर्थः। शङ्कुर्द्वादशाङ्गुलमितः स्यात्। अत्रोपपत्तिः। द्वादशाङ्गुलशङ्कुः कोटिरक्षभा भुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णः कर्ण इत्याद्यक्षक्षेत्राद्युक्तरीत्योपपन्नम्। ननु दिक्साधनोत्तरमिष्टप्रभाग्राकर्णसाधनं भगवता सर्वज्ञेन किमर्थमुक्तमग्रेऽग्रादीनां स्वतन्त्रतयोक्तत्वात्। न च विना गणितश्रममग्राज्ञानार्थमिदं युक्तमुक्तमिति वाच्यम्। वक्ष्यमाणभुजज्ञानस्याग्रोपजीव्यत्वेन तस्याश्च भुजीपजीव्यत्वेनान्योत्याश्रयात् गणितज्ञाताग्रायाः पुनः साधनस्य व्यर्थत्वाच्च। न च भुजसूत्राङ्गुलैर्दत्तैरित्यनेनेष्टच्छायाग्रं ज्ञातमिति न, किन्त्वेतदुक्त्या दिक्सूत्रसम्पातस्थशङ्कोर्वृत्तपरिधौ छायाग्रज्ञानात् तत्पूर्वापरसूत्रान्तरे भुजसद्भावाद्विना गणितं भुजोऽपि ज्ञात इति नान्योन्याश्रय इति वाच्यम्। तथापि भगवतः सर्वज्ञस्य निष्प्रयोजनत्वोक्तेरनुचितत्वात्। विना प्रयोजनं मन्दोक्तेरष्वभावाच्च। न हि दिक्साधनेऽग्राभुजादिकमावश्यर्क येन तदुक्तिर्युक्ता। किञ्च कर्णसाधनस्य गणितोक्त्या वक्ष्यमाणकर्णसाधनतुल्यत्वेनात्र कथनमनुचितम्। न हि दिक्साधनार्थं “भाकर्णमित्या हतादिति” सिद्धान्तशिरोमण्युक्तिवदत्र छायाकर्ण उपयुक्तो येन तदुक्तिर्युक्तेति चतुरश्रमित्यादिश्लोकचतुष्टयमन्येन मन्दबुद्धिना क्षिप्तं न भगवतोक्तामति चेन्मैवम्। भुजसाधनोपजीव्याग्राया एतदुक्तप्रकारेण सिद्धौ दिशः सम्यक् सिद्धा इति दिक्साधनशुद्ध्व्ययमग्रासाधनम्। प्रकारान्तरेणापि वक्ष्यमाणत्रिज्यावृत्तीयाग्रया त्रिज्या लभ्यते तदानयागतया केव्यनुपातेन साधितकर्णसंवादेन शुद्ध्यवगमार्थं कर्णसाधनं चोक्तम्। अनयाग्रया कर्णस्तदा त्रिज्यावृत्तीयाग्रया क इति फलस्य त्रिज्यातुल्यस्यातयनार्थं वा कर्णसाधनमिति केचित्। वस्तुतस्तु मण्डले छायाप्रवेशनिर्गसस्थानस्थितपूर्वापरविन्द्वोः प्रत्येकं रेखेति रेखाद्वयं सर्वतस्तुल्यान्तरं कार्यं तेनान्तरेणान्यतरो विन्दुबाल्यस्तो पूर्वापरविन्यू तद्रेखामध्यस्थानस्य पूर्वापररेखेति। तत्रोभयविन्दुरेखयोरन्तराङ्गुलमानं स्वल्पत्वाद्गणयितुमशक्यमतः प्रत्येकरेखे प्राच्यपररेखे प्रकल्प्य तन्मध्यकेन्द्रात् पूर्ववृत्तं प्रत्यकमिति वृत्तद्वयं कुर्यात्। तत्र स्वस्वेवृत्त खखपाच्यपररेखास्पृष्टा कार्या ताभ्यां स्वस्वकालिकौ भुजौ स्वस्ववृत्ते देयौ तदग्रे छायाग्ररेखे स्वस्ववृत्ते कार्ये स्वस्वप्राच्यपरसूत्रत् स्वस्ववृत्ते उत्तरभागेऽक्षभाङ्गुलान्तरेण रेखे कार्ये ततः स्वस्ववृत्ते स्वस्वतद्रेखयोरन्तरं स्वस्ववृत्ते उभयकालिककर्णवृत्ताग्रे बहुत्वेन गणयितुं शक्ये तदन्तरं पूर्वविन्द्वोर्याम्योत्तरमन्तरं कर्णवृत्ताग्रासाधनकथनेनानीतं भुजान्तरस्य विन्द्वन्तरत्वात् तस्य चाग्रान्तरत्वेन फलितत्वात्। विषुवद्दिने गोलमेदे तु भुजान्तरमग्रायोग इति विन्द्वोर्याम्योत्तरमग्रायोग इति। तेनोक्तरीत्या विन्दुश्चाल्यस्तत्सूत्रं पूर्वापरसूत्रं स्फुटमित्याशयेन मगवताग्रा निरूपिता तस्याः शुद्ध्यर्थं कर्णोऽपि साधित इति तत्त्वम्” र० ना०। अतः परं “त्रिंशत्कृत्यो युगे भानामित्यादिः” ग्रन्थः। स चं अयनशब्दे ३३६। ३३७ पृ० दर्शितः। सोऽत्रानुसन्धेयः।

“स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये। प्राक् चक्रं चलितं हीने छायार्कात् करणागते। अन्तरांशैरथावृव्य पश्चाच्छेषैस्तथाधिके” सू० सि०।

“अयने दक्षिणोत्तरावणसन्धौ विषुवद्वये गोलसन्धौ चलितं चक्रं दृक्तुल्यतां दृष्टिगोचरतां स्फुटमनायासं गच्छेत्। तत्र प्रत्यक्षतस्तन्मितमन्तरं दृश्यत इत्यर्थः। तथा च सृष्ट्यादिकाले रेवतीयोगतारासन्नावधि मेषतुलाद्योः कर्कमकराद्योर्विषुवायनप्रवृत्तेरिदानीं त्वन्यत्र तत्स्वरूपे प्रत्यक्षे इति क्रान्तिवृत्तं चलितमन्यथा तदनुपपसेरिति भावः। ननु पूर्वतोऽपरत्र वा चलितमिति कथं ज्ञेयमित्यत आह। प्रागिति। छायार्काद्यद्दिने सूर्यस्यायनदिक्परावर्तनमुदये प्राच्यपरसूत्रस्थत्रं वा तस्मिन् दिनेऽन्यस्मिन् दिमे वा मध्याह्नच्छायातो वक्ष्यमाणप्रकारेण सूर्यः साध्यस्तस्मादित्यर्थः। करणागते प्रागुक्तप्रकारेणानीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः। न्यूने सति। अन्तरांशैः सूर्ययोरन्तरांशैश्चक्रं क्रान्तिवृत्तं प्राक् पूर्वस्मित् चलितमिति ज्ञेयम्। अथ यद्यविके सति शेषैः सूर्वयोरन्तरांशैश्चक्रमावृत्य परिवृत्य पश्चात् पश्चिमाभिमुखं तथा चलितमिति ज्ञेयम। अत्रोपपत्तिः। छायातो वक्ष्यमाणप्रकारेण सूर्यो वर्त्तमानसम्पानाद्गणितागतस्तु रेवतीयोगतारासन्नाद्यवधितोऽतस्तयोरन्तरमयनांशास्तत्र क्रान्तिवृत्तस्य पूर्व्वचलने गणितागतार्काच्छायार्कोऽधिको बबति। पश्चिमचणने तु न्यूनो भवतीति सम्यगुपपन्नम। अथ चराद्युपजी व्यां पलभामाह” र० ना०। एवं विषुवती छाया स्वदेशे या दिनार्धजा। “दक्षिणीतारेखायां सा तत्र विषुवत्प्रभा” सू० सि०।

“स्वाभीष्टदेशे एवं विषुवती चलितविषुवद्दिनसम्बद्धा रेवत्यासन्नस्याप्युपचाराद्विषुवत्सञ्ज्ञा तद्व्यावर्तकमेवमिति। दिनार्धजा माध्याह्निकी या यन्मिता द्वादशाङ्गुलशङ्कोश्छाया दक्षिणोत्तररेखायां निरक्षोत्तरदक्षिणदेशक्रमेणोत्तरस्यां दक्षिणस्यां प्रमायाः दक्षिणोत्तररेखास्थत्वं विना मध्याह्नासम्भवात् सा तन्मिता तत्र तस्मिन्नभीष्टदेशे विषुवत्प्रभाऽक्षभा भवति। एतेन द्वादशाङ्गुलशङ्कुः कोटिः पलभा भुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णः कर्ण इत्यक्षक्षेत्रं वक्ष्यमाणोपयुक्तं प्रदर्शितम्। तदा सूर्य्यस्य विषुवद्वृत्तस्थत्वाद्विषुवत्प्रभेति सन्ज्ञोक्ता। अथ लम्बाक्षयोरानयनमाह” र० ना०।

“शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते। लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा” सू० सि०। “त्रिज्येद्विस्थानस्थे शङ्कुच्छायाहते एकत्र द्वादशगुणितापरत्र प्रागुक्तया विषुवत्प्रभया गुणिता विषुवत्कर्णभाजितोभयत्राक्षकर्णेन भक्ता फले क्रमेण लम्बज्याक्षज्ये तयोर्ज्ययोर्धनुषी क्रमण लम्बाक्षौ सदाभयगोले दक्षिणदिक्स्थौ भवतः। अत्रोपपात्तिः। याम्योत्तरवृत्ते निरक्षस्वदेशपूर्वापरवृत्तयोर्यदन्तरं तदक्षः। याम्योत्तरवृत्ते दक्षिणक्षितिजप्रदेशाद्विषवद्वृत्तस्य यदन्तरं तल्लम्बः। उभावूर्द्ध्वगोले स्वपूर्वापरवृत्ताद्दक्षिणौ तज्ज्ये अक्षलम्बज्ये भूजकोटी त्रिज्याकर्ण इत्यक्षक्षेत्रादक्षकर्णकर्णे द्वादशपलभे कोटिभुजौ तदा त्रिज्याकर्णे कावित्यनुपाताभ्यां लम्बाक्षज्ये तद्धनुषो लम्बाक्षावित्युपपन्नम्। अथ मध्याह्नच्छायातोऽक्षानयनं श्लोकाभ्यामाह” र० ना०

“मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका। स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे। उत्तराश्चोत्तरे थाम्यास्ताः सूर्यक्रान्तिलिप्तिकाः। दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः” सू० सि०। “अभीष्टदिन माध्याह्निका छाया भुजसञ्ज्ञा ज्ञेया। तेन भुजेन त्रिज्या गुणिता मध्याह्नच्छायाकर्णेन भक्ता फलस्य धनुःकला नता नतसञ्ज्ञास्ता नतकला दक्षिणे भुजे मध्याह्नच्छायारूपभुजे प्राच्यपरसूत्रमध्याद्दक्षिणदिकस्थे सति, उत्तरदिक्का उत्तरे भुजे दक्षिणाः। चो विषयव्यवस्थार्थकः। ता नतकलाः सूर्यक्रान्तिकलाः प्रागुक्ताः दिगभेदे खदिशोर्भिन्नत्वे मिश्रिताः संयुक्ताः साम्येऽभिन्नदिक्त्वे विश्लिष्टा अन्तरिताः। चो विषयव्यवस्थार्थकः। अक्षकला भवन्ति। अत्रानावश्यकभुजसञ्ज्ञया भगवतोपपत्तिरुक्ता। तथाहि। द्वादशाङ्गुलशङ्कुकोटौ मध्याह्नच्छायाकर्णे वा मध्यच्छायाभुजस्तथा स्वस्वस्तिकान्मध्याह्नकाले सूर्यस्य याम्योत्तरवृत्ते यदन्तरेण नतत्वं ता नतकलास्तज्ज्या नतांशज्या मध्याह्नोनतांशज्यारूपशङ्कौ त्रिज्याकर्णे वा भुज इति मध्याह्नच्छायाकर्णे कर्णे मध्याह्नच्छाया भुजस्तदा त्रिज्याकर्णे को भुज इत्यनुपातेन नतज्या तद्धनुरत्र कलात्मकत्वान्नतकलास्ता ग्रहसम्बद्धा इति च्छायादिग्विपरीतदिक्काः। अथ क्रान्त्यंशाक्षांशयोरेकदिक्त्वे योगेन नतांशा इति दक्षिणा नतकला दक्षिणक्रान्तिकलाभिर्हीना अक्षांशा भवन्ति। क्रान्त्यंशाक्षांशयोर्मिन्नदिक्त्वेऽन्तरेण नतांशा यदि दक्षिणास्तदा क्रान्त्यूनाक्षांशस्य नतत्वादुत्तरक्रान्तियुता अक्षांशाः। यदि तूत्तरास्तदाक्षांनक्रान्तेर्नतत्वान्नतोनोत्तरक्रान्तिरक्ष इति सम्यगुपपन्नम्। अथाक्षात् पलमानयनमाह” र० ना०।

“ताभ्योऽक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम्। लम्बज्यार्कगुणाक्षज्या विषुवद्भा थ लम्बया” सू० सि०।

“ताभ्योऽक्षकलाभ्योऽक्षज्या भवति। चः समुच्चये। अक्षज्यावर्गं त्रिज्याबर्गात् त्यक्त्वा शेषान्मूलं लम्बज्या। अनन्तरमक्षज्या द्वादशगुणा लम्बया लम्बज्यया गुणनस्य भजनसम्बन्धाद्भक्तेत्यर्थसिद्धम्। अक्षभा स्यात्। अत्रोपपत्तिः। अक्षकलानां याक्षज्या तस्यास्त्रिज्याकर्णे भुजत्वात् तद्वर्गोनात् त्रिज्यावर्गान्मूलं लम्बज्या कोटिः। तयाक्षज्या भुजस्तदा द्वादशकोटौ को भुज इत्यनुपातेन विषुवच्छायेति। अथाक्षज्ञाने नतभागेभ्यः क्रान्तिद्वारा सूर्यसाधनं सार्धश्लोकाभ्यामाह” र० ना०।

“स्वाक्षार्कनतभागानां दिक्साम्येऽन्तरमन्यथा। दिग्भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता। परमापक्रमज्याप्ता चापं मेषादिगो रविः। कर्कादौ प्रोज्झ्य चक्रार्धात् तुलादौ भार्धसंयुतात्। मृगादौ प्रोज्झ्यभगणान्मध्याह्नेऽर्कःस्फुटीभवेत्” सू० सि०। “स्वदेशाक्षांशेष्टदिनीयमध्याह्नसूर्य्यनतांशयोर्भागाना बहुत्वाद्बहुवचनम्। एकदिक्त्वेऽन्तरमन्यदिक्त्वेऽन्यथा योगः कार्य्यः। शेष उक्तसंस्कारसिद्धोऽङ्कः क्रान्तिः स्यात्। तस्यापक्रमस्य ज्या त्रिज्यया गुण्या परमक्रान्तिज्यया प्रागुक्तया भक्ता फलस्य धनुर्भागादिकं मेषादिगो मेषादि- राशित्रितयान्तर्गतोऽर्कः स्यात्। कर्कादित्रयेऽर्के चक्रार्धात षड्राशित आगतार्कं त्यक्त्वा शेषं मध्याह्नकाले स्फुटोऽर्कः स्यात्। तुलादित्रितये षड्भयुतादागतार्कात् स्फुटोऽर्कोज्ञेयः। आगतोऽर्कः षड्मयुतः स्फुटोऽर्कः स्यादित्यर्थः। मकरादित्रयेऽर्के द्वादशराशिभ्य आगतार्कं त्यक्त्वा शेषमयनांशसंस्कृतः स्फुटोऽर्कः स्यात्। करणागतज्ञानार्थं व्यस्तायनांशसंस्कृत इत्यर्थसिद्धम्। पूर्वं तत्संस्कृतग्रहात् क्रान्तिः साध्येत्यर्थस्योक्तेः। अत्रोपपत्तिः। एकदिशि क्रान्त्यक्षयोगान्नतं दक्षिणमतोऽक्षोनं क्रान्तिर्दक्षिणा। भिन्नदिशि क्रान्त्यूनाक्षो नतं दक्षिणमनेनाक्षो हीनः क्रान्तिरुत्तरा। अक्षोनक्रान्तिर्नतं तूत्तरमतोऽक्षयुतं क्रान्तिरुत्तरा। अस्या ज्या क्रान्तिरर्कज्या। यदि परमक्रान्तिज्यया त्रिज्याभुजः स्यात् तदानया केतीष्टा सायनार्कभुजज्या वद्धनुः सायनार्कभुज। भुजस्य चतुर्षु पदेषु तुल्यत्वात् प्रथमपदे मेषादित्रये सूर्य्यस्यैव भुजत्वाद्भुज एव सूर्य्यः। कर्कादित्रये द्वितीयपदे षडभादूनस्यार्कस्य भुजत्वाद्भुजोनषड्भमर्कः। एवं तृतीयपदे तलादित्रये षड्भेन हीनार्कस्य भुजत्वात् षड्युतो भुजोऽर्कः। चतुर्थपदे मकरादित्रये सूर्योनभगणस्य भुजत्वात् सर्य्योनभगणोऽर्क इति सर्वं वैपरीत्यात् सुगमतरम्। अथागतस्फुटसूर्य्यस्य करणागतस्फुटतुल्यत्वज्ञान मागतस्फुटसूर्य्यान्मध्यमस्य करणागतमध्यमार्कतुल्यत्वेन विशेषं वक्तुं श्लोकार्धेनाह र० ना०। “तन्मान्दमसकृद्वामं फलं मध्यो दिवाकरः”। सू० सि०। “तस्मादागतस्फुटसूर्य्यान्मान्दं फलं मन्दफलमसकृदनेकवारं वामं व्यस्तं संस्कतं स्फुटसूर्य्योऽहर्गणानीतः स्फुटसूर्य्यः स्यात्। अयमर्थः। स्फुटसूर्य्यं मध्यमं प्रकल्प्य पूर्व्वमन्दोच्चात् प्रागुक्तरीत्या मन्दफलं धनमृणमानीय स्फुटसूर्य्ये ऋणं धनं कार्य्यं मध्यमसूर्य्यः। अस्मादपि मन्दफलं स्पष्टसूर्य्ये व्यस्तं संस्कृतं मध्यमोऽस्मादपि मन्दफलं स्पष्टे व्यस्तं मध्यमार्क इति यावदविशेषस्तावदसकृत् साध्योऽर्को मध्योऽहर्गणानीती भवतीति। तथा च मध्यमार्कात् स्फुटार्कसाधनमेकवारं मन्दफलसंस्कारः स्फुटार्कान्मध्यार्कसाधने त्वनेकवारं मन्दफलव्यस्तसंस्कार इति विशेषोऽभिहितः। अत्रोपपत्तिः। मध्यमसूर्य्यादानीतमन्दफलेन संस्कृतो मध्यःस्फुटोऽर्को भवति। अयं वा तेनैव मन्दफलेन व्यस्तं संस्कृतो मध्यो भवति। अत्र स्फुटार्कान्मध्यार्कसाधने मध्यमज्ञानासम्भवात् तदानीतमन्दफलज्ञानमशक्यमतः स्फुटसूर्य्यं मध्यमं प्रकल्प्यानीतमन्दफलेनाभिमतासन्नेन स्फुटोऽर्कोव्यस्तं सस्कृतो मध्यमासन्नः। अस्मादपि मन्दफलमभिमतासन्नमपि पूर्व्वस्मात् सूक्ष्ममिति यावदविशेषे मध्यार्कसाधित मन्दफलं भवतीति निरवद्यं सर्वमुक्तम्। अथ मध्याह्ने छायाकर्णयोरानयनं विवक्षुः प्रथमं तात्कालिकनतांशज्ञानं कथयंस्तद्भुजकोटिज्ये कार्य्ये इत्याह” र० ना०। “स्वाक्षार्कापक्रमयुतिर्दिक्साम्येऽन्तरमन्यथा। शेषं नतां शाः सूर्य्यस्य तद्बाहुज्या च कोटिजा” सू० सि०। “दिकमाम्ये एकदिक्त्वे स्वदेशाक्षांशमध्याह्नकालिकसूर्य्यक्रा न्त्यंशयोर्योगः। अन्यथा अत उक्तादेकदिक्त्वाद्वैपरीत्ये भिन्नदिक्त्वे इत्यर्थः अक्षांशक्रान्त्यंशयोरन्तरं कार्य्य शेषं संस्कारोत्पन्नं सूर्य्यस्य मध्याह्ने नतांशास्तेषां नतांशानां भुजरूपाणां ज्या कोटिजा तदंशा नवति शुद्धाः कोटिस्तत उत्पन्ना ज्या। चः समुच्चये। साध्या। अत्रोपपत्तिः। याम्योत्तरवृत्ते सूर्य्यस्य मध्याह्ने स्वस्वस्तिकादनन्तरं नतांशा विषुवद्वृतपर्य्यन्तमत्तांशाः। विषुवद्वृत्तसूर्य्ययोरन्तरं क्रान्त्यंशाः। अतो दक्षिणक्रान्तौ क्रान्त्यक्षयोगो नतांशा उत्तरक्रान्तौ क्रान्त्यूनाक्षोऽक्षोनक्रान्तिर्वा दक्षिणोत्तरनतांशास्तेषां ज्या दृग्ज्या भुजस्तत्कोटिज्या महाशङ्कुः कोटिस्त्रिज्या कर्ण इति छायाक्षेत्रे तदंशानां भुजत्वात” अथ छायाकर्णयोरानयनमाह। र० ना०। “शङ्कुमानाङुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्। कोटिज्यया विभज्याप्ते छायाकर्णावहर्दले” सू० सि०। “भुजत्रिज्ये नतांशज्यात्रिज्ये इत्यथः। शङ्को प्रमाणाङ्गुलानि द्वादश तैर्गुणिते कार्य्ये। उभयत्र कोटिज्यया नतांशीननवत्यंशानां ज्ययेत्यर्थः। भक्त्वा लब्धेद्वे यथाक्रमं भुजज्यात्रिज्यास्थातीयफलक्रमेण मध्याह्ने छायातत्कर्णौ भवतः। अत्रोपपत्तिः। द्वादशाङ्गुलशङ्कोः कोटिरिष्टच्छायाभुजस्तत्कृत्योर्योगपदं कर्ण इति छायाकर्णः कर्ण इति छायाक्षेत्रे। महाशङ्कुकोटौ दृग्ज्यात्रिज्ये भुजकर्णौ तदा द्वादशाङ्गुलशङ्कुकोटौ कावित्यनुपातेन मध्याह्नकाले छायातत्कर्णौ भवतः। साधकयोस्तात्कालिकत्वादित्युपपन्नम” र० ना०। अथ भुजमाधनं विवक्षुः प्रथममग्रा कर्णाग्रे आनयति। “क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया। अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका” सू० सि०। सूर्यक्रान्तिज्या अक्षकर्णगुणिता शङ्कुजीवया शङ्कुर्द्वादशाङ्गुलस्तद्रूपा ज्या तयेत्यर्थः। द्वादशभिरिति फलितम्। भक्ता फलं सूर्यस्याग्रा। उपलक्षणाद्ग्रहस्यापि। इयमग्रा स्वाभिमतकालिकच्छायाकर्णेन गुणिता मध्यकर्णोद्धृता कर्ण्णस्य व्यासस्य मध्यमर्धमिति मध्यकर्णोव्यासार्द्धं त्रिज्या तयेत्यर्थः। भक्ता फलं स्वका स्वकर्णाग्रा स्यात्। अत्रोपपत्तिः। क्रान्तिज्योन्मण्डले कोटिरग्रा क्षितिजे कर्णः कुज्या भुज इत्यक्षक्षेत्रे द्वादशकोटावक्ष कर्णः कर्णस्तदा क्रान्तिज्याकोटौ क कर्ण इत्यनुपातेनाग्रा। त्रिज्यावृत्ते इयं कर्णवृत्ते केत्यनुपातेन कर्ण्णवृत्ताग्रेत्युपपन्नम्। अथ भुजानयनं श्लोकाभ्यामाह” र० ना०।

“विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः। विषुवत्यां विशोध्योदग्गोले स्याद् बाहुरुत्तरः। विपर्ययाद्भुजो याम्यो भवेत् प्राच्यपरान्तरे। माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता” सू० सि०। “अर्काग्रा सूर्य्यस्याभीषकालिककर्णाग्रा याम्ये दक्षिणगोले विषुवद्भायुताक्षच्छायया युक्तोत्तरदिक्को भुजःस्यातु। उत्तरगोले विषुवत्यां पलभायां कर्णाग्रां विशोध्य न्यूनीकृत्य शेषमुत्तरदिक्को भुजः स्यात्। ननु कर्णाग्रा पलभायां यदा न शुध्यति तदा कथं भुजः साध्य इत्यत आह। विपर्ययादिति। अक्षभां कर्णाग्रायां विशोध्य शेषं दक्षिणो भुजः स्यात्। ननु भुजस्य याम्यत्वमुत्तरत्वं वा कस्मादित्यत आह प्राच्यपरान्तर इति। पूर्वापरसूत्रादन्तरालपदेशे याम्ये उत्तरो वा भुजः स्यादित्यर्थः। ननु तथापि द्वितीयावधेरनुक्तत्वादन्तरस्याप्रसिद्धेः पूर्वापरसूत्रात् कम्यान्तरं भुज इत्याशङ्काया उत्तरं मध्याह्नच्छायास्वरूपकथनच्छलेनाह माध्याह्निक इति मध्याह्नकालिको भुजः सदा माध्याह्निकी मध्याह्नकालिकी छायोक्ता। तथा च छायाग्रं प्राच्यपरसूत्राद्याम्यमुत्तरं वा यदन्तरेण स भज इति व्यक्तीकृतम्। अत्रोपपत्तिः। शङ्कमूलं प्राच्यपरसूत्राद्याम्यमुत्तरं वा यदन्तरेण स याम्योत्तरो भुजो ग्रहस्य। शङ्गुस्तु ग्रहादवलम्बसूत्रं क्षितिजसमसूत्रावधि तत्रायं भुजः शङ्कुतलाग्रयोः संस्कारजः। शङ्कुतलं तु स्वाहोरात्रवृत्तस्थितोदयास्तसूत्राच्छङ्कुमूलं यदन्तरेण तद्दक्षिणम्। अग्रा तु पूर्वापरसूत्राददयास्तगूत्रावध्यन्तरसुत्तरदक्षिणगोलक्रमेणो- त्तरदक्षिणा। तत्र ग्रहापरदिशि षड्भान्तरेऽस्माद्व्यस्तमिति शङ्कुतलमुत्तरमग्रापि व्यस्तदिक्केति तत्संस्कारो भुजो गोले प्रत्यक्षः। स महाशङ्कोरिति यदि महाशङ्कोरयं तदा द्वादशाङ्गुलशङ्कोः क इत्यनुपातेन भुजः पूर्वापरसूत्राच्छायाग्रावधिः। तत्र शङ्कुतलाग्रे द्वादशाङ्गुलशङ्कोः साधिते तत्संस्कारेण भुजः स एव। तत्राप्यग्रा पूर्वं साधिता शङ्कुतलं तु द्वादशाङ्गुलशङ्कोः पलभा महाशङ्कुः कोटिः शङ्कुतलं भुजो हृतिः कर्ण इत्यक्षक्षेत्रे द्वादशकोटौ पलभा भुजस्तदा महाशङ्कुकोटौ को भुज इत्यनुपातेन शङ्कुतलमानीय महाशङ्कोरियं द्वादशाङ्गुलशङ्कोः किमित्यनुपातेन गुणहरयोस्तुल्यत्वान्नाशेन पलभाया एवावशिष्टत्वात्। सा तूत्तरा दक्षिणगोलेऽग्राया उत्तरत्वादेकदिक्त्रेन पलभाग्रयोर्योगे उत्तरो भुजः। उत्तरगोलेऽग्राया दक्षिणत्वेन भिन्नदिक्त्रात् पलभाग्रयोरन्तरं भुजस्तत्र पलभायाः शेषमुत्तरो भुजोऽग्रायाः शेषं दक्षिणो भुजः। मध्याह्ने छायाया भुजरूपत्वान्मध्याह्नकालिको भुजो मध्याह्नच्छायेति सर्वं युक्तम्। अथ याम्योत्तरवृत्तस्थच्छायाकर्णमुक्त्वा पूर्वापरवृत्तस्थच्छायाकर्णं प्रकारद्वयेनाह” र० ना०। “लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे। क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ” सू० सि०। “लम्बज्याक्षज्ये क्रमेणाक्षभाद्वादशभ्यां गुणिते उभयत्र क्रान्तिज्यया भक्ते तुकारात् फले, समवृतस्थेऽर्के तौ दृग्योग्यच्छायासम्बद्धौ कर्णौ भवत उभयत्र छायाकर्णः स्यात्। अत्रोपपत्तिः। स्वमस्तकोपरि पूर्वापरानुकारेण यद्वृत्तं तत्सममण्डलसञ्ज्ञम्। तत्रस्थस्य छायाकर्णानयनम्। पलमाभुजेऽक्षकर्णः कर्णस्तदा क्रान्तिज्याभुजे कः कर्ण इति, समशङ्कुः क्रान्तिज्याभुजे समशङ्कु कुजपोनतद्धृत्योः क्रमेण कर्णकोटित्वात्। अस्माच्छङ्गु मानाङ्गुलाम्यस्ते इत्यादिना त्रिज्या द्वादशगुणितानेन भक्ता तत्र। “छेदं लघं च परिवर्त्य हरस्य शेषः कार्योऽत्र भाग हरणे गुणानाविधिश्च” इत्युक्तेः। पलभयापि गुण्या क्रान्तिज्याक्षकर्णाभ्यां भक्ता। तत्र त्रिज्या द्वादशगुणिता अक्षकर्णभक्ता लम्बज्यैव सिद्धातो लम्बज्या पलभागुणिता क्रान्तिज्याभक्ता फलं समवृत्तगतच्छायाकर्णः। अथात्रैव पलभाभुजे द्वादशकोटिरक्षज्याभुजे का कोटिरिति लम्ब ज्याग्रहणे पलभयोस्तल्यत्वान्नाशादक्षज्या द्वादशगुण क्रान्तिज्या भक्ता छायाकणः सममण्डलगतः। क्रान्तिज्यायाः सदायं कर्णः सिद्ध्येन्न हि सर्वदा समवृहगतो ग्रह इति समवृत्तगतग्रहस्यैव कर्णः साध्यो नान्यदेति सूचनार्थं सममण्डलगे रवावित्युक्तम्”। तनु ग्रहाधिष्ठिताहोरात्रपूर्वापरवृत्तसम्पातादवलम्बरूपसमशङ्कोर्गोले प्रत्यक्षसिद्धस्य साधनार्थं समवृत्तस्थात्वाभावेऽपि छायाकर्णः साध्यः। सममण्डलगे रवावित्युक्तिस्तु स्वाधिष्ठिताहोरात्रवृत्तपरा न त्वन्यदा न साध्योऽन्यथालक्ष्यत्वेन प्रकारस्यातिप्रसङ्गापत्तेः। न हि प्रकारे तद्व्यावर्तकं विशेषणं प्रसिद्धं येन नातिप्रसङ्गः। परन्तु यदा सममण्डलेऽक्षांशाधिकक्रान्त्या ग्रहाधिष्ठितद्युरात्रवृत्तानामसम्बन्धस्तदा गोले समशङ्कोरदर्शनात् तत्र कथं तत्साधनमनिवारितमित्यतः सममण्डलगे रवावित्यस्य पूर्वोक्त एवार्थ इत्यभिप्रायं सममण्डलकर्णानयनप्रकारान्तरकथनच्छलेनाह” र० ना०।

“सौम्याक्षोना यदा क्रान्तिः स्यात्तदा द्युदलश्रवः। विषुवच्छाययाभ्यस्तः कर्णो मध्यगुग्रयोद्धृतः” सू० सि०

“यदोत्तरा क्रान्तिरक्षादल्पा स्यात् तदा द्युदलश्रवः समवृत्तस्थार्कक्रान्तिसाधितमध्याह्नकर्णः। न तु मध्याह्नकालिकः। अक्षमया गुणितो मध्याग्रया गृहीतमध्याह्नकर्णाग्रया भक्तः फलं सममण्डलगतग्रहविम्बस्य छायाकर्णः स्यात्। अत्र सौम्येत्यनेन दक्षिणक्रान्तौ तदसाधनं सममण्डलगतग्रहविम्बस्यादर्शनादिति स्फुटमुक्तम् अन्यथाक्षाल्पक्रान्तौ दक्षिणगोले समशङ्कोः प्रत्यक्षत्वात् तन्निवारणानुपपत्तेः। अत्रोपपत्तिः। सममण्डलप्रवेशकालिकमध्याह्नच्छायाकर्णादवस्तुभूतात् कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्याकर्णेन क इति मध्यशङ्कुस्तात्कालिकः। द्वादशकोटावक्षभा भुजस्तदा महाशङ्कुकोटौ क इति शङ्कुतलम्। द्वादशनाशात् पलभात्रिज्याघातो मध्यकर्णभक्त इति। अनेन भुजेन मध्यशङ्कुस्तदाऽग्राभुजेन क इति समशङ्कुर्द्वादशाग्रामध्यकर्णघाती मध्यकर्णपलभाभ्यां भक्तोऽग्राभुजे समशङ्कुतद्धृत्योः कोटिकर्णत्वात्। अस्मात् पूर्वप्रकारेण छायाकर्णानयने द्वादशनाशान्मध्यकर्णपलभात्रिज्याघातोऽग्रामध्यकर्णाभ्यां भक्त इति तुल्ययोर्मध्यकर्णमितगुणहरयोर्नाशाकरणेन सिद्धम् स्वतन्त्रेच्छस्य नियोक्तुमशक्यत्वात्। तत्रापि भाज्यहरौ त्रिज्ययाऽपवर्त्य हरस्थाने मध्यकर्णगुणिताग्रा त्रिज्याभक्तेति भध्यकर्णाग्रा सिद्धातो मध्याग्रयोद्धृत इत्युक्तम्। भाजास्थाने तु मध्यकर्णपलभाधात इति दक्षिणगोले ग्रहादर्शनान्न साधितः। उत्तरगोलेऽपि क्रान्तिरक्षाधिका तदा सममण्डलप्रवेशासम्भवान्न साधितः सममण्डलावध्यक्षांशत्वात्। अल्पक्रान्तौ तत्सम्मवात् साधितः। नह्यसिद्धं गोले गणितसाध्यं मानाभावा दित्युपपन्नं सौम्येत्यादि। भास्कराचार्यैस्तु “भार्तण्डः सममण्डलं प्रविशति स्वल्पेऽपमे स्वात् पलात् दृश्यो ह्युत्तरगोल एव स विशन् साध्या तदैवास्य भा। अप्राप्तेऽपि समाख्यमण्डलमिनेयः शङ्कुरुत्पद्यते नूनं सोऽपि परानुपातविधये नैवं क्वचिद्दुष्यति” इत्यनेन तत्रापि साधितः। अथ स्वाभिमतकर्णेन स्वस्वकाकाले भुजार्थं कर्णवृत्ताग्रा साध्येति सूचनार्थं कर्णाग्रामुक्तप्रकारेण पुनरपि मध्यकर्ण इति प्रागुक्तस्य स्फुटीकरणार्थं चाह” र० ना०।

“स्वक्रान्तिज्यात्रिजीवाघ्नी लम्बज्याप्ताऽग्रा मौर्विका। स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका” सू० सि० “स्वाभिमतकालिकक्रान्तिज्या त्रिज्यया गुणिता लम्बज्यया भक्ता फलमग्रा ज्यारूपा। लम्बज्याकोटौ त्रिज्या कर्णः क्रान्तिज्याकोटौ कः कर्ण इत्यग्रेत्युपपत्तिः। उत्तरार्धं पुनरुक्तं व्याख्यातप्रायम्। यदि तु पूर्वोक्तकर्णवृत्ताग्रानयनश्लोके शङ्कुजीवयेत्यस्य शङ्कोः कोटिरूपत्वात् पूर्वसाधितनतांशभुजकोटिज्ययेत्यर्थो मध्यकर्ण इत्यस्य च तात्कालिकमध्याह्नच्छायायाः कर्णस्तदा न पुनरुक्तम्। परन्त्वर्काग्रेत्यस्य तात्कालिकमध्याह्नकालिककर्णाग्रार्थः स्वकेत्यस्य च स्वाभीष्टकालिककर्णाग्रार्थो बोध्यः। एतदुपपत्तिस्तु द्वादशकोटावक्षकर्णः कर्णस्तदा क्रान्तिज्याकोटौ कः कर्ण इति स्वकालिकाग्रा। त्रिज्यावृत्ते इयं तदा तात्कालिकमध्याह्नकालिकच्छायाकर्णेन नतांशकोटिज्याभक्तद्वादशत्रिज्याधातात्मकेन केति द्वादशत्रिज्याघातयोर्गुणहरत्वेन तुल्ययोर्नाशादक्षकर्णगुणितक्रान्तिज्या तात्कालिकमध्याह्ननतांशकोटिज्यया भक्तेति। तात्कालिकमध्याह्नच्छायाकर्णेनेयं कर्णाग्रा तदा स्वाभीष्टकालिकच्छायाकर्णेन केति स्वकालिकी कर्णाग्रेत्यु पपन्ना। सूर्याधिष्ठिताहोरात्रवृत्तयाम्योत्तरवृत्तोर्ध्वसम्पातस्तात्कालिकुमध्याह्न परानुपातार्थं बोध्यम्। अथ

कोणच्छायाकर्णसाधनार्थं कोणशङ्कुदृग्ज्ये श्लोक पञ्चकेनाह” र० ना०।

“त्रिज्यावर्गार्धतोऽग्रज्या वर्गोनाद्द्वादशाहतात्। पुनर्द्दादशनिघ्नाच्च लभ्यते यत् फलं बुधैः। शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात्। तदेव करणीनाम तां पृथक् स्थापयेद्बुधः। अर्कघ्नी विषुवच्छायाऽग्रज्यया गुणिता तथा। भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्। फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः। याम्ययोर्विदिशोः शङ्कुरेवं याम्योत्तरे रवौ। परिभ्रमति शङ्कोस्तु शङ्कुरुत्तरयोस्तु सः। तत्त्रिज्यावर्गविश्लेषान्मूलं दृगज्याभिधीयत” सू० सि०। “पूर्वप्रकारानीतैस्तात्कालिकाग्रज्याया न तु कर्णाग्रायाः पूर्वं कर्णस्यैवासिद्धेः। वर्गेण हीनात् त्रिज्यावर्गार्धाद्द्वादशगुणात् पुनर्द्वितीयवारं द्वादशगुणात्। चः समुच्चये। तेन द्वादशगुणितस्य द्विधा स्थापननिरासाच्चतुश्चत्वारिंशदधिकशतगुणितादित्यर्थः। पृथक् गुणकोक्तिस्तु गुणनसुखार्थम्। शङ्कोर्द्वादशाङ्गुलात्मकस्य वर्गा र्धेन द्विसप्तत्या युक्तेन पलभावर्गेण भाजिताद्बुधैर्गणित कर्तृभिर्यत्सङ्ख्यामितं फलं प्राप्यते तत्सङ्ख्यामितं करणी नामसञ्ज्ञया करणी। तां करणीं बुधो गणकः पृथगेकत्र स्थाने स्थापयेत्। ततो द्वादशगुणिता पलभाग्रज्यया पूर्वगृहीतया गुणिता तथा द्विसप्ततियुतेन पलभावर्गेण भक्ता लब्धं फलसञ्ज्ञं तस्य फलस्य वर्गेण युतायाः करण्या मूलं दक्षिणोत्तरगोलयोः क्रमेण फलेनोनयुतम्। एवमुक्तप्रकारेण सिद्धः शङ्कुः, शङ्कोर्गणितकर्तुः सकाशाद्दक्षिणोत्तरे सूर्ये परिभ्रमति सति तुकारः क्रमार्थे क्रमेण याम्ययोरुत्तरयोर्विटिशोराग्नेयनैरृत्योरैशानीवायव्योः कोणयोरित्यर्थः। द्वितीयतुकारः पूर्वापरदिने विभागक्रमार्थकत्वेन विदिशोरित्यत्रा न्वेति तेन दिनपूर्वार्धे आग्नेयैशान्योर्दक्षिणोत्तरक्रमेण, दिनापरार्धे नैरृत्यवायव्योर्दक्षिणोत्तरक्रमेणेति फलितार्थः। स कोणसञ्ज्ञः शङ्कुः स्यात्। कोणशङ्कुत्रिज्ययोर्वर्गान्तरान्मूलं दृग्ज्योच्यते” र० ना०। अथैतच्छायाच्छायाकर्णयोरानयनमाह। “स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते। छायाकर्णौ त कोणेषु यथास्वं देशकालयोः” सू० सि०। “कोणीयदृग्ज्यात्रिज्ये द्वादशगुणे दृग्ज्यासम्बन्धिकोणशङ्कुना भक्त्वा लब्धे दृग्ज्यात्रिज्याक्रमेण छायाच्छायाकर्णौ स्तः। तुकारादेवं कोणेषु चतुर्षु देशकालयोः यथाम्बं स्वमनतिक्रम्येति यथास्वं यथादेशं यथाकालं छायाच्छायाकर्णौ साध्यौ। अयमर्थः। क्वचिद्दे शे चतुर्षु कोणेषु क्वचिच्च कोणद्वये क्वचिच्च दिनार्ध एव कोणद्वय इत्यादि देशकालानुरोधेन यथायोग्यमिति। अत्रोपपत्तिः प्रागुक्ता स्पष्टा च”। अथ दिक्प्रदेशसम्बन्धेन च्छायाकर्णावुक्त्वा कालसम्बर्न्धन सार्धश्लोकाभ्यामाह” र० ना०। “त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता। अन्त्या नतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा। विज्याभक्ता भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः। त्रिभज्यया भवेच्छङ्कुस्तद्वर्गं परिशोधयेत्। त्रिज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत्”। मू० सि० “उत्तरगोले चरोत्पन्नया ज्यया चरज्ययेत्यर्थः। पूर्वचरानयने चरज्यायाश्चरजेति सञ्ज्ञोक्तेः। युक्ता त्रिज्याऽन्त्या स्यात्। याम्यगोले तया चरज्ययोना त्रिज्याऽन्त्या स्यात्। नतोत्क्रमज्योना सूर्योदयाहिनगतघट्यो दिनशेषघट्यो वा दिनार्धान्तर्गता उन्नतसञ्ज्ञास्ताभिरूनं दिनार्धं नतकालो घट्यात्मकस्तस्यासुम्यो लिप्तास्तत्त्वयमैरित्यादिविधिना, मुनयो रन्ध्रयमला इत्याद्युक्तोत्क्रमज्यापेण्डैर्ज्योत्क्रमज्या। पञ्चदशघट्यधिकनते तु पञ्चदशघट्यूननतस्य क्रमज्याखण्डैः क्रमज्या तया युक्ता त्रिज्योत्क्रमज्या भवति। तया हीनेत्यर्थः। स्वाहोरात्रार्धसङ्गुणा। गृहीतचरज्यासम्बन्ध्यहोरात्रवृत्तव्यामार्धं द्युज्या तया गुणिता त्रिज्यया भक्ता फलं छेदसञ्ज्ञं स्यात्। अथानन्तरं छेदो लम्बज्यया गुणितस्त्रिज्यया भाज्यः फलमिष्टकाले शङ्कुः स्यात्। तस्य शङ्कोर्वर्गं त्रिज्यावर्गाच्छोधयेत्। शेषस्य मूलं दृग्ज्या। आभ्यां छायाकर्णौ तु पूर्ववत्। पूर्वोक्तरीत्या भवतः। अत्र च्छायाकर्णौ त्विति कोणच्छायाकर्णसाधनश्लोकान्तर्भागम्य ग्रहणात् तच्छ्लोकोक्तरीत्याऽमीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ साध्यावित्युक्तम्। अत्रोपपत्तिः। याम्योत्तरवृत्तोर्द्धभागग्रहाधिष्ठितद्युरात्रवृत्तसम्पातात् क्षितिजद्युरात्रवृत्तसम्पातद्वयबद्धोदयास्तसूत्रक्षितिजसम्बद्धयाम्योत्तरवृत्तसूत्रसम्पातपर्यन्तमहोरात्रदृत्ते सूत्रं त्रिज्यानुरुद्धभन्त्या। सा तूत्तरगोले चरज्यायुता त्रिज्या दक्षिणगोले चरज्ययोना त्रिज्या। उन्मण्डलयाम्योत्तरसूत्रावध्यहोरात्रवृत्तव्यासार्धे त्रिज्यात्वात् उन्मण्डलस्योत्तरदक्षिणक्रमेण क्षितिजादूर्ध्वाधःस्थत्वेन तद्याम्योत्तरसूत्रयोर्मध्ये चरज्यात्वाच्च। ग्रहाहोरात्रवृत्त याम्योत्तराऽहोरात्रवृत्तसम्पातादुभयत्र नतघट्यन्तरस्थाने तत्सूत्रं नतकालस्य सम्पूर्णज्या। तन्मध्यादूर्ध्वसूत्रं शररूपं नतोत्क्रमज्या। तया हीनान्त्या ग्रहस्थानादहोरात्रवृत्ते उदयास्तसूत्रपर्यन्तमृजुसूत्रं त्रिज्यानुरुद्धमिष्टास्त्या। तत्तुल्या याम्योत्तरोर्ध्वव्यासमूत्रान्तर्गता सा द्युज्याप्रमाणसाधितेष्टहृतिः। द्युज्यागुणा त्रिज्याभक्ता फलं छेदः। यदि तस्मात् त्रिज्याकर्णे लम्बज्या कोटिस्तदेष्टहृतिकर्णे का कोटिरित्यनुपातेनेष्टशङ्कुः। अस्माद्दृगज्या च्छाया तत्कर्णा उक्तरीत्या सिद्ध्यन्तीत्युक्तमुषपन्नम्। अथ श्लोकत्रयेण छायाकर्णाभ्यां नतकालानयनमाह” र० ना०। “अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता। दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच्च यत् पदम्। शङ्कुः सत्रिभजीवाघ्नः स्वलम्बज्याविभाजितः। छेदः स त्रिज्यायाभ्यस्तः स्वाहोरात्रार्द्धभाजितः। उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्। उत्क्रमज्याभिरेवं स्युः प्राक्पश्चार्धनतासवः”। सू० सि० “अभीष्टकालिकच्छायया गुणिता त्रिज्या गृहीतच्छायायाश्छायाकर्णेन भक्ता फलं दृग्ज्या दृग्ज्याया वर्गेण हीनात् त्रिज्यावर्गाद्यत्सङ्ख्यामितं मूलम्। चकारोयत्तदोर्नित्यसम्बन्धात् तच्छब्दपरः। अभीष्टशङ्कुः। स इष्टशङ्कुस्त्रिज्यया गुणितः स्वदेशीयलम्बज्यया भक्तः फल छेदः। स छेदस्त्रिज्यया गुणितो द्युज्यया भक्त उन्नतकालस्य ज्या विलक्षणा। यद्धनुरुन्नतकालो न भवति। तयानीतयोन्नतज्यया हीना स्वान्त्या स्वद्युज्यासम्बद्ध रज्यायावगतान्त्या। अवशेषस्योत् क्रमज्याभिः “मुनयोरन्ध्रयमलाः” इत्याद्युक्तोत्कमज्यापिण्ड्रैर्धनुः। अवशेषस्य त्रिज्याधिकत्वे तु यदधिकं तस्य क्रमज्यापिण्डैर्धनुश्चतुःपञ्चाशद्युक्तमुत्क्रमधनुर्भवति। एव प्रकारेण सिद्ध्वाङ्का दिनस्य पूर्वार्घापरार्धयोर्नतकालासवो भवन्ति। अत्रोपपत्तिः। पूर्वोक्तव्यत्यासात् सुगमा। तत्र छेदस्त्रिज्यापरिणत इष्टान्त्या तस्या ज्यात्वासम्भवः। अवध्युदयास्तसूत्रस्याहोरात्रवृत्तव्याससूत्रत्वाभावादित्युन्नतज्याकारेण स्वल्पान्तरत्वेन दर्शनादुन्नतज्येत्युक्तम्। अत एव भास्कराचार्यैः “इष्टान्त्यकमून्नकालमौर्वीतुल्यां प्रकल्प्य” इत्याद्युक्तम्। तद्धनुरमूनामुन्नतकालत्वापत्त्या तया होनेत्यादिभागस्य व्यर्थत्वापत्तेरिति दिक्” र० गा०। “इति त्रिप्रश्नाधिकारः” स० सि०। “दिग्देशकालानां प्रतिपादनमिदं परिपूर्तिमाप्तमित्यर्थः। तत्र दिशां साधनं शिलातल इत्यादि नियत, तत्सम्बन्धेन समकोणयाम्योत्तरशङ्कूनां साधनान्यपि दिगन्तर्गतान्यनि यतानि। पलभालम्बाक्षादिसाधनं देशनिरूपणं निय तम्। अग्राचरादिसाधनमनियतम्। कालसाधन तद्वशाच्छायादिसाधनं च कालनिरूपणमिति विवेकः” र० ना०। एवं शङ्कुच्छायया देशभेदेन सूक्ष्मं कालसाधने स्थिते वक्ष्यमाणछायापादेन कालज्ञानं स्थूलं किञ्चिद्देशविषय ञ्चेत्यवधयम् छायाकर्णादिकं प्रसङ्गादत्रोक्तम्। तत्तदर्थे अतस्तद् विशिष्य नोक्तम्।

छायाकर = त्रि० छायां करोति छत्त्रेण कृ–ट ६ त०। छत्त्रधरे हेमच०।

छायाङ्क = पु० छाया सूर्य्यप्रतिविम्बः अङ्कोऽस्य। चन्द्रे हेमच०। तस्य सूर्य्यकिरणप्रतिबिम्बेनैव प्रकाशः इन्दुशब्दे ९३१ पृ० वृ० स० उक्तदिशा दर्शितः “छाया मृगाङ्क छायाभृदादयोऽपि चन्द्रे।

छायातनय = पु० ६ त०। शनैश्चरे हला०। छायाशब्दे तस्य तत् पुत्रकथा दृश्या। छायासुतादयोऽप्यत्र। “सूर्य्यपुत्रं महावाहुं छायागर्भसमुद्भवम्” शनिप्रणाममन्त्रः।

छायातरु = पु० छायाप्रधानस्तरुः शा० त०। “पूर्व्वाह्णे च पराह्णे च तलं यस्य न मुञ्चति। अत्यन्तशीतला छाया स च्छायातरुरुच्यते” इत्युक्ते छायाप्रधाने वृक्षे। “स्निग्धच्छायातरुषु वसतिं रामगिर्य्याश्रमेषु” मेघः। छायावृक्षोऽप्यत्र स च नमेरुवृक्षे शब्दार्थचि०।

छायापथ = छायायुक्तः पन्थाः। आकाशस्थे ज्योतिश्चक्रमध्य वर्त्तिनि दक्षिणोत्तरायते तिरश्रीने आकाशस्थानभेदे “छायापथेनेव शरत्प्रसन्नम्” रघुः।

छायापाद = पु० छायायाः शङ्कुच्छायाया पाद इव द्वादशाङ्कलशङ्कोच्छायापादमाने। मासभेदे मध्याह्ने त संख्याभेदः तेन च दिनमानज्ञानं चाह” ज्यो० त० “अर्काङ्गुला तु सूच्यग्र्या काष्ठी द्व्यङ्गुलमूलिका। शव संज्ञा मवच्चैव तच्छायां परिकल्पयेत्। मध्याह्नही रादित्ययुक्तैश्छायाङ्गुलैर्हरेत्। षटपूरितदिवादर लब्धं दण्डादिकं भवेत्। पूर्व्वाह्णच्छाययातीतं प ह्णच्छाययैध्यकम्। शून्यैकरामवाणेभदिशोरुद्राः ३। ५। ८। १०। ११। क्रमोत्क्रमैः। आषाढादिषु म छाया माध्याह्निकी भता। न्मयनांशजमासान्ते व्यु क्रमेणादितो बुधैः। संख्योक्तान्यदिने भागहारे वृद्धीतरे तथा”। प्रकारान्तरन्तु, “पञ्चाव्धिरामयुग्मैक शून्यैकयुग्मवह्नय। चतुःपञ्चर्त्तवो) ५, ४, ३, २, १, ०। १, २, ३, ४, ५, ६, माघात् छायापादा दिनार्द्धके। अयनांशजमासान्ते विपादगणनक्रमात्। दिने दिने भागहारो मध्यच्छायापदे मतः। अङ्घ्रेः षष्टांशको व्यङ्घ्रि रङ्गुलेर्व्यङ्गुलिस्तथा। मद्यूनं द्विशतं हीनं मध्यपादैश्च षडगुणैः। छायापादैश्च मध्योनैः षड्युतैर्द्विगणैर्हरेत्। ग्राह्यमादिपदार्द्ध तु लब्धा दण्डा गतैष्यकाः। प्राक् पश्चिमदिनार्द्धात्तु शेषात् षष्टिगुणात्पलम्”। इदञ्च देशभेदविषयं स्थूलं च सूक्ष्मन्तु सू० सि० उक्त तच्च छायाशब्दे दृश्यम्।

छायापुरुष = पु० छायायां दृश्यः पुरुषः पुरुषाकृतिः। आकाशे द्रष्टव्ये निजच्छायानुरूपे पुरुषाकृतियुक्ते पदार्थे। तद्दर्शनोपायमाह योगप्रदीपिकायाम् ५ पटले “शिव उवाच। निरभ्रं गगनं देवि! यदा भवति निर्म्मलम्। तदा छायामुखो भूत्वा निश्चलः प्रयतो धिया। स्वच्छायाकल्पमालोक्य स्वगुरूक्तक्रमेण वै। सम्मुखं गगनं पश्येन्निर्निमेषस्तथैकधीः। शुद्धस्फटिकसङ्काशः पुरुषस्तत्र दृश्यते। न दृश्यत यदा तत्र पुनस्तद्वत् परीक्षयेत्। बहुधा दर्शनेनैव साक्षात्कारो भवेत् ध्रुवम्। कस्यचित् भाग्यतो दृश्यो यदि विम्बोऽक्षिगोचरः। भवत्येव न सन्देहो गुरुविश्वासतः शिवे!। गरुं सम्यक् पूजयित्वा पश्येच्छायां समाहितः। तथा षण्मासपर्य्यन्तं मृत्युस्तस्य न विद्यते। शिरोहीनं यद्रा पश्येत् षण्मासाभ्यन्तरे मृतिः। यदा पादौ न दृश्येते भार्य्याहानिर्न संशयः। न दृश्येते यदा पाणी भ्रातुर्हानिर्न संशयः। एतज् ज्ञात्वा सुधीः सम्यक् गङ्गातीरं समाश्रयेत्। योगाभ्यासेन सततं प्राणायामेन संस्कृतः। यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत्। योह्य भुक्तो हविष्याशी यतवाग्यतमानसः। मृत्युञ्जयेन्न सन्देहो अन्यथा मृत्युमृच्छति। यदा तु मलिनं पश्येत् ज्वरपीडा भवेत्तदा। तस्य शान्तिं प्रकुर्व्वीत शिवसेवां समाहितः। रक्तवर्णं यदा पश्येदैश्वर्थ्यं भवति ध्रुवम्। मध्यच्छिद्रं यदा पश्येत शत्रुघातो भवेत्तदा। एवं सन्दशनं दवि! ज्ञानवान् भवति ध्रुवम। नारदाय पुरा प्रोक्तं मया पुरुषदर्शनम। तत्प्रसादान्महायोगी भूत्वा लोकांश्चरत्यसौ। स्वच्छायादर्शन देवि। कलौ पुरुषलक्षणम्। दीर्घायुः समवाप्नोति ज्ञानञ्चापि सुनिर्मलम्”।

छायायन्त्र = न० छायया कालज्ञानसाधकं यन्त्रम्। कालज्ञानसाधकेषु शङ्कुयष्टिचक्रप्रभृतिषु यन्त्रभेदे। “शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा। गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः” सू० सि०।

छायामान = पु० छायया सूर्य्यप्रतिविम्बेन मीयते मा–कर्म्मणि ल्युट्। १ चन्द्रे हेमच० ६ त०। २ छायायाः प्रमाणे न०।

छायामित्र = न० छायाया मित्रमिव। आतपत्रे शब्दरत्न०।

छायामृगधर = पु० छायारूपं मृगं धरति धृ–अच्। चन्देत्रिका०। छायाशशधरादयोऽप्यत्र।

छायाविप्रतिपत्ति = स्त्री छायानां देहकान्तीना तत्प्रभृतीनां विप्रतिपत्तिर्विरुद्धा प्रतिपत्तिः। सुश्रुतोक्ते नॄणां मरणसूचके देहकान्त्यादीनामन्यथाभावे यथाह सुश्रुतः। “अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः। श्यावा लोहितिका नीला पीतिका वापि मानवम्। अभिद्रवति यं छाया स परासुरसंशयम्। ह्रीश्रियौ नश्यतो यस्य तेज ओजः स्मृतिः प्रभा। अकस्माद्यं भजन्ते नो स परासुरमंशयम्। यस्याधरौष्ठः पतितः क्षिप्तश्चोर्द्धं तथोत्तरः। उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम्। आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति च। खञ्जनप्रतिमा वापि तं गतायुषमादि शेत्। कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्य वै। कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून्। कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका। अवस्फूर्जति मग्ना वा न स जीवति मानवः। सङ्क्षिप्ते विषमे स्तब्धे रक्ते श्रस्ते च लोचने। स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम्। केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ। लुनन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे। नाहरत्यन्नमास्यस्थं न धारयति यः शिरः। एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः। बलवान् दुर्बलो वापि सम्मोहं योऽधि गच्छति। उत्थाप्यमानो बहुशस्त धीरः परिवर्जयेत् उत्तानः सर्व्वदा शेते पादौ विकुरुते च या। विप्रसारणशीलो वा न स जीवति मानवः! शीतपादकरोच्छ्वासश्छिन्नश्वासश्च यो भवेत्। काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत्। निद्रा न च्छिद्यते यस्य यो वा जागर्त्ति सर्व्वदा। मुह्येद्वा वक्तुकामस्तु प्रत्याख्येयः स जानता। उत्तरौष्ठञ्च यो लिह्यादुद्गारांश्च करोति यः। प्रेतैर्व्वा भाषते सार्द्धं प्रेतरूपं तमादिशेत्। खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्त्तते। पुरुषस्या विषार्त्तस्य सद्यो जह्यात्स जीवितम्। वाताष्ठीला तु हृदये यस्योर्द्धमनुयायिनी। रुजान्नविद्वेषकरी स परासुरसंशयम्। अनन्योपद्रवकृतः शोफः पादसमुत्थितः। पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम्। अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता। श्वासिनः कासिनो वापि यस्य तं परिवर्जयेत्। स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम्। बलवन्तमपि प्राणैर्व्वियुञ्जन्ति न संशयः। श्यावा जिह्वा भवे द्यस्य सव्यं चाक्षि निमज्जति। भुखञ्च जायते पूति यस्य तं परिवर्जयेत्। वक्त्रमापूर्य्यतेऽश्रूणां स्विद्यतश्चरणावुभौ। चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः। अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि च। यस्याकस्मात्स विज्ञेयो गन्ता वैवस्वतालयम्। पङ्क्यमत्स्यवसातैलघृतगन्धांश्च ये नराः। मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम्। यका ललाटमायान्ति वलिं नाश्नन्ति वायसाः। येषां वापि रतिर्नास्ति यातारस्ते यमालयम्। ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः। प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितुम्। क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा। न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः। पवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणामा। पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः। विषमेणोपचारेण कर्म्मभिश्च पुराकृतैः। अनित्यत्वाच्च जन्तूनां जीवितं निधवं व्रजेत्। प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च। मरणाभिभुखं नित्यमुपसर्पन्ति मानवम्। तानि भेषजवीर्य्याणि प्रतिघ्नन्ति जिघांसया। तस्मान्मोघाः क्रियाः सर्व्वा भवन्त्येव गतायुषः”।

छाल = पु० न० छा० वा० अलच् अर्द्धार्चा०। वल्कल।

छालिक्य = पु० छलिके रूपकभेदे भवः ष्यञ्। गानभेदे। तच्च गानं देवलोके स्थितं वासुदेवेन तत आनीय नरलोके प्रचारितं यथाह हरिवं० १४८ अ०। “छालिक्यगानं बहु संविधानं यद्देवगान्धर्वमुदाहरन्ति। जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियुक्ताम्। हल्लीषकन्तु स्वयमेव कृष्णः सुवंशघोषं नरपप्रियार्थम्। मृदङ्गवाद्यानपरांश्च वाद्यान् वराप्सरास्ता जगृहुः प्रतीताः। आसारितान्ते च ततः प्रतीता रम्भोत्थिता स्वाभिनयाय तज्ज्ञा। तयाभिनीते वरगात्रयष्ट्या तुतोष रामश्च जनार्द्दनश्च। अथोर्वशो चारु विशालनेत्रा हेमा च राजन्नथ मिश्रकेशी। तिलोत्तमा चाप्यथ मेनका च एतास्तथाऽन्याश्च हरिप्रियार्थम्। जगु स्तथैवाभिनयञ्च चक्रुरिष्टैश्च कामैर्म्मनसोऽनुकूलैः ता वासुदेवेऽप्यनुरक्तचित्तः संनृत्यगीताभिनयैरुदारैः। नरेन्द्रसूनो! परितोषितेन ताम्बूलयोगेन वराप्सरोभिः। तदागताभिर्नृवराहृतास्तु कष्णेप्सया मानमयास्तथैव। फलानि गन्धोत्तमवन्ति वीराश्छालिक्यगान्धर्वमथा हृतञ्च। कृष्णेच्छया च त्रिदिवान्नृदेव! अनुग्रहार्थ भुवि मानुषाणाम्। स्थितञ्च रम्यं हरितेजसैव प्रर्य जयामास स रौक्मिणेयः। छालिक्यगान्धर्वमुदारवु स्तेनैव ताम्बूलमथ प्रयुक्तम्। प्रयोजितं पञ्चभिरिन्द्र तुल्यैश्छालिक्यमिष्टं सततं नराणाम्। शुभावहं वृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम्। पुण्यञ्च पुष्ट्यभ्युदयावहञ्च नारायणस्येष्टमुदारकीर्त्ति। जयावहं धर्मधुरावहञ्च दुःस्वप्ननाशं परिकीर्त्त्यमानम्। करोति पापञ्च तथा विहन्ति शृण्वन् सुरावासगतो नरेन्द्रः। छालिक्यगन्धर्वमुदारकीर्त्तिर्मेने किलैकं दिवसं सहस्रम्। चतुर्युगानां नृपरेवतोऽथ ततः प्रवृत्ता सुकुमारजातिः। गान्धर्वजातिश्च तथा पराणि दीपाद्यथा दीपशतानि रजन्!। विवेद कृष्णश्च सनारदश्च प्रद्युम्नमुख्यैर्नृपभैममुख्यैः। विज्ञात मेतद्धि परं यथावदद्देशमात्राणि जनैस्तु लोके। जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथ वा समुद्रे। ज्ञातुं हि शक्यं हिमवान् गिरिर्व्वा पलाग्रतो वा गुणतोऽथ वापि। शक्यं न च्छालिक्यमृते तपोमिस्ताने विधानान्यथ मूर्छनासु। षड्ग्रामरागेषु च तत्र कार्य्यं तस्यैकदेशावयवेन राजन्!। लेशामिधानं सुकुमारजातिं निष्ठा सुदुःखेन नराः प्रयान्ति। छालक्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसघाः। निष्ठां प्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन। भैमोत्तमानां नरदेव! दत्तं लोकस्य चानुग्रहकाम्ययैव”।

***