चोर = पु० चुर–अच्। १ स्तेयकर्त्तरि परद्रव्यापहारके शब्दर०। २ गन्धद्रव्यभेदे, हेमच० ३ कृष्णशठ्याञ्च हड्डचन्द्रः। ब्राह्मणा० कर्म्मणि ष्यञ्। चौर्य्य तत्कर्म्मणि परद्रव्यापहरणे। “सा च द्रव्यवशा कुतस्तव धनं द्यूतेन चौर्य्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य काऽन्या गतिः” उद्गटः। चोरस्य भावः मनोज्ञा० वुञ्। चौरिका चोरभावे स्त्री। ४ कविभेदे पु० कविरमरुः कविरमरः कवी चोरमयूरकौ” उद्भटः। तत्कृतग्रन्थश्च चोरपञ्चाशिका”। तत्र चौर्य्यपदार्थो निर्ण्णीय प्रदर्श्यते। परमात्रस्वत्ववद्द्रव्य हरणमेव चौर्य्यं तेन साधारणधनापहारे न चौर्य्यम्। यथाह दायभागे “य एव हि परस्येदमिति विशेषं जानानः परस्वे स्वत्वहेतुमन्तरेणैव स्वत्वमारोपयति स स्तेन इति लोकप्रसिद्धोऽर्थः न चात्रेदं परकीयम् इदं वा ममेति विवेक्तुं शक्नोति द्रव्यस्याविभक्तत्वात्। यथा यदेव हि ममेदमिति विशेषं जानानः परस्वत्वापत्तये स्वामी त्यजति, परश्च विशेषेणेदं ममेति खत्वं प्रत्येति तत्रैव दाननिष्पत्तिः। न च साधारणधने तथा सम्भवतीति साधारणधनमदेयमुक्तं तथा स्तेयमपि नैतन्मम धनं परस्येदमिति जानत एव भवतीति न माधारणधनापहारे स्तेयनिष्पत्तिः”। “परद्रव्य- हरणं स्तेयमिति परशब्दात् आत्मीयत्वव्यवच्छेदेनैवपरकीयत्वस्यावगमात् साधारणासाधारणयोश्चासाधारणस्यैव शीघ्रप्रतीतेः। चोरचौर्य्यभेदलक्षणदण्डभेदादिकं च वीरमित्रोदये दर्शितं यथा। “मनुः स्यात्साहसं त्वन्वयवत् प्रसभङ्कर्म यत् कृतम्। निरन्वयम्भवेत् स्तेयं हृत्वापह्नूयते च यदिति” अस्यायमर्थः। अन्वयवद्द्रव्यरक्षकराजाद्यध्यक्षादिसमक्षं बलवष्टम्भेन यत्परधनापहरणादिकं क्रियते तत् साह सम्। स्तेयं पुनर्निरत्वयं स्वाम्याद्यसमक्षं यद्वञ्चयित्वा परधनाद्यपहरणं तदुच्यते। यच्च राजाद्यध्यक्षादि समक्षमपहृत्य न मयेदं कृतमिति भयान्निह्नूयते तदपि स्तेयमिति। अतएव नारदः “उपायैर्विविधैरेषां छलयित्वाऽपकर्षणम्। सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिण” इति।। एषा मित्येतत् क्षुद्रादिनिर्देशान्तस्तान्याह स एव “मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत्। शमीधान्यं कृतान्नञ्च क्षुद्रं द्रव्यमुदाहृतम्। वासः कौषेयवर्ज्जञ्च गोवर्जं पशवस्तथा। हिरण्यवर्ज्जं लोहञ्च मध्यं व्रीहियवादि च। हिरण्यरत्नकौषेयस्त्रीपुङ्गोगजवाजिनः। देवब्राह्मणराज्ञाञ्च विज्ञेयन्द्रव्यमुत्तममिति”। बलात्कारकृतमपहरणं साहसान्तर्गतं स्तेयमित्याह स एव “तस्यैव भेदः स्तेयः स्याद्विशेष स्तत्र तूच्यते। आधिः साहसमाक्रम्य स्तेयमाधिश्छलेन तु” इति। तस्यैव साहसस्यैव। आधिः पीडा धनापहरणादिद्वारा आक्रम्य प्रसह्य परस्य क्रियमाणः क्लेशः साहसरूर्प स्तेयम्। छलेन क्रियमाण आधिः केवलस्तेयमित्यर्थः। तस्करज्ञानोपायमाह याज्ञवल्क्यः “ग्राहकैर्मृह्यते चौरो लोप्त्रेणाथ पदेन वा। पूर्वकर्मापराधी च तथा चाशुद्धवासकः। अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः। द्यूतस्त्रीपान सक्ताश्च शुष्कभिन्नमुखखराः। परद्रव्यगृहाणाञ्च पृच्छका गूढचारिणः। निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः” इति! ग्राहकैराजपुरुषैर्लोप्त्रेणापहृत भाजनादिना, अशुद्धवासः अप्रज्ञातस्थानवासी। जातिनिह्नवो नाहं शूद्रैत्येवंरूपः। नामनिह्नवो नाहं डित्थ इत्येवं रूपः। आदिग्रहणात् स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः। द्यूतपण्याङ्गनामद्यपानादिष्वतिप्रसक्ताः तथा कुतोऽसि त्वमिति चोरग्राहिभिः पृष्टो यदि शुष्कमुखोभिन्नस्वरो वा भवति। बहुवचनात् स्विन्नललाटादीनां ग्रहणम्। तथा ये निष्कारणङ्कियदस्य द्रव्यं किं वास्य गृहमित्येबं पृच्छन्ति ये चाकारणेनात्मानङ्गूढयित्वा चरन्ति। ये चायाभावेऽपि वहुव्ययकारिणः। ये च विनष्टद्रव्याणाञ्जीर्णवस्त्रभिन्नभाजनादीनामनिर्ज्ञातस्वामिकानां विक्रयकारिणः, ते सर्वेऽपि चौर्यसम्भावनया ग्राह्या इत्यर्थः। एवंविधलिङ्गयुक्तान् पुरुषान् गृहीत्वैते चौरा भवन्ति नवेति सम्यक् परीक्षत न तावन्मात्रेण निश्चिनुयात् अचौरस्यापि लिङ्गसम्बन्धसम्भवात्। अतएव नारदः “अन्यहस्तात्परिभ्रष्टमकामादुत्थितम्भुवि। चोरेण वा परिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत्। असत्याः सत्यसङ्काशाः सत्याश्चासत्यसन्निभाः। दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणमिति”। स्तेयस्य त्रैविध्यमाह स एव “तदपि त्रिविधं ज्ञेयं द्रव्यापेक्षम्मनीषिभिः। क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्षणादिति”। चौरस्य द्वैविध्यमाह वृहस्पतिः “प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधाः स्मृताः। प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधेति”। प्रकाशतस्करानाह स एप। “नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः। दैवोत्पादविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः। अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः। प्रकाशतस्करा ह्येते तथा कुहकजीविनः” इति प्रतिरूपकाः प्रतिरूपकराः। अतएव नारदः “प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः। उत्कोचकाः सोपधिका वञ्चकाः परयोषितः। प्रतिरूपकराश्चैव मङ्गलादेशवृत्तयः। इत्येवमादयो ज्ञेयाः प्रकाशतस्करा भुवीति”। नैगमादिव्याजेन ये परद्रव्यापहारकास्ते नैगमाद्याः। अप्रकाशतस्करस्वरूपभेदानाह व्यासः “साधनाङ्गान्विता रात्रौ विचरत्न्यविभाविताः। अविज्ञातनिवासाश्च ज्ञेयाः प्रच्छन्नतस्कराः। उत्क्षेपकः सन्धिभेता पान्वमुड्ग्रन्थिभेदकः। स्त्रीपुङ्गोश्च पशुस्तेयी चौरो नवविधः स्मृतः” इति। रात्राविति प्रायिकम् अरण्यादौ दिवापि सम्भवात्। उत्क्षेपकः धनिनामनवधानतां निश्चित्य तत्समीपस्थं धनमुत्कृत्य ग्राहकः। सन्धिभेत्ता गृहयोः सन्धौ स्थित्वा तत्रत्यभित्तिभेत्ता। पान्थमुट् कान्तारादौ पथिकानान्धनप्रत्यपहारकः। ग्रन्थिभेदकः परिधानीयादिग्रथितं धनं ग्रहीतुं तद्ग्रन्थिमोचक इति। प्रकाशतस्कराणां दण्डमाह स एव “स्त्रीपु य यन्तीह मङ्गलादेशवृत्तयः। गृह्णन्ति छद्मना चर्य्य मनार्य्यास्त्वार्यलिङ्गिनः। नैगमाद्या भूरिधना दण्ड्या दोषानुरूपतः। यथा तेन निवर्त्तन्ते तिष्ठन्ति सन्नये तथेति”। दोषानुरूपतो दण्ड्या नतु धनानुरूपत इत्यभिप्रायः। केषाञ्चित् प्रकाशतस्कराणां दण्डमाह वृहस्पतिः “प्रच्छाद्य दोषं व्यामिश्र्य पुनः संस्कृत्य विक्रयी। पण्यं तद्द्विगुणं दाप्यो वणिग् दण्डं च तत्समम्। अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित्। रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक्। कूटाक्षदेविनः क्षुद्रा राजलभ्यहराश्च ये! गणका वञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः। अन्यायवादिनः सभ्यास्तथेवोत्कोचजीविनः। विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्वएव ते। ज्योतिर्ज्ञानन्तथोत्पातमतिदित्वा तु ये नृणाम्। श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः। दण्डाजिनादिभिर्युक्तमात्मानं दर्शयन्ति ये। हिंसन्ति छद्मना नॄणां वध्यास्ते राजपूरुषैः। अल्पमूल्यञ्च संस्कृत्य नयन्ति बहुमूल्यताम्। स्त्रीबालकान् वञ्जयन्ति दण्ड्यास्तेऽर्थानुसारतः। हेमरत्नप्रबालाद्यान् कृत्रिमान् कुर्वते तु ये। क्रेतुर्मूल्यं प्रदाप्यास्ते राज्ञा तद्दिगुणं दमम्। मध्यस्थं वञ्चयन्त्येकं स्नेहलोभादिना यदा। साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुणन्दममिति”। राजलभ्यः करविशेषः। मनुरपि “सर्वकण्टकपापिष्ठं हेमकारन्तु पार्थिवः। प्रवर्त्तमान मन्याये छेदयेल्लवशः क्षुरैरिति।” विष्णुरपि “द्यूते च कूटाक्षदेविनां करच्छेदः” इति। अप्रकाशतस्कराणां दण्डमाह सएव “उत्क्षेपकस्य सन्दंशश्छेत्तव्यो राजपुरुषैः”। सदंशोऽत्र करः तथा च याज्ञवल्क्यः “उत्क्षपकग्रन्थिभेदौ करसन्दशर्हीनकौ। कार्य्यौ द्वितीयापराधे करपादैकहीनकाविति”। अङ्गुष्ठतर्जग्योर्ग्रन्थिमोचने साधकतमत्वेनात्र सन्दंशशब्देन तयोर्ग्रहणम्। प्रथमापराधे तौ क्रमेण पाणि सन्दंशाभाववन्तौ कर्त्तव्यौ, द्वितीयापराधे उभावप्येकपाणिपादाभावाबेतौ कर्त्तव्यावित्यर्थः। सन्धिभेत्तॄणां दण्डमाह मनुः “सन्धिम्भित्त्वा तु ये चौर्य्यं रात्रौ कुर्वन्ति तस्कराः। तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेदिति”। तानिति शेषः। वृहस्पतिरपि “सन्धिच्छेदकृतो ज्ञात्वा शूलमाग्राहयेत् प्रभुरिति”। आग्राहयेत् आरोपयेदित्यर्थः। पान्थमुषि दण्डमाह स एव “तथा पान्थमुषं वृक्षं गले बद्ध्वावलम्बयेदिति”। पान्थमुषं पथिलुण्ठकम्। ग्रन्थिभेदकस्य दण्डमाह मनुः “अङ्गुली ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे। द्वितीये हस्तचरणौ तृतीये बधमर्हतीति”। अङ्गुली तर्जन्यङ्गुष्ठौ। द्वितीये हस्तस्य चरणस्य च छेदः तृतीये बध इत्यर्थः। अतएव नारद आह” “प्रथमे ग्रन्थिभेदानामङ्गुष्ठहस्तयोर्बधः” इति। स्त्रीहर्त्तुर्द्दण्डमाह व्यासः “स्त्रीहर्त्ता लोह शपथे दग्धव्यो वै कटाग्निनेति”। पुंहर्त्तुर्दण्डमाह स एव “नरहर्त्तुर्हस्तपादौ च्छित्त्वा स्थाप्यश्चतुष्पथे” इति। गोहर्त्तुर्दण्डमाह वृहस्पतिः “गोहर्त्तुर्नासिकां छित्त्वा बद्धाम्भसि निमज्जयेदिति”। नारदः “सर्वस्वं हरतो नारीं, कन्यां तु हरतो वधः। वाजिवारणलोहानां चाददीत वृहस्पतिरिति”। सर्वस्वमित्यनुषङ्गः। पशुहर्त्तुर्दण्डमाह व्यासः” “पशुहर्त्तुस्त्वर्द्धपादं तीक्ष्णशस्त्रेण कर्त्तयेदिति”। पशुहर्त्ता पश्वनुसारेण दण्डनीय इत्याह नारदः “महापशून् स्तेनयतो दण्डमुत्तमसाहसम्। मध्यमपशून् पूर्वन्तु क्षुद्रपशून् तथा हृतः इति। हृत इति पष्ठी। वन्दीग्रहादीनां दण्डमाह याज्ञवल्क्यः “वन्दिग्रहांस्तथा वाजि कुञ्जराणां च हारिणः। प्रसह्यघातिनश्चैव शूलमारोपयेन्नृपः” इति। अङ्गच्छेदादयः उत्तमसाहसत्वाद् ब्राह्मण व्यतिरिक्तेषूत्तमद्रव्यापहारविषयाः “साहसेषु य एवोक्तस्त्रिषु दण्डोमनीषिभिः। स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमादिति” नारदेनोत्तमसाहसस्योचमद्रव्यविषयत्वेन व्यवस्थापनात्तेन क्षुद्रमध्यमद्रव्याक्षेपकादीनां तदनुरूपो न करच्छेदादिः। तस्करस्यापहृतं धनन्तत्स्वामिने दापयित्वा दण्डः कर्त्तव्य इत्याह याज्ञवल्क्यः “चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैरिति” धान्याद्यपहरणे दण्डमाह मनुः “धान्यं दशभ्य कुम्भेभ्यो हरतोऽभ्यधिकं बधः। शेषे त्वेकादशगुणं दाप्यस्तस्य च तद्धनमिति”। कुम्भो विंशतिप्रस्थाः शेषे दशकुम्भाधिकान्न्यूने, तस्य धान्यस्वामिनः। रत्नहरणे दण्डमाह स एव “मुख्यानाञ्चैव रत्नानां हरणे बधमर्हतीति”। स एव। “सुवर्णरजतादीनामुत्तमानाञ्च वाससाम्। पञ्चाशतस्त्वभ्यघिके हस्तच्छेदनमिष्यते। शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत्। पुरुषाणां कुलीनानान्नारीणाञ्च विशेषतः” इति। अत्र सुवर्णादीनां संख्या कर्षमितेत्याहुः वृद्धाः इति मदनरत्ने। अत्राङ्गच्छेदादिदण्डो ब्राह्मणव्यतिरिक्तविषयः “सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेदिति” याज्ञवल्क्यस्मरणात्। चिह्नं ललाटे श्वपदाकाराङ्कनम्। तथा च मनुः “गुरुतल्पे भगः कार्य्यः सुरापाणे सुराध्वजः। स्तेये च श्वपदं कार्य्यं ब्राह्मणस्य शिरः पुमानिति”। एतच्च प्रायश्चित्तमकुर्वतां दण्डोत्तरकालं न तु प्रायश्चित्तं चिकीर्षताम्। “प्रायश्चित्तञ्च कुर्वाणाः सर्वे वर्णा यथोदितम्। नाङ्क्या राज्ञा ललाटे तु दाप्यमुत्तससाहसमिति” मनुस्मरणात्। जात्यादिभेदेन च दण्डतारतम्यमाह स एव “अष्टापाद्यन्तु शूद्रस्य स्तेये भवति किल्विषम्। षोडशैवतु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु। ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतम्भवेत्। द्विगुणा वा चतुःषष्टि स्तद्दोषगुणवेदिनः” इति। यस्मिन्नपराधे यो दण्ड उक्तः स शूद्रकर्त्तृके तस्मिन्नष्टगुणः दापनीयः वैश्यकर्त्तृके षोडशगुणः, क्षत्रियकर्त्तृके द्वात्रिंशद्गुणः। ब्राह्मणकर्त्तृके चतुःषष्ठिगुणः शतगुणो वा अष्टाविंशत्युत्तरशतगुणोवेत्यर्थः। माषान्यूनमूल्यानां क्षुद्राणां मूल्यात् पञ्चगुणीदम इत्याह नारदः “काष्ठभाण्डतृणादीनां मृण्मयानान्तथैव च। वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्म्मणाम्। शाकानामार्द्रमूलानां हरणे फलमूलयोः। गोरसेक्षुविकाराणां तथा लवणतैलयोः। पक्वान्नानां कृतान्नानां मत्स्यानामौषधस्य च। सर्वेषामल्पमूल्यानां मूल्यात्पञ्चगुणो दमः” इति। यत्पुनः क्षुद्रद्रव्यविषये द्विगुणदण्डप्रतिपादकं मनुवचनम् “सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च। दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च। वेणुवैणयभाण्डानां लवणानान्तथैव च। मृण्मयानां च हरणे मृदोभस्मन एव च। अजानां पक्षिणाञ्चैव लवणस्य वृतस्य च। मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम्। अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च। पक्वान्नानाञ्च सर्वेषां तन्मूल्याद्द्विगुणोदमः” इति। तदल्पप्रयोजनविषयम्। पान्थादीनामल्पप्रयोजनद्रव्यापहरणे न दण्डः यथाह स एव “द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके। आददानः परक्षेत्रान्न दण्डं दातुमर्हति। चणक व्रीहिगोधूमयवानां मुद्गमाषयोः। अनिषिद्धैर्ग्रहीतव्या मुष्टिरेका पथि स्थितैः। तथैव सप्तमे भक्ते भक्तानि षडनश्नता! अश्वस्तनविधानेन हर्त्तव्यं हीनकर्म्मणः” इति। न केवलं चौरस्यैव दण्डः किन्त्वचौरस्यापि चौरोपकारिणः इत्याह याज्ञवल्क्यः “भक्तावकाशाग्न्युदकमन्त्रोपक्तरणव्ययान्। दत्त्वा चौरस्य वा हन्तु र्जानतो दम उत्तम” इति। भक्तम् अशनम्। अवकाशोनिवासस्थानम्। अग्निश्चौरस्य शीतापनोदनाद्यर्थः। उदकन्तृषितस्य। मन्त्रः चौर्यप्रकारोपदेशः, उपकरणं चौर्यसाधनम्। व्ययः अपहारार्थन्देशान्तरङ्गच्छतः पाथेयम्। एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपि यः प्रयच्छति तस्योत्तमसाहसोदण्ड इत्यर्थः। कात्यायनोऽपि “चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायिनः। दातारश्चैव भाण्डानां प्रतिग्राहिण एव च। समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तानिति”। चीरोपेक्षाकारिणं प्रत्याह नारदः “शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः। उत्क्रोशताञ्जनानान्तध्रियमाणे धवे तथा। श्रुत्वा ये नामिधावन्ति तेऽपि तद्दोषभागिनः” इति। द्रव्यभेदेन चौर्य्यप्रायश्चित्तं प्रायश्चित्तशब्दे दृश्यम्। तत्कर्म्मविपाकश्च कर्म्मविपाकशब्दे १७४२ पृ० दृश्यः।

चोरक = पु० चोरः स्वनामख्यातवृक्षैव कायति कै–क। १ ग्रन्थिपर्णवृक्षे रत्नमाला। स च “शैलेयकमांसीतगरकुष्ठरससैन्धवानि वल्लीजम्। मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य” वृ० स० १६ अ० जीवभक्तौ उक्तः

चोरघात = पु० चोरं हन्ति हन–अण। राज्ञां हस्तिभेदे शब्दार्थ०।

चोरपुष्पी = स्त्री चोर इव पुष्पमस्याः रात्रिविकाशित्वात्। शङ्खिन्याम्। स्वार्थे क अत इत्त्वम्। चोरपुष्पिकाप्यत्र अमरः।

चोरस्नायु = पु० चोरस्य गन्धद्रव्यभेदस्य स्नायुरिव। काकनासायाम्” शब्दार्थचि०।

चोरा = स्त्री चोरतुल्यं रात्रिविकाशित्वेन पुष्पमस्त्यस्याः अर्श० अच्। शङ्खपुष्पिकायाम् शब्दार्थचि०।

चो(चौ)रिका = स्त्री चोरस्य भावः मनोज्ञा० वुञ् ठन् वा। चौर्य्ये रायमुकुटः।

चोल = पु० चुल समुच्छ्राये कर्म्मणि घञ्। १ स्त्रीणां कञ्चुके २ आप्रपदीने वस्त्रे ३ कूर्पासके। (चोला) इति ख्याते पुंसां वस्त्रभेदे। “द्रविडलङ्कयोर्मध्ये चोलदेशः प्रकीर्त्तितः। लब्धकर्णाश्च ते प्रोक्तास्तद्भ दोऽवान्तरो भवेत्” इत्युक्ते ४ देशे “अपरे जनपदा दक्षिणेन” इत्युपक्रमे “कौकुट्टकास्तथा चोलाः कोङ्कणा मालधानकाः” भा० भी० ९ अ०। जनपदोक्तौ। सन्थ देशः अधुना (ताञ्जोर) इति ख्यातः। स च वृ० स० १४ अ० कूर्म्मविभागे दक्षिणस्यामुक्तो यथा अथ दक्षिणेन” इत्युपक्रमे “कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः”। तस्य राजाऽण्, सोऽभिजनोऽ स्य वा अण्। चौल तन्नृपे तद्देशवासिनि च। बहत्वे तस्य लुक्। चोलाः ५ तद्देशवासिषु ६ तन्नृपेषु च ब–व०। तन्नृपाश्च क्षत्रिया अपि म्लेच्छतामाप्ताः काम्बोजशब्दे १९० ६ पृ० दृश्यम्। ७ चीनदेशस्थह्रदभेदे शब्दार्थचि०।

चोलक = पु० चोल इव कायति कै–क। १ वाणवारे कवचे २ वल्कले च शब्दर०।

चोलकिन् = पु० चोलकमिवास्त्यस्य इनि। १ करीरे (वा~शेरको~ड)। २ नागरङ्गे मेदि० ३ किष्कुपर्वणि हारा०।

चोरगणेश = पु० कर्म्म०। करच्छिद्रवतां जापिनां जपफल हारके तन्त्रोक्ते गणेशभेदे।

चोलण्डुक = पु० चीलस्याण्डुक इव शक०। शिरोवेष्टे त्रिका०

चोलन = न० चोलैवाचरति क्विप् ततः कर्त्तरि ल्यु। १ नागरङ्गे २ करीरे ३ किष्कुपर्व्वणि च शब्दार्थचि०।

चोली = स० चुल–घञ् गौरा० ङीष्। स्त्रीणां १ कञ्चुकाख्ये आप्रपदीने वस्त्रे (चोला) इतिख्याते पुंसां २ वस्त्रभेदे च शब्दार्थचि०

चोलोण्डुक = पु० चोलौण्डक इव। शिरोवेष्टे उष्णीषेशब्दाथचि०।

चोष = पु० चीयते चः स चासावुषोदाहश्चेति। पार्श्वस्थेनाग्निनेव जनिते सन्तापभेदे। “हृच्छूलपीडनयुतं पवनेन, पित्तात्तृड्दाहचोषबहुलं सकफप्रयेकम्” “चोषः पार्श्वस्थिताग्निनेव सन्तापः” भावप्र०।

चोष्य = न० चूष–ण्यत् पृषो० गुणः। चूष्ये चूषणीये। “पचाम्यन्नं चतुर्विधम्” गीताव्याख्यायां “प्राणिभिर्भुर्क्तं भक्ष्य भोज्यं लेह्यं चूष्यं चेति चतुर्विधमन्नं पचामि। तत्र यद्दन्तैरवखण्डविखण्ड्य भक्ष्यते अपूपादि तद्भक्ष्यं, यत्तु केवलं जिह्वया विलोड्य निगीर्य्यते पायसादि तद्भोज्यम्। यज्जिह्वायां निःक्षिप्य, रसास्वादेन निगोर्य्यते द्रवीभूतं गुडादि तल्लेह्यम्। यत्तुदंष्ट्राभिर्निष्पीड्य रसं निगीर्य्यावशिष्टं त्यज्यते इक्षुदण्डादि तच्चूष्यमिति चतुर्विधस्य भेदः” श्रीधरः। अत्र क्वचित्पुस्तके चूष्यमित्यत्र चोष्यमितिपाठदर्शनात् चोष्यशब्दकल्पना केषाञ्चित् प्रामादिकी अनार्षवाक्ये पृषो० कल्पनाया अयुक्तत्वात्। किन्तु “भोजनीयानि पेयानि भक्ष्याणि विविधानि च। लेह्यान्यमृतकल्पानि चोष्याणि च तथाऽर्जुन” भा० आ० १७५ अ०। अत्रार्ष- त्वात् पृषो० कल्पना युक्तैव। एवं “भक्ष्यं भोज्यञ्च पेयञ्च चोष्यं लेह्यं तथैव च” हरिव० १४५ अ०।

चोस्क = पु० १ हयोत्तमे शब्दार्थचि०। २ सिन्धुवारे (सो~दाल) वृक्षे च त्रिका०।

चौड(ल) = न० चूडा प्रयोजनमस्य चूडा० णः वा डस्य लः। चूडाकर्म्मणि चूडाशद्दे २९५७ पृ० दृश्यम् “गार्भैर्हीमैर्जातकर्म्मचौडमौञ्जीनिबन्धनैः” मनुः। चूडैव स्वार्थे अण्। चूडायाम्” “लेलिहानैमेहानागैः कृतचौडममित्रहन्” भा० व० १७ अ०।

चौडि = पुंस्त्री चूडाया इदम् बाह्वा० इञ्। चूडासम्बन्धिनि स्त्रियां वा० ङीप्।

चौण्ठ्य(ण्ड्य) = न० जलभेदे चुक्षाशब्दे पृ० २९५५ दृश्यम्।

चौद्रायनि = पु० गोत्रप्रवर्त्तके प्रवराध्यायप्रसिद्धे ऋषिभेदे

चौपयत = पु० चुप–अच् चोपः सन् यतते यत–अच् ततः स्वार्थे अण्। ऋषिभेदे तस्यापत्यम् तिका० फिञ्। चौपयतायनि तदपत्ये स्त्रियां तु क्रौड्या० ष्यङ्। चौपयत्या। चोपयतानां विषयः भौरि० विधल्। चौपयतविध तद्विषये न०। गोत्रापत्ये अश्वा० फक् चौपयतायन तद्गोत्रापत्ये पुंस्त्री

चौपैया = स्त्री मात्रावृत्तमेदे तल्लक्षणं यथा “चौपैयावृत्तं त्रिंशन्मात्रं फणिपतिपिङ्गलभणितं कुरु सप्ततुरङ्गममति हृदयङ्गम मन्तेगुरुमुपनीतम्। यदि दशवसुरविभिश्छन्दविद्भिः क्रियते यतिरभिरामम् सपदि स्तवसमये नृपतिः कवये वितरति संसदि कामम्”।

चौर = पु० चुरा शीलमस्य चूडा० णः चोरएव अण् वा। प्रच्छन्नपरद्रव्याहारके अमरः। “सुवर्ण्णचौरः कौनख्यं सुरापः श्यावदन्तताम्” मनुः २ कविभेदे कवी चौरमयूरकौ” उद्भटः तत्कृतग्रन्थश्चौरपाञ्चाशिका।

चौरपुष्पौषधि = स्त्री चौरपुष्यिकानामोधधौ मेदि०।

चौरिकाक = पु० काकमेदे “लवणं चौरयित्वा तु चौरिकाकः प्रजायते” भा० अनु० १११ अ०।

चौलि(डि) = पु० चौलस्यापत्यम् इञ्। प्रवराध्यायप्रसिद्धे ऋषिभेदे।

चौलुक्य = पुंस्त्री चुलुकस्य गात्रापत्यं गर्गा० यञ्। चुलुकर्षिगोत्रापत्ये तस्य छात्त्रः कण्वा० अण् यलोपः। चौलुक चौलुक्यच्छात्त्रे।

च्यवन = पु० च्यु–ल्यु। भार्गवे ऋषिभेदे तस्य नामनिरुक्तिः भा० आ० ६ अ० दर्शिता यथा। “भृगोः सुदयिता भार्य्या पुलोमीत्यभिविश्रुता। तस्यां समभवद्गर्भो भृगुवीर्य्यसमुद्भवः। अस्मिन् गर्भेऽथ सम्भूते पुलोमाया भृगूद्वहात्। समये समशीलिन्यां धर्मपत्न्यां यशस्विनः। अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां बरे। आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह। तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्य्यामनिन्दिताम्। हृच्छयेन समाविष्टो विचेताः समपद्यत”। ५ अ० इत्युपक्रमे “अग्नेरथ बचः श्रुत्वा तद्रक्षः प्रज हार ताम्। ब्रह्मन्। वराहरूपेण मनोमारुतरंहसा। ततः स गर्भो निवसन् कुक्षौ भृगुकुलोद्वहः। रोषान् मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्। तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्च्चसम्। तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्। सा तमादाय सुश्रोणी ससार भृपुनन्दनम्। च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता” ६ अ०। २ क्षरणयुक्ते त्रि० “यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया। अग्निर्निश्च्यवनो नाम” भा० व० २१८ अ०। भावे ल्युट्। ३ क्षरणे न० दुश्छ्यवनः।

च्यवनप्राश = पु० च्यवनेन प्राश्यते प्र + अश० कर्मणि घञ्। चक्रदत्तोक्ते औषधभेदे यथा “विल्वाग्निमन्थश्योनाककाश्मर्य्यः पाटली बला। पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा वृहतीद्वयम्। शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करा गुरु। अभया सामृता ऋद्धिर्जीर्वकर्षभकौ शठी। मुस्तं पुनर्णवा मेदा सूक्ष्मैलोत्पलचन्दने। विदारी वृषमूलानि काकोली काकनासिका। एषां पलोन्मितान् भागान् शतान्यामलकस्य च। पञ्च दद्यात् तदैकध्यं जलद्रोणे विपाचयेत्। ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्। तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः। पलद्वादशके भृष्ट्वा दत्त्वा चार्द्धतुलां भिषक्। मत्स्यण्डिकायाः पूताया लेहवत् साधु साधयेन्। षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्। चतुष्पलं तु गाम्भार्य्याः पिप्पल्या द्विपलन्तथा। पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्। इत्ययं च्यवनप्राशः परमुक्तो रसायनः। कासश्वासहरश्चैव विशेषेणोपदिश्यते। क्षीणक्षतानां वृद्धानां बालानाञ्चाङ्गवर्द्धनम्। स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्। पिपासां मूत्रशुक्रस्थान् दोषांश्चैवापकर्षति। अस्य मात्रां प्रयुञ्जीत चोपरुन्ध्यान्न भोजनम्। अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा। मेधां स्मृतिं कान्तिमनामयत्वं वपुःप्रकर्षं बलमिन्द्रियाणाम्। स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम्। रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्। जराकृतं पूर्बमपास्य रूपं बिभर्त्ति रूपं नवयौवनानाम्। सिता मत्स्यण्डिकाऽलाभे धात्र्याश्च मृदु भर्जनम्। चतुर्भागजले प्रायो द्रव्यं गतरसं भवेत्।”

च्यवान = पु० च्यवन + पृषो० दीर्घः। च्यवनर्षौ “प्रमुञ्चन्तं द्रापिमिव च्यवानात्” ऋ० १। ११६१३०। “च्यवानात् च्यवनादृषेः” भा० “युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथः शचीभिः” ऋ० १। ११७। १३। “हे अश्विनौ युवं युवां शचीभिरात्मीयैर्मैषज्यलक्षणैः कर्मभिः जरन्तं जीर्य्यन्तं च्यवानमेतत्संज्ञमृषिं युवानं पुनर्यौवनोपेतं चक्रथः” भा० “च्यवानऋषिर्भवति स्तोत्राणां च्यवानमित्यस्य निगमा भवन्ति” इति निरु० ४। १९

च्यावन = त्रि० च्यु–णिच्–ल्यु। च्युतिकारके “दुश्च्यावच्यावनो जेता हन्ता ब्रह्मद्विषां हरः” भा० कर्ण० ३४ अ०। भावे ल्युट्। २ च्युतिसम्पादने “यैदं च्यावनं स्थानात् प्रतिष्ठाञ्च शतक्रतोः” हरिवं० २८ अ०।

च्यु = गतौ भ्वा० आत्स० सक० अनिट्। च्यवते अच्योष्ट। चुच्युवे। च्युतः। च्युतिः “यस्तु न च्यवते नित्यम् यशसा वर्चसा श्रिया” भा० व० २१८ अ०। “अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्य्यकवेश्मनः” रा० अयो० ७२। ५। “न च्यवेयं स्वधर्म्मात्” भा० व० २८६ अ०। “अच्योष्ट सत्वान्नृपतिश्च्युताशः” “च्युताशनायाः फलवद्विभूत्या” भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योतार्थयुक्तगतौ।

च्यु = सहने सक० हसने अक० चु० उभ० सेट्। च्यावयति अचि(चु)च्यवत् त। चु(चि)च्यावयिषति

च्युत = क्षरणे भ्वा० पर० अक० सेट्। च्योतात इरित् अच्युत अच्योतीत्। चुच्योत। च्युतः। “इदं शोणित मभ्यग्रं संप्रहारेऽच्युतत्तयोः” इदं कवचमच्योतीत्” इति च भट्टिः।

च्युत = त्रि० च्यु–क्त च्युत–क वा। १ गते २ क्षरिते च। अच्युतः। च्युतोपलः।

च्युति = स्त्री च्यु–भावे क्तिन्। १ गतौ “सत्यात् च्यु–तिः क्षत्रियस्य न धर्मेषु प्रशस्यते” भा० आ० १०३ अ०। “कुर्य्यां हरस्यापि पिनाकपाणेर्धैर्य्यच्युतिं के मम धन्विनोऽन्ये” कुमा०। च्यु भावे क्तिन्। ३ क्षरणे। मदच्युतिः। च्योतति शोणितमस्मात् अपादाने कि। ४ गुदद्वारे शब्दार्थचि०।

च्युप = पु० च्यवन्ते भाषन्तेऽनेन धातूनामनेकार्थत्वात् च्यु–भाषणे प किच्च। वक्त्रे उज्व०। पान्तादुपधत्वात् पुंस्त्वम्।

च्युस = हानौ हसने चु० उभ० अक० सेट्। च्योसयति ते अचुच्युसत् त।

च्यूत = पु० चूत + पृषो०। आम्रवृक्षे शब्दर० पाठान्तरम्।

च्यौत्न = न० च्यु–गतौ करणे त्नण्। १ बले निघ०। कर्त्तरि त्नण्। २ गन्तरि २ अण्डजे–२ क्षीणपुण्यजने” सि० कौ०। इति वाचस्पत्ये चकारादिशब्दार्थनिरूपणम्। २८९७ पृ० चयशब्दपरिशिष्टम। भावप्र० उक्ते ८ दोषवृद्ध्यादौ “कालस्वभावोऽयमाहारादि वशात् पुनः। चयादीन् यान्ति सद्योऽपि दोषाः काले विशेषतः। चयकोपशमाः पूर्व्वाह्णे वसन्तस्य लिङ्गं, मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकम् शरदमर्द्धरात्रे प्रत्यूषसि हेमन्तमुपलक्षयेत्। एवमहोरात्रमपि वर्षामिव शीतोष्णवर्षादोषोपचयप्रकोपोपशमान् जानीयादिति। सुश्रुतः। चयकोपशसा दोषा विहाराहारसेवनैः। समानैर्य्यान्त्यकालेऽपि विपरीते विपर्य्ययम्। समानैः तुल्यैः चयादियोग्यैरिति यावत्। विपर्य्ययं कालेऽपि वैपरीत्यं बोध्यम्। चयलक्षणमाह सुश्रुतः। खस्थानस्थस्य दोषस्य वृद्धिः स्याच्छास कोष्ठता। पीतावभासता वह्निमन्दता चाङ्गगौरवम्। आलस्यञ्चयहेतौ तु द्वेषश्च चयलक्षणम्। सञ्चयोपहृता दोषा लभन्ते नोत्तरां गतिम्। ते तूत्तरासु गतिषु भवन्ति बलवत्तराः”। २९७२ पृ० चोरगणेशशब्दपरिशिष्टम्। चोरगणेशमन्त्रादिकमुक्तं गणेशविमर्षिण्याम् “चक्षुर्द्वयं तथा कर्णद्वयं नासापुटद्वयम्। मुखं नाभिं लिङ्गमूलं गुदस्थानं तथैव च। मनोद्वारं भ्रुवोर्म्मध्ये दशैव द्वारसंज्ञिताः। अङ्कुशं प्रथमं वीजं हृदये दशधा जपेत्। प्रजपान्ते ततो मातः! कवाटं निःक्षिपेत्ततः। कर्णयोश्च तथा कूर्च्चं कालीं नासापुटे ततः। मुखे स्त्रीं द्विविधं वीजं नाभौ वाणीं ततो जपेत्। हसौ वीजं लिङ्गमूलेवं गुदे परिकीर्त्तितम्। ओंकारञ्च भ्रुवोर्मध्ये मनःस्थाने तथैवच। एतदेकादशं वीजं प्रतिद्वारे कपाटवत्। चोरगणेशमन्त्र जप्त्वा कर्ममात्रं न कुर्य्यात्। यदि कुर्य्यात्तदादोष उक्तो वर्णविलासतन्त्रे। “गणेश उवाच। अधुनाहं प्रवक्ष्यामि चोरमन्त्रमतः शृणु। चोरमन्त्रपरिज्ञानं विना हे व्राह्मणेश्वरि!। पुराणं प्रपठेद्यस्तु स एव मूर्त्तिमान् कलिः। परजन्मनि पापिष्ठः स भवेच्चौरकुक्कुरः। शिवपूजा विष्णुपूजा शक्तिपूजा तथैवच। सर्वषूजासु यत्तेजो हरते गणपः स्वयम्। पञ्चाशद्गणदेवानां ज्योतींषि मुनिपुङ्गवा!। प्रतिद्वारपथे गत्वा प्रतिपद्मेषु जृम्भते। हरन्ति जपतेजांसि प्रतिपद्मेषु संस्थिताः। जपपूजा सु यत्तेजस्तत्र चौरो गणाधिपः। तस्माच्चौरप्ररोधार्थं चौरमन्त्रं जपेद्दश। ततस्तु पूजयेद्धीमान यस्य या इष्टदेवताः। ततः फलमवाप्नोति ब्रह्मादित्रिदिवौकसः। चौरमन्त्रं महामन्त्रं पञ्चाशद्गणतोषणम्। चौरमन्त्रं विना मद्रे! शान्तिस्वस्त्र्ययनं कुतः। कर्णद्वयं तथा चक्षुर्द्वयं नासा मुखं ततः। नाभिस्थाने लिङ्गमूले गुदस्थाने तथैव च। मनोद्वारं भ्रुवोर्मध्यं दशैकं द्वारमीरितम्। प्रतिद्वारे न्यसेन्मन्त्रं चौराख्यं ब्राह्मणेश्वरि!। चौरमन्त्रञ्चाह भद्रे! प्रतिद्वारे कपाटवत्। रहस्यं ते प्रवक्ष्यामि पञ्चाशद्गणतोषणम्। अङ्कुशं पञ्चमं वीजं प्रथमे दशधा जपेत्। प्रजप्य सुभगे! मातः। कपाटं निःक्षिपेत्ततः। अन्यथा अङ्कुशैर्वीजैः कपाटं भेदिरे गणाः। चन्द्रिकान्तर्गतानित्यं शङ्करं वरसुन्दरम्। चन्द्रिकासु समालीनः शिञ्जिनी अणिमा गुणः। चन्द्रविन्द्वात्मिका नित्या गणेशपरिपूजिता। ह्रीं ह्रीं विजद्वयमिति विन्यसेन्नयनद्वये। कर्णयोश्च तथा ह्रीं ह्रीं हु~ हु~ नासाद्वये तथा। मुखेः स्त्रीं द्विविधं वीजं नाभौ क्लीं सुभगश्वरि!। हसौ वीजं लिङ्गमूले गुदेवं परिकीर्त्तितम्। हुङ्कारञ्च भ्रुवोर्मध्ये मनस्थाने तथैव च। एतदकादशद्वारे चौरमन्त्राणि विन्यसेत्। दशधा चौरमन्त्रञ्च एकधा वापि वीजकम्। अनेनैव जपेनापि प्रतिद्वारे कपाटकम्”। जपकालोऽपि तत्रैव। “शृणु चापि प्रवक्ष्यामि मन्त्रस्य जपनिर्णयम्। प्रातःकाले च शय्यायां मुक्तस्वापः स्वदेहके। पूर्बवन्मातृकान्यासं विन्यसेन्मातृकास्थले। तथा एकादशद्वारे चौरमन्त्राणि विन्यसेत्। दशधा चौरमन्त्रञ्च एकधा वापि संजपेत्। चौरमन्त्रजपात् तुष्टिर्गणेशस्य तदा भवेत्। यमस्य नाधिकारोऽपि चौरमन्त्रजपात् प्रिये!। सर्वमन्त्रजपात्तेजः सर्वस्मात् समुपस्थितम्। तत्तेजो हरणे शक्तिर्गणेशस्त्र नचैव हि” चोरगणेशोऽप्यत्र। अयञ्चशब्द उक्तपृष्ठे चारकशब्दात् परं बोध्यः तत्र च कर छिद्रेत्यत्र करणच्छिद्रेति शुद्धम् करणं च नेत्रादि। छिद्रं द्वारानावरणम्।

—छ—

= छकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञस्तस्योच्चारणस्थानं तालु आभ्यम्नरप्रयत्नः जिह्वामध्येन तालुस्मर्शः। बाह्यप्रयत्नाः विवारश्वासाऽथोषा महाप्राणश्च। मातृकान्यासेऽस्य वामकूर्परे न्यासः। तन्त्रमते अस्य वाचकशब्दाः। “छश्छन्दनं सुषुम्णा च पशुः पशुपतिर्मृतिः। निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी। एकनेत्रश्च वृषली द्विशिरा वामकूर्परः। गोकर्णो लाङ्गली रामः काममाता सदाशिवः। माता निशाचरः पायुर्विक्षतः स्थितिशब्दकः” वर्णाभिधानम्। “मातृका वर्णात्मिकायास्तस्या ध्यानमुक्तं वर्णोद्धारतन्त्रे “ध्यानमस्याः प्रवक्ष्यामि द्विभुजां तु त्रिलोचनाम्। पीताम्बरधरां नित्यं वरदां भक्तवत्सलाम्। एवं ध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत्”। काव्येऽस्य प्रथमनिर्द्देशफलं वृ० र० टी० उक्तं यथा “कः खोगो घश्च लक्ष्मीं वितरति वियशोङस्तथा चः सुखं छः प्रीति जोमित्रलाभमित्यादि”।

= पु० १ छकारवर्णे। छो–घञर्थे भावे क। २ छेदने स्त्री कर्म्मणि घञर्थे क। ३ निर्म्मले त्रि० मेदि०। ४ गृहे न० शब्दार्थचि०। छद–बा० भावे ड। ५ छादने।

छग = पुंस्त्री छं रोमभिश्छादनं गच्छति गम–ड। अजे छागे हेमच०। स्त्रियां जातित्वात् ङीष्।

छगण = पुंन०। छाय वह्नेश्छादनाय गण्यते गण–कर्मणि अच्। करीषे हेमच०

छगल = पुंस्त्री छो–कलच् गुक् हस्वश्च। १ छागे स्त्रियां जातित्वात् ङीष्। २ नीलवस्त्रे न०। ३ वृद्धदारकवृक्षे पु० हेमच०। ४ छगलप्रधानदेशे पु० सोऽभिजनोऽस्य तक्षशिला० अञ्। ५ तद्देशवासिनि त्रि०। ६ मुनिपत्नीभेदे स्त्री छागली ७ ऋषिभेदे पु०। ततो बाह्वा० अपत्ये इञ्। छागलि तदपत्ये पुंस्त्री। आत्रेये तु अण्। छागल आत्रेये छागलापत्ये। तद्भिन्ने छागल्या अपत्ये च ढक्। छागलेय ऋषिभेदे सच स्मृतिकर्त्ता।

छगलक = पुंस्त्री छगल + स्वार्थे क। छागे अमरः।

छगलण्ड = पु० दक्षिणदेशे समुद्रसन्निधौ प्रचण्डादेव्याःस्थाने शब्दार्थचि०।

छगलाङ्घ्रि(न्त्री) = स्त्री छगलस्येवान्त्रम् अङ्घ्रिर्मूलं वा यस्याः अदन्तात् गौरा० ङीष्। १ वृद्धदारकौषधे अमरः २ वृके शब्दर०। स्वार्थे क। अत्रैवार्थे।

छगलिन् = पु० ऋषिभेदे। स च कलाप्यन्तेवासी। हरिद्रुश्छगली तुम्बुरुरुलपश्चत्वारः कलाप्यत्नेवासिनः” मनो० तत्र कलाप्यन्तेवासित्वात् अणि प्राप्ते विशेषविधिना तेन प्रोक्तमधीयते इत्यर्थे ढिनुक्। छागलेयिन् तदुक्ताध्ये तृषु ब० व०।

छच्छिका = स्त्री “छच्छिका सरहीनं स्यादच्छा प्रचुरवारिका। छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी। वातनुत् कफकृत् सा तु दीपनी लबणान्विता” इत्युक्ते तक्रभेदे। भावप्र०। सरहीनं दधीति शषः।

छटा = स्त्री छो–अटन् किच्च। १ दीप्तौ, २ परम्परायाञ्च शब्दार्थचि० “यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छ्वलच्छङ्ख कुलाकुलेन” “शठच्छटाभिन्नघनेन बिभ्रता” माघः। “स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा” काव्यप्र०। “स्मेरेन्दीवरदामसुन्दरवपुस्तस्याः कटाक्षच्छटा” सा० द०।

छटाफल = पु० छटेव परम्परान्वितं फलं यस्य। गुवाके। त्रिका०।

छटाभा = स्त्री छटया दीप्त्या भाति भा०–क। विद्युति हारा०।

छत्त्र = पु० छद–णिच् ष्ट्रन् ह्रस्वः अर्द्धर्चा०। छत्राकारपत्रे (छातारिया) १ क्षुपभेदे रत्नमाला। २ आतपत्रे न०। मेदि०। ३ अतिच्छत्रायां (सुल्पा) वृक्षे स्त्री। ४ भूतृणे राजनि०। तत्र आतपत्रशब्दे ६३९ पृ० उष्णवारणशब्दे १३८० पृष्ठे च विवृतिः। “रथाश्वं हस्तिनं छत्त्रं धनं धान्यं पशून् स्त्रियः”। “अभ्यङ्गमञ्जनञ्चाक्ष्णा रुपानच्छत्त्रधारणम्” मनुः। शशिप्रभं छत्त्रमुभे च चामरे” रघुः। ५ आवरणमात्रे च। छत्त्रं गुरो र्वैगु ण्याच्छादनं शीलं यस्य छत्त्रा० ण। छात्त्रा शिष्ये।

छत्त्रक = पु० छत्रमिव कायति कैक। (राङ्गाकुलेखाडा) १ वृक्षे, २ मत्स्यरङ्गे पक्षिणि च रत्नमालाः स्वार्थे क ३ छत्रे न०। ४ ईश्वरगृहभेदे शब्दार्थचि०।

छत्त्रगुच्छ = पु० छत्त्रमिव गुच्छोऽस्य। गुण्डतृणे राजनि०।

छत्त्रध(धा)र = पु० छत्त्रं धरति धारयति वा अच् अण् वा। छायाकरणाय नियुक्ते दामभेदे तत्र अणन्तस्य “अणिनियुक्ते” पा० पूर्व्वपदमाद्युदात्तम्।

छत्त्रपत्र = पु० छत्त्रमिव पत्रमस्य। १ स्थलपद्मे, रत्नमाला २ भूर्जपत्रवृक्षे च त्रिका०।

छत्रपुष्प(क) = पु० छत्त्रमिव पुष्पमस्य वा कप्। तिलकवृक्षे शब्दार्थचि०।

छत्त्रभङ्ग = पु० छत्रस्य भङ्गो यत्र। १ नृपनाशे २ वैधव्ये ३ अस्वातन्त्र्ये च मेदि०।

छत्त्रा = स्त्री छद–त्रण् टाप। (मौरि) वृक्षे मेदि० २ अतिच्छत्रे (सुल्पा) ३ कुस्तुम्बुरौ (धनिया) ४ शिलीन्ध्रे च मेदि०। ५ मञ्जिष्ठायां राजनि०।

छत्त्राक = न० छत्त्रा अतिच्छत्त्रेव कायात कै–क। १ शिलीन्ध्रे “छत्त्राकं विड्वराहञ्चेति” मनुः। “पलाण्डुं विड्वराहञ्च छत्त्राकं ग्रामकुक्कुटम्” याज्ञ०। २ जालवर्वुरकक्षे पु० राजनि० गौरा० ङीष्। ३ रास्नायां स्त्री अमरः।

छत्त्रातिच्छत्त्र = पु० च्छत्त्रमतिक्रम्य छत्रमावरणमस्त्यस्य अच्। छत्त्राकारे जलोद्भवे सुगन्धितृणभेदे शब्दरत्ना०।

छत्त्रादि = पु० “छत्त्रादिभ्योणः” पा० शीलार्थे णप्रत्ययनिमित्ते पा० ग० सू० उक्ते गणभेदे स च गणो यथा छत्त्र शिक्षा प्ररोह स्था बुभुक्षा चुरा तितिक्षा उप स्थान कृषि कर्मन् विश्वधा तपस् सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोड श विक्षा चुक्षा मन्त्र” छात्रः चौर इत्यादि

छत्त्राधान्य = न० छत्त्रा धान्यमिव। कुस्तुम्बुरौ धन्याके राजनि०।

छत्त्रिका = स्त्री छत्त्रं तदाकारं पुष्पं वाऽस्त्यस्य ठन्। १ शिलीन्ध्रे स्वेदजे शाकभेदे हारा० तस्या उत्पत्तिस्थानादिकं भावप्र० उक्तं यथा “उक्तं संस्वेदजं शाकं भूमिच्छत्रं शिलीन्ध्रकम्। क्षिति गोमयकाष्ठेषु वृक्षादिषु तदुद्भवेत्। सर्वे संस्वेदजाः शाकादोषलाः पिच्छलाश्च ते। गुरवश्छर्द्यतीसारज्वरश्लेष्पामयप्रदाः। श्वेतशुभ्रस्थलीकाष्ठवंशयोमयसम्भवाः। नातिदोषकरास्ते स्युः शेषास्तेभ्योविगर्हिताः”। २ छत्त्रविशिष्टे त्रि० ततः पुरोहिता० भावे यक्। छात्त्रिक्य छत्त्रयुक्तत्वे न०

छत्त्रिन् = त्रि० छत्त्रमस्त्यस्य। १ आतपत्रयुक्ते। “छत्त्रिणो गच्छन्ति” सा० द०। “वर्षातपे च छत्त्री दण्डी रात्र्य टवीषु च” भावप्र० “मौञ्जी यज्ञोपवीती च छत्त्री दण्डाजिनी तथा” (वामनः) हरिबं० २६२ अ०। २ नापिते पु० शब्दरत्ना०

छत्वर = पु० छद–ष्वरच् नि० दस्य तः। १ गृहे २ कुञ्जे च सि० कौ०

छद = संवृतौ अद० चु० उभ० सक० सेट्। छदयति ते अचिच्छदत् त

छद = संवृतौ वा चु० पक्षे भ्वा० उभ० सक० सेट्। छादयति ते छदति ते अचिच्छदत् त अच्छादीत्–अच्छदीत् अच्छदिष्ट। ऊर्ज्जने बलाधाने जीवने चायं मित्। छदयति ते इति भेदः। छन्नः–छादितः। घे ह्रस्वः छदः। “अग्निमन्तश्छादयसि” अथ० ९, ३, १४, “अन्तं छादयेदाज्येन” कात्या० श्रौ० ४, ६, ५, “छादयन्निषुजालेन” भा० आ० १३८३ अ०। उपसर्गपूर्ब्बकस्य तत्तदुपसर्गद्योत्यार्थयुक्तसंवरणे “आच्छाद्य चार्च्चयित्वा च” मनुः।

छद = संवृतौ चु० उभ० सक० सेट् इदित् पाणि०। छन्दयति ते अचिच्छन्दत् त। छन्दः।

छद = पु० छद–पुंसि संज्ञायां घः ह्रस्वः। १ वृक्षादिपत्त्रे २ खगपक्षे अमरः ३ ग्रन्थिपर्णवृक्षे ४ तमालवृक्षे च मेदि० “कृतां विन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्” (नलिनीम्) भा० स० ४९ अ०। “नित्यपुष्प फलास्तत्र पादपाः हरितच्छदाः” भा० व० ८९ अ०

छदन = न० छद–ल्युट्। १ पत्रे, २ पक्षे मेदिनिः (तेजपात) ३ त्वचे राजनि०। भावे ल्युट्। ४ पिधाने न०। “विमलस्फाटिकाभानि पाण्डरच्छदनानि” हरिवं० २३९ अ०। “बिमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः” भा० व० १५८ अ०।

छदपत्त्र = पु० छदर्थं पत्रमस्य। भूर्जपत्रे रत्नमाला।

छदि = स्त्री छद–कि। छदिषि पटले (चाल) अमरः “छदिः स्त्रियाम्” पा० उक्तेरिदन्ततास्य।

छदिस् = न० छद–इसि। पटले सान्तं क्लीवं रायमुकुटः। “इन्द्रस्य छदिरसि” यजु० ४। २८। २ गृहे निघण्टुः

छद्मतापस = पु० छद्मना, छलेन तापसः। लोकप्रतारणार्थं तापसताख्यापनाय तापसलिङ्गधारिणि तत्कर्माननुष्ठायिनि वैडालव्रतिके शब्दार्थचि०

छद्मन् = न० छाद्यते स्वरूपमनेन छद–मनिन्। १ कषटे २ छले। ३ स्वरूपाच्छादने मेदि०। “जगाद वदनच्छद्मपद्मपर्य्यन्त पातिना” माघः। “छद्मना चरितं च तत्” मनुः “शकांश्च यवनांश्चैव अजयच्छद्मपूर्वकम्” भा० स० २९ अ०

छद्मिका = स्त्री छद्म अस्त्यस्याः व्रीह्या० इनि सज्ञायां कन्। गुडूच्यां राजनि०।

छद्मिन् = त्रि० छद्म अस्त्यर्थे व्रीह्या० इनि। छद्मयुक्ते “ब्राह्मणच्छद्मिने देवलोके गन्ता परां गतिम्” भा० व० २९९ अ०। “वाहुकच्छद्मिनं नलम्” ७७ अ०। स्त्रियां ङीप्।

छन्द = पु० छदि–संवरणे धातोरनेकार्थत्वात् इह इच्छायाम् अच्। १ अभिलाषे, २ वशतायाम्, “स्वच्छन्दोच्छलदकच्छकुहरच्छातेतराम्बुच्छटा” काव्यप्र०। ३ विषभेदे च अमरः ४ विषे शब्दच०। ५ रहसि त्रि० अमरटीका। “छन्दानुवृत्तिदुःसाधाः सुहृदोविमनीकृताः” माघः। “वरदानात् पितुः कामं छन्दमृत्युरसि प्रभो!” भा शा० ५० अ०।

छन्दक = त्रि० छन्दयति संवृणोति रक्षति छदि–ण्वुल्। १ रक्षके २ वासुदेवे पु०। “वासुदेव। सर्वच्छन्दक! हरिहय! हरिमेध! महायज्ञ”। मा० शा० ३४० अ० नारदकृतनारायणस्तवे।

छन्दःपर्ण्ण = पु० छन्दांसि वेदविहितकर्म्माणि पर्ण्णानीव यस्य। मायामये संसारे। “छन्दांसि यस्य पर्ण्णानि यस्तं वेद स वेदवित्” गीता छन्दांसि छादनात् तत्त्ववस्तुप्रावरणात् संसारवन्धनादीनि कर्म्माणि ऋग्यजुःसामवेदविहितानि पर्ण्णानीव यस्य यथा वृक्षस्य छादनार्थानि रक्षणार्थानि च पर्णानि एवं धर्म्माधर्म्मोपार्ज्जनेन कर्म्मभिः संसार वृक्षोरक्ष्यते इति तस्य तथात्वम्।

छन्दश्चिति = स्त्री ६ त० छन्दसां समूहे। तत्र छन्दोभेदे एकादिगुरुज्ञानाय करणसूत्रं लीला० उक्तं यथा “छन्दश्चित्यादौ करणसूत्रं श्लोकत्रयम् “एकाद्येकोत्तराअङ्का व्यस्ता भाज्याः क्रमस्थितैः। परः पूर्वेण सङ्गु- ण्यस्तत्परस्तत्परेण च।। एकद्वित्र्यादिभेदाः स्युरिदं साधारणं स्मृतम्। छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्य तद्विदाम्।। मूषावहनभेदादौ खण्डमेरौ च शिल्पके। वैद्यके रसभेदीये तन्नोक्तं विस्तृतेर्भयात्। तत्र छन्दश्चित्युत्तरे किञ्चिदुदाहरणम्। “प्रस्तारे मित्र! गायत्र्याः स्युः पादे व्यक्तयः कति। एकादिगुरवश्चाशु कथ्यतां तत्पृथक् पृथक्। इह हि षडक्षरगायत्रीचरणः अतः षडन्तानां एकाद्येकोत्तराङ्गाणां व्यस्तानां क्रम स्थानाञ्च न्यासः ६ ५ ४ ३ २ १ १ २ ३ ४ ५ ६ ६ १५ २० १५ ६ १ यथोक्तकरणेन लब्धाः एकगुरुव्यक्तयः। ६। द्विगुरवः। १५। त्रिगुरवः। २०। चतुर्गुरवः। १५। पञ्चगुरवः। ६। षड्गुरवः। १। तथैका सर्व्वलघुः। १। एवमासामैक्यं पादव्यक्तिगितिः। ६४। एवञ्चतुश्चरणाक्षरसङ्ख्यकानङ्कान् यथोक्तं विन्यस्य एकादिगुरुभेदानानीय तान् सैकानेकीकृत्य जाता गायत्रीवृत्तव्यक्तिसङ्ख्या। १६७७७२१६। एवमुक्थाद्युत्कृतिपर्य्यन्तं छन्दसां व्यक्तिमितिर्ज्ञातव्या”। अधिकं प्रस्तावशब्दे मर्कटीजालशब्दे मेरुशब्दे पताकाशब्दे च दृश्यम्।

छन्दस् = न० छन्दयति असुन्। १ वेदे भावे असुन्। २ स्वैराचारे ३ अभिलाषे च मेदि०। ४ कपटे। नियताक्षरबर्णमात्रादिसन्निवेशवशात् ५ चतुश्चरणादौ पद्ये। लौकिक तत्संज्ञाभेदाश्च वृत्तरत्नाकरादौ सलक्षणा उक्तास्ते तु तत्तच्छब्दे उक्ता वक्तव्याश्च। वैदिकच्छन्दांसि तु सर्वानुक्रमिकायां कात्यायनेन दर्शितानि यथा “अथ छन्दांसि गायत्र्युपङ्क्तिष्णिगनुष्टुव्वृहतीत्रिष्टुब्जगत्यतिजगतीशक्वर्यतिशकर्यष्ट्यत्यष्टिधृत्यतिधृतयः कृतिप्रकृत्याकृतिविकृतिसंकृत्यतिकृत्युत्कृतयः चतुर्विंशत्यक्षरादोनि चतुरुत्तराणि। जनाधिकेनैकेन निचृद्भूरिजौ द्वाभ्यां विराट्स्वराजौ। पादपूरणार्थं तु क्षैप्रसंयोगैकाक्षरीभावान् व्यूडेत्। आद्ये तु सप्तवर्गे पादविशेषात् संज्ञाविशेषास्ताननुक्रामन्त एवोदाहरिष्यामो विराड्रूपा विराट्स्थानाश्च बहुला अपि त्रिष्टुभ एवेत्युद्देशः। तत्र दशैकादण्यादशाक्षराणां वैराजत्रैष्टुभजागता इति संज्ञा अनादेशेऽष्टाक्षराः पादाश्चतुष्पादाश्च- र्चः। प्रथमं छन्दस्त्रिपदा गायत्री। पञ्चकाश्च त्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः। षट्सप्तैकादशा उष्णिग्गर्भा। त्रयः सप्तकाः पाद निचृन्मध्यमः षत्कश्चेदतिनिचृद्दशकश्चेद्यवमध्या। यस्यास्तु षट् सप्तकाष्टकाः सा वर्धमाना विपरीता प्रतिष्ठा। द्वौ षट्कौ सप्तकश्चेति ह्रसीयसी। १ द्वितीयमुष्णिक् त्रिपदान्त्यो द्वादशकः। आद्यश्चेत् पुर उष्णिङ् मध्यमश्चेत्ककुप्। त्रैष्टुभजागतचतुष्काः ककुम् न्यङ्कुशिरैकादशिनोः परः षट्कस्तनुशिरा मध्ये चेत्पिपीलिकमध्याद्यपञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा। चतुःसप्तकोष्णिगेव। ३ तृतीयमनुष्टुप्। पञ्चपञ्चकाः षट्कर्श्चको महापदपङ्क्तिः। जागतावष्टकश्च कृतिः। मध्ये चेदष्टकः पिपीलिकमध्या। नवकयोर्मध्ये जागतः काविराट्। नववैराजत्रयोदशैर्नष्टरूपा। दशकास्त्रयो विराडैकादशका वा। ४ चतुर्थं बृहती तृतीयो द्वादशकः। आद्यश्चेत् पुरस्ताद्वृहती। द्वितीयश्चेन्न्यङ्कुमारिण्युरोवृहती स्कन्धग्रीवी वा। अन्त्यश्चेदुपरिष्टाद्वृहती। अष्टिनोर्मध्ये दशकौ विष्टारवृहती। त्रिजागतोर्ध्ववृहती। त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या। नवकाष्टकैका दशाष्टिनो विषमपदा। चतुर्नवका वृहत्येव। ५ पञ्चमं पङ्क्तिः पञ्चपदा। अथ चतुष्पदा विराड्दशकाः। अयुजौ जागतौ सतोवृहती युजौ चेद्बिपरीताऽऽदौ चेत प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्ति राद्यन्त्यौ चेत् संस्तारपङक्तिर्मध्यमौ चेद्विष्टार पङ्क्तिः। ६ षष्ठं त्रिष्टुप् त्रैष्टुभपदा। द्वौ तु जागतौ यस्याः सा जागते जगती त्रैष्टुभे त्रिष्टुप्। वैराजौ जागतौ चाभिसारिणी। नवकौ वैराजस्त्रैष्टुभश्च द्वौ वा वैराजौ मवकस्त्रैष्टुभश्च विराट् स्थानैकादशिनस्त्रयोऽष्टकश्च विराड्रूपा। द्वादशिनस्त्रयोऽष्टकश्च ज्योतिष्मती। यतोऽष्टकस्ततोज्योतिः। चत्वारोऽष्टका जागतश्च महावृहती। मध्येजागतश्चेद्यवमध्या आद्यौ दशकावष्टकास्त्रयः पङ्क्त्युत्तरा विराट् पूर्वा वा। ७ सप्तमं जगती जागतपदा। अष्टिनस्त्रयः रखौ च द्वौ महासतोवृहती। अष्टकौ सप्तकः षट्को दशको नवकश्च षडष्टका वा महापङ्क्तिः” तत् प्रतिपादकग्रन्थस्य वेदाङ्गत्वं यथोक्तं शिक्षाग्रन्थे ३१। ७। “छन्दःपादौ तु वेदस्य हस्तौक ल्पोऽथ पठ्यते ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमधीत्यैव व्रह्मलोके महीयते” इति। छन्दोग्रन्थस्य वेदोपयोगिता ऋग्वेदभाष्ये दर्शिता यथा छन्दोग्रन्थोऽप्युपयुज्यते छन्दोविशेषाणां तत्र तत्र विहितत्वात्। “तस्मात् सप्त चतुरुत्तराणि छन्दांसि प्रातरनुवाकेऽनूच्यन्ते” इति ह्याम्नातम्। गायत्र्युष्णिगनुष्टुव् वृहतीपङ्क्तित्रिष्टुब्जगतीत्येतानि सप्त छन्दांसि। चतुर्विंशत्यक्षरा गायत्री। ततोऽपि चतुर्भिरक्षरैरधिकाष्टाविंशत्यक्षरोष्णिक्। एवमुत्तरोत्तराधिका अनुष्टुवादयोऽवगन्तव्याः। तथान्यत्रापि श्रूयते। “गायत्रीभिर्व्राह्मणस्य दध्यात्, त्रिष्टुब्भीराजन्यस्य, जगतीभिर्वैश्यस्येति”। तत्र मगणयगणादिसाध्यो गायत्र्यादि विवेकश्छन्दोग्रन्थमन्तरेण न सुविज्ञेयः। किञ्च “यो ह वा अविदितार्षेयच्छन्दोदैवतव्राहणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वर्च्छति। गर्त्ते वा पत्यते। प्र वा मीयते पापीयान् भवति तस्मादेतानि मन्त्रे मन्त्रे विद्यादिति” श्रूयते। तस्मात्तादद्वेदनाय छन्दोग्रत्थ उपयुज्यते। ६ सामभेदे “छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत” श्रुतिः छन्दोगः। छन्दोऽधीते “श्रोत्रिय~श्छन्दोऽधीते” पा० अण् वा श्रोत्रियन्नादेशः। श्रोत्रिय छन्दोऽध्येतरि पुक्षे अण्मात्रम्। छान्दस तत्रार्थे “श्रोत्रियच्छान्दमौ समौ” अमरः। छन्दसा इच्छया निर्म्मितम् यत्। छन्दस्य इच्छया निर्म्मिते त्रि०। छन्दसो व्याख्यानो ग्रन्थः यत् अण् वा। छन्दस्य छान्दस वेदव्याख्यानग्रन्थे। तत्र गायत्र्यादौ छन्दसि “सप्त छन्दांसि क्रतुमेकं तन्वन्ति” भा० व० १३४ अ०। “गायत्री छन्दसामहम्” गीता। “छन्दोभिरच्छादयन् यदेभिरच्छादयन् तच्छन्दसां छन्दस्त्वम्” छा० उ०। वेदे “छन्दसि बहुलम्” पा०। “युक्तश्छन्दांस्यधीयत” मनुः “हिरण्यगर्भो भगवान् यएष छन्दसा स्तुतः” हरिवं० २२६ अ०। “आसीन्महीक्षितागाद्यः प्रणवश्छन्दसामिव” रघुः। इच्छायां छन्दस्वः। छन्दस इदम् अण्। छान्दस वेदसम्बन्धिनि त्रि० सर्वच्छन्दसि समार्द्धसमविषमभेदादिज्ञानाय लीला० उक्तं यथा “समादिवृत्तज्ञानाय करणसूत्रं सार्द्धार्य्या। पादाक्षरमितगच्छे गुणवर्गफलञ्चये द्विगुणे।। समवृत्तानां सङ्ख्या तद्वर्गोवर्गवर्गश्च। स्वस्वपदोनौ स्यातार्मसमानाञ्च विषमाणाम्।। उदाहरणम्। समानामर्द्धतुल्यानां विषमाणां पृथक् पृथक्। वृत्तानां वद मे सङ्ख्यामनुष्टुप्छन्दसि द्रुतम्।। न्यासः। उत्तरगुणः। २। गच्छः। ८। लब्धाः समवृत्तानां सङ्ख्याः। २५६। तथार्द्धसमानाम्। ६५२८०। विषमाणाञ्च। ४२९४९०१७६०। “अद्ध्रयोयस्य चत्वारस्तुल्यलक्षणलक्षिताः। तच्छन्दः शास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते।। प्रथमाङ्घ्विसमोयस्य तृतीयश्चरणोभवेत्। द्वितीयस्तुर्यवद्वृत्तं तदर्द्धसममुच्यते।। यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम्। तदाहुर्विषसं वृत्तं छन्दःशास्त्रविशारदाः”।।

छन्दस्तुभ् = पु० छन्दसा पक्षेण स्तुम्नाति सूर्य्यम् स्तुभ–क्विप्। गरुडाग्रजेऽरुणे तस्य तत्कथा “पितामह उवाच। एष लोकविनाशाय रविरुद्यन्तुमुद्यतः। पश्यन्नेव हिलोकान् स भस्मराशीकरिष्यति। तस्य प्रतिविधानञ्च विहितं पूर्वमेव हि। कश्यपस्व सुतोधीमानरुणेत्यभिविश्रुतः। महाकायो महातेजाः स स्थास्यति पुरोरवेः। करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति। लोकानां स्वस्ति चैवं स्यादृषीणाञ्च दिवौकसाम्। प्रमतिरुवाच। ततः पितामहाज्ञप्तः सर्वं चक्रे तदाऽरुणः। उदितश्चैव सविताप्यरुणेन समावृतः” भा० आ० २४ अ०।

छन्दु = त्रि० छदि–उण्। उपच्छन्दयितरि। “कृषा छन्दुर्भवति हर्य्यतः” ऋ० १८५४, ४। “छन्दुरुपच्छन्दयिता” भा०।

छन्दोग = पु० छन्दः सामवेदं गायति गै–क। “सामवेदज्ञे “यत्नेन भोजयेत् श्राद्धे वह्वृचं वेदपारगम्। शाखान्तगमथाध्वर्य्युंछन्दोगन्तु समाप्तिकम्” मनुः। “छन्दोगैर्विविधैः पृथक्” गीता। छन्दोगपरिशिष्टम्।

छन्दोदेव = पु० ब्राह्मण्यां नापितेन जाते मतङ्गनामके चण्डालभेदे तपस्यया इन्द्रदत्तवरेण छन्दोदेवनामतां प्राप्ते स्त्रीणां पूज्ये देवभेदे तत्कथा भा० आनु० २७ अ०। “व्राह्मण्यां वृपलेन त्वं गत्तायां नापितेन ह। जातस्त्वमसि चण्डाली ब्राह्मण्यं तेन तेऽनशत्” २७ अ० इत्युपक्रमे तेन निर्विद्य तपश्चरातं त प्रति इन्द्रस्य वरदानादि “नूनं दैवं न शक्यं हि पोरुषेणातिवर्त्तितुम्। तदर्थं यत्नवानेवं न लभे विप्रतां विभो!। एवं गते तु धर्म्मज्ञ। दातुमर्हसि मे वरम्। याद तेऽहपनुग्राह्यः किञ्चिद्वा सुकृतं मम। वंशम्पायन उवाच। वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा। चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम्। यथा कामविहारी स्यां कामरूपी विहङ्गमः। ब्रह्मक्षत्राविरोधेन पूजाञ्च प्राप्नुयामहम्। यथा ममाक्षया कीर्त्तिर्भवेच्चापि पुरन्दर!। कर्त्तुमर्हसि तद्देव! शिरसा त्वां प्रसादये। शक्र उवाच। छन्दोदेव इति व्यातः स्त्रीणां पूज्यो भविष्यसि। कीर्त्तिश्च तेऽतुला त्स! त्रिषु लोकेषु यास्यति। एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत। प्राणांस्त्यक्त्वा मतङ्गोऽपि संप्राप्तः स्थानमुत्तमम्” भा० अनु० २९ अ०।

छन्दोभाषा = स्त्री छन्दसा भाषा। १ छन्दसा कथन ततोभवे तद्व्याख्याने ग्रन्थेऽर्थे ऋगयनादि० अण्। छान्दोमाष तत्रभवे तद्व्याख्याने ग्रन्थेच। २ उपाङ्गशास्त्रभेदे “उपाङ्गानि शृणु प्रभो!” इत्युपक्रमे “प्रतिपदमनुपदं छन्दोभाषासमचितम्। मीमांसान्यायतर्काश्च उपाङ्गं परिकीर्त्तितम्” हेमा० दा० ख० देवीपु०।

छन्दोम = पु० त्रिसूत्ये अहीने यागभेदे “त्र्यहाः पञ्च गर्गवैद छन्दोमान्तर्वसुपराकाः” कात्या० श्रौ० २३। २। ८! त्र्यहास्त्विसुत्याः पञ्च अहीनाः “द्वितीये त्रिवृतोऽतिरात्राःसर्वे राज्यकामस्य” ९। १०। सू०। “त्रिवृतस्तिवृत्स्तोमयुक्ताः अतिरात्राः (सर्वे गर्गादयः) पञ्च राज्यकामस्य क्रतवो भवन्ति” कर्कः।

छन्दोमदशाह = पु० दशाहसाध्ये यागभेदे “छन्दोमदशाहः पशुकामस्य” कात्या० श्रौ०। २३। ५। २८। छन्दोमदशाह इति संज्ञा स पशुकामस्य भवति” कर्कः तत्राहान्याह। “पृष्ठावलम्बाच्चत्वारश्छन्दोमाः” २९ सू०। “चतुर्थे दशरात्रे पृष्ठ्यावलम्बादूर्द्धं द्वादशाहिकाश्चत्वारश्छन्दोमा भवन्ति तत्र पूर्वं वृहद्रथन्तरपृष्टाःपञ्चाहाः ततश्चत्वारश्छन्दोमाः ततोदशमोविश्वजिदतिरात्रः” स० व्या०।

छन्दोमान = न० ६ त०। छन्दसां माने ततो भवे व्याख्यानेच ऋगयनादि० अण्। छान्दोमान तत्र भवे तद्व्या ख्याने च।

छन्दोविविति = स्त्री ६ त०। छन्दमां गायत्र्यादीनां १ समुदाये। छन्दंसां विचितिर्विचयोयत्र। छन्दःशास्त्रे च। “छन्दोविचितिरित्येतं षडङ्गोवेदैष्यते” ततः ऋगयना० भवे व्याख्याने चार्थे अण। छान्दोविचित तद्भवे तद्व्याख्याने च!

छन्न = त्रि० चु० छद–क्त नि०। १ आच्छादिते। २ निर्ज्जने ३ रहसि न० “छन्नेष्वपि स्पष्टतरेषु यत्र” माघः। पक्षेछादित तत्रार्थे त्रि०।

छपगतौ = वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। छम्पयति ते छम्पति अचच्छम्पत् त अच्छम्पीत्। चच्छम्प।

छम = भक्षणे भ्वा० पर० सक० सेट्। छमति अच्छमीत्। उदित् छमित्वा–छान्त्वा छान्तः। छमण्डः

छमण्ड = पु० छम–अण्डच्। मातापितृविहोने (छो~ड) उणादिकोषः

छर्द्द = वमने चरा० उभ० सक० सेट्। छर्दयति ते अचच्छर्दत् त। छर्दितः। छर्दिः।

छर्द्द = न० छर्द–भावे अच्। वमने हेम०। क्लीवत्वमभिधानात्।

छर्द्दन = न० छर्द–भावे ल्युट्। १ वमने। हेमच०। “छर्दनं दध्युदश्विद्भ्यासथ वा तण्डुलाम्बुना” सुश्रु०। कर्त्तरि ल्यु। २ वमनकर्त्तरि त्रि०। ३ अलम्बुषराक्षसे पु०। हेतौ णिच्–ल्यु। ४ निम्बवृक्षे पु० हेमच० ५ मदनवृक्षे भावप्र०।

छर्द्दपनिका = स्त्री छर्दं वमनमापयति आपि–ल्यु स्वार्थे क अत इत्त्वम्। कर्कट्याम् राजनि०।

छर्द्दि = स्त्री छर्दयति छर्द–हेतौ णिच–इन्। वमनरोगे तन्निरुक्तिनिदानादि च सुश्रुते उक्तं यथा। “अथातश्छर्द्दिप्रतिषेधमध्याय व्याख्यास्यामः। अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि। अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः। श्रमात् क्षयात्ययोद्वेगादजीर्णा० त्कृमिदोषतः। नार्य्याश्चापन्नसत्वायास्तथाऽतिद्रुतमश्नतः। बीभत्सैहतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात्। छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः। निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः। दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः। ऊर्द्ध्वमागच्छति भृशं विरुद्धाहारसेविनाम्। हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः। द्वेषोऽन्नपाने च भृशं वमीनां पूर्व्वलक्षणम्। प्रच्छर्द्दयेत् फेनिलमल्पमल्पं शूलार्द्दितोऽभ्यर्द्दितपार्श्वपृष्ठः। श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिवं साऽनिलजा वमिस्तु। योऽम्लं भृश वा कटुतिक्तवक्त्रे पीतं सरक्तं हरितं वमेद्वा। सदाहचोषज्वरवक्त्रशोषमूर्च्छान्विता पित्तनिसित्तजा सा। यो हृष्टरोमा मधुर पू० तं शुक्लं हिमं सान्द्रकफानुविद्धम अभक्तरुग्गौरवसादयुक्तोवमेद्वमी सा कफकोपजा स्यात्। सर्व्वाणि रूपाणि भवन्ति यस्यां सा सर्व्वदोषप्रभवा मता तु। बीभत्सजा दौर्हृदजाऽऽमजा च याऽसात्म्यतोवा कृमिजा च या हि। सा पञ्चमी ताश्च विभावयेत्तु दोषोच्छयणैव यथोक्तमादौ। आमाशयोत्क्लेशभवाश्च सर्व्वास्तस्माद्धितं लङ्गनमेव तासु। शूलहृक्कासबहुला कृमिजा च विशेषतः। कृमिहृद्रोगतुल्येन लक्षणेन च लक्षिता। क्षीणम्योपद्रवैर्युक्तां सासृक्पूयां सतन्द्रिकाम्। छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम्। वमीषु बहुदोषासु छर्दनं हितमुच्यते। विरेचनं वा कुर्व्वीत यथादोषोच्छ्रयं भिषक्। संसर्गांश्चानुपूर्व्वेण यथास्वं भषजाय तान्। लघूनि परिशुष्काणि सात्म्यान्यन्नानि वाऽऽचरेत्। यथास्वञ्च कषायाणि ज्वरघ्नानि प्रयोजयेत्”। “कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च। हृद्रीगस्तमकश्चैव ज्ञेयाश्छद्र्देरुपद्रवाः” इति माधवकरः। वा ङीप्। तत्रार्थे “आमाशयोत्क्लेशभवा हि सर्व्वाच्छर्दोमता लङ्घनमेव तस्मात्” सुत्रुतः।

छर्दिका = स्त्री छर्द–णिच् ण्वुल्। १ उत्कासिकायां, २ विष्णुक्रान्तायाञ्च। धात्वर्थे ण्वुल्। ३ वमने। राजनि०। स्वार्थे क प्तषो०। छर्दीकाप्यत्र।

छर्दिकारिपु = स्त्री पु० ६ त०। १ क्षुद्रैलायाम्। २ छर्दिनाशके च शब्दच०।

छर्दिघ्न = पु० छर्दिं हान्त–हन–टक्। १ निम्बभेदे। २ छर्दिनाशके त्रि० रत्नागाला स्त्रियां ङीप्।

छर्दिस् = स्त्री छर्द–भावे इसि। १ वममे० २ कर्त्तरि इसि। २ बमिरोगे ३ उद्गारे च। छर्द्द–कर्म्मणि इसि। ४ गृहे निघ०। “यातं छर्द्दिष्पा उत नः परस्पाः” ऋ० ८। ९। ११। “छर्दिरिति गृहनाम तस्य पालकाः” भा०। “अग्निष्ट्वाभिपातु मह्या स्वस्त्या छदिषा” यजु० १३। १९। “छर्दिषा गृहेण” वेददी०। छृद–दीप्तौ इसि। ४ तेजसि “बायुष्ट्वाभिपातु मह्या खस्त्या छर्दिषा” यजु० १४। १२। “छर्दिषा तेजोविशेषेण” वेददी०।

छल = न० छल–अच्। १ स्वरूपाच्छादने २ व्याजे ३ यथार्थगूहने ४ कटयुद्धादिना तन्मर्य्यादायाश्चलने ५ शाठ्ये ६ कापट्यें न्यायमतसिद्धे कार्य्यान्तरेण प्रयुक्तस्य वाद्युक्तशब्दस्यार्थान्तर कल्पनया प्रतिवादिना दत्ते ७ दूषणभेदे तल्लक्षणभेदादिकं गौ० सृ० वृत्तौ दर्शितम्। यथा “विघातोऽर्थविकल्पोपपत्त्या छलम्। १। तत् त्रिविधं वाक्छलं सा० मान्यच्छलमुपचारच्छलञ्चेति। २। अविशेषाभिहितेऽर्थे वक्तुरभप्रायादर्थान्तरकल्पना वाक्छलम्। ३। सम्भवतोऽर्थस्यातिसामान्ययोगादसम्मतार्थकल्पना सामान्य च्छलम्। ४। धर्मविकल्पनिर्देशोऽर्थसम्भावप्रतिषेध उपचारच्छलम्। ५। वाकछलमेवोपचारच्छलं तदवि- शेषात्। ६। न तदर्थान्तरभावात्। ७। अपिशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः। ८। गौ० सू० “क्रमप्राप्तं छलं लक्षयति। अर्थस्य वाद्यभिमतस्य यो विकल्पो विरुद्धः कल्पो अर्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण यो वचनस्य वाद्युक्तस्य विघातो दूषणं तच्छलमित्यर्थः वक्तृतात्पर्य्याविषयार्थकल्पनेन दूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वं विशेष्ये विशेषणे संसर्गे वा यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नवसङ्ख्यापरत्वकल्पनयाऽसिद्ध्यभिधानं, प्रमेयं धर्मत्वादित्यत्र पुण्यार्थकल्पनया भागासिद्ध्यभिधानम् वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम्। १ वृ० लक्षितं छलं विभजते। २। तत्र वाक्छलं लक्षयति। यत्र शक्यार्थद्वये सम्भवति एकार्थनिर्णायकविशेषाभावादनभिप्रेतशक्यार्थकल्पनेन दूषणाभिधानं तद्वाक्छलं, लक्षणन्तु शक्त्या एकार्थशाब्दबोधतात्पर्य्यकशब्दस्य शक्यार्थान्तरंतात्पर्य्यकत्वकल्पनया दूषणाभिधानं यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्युक्ते कुतोऽस्य नवसङ्ख्यकाः कम्बला इति एवं गौर्विषाणीत्युक्ते कुतोगजस्य शृङ्गं श्वेतोधावतीति श्वेतरूपवदभिपायेणोक्ते श्वेतो न धावतीत्यभिधानमित्यादिकमुह्यम्।। ३ वृ०। सामान्यछलं लक्षयति। सामान्यविशिष्टसम्भवदर्थामिप्रायेणोक्तस्य अतिसामान्ययोगादसम्भवदर्थकत्वकल्पनया दूषणाभिधानं सामान्यच्छलम्। यथा ब्राह्यणोऽयं विद्याचरणसम्पन्न इत्युक्ते ब्राह्मणत्वेन विद्याचरणसम्पदं साधयतीति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरणसम्पद्बाल्ये व्यभिचारात्।। ४ वृ०। उपचारच्छलं लक्षयति। धर्मशब्दस्यार्थेन विकल्पो विविधः कल्पः शक्तिलक्षणान्यतररूपस्तया शक्तिलक्षणयोरेकतरर्वृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलं यथा मञ्चाः क्रोशन्ति नीलो घट इत्यादौ मञ्चस्था एव क्रोशन्ति न तु मञ्चाः एवं घटस्य कथं नीलरूपाभेदः। एवम् अहं नित्य इति शक्ता प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोऽप्युपचारच्छलम् वाद्यभिप्रेतार्थस्यादूषणेन छलस्यासदुत्तरत्वम्। न च श्लिष्टलाक्षणिकप्रयोगाद्वादिनएवापराधः स्यादिति वाच्यं तत्तदर्थबोधकतया प्रसिद्धस्य शब्दस्य प्रयोग वादिनोऽनपराधात अन्यथा पर्वतीवह्निमानित्युक्ते पर्वतोऽयं कथमवह्निमानित्यादिदषणेनानुमानाद्युच्छेदः स्यात्।। ५। वृ०। प्रसङ्गाच्छलं परीक्षितुं पूर्वपक्षयति। शब्दस्यार्थान्तरकल्पनाऽविशेषाद्वाक्छलमेवोपचारच्छलं स्यादिति द्वित्वमेव न तु त्रित्वमिति शङ्कार्थः।। ६ वृ०।। समाधत्ते। उपचारच्छलस्य वाक्छलाभेदो न, तयोरर्थान्तरभावात् भिन्नत्वात् भिन्नतया प्रमाणसिद्धत्वादिति फलितार्थः। पूर्व्वोक्तभेदकधर्म्मेण भेदसम्भवेऽपि यत्किञ्चिद्धर्मेणाभेदे सामान्यधर्मेणाभेदस्य सर्व्वत्र सम्भवाद्विभागः कुत्रापि न स्यादिति। ७ वृ०। विपक्षे बाधकमभिप्रेत्याह यत्किञ्चिद्धर्मादविशेषे किञ्चित्साधर्म्याच्छलत्वादिरूपाच्छलस्यैक्यं स्यान्न तु त्वद्भिमतं द्वित्वमपीति भावः”।। ८ वृत्तिः “आक्षिप्तकेतुकुथसैन्यगजच्छलेन” माधः। “धर्म्मेण व्यवहारेण छलेनाचरितेन च। प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च” मनुः। “भुवनहितच्छलेन यम्” भट्टिः “अध्यारुरोहेव रजश्छलेन” रघुः। “छलं भूतेन व्यवहारान्नयेन्नृपः” याज्ञ०। “भूतं तत्त्वार्थसम्बद्धं प्रमादाभिहितं छलम्” नारदोक्ते ८ प्रमादाभिहिते च ९ छलकारिणि त्रि०। स्वार्थे क। तत्रार्थे “आवाभ्यां (मधुकैटभाभ्याम्) छाद्यते विश्वं रजसा तमसा तथा। रजस्तमोमयावावां यतीनां दुःखलक्षणौ। छलकौ धर्म्मशीलानां दुस्तरौ सर्वदेहिनाम्” हरिवं २०३ अ०। १० नाटकप्रभेदव्यीथ्यङ्कभेदे न० “वीथ्यामेको भवेदङ्कः” इत्युपक्रमे “अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः। उद्थात्यकावलगितेत्यादिना विभज्य सा० द० लक्षितं यथा “प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलना छलम् “यथा वेण्यां भीमार्ज्जुनौ” “कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीषनः सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम्। कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वास्ते? दुर्य्योधनोऽसौ कथयतु न रुषा द्रुष्टुमभ्यागतौ स्वः”।

छल = नामधातुः छल + कृतौ–णिच् सक० सेट्। छलयति “छलयति विक्रमणे अद्भुत वामनः” गीतगो० “द्यूतं छलयतामस्मि” गीता।

छलन = न० छल + कृतौ णिच्–भावे ल्युट्। १ प्रतारणे “यथापरं यथायोगं न च स्यात् छलनं पुनः” भा० भी० १ अ०। युच्। २ वञ्चनायां स्त्री शब्दार्थचि०। “छलना छलम” सा० द०।

छलिक = न० नाटकभेदे अलङ्कारशब्दे ३९२ पृ० उक्ते दृश्य काव्यभेदे दृश्यम्। “देवि! शर्म्मिष्ठायाः कृतिं चतुष्पदीम् छलिकं दुष्प्रयोज्यमुदाहरन्ति” मालविका०।

छलित = छल + नामधा० कर्म्मणि क्त। १ प्रतारिते “छलितरामं नाटकम्। भावे क्त। २ प्रतारणे न०।

छल्ली = स्त्री छद–क्विष् तां लाति ला–क गौरा० ङीष्। १ वल्कले (छाल) शब्दरत्ना० २ लतायाम् ३ सन्ततौ च। मेदि० ला–बा० कि। छल्लिरपि तत्रार्थे।

छवि(वी) = स्त्री छ्यति असारं छिनत्ति तमो वा छो–विकिच्च वा ङीप्। १ शोभायां २ कान्तौ च अमरः। “आपाण्डुरमुखच्छविः” रघुः। “आपाण्डरीभूतमुखच्छवीनाम् कुमा०।

छष = बधे भ्वा० उभ० सक० सेट्। छषति ते अच्छा(च्छ)षीत् अच्छषिष्ट। चच्छाष चच्छषे।

***