चित = ज्ञाने भ्वा० पर० सक० सेट्। चेतति अचेतीत्। चिचेत ईदित् चित्तः। “य इन्द्र। सोमपातमोमदः शविष्ठ चेतति” ऋ० ८। १२। १। “एवं तेऽचेतिषुः सर्व्वे” भट्टिः। “कृतानीदस्य कर्त्त्वा चेतन्ते दस्युतर्हणाम्” ऋ० ९। ४७। २। अ० वेदे पदव्यत्ययः। चेतः चेतनः चित्। क्लमरहितमचेतन्नीरजीकारितक्ष्माम्” भट्टिः।

चित = ज्ञाने चु० आत्म० सक० सेट्। चेतयति ते अचीचितत् त चेतना चेतितः। “पूर्ब्बं चेतयते जन्तुरिन्द्रियैर्विषयान् पृथक्” भा० शा० ९८९० “किन्नु सुप्तोऽस्मि जागर्मि चेतयामि न चेतये” भा० स्वर्गा० २ अ० “राक्षस्यश्चेतयन्ति न” भट्टिः। अस्य अदन्तत्वमपि। तस्य चितयतीत्यादिरूपम् “इन्द्र न यज्ञैश्चितयन्त आयवः” ऋ० १। १३१। २

चित = स्मृतौ चु० उभ० सक० सेट् इदित्। चिन्तयति ते अचिचिन्तत् त चिन्तितः चिन्तनम् चिन्तनाचिन्ता। “यद्यहं नैषधादन्यं मनसापि न चिन्तये” भा० व० ६३ अ० “तस्मादस्य बधं राजा मनसाऽपि न चिन्तयेत्” मनुः।

चित = स्त्री चित–संम्पदा० मावे क्विप्। १ ज्ञाने चेतनायाम् अमरः। २ चैतन्ये। “सच्चिदानन्दविग्रहम्” वे० सा० ३ चित्तवृत्तिभेदे। “चिदसि मनासि धीरसि” यजु० ४। १९। “अचेतनदेहादिसंघातस्य चेतनत्वं संपादयन्ती वाह्यवस्तुषु निर्विकल्परूपं सामान्यज्ञानं जनयन्ती वृत्तिश्चित्तं तदेवात्र चिदित्युच्यते” वेददी० ४ निर्विशेषस्फुरणमात्रे चेतने स्वतएव प्रकाशमाने ब्रह्मणि “निर्विकल्पकं सर्वावभासकं ज्ञानं प्रत्यगात्मस्वरूपं चिदिति” व्याख्यातारः “चिदिहास्मीति चिन्मात्रमिदं चिन्मयमेव च। चित्त्वं चिदहमेते च लोकाश्चिदिति भावयेत्” वेदान्तप्र०। चिद्रसः चिद्घयः “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना”। “तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः। इमास्ताः प्रतिविम्बन्ति सरसीव चलद्रुमाः” योगवासिष्ठः चिनोति चि–कर्त्तरि क्विप्। ५ चयनककर्त्तरि त्रि० अग्निचित्। कर्म्मणि क्विप्। ६ अग्नौ। ७ असाकल्ये अव्य० अमरः। कच्चित् कथञ्चित् जातुचित्। ८ अव्यक्तानुकरणे च अव्य० चित्कारः “नहि करिणि दृष्टे चित्कारेण तमनुमिमतेऽनुमातारः” वाचस्पतिमिश्रः। मुग्धबोधे विभक्त्यन्तात् किमः चिच्चनौ प्रत्ययौ विहितौ इतिभेदः। तच्चिन्त्यं चनशब्दे तद्धेतुरुक्तः जातुचित् इत्यादिप्रयोगासिद्धिश्च तस्य किमः प्रकृतिकत्वाभावात्।

चित = त्रि० चि–कर्म्म क्त। २ छन्ने मेदि० २ कृतचयने “अव चितबलिपुष्पा वेदिसम्मार्गदक्षा” कुमा०। ३ सञ्चिते ४ सम्पादिते च “तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितः क्षीयते” श्रुतिः ५ शवदाहाधारचूल्लीभेदे स्त्री अमरः। “प्रणिपाताञ्जलियाचितां चिताम्” कुमा० “वद वामोरु! चिताधिरोहणम्” रघुः “त्वया न पठिता चण्डी मया नापि चिकित्सितम्। अकस्मान्नगरोपान्ते कथं धूमायते चिता” हास्यार्णवः। “चिताग्नेरुद्वहन्नाज्यम्” भा० व० २१४ अ०। “सगोत्रजैर्गृहीत्वा तु चितामारोप्यते शवः। अधोमुखो दक्षिणादिक्चरणस्तु पुमानिति। उत्तानदेहा नारी तु सपिण्डैरपि बन्धुभिः। चाण्डालाग्नेरमेध्याग्नेः सूतिकाग्नेश्च कर्हिचित्। पतिताग्नेश्चिताग्नेश्च न शिष्टैर्ग्रहणं स्मृतम्” शु० त०। अधिकं चितिशब्दे दृश्यम्। मन्त्रसाधनाङ्गचिता लक्षणं तन्त्रसारे उक्तं यथा “असंस्कृता चिता ग्राह्या न तु संस्कारसंस्कृता। चाण्डालादिषु संप्राप्ता केवलं शीघ्रसिद्धिदा”। चितासाधनप्रकारः वीरतन्त्रे “अष्टम्याञ्चं चतुर्द्दश्यां पक्षयोरुभयोरपि। कृष्णपक्षे विशेषेणं साघयेद्वीरसाघनम्। तत्सार्द्धप्रहरे यामे गते च सुरसुब्दरि!। शवं वापि चितां वापि नीत्वा गत्वा यथासुखम्। साधयेत् स्वहितं मन्त्री मन्त्रध्यानपरायणः। भयं नैव तु कर्त्तव्यं हास्यन्तत्र विवर्जयेत्। चतुर्द्दिशं न वीक्षेत मन्त्रमेव समभ्यसेत्”। तत्र पूजाद्रव्यम् “सामिषान्नं गुडं छागं सुरापायसपिष्टकम्। नानाफलञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम्। चितास्थानं समानीय सुहृद्भिः शस्त्रपाणिभिः। समानगुणसम्प- न्नैः साधयेत् वीतभिः स्वयम्”।

चिताचूडक = न० चितैव चूडकं चूलकम् लस्य डः। चिताया त्रिका०।

चिति = स्त्री चि + आधारे क्तिन्। १ चितायाम् तत्करणदेशादिः का० श्रौ० २५। ७। १५। सूत्रोक्तो यथा “वितानं साधयित्वा समे बहुलतृणेऽन्तराग्नौ चितिं चिनोति” १५ सू० वितानसाधनमग्नीनां यथादेशस्थापनं कृत्वा समे तृणबहुले देशेऽन्तराग्नौ काष्ठैः चितिं चिनोति” कर्कः “पूर्वतरम् उद्धृत्य क्षीरिणीः पुरुषाहूतीः” १६ सू० “पुरुषआह्वानं यासामोषधीनाम् ताउद्धृत्य” देव० “क्षीरयुक्ताः पुरुषाहूतीः पुरुषनाम्नीः पुंलिङ्गशब्दाभिधेयाः अर्काद्याः” कर्कः। “विशाखाशराश्मगन्धापृश्नि पर्ण्यध्यण्डाश्च” १७ सू० “उद्धृत्येति वर्त्तते विशाखा दूर्वा शरोमुञ्जः पृश्निपर्णी माषपर्णी अध्यण्डा ढणढणिक्वा” देव० “अश्वगन्धा आसन्धिः पृश्निपर्णी लक्ष्मणेत्य परे अध्यण्डा च व्रह्ममाण्डूकीति निगमे” कर्कः “चितिवच्च” कात्या० श्रौ० २१। ३। २१ “देशो भवति तद्गुणयुक्त इत्यर्थः। स चितिवत् मृतस्य दाहार्थं यादृशैः काष्ठैश्चितिर्विहिता तादृशे देशे” कर्कः। भावे क्तिन्। २ समूहे मेदि०। अग्न्यादेः ३ चयने संस्कारभेदे। अग्निचयनप्रकारः शत० ब्रा० ७। १। १। १। “गार्हपत्यं चेब्यन् पलाशशाखा व्युदूहति अवस्यति ह्यैतद् गार्हपत्यं चिनोति इत्यादिके” विस्तरेणोक्तः। चीयतेऽस्याम् आधारे क्तिन् अग्निचयनाधारे ४ इष्टकाभेदे तासामुपधानादि संस्काराः शत० व्रा० ८। १। १। १। “प्राणभृत उपदधाति। प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ताः प्रथमायां चितावुपदधाति” “एषोऽग्नेर्यत् प्रथमा चितिः पुरस्तात्तत् प्राणानुपादधाति तस्मादिमे पुरस्तात् प्राणाः इत्यादिके उक्ता दृश्या”। “प्रथमोत्तमयोः पादमात्रीरतिरिक्ताः” कात्या० श्रौ० १७। ७। २९। “प्रथमोत्तमयोश्चित्योरतिरिक्ता सा पादमात्री भवति नातोऽतिरिक्ता चेति” कर्कः प्रथमापञ्चम्योः अतिरिक्ता या महत्य इष्टकास्ताः पादमात्रीरुपदधाति” स० व्या०। ५ कुड्यस्थ्येष्टकादीनां समूहविशेषे। इष्टकामानेन चितिमानज्ञानोपयोगिव्यवहारः चितिव्यवहारः। स च लीला० दर्शितो यथा चितौ करणसूत्रं सार्द्धवृत्तम्। “उच्छ्रयेण गुणितं चितेः किल क्षेत्रसम्भवफलं घनं भवेत्। इष्टिकाघनहृते घने चितेरिष्टिकापरिमितिश्च लभ्यते। इष्टिकोच्छ्रयहृदुच्छ्रितिश्चितेः स्युः स्तराश्च दृषदां चितेरपि। उदाहरणम्। अष्टादशाङ्गुलं दैर्घ्यं विस्तारो द्वादशाङ्गुलः। उच्छ्रितिस्यङ्गुला यासामिष्टिकास्ताश्चितौ किल। यद्विस्तृतिः पञ्चकराष्टहस्तं दैर्घ्यं च यस्यां त्रिकरोच्छ्रितिश्च। तस्यां चितौ किं फलमिष्टिकानां सङ्ख्या च का ब्रूहि कति स्तराश्च। न्यासः।इष्टिकायाः घनहस्तमानं ३/६४ चितेः क्षेत्रफलम् ४०। उच्छ्रयेण गुणितं चितेर्घनफलम् १२०। लब्धा इष्टिका सङ्ख्या २५६०। स्तरसङ्ख्या २४। एवं पाषाणचयेऽपि। “चितेः कपि” पा० कपि परे दीर्घः एकचितीकः “पञ्चचितिकोऽग्निः” इत्यादौ छन्दसि न दीर्घः। चाय–दीप्तौ क्तिन् चिभावः। ६ चैतन्ये स्वयंप्रकाशे चिच्छब्दार्थे स्त्री “आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला” “संक्षे पशारी०। ७ दुर्गायाम्। “चितिश्चैतन्यभावाद्वा चेतना वा चितिः स्मृता। महान् व्याप्य स्थिता सर्वान् महा वा प्रकृतिर्म्मता” देवीभाग० पु० ४५ अ०।

चितिका = स्त्री० चितिरिव कायति कै–क। १ कटिशृङ्खलायाम् हारा०। चिति + स्वार्थे क। २ चितिशब्दार्थे चिता + स्वार्थे क अतैत्त्वम्। ३ चितायाम्।

चित्कण = पु० त्रि० चिदित्यव्यक्तशब्दं कणति कण–अच्। चित्शब्दकारके। क्लीवकन्थशब्दे परे तत्पुरुषे चिह णादि० आद्युदात्तता। चित्कणकन्थम्।

चि(ची)त्कार = पु० चित् + कृ–भावे घञ् पृषो० वा टीर्घः। चिदित्यव्यक्तशब्दकरणे। “न हि करिणि दृष्टे चि(ची)त्कारेण तमनुमिमतेऽनुमातारः” वाचस्पति मिश्रः। “स विषीदति चित्कारात् ताडितो गर्द्दभो यथा” हितो०।

चित्त = न० चिती–ज्ञाने बा० करणे क्त। १ अन्तःकरणभेदे “मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयोनिश्चयोगर्वः स्मरणं विषया इमे” वेदा० प०। तस्य च स्मरणम् अनुसन्धानात्मक वृत्तिभेदः। चिच्छब्दे दृश्यम्। २ अन्तःकरण- मात्रे अमरः “योगश्चित्तवृत्तिनिरोधः” पात० सू०। “जनस्य चित्तेन भृशं वशात्मना” नैष०। “चन्द्रचतुर्मुख शङ्कराच्युतैः क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ताभिघान्तरिन्द्रियचतुष्केण क्रमात् संशयनिश्चयाहङ्कार्य्यचैत्यांश्च सर्वानेतान् स्थूलविषयाननुभवतः” वे० सा० उक्तेः अस्थाधिष्ठाता अच्युतः। कर्म्मणि कर्त्तरि वा क्त। ३ ज्ञाते ४ ज्ञातरि च। चित्तं च सांख्यमते त्रिगुणप्रकृतिकार्य्यम्। तदेतत्योगसूत्रभाष्यादौ दर्शितम्। “योगश्चित्तवृत्तिनिरोघः” पात० १। १। सू० “चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्। प्रख्यारूपं हि चित्तं सत्त्वम्। रजस्तमोभ्यां संसृष्टम् ऐश्वर्य्यविषयप्रियं भवति। तदेव तमसानु विद्धमधर्म्माज्ञानावैराग्यानैश्वर्योपगं भवति। तदेव प्रक्षीणमोहावरणं सर्व्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्म्मज्ञानवैराग्यैश्वर्योपगं भवति तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्वपुरुषान्यताख्यातिमात्रं धर्म्ममेघध्यानोपगं भवति। तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसङ्ग्रमा दर्शितविषया शुद्धा चानन्ता च सत्वगुणात्मिका चेयम्। अतो विपरीता विवेकख्यातिरित्यतस्तस्यां विरक्तं चित्तन्तामपि ख्यातिं निरुणद्धि। तदवस्थं चित्तं संस्कारोपगं भवति। स निर्वीजः समाधिः, न तत्र किञ्चित् सम्प्रज्ञायतैत्यसम्प्रज्ञातः द्विविधः स योगश्चित्तवृत्तिनिरोध” इति भा०। “कुतः पुनरेकस्य क्षिप्तादिभूमिसम्बन्धः किमर्थं चैवमस्य चित्तस्य वृत्तयोनिरोद्धव्या इत्याशङ्क्य प्रथमं तावदवस्थासम्बन्धहेतुमुपन्यस्वति। चित्तं हीति। प्रख्याशीलत्वात् सत्वगुणम्। प्रवृत्तिशीलत्वाद्रजोगुणम् स्थितिशीलत्वात् तमोगुणम्। प्रख्याग्रहणमुपलक्षणार्थं तेनान्येऽपि सात्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते। प्रवृत्त्या च परितापशोकादयो राजसाः। स्थितिः प्रवृत्तिविरोधी तमोवृत्तिधर्म्मः स्थितिग्रहणाद् गौरवावरणदैन्यादय उपलक्ष्यन्ते। एतदुक्तं भवति एकमपि चित्तं त्रिगुणनिर्म्मिततया गुणानाञ्च वैषम्येण परस्परविमर्द वैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति। क्षिप्ताद्या एव चित्तस्य भूमयः यथासम्भवमवान्तरावस्थाभेदवत्यस्ता दर्शयति। प्रख्यारूपं हीति चित्तरूपेण परिणतं सत्वं चित्तसत्वं, तदेवं प्रख्यारूपतया सत्वप्राधान्यं चित्तस्य दर्शितम्। तत्र चित्ते सत्वात् किञ्चिदूने रजस्तमसो यदा मिथःसमे भवतः तदैश्वर्य्यञ्च विषयाश्च शब्दादयस्तान्येव प्रियाणि यस्य तत्तथोक्तं सत्वप्राधान्यात् खलु चित्तं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तमसा पिहितत्वादणिमादिकमेव तत्त्वमभिमन्थमानं तत्प्रणिधित्सति प्रणिधत्ते च क्षणम् अथ रजसा क्षिप्यर्माणम्। तत्राप्पलब्धस्थिति तत् प्रियमात्रं भवति। शब्दादिषु पुनरस्य सरसवाही प्रेमा निरूढ एव। तदनेन विक्षिप्तं चित्तमुक्तम् क्षिप्तं दर्शयन् मूढमपि सूचयति तदेव तमसेति। यदा हि तमो रजी विजित्य प्रसृतं तदा चित्तसत्वावरकतमःसमुत्सारणेऽशक्तत्वात् रजस्तमस्थगितं चित्तमधर्म्माद्युपगच्छति। अज्ञानञ्च विपर्य्ययज्ञानमभावप्रत्ययालम्बनञ्च निद्राज्ञानमुक्तम्। ततश्च मूढावस्थापि सूचितेति। अनैश्वर्य्यं सर्व्वत्रेच्छाप्रतिघातः। अधर्म्मादिव्याप्ते चित्तं भवतीत्यर्थः। यदा तु तदेव चित्तसत्वमाविर्भूतसत्वमपगततमःपटलं सरजस्कं भवति तदा धर्म्मज्ञानवैराग्यैश्वर्य्याण्युपगच्छतीत्याहं प्रक्षीणेत्यादि। मोहस्तसस्तदेव चावरणं प्रकर्षेण क्षीणं यस्य तत्तथोक्तम्। अतएव सर्वतो विशेषाविशेषलिङ्गमात्राऽलिङ्गपुरुषेषु प्रद्योतमानं तथापि न धर्म्मायैश्वर्य्याय च कल्पते प्रवृत्त्यभावादित्यत आह। अनुविद्धं रजोमात्रया रजसः प्रवर्त्तकत्वादस्ति धर्म्मादिरित्यर्थः। तदनेन संप्रज्ञातसमाधिसम्पन्नयोर्मघुभूमिकप्रज्ञाज्योतिषोर्म्मध्याधमयोर्योगिनोश्चित्तसत्वं संगृहीतम् संप्रत्यतिक्रान्तभावनीयस्य ध्यायिनश्चतुर्थीं चित्तस्यावस्थामाह तदेव चित्तं रजोलेशान्मलादपेतम् अतएव स्वरूपप्रतिष्ठसभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमयस्य हि बुद्धिसत्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्य्यकारिणो विवेकख्यातिः परं कार्य्यमवशिष्यत इत्याह सत्वपुरुषान्यताख्यातिमात्रं चित्तं धर्म्ममेघध्यानोपगं भवति। धर्म्ममेघश्च वक्ष्यते। अत्रैव योगिजनप्रसिद्धिमाह तदिति। सत्वपुरुषान्यताख्यातिमात्रं चित्तं धर्म्मभेषपर्य्यन्तं परं प्रसंख्यानमिति आचक्षते ध्यायिनः। चित्तसामान्याधिकरण्यं च धर्म्मधर्म्मिणोरभेदविवक्षया द्रष्टव्यम्। विवेकख्यातेर्हानहेतुं चितिशक्तेश्चोपादानहेतुं निरोघसमाधिमवतारयितुं चितिशक्तेः साघुतामसाधुताञ्च विवेकख्यातेर्दर्शयति चितिशक्तिरित्यादि। सुखदुः खमोहात्मकत्वमशुद्धिः। सुखमोहावपि विवेकिनं दुः- खाकुरुतः। अतो दुःखवद्धेयौ तथाचातिसुन्दरमप्यन्तवत् दुनोति। तेन तदपि हेयमेव विवेकिमः। सेयमविशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तं शुद्धा चानन्ता चेति। ननु सुखदुःखमोहात्मकशब्दादीन् इय चेतयमाना तदाकारापन्ना कथं विशुद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्तेत्यत उक्तं दर्शि तविषयेति। दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता भवेदेतदेवं यदि बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत। किन्तु वुद्धिरेव विषयाकारेण परिणता सती अतदाकारायै चितिशक्त्यै विषयमादर्शयति ततः पुरुषश्चेतयत इत्युच्यते। ननु विषयाकारां बुद्धिमानारूढाया चितिशक्तेः कथं विषयवेदनं! विषयारोहे वा कथं न तदाकारापत्तिरिति अतः उक्तम् अप्रतिसंक्रमेति। प्रतिसंक्रमः सञ्चारः स चितेर्नास्तीत्यर्थः। स एव कुतोऽस्यां नास्तीत्यत उक्तम् अपरिणामिनीति। न चितेस्त्रिविधोऽपि धर्म्माधर्म्माऽवस्थालक्षणः परिणामोऽस्ति येन त्रितयरूपेण परिणता सती बुद्धिसंयोगेम परिणमेत। चितिशक्तेरसंक्रान्ताया अपि विषयसंवेदनमुपपादयिष्यते। तस्मिद्धं चितिपक्तिः शोभनेति, विवेकख्यातिस्तु बुद्धिसत्वात्मिका अशोभनेत्युक्तम्। अतश्चितिशक्तेर्विपरीततेति। यदा च विवेकख्यातिरपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः। ततस्तद्धेतोर्निरोधसमाधेरवतारो युज्यते इत्याह अतस्तस्यामिति। ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकख्यातिमपि निरुणद्धीत्यर्थः। अथ निरुद्धाऽशेषवृत्ति चित्तं कीदृशमित्यतआह तदवस्थमित्यादि। स निरोधः अवस्था यस्य तत्तथोक्तम्। निरोधस्य स्वरूपमाह स निर्वीज इति। क्लेशसहितः कर्म्माशयो जात्यायुर्भोगोवीजं तस्मान्निर्गतः निर्वीजः अस्यैव योगिजनप्रसिद्धामन्वर्थसंज्ञामादर्शयति। न तत्रेति। उपसंहरति। द्विविधः स योगश्चित्तवृत्तिनिरोघ इति” विवरणम्। “तदवस्थे चेतसि विषयाभायात् बुद्धिबोधात्मा पुरुष। किंस्वभावः? इति–भा० “तदा द्रुष्टः स्वरूपेऽवस्थानम्” २ सू०। “स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा” भा०। “संप्रत्युत्तरसूत्तमवतारयंश्चोदयति। तदवस्थे चेतसीति किमाक्षेपे तत्तदाकारपरिणतबुद्धिबोधात्मा त्वयं पुरुषः सदानुभूयते न तु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोधस्वभावः सवितुरिव प्रकाशः। नच संस्कारशेषे चेतसि सोऽस्ति, न च स्वभावमपहाय भावो वर्त्तितुमर्हति इति भावः। स्यादेतत् संस्कारशेषामपि बुद्धिं कस्मात् पुरुषो न बुध्यते? इत्यत आह विषयाभावादिति। न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः। विवेकख्यातिविषयभोगौ च पुरुषार्थौ तौ च निरुद्ध्वाबस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः। सूत्रेण परिहरति “तदा द्रष्टुः स्वरूपेऽवस्थानम्” सू०। “स्वरूप इत्यारोपितम् शान्तघोरमूढस्वरूपं निवर्त्तयति पुरुषस्य हि चैतन्यं स्वरूपमनौपाधिकम् नतु बुद्धिबोधः शान्तादिरूप औपाधिको हि सः स्फटिकस्येव स्वभावतः स्वच्छधवलस्य जपाकुसुमसन्निधानोपाधिररुणिमा नचोपाधिनिवृत्तावुपहितनिवृत्तिरतिप्रसङ्गादिति भावः। स्वरूपस्य चाभेदेऽपि भेदं विकल्प्य अधिकरणभाव उक्त इति। अयमेवार्थोभाष्यकृता द्योत्यते। स्वरूपप्रतिष्ठेति। तदानीं निरोधावस्थायां न व्युत्थानावस्थायामिति भावः। स्यादेतत् व्युत्थानावस्थायामप्रतिष्ठिता, स्वरूपे चितिशक्तिः, निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्यात् व्युत्थाने वा स्वरूपप्रतिष्ठाने सति व्युत्थान निरोधयोरविशेष इत्यत आह व्युत्थानचित्ते त्विति न जातु कूटस्थनित्या चितिशक्तिः स्वरूपात् च्यवते। तेन यथा निरोधे तथैव व्युत्थानेऽपि। न खलु शुक्तिकायाः प्रमाणविपर्य्ययज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः प्रतिपत्ता त्वतथाभूतमपि तथात्वेनाभिमन्यते। निरोधसमाधिमपेक्ष्य सम्प्रज्ञातोऽपि व्युत्थानमेवेति” विवरणम्। “कथन्तर्हि दर्शितविषयत्वात्”–भा० “वृत्तिसारूप्यमितरत्र” ३ सू० “व्युत्थाने याः चित्तवृत्तयः तद्विशिष्टवृत्तिः पुरुषः। तथा च सूत्रं “एकमेव दर्शनं” “ख्यातिरेव दर्शनमिति” “चित्तम् अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वंभवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिसम्बन्धोहेतुः” भाष्यम्। “सूत्रान्तरमवतारयितुं पृच्छति कथन्तर्हि इति। यदि भवति न तथा केन तर्हि प्रकारेण प्रकाशत इत्यर्थः। हेतुपदमध्याहृत्य सूत्रं पठति। दर्शित विषयत्वात्। वृत्तिसारूप्यमितरत्र। इतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एव विशिष्टा अभिन्नावृत्तयो यस्य पुरुषस्य स तथोक्तः सारूप्यमित्यत्र सशब्द एकपर्य्यायः। एतदुक्तं भवति जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः सन्निधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे समारीप्य शान्तोऽस्मि दुःखितोऽन्मिमूढोऽस्मीति अध्यवस्यति। यथा मलिने दर्पणतले प्रतिविम्बितं मुखं मलिनतामारोप्य शोचत्यात्मानं मलिनोऽस्मीति। यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवत् बुद्धिवृत्तिः यद्यपि च प्राकृतत्वेनाचिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमापादयन पुरुषवृत्तिरिवानुभव इवावभासते। तथाचायमविपर्य्ययोऽप्यात्मा विपर्य्ययवानिवाऽभोक्तापि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इवाविवेकख्यातेः प्रकाशते। एतच्च चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनमित्यत्र सत्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषोभोग इत्यत्र चोपपादयिष्यते। एतच्च मतान्तरेऽपि सिद्धमित्याह तथा चेति। पञ्चशिखाचार्य्यस्य सूत्रम् “एकमेव दर्शनमिति”। ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया बिवेकविषया च वृत्तिः प्राकृततया जडत्वे नानुभाव्या, दर्शनं ततोऽन्यत् पुरुषस्य, चैतन्यमनुभवौ दर्शनमित्यत आह “ख्यातिरेव दर्शनमिति” उदयव्ययधर्म्मिणीं वृत्तिं ख्यातिं लौकिकीमभिप्रेत्यैतदुक्तमेवेति चैकमव चैतन्यन्तु पुरुषस्य स्वभावो न ख्यातिः। तत्तुन लोकप्रत्यक्षगोचरोऽपि त्वागमानुमानगोचर इत्यर्थः। तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकसंयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति तमुपपादयन्नाह। चित्तं स्वं भवति। पुरुषस्य स्वामिन इति सम्बन्धः। ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता न चास्य तज्जनितोपकारसम्भवस्तदसम्बन्धादनुपकार्य्यत्वात् तत्संयोगतदुपकारभागित्वे परिणामप्रसङ्गादित्यत आह अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेनेति। न पुरुषसंयुक्तं चित्तमपितु तत्सन्निहितं सन्निधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगात् किन्तु योग्यतालक्षणोऽस्ति च पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग्यशक्तिः। तदुक्तम् दृश्य त्वेनेति। शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः। भोगश्च यद्यपि शब्दाद्याकारवृत्तिश्चित्तस्य धर्म्मस्तथापि चित्तचैतन्ययोरभेदसमारोपाद्वृत्तिसारूप्यात् पुरुषस्येत्युक्तम्। तस्माच्चितेनासंयोगेऽपि तज्जनितोपकारभागिता पुरुषस्यापरिणामिता चेति सिद्धम्। ननु स्वस्वामिसम्बन्धो भोगहेतुरविद्यानिमित्तोऽविद्या तु किन्निमित्ता न खलु निर्निमित्तं कार्य्यमुत्पद्यते। यथाहुः “स्वप्नादिवदविद्यायाः प्रवृत्तिः कस्य किंकृता” इति शङ्कामुपसंहारव्याजेनोद्धरति। तस्मात् चित्तवृत्तिबोधे शान्तघोरमूढाकारचितवृत्त्युपभोगे अनाद्यविद्यानिमित्तत्वादनादिसंयोगः हेतुः अविद्यावासनयोश्च सन्तानो वीजाङ्कुरसन्तानवदनादिरिति भावः” विवरणम्।

अन्तःकरणशब्दे १९५ पृ० अधिकमुक्तम्। कैवल्यपादे च ज्ञानज्ञेययोर्भेदव्यवस्थापनेन तद्विशेष उक्तो यथा “कुतश्चैतदन्याय्यम्” भा० “वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्वाः” सू०। “बहुचित्तावलम्बनीभूतमेकं वस्तु साधारणं तत् खलु नैकचित्तपरिकल्पितं नाप्यनेकचित्तपरिकल्प्यं किन्तु स्वप्रतिष्ठितं कथं? वस्तुसाम्ये चित्तभेदात्, घर्म्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति, अधर्मापेक्षं ततएव दुःखज्ञानम्, अविद्यापेक्षं ततएव मूढज्ञानं सम्यग्दर्शनापेक्षं ततएव माध्यस्थज्ञानमिति। कस्य तच्चित्तेन परिकल्पितं? नचान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागोयुक्तः तस्माद्वस्तुज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्था नानयोः सङ्करगन्धोऽप्यस्तीति साङ्ख्यपक्षे पुनर्बस्तुत्रिगुणं चलञ्च गुणवृत्तमिति घर्मादिनिमित्तापेक्षचित्तैरभिसंवद्ध्यते निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर्भवति। केचिदाहुर्ज्ञानसहभूरेवार्थोभोग्यत्वात् सुखादिवदिति तत्र तया द्वारा साधारणत्वं धावमानाः पूर्वोत्तरेषु क्षणेषु वस्तुरूपमेवापह्नवते” भा० तदेवमुत्मूत्रां भाव्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वा सौत्रीं युक्तिमवतारयति कुतश्चैतदिति। वस्तुसाम्ये इति यन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते यथा चैत्रस्य ज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भिद्यते ज्ञाननानात्वेऽपि चार्थो न भिद्यते इति भवति विज्ञानेभ्योऽन्यः अभेदश्चार्थस्य ज्ञानभेदेऽपि प्रमातॄणां परम्परप्रतिसन्धानादवसीयते। अस्ति हि रक्तद्विष्टविमूढमध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसन्धानं या त्वया दृश्यते सैव मयापीति। तस्माद्वस्तुसाम्ये चित्तभेदात् ज्ञानभेदात्तयोरर्थज्ञानयोर्विभक्तः पन्थाः स्वरूपमेदोपायः सुखज्ञानं कान्तायाः कान्तस्य सपत्नीनां दुःखज्ञानं तामविन्दतो विषादः। स्यादेतत् यत्रैकस्य चित्तेन परि- कल्पित कामिनीलक्षणोऽर्थः तैनेवान्येषामपि चित्तमुपरज्यते इति साधारणमुपपद्यते इत्यत आह नचान्येति तथा सत्येकस्मिन्नीलज्ञानवति सर्व्व एव नीलज्ञानवन्तः स्युरिति नन्वर्थवादिनामप्येकोऽर्थः कथं सुखादिभेदाद्भिन्नविज्ञानहेतुर्न ह्यविलक्षणात् कारणात् कार्य्यमेदोयुक्त इत्यत आह साङ्ख्यपक्ष इति एकस्यैव बाह्यस्य वस्तुनस्त्रैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम्। एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानं स्यादित्यत आह धर्म्मादिनिमित्तापेक्षं रजःसहितं सत्वं धर्म्मापेक्षं सुखज्ञानं जनयति। एवमधर्म्मापेक्षं रजो दुःखं, तमस्तु तथाभूतं मूढज्ञानम्। सत्वमेव तु विगतरजस्कं विद्यापेक्षं माध्यस्थज्ञानमिति ते च धर्म्मादयो न सर्वे सर्वत्र पुरुषे सन्ति। किन्तु कश्चित् क्वचिदिति अभ्युपपन्ना व्यवस्थेति। अत्र केचिदाहुः प्रवादुकाः ज्ञानसहभूरेवार्थो भोग्यत्वात् सुखादिवदिति एतदुक्तं भवति भवत्यर्थोज्ञानात् व्यतिरिक्तः तथाप्यसौ जडत्वात् न ज्ञानमन्तरेण शक्यः प्रतिपत्तुंज्ञानेन तु भासनीयःतथाच ज्ञानसमयएवास्ति नान्यदा प्रमाणाभावादिति तदेतन्मतं तावत् दूषयति भाष्यकारः तत्र तया द्वारेति वस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानं परिणामात्मकमनुभूयते लौकिकपरीक्षकैः तच्चेद्विज्ञानेन सह भवेत् नूनमेवंविधमेव चेदिदमंशस्योपरि कोऽयमनुरोघः येन सोऽपि नापह्नूयेतेत्यर्थः” विव०। “नचैकचित्ततन्त्रं वस्तुप्रदप्रमाणकं तदा किं स्यात्” सू०। “एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे वाखरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात्? सम्बध्यमानं वा पुनश्चित्तेन कुत उत्पद्यत ये चास्यानुपस्थिताभागास्ते चास्य न स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्त्तन्ते तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति” भा०। “मा वा भूदिदमंशस्यापह्नवीज्ञानसहमूरेवास्त्वर्थःतत्राप्याह नचैकं किं स्यात् यद्धि घटग्राहि चित्तं तद् यदा पटद्रव्यव्यग्रतया न घटे वर्त्तते यद् वा विवेकविषयमासीत् तदेव च निरोधं समापद्यते तदा घटज्ञानस्य वा विवेकज्ञानभेदमात्र जीवनस्तन्नाशान्नष्ट एव स्यादित्याह एकचित्तेति किं तत् स्यात् न स्यादित्यर्थः। संवध्यमानञ्च चित्तेन तदु वस्तु विवेकोवा घटो वा कुत उत्पद्यते नियतकारणान्वय व्यतिरेकानुविघायिभावानि हि कार्य्याणि न स्वकारणमतिवर्त्य कारणान्तराद्भवितुमीशते, मा भूदकारणत्वे तेषां कादाचित्कत्वव्याघातः न च तज्ज्ञानकारणत्वमेव तत्कारणत्वमिति युक्तम्। आशाभोदकस्य उपार्ज्जितमोदकस्य वोपयुज्यमानस्य रसबीर्य्यविपाकादिसाम्य प्रसङ्गात् तस्मात् साधूक्तं सम्बध्यमानं वा पुनश्चित्तेनेति। अपि च योयोऽर्वाग्भागः स सर्वोमध्यपरभागव्याप्तः ज्ञानाधीने सद्भावे त्वस्याननुभूयमानत्वान्मध्यपरभागौ न स्त इतिव्यापकाभावादर्वाग्भागोऽपि न स्यात् इत्यर्थाभावात् कुतो ज्ञानसहभूरर्थ इत्याह। ये चास्येति अनुपस्थिता अज्ञाताः, उपसंहरति तस्मादिति सुगमं शेषम्” विवरणम्। “तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्” सू०। “अयस्कान्तमणिकल्पा विषयाः। अयःसधर्म्मकं चित्तमभिसम्बध्योपरञ्जयन्ति येन च विषयेणोपरक्तं चित्तं स विषयोज्ञातस्ततोऽन्यः पुनरज्ञातोवस्तुनोज्ञाताज्ञातस्वरूपत्वात् परिणामि चित्तम्” भा०। “स्यादेतत् अर्थश्चेत् स्वतन्त्रः स च जडस्वभाव इति न कदाचित् प्रकाशेत प्रकाशने वा जडत्वमप्यस्यापगत मिति भावोऽप्यपगच्छेत् न जातु स्वभावमपहाय भावोवर्त्तितुमर्हति न चेन्द्रियाद्याधेयो जडस्वभावस्यार्थस्य धर्म्मःप्रकाश इति साम्प्रतम् अर्थधर्म्मत्वे नीलत्वादिवत् सर्वपुरुषसाधारण इत्येकः शास्त्रार्थज्ञ इति सर्वएव विद्वांसः प्रसज्येरन् न जाल्मःकश्चिदस्ति। न चातीतानागतयोः धर्म्म प्रत्युत्पन्नयुक्तः तस्मात् स्वतन्त्रोऽर्थौपलम्भविषय इति मनोरथमात्रमेतदित्यत आह तदुपरागेति। जडस्वभावोऽप्यर्थ इन्द्रियप्रणाडिकया चित्तमुपरञ्जयति तदेवंभूतं चित्तदर्पणमुपसंक्रान्तप्रतिविम्बा चितिशक्तिश्चित्तमर्थोपरक्तं चेतयमानार्थमनुभवति नत्वर्थे किञ्चित् प्राकट्यादिकमाधत्ते नाप्यसंबद्धा चित्तेन, तत् प्रतिविम्बसंक्रान्तेरुक्तत्वादिति। यद्यपि च सर्वगतत्वाच्चित्तस्य चेन्द्रियस्य चाहङ्कारिकस्य विषये नास्ति सम्बन्धः तथापि यत्र शरीरे वृत्तिमच्चितं तेन सह सम्बन्धो विषयाणामित्ययष्कान्तमणिकल्प इत्युक्तम् अयःसधर्मकं चित्तमिति। इन्द्रियप्रणालिकयाभिसंबध्योपरञ्जयन्ति अतएव चित्तं परिणामीत्याह वस्तुन इति” विव०। “यस्य तु तदेव चित्तं विपयस्तस्य सदाऽपरिणामित्वात्” भा०। “सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणां भित्वात्” सू०। “यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत् ततस्तद्विषया चित्तवृत्तयः शब्दादिविषयवत् ज्ञाताज्ञाताः स्युः सदा ज्ञातत्वन्तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमा पयति” भा०। “तदेवं चित्तव्यतिरेकेणार्थमवस्थाप्य तेभ्यः परिणतिधर्मकेभ्यो व्यतिरिक्तमात्मानमादर्शयितुं तद्वैधर्म्म्यमपरिणामित्वमस्य वक्तुं पूरयित्वा सूत्रं पठति “यस्य तु तदेव चित्तं विषयस्तस्य सदाऽपरिणामित्वात्”। क्षिप्तमूढविक्षिप्तैकाग्रतावस्थितं चित्तमानिरोधात् सर्वदा पुरुषेणानुभूयते वृत्तिमत् तत् कस्य हेतोः? यतः पुरुषोऽपरिणामी परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञातविषयो भवेत्। ज्ञातविषय एव त्वयं तस्मादपरिणापी ततश्च परिणामिभ्योऽतिरिच्यते इति तदेतदाह यदि चित्तवदिति। सदा ज्ञातत्वं तु मनसः सवृत्तिकस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् तस्य प्रभीः पुरुषस्यापरिणामित्वमनुमापयति तथाचापरिणामिनस्तस्य परिणामिनश्चित्तात् पुरुषस्य भेद इति भावः” विव०। “स्यादाशङ्काचित्तमेव स्वाभासं विषयाभासञ्च वैशेषिकाण। चित्तात्मवादिनाञ्च भविष्यत्यग्निवत्” भा०। “न तत्स्वाभासं दृश्यत्वात्” सू०। “यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम्। न चाग्निरत्र दृष्टान्तः नह्यग्निरात्मरूपमप्रकाशं प्रकाशयति। प्रकाशश्चायं प्रका श्यप्रकाशकसंयोगे दृष्टः न च स्वरूपमात्रेऽस्ति संयोगः किञ्च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः। तद्यथा स्वात्मप्रतिष्ठमाकाशमित्यप्रतिष्ठमित्यर्थः स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्वानां प्रवृत्तिर्दृश्यते। क्रुद्धोऽहम्भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इत्येतत् स्वबुद्धेरग्रहणे न युक्तमिति” भा०। “अत्र वैनाशिकमुत्थापयति स्यादाशङ्केति अयमर्थः स्यादेतदेवं यदि चित्तमात्मनो विषयः स्यात् अपि तु स्वप्रकाशने तत् विषयाभासं पूर्वचित्तं प्रतीत्य सदुत्पन्नं तत्कुतः पुरुपस्य सदा ज्ञानविषयत्वं कुतस्तरां वाऽपरिणामतया परिणामिनश्चित्ताद्भेद इति भवेदेतदेवं यदि स्वसंवेदनं चित्तं स्यान्नत्वेतदस्ति तद्धि परिणामितया नीलादिवदनुभवव्याप्यम्। यच्चानुभव- व्याप्यं न तत् स्वाभासं भवितुमर्हति स्वात्मनि वृत्तिविरीधात् नहि तदेव क्रिया च कर्म च कारकञ्च न हि पाकः पच्यते छिदा वा छिद्यते पुरुषस्त्वपरिणामी नानुभवकर्मेति नास्मिन् स्वयंप्रकाशता न युज्यते अपराधीनप्रकाशता ह्यस्य स्वयंप्रकाशता नानुभवकर्मता तन्मात् दृश्यत्वात् दर्शनकर्म चित्तं न स्वाभासम् आत्मप्रकाशप्रतिविम्बितस्यैव चित्तस्य तावद्वृत्तिविषयाः प्रकाशन्त इति भावः। ननु दृश्योऽग्निः स्वयं प्रकाशश्च न हि यथा घटादयोऽग्निना व्यज्यन्ते एवमग्निरग्न्यन्तरेणेत्यत आह। नचाग्निरत्रेति कस्मात्? न हीति मा नामाग्निरग्न्यन्तरात् प्रकाशिष्ट बिज्ञानात् तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभिचार इत्यर्थः। प्रकाशाद्व्यवच्छिनत्ति। क्रियारूपः प्रकाश इति यावत् एतदुक्तं भवति या या क्रिया सा सा सर्वां कर्तृकरणकर्मसम्बन्धेन दृष्टा यथा पाको दृष्टश्चैत्राग्नितण्डुलसम्बन्धेन तथा प्रकाशोऽपि क्रियेति तयापि तथा भवितव्यं सम्बन्धश्च भेदाश्रयो नाभेदे सम्भवति इत्यर्थः। किञ्च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः। स्यादेतत् मा भूत् ग्राह्यं चित्तं न हि ग्रहणस्य कारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिः इत्यत आह स्वबुद्धीति बुद्धिश्चित्तं प्रचारा व्यापाराः सत्वाः प्राणिनश्चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण च सह प्रत्यात्ममनुभूयमानाश्चित्तस्याग्राह्यतां विघटयन्तीत्यर्थः। स्वबुद्धिप्रचारप्रतिसंवेदनमेव विशदयति क्रुद्धोऽहमिति” विवरणम्। “एकसमये च भयानवधारणम्”। सू०। “न चैकस्मिन् क्षणे स्वपररूपावधारणं युक्तं क्षणिकवा दिनां यद् भवनं सैव क्रिया तदेव च कारकमित्यभ्युपगमः”। भा०। “स्वाभासं विषयाभासं चित्तमिति व्रुवाणो न तावत् येनैव व्यापरेणात्मानमवधारयति तेनैव विषयमपीति वक्तुमर्हति नह्यविलक्षणो व्यापारः कार्य्यभेदाय पर्य्याप्तः, तस्माद्वापारभेदोऽङ्गीकर्त्तव्यः न च वैनाशिकानामुत्पत्तिभेदातिरिक्तः अस्ति व्यापारः न चैकस्याएवोत्पत्तेरविलक्षणायाः कार्य्यवैलक्षण्यसम्भवः तस्याकस्मिकत्वप्रसङ्गात्। न चैकस्योत्पत्तिद्वयसम्भवः तस्मादर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन् समये इति तदेतद्भाव्ये णोच्यते न चैकस्मिन् क्षणे इति तथाचोक्तं वेनाशिकैः “भतिर्यैषा क्रिया सैव कारकं सैव चोच्यते” इति तस्मा- द्दृश्यत्वमेतच्चित्तस्य सदातनं स्वाभासत्वमुपनयत् द्रष्टारञ्च द्रष्टुरपरिणामित्वं च दर्शयतीति सिद्धम्” विवरणम्। “चित्तान्तरे दृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च” सू०। “स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समसन्तरेण गृह्यत” इति। अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुद्धिः केन गृह्यते साप्यन्यया साप्यन्ययेत्यतिप्रसङ्गः स्मृतिसङ्करश्च यावन्तोबुद्धिवृत्तीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति तत्सङ्कराच्चेकस्मृत्यनवधारणञ्च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिः वैनाशिकैः सर्वमेवाकुलीकृतं, ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते। केचित् सत्वमात्रमपि परिकल्प्यास्ति स सत्वो य एतान् स्कन्धान् निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा ततएव पुनस्त्रस्यन्ति तथा स्कन्धानां पुनन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्य्यं चरिष्यामीत्युक्त्वा सत्वस्य पुनः सत्त्वमेवापह्नवते “साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति” भा०। “पुनर्वैनाशिकमुत्थापयति। स्यान्मतिः मा भूत् दृश्यत्वेन स्वसंवेदनम् एवमप्यात्मा न सिध्यति। स्वसन्तानवर्त्तिना चरमचित्तक्षणेनंस्वरसनिरुद्धस्वजनकचित्तक्षणग्रहणादित्यर्थः। समञ्च तज्ज्ञानत्वेनानन्तरञ्च व्यवहितत्वेन समनन्तरं तेन। चित्तवृत्तयश्च। बुद्धिरिति चित्तमित्यर्थः नागृहीता चरमा बुद्धिः पूर्व्वबुद्धिग्रहणसमर्था ह्यनवबुद्धबुद्ध्या संबद्धा पूर्व्वा बुद्धिबुद्धा भवितुमर्हति। नह्यगृहीतदण्डो दण्डिनमवगन्तुमर्हति तस्मादनवस्थेति विज्ञानवेदन संज्ञारूपसंस्काराः स्कन्धाः। साङ्ख्ययोगादयः प्रवादाः साङ्ख्याश्च योगाश्च तएवादयो येषां वैशेषिकादिप्रवादानान्ते साङ्ख्ययोगादयः प्रवादाः सुगममन्यत्” विवरणम्। “कथं?” भा० “चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्” सू०। “अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यप्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते तथाचोक्तं “न पातालं न च विबरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम्। गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिविशिष्टं कवयो वेदयन्ते इति” भा०। “स्यादेतत् यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यं आत्मनापि कथं भोक्ष्यते चित्तं? न खल्वात्मन स्वयंप्रकाशस्याप्यस्ति काचित् क्रिया न तामन्तरेण कर्त्ता न चासम्बद्धश्चित्तेन कर्मणा तस्य भोक्ता अतिप्रसङ्गादित्याशयवान् पृच्छ्रति कथमिति। सूत्रेणोत्तरमाह चितेरिति। यत् तदवोचत् वृत्तिसारूप्यमितरत्रेति तदितः समुत्थितचित्तेः स्वबुद्धिसंवेदनं बुद्धेस्त्वदाकारापत्तौ चितिप्रतिविम्बाधारतया तद्रूपतापत्तौ सत्यां यथाहि चन्द्रमसः क्रियामन्तरेणापि संक्रान्तचन्द्रप्रतिविम्बममलं जलमचलं चलमिव चन्द्रमसमवभासयति एवं विनापि चितिव्यापारम् उपसंक्रान्तचितिप्रतिविम्बं चित्तं स्वगतया क्रियया क्रियावतीमसङ्गतामपि सङ्गतां चितिशक्तिमवभासयत् भोग्यभावमासादयत् भोक्तृभावमापादयति तस्या इति सूत्रार्थः भाष्यमप्येतदर्थमसकृत्तत्र तत्र व्याख्यातम् इति न व्याख्यातमत्र बुद्धिवृत्त्यविशिष्टत्वे ज्ञानवृत्तेरागममुदाहरति तथाचोक्तं न पातालभिति शाश्वतस्य शिवस्य व्रह्मणो विशुद्धस्वभावस्य चितिच्छायापन्नां मनोवृत्तिमेव चितिच्छायापन्नत्वाच्चितेरप्यविशिष्टां गुहां वेदयन्ते तस्यामेव गुहायां तद् गुह्यं ब्रह्म तदवनयितुंस्वयंप्रकाश मनावरणमनुपसर्गं प्रद्योतते परमदेहख भगवत इति तदेवं दृश्यत्वेन चित्तस्य परिणामिन स्तदतिरिक्तः पुमान परिणतिधर्म्मोप्युपादितः” विव०। “अथ चैतदभ्युपगम्यते” भा०। “द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्” सू०। “मनोहि मन्तव्येनार्थेनोपरक्तं तत् स्वयञ्च विषयत्वाद्विषयिणा पुरुषेणात्मीयया वृत्त्याभिसम्बद्धं तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्व्वार्थमित्युच्यते। तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः अपरे चित्तमात्रमेवेदं सर्वं, नास्ति खल्वयं गवादिघटादिश्च सकारणो लोक इति, अनुकम्पनीयास्ते कस्मात्? अस्ति हि तेषां भ्रान्तिवीजं सर्वरूपाकारनिर्भासं चित्तमिति समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिविम्बीभूतस्तस्यालम्बनीभूतत्वादन्यः स चेदर्थश्चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्य्येत तस्मात् प्रतिविम्बीभूतोऽर्थः प्रज्ञायां येनाबधार्य्यते स पुरुष इति एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतत्तज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः वेदव्यासभाष्यम् “संप्रति लोकप्रत्यक्षमप्यत्र प्रमाणयति। अत चैतदिति अवश्यं चैतदित्यर्थः। द्रष्ट्रित्यादि यथा हि नीलाद्यनुरक्तं चितं नीलाद्यर्थं प्रत्यक्षेणैवावस्थापयति एवं द्रष्टृच्छायापत्त्या तदनुरक्तंचित्तं द्रष्टारमपि प्रत्यक्षेणावस्थापयति अस्ति हि द्व्याकारं ज्ञानं नीलमहं सम्प्रत्येमि” इति तस्मात् ज्ञेयवत् ज्ञातापि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो यथा जले चन्द्रमसो विम्बं नत्वेतावता तदप्रत्यक्षं न चास्य जलगतत्वे तदप्रमाणमिति चन्द्ररूपेण प्रमाणं भवितु मर्हति तस्माच्चिते प्रतिविम्बिततया चैतन्यगोचरापि चित्तवृत्तिर्न चैतन्यागोचरेति तदिदं सर्व्वार्थत्वं चित्तस्येति तदेतदाह मनोहीति न केवलः तदाकारापत्त्या मन्तव्येनार्थेनोपरक्तं मनः अपितु स्वयं चेति चकारो भिन्नक्रमः पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः तच्छायापत्तिः पुरुषस्य वृचिः इयञ्च चैतन्यच्छायपत्तिश्चित्तस्य वैनाशिकै रभ्युपेतव्या कथमन्यथा चित्ते चैतन्यमेते आरोपयाभ्वभूबु रित्याह तदनेनेति केचिद्वैनाशिका बाह्यार्थवादिनः। अपरे विज्ञानमात्रवादिनः। ननु यदि चित्तमेव द्रष्ट्राकारं दृश्याकारं चानुभूयते हन्त चित्तादभिन्नायेव स्त द्रष्टृदृश्यौ यथाहुः। “अभिन्नोऽपि हि बुद्ध्यात्मा विपर्य्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” इति तत्कथमेतेऽनुकम्पनीया इत्यत आह। समाधिप्रज्ञायामिति ते खलूक्ताभिरुपपत्तिभिश्चित्ताति रिक्तं पुरुषमभ्युपगमय्याप्याष्टाङ्गयोगोपदेशेन समाधिप्रज्ञायामात्मगोचरायामवतार्य्य बोधयितव्याः। तद्यथा समाधिप्रज्ञायां प्रज्ञेयोऽर्थः आत्मप्रतिविम्बीभूतोऽन्थः कस्मात्? तस्यात्मनः आलम्बनीभूतत्वात् अथ चित्तादभिन्नमेव कस्मान्नालम्बनं भवतीति यदि युक्तिर्बोधितापि वैजात्याद्वदेत् तत्र हेतुमाह स चेदात्मरूपोऽर्थः चित्तमात्रं स्यात् न तु ततो व्यतिरिक्तः ततः कथं प्रज्ञयैव प्रज्ञारूपमवधार्य्येत स्वात्मनि वृत्तिविरोधात्। उपसंहरति तस्मादिति। समीचीनोपदेशेनानुकम्पिता भवन्तीति आह। एवमेतदिति जातितः स्वमावतः इत्यर्थः” वि०। “इतश्चैतत्–तदसङ्ख्येयवासनाभिश्चित्रभपि परार्थं संहत्यकारित्वात्” सू०। “तदेतच्चित्तमसङ्ख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं न स्वार्थं संहत्यकारित्वादु- गृहवत् संहत्यकारिणा चित्तेन न स्वार्थेन भवितष्यं न सुखचित्तं सुखार्थं न ज्ञानं ज्ञानार्थमुभयमप्येतत् परार्थं यश्च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः स एव परो, न परः सामान्यमात्रम् यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत् सर्व्वं संहत्यकारित्वात् परार्थमेव स्यात्। यस्त्वसौ परोविशेषः स न संहत्यकारी पुरुष इति” भा०। “चित्तातिरिक्तात्मसद्भावे हेत्वन्तरमवतारयति इतश्चेति। यद्यप्यसङ्ख्येयाः कर्म्मवासनाः गुणवासनाश्च चित्तमेवाधिशेरते न तु पुरुषं, तथाच वासनाषीना विपाकाश्चित्तमाश्रयतया चित्तस्य भोक्तृतामावहन्ति। भोक्तुरर्थे च भोग्यमिति सर्वं चित्तार्थं प्राप्तं तथापि तच्चित्तमसङ्ख्येववासनाविचित्रमपि परार्थं, कस्मात्? संहत्यहारित्वादिति सूत्रार्थः। व्याचष्टे तदेदिति। स्यादेतच्चित्तं संहत्यापि करिष्यति स्यार्वञ्च भविणति कः स्वलु विरोघ इति यदि कश्चित् ब्रूयात् तं प्रत्याह। संहत्यकारिणेति सुणचित्तमिति गोगमुपलक्षयति तेन दुःखचित्तमपि द्रष्टव्यं ज्ञानमित्यपवर्न उक्तः। एतदुक्तं भवति सुखदुःखचित्ते प्रतिकूलानुकूलात्मके नात्मनि सम्भवतः स्वात्मनि वृत्तिविरोधात् न चान्योऽपि संहत्यकारी साक्षात् परम्परया वा सुखदुःखे वेदधानस्ताभ्यामसुकूलनीयः प्रतिकूलनीयो वा तस्मादयं साक्षात् परम्परया वा न सुखदुःखयार्व्वाप्रियते स एवायमनुकूलनीयः प्रतिकूलनीयो वा, स च नित्योदासीनः पुरुषः एवभपवृज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्रत्वात् खात्मनि च वृत्तिविरोधान्न ज्ञानार्थत्वं न चान्यविषयादस्पादपवर्गसम्भवो विदेहप्रकृतिलयानामपवर्गासम्भवात् तखात्तज्ज्ञानमपि पुरुषार्थमेव न तत् स्वार्थं संहतपरार्थत्वे चानवस्थाप्रसङ्गादसंहतपरार्थसिद्धिरिति” विव०। “विशेषदर्शिनस्मात्मभावभावनानिवृत्तिः” सू०। “यथा प्रवृषि तृणाङ्कुरखोद्भेदेन तद्वीजसत्तानुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्पस्ति विशेषदर्शनवीजनपवर्गभागीयं कर्माभिनिर्वर्त्तित मित्यनुमीयते तस्यात्मभावभावना स्वाभाविकी प्रवर्त्तते यस्वाभावादिदमुक्तं स्वागावमुक्त्वा दोषाद् येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये षवति। तत्रात्मभावभावना कोऽहमासं कवमहभाणं किं खिदिदं? कथं? खिदिदं के भविष्याभः कथं भविष्यामः? इति। सा तु विशेषदर्शिनो निवर्त्तते कुतः चित्तस्यैवैष विचित्रः परिणामः पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति ततोऽप्यात्मभावभावना कुशलस्य निवर्त्तत इति” भा०। “तदेवं कैवल्यमूलवीजममलमात्मदर्शनमुक्त्वा तदुपदेशाधिकृतं पुरुषमनधिकृतपुरुषान्तराद्व्यावृत्तमाह। विशेषेत्यादि यस्यात्मभावे भावनास्ति तस्याष्टाङ्गयोगोपदेशाद्यनुतिष्ठतो युञ्जानस्य तत्परिपाकात् चित्तसत्वपुरुषयोर्विशेषदर्शनादात्मभावभावना निवर्त्तते। यस्यात्मभावभावनैव नास्ति नास्तिकस्य, तस्योपदेशानधिकृतस्यापरिनिश्चितात्मतत्परलोकभावस्य नोपदेशो न विशेपदर्शनं नात्मभावभावनानिवृत्तिरिति सूत्रार्थः नन्वात्मभावभावनायाः चित्तवर्त्तिन्याः कुतोऽवगमः? इत्यत आह यथा प्रावृषीति प्राग्भवीयं तत्त्वदर्शनवीजमपवर्गभागीयं यत्कर्मांष्टाङ्गयोगानुष्ठानं तदेकदेशानुष्ठानं बा तदभिनिर्वर्त्तितमस्तीत्यनुमीयते तस्य चात्मभावभावनाऽवश्यमेव स्वाभाविकी वस्त्वभ्यासं विनापि प्रबर्त्तते अनधि कारिणमागमिनां वचनेन दर्शयति यस्याभावादिदमिति पूर्व्वपक्षो नास्ति कर्मफलं, परलोकिनोऽभावात् परलोकाभाव इति तत्र रुचिः, अरुचिश्च निर्णये पञ्चविंशतितत्त्वविषये। आत्मभावभावना प्राग्व्याख्याता। विशेषदर्शिनः परामर्शमाह चित्तस्यैवेति तस्य विशेषदर्शनकुशलस्यात्सभावभावना विनिवर्त्तते इति” विवरणम्।

चित्तस्य च वाह्येन्द्रियव्यापारं विना बाह्यार्थेष्वसामर्थ्यं, गुणभेदेन विकारभेदाश्च पञ्चदश्यामुक्ता यथा “गनोदशेन्दियाध्यक्षं हृत्पद्मगीलके स्थितम्। तच्चान्तःकरणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः। अक्षेष्वर्थार्पितेष्वेतद्गुणदोषविचारकम्। सत्वं रजस्तमश्चास्य गुणा विक्रियते हि तैः। वैराग्यं क्षान्तिरौदार्य्यमित्याद्याः सत्वसम्भवाः। कामक्रोधौ लोभयत्नावित्याद्या रजसोत्थिताः। आलस्यभ्रान्तितन्त्राद्या विकारास्तमसोत्थिताः। सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः। तामसैर्नोभयं किन्तु वृथायुःक्षपणं भवेत्”। पातञ्जलमते तस्य वृत्तयः पञ्चविधास्तासां स्वरूपादिकं समाधिपादे सूत्रभाष्य विवरणादौ दर्शितं तच्च क्लिष्टाशब्दे २३४४ पृ० दर्शित्म

चित्तज = पु० चित्ते जायते जन–ड। भनोभवे कामदेवे चित्तजन्मन्चित्तयोनिप्रभृतयोऽप्यत्र “चित्तयोनिरभवत पुनर्नवः” रघुः।

चित्तज्ञ = त्रि० चित्तं चित्तवृत्तिं जानाति ज्ञा–क। आशयाभिज्ञे। “कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृता” सा० द०

चित्तदोष = पु० ६ त०। चित्तस्य विषयाग्रहणासामर्थ्यरूपेशून्यत्वे दोषे।

चित्तनदी = स्त्री चित्तवृत्तिरूपा नदी। पुण्यपापरूपोभय स्रोतोवाहिन्थाम् चित्तवृत्तौ तत्र “विवेकनिम्ना कैवल्य प्राग्भारा पुण्यवहिनी। अविवेकनिम्ना संसारप्रागमारा पापवाहिनी” इति भेदः।

चित्तपरिकर्म्मन् = न० ६ त०। पातञ्जलोक्ते चित्तप्रसादनाख्ये मैत्र्यादिमावनाभेदे चित्तप्रसादनशब्दे दृश्यम्

चित्तप्रसन्नता = स्त्री ६ त०। हर्षे हेम०।

चित्तप्रसादन = न० चित्तस्य प्रसादनं प्रसन्नताकरणम्। पातञ्जलोक्ते चित्तप्रसन्नतासम्पादके मैत्र्यादिभाबनाजन्ये चित्रसंस्कारभेदे मैत्र्यादिमावनानां च तथात्वं पात० सूत्रभाष्यादावुक्तं यथा “यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म्म निर्द्दि श्यते, तत्कथं?–भा० “मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्” सू०। “तत्र सर्व्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत्, दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्। अपुण्यशीलेषूपेक्षाम्।–एवमस्य भावयतः शुक्लोधर्म्मौपजायतेततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा०। “अपरिकर्मितमनसोऽसूयादिमतः समाधितदुपायसम्पत्त्यनुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रतिपा दयितुमुपक्रमते यस्य चित्तस्यापस्थितस्येदमिति। मैत्रीकरुणेत्यादि प्रसादनान्तम्। सुखितेषु मेत्री सौहार्द्दं भावयत ईर्ष्याकालुष्यं निवर्त्तते चित्तस्य। दुःखितेषु च करुणामात्मनीव परस्मिन् दुःस्यप्रहाणेच्छा भावयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते। पुण्यशीलेषु प्राणिषु मुदितां हर्षं मावयतः असूयाकालुष्यं चेतसो निवर्त्तते। अपुण्यशीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते। ततश्चास्य राजसतामसधर्मनिवृत्तौ सात्विकः शुक्लोधर्म उपजायते। सत्वोत्कर्षसम्पन्नः सम्मवति। वृत्ति निरोधपक्षे तस्य प्रसादस्वामाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यमाणभ्य उपायेभ्यः एकाग्रं स्थितिपदं लभते। असत्यां पुनर्मैत्र्यादिभावनायां न ते उपायाः स्थित्यै कल्पन्ते” विव०। करणे ल्युट् ङीप्। चित्रप्रसादनी मैत्र्यदिभावनायाम्। “तत् प्रचिणु चित्तप्रसादनीश्चतसो मैत्र्यादि भावनाः” वीरच०।

चित्तभू = पु० चित्ते भवति भू–क्विप ७ त०। कामे चित्तभवादयोऽप्यत्र।

चित्तमूमि = स्त्री चित्तस्य भूमिरवस्था। पातञ्जलप्रसिद्धे १ चितस्यावस्थाभेदे तद्भूमयश्च नानाविधाः तत्र चित्तशब्दे दर्शिता क्षिप्तमूढविक्षिप्तैकाग्रताः चतसः उक्ताः। मधुमत ज्योतिष्मती विशोका ऋतम्मरा च समाधिभूमयश्चान्यास्ताश्चचित्तपिक्षेपशब्दे तत्तच्छब्दे च दृश्याः। साधनपादे च सूत्रभाष्यादौ सप्ताम्या अप्युक्ताः यथा “सप्तधा प्रान्तभूमिः प्रज्ञा” सू०। “तस्येति। प्रत्युदितख्यातेः प्रत्थाम्नायः सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्थयारानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। तद् यथा परिज्ञातं हेयं, नास्य पुनः परिज्ञेयमस्ति क्षीणा हेयहेतवो न पुनरेतेषुक्षेतव्यमस्ति, साक्षात्कृतं निरोधसमाधिना हानम्। भावितो विवेकख्यातिरूपोहानोपायैव्येधा चतुष्ठयी कार्य्याविमुक्तिः प्रज्ञायाः। चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिगुणा गिरिशिखरकृटच्युताइव ग्रावाणोनिरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति। न चैषां विलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति एतस्यामवस्थायां गुणसम्बन्धातीतस्वरूपमात्रज्यीतिरमलः केवली पुरुष इत्येतां सप्तविधा प्रान्तभूमिप्रज्ञामनुपश्यन् पुरुषः कुशलैत्याख्यायते पति प्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति सिद्धा भवति विवेकख्यातिर्हानोपायः इति” भा०। “पिवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण तस्येत्यादि। व्याचष्टे तस्येति प्रत्युदितख्यातेर्वर्त्तमानख्यातेर्योभि नः प्रत्याम्नायः परामर्शः अशुद्धिरेवावरणं चित्तसुत्वस्य तदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारेव प्रज्ञा विवेकिनो भवति विपयभेद्रात् प्रज्ञाभेदः। प्रकष्टोऽन्तो यासां मूमीनामवस्थानां तास्तथोक्ता यतः परं नास्ति संप्रकर्षः प्रान्ता भूमयः यस्याप्रज्ञाया विवेकख्यातेः सा तथोक्ता ता एव सप्त प्रकाराः प्रज्ञाभूमीरुदाहरति तद्यथेति। तत्र पुरुपप्रयत्न निष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति परिज्ञातं हेयं यावत् किल प्राधानिकं तत्सर्व्वं परिणामतापसं- स्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति, हेयं तत्परिज्ञातम्। प्रान्ततां दर्शयति नास्य पुनः किञ्चिदपरिज्ञेयमस्ति। द्वितीयामाह क्षीणा इति। प्रान्ततामाह न पुनरिति। तृतीयामाह साक्षातकृतं प्रत्यक्षेण निश्चितं यथा संप्रज्ञातावरवायामेव निरोधसमाधि साध्यं हानं व पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः। चतुर्थीमाह भावितो निष्पादितः विवेकख्यातिरूपोहानोपायः, नास्याः परं भावनीयमस्ति इति शेषः। एषा चतुष्टयी कार्य्याविमुक्तिः समाप्तिकार्य्यतता प्रयत्रनिष्पाद्या दर्शिता। क्वचित् पाठः कार्य्यविमुक्तिरिति कार्य्यान्तरेण विमुक्तिः प्रज्ञाया इत्यर्थः। प्रयत्ननिष्पाद्यामुक्त्वा तद्रनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्तविमुक्तिस्तु त्रयी इति। प्रथमामाह चरिताधिकारा बुद्धिकृतमोगापवर्गकार्येव्यर्थः। द्वितीयामाह गुणाइति प्राव्यतामाह न चैषामिति। तृतीयामाह एतस्यामतस्यायामिति एतस्यामवस्थायां जीवन्नेव पुरुषः कुशलोमुक्त इत्युच्यते चरमदेहत्वादित्याह एतमिति। अनौपचारिकं मुक्तमाह प्रतिप्रसवे प्रधानलयेऽपि चित्तस्य मुक्तः कुशल इत्येष भवति गुणातीतत्वादिति’ विवरणम्। चित्तमेव भूमिः क्षेत्रम्। २ चित्ररूपक्षेत्रे तस्मिंश्च मैत्रीकरुणामुदितोपेक्षारूपैः संस्कारैः संस्कृते समाधिलाभः इति योगाशास्त्रे प्रसिद्ध्वम्

चित्तविक्षेप = पु० ६ त०। पात० सूत्रभाष्याद्युक्तेषु योगान्तरायभूतेषु व्याध्यादिषु नयसु। ते च यथा “व्याघिस्त्यानसंशयप्रमादालस्याऽविरतिभ्रान्तिदर्शनाऽलव्यभूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः” सू०। “अथ केऽन्तरायाः? ये चित्तस्य विक्षेपकाः के पुनस्ते? कियन्तोवेति? भवन्ति नवान्तरायाश्चित्तविक्षेपाः सहैते चित्तवृत्तिभिः, एतेषामभावे न मवन्ति पूर्व्वोक्ताश्चित्तवृत्तयः। व्याधिर्धातुरसकरणवैषम्यम्। स्त्यानम् अकर्म्मण्यता चित्तस्य। संशयः उमयकोटिस्पृग्विज्ञानं स्यादिदमेवं, नैवं स्यादिति। प्रमादः समाधिसाधनानामभावनम्। आलस्यै–कायस्य वित्तस्य च गुरुत्वादप्रवृत्तिः। अविरतिः–चित्तस्य विषयसंप्रयोगात्मा गर्द्धः। भ्रान्तिदर्शनं विपर्य्ययज्ञानम्। अलब्धभूमिकत्वं समाधिभूमेरलागः। अनवस्थितत्वं–प्राग्लब्धायां भूमौ चित्तस्या प्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं खादिति एते चित्तविक्षेपाः नव योगमला योगप्रतिपक्षा योगा- न्तराया इत्यभिधीयन्ते” महर्षिवेदव्यास भाप्यम। “पृच्छति–अथ के इति। सामान्योत्तरं–ये इति। विशेषसंख्ये पृच्छति–के इति। उत्तरं–व्याधीत्यादिसूत्रम्। अन्तरायाः नव, एताश्चित्तवृत्तयोयोगान्तरायाः=योगविरोधिनश्चित्तस्य विक्षेपकाः। चित्त खल्वमी व्याध्यादयोयोगाद्विक्षिपन्ति अपनयन्तीति विक्षेपाः। योगपतिपक्षत्वे हेतुमाह,–सहैत इति। संशयभ्रान्तिदर्शने तावद्वृत्तितया वृत्तिनिरोधप्रतिपक्षौ, येऽपि न वृत्तयोव्याधिप्रभृतयस्तेऽपि वृत्तिसाहचर्य्यात्तत्पतिपक्षा इत्यर्थः। पदार्थान् व्याचष्टे,–व्याधिरिवि। धातवोवातपित्तश्लेष्माणः शरीरधारणात् अशितपीताहारपरिणामविशेषोरसः करणानीन्द्रियाणि तेषां वैषम्यं न्यूनाधिकभावः। अकर्म्मण्यता कर्म्मानर्हता। संशय उभयकोटिस्पृग्विज्ञानं सत्यप्यतद्रूपप्रतिष्ठत्वेन संशयविपर्य्यासयोरभेदे उभयकोटिस्पर्शास्पर्शरूपाऽवान्तरविशेषविवक्षयाऽत्र भेदेनोपन्यासः। अभावनमकरणं तत्राप्रयत्न इति यावत्। कायस्य गुरुत्वं कफादिना, चित्तस्य गुरुत्वं तमसा। गर्धः तृष्णा। मधुमत्यादयः समाधिभूमयः लब्धभूमेर्य्यदि तावतैव सुस्थितम्मत्यस्य समाधिभ्रेषःस्याचतस्तस्या अपि भूमेरपायः स्यात्। यस्मात् समाधिप्रतिलम्भे तदवस्थितं स्यात्तस्मात्तत्र प्रयतितव्यमिति” विवरणम्।

चित्तविद् = पु० चित्तमात्मत्वेन वेत्ति विद–क्विप्। बौद्ध्वभेदे आशयाभिज्ञे त्रि०

चित्तविप्लव = पु० चित्तस्य विप्लवोऽनवस्थानं यस्मात् ५ ब०। उन्मादरोगे हेसच०।

चित्तविभ्रम = पु० चित्तस्य विभ्रमो विशेषेण भ्रमणमनवस्थानं यस्मात् ५ ब०। उन्मादरोगे अमरः। “अहोचित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः” भा० स्वर्गा० २ अ०

चित्तल = पुंस्त्री चित्तं लाति मनोहरत्वात् ला–क। मृगभेदे। “असिततिलोद्धवतैलविपकं लवणयुतं नवहिङ्गुरसाद्यम्। त्रिकटुकयुक्तनिशार्द्रकमिश्रं बहुगुणचि तल मांसमनर्घम्। रसे पाके च मधुरं रक्तपित्तविनाशनम” शब्दार्थचि० धृतवाक्यम्।

चित्तवृत्ति = स्त्री ६ त०। चित्तस्य विषयाकारपरिणामभेदे “योगयित्तवृतिनिरोषः” पा०। तद्भेदाश्च पञ्चधा क्लिष्टाशब्दे १३४४ पृ० उक्ताः।

चित्तसमुन्नति = स्त्री सम् + उद् नम–क्तिन् ६ त०। १ चित्तस्य सम्यगुन्नमने तद्धेतौ २ गर्व्वे अमरः।

चित्तहारिन् = त्रि० चित्तं हरति हृ–णिनि। मनोहरे स्त्रियां ङीप् अण्। चित्तहार ण्वुल्। चित्तहारक तत्रार्थे ताच्छील्ये ट। चित्तहर मनोहरणशीले त्रि० स्त्रियां ङीप्।

चित्ताभोग = पु० सम्यग् भोग आभोग एकविषयता ६ त०। एकविषये स्थिरचित्ततायाम् अमरः।

चित्ति = स्त्री चित–ज्ञाने भावे क्तिन्। १ प्रज्ञायाम् “उदु त्वा विश्वे देवा अग्ने! भवन्तु चित्तिभिः” यजु० १२३। २ चिन्तने च “चित्तिं जुहोमि मनसा घृतेन” १७। ७८। “चित्तिं चिन्तनम्” वेददी०। ३ कर्म्मणि। “सा चित्तिभिर्निचकार, इति ऋचमधिकृत्य “चित्तिभिः कर्म्मभिः” निरु० उक्तम् कर्त्तरि क्तिच्। ४ ज्ञापयितरि ५ प्रापके च त्रि० “चित्तिरपां दधे विश्वायुः” ऋ० १। ६७। ५। “चित्तिश्चेतयिता प्रापयिता वा” भा०। भावे क्तिय्। ६ ख्यातौ स्त्री। “चित्तिं दक्षस्य सुभगमस्मे” ऋ० २। २१। ६। चित्तिं ख्यातिम् भा०।

चित्तोन्नति = स्त्री ६ त०। १ चित्तस्योन्नतौ तद्धेतुत्वात् २ गर्व्वे हेमच०।

चित्पति = पु० ६ त०। चितःज्ञानस्य पतिः। मनोभिमानिनि जीवे। अस्य “न भूवाक्चिदित्यादि” पा० न पूर्वपद प्रकृतिस्वरः। “चित्पतिर्मा पुनातु” यजु० ४। ४।

चित्य = न० चि–क्यप्। १ चितायां शवदाहचूल्याम् त्रिका० स्त्रीत्वं तत्रार्थे अमरः। २ चयनीये त्रि०। मावे क्यप्। ३ चयने स्त्री

चित्र = क्षणिके–लेख्ये अद्भुते च अद० चु० उभ० सक० सेट्। चित्रयति ते अचिचित्रत् त। चित्रितः चित्रः।

चित्र = न० चित्र–भावे अच् चि–ष्ट्रन् वा। १ तिलके। २ आलेख्ये ३ अद्भुते ४ कर्वूरवर्ण्णे ५ तद्युक्ते त्रि० मेदि०। ६ आकाशे ७ कुष्ठभेदे हेम०। ८ यमभेदे पु० “वृकोदराय चित्राय” यमतर्पणमन्त्रः। ९ एरण्डंवृक्षे १० अशोकवृक्षे ११ चित्रकवृक्षे राजनि० १२ चित्रगुप्ते चित्रगुप्तशब्दे दृश्यम् १३ शब्दालङ्कारभेदे न० अलङ्कारशब्दे ३९० पृ० दृश्यम्। “चित्रसंज्ञमीरितं प्रमाणिकापदद्वयम्” वृ० र० उक्ते १५ षोडशाक्षरपादके छन्दोभेदे। “निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा” “चित्रं चकार पदमर्द्धपुलायितेन” “रुचिरचित्रतनूरुहशालिभिः” इति च माघः।

चित्रक = न० चित्रमिव कायति कै–क चित्र–स्वार्थे क वा। १ तिलके मेदि० चित्रेण कायति कै–क। २ व्याघ्रे ३ व्याघ्रभेदे (चितावाघ)। पुंस्त्री हेमच० स्त्रियां जातित्वात् ङाष्। (चिराता) ख्यात ४ ओषधिभेदे पु० “चित्रकः कटुकः पाके वह्निकृत् पाचनो लघुः। रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत्। वातश्लेष्महरो ग्राही वातार्शःश्लेष्मपित्तहृत्। विचित्रं चैत्रकं शाकं कासमर्द्दविमर्द्दितम्। तप्ततैले सवाह्णीके पाचितं तक्रसम्भृतम्” भावप्र० तद्गुणादि। चित्र–क्वुन्। ५ चित्रकरे त्रि० ६ शूरे ७ भृगान्तके शब्दार्थाच० ८ एरण्डवृक्षे पु० अमरः।

चित्रकण्ठ = पु० चित्रः कण्ठोऽस्य। १ पारावते २ तद्भेदे वनकपोते च (घुघु)। जटाधरः। स्त्रियां जातित्वात् ङीष्।

चित्रकगुटिका = स्त्री चक्रदत्तोक्ते गुटिकाभेदे यथा “चित्रकः पिप्पलीमूलं द्वौ क्षारौ लवणानि च। व्योषहिङ्ग्वजमोदाश्च चव्यञ्चैकत्र चूर्णयेत्। भुटिका मातुलुङ्गस्य दाडिमाम्लरसेन वा। कृत्वा विपाचये द्यामं दीपवत्याशु चानलम्। सौवर्चलं सैन्धवञ्च विडमौद्भिदमेव च। सामुद्रेण समं पञ्च लवणान्यत्र योजयेत्”।

चित्रकघृत = न० “चित्रकक्वाथकल्कभ्यां ग्रहणीघ्नं शुभं हविः। गुल्मशोफोदरप्लीहाशूलार्शोघ्नं दीपनं परम्” इति चक्रदत्तोक्ते घृतभेदे।

चित्रकतैल = न० “चित्रकं चविकं दीप्यं निदिग्धिकाकरञ्जवीजलवणार्कैः। गोमूत्रयुक्तं सिद्धं तैलं नामार्शसां विहितम्” चक्रदत्तोक्ते तैलभैदे

चित्रकम्बल = पु० कर्म्म०। कम्बलभेदे। (गालिचा)

चित्रकर = त्रि० चित्रं लेख्यभेदम् आश्चर्य्यं वा करोति ताच्छील्यादौ ट। लेख्यादौ १ चित्रशिल्पकरे। विश्वकर्म्मणः शूद्रागर्भजाते वर्ण्णसंङ्करभेदे २ रङ्गाजीवे पुंस्त्री अमरः।

चित्रकर्म्मन् = त्रि० चित्रं कर्म्मस्य। १ चित्रकरे २ आश्वर्य्यकारके च ३ तिनिशवृक्षे पु० शब्दच०। ६ त०। ४ चित्रलेखक्रियारूपे शिल्पे न०।

चित्रकहरीतकी = स्त्री चित्रकपक्वा हरीतकी। चक्रदत्तोक्ते औषधभेदे “चित्रकस्यामलक्याश्च गुडूच्या दशमूलजम्। शतं शतं रसं दत्त्वा पथ्याचूर्णाढकं गुडात्। शतं पचेत् घनीभूते पलं द्वादशकं क्षिपेत्। व्योषत्रिजातयोः क्षारात् पलार्द्धमपरेऽहनि। प्रस्थार्द्धमधुनोदत्त्वा यथाग्न्यद्यादतन्त्रितः। वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं क्रिमीन्। गुल्मोदावर्त्तदुर्नामश्वासान् हन्ति रसायनम्”।

चित्रकाय = पु० चित्रः कायोस्य। १ व्याघ्रे हमच० (चितावाथ) २ व्याघ्रमेदे राजनि०।

चित्रकार = त्रि० चित्रंकरोति कृ–अण् उप० स०। १ चित्रकर्म्मकारके। “स्थपतेरपि गान्धिक्यां चित्रकारोव्यवजायत” पराशरोक्ते २ सङ्कीर्णजातिभेदे पु० स्त्री०।

चित्रकुण्डल = पु० धृतराष्ट्रपुत्रभेदे। “चित्रवाणश्चित्रवर्मा सुवर्मा दुर्व्विलोचनः। अयोबाहुर्महाबाहुश्चित्राङ्ग श्चित्रकुण्डलः” भा० आ० ११७ अ०। चित्रवाण, चित्रवर्म्मन् चित्रमण्डन चित्राङ्ग तत्पुत्रभेदे। तत्राध्याये दृश्यम्।

चित्रकूट = पु० चित्रं कुटं शृङ्गमस्य। पर्व्वतभेदे स च पर्वतः प्रयागक्षेत्रनिकटस्थमरद्वाजाश्रमात् अर्द्धतृतीययोजनाद्दक्षिणतस्तिष्ठति यथा रामा० अयोध्याकाण्डे ९२ अ० भरतं प्रति भरद्वाजवाक्यम् “भरतार्द्धतृतीयेषु योजनेष्वजने वने। चित्रकूटो गिरिस्तत्र रम्यनिर्झरकाननः। उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी। पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना। अनन्तरं तत्सरितश्चित्रकूटं च पर्वतम्। तयोः पर्णकुटीं तात! तत्र तौ वसतोध्रुवम्”! “ददर्श चित्रकूटस्थं सरामं सहलक्ष्मणम्। तापसानामलङ्कारं धारयन्तं धनुर्द्धरम्” भा० व० २७६ अ०। “ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते!” ८५ अ०। “मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकुटस्थाः” वृ० स० १६ अ०। “चित्रकूटवनस्थञ्च कथिता स्वर्गतिर्गुरोः”। “दृप्तः ककुद्मानिव चित्रकूटः” इति च रघुः।

चित्रकृत् = त्रि० चित्रं करोति कृ–क्विप्। १ चित्रलेख्यकारके २ आश्चर्य्यकारके च। ३ चित्रकरे पु० हला० ४ तिनिशवृक्षे पु० अमरः। तस्य भावः त्व। चित्रकृत्त्व चित्रकारित्वे अद्भ तत्वे च हेमच०।

चित्रकेतु = पु० १ गरुडपुत्रभेदे। “सुमुखश्चित्रकेतुश्च चित्रवर्हस्तथाऽनलः” भा० उद्यो० ९९ अ०। गरुडपुत्रोक्तौ। २ लक्ष्मणपुत्रभेदे “अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ” भाग० ९। ११। ७। वसिष्ठस्य ऊर्जायां जाते ३ पुत्र भेदे “ऊर्ज्जायां जज्ञिरे पुत्रा वशिष्ठस्य परन्तप!। चित्रकेतुप्रधानास्ते सप्त सप्तर्षयोऽमलाः। चित्रकेतुः सुरोचिश्च विरजा मित्र एव च। उल्वणो वसुभृत्यानोद्युमान् शक्त्यादयोऽपरे” भाग० ४। १। ३३। ३४। “देवभागस्य कंसायां चित्रकेतुवृहद्बलौ” भाग० ११। २४। ३। उक्ते ४ यदुवंश्ये देवभागपुत्रभेदे। ५ शूरसेननृपभेदे “आसीद्राजा सार्व्वभौमः शूरसेनेषु वै नृप!। चित्रकेतुरिति ख्यातोयस्यासीत् कामधुङ्मही” भाग० ६। १४। ६। तस्मै च पुत्रशोकतप्ताय नारदः तत्त्वज्ञानार्थं वामुदेवमन्त्रादिक- मुपदिष्टवान् तत्कथा ततः परेऽध्यायत्रये दृश्या। ६ चित्र पताके त्रि०।

चित्रकोण = पु० चित्रःकोणोऽस्य। १ अञ्जनिकायाम् (अञ्जनी) ख्याते कीटभेदे २ ज्येष्ठ्यां शब्दर०।

चित्रगन्ध = न० चित्रो गन्धोऽस्य। १ हरिताले राजनि०। २ आश्चर्य्यगन्धयुक्ते त्रि०।

चित्रगत = त्रि० चित्रे गतः। १ लेख्यलिखिते चित्रार्पिते “शुशुभाते रणेऽतीव पटे चित्रगते इव” भा० भी० ४४ अ०।

चित्रगुप्त = पु० यमभेदे “चित्रगुप्ताय वै नमः” यमतर्पणमन्त्रः। कायस्थशब्दे १९३३ पृ० तदुत्पत्त्यादिकं दृश्यम्। यमनियुक्तस्यैव तस्य यातनाधिकारित्वं शा० सू० भा० व्यवस्थापितं यथा “ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्म्माणोऽनु भवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्य्यन्ते इति, नेत्याह” भा०। “तत्रापि च तद्व्यापारादविरोधः” शा० सू० “तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः। यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्य्यन्ते”। तस्य च संयमन्यां पापिनां प्रवोधनप्रकारः पुराणसमुच्चये शिवधर्मोत्तरे उक्तो यथा “निर्भर्त्सयति चात्यर्थं यमस्तान् पापकर्म्मिणः। चित्रगुप्तश्च भगवान् धर्मवाक्यैः प्रबोधयेत्। भो भो दुष्कृतकर्माणः! परद्रव्यापहारिणः!। गर्व्विता रूपवीर्य्यौषैः परदारविमर्द्दकाः!। यत् स्वयं क्रियते कर्म तत् स्वयं भुञ्जते पुनः। तत् किमात्मप्रतापार्थं भवद्भिः दुष्कृतं कृतम्। इदानीं किं प्रतप्यध्वं पीड्यमानाः स्वकर्मभिः। भुञ्जध्वं स्वानि कर्माणि नात्र दोषोऽस्ति कस्यचित्। एते ते पृथिवीपालाः संप्राप्ता मत्समीपतः। स्वकीयैः कर्मभिर्घोरै र्दुष्प्रज्ञा बलदर्पिताः। भो भो नृपा! दुराचाराः! प्रजाविध्वंसकारिणः!। अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम्?। राज्यलोभेन मोहेन बलादन्यायतः प्रजाः। विध्वंसिताः फलं तस्य भुञ्जध्वमधुना नृपाः!। क्व तद्राज्यं कलत्रञ्च यदर्थमशुभं कृतम्। तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः। पश्यामस्तद्वलं णभ्यं येन त्वद्दण्डिताः प्रजाः। यमदूतैस्ताड्यमाना अधुना कीदृशं भवेत्”। अस्य यमलेखकत्वकथा स्क० पु० प्रभा० यथा “एवन्तु स्तुवतस्तस्य चित्रस्य विमलात्मनः। तथा तुष्टः सहस्नांशुः कालेन महता विभुः। अब्रवीद्वत्स! मद्रं ते वरं वरय सुव्रत!! सोऽब्रवीद्यदि मे तुष्टो भगवां स्तीक्ष्णदीधिते! ! प्रौढत्वं सर्वकार्य्येषु जायतां सन्मति स्तथा। तत् तथेति प्रतिज्ञातं सूर्य्येण वरवर्णिनि!। ततः सर्वज्ञतां प्राप्तश्चित्रोमित्रकुलोद्भवः। तं ज्ञात्वा धर्म्मराजस्तु बुद्ध्या परमया युतः। चिन्तयामास मेधावी लेखकोऽयं भवेद्यदि। जाता मे सर्वसिद्धिश्च निर्वृतिश्च परा भवेत्। एवं चिन्तयतस्तस्य धर्म्मराजस्य भामिनि!। अग्नितीर्थं गतश्चित्रः स्नानार्थं लवणाम्भसि। स तत्र प्रविशन्नेव नीतस्तु यमकिङ्करैः। सशरीरो महादेवि! यमादेशपरायणैः। स चित्रगुप्तनामाभूत् विश्वचारित्र लेखकः। चित्रादित्येति नामास्य ततो लोके वरानने!। सप्तम्यां नियताहारोयस्तं पूजयते नरः। सप्त जन्मानि दारिद्र्यं न दुःखं तस्य जायते”।

चित्रघण्टा = स्त्री चित्रा घण्टाऽस्याः। काशीस्थे देवीभेदे “विश्वे! विघे! विश्वभुजे। नमोऽस्तु ते श्रीचित्रघण्टे! विकटे सुदर्शिके!” काशी० ५ अ०।

चित्रघण्टेशी = स्त्री काशीस्थे देवीभेदे। “इयञ्च चित्रघण्टेशी घण्टाकर्णस्त्वयं ह्रदः” काशीख० ३३ अ०।

चित्रचाप = पु० धृतराष्ट्रपुत्रभेदे “अयोनाहुर्महाबाहुश्चित्रचापसुकुन्तलौ” भा० आ० ६७ अ०।

चित्रजल्प = पु० उज्वलमण्युक्ते वाक्यभेदे तल्लक्षणभेदादिकं तत्रोक्तं यथा “प्रेष्ठस्य सुहृदा लोके गूढरोषाभिजृम्भितः। भूरिभावमयोजल्पो यस्तीव्रोत्कण्ठतान्वितः। चित्रजल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम्। विजल्पो ज्जल्पसंजल्पाववजल्पोऽभिजल्पितम्। आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्त्तिताः। एष भ्रमरगीताख्योदशमे प्रकटीकृतः। असंङ्ख्यभाववैचित्रीचमत्कृतिसुदुस्तरः। अपि चेच्चित्रजल्पोऽयं मनाक् तदपि कथ्यते। तत्र प्रजल्पः १। असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया। प्रेयस्या कौशलोद्गारः प्रजल्पः स तु कीर्त्त्यते १। यथा मघुप! कितवबन्धो! मा स्पृशाङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुम श्मश्रुभिर्नः। वहतु मघुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक्। १। अथ परिजलपितम् २। प्रभोर्निर्दयताशाठ्यचापलाद्युपसादनात्। स्वविचक्षणताव्यक्तिर्भङ्ख्या स्यात् परिजल्पितम् २। यथा। सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इक सद्यो दुस्त्यजेऽस्मान् भवादृक्। परिचरति कथं तत् पाद पद्मं नु पद्मा अपि वत हृतचेता ह्युत्तमश्लोकजल्पैः २। अथ विजल्पः ३। “व्यक्तयाऽसूयया गूढमानमुद्रान्तरालया। अथ द्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ३। यथा किमिह बहु षडङ्घ्रे! गायसि त्वं यदूना मधिपतिमगृहाणामग्रतो नः पुराणम्। विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः। ३। अथोज्जल्पः ४। हरेः कुहकताख्यानं गर्व्वगर्भितयेर्ष्यया। सासूयश्च तदाक्षेपो धीरैरुज्जल्पईर्ष्यते ४। यथा दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासम्रूविजृम्भस्य याः स्युः। चरणरजौपास्ते यस्य मूतिर्व्वयं का अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः। ४। अथ संजल्पः ५। सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया। तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो वुधैः ५। यथा विसृज शिरसि पादं वेद्म्यहं चाटुकारैरनुनयविदुष स्तेऽभ्येत्य दौत्यैर्मुकुन्दात्। स्वकृत इह विसृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेताः किन्नु सन्धेयमस्मिन् ५। अथ अवजल्पः ६। हरौ काठिन्यकामित्वघौर्त्त्यादासक्त्ययोग्यता। यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः ६। यथा मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृतविरूपां स्त्रीजितः कामयानाम्। वलिमपि बलिमत्त्वा वेष्टयद्ध्वाङ्क्षवद्यस्तदल मसितसख्यैर्दुस्त्यजस्तत्कथार्थः ६। अथाभिजल्पितम् ७ भङ्ग्या त्यागौचितं तस्य खगानामपि खेदनात्। यत्र सानुशयं प्रोक्तं तद्भवेदभिजल्पितम्। यथा यदनुचरितलीला कर्णपीयूषविप्लुट् सकृददनविधूतद्वन्द्व धर्मा विनष्टाः। सपदि गृहकुटुम्बं दीनमुत्सृज्य घीरा बहव इव विहङ्गा भिक्षुचर्य्यां चरन्ति। ७। अथ आजल्पः ८। जैह्म्यं तस्यार्त्तिदत्वञ्च निर्वेदाद्यत्र कीर्त्तितम्। भङ्ग्यान्यसुखदत्वञ्च स आजल्प उदीरितः। यथा वयमृतमिव जिह्मं व्याहृतं श्रद्धधानाः कुलिकरुतसिवाज्ञाः कृष्णबध्वो हरिण्यः। ददृशुरसकृदेतत्तन्नखस्पर्शतीव्रस्मररुजौपमन्त्रिन्! भण्यतामन्यवार्त्ता। ८। अथ प्रतिजल्पः ९। दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हेत्यनुद्धतम्। दूतसंमागनेनोक्तं यत्र स प्रतिजल्पकः। प्रियसख! पुन- रागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीसोऽसि मेऽङ्ग। नयसि कथमिहास्विन् दुस्त्यज द्वन्द्वपार्श्वं सततमुरसि सौम्य! श्रीबधूः साकमास्ते। ९। अथ सुजल्पः १०। यत्रार्जवात् सगाम्भीर्य्यं सदैन्यं सह चापलम्। सोत्कण्ठञ्च हरिः पृष्टः स सुजल्पो निगद्यते। यथा–अपि वत मधुपुर्य्यामार्य्यपुत्रोऽधुनास्ते स्मरति स पितृगेहान् सौम्य! बन्धूंश्च गोपान्। क्वचिदपि स कथां नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्द्ध्न्यधास्यत् कदा नु” १०।

***