चाय = निशाने (चाक्षुषज्ञाने) पूजने च सक० उभ० वट्। चायति ते आचायीत् अचासीत् अचायिष्ट अचास्तऋदित्। अचचायत् त। “तं पर्ब्बतीया प्रमदाश्चचायिरे” माघः। “अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते” कठोप०। यङि चेकीयते। चायश्चिभावः। अपचितिः अपचित।

चाय = त्रि० चयस्य विकारः ताला० अण्। चयमये स्त्रियां ङीप्।

चायनीय = त्रि० चाय–कर्म्मणि अनीयर्। पूजनीये “उषस्तच्चित्रमा मरास्मभ्यम्” इत्यस्यामृचि चित्रशब्दनिरुक्तौ चित्रं चायनीयं महनीयमिति” निरुक्तकारः १२। ६।

चायमान = पु० चयमानस्य राज्ञोऽपत्यम् शिवा० अण्। १ चयमाननृपापत्ये। “अभ्यावर्त्ती चायमानो ददाति” ऋ० ६। २८। ८। “चायमानश्चयमानस्य नृपस्य पुत्रः” भा०। चाय–शानच्। २ पूजयति ३ पश्यति च त्रि०

चायु = त्रि० चाय–उण्। पूजके। “यज्ञेषु यौ चायवः” ऋ० ३। २४। ४। “चायवः पूजकाः” भा०।

चार = पु० चरएव अण्। १ प्रणिधौ गुप्तचरे “चारैश्चामेकसंस्थानैः प्रोत्साद्य वशमानयेत्” “तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत्” उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय च”–इति च मनुः। २ प्रियालवृक्षे (पिवासाल) मेदि० ३ कारागारे हेम० चर–भावे घञ् ४ गतौ गोप्रचारः ग्रहचारः “चारोदयाः प्रशस्ताः श्रवणमघादित्यमूलहस्तेषु” वृ० स० ६ अ० “भगणार्धेमान्तरितो गृह्णाति कथं नियतचारः” ५ अ०। कार्य्यभेदे दूततियोगादिकं कालिकापु० ८५ अ० उक्तं यथा। “कृषिर्दुर्गञ्च बाणिज्यं खल्यानां करसाधनम्। आदानं सैन्यकरयोर्वन्धनं गजवाजिनोः। शून्यवप्रमुखानाञ्च भोजनं सततं जनैः। प्रजानां सारसेतूनां बन्धनं चेति चाष्टमम्। एतदष्टासु वर्गेषु चारान् सम्यक् प्रयोजयेत्। कार्य्याकार्य्यविभागाय चाष्ट वर्गाधिकारिणाम्। अष्टौ चारान् नियुञ्जीयादष्ट वर्गेषु पार्थिवः। दशस्वन्येषु युञ्जीत क्रमशः शृणु तानि मे। स्वामी सचिवराष्ट्राणि मित्रं कोषो बलं तथा। दुर्गन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम्। दुर्गयुक्तं अष्ट वर्गे चारं नात्मनि योजयेत्। तस्मादिमानि शेषाणि पञ्च चारपदानि तु। शुद्धान्तेष्वेव पुत्रेषु स्रक् पूपादौ महानसे। शत्रूदासीनयोश्चैव बलाबलविनिश्चये। आदौ दशमु चैतेषु चारान् राजा प्रयोजयेत्। न यत् प्रकाशं जानीयात् तत्तुचारैर्निरूपयेत्। निरूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत्। यथानियोगमेतेषां यो यो यत्रान्यथा चरेत्। ज्ञात्वा तत्र नृपश्चारैर्दण्डयेद्वा नियोजयेत्। चारांस्तु मन्त्रिणा सार्द्धं रहस्ये संस्थितो नृपः। प्रदोषसमये पृच्छेत्तदानी मेव साधयेत्। स्वपुत्रे चाथ शुद्धान्ते ये तु चारा महा नसे। नियुक्तांस्तान् मध्यरात्रे पृच्छेत् यश्चापि मन्त्रिणि। एतान् चारान् स्वयं पश्येत् नृपतिर्मन्त्रिणा विना। अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत् फलम्। नैकवेशधरश्चारो नैकी नोत्साहवर्ज्जितः। संस्तुतो नहि सर्वत्र नातिदीर्घो न वामनः। सततं न दिवाचारी न रोगो नाप्यबुद्धिमान्। न वित्तविभवै र्हीनो न भार्य्यापुत्रवर्ज्जितः। कार्य्यश्चारो नृपतिना गुह्यतत्त्वविनिर्णये। अनेकवेशग्रहणक्षमं भार्य्यासु- तैर्युतम्। बहुदेशवचोभिज्ञं पराभिप्रायवेदकम्। दृढ भक्तं प्रकुर्वीत चारं शक्तमसाध्वसम्। अधितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा। बणिक्पथे च दुर्गादौ तेषु शक्तान्नियोजयेत्। अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान् नियोजयेत्। षण्डान् पण्डान् तथा वृद्धान् स्त्रियो या बुद्धितत्पराः। शुद्धान्तद्वारि युञ्जीयात् स्त्रियो बुद्धिमनीषिणीः”। चरेण चरणेन निर्वृत्तम् अण्। ५ कृत्रिमविषे–न० हेमच०।

चारक = त्रि० चारयति चर–णिच्–ण्वुल्। गवादीनां तृणादिषु गमयितरि १ पशुपालके मेदि० चार–स्वार्थे क। २ बन्धे ३ गतौ च। ४ प्रियालवृक्षे राजनि०। ५ कारागारे। हेम०। “निगडितचरणा चारके निरोद्धव्या” दशकु०।

चारकीण = त्रि० चरकाय हितम् खञ्। चरकहिते।

चारचक्षुस् = पु० चारश्चक्षुरस्य। नृपे। “यस्मात् पश्यन्ति दूरस्याः सर्वानर्थान्नराधिपाः। चारेण तस्मादुच्यन्ते राजानश्चारचक्षुषः” रामा० ३। ३७। “प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्भहीपतिः” मनुः “गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति च द्विजाः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः” नीतिसा०। “स्वपरमण्डलकार्य्यावलोकने चाराश्चक्षूंषि क्षितिपालानामिति” नीतिवाक्यामृतम्।

चारटिका = स्त्री चर–णिच् शकादि० अट् संज्ञायां कर अतैत्त्वम्। नलीनामगन्धद्रव्ये राजनि०।

चारटी = स्त्री चर–णिच्–शकादि० अटन् गोरा० ङीष् १ पद्मचारिणीवृक्षे अमरः। २ भूम्यालक्यां राजनि०।

चारण = पु० चारयति कीर्त्तिं चर–णिच्–ल्यु। कीर्त्तिसञ्चारके नदे अमरः। “चाटचारणदासेषु दत्तं भवति निष्फलम्” स्मृतिः! “गन्धर्वाणां ततो लोकः परतः शतयोजनात्। देवानां गायनास्ते च चारणाः स्तुति पाठकाः” पद्म० पु० स्व० ख०।

चारपथ = पु० चारार्थः बहुजनगत्यर्थः पन्था अच् समा०। राजपथे हेम०।

चारभट = पु० चारे बुद्धिसञ्चारे भटः। धीपे हेम०।

चारमिक = त्रि० चरममधीते वसन्ता० ठक्। ग्रन्थसमाप्तिपर्य्यन्ताध्यायिनि।

चारवायु = पु० चारेण रवेरुदग्गतिभेदेन कृतोवायुः। निदाघजे वायौ त्रिका०।

चारायण = पुंस्त्री चरस्य गोत्रापत्यम् नडा० फक्। चरगोत्रापत्ये। तेषां छात्रः अण् “वृद्धाच्छः” पा० छ। चारायणीय तच्छात्रे। चारायणेभ्य आगतः वुञ्। चारायणक तत आगते त्रि०।

चारिणी = स्त्री चर–णिनि ङीप्। करुणीवृक्षे राजनि०।

चारित्र = न० चर–“चरेर्वृत्ते” उणा० णित्रन् चरित्रमेव स्वार्थे अण् वा। १ चरित्रे २ स्वभावे हेम०। ३ कुलक्रमागताचारे शब्दार्थचि०। “चारित्रं येन नो लोके दूषितं दूषितात्मना” हरिव० १७०। ४ तिन्तिडीवृक्षे स्त्री शब्दरत्ना० ५ मरुत्वन्तनृपपुत्रमेदे पु० “मरुत्वतो मरुत्वन्तो देवानजनयत् सुतान्” इत्युपक्रमे “नहुषं चाहुतिञ्चैव चारित्रं ब्रह्मपन्नगम्” हरिव० २०४ अ०।

चारित्र्य = न० चरित्रमेव स्वार्थे ष्यञ्। चरित्रशब्दार्थे।

चारिन् = त्नि० चर–णिनि। सञ्चारकारिणि गन्तरि “सङ्गमाय निशि गूढचारिणम्” रघुः “प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ” गीता स्त्रियां ङीप् स्वैरचारिणी।

चारी = स्त्री चारो गतिभेदोऽस्त्यस्या अच् गौरा० ङीष्। गतिभेदयुक्तनृत्यक्रीडायां सङ्गी० दा० तद्भेदलक्षणादिकमुक्तं यथा “न हि चारीं विना नृत्ये नृत्यस्याङ्ग” प्रवर्त्तते। शृङ्गारादिरसानान्तु भावोद्दीपनकारिकाम्। माघुर्य्योद्वर्त्तना नृत्ये चारी चारुगतिर्मता”। अन्येतु “एकपादप्रचारो यः सा चारी न निगद्यते। पादयोश्चारणं यच्च सा चारीति निगद्यते। करणानां समायोगः खण्डकः परिकीर्त्तितः। त्रिभिः खण्डैश्चतुर्भिर्व्वामण्डलं समुदाहृतम्। समनखा नूपुरविद्धा तिर्य्यङ्मुखी सरला च। कातरा च कुवीरा च विश्लिष्टा रथचक्रिका। पार्ष्णिरेचितका तलदर्शिनी गजहस्तिका। परावृत्ततला चासताडिताप्यर्द्धमण्डला। स्तम्भक्रीडनिका मृगत्रासिका चारुरोचिका। तलोद्वृत्ता सञ्चरिता स्फुरिकापि तथैवच। लङ्घिञङ्घा सङ्घटिता स्यादथैव मदालसा। उत्कुञ्चिता तिर्य्यगूर्द्ध्वं कुञ्चिता चापकुञ्चिता। षड्विंशति र्भौमचार्य्य इत्याख्याता मनीषिभिः”। अन्ये तु। “सम पादस्थिता विद्धा शकटस्यार्द्धिकापि च। विय्याघा ताडिताऽऽबद्धा एकैका क्रीडिता तथा। ऊरुवृत्ता छन्दिता च जनिता स्पन्दिता तथा। स्पन्दितावत् समतन्वी समोत्सारितघट्टिता। उच्छन्दिता च विज्ञेया श्चार्य्यः षोढश भूमिगाः। इति भूमिचारी। आकाश चारी यथा “चारीश्चाकाशगा वक्ष्ये विक्षेपा त्वधरी तथा। अङ्घिताडिता भ्रमरी पुरःक्षेपा च सूचिका। अपक्षेपा जङ्घावर्त्ता विद्धा च हरिणप्लुता “ऊकजङ्घान्दोलिता च जङ्घाजङ्घालिका तथा। विद्युत्क्रान्ता भ्रमरिका दण्डपार्श्वेति षोडश”। अन्थे तु। “विभ्रान्तातिक्रान्ताऽपक्रान्ता च पार्श्वक्रान्तिका। ऊर्द्धजानुर्दोलपादोद्वृत्ता नूपुरषादिका। भुजङ्गनासिका क्षिप्ताऽऽविद्धा ताला च सूचिका। विद्युत्क्रान्ता भ्रमरिका दण्डपादा तथैव च। आकाशचारिका एताः षोडशैव निरूपिताः”। एताष्वेव भूमिचारीष्वप्यन्तरभेदोऽस्ति। “तिर्य्यक्चारी ऊर्द्ध्वचारी अधश्चारी ति ता ऊहनीयाः। “तैलाभ्यक्तेन गात्रेण लब्धाहारो जितश्रमः। स्तम्भे वा भित्तिदेशे वा प्रथमं ताः प्रयोजयेत्। रूक्षाहारं तथाम्लञ्च भुक्त्वा तां न समाचरेत्। नृत्ये पादस्य विन्यासश्चारी सैवाभिधीयते। शृङ्गारादिरसानान्तु मवेद्दीपनकारणम्। माधुर्य्यभूयसा नृत्ये हृद्यतालत्रयान्विताः। नियतार्द्धविशेषाणां चारी सञ्चारतो भवेत्” स० दामो०।

चारु = पु० चरति चित्ते–उण्। १ वृहस्पतौ २ मनोहरे त्रि० मेदि० “चकाशतं चारुचसूरुचर्म्मणा “ऊर्द्धप्रसारित सुराधिपचापचारु” माघः। गुणवचनत्वेन स्त्रियां वा ङीष् चार्व्वी चारुः। ३ कुसुमे न० शब्दार्थचि०। ४ रुक्मिणीतनयभेदे पु० “चारुगर्भशब्दे दृश्यम्।

चारुक = पु० चारु + संज्ञायां कन्। शरवीजरूपे क्षुद्रघान्यभेदे भावप्र० तद्गुणा उक्ता यथा “चारुकः शरवीजं स्यात् कथ्यन्ते तद्गुणा अथ। चारुको मघुरो रूक्षो रक्तपित्तकफापहः। शीतलो लघुवृष्यश्च कषायो वातकोपनः”।

चारुकेशरा = स्त्री चारूणि केशराण्यस्याः। नागरभुस्तायाम् राजनि०।

चारुगर्भ = पु० श्रीकृष्णस्य रुक्मिणीगर्भजाते तनयभेदे यथा “तस्याम् (रुक्मिण्याम्) उत्पादयामास पुत्रान् दश महारथान्। चारुदेष्णं सुदेष्णञ्च प्रद्युम्नञ्च महाबलम्। सुषेणं चारुगुप्तञ्च चारुबाहुञ्च वीर्य्यवान्। चारुविन्दं सुचारुञ्च भद्रचारुन्तथैव च। चारुञ्च बलिनां श्रेष्ठं सुतां चारुमतीं तथा” हरिव० ११८ अ०। चारुगुप्तादयोऽप्यत्रोक्ताः तत्पुत्रमेदे।

चारुचित्र = पु० धृतराष्ट्रपुत्रभेदे “चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शणासनः” भा० आ० ११७ अ०।

चारुधारा = स्त्री चारुं चारुतां धारयति धारि–अण् चार्व्वी धाराऽस्या वा। इन्द्रपत्न्यां शच्याम् त्रिका०।

चारुनेत्र = त्रि० चारु मनोहर नेत्रमस्य। १ सुलोचने २ हरिणे पुंस्त्री त्रिका०। ३ अप्सरोभेदे स्त्री “चारुनेत्रा घृताची च मेनका पुञ्जिकास्थली” काशीख० १० अ०।

चारुपर्णी = स्त्री० चारूणि पर्णान्यस्याः ङीप्। (गन्धाभादाल) प्रसारिण्याम् राजनि०।

चारुपुट = पु० चारु–पुटमत्र। तालभेदे संगीतदा०।

चारुफला = स्त्री चारु फलमस्याः। द्राक्षायाम् राजनि०।

चारुयशस = पु० श्रीकृष्णषुत्रभेदे “त्वया द्वादश वर्षाणि वती भूतेन शुष्यता। आराध्य पशुभर्त्तारं रुक्मिण्यां ऊनिताःसुताः। चारुदेष्णः सुचारुश्च चारुवेशी यशोवरः। चारुश्रवा आरुयशाः प्रद्यम्नः शम्भुरेव च। यथा ते जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः” भा० अनु० १४ अ०। चारुगर्भशब्दानुक्ताः अत्रोक्ताश्च चारुश्रवस् इत्यादयोऽपि तत्पुत्रभेदे।

चारुलोचन = त्रि० चारु लोचनमस्य। १ सुन्दरनेत्रयुक्ते २ हरिणे पु० स्त्री० स्त्रियां जातित्वात् ङीष् शब्दार्थचि०।

चारुवक्त्र = त्रि० चारु वक्त्वमस्य। १ सुमुखे २ कुमारानुचरभेदे पु० “श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः” भा० श० ४६ अ० कुमारानुचरोक्तौ

चारुवर्द्धना = स्त्री चारुं चारुतां वर्द्धयति वृध–णिच्–ल्यु। १ नार्य्यां राजनि०। २ मनोहरतावर्द्ध्वकमात्रे त्रि०।

चारुव्रता = स्त्री चारु व्रतमस्याः। १ मासोपवासिन्यां स्त्रियां त्रिका० २ तादृशव्रतयुक्ते पुरुषे पु०।

चारुशिला = स्त्री नित्यकर्म्म०। १ मणिमात्रे त्रिका०। कर्म्मधा०। २ मनोहरशिलामात्रे स्त्री “कुतूहलाच्चारुणिलोपयेशम्” भट्टिः।

चारुशीर्ष = त्रि० चारु शीर्षमस्य। १ मनोज्ञमस्तके २ शक्रसखे आलम्बायने पु०। “चारुशीर्षस्तुतं प्राह शक्रस्य दयितः सखा। आलम्बायन इत्येव विश्रुतः करुणात्मकः” भा० अनु० १८ अ०। स च आलम्बर्षेरपत्यम्।

चारुहासिन् = त्रि० चारु हसति हस–णिनि। १ मनोहर रासिनि स्त्रियां ङीप्। सा च “अयुग्भवा चारुहासिनी” वृ० र० उक्ते ३ वतालीयभेदे छन्दसि।

चार्च्चिक्य = न० चर्च्च–धात्वर्णे ण्वुल् चर्चिकैव स्वार्थे ष्यञ्। चन्दनादिना गात्रलेपने अमरः।

चार्म्म = पु० चर्म्मणा परिवृतो रथः अण्। चर्म्मणा सर्व्वतो वेष्टिते रथे।

चार्म्मण = न० चर्मणां समूहः अण। चर्म्मसमुदाये।

चार्म्मिक = त्रि० चर्म्मणा निर्वृत्तः ठक्। चर्म्मनिर्म्मिते भाण्डादौ। “चर्म्मचार्म्मिकभाण्डेषु” मनुः। ततः पुरोहिता० भावे यक्। चार्म्मिक्य तद्भावे न०।

चार्म्मिकायणि = पुंस्त्री चर्म्मिणोऽप्यत्यम् वाकिना० फिञ् कुक् नलोपश्च। चर्म्मिणो (ढाली) नामकयोधस्यापत्ये।

चार्म्मिण = न० चर्म्मिणां समूहः अण्। चर्म्मिणां समूहे।

चार्व्वाक = पु० चारुः लोकसम्मतोवाकोवाक्यं यस्य पृषो०। वृहस्पतिशिष्ये लोकायते नास्तिकभेदे तन्मतसिद्धपदार्थादि सर्व्वद० स० दर्शितं यथा। “अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते वृहस्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्वाकेण दूरोत्सारितत्वात्। दुरुच्छेदं हि चार्वाकस्य चेष्टितम्। प्रायेण सर्व्वप्राणिनस्तावत् “यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः” इति लोकगाथामनुरुन्धाना नीतिकामशास्त्रानुसारेणार्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थमपह्नुवानाश्चार्वाकमतमनुवर्त्तमाना एवानुभूयन्ते। अत एक तस्य चार्व्वाकमतस्य लोकायतमित्यन्वर्थमपरं नामधेयम्। तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि तेभ्य एक देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवत् चैतन्यमुप जायते, तेषु विनष्टेषु सत्सु स्वयं विनश्यति। “तदिह विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीति”। तत्र चैतन्यविशिष्टदेह एवात्मा देहातिरिक्त आत्मनि प्रमाणाभावात् प्रत्यक्षैकप्रमाणबादितया अनुमानादेरनङ्गीकारेण प्रामाण्याभावात्। अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः। न चास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यम अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव भोक्तव्यत्वात्। तद्यथा मत्स्यार्थी सशल्कान् सकण्टकान् मत्स्यानुपादत्ते स यावदादेयं तावदादाय निवर्त्तते। यथा वा धान्यार्थी सपलालानि धान्यान्याहरति यावदादेयं तावदादाय निवर्त्तते। तस्माद्दुःखभयान्नानुकूलवेदनीयं सुखं त्यक्तुमुचितम्। न हि मृगाः सन्तीति शालयो नोप्यन्ते। न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्नीयन्ते। यदि कश्चिद् भीरुर्दृष्टं सुखं त्यजेत् तर्हि स पशुवन्मूर्खो भवेत्। तदुक्तम् “त्याज्यं सुखं विषयसङ्गमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा। व्रीहीन् जिहासति सितोत्तमतण्डुलाट्यान् को नाम भोस्तुषकणोपहितान् हितार्थी”। ननु पारलौकिक सुखाभावे बहुवित्तव्ययशरीरायाससाध्ये अग्निहोत्रादौ विद्यावृद्धाः कथं प्रवर्त्तिष्यन्ते इति चेत् तदपि न प्रमाणकोटिं प्रवेष्टुमीष्टे अनृतव्याघातपुनरुक्तदोषैर्दूषिततया वैदिकम्मन्यैरेव धूर्त्तवकैः परस्परं कर्म्मकाण्डप्रामा ण्यवादिभिर्ज्ञानकाण्डस्य, ज्ञानकाण्डप्रामाण्यवादिभिश्च कर्म्मकाण्डस्य प्रतिक्षिप्तत्वेन त्रय्या धूर्त्तप्रलापमात्रत्वेन अग्निहोत्रादेर्जीविकामात्रप्रयोजनत्वात् तथा चाभाणकः “अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगण्ठनम्। बुद्धिपौरुषहीनानां जीविकेति वृहस्पतिः”।। अत एव कण्टकादिजन्यं दुःखमेव नरकं लोकसिद्धो राजा परमेश्वरः देहोच्छेदो मोक्षः। देहात्मवादे च कृशोऽहं कृष्णोऽहमित्यादिसासानाधिकरण्योपपत्तिः। मम शरोर मिति व्यवहारो राहोः शिर इत्यादिवदौपचारिकः। तदेतत् सर्व्वं समग्राहि। “अत्र चत्वारि भूतानि भूमि वार्य्यनलानिलाः। चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुपजायते। किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत्।। अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्टतः। देहः स्थौल्यादियोगाच्च स एवात्मा न चापरः।। मम देहोऽय मित्युक्तिः सम्भवेदौपचारिकीति”।। खादेतत् स्यादेष मनो रथा यद्यनुमानादेः प्रामाण्यं न स्यात् अस्ति च प्रामाण्यं कथमन्यथा धमोपलम्भानन्तरं धूमध्वजे प्रेक्षावतां प्रवृत्तिरुपपद्येत। नद्यास्तीरे फलानि सन्तीति वचन श्रवणसमनन्तरं फलार्थिनां नदीतीरे प्रवृत्तिरिति। तदेतन्मनोराज्यविजृम्भणम्। व्याप्तिपक्षधर्म्मताशालि हि लिङ्गं गमकमभ्युपगतमनुमानप्रामाण्यवादिभिः व्याप्ति श्चोभयविधोपाधिविधुरः सम्बन्धः स च सत्तया चक्षुरादि वन्नाङ्गभावं भजते किन्तु ज्ञाततया। कः खलु ज्ञानोपायो भवेत्। न तावत् प्रत्यक्षं तच्च बाह्यमान्तरं वाऽभिमतम्। न प्रथमः तस्य सम्प्रयुक्तविषयज्ञानजनकत्वेन भवति (वर्त्तमाने) प्रसरसम्भवेऽपि भूतभविष्यतोस्तदसम्मवेन सर्व्वोपसंहारवत्या व्याप्तेर्दुर्ज्ञानत्वात्। न च व्याप्तिज्ञाः सामान्यगोचरमिति मन्तव्यं व्यक्त्योरविनाभावाभावप्रसङ्गात्। नापि चरमः अन्तःकरणस्य बहिरिन्द्रिय तन्त्रत्वेन बाह्येऽर्थे स्वातन्त्र्येण प्रवृत्त्यनुपपत्तेः। तदुक्तम् “चक्षराद्युक्तविषयं परतन्त्रं बहिर्मनः इति। नाप्यनुमानं व्याप्तिज्ञानोपायः तत्र तत्राप्येवमिति अनवस्थादौस्थ्य प्रसङ्गात्। नापि शब्दस्तदुपायः काणादमतानुसारेणा नुमानएवान्तर्भावात् अनन्तर्भावे वा वृद्धव्यवहाररूपलि ङ्गावगतिसापेक्षतया प्रागुक्तदूषणजङ्घालत्वात् घमध- मध्वजयोरविनाभावोऽस्ताति वचनमात्रे मन्वादिवद् विश्वासाभावाच्च। अनुपदिष्टाविनाभावस्य पुरुषस्यार्थान्तरदर्शनेनार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाः कथाशेषत्वप्रसङ्गाच्च। उपमानादिकन्तु दूरापास्तं तेषां संज्ञासंज्ञिसम्बन्धादिवोधकत्वेनानौपाधिकसम्बन्धबोधकत्वा सम्भवात्। किञ्च उपाध्यभावोऽपि दुरवगमः उपाधीनां प्रत्यक्षत्वनियमासम्भवेन प्रत्यक्षाणामभावस्य प्रत्यक्षत्वेऽपि अप्रत्यक्षाणामभावस्याप्रत्यक्षतया अनुमानाद्यपेक्षायामुक्त दूषणानतिवृत्तेः। अपि च साधनाव्यापकत्वे सति साध्यसमव्याप्तिरिति तल्लक्षणं कक्षीकर्त्तव्यम्। तदुक्तम् “अव्या प्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाधिरिति” शब्देऽनित्यत्वे साध्ये सकर्तृकत्वं घटत्वमश्रावणतां च व्यावर्त्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि। तस्मादिदमनवद्यं समासमेत्यादिनोक्तमाचार्य्यैश्चेति। तत्र विध्यध्यवसायपूर्व्वकत्वान्निषेधाध्यवसायुस्योपाधिज्ञाने जाते तदभावविशिष्टसम्बन्धरूपं व्याप्तिज्ञानं व्याप्तिज्ञानाधीनं चोपाधिज्ञानमिति परस्पराश्रयवज्रप्रहारदोषोबज्र लेपायते। तस्मादविनाभावस्य दुर्बोधतया नानुमानाद्यवकाशः। धूमादिज्ञानानन्तरमग्न्यादिज्ञाने प्रवृत्तिः प्रत्यक्षमूलतया भ्रान्त्या वा युज्यते। क्वचित् फलप्रति लम्भस्तु मनिमन्त्रौषधादिवत् यादृच्छिकः। अतस्तत्साध्यमदृष्टादिकमपि नास्ति। नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेत् न तद्भद्रं स्वभावादेव तदुपपत्तेः। तदुक्तम् “अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः। केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिरिति”। तदे तत् सर्व्वं वृहस्पतिनाप्युक्तम्। “न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः। नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः। अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम्। बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता। पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति। स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते। मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम्। गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम्। स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः। प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते?। यावज्जीवेत् मुखं जीवेदृणं कृत्वा घृतं पिबेत्। भस्मीभूतस्य देहस्य पुनरागमनं कुतः। यदि गच्छेत् परं लोकं देहादेष विनिर्गतः। कस्माद्भूयो न चायाति? बन्धुस्नेहसमाकुलः। ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह। मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित्। त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः। जर्फरीतुर्फरीत्यादि पण्डिनानां वचः स्मृतम्। अश्वस्यात्र हि शिश्नन्तु पत्नीग्राह्यं प्रकीर्त्तितम्। भण्डैस्तद्वत् परञ्चैव ग्राह्य जातं प्रकीर्त्तितम्। मांसानां खादनं तद्वन्निशाचरसमी रितमिति”। तस्माद्बहूनां प्राणिनामनुग्रहार्थं चार्ब्बाकम तमाश्रयणीयमिति रमणीयम्”। नैषधे च तन्मतं मङ्घ्या वर्ण्णितं यथा “ग्रावोम्मज्जनवद्यज्ञफलेऽपि श्रुतिसत्यता। कां श्रद्धा तत्र घीवृद्धाः! कामाध्वा यत् खिलीकृतः। केनापि बोधिसत्वेन जातं सत्त्वेन हेतुना। यद्वेदमर्मभेदाय जगदे जगदस्थिरम्। अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मगुण्ठनम्। प्रज्ञापौरुषनिःखानां जीवो जल्पति जीविकाः। शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः। तदनन्तकुलाद्दोषाददोषा जातिरस्ति का। कामिनीवर्गसंसर्गेर्न कः सङ्क्रान्तपातकः। नाश्नाति स्नाति हा मोहात् कामक्षाममिदं जगत्। ईर्ष्यया रक्षतो नारीर्धिक् कुलस्थितिदाम्भिकान्। स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः। परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः। अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना। गुरुतल्पमतौ पापकल्पनां त्यजत द्विजाः!। येषां वः पत्युरत्युच्चैर्गुरुदारग्रहे ग्रहः। पापात्तापा, मुदः पुण्यात्, परासोः स्युरिति श्रुतिः। वैपरीत्यं ध्रुवं साक्षात्तदाख्यात बलाबले। सन्देहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनं यदि। त्यजत श्रोत्रियाः! सत्रं हिंसादूषणसंशयात्। यस्त्रिवेदिविदां वन्द्यः स व्यासोऽपि जजल्प वः। रामाया जातकामायाः प्रशस्ता हस्तधारणा। सुकृते वः कथं श्रद्धा सुरते च कथं न सा?। तत्कर्म पुरुषः कुर्य्याद्येनान्ते सुखमेधते। बलात् कुरुत पापानि सन्तु तान्यकृतानि वः। सर्व्वान् बलकृतानर्थानकृतान् मनुरब्रवीत्। स्वागमार्थेऽपि माऽस्मिंस्थस्तीर्थिका! विचिकित्सितवः। तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ। श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम्। व्याख्या बुद्धिबलापेक्षा सा नोपेक्ष्या सुखोन्मुखी। यस्मिन्नस्तीति धीर्देहे तद्दाहे वः किमेनसा। क्वापि किन्तत् फलं न स्यादात्मेति परसाक्षिके। मृतः स्मरति कर्म्माणि मृते कर्मफलोर्मयः। अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्त्तवार्त्तया! एकं सन्दिग्धयोस्तावत् भावि तत्रेष्टजन्मनि। हेतुमाहुः स्वमन्त्रादीनसाङ्गानन्यथा विटाः। जनेन जानतास्मीति कायं नायं त्वमित्यसौ। त्याज्यते ग्राह्यते चान्यदहो श्रुत्याऽतिधूर्त्तया। एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः। कः श्रौतस्यात्मनो भीरो! भरः स्याद् दुरितेन ते। किन्ते वृन्ताहृतात् पुष्पात् तन्मात्रे हि फलत्यदः। न्यास्यं तन्मूर्द्धन्यन्यस्य न्यास्यमेवाश्मनो यदि। तृणानीव घृणावादान् विधूनय बधूरनु। तवापि तादृशस्यैव का चिरं जनवञ्चना। कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम्। वेदोऽपि देवकीयाज्ञा तत्राज्ञा काधिकार्हणा। प्रलापमपि वेदस्य भागं मन्यध्वमेव चेत्। केनाभाम्येन दुःखान्न विधीनपि तथेच्छथ। श्रुतिं श्रद्धत्थ विक्षिप्ताः। प्रक्षिप्तां ब्रूथ च स्वयम्। मीमांसा मांसलप्रज्ञा! स्तां यूपद्विपदायिनीम्। को हि वेदह्यमुष्मिन् वा लोक इत्याह या श्रुतिः। सम्प्रामाण्यादमुं लोकं लोकः प्रत्येतु वा कथम्। धर्म्माधर्म्मौ मनुर्ज्जल्पन्नशक्यार्जनवर्जनौ। व्याजान्मण्डलदण्डार्थी श्रदधायि मुधा बुधैः। व्यासस्यैव निरा तस्मिन् श्रद्धावद्धा स्थ तान्त्रिकाः। मत्स्यस्याप्युपदेश्यान् वः कोमत्स्यानपि भाषताम्। पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः। निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम्?। न भ्रातुः किल देव्यां स व्यासः कामात् समासजत्। दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम्?। देवैर्द्विजैः कृता ग्रन्थाः पन्था येषां तदादृतौ। गां नतैः किं न तैर्व्यक्तं ततोऽप्यात्माऽधरीकृतः। साधु कासुकता मुक्ता शान्तस्वान्तैर्मखोन्मुखैः। सारङ्गलोचनासारां दिवं प्रेत्यापि लिप्सुभिः। उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतम्। अपवर्गे तृतीयेति भणतः पाणिनेरपि। बिभ्रत्युपरि यानाय जना जनितमज्जनाः। विग्रहायाग्रतः पश्चाद्गत्वरोरभ्रविभ्रमम्। कः शमः क्रियतां प्राज्ञाः! प्रीयाप्रीतौ परिश्रमः। भस्मीभूतस्य भूतस्य पुनरागमनं भ्रमः। एनसानेन तिर्य्यक् स्यादित्यादिः का विभीषिका। राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः। हताश्चेद्दिवि दोव्यन्ति दैत्या दैत्यारिणा रणे। तत्रापि तेन युद्ध्यन्तां हता अपि तथैव ते। स्वञ्च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम्। इति स्वोच्छित्तिमुक्त्युक्तिर्वैदग्धी वेदवादिनाम्। मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम्। गोतमं तमवेतैब यथा वित्थ तथैव सः। दारा हरिहरादीनां तन्मग्नमनसो भृशम्। किं न मुक्ताः पुनः सन्ति कारा- गार मनोभुवः। देवश्चेदस्ति सर्वज्ञः करुणाभागबन्ध्यवाक्। तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नार्थिनः भविनां भावयन् दुःखं स्वकर्मजमपीश्वरः। स्यादकारण वैरी नः कारणादपरे परे। तर्काप्रतिष्ठया साम्यादन्योन्यस्य व्यतिघ्नताम्। नाप्रामाण्यं मतानां स्यात् केषां सत्तिपक्षवत्। अक्रोधं शिक्षयन्त्यन्यान् क्रोधना ये तपोधनाः! निर्द्धनास्ते धनायैव धातुवादोपदेशिनः। किं वित्तं दत्थ तुष्टेयमदातरि हरिप्रिया। दत्त्वा सर्वं धनं मुग्धो बन्धनं लब्धवान् बलिः। दोग्धा द्रोग्धा च सर्वोऽयं घनिनश्चेतसा जनः। विसूज्य लोभसंक्षोभमेकद्वा यद्युदासते। दैन्यस्थायुष्यमस्तैन्यमभक्ष्यं कुक्षिवञ्चना। स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम्” २ दुर्योधनसखे राक्षसभेदे चार्वाकबषपर्वशब्दे विवृतिः

चार्वाकवधपर्वन् = न० मा० शान्तिपर्वान्तर्भते अवान्तरपर्बभेदे तद्वधकथा च तत्र ३८ अ० यथा। “निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः। राजानं व्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रव्रवीत्। तत्र दुर्य्योधन सस्वो भिक्षुरूपेण संवृतः। साक्षः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः। वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः। परःसहस्वैः राजेन्द्र! तपोनियमसंश्रितैः। स दुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्। अनामन्त्र्यैव तान् विप्रांस्तमुवाच महीपतिम्। चार्वाक उवाच। इमे प्राहुर्द्विजास्सर्वे समारोप्य वचोमयि। धिग्गवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै। किं तेन स्थाद्धि कौन्तेय! कृत्वेमं ज्ञातिसङ्क्षयम्। घातयित्वा गुरूंश्चैव मृतं श्रेयो म जीवितम्। इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः। विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रदर्षिताः। ततस्ते ब्राह्मणाः सर्वे स च राजा युक्षिष्ठिरः। व्रीडिताः परमोद्विग्नास्तूष्णी मासन् विशाम्पते!। युघिष्टिर उवाच। प्रसीआदन्तु भवन्यो मे प्रणतस्वाम्तियाचतः। प्रत्यासन्नव्यसमिनं न मां धिक्कर्त्तुमर्हथ। वैशम्पायम उवाच। सतो राजन्। ब्राह्मणास्ते सर्वएव विशाम्पते!। ऊचुर्न्नैतद्वचोऽस्नाकं चीरस्तु तव पार्थिव!। जज्ञुश्चैव महात्मान स्ततस्तु ज्ञामचक्षुषा। ब्राह्मणा वेदविद्धांसस्तपोमिर्विभली कृताः। ब्राह्मणा ऊचुः। एष दुयाधनसखा चार्वाको नाम राक्षसः। परिव्राजकरूपेण हितं तस्य चिकीर्षति। न वयं ब्रूम घमात्मन् व्येतु ते गयमीदृशम्। उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह। वैशम्पायन उवाच। ततस्ते ब्राह्मणाःसर्वे हुङ्कारैः क्रोधमू र्च्छिताः। निर्भर्त्सयन्तः शुचयो निजघ्नुः पावराक्षसम्”। मुद्रितपुस्तके शान्तिपर्व्वणि एतत्पर्व्व दृश्यते किन्तु भा० आदिपर्व्वणि उपक्रमणिकाध्याये स्त्रीपर्व्वान्तर्गतपर्वोक्तौ “चार्वाकस्य बधः पर्व रक्षसो ब्रह्मरूपिणः। आभिषेचनिकं पर्व घर्मराजस्य घोमतः। प्रविभागो गृहाणाञ्च पर्वोक्तं तदनन्तरम्। शान्तिपर्व ततोयत्र राजधर्मानुशासनम्”। इत्यगेन गृहविभामपर्व्यन्तस्य स्त्रीपर्वत्वेन तत्रोक्तिः। तच्च पर्व मुद्रितपुस्तके शान्तिपर्वणि ४४ अध्यायपर्य्यन्तम्। अतस्तत्पर्वस्तमेव स्त्रीपर्व्वेत्यनुनीयते अन्यथा प्रतिज्ञाविरोधःस्यात् यदि च स्त्रीपर्वक्षि सप्तविंशतिरध्यायाएव व्यासनोपक्रमणिकाध्याये प्रतिज्ञाताः प्रतिज्ञाताश्च शान्तिपर्वणि ३३९ अध्यायाः सुद्रितपुस्तके च स्त्रीपर्व्वणि २७ अध्यायाएव दृश्यन्ते सुद्रितपुस्तके शान्तिपर्वणि च ४४ अव्याये गृहविभागो दृश्यते इत्यध्यायाधिक्यं तथापि शान्तिपर्व्वणि ३३९ अध्यायानामेव वक्तव्यत्वेन प्रतिज्ञातत्वात् मुदितपुस्तके च ३६७ अध्यायानां दर्शनात् अध्यायायिक्यस्य लिपिकरप्रनादकृतत्वस्येव स्त्रीपर्वण्यपि सप्तविंशतिसंख्याधिक्यस्य लिपिकरप्रमादकृतत्वस्यापि वक्तुं शक्यत्वात्। वस्तुतस्तु उपक्रमणिकाध्याये चार्वाकस्य बधः पर्व इत्यतः पूर्व्वमेव “शान्तिपर्व ततः प्रोक्तम् इत्यादि पद्यं मूलग्रन्थे स्थितम्। लिपिकरप्रमादात उत्तरत्र सुद्रितमित्ये व कल्पयितुसुचितम अतस्तस्य शान्तिपर्वान्तर्गतत्वेऽपि न विरोधः। अध्यायन्थूनाधिक्यस्य तु लिपिकरप्रमादकृत कल्पनमेव ज्यायः। अतएव उपक्रमणिकायां स्त्रीपर्वप्रतिपाद्यविपतकथने “तोयकर्म्मणि चारव्घे राज्ञामुदक दानिके। गढोत्पन्नस्य चाख्यानं कर्णस्म ४ थयात्मनः” इत्यन्तेन स्त्रीपर्ववृत्तान्तोक्तिः सङ्गच्छत।

चार्व्वाघाट(त) = पु० चारु आहन्ति आ + हन्–“दारावाहनोऽण् अन्तस्य च टः सज्ञायाम्, चारौ वा” वार्त्ति० अण् वा टान्यादशः। सुन्दराघातके खगभेदे

चार्वादि = पु० नञः परतः अन्तोदात्ततानिमित्ते पा० ग० सत्रोक्ते शब्दगणे सच गणः “चारु, साधु यौषलि अनङ्धेजय वदाम्य (अकस्मात्) सर्त्तमान बर्धमान त्त्वरमाण (क्रियमाण क्रीयमाण रोचमान क्षोभमानाः)संज्ञायाम्। विकारः (सदृशे) व्यस्तसमस्ते। गृहपति गृहपतिक। (राजाह्नोश्छन्दसि)”। “कृत्योकेष्णुचार्य्यादयश्च” पा० अचारुः।

चार्व्वो = स्त्री चारु + गुणवचनत्वात् स्त्रियां ङीष्। १ चारुत्व युक्तायां स्त्रियां २ ज्योत्स्नायाम् ३ वुद्धौ ४ कुवेरपत्न्याम् च मेदि० ५ दीप्तौ शब्दर०।

चाल = पु० चल–ण। छदिसि १ पटले खनामख्याते गृहाच्छादने तृणादौ त्रिका० भावे घञ्। २ चलने पु० चल–णिच् भावे अच्। ३ चालने पु०।

चालक = त्रि० चल + ण्वुल्। १ स्थामास्तरप्रापके २ अङ्कुशदुर्द्दमगजे पु० त्रिका०।

चालन = न० चल–णिच्–भावे ल्युट्। १ स्थानान्तरनयने २ कम्पने च। “शोषणं मागरस्नाहो पर्वतख च चालनम्” भा० सौ० ८ अ०। करणे ल्युट् ३ चालन्यां न०। “क्षुद्रच्छिद्र समोपेतं चालनं तितौः स्मृतः” इति कर्म्मप्रदीपः।

चालनी = स्त्री चल–णिच् करणे ल्युट्। तण्डुलादे। क्षुद्रांशापसारणार्थे वंशखण्डादिनिर्म्मिते पात्रभेदे तितऔ (चालुनी) अमरः।

चाष = पुंस्त्री चष–भक्षणे स्वार्थे णिच्–अच्। १ नीलकण्ठे खगे अमरः स्त्रियां जातित्वात् ङीष्। “केयूरमण्डलीनां प्रभासन्तानेन क्वचिद्विकीर्य्यमाणचाषः” काद०। “अशोकश्च विशोकश्च नन्दनः पुष्टिवर्द्धनः। हेमतुण्डो मणिग्रीयः स्वस्तिकश्चापराजितः। अष्टौ चाषस्म नामानि चाषं दृष्ट्वा तु यः पठेत्। अथ सिद्धिर्भवेत्तस्थ सिष्टमन्नं वराङ्गने!” इति पठन्ति। “मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च। श्वगोधोलूककाकांश्च शूद्रहत्याब्रत चरेत्” मनुना तद्बघ शूद्रहत्याव्रतमुक्तम् यात्रायां तस्य पूर्वदिगादिभेदेन स्थित्या शुभाशुभम् वृ० स० ८६ अ० उक्त यथा। “चाषशल्वकपुण्याहघण्टाशङ्खरवा उदक्”। “धन्या पकुलचाषौ च सरटः पापदोऽग्रतः”। “अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः”।। तस्य केतुस्थितौ युवराजभयमुक्तं तत्रैव ४३ अ० यथा “क्रव्यादकौशिककपोतककाककङ्कैः केतुस्थितैर्महदुशन्ति भयं। नृपस्य। चाषेण चापि युवराजमयं षदन्ति श्येनो विलोचनभयं निपतन् करोति”। “कृकवाकु जीवजीवकशुकशिखिशतपत्रचाषहारीतः। क्रकरचकोरकपिञ्जलबञ्जुलपारावतश्रीकैः” ४८ अ०।

चास = पु० चष–हिंसायाम् णिच्–अच् पृषो०। १ इक्षुप्रभेदे २ चाषखगे पुंस्त्री मेदि० स्थियां जातित्वात् ङीप्।

चि = आकर्षणेनादाने विमागपूर्व्वकादाने च उभ० द्विक० खा० अनिट्। चिनोति चिनुते। चिनोतु चिनु। अचैषीत् अचेष्ट। चिकाय चिचाय चिक्ये चिच्ये। कर्मणि चीयते अचायि। चिकीषति ते चिचीषति ते। चयनीयम् चेतष्यम् चेयम्। चिन्वन् चिन्वानः। चितः चितिः। काथः चायः चयनम्। अग्निचित् चित्वा आचित्य णिचि चाययति चापयति।

चि = चयने विमागपूर्वकादाने भ्वा० उभ० अनिट्। चयति ते स्वादिवत्

चि = चयने विमागपूर्वकादाने वा० चु० उभ० पक्षे भ्वा० द्विक० अनिट् वा घटादि। चाययतिते चापयतिते चपयति इत्येके अचीचयत् त अचीचपत्। “दुहियाचिरुधिप्रछिभिक्षिचिञामिति” भाष्योक्तेरस्य द्विकर्म्मकत्वम् “अचैषुर्वानरोत्तमाः” भट्टिः। “चिचीषयन्तोध्वरपात्रजातम्” भट्टिः “अन्तरीक्षे नाग्निश्चेतव्य” श्रुतिः। “राजहंस! तव सैव शुम्रता चीयते न च न चापचीयते” काघ्यप्र०।अधि + आधिक्येन चयने। “यएष तपत्येतस्मादेवाध्यचीयतैतस्मिन्नध्यचीयत” शत० व्रा० १०। ४।अमु + पश्चाच्चयने “आ मूलात् शास्त्रामिरनुचितः” ऐतरे० व्रा०अप + हीनतासम्पादने सक०। “यस्यायुरपचीयते” भा० व० १३७८। कर्म्मकर्त्तरि प्रयोगः।अव + अधःस्थित्वा चयने। “फलान्यवाचिनोद्वृक्षान्” मुग्ध०।अव + आ सम्यगाचयने “पुष्पाण्यवाचिन्वतीम्” मा० व० १३१५आ + सम्यक् चयने। “कर्माण्याचिनुतेऽ सकृत्” भाग० ४। २९। ७८। “आचिक्याते च भूयोऽपि राघवौ तेन पन्नगेः” भा० व० १२ व्याप्तौ च “कचाचितौ विव्यगिवागजौ गजौ” किरा०अतु + आ अन्वाचये अन्वाचयशब्दे दृश्यम्सम् + आ + समाह्यरे “यदा तु घाससां राशिः सभामध्ये समाचितः” भा० स० २३०४।उद् ऊर्द्धतश्चयमे उत्तोल्यादाने “उच्चिक्यिरे पुष्पफलं वनानि” भट्टिः।अभि + उद् + समुच्चये अभ्युच्चयशब्दे दृश्यम्सम् + उद् + समुच्चये समाहारे सक० एकमातीयक्रियाम्बयादौ “अपिः पदार्थसंभाव्यगर्हामुज्ञासमुच्चये” सुग्ध० “अपिशब्देन संयोगाभावादिः समुच्चीयते” काव्यप्र०।उप + वृद्धौ अक० वर्द्धने सक०। आनि घर्मे कपालान्यु पचिन्वन्ति वेथसः” तै० त्ति० १। १। ७। २। “अथ–मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः। उपचिन्वन् प्रभां तन्वीम्” कुमा०।नि + निशेषेण चयने समुच्चये च “रथः शरैर्मे निचितः” भा० ७। १४। “स्वदेशे निचिता दोषा अन्यस्स्मिन् कोप- मानताः” सुश्रुतः “त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूकुलम्। चत्वारस्तूपचीयन्ते विप्र आद्यो वणिङ् नृपः” मनुःपरि + परिचये पुनः पुनरनुशीलने। “चरणारविन्दस्य ध्यानपरिचितभक्तियोगः” भाग० ५। ७। १। “मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या” मेघः। “हेतुः परिचयस्थैर्य्ये वक्तुर्गुणनिकैव सा” माघः।प्र + प्रकर्षेण चयने समाहारे च सक० “कर्णिकारान् प्रचिण्वती” भा० आ० ७७वि + विशेषेण चयने। “पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्। मालाकार इवारामे न यथाङ्गारकारकः” भा० उ० ११११ श्लो०सम् + सम्यक् चयने समाहारे “संचिन्वन्ति सदा युक्ता जातरूपञ्च मौक्तिकम्” हरिव० ५२३६

चिकित = त्रि० जु० चि–ज्ञाने कर्मणि क्त “छन्दस्युभयथा” पा० निष्ठायाः सावधातुकसंज्ञायां शप् जुहोत्यादित्वात् तस्व श्लुः द्वित्वम्, कित–ज्ञाने यङ् लुक् पचाद्यच्। संज्ञापूर्ब्बकत्वात् अभ्यासगुणाभावः इति माघवः। १ ज्ञाते २ अतिशयज्ञातरिच “त्वं सोम! प्रचिकितो मनीषा” ऋ० १। ९१। १। अस्य भाष्ये उक्ता व्युत्पत्तिर्दृश्या। २ ऋषिभेदे। तस्यापत्यम् इञ् इञलत्वात् यूनि फक्। चैकितायन तस्य यून्यपत्ये पुंस्त्री। “त्रयोहोद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनोदाल्भ्यः” छा० उ०।

चिकितान = त्रि० कित–ज्ञाने कानच्। १ अभिज्ञे “तपोवसो! चिकितानो अचित्तान्” ऋ० ३। १८। २। “चिकितानः कर्म्माभिज्ञः” मा०। ३ ऋषिभेदे पु०। तस्यापत्यमण् ततः यूनि वा० ढक्। चैकितानेय तस्य यून्यपत्ये। “तद्धापि व्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच” वृ० उ०।

चिकितु = त्रि० कित–ज्ञाने उन् वेदे द्वित्वम्। अभिज्ञे “अचेत्यग्निश्चिकितुर्हव्यवाट्सुमद्रथः” ऋ० ८। ५६। ५।

चिकित्वन् = त्रि० कित–ज्ञाने ङ्बनिप् वेदे नि० द्वित्वम्। ज्ञातरि। “केतेन शर्मन्त्सचते सुषामण्यग्ने! तुभ्यं चिकित्वना” ऋ० ८। ६०। १८।

चिकित्वित् = त्रि० कित–ज्ञाने बा० क्विति वेदे नि० द्वित्वम्। अभिज्ञे “यवयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि” ऋ० ४। ५२। ४। “चिकित्विन् मनसं त्वा देवं मर्तास ऊतये” ऋ० ५। २२। ३।

चिकित्सक = पु० कित–रोगापनयने स्वार्थे सन्–ण्वुल्। रोगापनयनकर्त्तरि वैद्ये अमरः। “पूयं चिकित्सकस्यान्नम्” मनुः। तल्लक्षणादि चिकित्साशब्दे दृश्यम्

चिकित्सा = स्त्री कित–स्वार्थे सन्–भावे अ। रोगप्रती कारे रोगनिवारणोपाये अमरः। अस्य लक्षणभेदाङ्गादिकम् भावप्र० उक्तं यथा “या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते। दोषधातुमलानां या साम्यकृत् सैव रोगहृत्”। क्रियात्र कर्म्म व्याधिर्हन्यतेऽनयेति व्याधिहरणी “करणाधिकरणयोश्चेति” पा० सूत्रेण करणार्थे ल्युट् तथाच। “याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः। सा चिकित्सा विकाराणां कर्म तद्भिषजाम्मतम्”। “या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च। सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत्”। क्रियात्र चिकित्सा। तथा चामरसिंहः “आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम्। उपायः कर्म चेष्टा च चिकित्सा च नवक्रिया इति। अथ चिकित्साविध्युपदेशः। “जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः। वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ। रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्। ततः कर्म्म भिषक् पश्चात् ज्ञानपूर्वं समाचरेत्”। अयमर्थः भिषक् आदौ रोगं परीक्षेत विचारयेत्। ततः पश्चाद्रोगौषघविचारानन्तरं ज्ञानपूर्वं सावधानो न त्ववज्ञाय कर्म चिकित्सामौषधदानादिरूपां समाचरेदित्यर्थः। रोगाज्ञानेन चिकित्साकरणे दोषमाह “यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्। अव्यौ० षधविधानज्ञस्तस्य सिद्धिर्य्यदृच्छया”। स्वैरितया सिद्धिर्भवति नापि भवतीत्यर्थः। अन्यच्च “भेषजं केवलं कर्त्तुं यो जानाति न चामयम्। वैद्यकर्म स चेत् कुर्य्याद्बधमर्हति राजतः”। रोगज्ञाने भेषजाज्ञाने दोषमाह। “यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः। तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्नाविकं विना”। नाविकं कर्णधारं विना यथा नौः सङ्कटे पतति तथा स रोगीत्यर्थः। अन्यच्च “यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक्। स मुह्यत्यातुरं प्राप्य यथा भीरुरिवाहवम्”। रोगौषधयोर्ज्ञाने गुणमाह। “यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः। देशकालविभा- गज्ञस्तस्य सिद्धिर्न संशयः। आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः। भेषजानां विधानेन ततः कुर्य्याच्चिकित्सितम्”। चिकित्सितमित्यत्र भावे क्तः। “विकाराणामकुशलो न जिह्रीयात् कदाचन। न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः”। न जिह्रीयात् न लज्जेत। ध्रुवा नियता। “नास्ति रोगो विना दोषैर्यस्मात्तस्माच्चिकित्सकः। अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्। येन कुर्वन्त्यसाध्यानां चिकित्सां ते भिषग्वराः। अतो वैद्यैः श्रमः कार्य्यः साध्यासाध्य परीक्षणे”। रोगज्ञानोपाया अग्रे वक्ष्यन्ते। “शीते शीत प्रतीकारमुष्णे तूष्णनिवारणम्। कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत्। अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता। क्रिया हीनातिरिक्ता च साध्येष्वपि न सिद्ध्यति”। अयमर्थः। काले चिकित्साऽवसरे अप्राप्तेऽनागते। या क्रिया चिकित्सा। यथा ज्वरे जीर्णतामप्राप्ते तरुणएव कषायदानक्रिया न सिद्ध्यति। या च क्रिया चिकित्सावसरे प्राप्ते न कृता अर्थात् पश्चात् कृता। यथा दाहे कथञ्चिच्छान्ते पश्चाच्छीतलानुलेपनादिक्रिया। तथा हीनातिरिक्ता च क्रिया साध्येष्वपि न सिद्ध्यति। अतिरिक्तां हीनां च क्रियां वर्ज्जयन्नाह। “विकारेऽल्पे महत् कर्म्म क्रिया लघ्वी गरीयसि। द्वयमेतदकौशल्यं कौशल्यं युक्तकर्म्मता। क्रियायास्तु गुणालामे क्रियामन्यां प्रयोजयेत्। पूर्वस्यां शान्तवेगायां न क्रियासङ्करोहितः”। भिन्नरूपाभिस्तु क्रियाभिः साङ्कर्य्यमपि न दोषाय। यतआह “क्रियाभिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः। ताभिस्तु भिन्नरूपाभिः साङ्कर्य्यं नैव दुष्यति”। अतएवोक्तम् “लङ्घनं वालुकास्वेदो नस्यं निष्ठीवनं तथा। अवलेहोऽञ्जनञ्चापि प्राक् प्रयोज्यं त्रिदोषजे”। ज्वर इति शेषः। “नचैकान्तेन निर्द्दिष्टे शास्त्रे निविशते बुधः। स्वयमप्यत्र भिषजा तर्कणीयं चिकित्सता”। यतआह “उत्पद्यते च सावस्था दोषकालबलस्प्रति। यस्य कार्यमकार्य्यं स्यात् कर्म्म कार्य्यं विवर्जितम्”। विवर्जितं कर्म्म कर्त्तव्यं भवतीत्यर्थः। अथ चिकित्सायां फलमाह। “क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्म्मः क्वचिद्यशः। कर्म्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निःफला। आयुर्व्वेदोदितां युक्तिं कुर्व्वाणा विहितां च ये। पुण्यायुर्वृद्धिसंयुक्ता निरोगाश्च भवन्ति ते। नैव कुर्वीत लोभेन चिकित्सां पुण्यविक्रियाम्। ईश्वराणां वसुमतां लिप्सतार्थन्तु वृत्तये। चिकित्मितं शरीरं यो न निष्क्रोणाति दुर्म्मतिः। स यत्करोति सुकृतं सर्वं तद्भिषगश्नुते। न देशो मनुजैर्हीनो न मनुष्या निरामयाः। ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः”। अथ चिकित्साया अङ्गानि। “रोगी दूतो भिषग्दीर्घमायुर्द्रव्यं सुसेवकः। सदौषधं चिकित्सायाम् इत्यङ्गानि बुधा जगुः”। तत्र रोगिणो लक्षणमाह। “रोगो यस्यास्ति रोगी स स चिकित्स्यस्तु यादृश। यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम्”। तत्र चिकि त्स्यः। “निजप्रकृतिवर्णाभ्यां युक्तः सत्वेन चक्षुषा। चिकित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रियः”। सत्वं व्यसनाभ्युदयक्रियादिष्वविह्वलताकरं तेन युक्तः। चक्षुषा चक्षुरुपलक्षितेन। ततोऽन्येनापीन्द्रियेण चिकित्स्यः रोगान्मोचयितव्यः। अन्थच्च “आयुष्मान् सत्ववान् साध्यो द्रव्यवान् मित्रवानपि। चिकित्स्यो भिषजा रोगी वैद्यवाक्यकृदास्तिकः”। आयुर्बेदोऽस्तीति मति र्यस्य आस्तिकः। अथाचिकित्स्यः “चण्डः साहसिको मीरुः कृतघ्नो व्यग्र एव च। शोकाकुलो मुमूर्षुश्च विहीनः करणैश्चयः। वैरी वद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः। भिषजामविधेया। स्युर्नोपक्रम्या भिष ग्विधाः। एतानुपाचरन्वैद्यो बहून् दोषानवाप्नुयात्” चण्डोऽत्यन्त क्रोधशीलः। कृतघ्नो बैद्यकृतोपकारलोपकः। व्यग्रो व्याकुलः। विहीनः करणैश्च यः निजेन्द्रियशक्तिरहितः। वैरी न चिकित्स्यः कदाचिद्रोगोद्रेके अपवादभयात्। वैद्यविदग्धो वैद्यधूर्त्तः। तथा च सुश्रुतः। “स न सिध्यति वैद्यस्तु गृहे यस्य न पूज्यते”। शङ्कितो वैद्यविश्वासरहितः। भिषजामविधेयाः वैद्यवचनाविधायिनः। भिषग्विधाः वैद्यतुल्याः एते नोपक्रम्याः न चिकित्स्याः। अथ दूतस्य लक्षणम्। “यश्चिकित्सकमानेतुं याति दूतः स कथ्यते। स च यादृक् समुचितस्तादृगत्र निगद्यते। दूताःसुजातयो व्यङ्गाः पटवो निर्मलाम्बराः। सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः। सजातयः सुचेष्टाश्च सजीवदिशि सङ्गता। भिषजां समये प्राप्ता रोगिणः सुखहेतवे”। सजातयः रोगिसमानजातयः। “यस्यां प्राणमरुद्वाति सा नाडी जीवसंज्ञिता”। अथ दूतस्य यात्रायां शकुनविचारः। “वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते। न शुनं सौम्यशकुनं प्रदीप्तस्तु सुखावहः”। प्रदीप्तोऽग्निः। दूतो रोगी च रिक्तहस्तो वैद्यं न पश्येत्। तथाच “रिक्तहस्तो न पश्येत्तु राजानं भिषजं गुरुमिति”। अथ वैद्यस्य लक्षणम्। “चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते। स च यादृक् समीचीनस्तादृशोऽपि निगद्यते। तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयङ्कृती। लघुहस्तः शुचिः शूरः सद्योऽपस्करभेषजः। प्रत्युत्पन्नमतिर्धीमान् व्यवसायो प्रियंवदः। सत्यधर्म्मपरो यश्च वैद्य ईदृक् प्रशस्यते”। दृष्टकर्म्मा दृष्टा परेण कृता चिकित्सा येन सः स्वयङ्कृती स्वयं चिचिन्साकुशलः। लघुहस्तः सिद्धि मद्धस्तः। अथ निषिद्धो वैद्यः। “कुचेलः कर्कशस्तब्धो ग्रामीणः स्वयमागतः। पञ्च वद्या न पूज्यन्ते धन्वन्तरिसमा यदि। कर्क्कशः अप्रियवादी स्तब्धः सामिमानः। ग्रामीणः व्यवहाराचतुरः। अथ वैद्यस्य कर्माह। “व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः। एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः”। अस्यायमर्थः व्याधेः सम्यक्परिचयो व्यथाशान्तिकरणं वैद्यस्य कर्म नतु वैद्य आयुषः प्रभुरित्यर्थः। अपरे त्वेवं व्याचक्षते व्याधेस्तत्त्वतः परिचयो वेदनाया शान्तिकरश्च। एतदेव वैद्यस्य वैद्यत्वं किन्तु वैद्य आयुषः प्रभुः आगन्तु मृत्युशतहरणात्। तथा च सुश्रुते धन्वन्तरिः “एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते। तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः”। अयमर्थः अथर्वाणः अथर्वतत्वज्ञत्वेनाथर्वतुल्याः मृत्युमेकोत्तरं शतं प्रचक्षते। तत्रैको मृत्युः कालसंयुक्तः। काल आयुषोऽन्ते शरीरिणामवश्यं संहर्त्ता। सर्वैरुपायैर्निवारयितुमशक्यः। स ब्रह्मादीनायुषोऽन्ते संहरति। यत आह लिङ्गपुराणे कार्त्तिकेयं प्रति महादेवः “ममायु र्ग्रसते कालः कुतः पुत्र!। रसायनमिति”। तेन कालेन संयुक्तः। संहाराय नियुक्तः सोऽवश्यं भावी शेषाः शतं मृत्यवः आगन्तवः आगन्तुरूपहेतुजन्मानः कार्य्यकारणयोरभेदोपचारात्। आगन्तवो हेतवः यथा। “विषमक्षणमजीर्णोऽत्यन्तभोजनञ्च दुर्देशजलपानम्। तथाऽतिबलवैरिव्याघ्रवनमहिषमत्तमातङ्गादिभिर्युद्धम्। दन्द्वशूकेन क्रीडनमत्युच्चवृक्षाग्रारोहणम् बाहुभ्याम् महातरङ्गिणीतरणमेकाकिनो रात्रौ दुर्गे मार्गे गमनम् इत्यादि। आगन्तुहेतुजा गृत्यवो दुर्निमित्ता भावि- भावनबलवत्त्वादायुषि सत्यपि मारयन्वि। यथा तैलवर्त्तिवह्निषु विद्यमानेषु वात्या दीपं नाशयति। तथाच “यथा सत्यपि तैलादौ दीपं निर्वापयेन्मरुत्। एवमायव्यहीनेऽपि हिंसन्त्यागन्तुमृत्यवः”। किन्तु आगन्तुनिमित्तानि निवारयितुञ्च शक्यन्ते। यत आह सुश्रुते चन्वन्तरिः “दोषागन्तुनिवेत्तेभ्यः रसमन्त्रविशारदौ। रक्षेतां नृपतिं नित्यं यत्राद्वैद्य पुरहितौ”। वैद्यमन्त्रिणौ नृपतिं नित्यं यत्राद्रक्षेताम्। कुतः दोषागन्तुनिमित्तेम्यः दोषा निषिद्धाहारविहार दूषिता वातपित्तकफरोगोत्पादकाः। आगन्तवः निषिद्धा विहारा अतिवलवैरिविग्रहादयः ते निमित्तानि येषान्तेभ्यः शतमृत्युभ्यः। वैद्यपुरोहितौ कथं मृत्यु शतं निवारयितुंशक्तौ तत्राह। यतस्तौ रसमन्त्रविशारदौ प्रथमं वैद्यन दिनचर्य्यारात्रिचर्य्यतु चर्य्योक्ताहा रविहाराभ्यां वातपित्तकफधातुमलान् समानेव रक्षति ततो रसज्ञत्वाद्सैर्मृत्युञ्जयादिमिर्निषिद्धाहारविहारदूषितदोषजनितान् विकारान्मृत्युहेतूनपहरति। मन्त्री च सद्वुद्धिदानेन मृत्युहेतुभ्यो निषिद्धविहारेभ्यो नृपतिं निचारयति। तव आगन्तु मृत्यवो निवारयितुं शक्या नत्ववश्यम्भाविनः। अथायुर्विचारः। “भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः। तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत्”। सा च त्रिधा “आसुरी मानुषी दैवी चिकित्सा सा त्रिधा मता। सूत(पारद)प्रधाना देवी स्यात् छेदभेदात्मिकाऽऽसुरी। मानुषी षड्रसा ज्ञेया जपहोमादिसत्कृता। कलौ चाल्पबले लोके मातुषी तत्र पजिता” वद्यकम्।

चिकित्सित = त्रि० कित–स्वार्थे सन् कर्मणि क्त। १ कृतरीगप्रतीकारे। भावे क्त। २ चिकित्सायां न० अमरः। “सूतानामश्वसारथ्यमम्यष्ठानां चिकित्सितम्” मनुना अम्बष्ठानां चिकिसितवृत्तिरुक्ता। चिकित्सा जाताऽस्य तारका० इतच्। ३ जातचिकित्से त्रि०। ४ ऋषिभेदे पु० तस्यापत्यं गर्गा० यञ्। चैकित्सित्य तदपत्ये पुंस्त्री स्त्रियां ङीप् यलोपश्च चैकित्सिती।

चिकित्स्य = त्रि० कित–स्वार्थे सन् कर्मणि थत्। प्रतीकार्य्ये चिकित्साशब्दे उदा०। “क्षेत्रियच् परक्षेत्रे चिकित्स्यः” पा०। भेषजैः स चिकित्स्यः खात् य उन्मार्गेण गच्छति” भा० शा० १४ अ०। “अन्धीऽचिकित्स्यरोगाद्या भर्त्तव्यास्ते निरंशकाः” या०।

चिकिन = त्रि० निनता नासिका इनच् “पिटच्चिकचि च” वार्ति० इगच् प्रकृतेश्च चिक्यादेशः। निनतनासिके (खा~दा)

चिकिल = पु० चि–वा० इलच् कुक् च। पङ्के हेम०।

चिकीर्षक = त्रि० कृ–सन–ण्वुल्। कर्त्तुमिच्छौ अत्र ण्वुलोलित्त्वात् “लिति” पा० प्रत्ययात् पूर्ब्बस्योदात्तता। अत्र “न पदान्तद्विर्वचनवरेयलोपस्वरेत्यादि” पा०। करोतेः सनन्ताव् ण्वुल् अतोलोपः स च लितीति स्वरे कर्त्तव्ये न स्थानिवत्। इति मनोरमोक्तेः स्वरे कर्त्तव्ये अल्लोपस्य न स्थानिबत्त्वम्।

चिकीर्ष्य = त्रि० कर्त्तुमेष्यम् कृ–सन् कर्मणि यत्। कर्त्तुमेष्ये अत्र यतस्तित्त्वात् “तित्स्वरितम्” पा० स्वरितस्वरः

चिकुर = पु० चि इत्यव्यकं शब्दं कुरति कुर–क। १ केशे, अमरः “चिकुरप्रकराः जयन्ति ते” नैष० ३ वृक्षभेदे, ३ पर्वते, ४ सरीसृपे च। ५ चपले, तरले, ६ चञ्चले च त्रि० मेदिनी। चपलश्च दोषमनिश्चित्य बधबन्धनादिकारी। अत्र सर्पः सर्पभेदः सुमुखपिता यथाह” मा० उ० १०२ अ० “ऐरावतकुले जातः सुमुस्वोनाम नागराट्। आर्य्यकस्य मतः पौत्रो दौहित्रो वामनस्य च। एतस्य हि पिता नागश्चिकुरोनाम मातले!। नचिराद्वैनतेयेन पञ्चत्वमुपपादितः। ततोऽव्रवीत् प्रीतमना मातलिर्नारदं वचः। एष मे रुचितस्तात! जामाता भुजगोत्तमः। क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै। अस्यै नागाय वै दातुं प्रियां दुहितरं मुने!”। कचार्थकात् अस्मात् समूहार्थे पक्ष पाश हस्त प्रत्ययाः। चिकुरपक्ष चिकुरपाश चिकुरहस्त केशसमूहे पु०। चिकुर + कृतौ णिच् कर्म्मणि क्त। चिकुरित चञ्चलीकृते त्रि०। “आरक्तचिकुरितेक्षणाम्” काद०।

चिकूर = पु० चिकुर + पृषो०। केशे शब्दभेदप्रकाशः।

चिक्क = पीडने चु० उम० सक० सेट्। चिक्कयति ते अचिचिक्कत् त।

चिक्क = पु० चिक् इत्यव्यक्तेन शब्देन कायति कै–क। छु छुन्दर्य्याम्। (छु~ छो) त्रिका०

चिक्कण = पु० चिक्क–क्विप् चिक् तं कणति कण–शब्दे अच्। १ गुवाकवृक्षे। २ तत्फले न० राजनि०। ३ मसृणे स्निग्धे (चिकण) त्रि०। शब्दमा० ४ चिक्वणगुणवत्याम् उत्तमायां गवि स्त्री। अमरः “कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः” भा० शा० १८४ अ०। गौरा० ङीष्। पूगवृक्षे हरीतक्या० तत्फले च स्त्री राजनि०। अस्य कन्थान्त तत्पुरुषं क्लीवता चिहणा० आद्युदात्तता च चिक्कणकन्थम्।

चिक्कस = पु० चिक्क–असच्। यवचूर्णे हेमच०।

चिक्का = स्त्री चिक्क–अच्। १ पूगवृक्षे राजनि०। २ तत्फलेऽपि स्त्री

चिक्किर = पु० चिक्क–बा इरच्। मूषिकभेदे। लन्दुरशब्दे ११८८ पृ० दृश्यम्। “लालनः पुत्रकः कृष्णोहंसिरश्चिक्किस्तथा” सुश्रुत०।

चिक्लिद = त्रि० क्लिद–यङ् लुक् अच् नि०। अतिशयक्लेदयुक्ते।

चिङ्गट = पु० चिङ्गड + पृषो०। मत्स्यभेदे हारा०। “चिङ्गटस्तु गुरुर्ग्राही मधुरो बलवर्द्धनः। मेदःपित्ताम्ल नाशी तु वृष्योरोचनकृत्तथा। कफवातकरो ज्ञेयः” राजवल्ल०। अल्पार्थे ङीप्। (घुषाचिङ्डी) क्षुद्रचिङ्गटे “चिङ्गटी मधुरा हृद्या कफवातविनाशिनी गुर्वी श्लेष्मकरी ज्ञेया” राजव०।

चिङ्गड = पु० चिमित्यव्यक्तशब्देन गल्यते भक्ष्यते गल भक्षेकर्मणि घञर्थे संज्ञायाम् क लस्य डः। (चिङ्डी) मत्स्यभेदे शब्दमाला

चिच्चिण्ड = पु० चि–बा० इण्डच् चुक् च। फलप्रधाने वृक्षे भावप्र०। “चिच्चिण्डो वातपित्तघ्नः पथ्यो बलरुचिप्रदः। शोषिणोऽतिहितोज्ञेयः पटोलात् किञ्चिदूनकः” तद्गुणा उक्ताः।

चिच्छिटिङ्ग = पु० चीयते चि–कर्म्मणि क्विप् चिदग्निः तत्र चिटिं प्रेषणं गच्छति गम–ड पृषो० मुम्। कीटभेदे कीटशब्दे २०५८ पृ० सुश्रुतवाक्यं दृश्यम्।

चिच्छक्ति = चिदेव शक्तिः। चैतन्ये संक्षेपशारीरकम् “चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते”। “चिच्छक्तिरस्ति परमात्मनि तेन सोऽपि व्यक्तो जगत्सु विदितोभवकृत्यकर्त्ता। कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन् कर्त्तुं विहर्त्तुमपि सञ्चलितुं स्वशक्त्या” देवीभागवतम्। “मायास्यदस्य चिच्छक्त्या चैतन्यं स्थितमात्मनि” भाग० १। ७। २४।

चिच्छायापत्ति = स्त्री चिति वृद्ध्यादेः, बुद्ध्यादौ वा चितेः छाया प्रतिविम्बः तस्या आपत्तिः। सांख्यमते १ चितौ बुद्ध्यादेः प्रतिविम्बप्राप्तौ वेदान्तिमते २ बुद्ध्यादौ चितः प्रतिविम्बनप्राप्तौ च। चित्प्रतिविम्बस्वीकारश्च सोपपत्तिकः “अन्तःकरणस्य तदुज्ज्वलितत्वाल्लोहवदधिष्ठातुत्वम्” सां० सू० भाष्ये समर्थितस्तच्च वाक्यं १९५। ९६ पृ० उक्तम् ततः शेषन्तु “ननु प्रतिबिम्बहेतुतया संयोगविशेषावश्यकत्वे प्रतिविम्बकल्पना व्यर्था प्रतिविम्बकार्य्यस्यार्थज्ञानादेः संयोगविशेषादेव सम्भवादिति। मैवम्। बुद्धौ चैतन्यप्रतिबिम्बश्चैतन्यदर्शनार्थं कल्प्यते दर्पणे मुखप्रतिविम्बवत्। अन्यथा कर्मकर्तृविरोधेन स्वस्य साक्षात् स्वदर्शनानुपपत्तेः। अयमेव च चित्प्रतिविम्बो बुद्धौ चिच्छायापत्तिरिति चैतन्याध्यास इति चिदावेश इति चोच्यते। यश्च चैतन्ये बुद्धेः प्रतिविम्बः स चारूढविषयैः सह बुद्धेर्भानार्थमिष्यते। अर्थाकारतयैवार्थग्रहणस्य बुद्धेरन्यत्र स्थले दृष्टत्वेन तां विना संरोगविशेषमात्रेणार्थभानस्य पुरुषेऽप्यनौचित्यात् अर्थाकारस्यैवार्थग्रहणशब्दार्थत्वाच्चेति। स चार्थाकारः पुरुषे परिणामो न सम्भवतीत्यर्थात् प्रतिविम्बरूप एव पर्यवस्यतीति दिक्। स चायमन्योऽन्यप्रतिबिम्बो योगभाष्ये व्यासदेवैः सिद्धान्तितः। “चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायत” इत्यादिना। अन्तःकरणस्यैकत्वेऽपि वृत्तिभेदाद्भेदः सा० प्र० भाष्ये समर्थितस्तद्वाक्यञ्च अन्तःकरणशब्दे १९५ पृ० उक्तम्

चिच्छिल = पु० १ देशभेदे २ तद्वासिषु ब० व०। मेलकैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः” भा० भी० ८८ अ०।

चिञ्चा = स्त्री चिमित्यव्यक्तं शब्दं चिनोति चि–ड। १ तिन्तिडीवृक्षे अमरः। तत्फले अण् हरितक्या० लुपि व्यक्तिवचनत्वात् स्त्री। स्वार्थे क। २ गुञ्जायां चिञ्चिकाप्यत्र गौरा० ङीष्। चिञ्चीत्यप्यत्र केचित्

चिञ्चिड = पु० चिमित्यव्यक्तशब्देन चिडति चिड–वासे। चिञ्चिण्डवृक्षे भावप्र०। चिञ्चिण्ड इत्यत्र चिच्चिड इति पाठः गुणास्तु चिच्चिण्डशब्दोक्ताः

चिञ्चाटक = पु० चिञ्चेवाटति अट–ण्वुल्। (चे~चको) तृणु भेदे रत्नमा०। चिञ्चोटक इत्यपि पाठः तत्रार्थे पृषो०

चिञ्चाम्ल = न० चिञ्चेवाम्लम्। अम्लशाके! (आमरुल) राजनि०।

चिञ्चासार = पु० चिञ्चाया इव सारोऽस्य। अम्लशाके (आमरुल) राजनि०।

चिट = प्रेषणे भ्वा० पर० सक० सेट्। चेटति अचेटीत्। चिचेट–चेटः चेटी।

चिट = प्रेषणे चु० उभ० सक० सेट्। चेटयति ते अचीचिटत् त

चिटी = स्त्री चिट–क गौरा० ङीष्। चण्डालवेशघारिण्यां योगिन्याम् तन्मन्त्रप्रयोगः तन्त्रसारे उक्तो यथा। “तारं चिटिद्वयं ब्रूयाच्चाण्डालि च ततः परम्। महदाद्यं ततो ब्रूयादमुकं मे ततः परम्। वशमानय ठ–द्वन्द्वं चिटिमन्त्र उदाहृतः (ओं चिटि! चिटि! महाचाण्डालि अमुकं मे वशमानाय स्वाहा) सप्तभिर्दिवसैर्भूपान् वशयेद्विधिना जनः”। विधि माह। “विलिख्य तालपत्रे तं साध्यनाम्नाधिगर्भितम्। निःक्षिप्य क्षीरसंमिश्रे जले तत्क्वाथयेन्निशि। वश्यो भवति साध्योऽस्य नात्र कार्य्या विचारणा। तालपत्रे लिखित्वैनं भद्रकालीगृहे खनेत्। वश्याय सर्वजन्तूनां प्रयोगोऽयमुदाहृतः”।

***