चल = गतौ भ्वा० पर० सक० सेट्। चलति अचालीत्। चचाल। चेलतुः। चलन् चलितः ज्वलादि० चालः पचा० चलः। “कृष्णेन निहते चैद्ये चचाल च वसुन्धरा” भा० सा० ४४ अ०। “चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्” चाण०। “तिलमात्रमपि चलितुं न शक्नोति” पञ्चत०। आर्षे आत्म०। “न धर्माच्चलते वुद्धिर्धर्मराजस्य धीमतः” भा० स० ७८ अ०। णिचि। चलयति चालयति। “चालयन् वसुवां चेमां बलेन चतुरङ्गिणा” भा० आ० ९४ अ० कम्पने अक० मिच्च। चलयति ते। अचीचलत् “चलयन् भृङ्गरुचस्तवालकान्” रघुः “तां प्राविशत् कपिव्याघ्रस्तरूनचलयन् शनैः” भट्टिः। “यूनां मनश्चलयति प्रसभं नभस्वान्” ऋ० स० गत्यर्थस्य न मित्त्वम् “मिच्चले” इति कविकल्पद्रुमे कम्पार्थएव तस्य मित्त्वोक्तेः “आचालयेयुः शैलांस्ते क्रुद्धाभिन्द्युर्महीतले” हरिव० ५४ अ०। पर्वतानाञ्च शिखराण्याचालयति वेगवान्” भा० शा० १५४ अ०।उद् + ऊर्द्ध्वगमने उत्कम्य गतौ “पुष्पोच्चलितषट्पदम्” रघुः उत्थाय गतौ च। “उच्चलितः प्रयाताम्” रघुः।वि + विशेषेण चलने। “व्यचालीदम्भसां पतिः” भट्टिः।

चल = विलासे तु० प० अ० सेट्। चलति अचालीत् चचाल।

चल = मृतौ पोषणे चु० सक० उभ० सेट्। चालयति ते अचिचलत्।

चल = त्रि० चल वा पचा० अच्। १ तरले, चञ्चले, २ कम्बयुक्ते अमरः। ३ परमेश्वरे पु०। “धूताशीरचलश्चलः” विष्णु स०। “न स्वरूपान्न सामर्थ्यात् नच ज्ञानादिकात् गुणात्। चलनं विद्यते यस्मादचलः कीर्त्तितोऽच्युतः” स्मृतेः। वायुरूपेण चलतीति चलः” भा०। कम्पार्थकचलतेः स्वार्थे णिचि भावे अच्। ४ कम्पने मेदि०। “मिच्चले” कविकल्प०। चलनं च रजसः कार्य्यं यथाह सा० का० “सत्वं लघु प्रकाशकमिष्टमुपष्टम्मकं चलञ्च रजः”। “सत्वतमसी स्वयमक्रियतया खखकार्य्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्याव्य स्यकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते। तदिदमुक्तमुपष्टम्भकम् इति। कस्मादित्यत उक्तं चलमिति। तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम्। रजस्तु चलत् परितस्त्रैगुण्यै चालयद्गुरुणाऽऽवृण्वता च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धेन क्वचिदेव प्रवर्त्त्यते”। सा० त० कौ०। “म्भौन्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः” वृ० र० उक्ते अष्टादशाक्षरपादके ५ वर्णवृत्तभेदे न० “स वृत्तचूलश्चलकाकपक्षकैः” रघुः। “यथाम्भसा प्रचलता तरवोऽपि चला इव” भाग० ७। १। २३। “न खलु प्रेम चलं सुहृज्जने” “प्रायश्चलं गौरवमाश्रितेषु” कुमा०

चलकेतु = पु० कर्म्म०। केतुभेदे स च “अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रितया। गच्छेत् यथा यथोदक् तथा तथा दैर्घ्यमायाति” वृ० स० ११ अ०। उक्तः

चलचञ्चु = पुंस्त्री चला चञ्चुरस्य। चकोरखगे हेम०।

चलत्पूर्ण्णिमा = स्त्री चलन्ती पूर्ण्णिमा तदुपलक्षितः चन्द्र इव। (चा~दा) चन्द्रकमीने त्रिका०।

चलदङ्ग = पुंस्त्री चलन्ति अङ्गान्यस्य। (चेङ्चा) मत्स्यभेदे राजनि०। वा कप्। चलदङ्गक तत्रार्थे जटा०।

चलदल = पु० चलानि चञ्चलानि दलान्यस्य। अश्वत्थवृक्षे अमरः। चलपत्रादयोऽप्यत्र। “अङ्गेन (स्त्रीचिह्नभेदेन) केनापि विजेतुमस्या गवेष्यते किं? चलपत्रपत्रम्। न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतोभयेन” नैष०। तस्य कम्पयुक्तपत्रता वर्ण्णिता।

चलन = न० चल–भावे ल्युट्। १ कम्पे २ गतौ च। कर्त्तरि ल्यु। ३ कम्पयुक्ते त्रि० मेदि०। ४ हरिणे पुंस्त्री जटा० जाति त्वात् स्त्रियां ङीष्। करणे ल्युट्। ५ चरणे हेमच०।

चलनक = न० चलन + संज्ञायां कन्। चण्डातके हेमच०।

चलनी = स्त्री चलत्यत्र चल–आधारे ल्युट् ङीप्। १ गजबन्धन्यां वार्य्याम् २ घर्घव्याञ्च (घाघरा) वस्त्रभेदे हेमच०।

चलसंक्रान्ति = स्त्री कर्म्म०। अयनांशचलनभेदात् तत्तद्राशिविशेषांशे रव्यादेः प्रभामुञ्जसञ्चारे अयन संक्रान्तिशब्दे ३२८ पृ० विवृतिः।

चला = स्त्री चल–अच्। १ लक्ष्म्यां मेदि० २ सिह्लके गन्धद्रव्यभेदे च रत्नमा०।

चलाचल = त्रि० चल–अच् नि०। १ चञ्चले अमरः २ काके पुंस्त्री राजनि० स्त्रियां जातित्वात् ङीष्। “चलाचलैरनुपदमाहताः खुरैः” माघः। “जान्मनोऽस्य स्थितिं विद्वान् लक्ष्मीमिव चलाचलाम्” किरा०।

चलातङ्ख = पु० चलस्य चलगस्यातङ्गोभयमस्मात्। वातामय भेदे राजनि०।

चलित = त्रि० चल–कर्त्तरि क्त। १ कम्पिते अमरः। २ गते “चलितवर्वलपक्षपरिग्रहः” “चलितः पुरः पतिमुपेतमात्मजम्” माघः। २ प्राप्ते ३ ज्ञाते च त्रि०। भावे क्त। ४ चलने ५ गतौ” च न०।

चलु = पु० चल–उन्। गण्डूषे हेमच०।

चलुक = पु० चलुना मीयते कन्। १ प्रसृतौ २ भाण्डभेदे च मेदि०।

चलेषु = पु० चलो लक्ष्यमप्राप्त इषुर्यस्य। लक्ष्यमप्राप्तवाणके मन्दधानुष्के। अत्र “उदराश्वेषु क्षेपे” पा० इषु शब्देपरे क्षेपे पूर्व्वपूर्व्वपदस्यान्तोदात्तताविघानात् पूर्व्वपद्रमन्तोदात्तम्।

चवर्ग = पु० च + प्रातिशाख्योक्तः वर्गप्रत्ययः ६ त० वा। तालुस्थानोच्चरितानां स्पर्शवर्णानां वर्गे (च छ ज झ ञ) वर्णेषु। ततः “वर्गान्ताच्छः” पा० छ। चवर्गीय तद्वर्गभवे त्रि०।

चवल = पु० चर्व–बा० अलच् पृषो०। राजमाषे कलायभेदे शब्दार्थचि०।

चवि = स्त्री चर्व–इन् पृषो०। चव्ये(चै)शब्दर०। वा ङीप्। तत्रार्थे शबर०

चविका = स्त्री चवि + स्वार्थे क। चव्ये अस्य क्लीवत्वमाह रुद्रः “कटूष्णा चविका लघ्वी रोचनी दीपनी मता। जन्तूद्रेकश्वासकासशूलरोगविमर्द्दिनी” राजनि०। “भेदिनी कफनाशिनी” इत्यधिकं राजबल्लेभेनोक्तम्।

चव्य = न० चर्व–कर्म्मणि ण्यत् पृषो०। १ चविकायाम् तस्य स्त्रीत्वमप्याह भरतः। स्वार्थे क चव्यिका तत्रार्थे राजनि०। सा च २ वचायां मेदि०।

चव्यजा = स्त्री चव्यमिव जायते जन–ड। गजपिप्पल्याम् राजनि०।

चव्यफल = न० चव्यमिव फलति फल–अच्। गजपिप्पल्याम् राजनि०।

चव्यादि = न० “चव्यं त्रिकटुकं पाठा क्षीरं कुस्तुम्बुरूणि च। यमानी पिप्पलीमूलमुभे च विडसैन्धवे। चित्रकं विम्बमभयां पिष्ट्वा सर्पिर्विपाचयेत्। शकृद्वातानुलौम्यार्थं जाते दध्नि चतुर्गुणे। प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्। गुदवङ्क्षणशूलञ्च वृतमेतद्व्यपोहति” चक्रदत्तोक्ते घृतभेदे।

चष = भक्षे भ्वा० उभ० सक० सेट्। चषति ते अचषीत् अचाषीत् अचषिष्ट चचाष चेषतुः चेषे।

चष = बधे भ्वा० प० सक० सेट्। चषति अच–(चा)षीत्।

चषक = पु० न० चष–करणे क्वुन् अर्द्धर्चादि। १ मद्यपानपात्रे अमरः। तल्लक्षणादिकं युक्तिकल्यतरावुक्तम् यथा “यत् पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधेः। कानकं राजतं चैव स्फाटिकं काचमेव च। वृत्तं स्वराष्टदिक्वं च चतुर्णां पृथिवीभुजाम्। इत्यन्यसम्मतं तेषां निर्णयः पाठसम्मतः। स्वमुष्टिसम्मितं रत्नैश्चतुर्वर्णैः समन्वितम्। मार्त्तिकं वाथ फालं वा सर्वेषामुपयुज्यते। काष्ठजं धातुजं शैलं जाङ्गलादिमहीभुजाम्। यदन्यत्तोयपानादिपात्रं पृय्वीभुजां भवेत्। एवं तत्रापि नियम इति भोजस्य सम्मतः” “आननैः परिहृतं चषकान्तः” माघः। कर्मणि क्वुन्। २ मधुनि, ३ मद्यभेदे च न० मेदि०

चषति = पु० चष–भक्षे बधे वा भावे अति। १ भक्षे २ बधे च सि० कौ०।

चषाल = पु० न० चष–आलच् अर्द्धर्च्चादि। यूपकटके यज्ञियपशुबन्धनार्थे यूपमध्येदेये बलयाकारे काष्ठमये लौहमये वा पदार्थे अमरः। तल्लक्षणादिकमुक्तं का० श्रौ० ६। १। २८। सूत्रादौ “अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसंगृहीतम्” २८ सू० “यूप परिवासनानन्तरं यदवशिष्टं पृथक्कृतमग्रम् ततश्चषालं कर्त्तव्यम् प्रसारिताङ्गुलिः पाणिरामणिवन्धनान् पृथक् इत्युच्यते चषालमिति संज्ञा सं व्यवहारार्था “आ चषालेक्षणात्” इत्यादौ। अष्टाश्रि अष्टकोणम् तदपि तक्षणेनाष्टकोणं कुर्य्यात् तक्षैव। उलूखलवन्मध्ये संकुचितम्” कर्कः। “ऊर्द्धमग्रे प्रतिमुञ्चति” २९ सू० “तच्चषालं यूपस्याग्रे ऊर्द्ध्वं प्रतिमुञ्चति अतएवोर्द्धप्रतिमोकविधानाच्चषालस्य तथा बेधः कार्यः। प्रतिमुञ्चतीति वचनाच्च चूडाग्रो यूपः चषालं च ससुषिरमिति गम्यत इति हरिस्वामिनः तथा चाहापस्तम्बः “मूलतोऽतष्टमुपरम् अष्टाश्रिरनु पूर्वोऽग्रतोऽणीयान् प्रज्ञाताष्टाश्रिरिति” कर्क० “द्व्यङ्गुलं त्र्यङ्गुलं वां तर्द्मातिक्रान्तं यूपस्य” ३० सू० “यूपस्य यूपाग्रस्य द्व्यङ्गुलं त्र्यङ्गुलं वा चषालं तर्द्मातिक्रान्तं चषालच्छिद्राग्रवेधादतिक्रान्तं भवति अतिक्रम्योर्द्ध्वं निःसृतं भवति तथा चषालस्योर्द्धं प्रवयणं कर्त्तव्यम् यथा चषालो यूपाग्रादधो द्व्यङ्गुले त्र्यङ्गुले वा तिष्ठतीत्यर्थः” कर्कः “भूश्चषालतुलिताङ्गुलीयकम्” माघः

चह = कल्के (प्रतारणे) भ्वा० पर० सक० सेट्। चहति अचहीत्। चचाह चेहतुः।

चह = कल्के (प्रतारणे) अद० चुरा० उभ० सक० शेट्। चहयति–ते अचुचहत् त। चहयां, बभूव आस–चकार चक्रे।

चह = कल्के प्रतारणे चुरा० उभ० सक० सेट् घटा० चहयति ते अचीचहत्–त।

चाकचक्य = न० चक–अच् चकः प्रकारे द्वित्वं चकचकस्तस्य भावः ष्यञ्। उज्ज्वलतायाम्। “नहि लोकसिद्धसामग्री पातिभासिकरजतोत्पादिका किन्तु विलक्षणैव। तथाहि। काचादिदोषदूषितलोचनस्य पुरोवर्त्तिद्रव्यसंयोगादिदमाकारा चाकचक्याकारा च काचिदन्तःकरणवृत्तिरुदेतीति” “चाकचक्यसंदर्शनसमुद्बुद्धरजतत्वसंस्कारसध्रीचीना” इति च वेदान्त० प०। पृषो०। चाकचिक्यमप्यत्र शब्दार्थचि०।

चाकचिच्चा = स्त्री चक–घञ् चाकं दीप्तिं चिनोति चिक्विप् तथासती चीयते चि–बा० ड। श्वेतबुह्नायां रत्नमा०।

चाक्र = त्रि० चक्रेण निर्वृत्तम् अण्। चक्रनिर्वृत्ते “चाक्र मौषलमित्येवं संग्रामं रणवृत्तयः” हरिवं० १०० अ०।

चाक्रवर्म्मण = पु० चक्रवर्म्मणोऽपत्यम् अण् न टिलोपः। चक्रवर्म्मणोऽपत्ये व्याकरणाचार्य्यभेदे। “कपश्चाक्रवर्मणस्य” उणा० ३। १। ३ सू०। “इ ३ चाक्रवर्मणस्य” पा० ६। १। ३ सू०।

चाक्रवाकेय = त्रि० चक्रवाकस्यादूरदेशादि चतुरर्थ्यां सख्या० ढञ्। चक्रवाकसमीपादौ।

चाक्रायण = पु० चक्रस्यर्षेर्गोत्रापत्यम् अश्वादि० फञ्। चक्रस्यर्षे गोत्रापत्ये उषस्तौ “मटचीहतेषु कुरुषृ उषस्तिर्ह चाक्रयण इभ्यग्रामे प्रद्राण आस” छा० उ०।

चाक्रिक = त्रि० चक्रेण समूहेन यन्त्रभेदेन चक्रयुक्तशकटेन वा चरति ठक्। संधीभूय मिलित्वा स्तुतिपाठके १ वाण्टिके अमरः “पिशुनानृतिनां चैव तथा चाक्रिकवन्दिनाम्” याज्ञ०। “चाक्रिको घोषयामास पुरुषो मृष्टकुण्डलः” हरिव० १५९ अ०। २ तैलकारे हेमच० ३ शाकटिके (गाडओयान) ख्याते च शब्दार्थचि० “भिक्षुकांश्चाक्रिकांश्चैव क्लीवोन्मत्तान् कुशीलवान्। बाह्यान् कुर्य्यान्नरश्रेष्ठो दोषाय ते स्युरन्यथा” भा० शा० ६९ अ०।

चाक्रेय = त्रि० चक्रेण निर्वृत्तादि चक्र + सख्या० चतुरर्थ्यां ढञ्। चक्रनिर्वृत्तादौ।

चाक्षुष = न० चक्षुषा गृह्यते चक्षुस् + शैषिकोऽण्। चक्षुर्ग्राह्ये १ रूपादौ २ तद्वति त्रि०। तद्ग्राह्यविषयाश्च चक्षुर्विषयशब्दे २८४२ पृ० दृश्याः। चक्षुषा निर्वृत्तः अण्। ३ प्रत्यक्षे न०। तज्ज्ञाने चक्षुषः करणत्वेऽपि विषयभेदेन तस्य व्यापारभेदा भाषा० उक्ता यथा “द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः। द्रव्येषु समवेतानां तथा तत्समवायतः। तत्रापि समवेतानां शब्दस्य समवायतः। तद्वृत्तीनां समवेतसमवायेन तु ग्रहः”। द्रव्यचाक्षुषं प्रति चक्षुःसंयोगोव्यापारः। द्रव्यसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायः। द्रव्यसमवेतसमवेतचाक्षषं प्रति चक्षुःसंयुक्तसमवेतसमवायः”। चक्षुषोऽपत्यम्। चक्षुर्नामकस्य रिपुञ्जयनृपस्य पुत्रे षष्ठे मनुभेदे तत्कथा यथा “चक्षुषा ब्रह्मदौहित्र्यां वीरिण्यां स रिपुञ्जयः। वीरणस्यात्मजायान्तु चक्षुर्मनुमजीजनत्। मनुर्वै राजकन्यायां नड्वलायां स चाक्षुषः। जनयामास तनयान्दश शूरानकल्मषान्। ऊरुः पूरुः शतद्युम्न स्तपस्वी सत्यवाक् हविः। अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः। अभिमन्युस्तु दशमो नड्वला यामजायत” मत्स्यपु० ४ अ०। “षष्ठं ते सम्प्र वक्ष्यामि तन्निवोध नराधिप!। भृगुर्न्नभो विवस्वांश्च सुधामा विरजास्तथा। अतिनामा सहिष्णुश्च सप्तैते तु महर्षयः। चाक्षुषस्यान्तरे तात! मनोर्द्देवा निमान् शृणु। आप्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः। लेखा नाम महाराज! पञ्च देवगणाःस्मृताः। ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः। नाड्वलेया महाराज! दश पुत्रास्तु विश्रुताः। ऊरुप्रभृतयो राजन्! षष्ठं मन्वन्तरं स्मृतम्” हरि० ७ अ०

चाक्ष्म = त्रि० चक्ष–बा० म पृषो०। द्रष्ट्ररि “चाक्ष्मो यद्वाचं भरते मती” ऋ० २। २४। ९। “चाक्ष्मः सर्व्वस्य द्रष्टा” भा०।

चाङ्ग = पु० चीयते चि–ड चमङ्गमस्य। १ चाङ्गेर्य्यां रायमु०। चमङ्गं तदवयवो दन्तोऽस्मात्। दन्तपटुत्वे शब्दार्थचि०।

चाङ्गेरी = स्त्री चाङ्गं दन्तपटुत्वमीरयति ईर–अण् उपस० गौरा० ङीष्। अम्ललोणिकायाम् (अमरुल) अमरः। “चाङ्गेरी दीपनी रुच्या लघूष्णा कफवातनुत्। पित्तलाम्ला ग्रहण्यर्शःकुष्ठातीसारनाशिनी” भावप्र०।

चाङ्गेरीघृत = न० चक्रदत्तोक्ते चाङ्गेरीपक्वे घृतभेदे तत्पाकविधिर्यथा “नागरं पिप्पलीमूलं चित्रकं हस्तिपिप्पली। श्वदंष्ट्रा पिप्पली धान्यं विल्वं पाठा यमानिका। चाङ्गेरीसरसे सर्पिः कल्कैरेतैर्विपाचितम्। चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत्। अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्। गुदभ्रंशार्त्तिमानाहं घृतमेतद् व्यपोहति” चक्रदत्तः

चाट = पु० चु० चट–भेदे अच्। आदौ विश्वासमुत्पाद्य पश्चात् धनापहर्त्तरि चौरे “चाटचारणदासेषु दत्तं भवति निष्फलम्” स्मृतिः। “चाटतस्करदुर्वृत्तमहासाहसिकादिभिः। पीड्यमानाः प्रजारक्षात् कायस्थैश्च विशेवतः” याज्ञ०। “चाटाः प्रतारकाः विश्वास्थ ये परधनमपहरन्ति” मिताक्षरा

चाटपुट = पु० “गुरुर्लघु प्लुतश्चैव भवेच्चाटपुटामिधः” सङ्गीतदामीदरोक्ते तालभेदे।

चाटु = पु० न० चट–ञुण्। १ प्रियवाक्ये २ मिथ्याप्रियवाक्ये (खोसामुदेरकथा) च। “कुर्वन् चाटुसहस्राणि अव्यक्तकलया गिरा” हरिवं० २०। “नो चाटुश्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः” सा० द०। स्वार्थे क। अत्रैवार्थे “विश्रब्धचाटुकशतानि रतान्तरेषु” सा० द०

चाटुकार = त्रि० चाटुं करोति। हेत्वादौ प्राप्तस्य टस्यापवादेन “न शब्दश्लोकेत्यादिना” पा० अण्। सतत चाटुवाक्यकर्त्तरि। “चाटुकारमपि प्राणनाथं रोषादपास्य या” सा० द०।

चाटुपटु = पु० ७ त०। भण्डे (भा~ड) हारा०।

चाटु(टूल्लो)लोल = त्रि० चाटुषु लोलः (उल्लोलः)। (खोसामुदे) चाटुकारे हारा०।

चाटुवटु = पु० ७ त०। विदूषके क्रीडासहचरे भण्डे।

चाटूक्ति = स्त्री ६ त०। प्रियकथने। चाटुवाक्यस्योक्तिर्यत्र। २ सेवायाम् हारा०।

चाणक = पुंस्त्री चाणक्यस्य छात्रः अण् यलोपः। चाणक्यछात्रे।

चाणकीन = न० चणकस्य भवनं क्षेत्रं ख। चणकोत्पत्ति योग्यक्षेत्रे।

चाणक्य = पु० चणकस्य मुनेर्गोत्रापत्यम् गर्गा० यञ्। १ वात्स्यायने चन्द्रगुप्तमन्त्रिणि कौटिल्ये “नव नन्दा भविष्यन्ति चाणक्योयान् हनिष्यति” विष्णु पु०। चन्द्रगुप्तशब्दे दृश्यम् सहि नन्दवंशोत्खातेन मौर्य्यं चन्द्रगुप्तं राज्येऽभिषिक्तवान्। वृहत् कथायां तद्विवृतिः। चाणक्येन प्रोक्तम् अण्। तत्कृतग्रन्थे २ नीतिशास्त्रभेदे च। “चाणक्यं सारसंग्रहम्” चाणक्यम्। चणक + स्वार्थे ष्यञ्। ३ चणकशब्दार्थे।

चाणक्यमूलक = न० चणक एव चाणक्यम् तदिव मूलमस्य। (चणकमूली) ख्याते मूलकभेदे। शब्दार्थचि०

चाणू(नू)र = पु० कंसानुचरे मल्लयुद्धाभिज्ञेऽसुरभेदे। “नागं कुवलयापीडं चाणू(नू)रं मुष्टिकं तथा” हरिव० ४२ अ०। “वराहश्च किशोरश्च मतौ दानवसत्तमौ। मल्लौ रङ्गगतौ तत्र यातौ चाणू(नू)रमुष्टिकौ” हरिवं ०५५ अ०। अस्य दन्त्यनकामध्यतेति केचित्।

चाणू(नू)रसूदन = पु० चाणू(नू)रं सूदयति सूदि–ल्यु। वासुदेवे कृष्णे तद्बधकथा हरिवं० ८७ अ०। “ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः। चाणू(नू)रमादिशद्युद्धे कृष्णस्य सुमहावलम्” इत्युपक्रमे “दोर्भ्यामानम्य कृष्णस्तु चाणू(नू)रं पूर्णजीविनम्। प्राहरन्मुष्टिना मूर्द्ध्रि वक्षस्याहत्य जानुना। निःसृते साश्रुरुधिरे तस्य नेत्रे सबन्धने। तापनीये यथा घण्टे कक्षोपरि विलम्बिते। पपात स तुरङ्गस्य मध्ये निःसृतलोचनः। चाणू(नू)रो विगतप्राणो जीवितान्ते महीतले”। चाणू(नू)रुमर्दनादयोऽप्यत्र।

चाण्ड = पुंस्त्री चण्डस्यापत्यं शिवा० अण्। १ चण्डस्यापत्ये। चण्डस्य भावो युवा० अण्। २ चण्डतायाम् न०।

चाण्डाल = पुंस्त्री चण्डाल एव स्वार्थे अण्। चण्डाल शब्दार्थे अमरः। स्त्रियां जातित्वात् ङीष्।

चाण्डालकि = पु० स्त्री चाण्डलस्यापत्यम् इञ् “व्यासवरुडनिषादचाण्डालेत्यादि” पा० अकङ्। चण्डालापत्ये।

चाण्डालिका = स्त्री चण्डालेन निर्वृत्ता ठक्। वीणाभेदे अमरः। चण्डालेन कृता कुला० अण्। २ चण्डालकृतवस्तुमात्रे त्रि०

चाण्डालिकाश्रम = न० भारतप्रसिद्धे तीर्थभेदे “कोकामुखे विगाह्याथ गत्वा चाण्डालिकाश्रमे” भा० आनु० २५ अ०।

चाण्डाली = स्त्री चाण्डमालाति आ + ला–क गौरा० ङीष्। १ लिङ्गिनीलतायां राजनि० जातौ ङीष्। २ चाण्डालजाति स्त्रियाञ्च।

चातक = पुंस्त्री चत–याचने कर्त्तरि ण्वुल्। सारङ्गे स्वनाम ख्याते खगभेदे स्त्रियां जातित्वात् ङीष्। अयञ्च पक्षी त्र्याहणेषु सुश्रुते पठितः। “त्र्याहणा विकिराश्चेत्युक्त्वा “मघुराः कषाया दोषशमनाश्चेति” सामान्यतस्तद्गुणास्तत्रोक्ताः। “स्थगयन्त्यमूः शमितचातकार्त्तस्वराः” माघः। “किं चातकः फलमपेक्ष्य सवज्रपाताम्” उद्भटः।

चातकानन्दन = पु० चातकमानन्दयति आ + नन्द–णिच्–ल्यु। १ वर्षाकाले राजनि०। २ मेघे। वृष्टिजलपानस्य चातक ब्रतत्वेन मेघस्य तथात्वम्।

चातकाष्टक = न० काव्यभेदे काव्यसंग्रहे दृश्यम्।

चातन = न० चत–णिच् ल्युट्। १ अर्द्दने २ पीडने च।

चातुर = त्रि० चतुर एव स्वार्थे अण्। १ चतुरे २ नियन्तरि ३ नेत्रगोचरे मेदि०। चतुर्भिरुह्यते शैषकोऽण्। “चतुश्चक्रयुक्ते २ शकटे न० सि० कौ०

चातुरक्ष = न० चतुर्भिरक्षैर्निष्पाद्यते अण्। १ क्रीडाभेदे २ उपधानभेदे (गालवालिश) पु० मेदि०।

चातुरर्थिक = पु० चतुर्षु अर्थेषु विहितः ठक्। “तदस्मिन्नस्तीति देशे तन्नाम्नि” ०४। २। ६७। “तेन निर्वृत्तम्” ६८। “तस्य निवासः” ६९। “अदूरभवश्च” ७० पा० सूत्रचतुष्कोक्तार्थेषु विहिते प्रत्ययभेदे। “जनपदे लुप्” पा०। जनपदे वाच्ये चातुरर्थिकस्य लुप् स्यात्” सि० कौ०।

चातुराश्रमिक = त्रि० चतुर्षु आश्रमेषु विहितः ठक्। ब्रह्मचर्य्याद्याश्रमविहिते धर्मे। “चातुर्बिद्यं यथावर्णं चातुराश्रमिकान् परम्। तानहं संप्रवक्ष्यामि शाश्वतान् लोकभावनान्” भा० आ० ३५ अ०।

चातुराश्रम्य = न० चत्वार आश्रमाः संज्ञात्वात् कर्म्म० ततः व्राह्मणा० स्वार्थे ष्यञ्। ब्रह्मचारिगृहस्थवानप्रस्थभिक्षुकरूपेषु आश्रमेषु “चातुर्विद्यं चातुर्होत्रं चातुराश्रम्यमेव च” भा० शा० ४६ अ०।

चातुरिक = पु० चातुरीं वेत्ति ठक्। सारथौ जटाधरः।

चातुरी = स्त्री चतुरस्य भावः ष्यञ् षित्त्वात् ङीष्यलोपौ। चतुरतायां “तद्भटचातुरीतुरी” नैष०

चातुर्जातक = न० चतुर्जातकएव स्वार्थेऽण्। गुडत्वगेला नागकेशररूपे गन्धचतुष्टये राजनि०।

चातुर्द्दश = न० चतुर्द्दश्यां दृश्यते शैषिकोऽण्। १ रक्षसि सि० कौ०। चतुर्द्दश्यां भवः सन्धिवेला० अण्। २ चतुर्द्दशीभवे त्रि०

चातुर्द्दशिक = पु० चतुर्द्दश्याम् अनध्यायेऽधीते ठक्। चतुर्द्दश्यामध्येतरि। “शिष्यं हन्ति चतुर्द्दशी” मनुना तस्या अनध्यायतोक्तेस्तथात्वम्।

चातुर्भद्र = न० चतुर्भद्रमेव स्वार्थे अण्। नागरातिविषामुस्तागुडूचीरूपे द्रव्यचतुष्टये राजनि०।

चातु(र्थ)र्थिक = पु० चतुर्थे चत्वर्थेऽह्नि भवः ठक् वुञ् वा। चतुर्थचतुर्थदिनजाते ज्वरभेदे “चातुर्थ(र्थ)कोज्वरोरुद्रो ह्यन्ये चैव ज्वरास्ततः। जम्बूफलं हरिद्रा च सर्पस्यैव च कञ्चुकम्। सर्व्वज्वराणां धूपोऽयं हरश्चातुर्थ(र्थि)कस्य च” गारुडे १८७ अ०।

चातुर्वर्ण्य = न० चत्वारो वर्ण्णाएव चतुर्वर्णा० स्वार्थे ष्यञ्। ब्राह्मणादिषु चतुर्षु वर्णेषु “चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः गीता।

चातुर्भद्रावलेह = पु० चतुर्भिर्भद्रैर्निर्वृत्तः अण् कर्म्म०। “कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह। कासश्वासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् “चक्रदत्तोक्ते अवलेहभेदे।

चातुर्भौतिक = त्रि० चतुर्भिः पृथिव्यप्तेजोवायुभिर्निर्वृत्तः ठक् अनुश० द्विपदवृद्धिः। चतुर्भिर्भूतै र्निष्पादिते देहादौ नैयायिकादिमते आकाशस्यारम्भकत्वाभावात् चार्वाकमते आकाशस्याभावात् भौतिकानां चतुर्भूतारब्धता। वेदान्त्यादिमते देहस्य पाञ्चभौतिकत्वमिति भेदः। यद्यपि मनुष्यदेहस्य पार्थिवत्वं नैयायिकैरङ्गीकृतं तथापि अन्यभूतानां तत्रोपष्टम्भकत्वात् चातुर्भौतिकत्वम् इति विवेकः।

चातुर्महाराजिक = पु० चत्वारो महाराजिकाः स्वाकार त्वेनास्त्यस्य प्रज्ञा० अण्। परमेश्वरे “महाराजिक चातुर्महाराजिक” भा० शा० ३४० अ० नारदकृतविष्णुस्तुतौ। महाराजिकानां च चतुःसंख्यकगणदेवतात्वात् तस्य तदात्मकत्वेन तथात्वम्।

चातुर्मास = त्रि० चतुर्षु मासेषु भवः असंज्ञायाम् अण्। चतुर्षु मासेषु भवे। २ इष्टौ ३ पौर्णमास्यां च स्त्री ङीप्। संज्ञायान्तु यज्ञे ण्यः। चातुर्मास्य इत्येव तच्छब्दे दृश्यम्

चातुर्मासिक = त्रि० चतुरोमासान् व्याप्य ब्रह्मचर्य्यमस्य ठक्। चतुर्मासव्यापकब्रह्मचर्य्ययुक्ते कर्म्मणि। यज्ञे तु “चतुर्मासान् ण्योयज्ञे” वार्त्ति० ण्य चातुर्मास्य इत्येव।

चातुर्मास्य = त्रि० चतुर्षु मासेषु भवोयज्ञः “चतुर्मासान् ण्योयज्ञे” वार्ति० ण्य। चतुर्माससाध्ये यज्ञभेदे। चातुर्मास्ये च चत्वारि पर्व्वाणि वैश्वदेववरुणप्रघासशाक मेषसुनाशीरीयसंज्ञानि। तत्कर्त्तव्यप्रयोगादि का० श्रौ० ५ अध्यायादौ दृश्यम्। तदारम्भकालश्च फाल्गुनीपूर्णिमोत्तरं प्रतिपदि तत्रोक्तः। २ वार्षिकचातुर्मासकर्त्तव्ये व्रते च यथाह वराहपु० “आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा। चातुर्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे। अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती। कार्त्तिके शुक्ल द्वादश्यां विधिवत् तत् समापयेत्। चतुर्द्धापि हि तच्चीर्ण चातुर्मास्यं व्रतं नरः। कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत्”। मात्स्ये “चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि। मधुस्वरोभवेन्नित्यं नरो गुड विवर्जनात्। तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते। कटुतैलपरित्यागात् शत्रुनाशः प्रजायते। लभते सन्ततिं दीघां स्थालीपाकमभक्षयन्। सदा मुनिः सदायोगी मधुमांसस्य वर्जनात्। निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते। एकान्तरोपवासेन विष्णु लोकमवाप्तुयात्। धारणान्नखलोम्नाञ्च गङ्कास्नानं दिने दिने। ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते। घृत त्यागात् सुलावण्यं सर्वस्निग्धवपुर्भवेत्। फलत्यागेन मतिमान् वहुपुत्रश्च जायते। नमोनारायणायेति नत्वाऽन शनजं फलम्। पादाभिवन्दनाद्विष्णोर्लमेद्गोदानजं फलम्। एवमादिव्रतैः पार्थ! तुष्टिमायाति केशवः। “अत्रैव यतिमधिकृत्य काठकगृह्यम्। “एकरात्रं वसेत् ग्रामे नगरे पञ्चरात्रकम्। वर्षाभ्योऽन्यत्र बर्षासु मासांश्च चतुरो वसेत्”। एतदशक्तविषयम्। “ऊर्द्धं वार्षिकाभ्यां मासाभ्यां नैकस्थानबासी” इति शङ्खोक्तेः। “चातुर्मास्यगते या (द्वितीया) तु” ति० त० अनध्यायोक्तौ

चातुर्मास्यद्वितीया = स्त्री “आषाढे फाल्गुनोर्जेषे या द्वितीया विधुक्षये। चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः” इति स्मृत्युक्ते आषाढादिद्बितीयाचतुष्के

चातुर्य्य = न० चतुरस्य भावः ष्यञ्। चतुरतायां दक्षतायाम् “चातुर्य्यमुद्धतमनोभवया रतेषु” सा० द० “संभोगस्नेह चातुर्य्यैर्हाबलास्यमनोहरैः” भा० आ० ३९०५।

चातुर्वर्ण्य = न० चत्वारो व्राह्मणादयोवर्णा एव स्वार्थे ष्यञ्। ब्राह्मणादिषु चतुर्षु १ वर्णेषु “चातुवर्ण्यं मया सृष्टमिति” गीता। भावे–ष्यञ्। २ चतुर्वर्णधर्म्मे। वर्णभेदेन धर्म्मभेदाः शङ्खेन दर्शिताः यथा। “चातुर्वर्ण्यहितार्थाय शङ्खः शास्त्रमथाकरोत्। यजनं याजनं दानं तथैवाध्यापनक्रियाम्। प्रतिग्रहञ्चाध्ययनं विप्रः कर्माणि कारयेत्। दानमध्ययनञ्चैव यजनञ्च यथाविधि। क्षत्रियस्य तु वैश्यस्य कर्मेदं परिकीर्त्तितम्। क्षत्रियस्य विशेषेण प्रजानां परिपालनम्। कृषिगोरक्ष बाणिज्यं वैश्यस्य परिकीर्त्तितम्। शूद्रस्य द्विजशुश्रूषा सर्व्वशिल्पानि चाप्यथ। क्षमा सत्यं दमः शौचं सर्व्वेषामविशेषतः। ब्राह्मणः क्षत्रियो वैश्य स्त्रयोवर्णा द्विजातयः। तेषां जन्म द्वितीयन्तु विज्ञेयं मौञ्जबन्धनम्। आचार्य्यस्तु पिता प्रोक्तः सावित्री जननी तथा। ब्रह्मक्षत्रविशाञ्चैव मोञ्जीबन्धनजन्मनि। विप्राः शूद्रसमास्तावद्विज्ञेयास्तु विच- क्षणैः। यावद्वेदे न जायन्ते द्विजाज्ञेया स्तु तत्परम्”। “ब्राह्मणः क्षत्रियोवैश्यः शूद्रश्चेति वर्णाश्चत्वारः। तेषामाद्याद्विजातयः। तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत् क्रियासमूहः। तेषाञ्च धर्माः, ब्राह्मणस्याध्यापनं क्षत्रियस्य शस्त्रनिष्ठता वैश्यस्य पशुपालनं शूद्रस्य द्विजातिशुश्रूषा। द्विजानां यजनाध्ययने। अथैतेषां वृत्तयः ब्राह्मणस्य याजनप्रतिग्रहौ, क्षत्रियस्य क्षितित्राणं, कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य, शूद्रस्य सर्वशिल्पानि। आपद्यनन्तरा वृत्तिः” विष्णुस०।

चातुर्होतृक = पु० चतुर्होतृप्रतिपादकग्रन्थस्य व्याख्यानः ऋदत्वात् ठक्। चतुर्होतृप्रतिपादकग्रन्थव्याख्याने। चतुर्होतृणां कर्म्म अण्। चातुर्होत्र चतुर्णां होतॄणां कर्मणि। चतुर्होतृशब्दे उदा०।

चातुष्टय = पु० चतुष्टयं कलापसूत्रवृत्तिं वेत्ति अधीते वा अण्। “सूत्राच्च कोपधात्” पा० कोपधात् प्रत्ययस्य लुकोविधानात् अस्य च कोपधत्वाभावात् न लुक्। चतुष्टय वृत्त्यभिज्ञे

चातुष्प्राश्य = न० चतुर्भिरध्वर्य्युब्रह्मादिभिरृत्विम्भिः प्राश्यम् ततः स्वार्थेऽण्। चतुर्ण्णामृत्विजां भोजनपर्य्याप्ते ओदने। “चातुष्पाश्यमोदनं पचन्ति” शत० व्रा० २। १। ४। ४। “दर्शपौर्ण्णमासानीजानोदक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत्” का० श्रौ० ४। ६। १०।

चात्र = न० चाय–करणे ष्ट्रन्। अग्निमन्थनयन्त्रावयवभेदे। अग्न्युद्धारशब्दे ६३ पृष्ठे दृश्यम्। तत्र च पृष्ठे चत्रमिति पाठः प्राचीनमुद्रितग्रन्थपाठानुसारेण प्रमादात् मुद्रितः सर्व्वत्र चात्रमित्येव पाठः साधुः का० श्रौ० ४। ८। २६ सूत्रभाष्ये तत्स्वरूपादिकम् कर्क आह। “अग्रे पुरस्तात् प्रत्यङ्मुखे स्थिते मन्थनं कुर्य्यात्। तत्र च प्रथममधरारणिमुत्तारग्रां निधाय उत्तरारण्या ईशानदिग्भागादष्टाङ्गुलदीर्घं द्व्यङ्गुलविपुलं प्रमन्थं छित्त्वा तस्य मूलं चात्रबुध्ने प्रवेश्य अधरारण्या मूलादष्टाङ्गुलं त्यक्त्वा अग्राच्च द्वादशाङ्गुलं त्यक्त्वा तदन्तराले अङ्गुलचतुष्टयपरिमिते पूर्वारण्यन्ते मन्थानं कृत्वा चात्रबुध्नप्रोतस्य प्रमन्थस्याग्रं तत्र निधाय चात्राग्र कीलकाग्रस्योपर्य्युदगग्रामौवीलीं निधाय यन्त्रं चारयित्वा चात्रं नेत्रेण प्रदक्षिणं त्रिर्वेष्टयित्वा तथा मन्थनं कुर्यात् यथा जातोऽग्निः प्राच्यां पतति तत्र यजमानः प्राङ्मुखो यन्त्रधारणं करोति पत्नी चात्र नेत्रेण त्रिर्वेष्टयित्वा मन्थनं करोति तथा शाखान्तरादध्वर्युश्च तस्मादध्वर्य्युः प्रत्यङ्मुखोऽभिमन्थतीति”। चात्रं च खादिरं द्वादशाङ्गुलदीर्घं वर्तुलम् अग्रेलोहकीलयुक्तम् वुध्ने प्रमन्थाग्रप्रवयनार्थगर्तयुक्तम् मूलेऽखे च लोह पट्टिकया संयुक्तं कार्यम्”। “औवीली च खादिरी द्वादशाङ्गुलदीर्घा चतुरङ्गुलविपुलाधोभागे समा चात्राग्रस्थितकीलकोपरिस्थापनार्थलोहपट्टिकायुक्ता उपरिभागे वर्तुला च कार्या। नेत्रं च गोवालशणसूत्रैस्त्रिवृत् व्याममात्रं कार्यम्। केचित् प्रमन्थाग्रेण मन्थन्ति, अपरे तु मूलेन”

चात्वाल = पु० चत–वालञ्। १ यज्ञकुण्डे २ दर्भे ३ उत्ताने ४ उत्कटे च विश्वः ४ उत्तरवेद्यङ्गे मृत्स्तूपे ५ तत्कृतावटे च “चात्वालोत्करावन्तरेण सञ्चरः” का० श्रौ० १। ३: ४२। “चात्वालश्च उत्करश्च चात्वालोत्करौ तौ अन्तरेण तयोरन्तरालेन सर्वेषां विहितकार्यार्थं संचरः गमनागमनमार्गोभवति। अयं च सोत्तरवेदिकेषु वरुणप्रघासमहाहविःपशुसोमेषु ज्ञेयः चात्वालस्यैष्येव सत्त्वात् सोत्तरवेदिकेषु सर्वेष्वनेनैव मार्गेण गमनागमने कार्ये” कर्कः। “तच्चात्वालं परिलिखति सा चात्वालस्य मात्रा नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येताग्रेणोत्करं तच्चात्वालं परिलिखेत्” शत० ब्रा० ३। ५। १। २६। “सा चात्वालस्य मात्रा यैवोत्तरवेदैरुक्ता सैवेत्यर्थः चात्वालखननोत्पन्नयैव मृदोत्तरवेदिकरणात्” भा०। “चात्वालं चात्वालवत्सु” आश्व० श्रौ० १। १। ६। “चात्वालोनामावटः पशुसोमादिष्वस्ति येषु उत्तरवेद्यर्थं यत्र मृत् खात्वाह्रियते तद्वत्सु” ना० रा० उक्तेः उत्तरावेद्यर्थमृदाहरणजातावटएव चात्वाल इति गम्यते।

चानराट = न० चनराटस्येदम् अण्। चनराटनृपस्याख्याने तस्मिन्शब्दे परे दिक्शब्दा अन्तोदान्ताः। “पूर्व्वचानराटम्” सि० कौ०।

चान्दनिक = त्रि० चन्दनेन सम्पद्यते ठक्। चन्दनेन कृतशोभे “वपुश्चान्दनिकं यस्य कार्णवेष्टनिकं मुखम्” भट्टिः।

चान्द्र = त्रि० चन्द्रस्येदम् अण्। १ चन्द्रसम्बन्धिनि दिनमासादौ २ तन्माने च। “अर्काद्विनिः सृतः प्राचीं यद्यात्यहरहः शशो। तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः” सू० सि० “सूर्यात् समागमं त्यक्त्वा विनिसृतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनं यत् यत्मङ्ख्यामितं प्राचीं पूर्वां दिशं गच्छति तत् प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरांशमितम्। ननु सौरदिनं सूर्य्यांशेन यथा भवति तथैतद्रूपैर्भागैः कियद्भिः पूर्णं चान्द्रं दिनं भवतीत्यत आह। अंशैरिति। भागैस्तुकारात् सूर्य्यचन्द्रान्तरोत्पन्नैस्तस्य तद्रूपत्वात्। द्वादशभिर्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया। एकं चान्द्रदिनं ज्ञेयमित्यर्थः। एतदुक्तं भवति सूर्य्यचन्द्रयोगाच्चान्द्रदिनप्रवृत्तेः पुनर्योगे माससमाप्तेर्भगणान्तरेण चान्द्रो मासस्त्रिंशच्चान्द्रदिनात्मकः। अतस्त्रिंशद्दिनैर्यदिभगणांशान्तरं तदैकेन किमिति। द्वादशभागैरेकं चान्द्रदिनम्। “दर्शः सूर्येन्दुसङ्गमः” इत्यभिधानाद्दर्शावधिकमासस्य त्रिंशत्तिथ्यात्मकत्वात् तिथिश्चान्द्रदिनरूपेति। अथ चान्द्रव्यवहारमाह” र० न० “तिथिः करणमुद्वाहः क्षौरं सर्वक्रियास्तथा। व्रतोपवासयाश्राणां क्रिया चान्द्रेण गृह्यते” सू० सि०। “तिथिः प्रतिपदाद्या करणं ववादिकमुद्वाहो विवाहः क्षौरं चौलकर्म। एतदाद्याः सर्वक्रिया व्रतबन्धाद्युत्सव रूपा व्रतोपवासयात्राणां नियमोपवासगमनानां क्रिया करणम्। तथा समुच्चयार्थकः। चान्द्रमानेन गृह्यते अङ्गीक्रियते। अथ चान्द्र मासं प्रसङ्गात् पितृमानं चाह” र० ना०। “त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम्” सू० सि० “कालेन येनैति पुनः शशीनं क्रामन् भचक्रं विवरेण गत्या। मासः सचान्द्रोऽङ्गयमाः कुरामाः पूर्ण्णेषवः। २९। ३१। ५०। स्तत्कुदिनप्रमाणम्” सि० शि० “दर्शान्ते किल शशी रविणा युक्तो भवति। ततोद्वावपि पूर्व्वतो गच्छतः। तयीः शशी शीघ्रगत्वात् प्रत्यहं गत्यन्तरेणाग्रतो याति। एवं गच्छंश्चक्रकला २१६०० तुल्यमन्तरं यदाग्रतो याति तदा रविणा योगमेति। तयोः कालयोरन्तरालं चन्द्रमासः। तत्प्रमाणमनुपातेन। चन्द्रार्कयोर्मध्यगती आदौ सम्यक् सावयवे कृत्वा यदि गत्यन्तरेणैकं कुदिनं लभ्यते तदा चक्रकलातुल्येनान्तरेण कियन्तीत्यनुपातेन चान्द्रमासे कुदिनानि लभ्यन्ते। २९। २१। ५०”। प्रमिता०। अधिकं गौणचान्द्रशब्दे २७३५ पृ० दृश्यम्। आपस्तम्बः “चन्द्रमाः कृष्णपक्षान्ते सूर्य्येण सह युज्यते। सन्निकर्षादथारभ्य सन्निकर्षावधिः परम्। चन्द्रार्कयोः रवेर्मासश्चान्द्र इत्यभिधीयते” विष्णु स०। २ चान्द्रायणव्रते न०। “चान्द्रं कृच्छ्रं तदर्द्धं च ब्रह्मक्षत्रविशां विधिः” प्रा० त०। “चान्द्रं चान्द्रायणम्” रघु०। ३ चन्द्रकान्तमणौ पु० हेमच०। ४ चन्द्रसम्बन्धिमात्रे त्रि० स्त्रियां ङीप् “गुरुकाव्यानुगां बिभ्रत् चान्द्रीमभिनभः श्रियम्” माघः। सा च ५ श्वेतकण्टकार्य्यां राजनि०। ६ आर्द्रके न० राजनि०। ७ मृगशीर्षनक्षत्रे न० तस्य तद्देवताकत्वञ्चाश्लेषाशब्दे ४९७ पृ० उक्तम्

चान्द्रक = न० चान्द्रमार्द्रकमिव कायति कै–क। शुण्ठ्याम् राजनि०।

चान्द्रपुर = पु० १ पूर्व्वदेशस्थे देशभेदे १ तद्देशवासिषु ब० व०। स च देशः “अथ पूर्व्वस्याम्” इत्युपक्रमे “चान्द्रपुराः शूर्पकर्णाश्च” वृ० स० १४ अ० कूर्म्मविभागे उक्तः।

चान्द्रभागा = स्त्री चान्द्रो भागोऽंशोऽस्याम्। चन्द्रभागानद्याम् चन्द्रभागाशब्दे दृश्यम्।

चान्द्रमस = त्रि० चन्द्रमसैदम् अण्। १ चन्द्रसम्बन्धिनि दिनमासादौ। “तिथिश्चान्द्रमसं दिनम्” ति० त० सूर्य्यसिद्धान्तीयवाक्यत्वेन पठितम्। २ मृगशिरोनक्षत्रे न० तस्य तद्देवकत्वात्तथात्वम्। ३ चन्द्रसम्बन्धिमात्रे त्रि० स्त्रियां ङीप् “लब्धोदया चान्द्रमसीव लेखा”। “पद्माश्रिता चान्द्रमसीमभिख्याम्” कुमा०। “सुरद्विषश्चान्द्रमसी सुधेव” रघुः।

चान्द्रमसायनि = पु० चन्द्रमसोऽपत्यम् तिका० फिञ्। बुधग्रहे हला०। पृषो०। चान्द्रमसायनोऽप्यत्र।

चान्द्रमास = पु० कर्म्म०। चन्द्रसम्बन्धिमासे चान्द्रशब्दे दृश्यम्

चान्द्रव्रतिक = पु० चान्द्रतुल्यं चान्द्रायणं वा व्रतमस्त्यस्य ठन्। १ चन्द्रतुल्यव्रताचारिणि नृपे। “परिपूर्णं यथाचन्द्रं दृष्ट्वा हृष्यन्ति मानवाः। तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः” मनुः। २ चान्द्रायणव्रताचारिणि च

चान्द्रायण = न० चन्द्रस्यायनमिवायनमत्र पूर्वपदात् संज्ञायां णत्वम्। संज्ञायां दीर्घः स्वार्थेऽण् वा। व्रतभेदे तद्भेदादिकं मिता० उक्तं यथा। “तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसंमितान्। एकैकं ह्रासयेत् कृष्णे, पिण्डञ्चान्द्रायणञ्चरन्” या०। “चान्द्रायणाख्यङ्कर्म कुर्व्वन्मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथि वद्वृद्ध्या चरेद्भक्षयेत् यथा प्रतिपत्प्रभृतिषु तिथिषु चन्द्रकलानामेकैकशोवृद्धिरर्द्धमासे। तद्वत्पिण्डान् प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशोवर्द्धयन् भक्षयेद् यावत्पौर्णमासी ततः पञ्चदश्यां पञ्चदश ग्रासान् भुक्त्वा ततः कृष्णपक्षे प्रतिपदि, चतुर्दश द्वितीयायां त्रयोदशेत्येबमेकैकशो ग्रासात् ह्रासयन्नश्रीयाद्यावच्चतुर्दशी। ततश्चतुर्दश्यामेर्क ग्रासं ग्रसित्वेन्दुक्षयेऽर्थादुपवसेत्। तथा च वसिष्ठः। “एकैकं वर्द्धयेत्पिण्डं शुक्लकृष्णे च ह्रासयेत्। इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिरिति”। चन्द्रस्यायनमिवायनं चरणं यस्मिन् कर्मणि ह्रासवृद्धिभ्यां तच्चान्द्रायणम् संज्ञायान्दीर्घः (णत्वञ्च) इदञ्च यववत्प्रान्तयोरणीयो मध्ये स्थवीय इति यवमध्यमिति कथ्यते। एतदेव व्रतं यदा कृष्णपक्षप्रतिपदि प्रक्रम्य पूर्व्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकामध्यमिव ह्रसिष्ठम्भवतीति पिपीलिकातनुमध्यमिति कथ्यते तथाहि। पूर्ब्बोक्तक्रमेण कृष्णप्रति पदि चतुर्दश ग्रासान्भुक्त्वैकैकग्रासापचयेन चतुर्दशीं यावद्भुञ्जीत ततश्चतुर्दश्यामेकं ग्रासं ग्रसित्वामावास्या यामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासम्प्राश्नीयात्तत एकैकीपचयभोजनेन पक्षशेषे निर्वर्त्त्यमाने पौर्णमास्याम्पञ्चदशग्रासाः सम्पद्यन्त इति युक्तैव पिपीलिकामध्यता। तथाच वशिष्ठः। “मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश। ग्रासापचयभोजी सन् पक्षशेषं समापयेत्। तथैव शुक्लपक्षादौ ग्रासम्भुञ्जीत चापरम्। ग्रासोपचय भोजी सन् पक्षशेषं समापयेदिति” यदा त्वेकस्मिन् पक्षे तिथिवृद्धिह्रासवशात् षीडश दिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धिह्रासौ वेदितव्यौ “तिथि वृद्ध्या पिण्डांश्चरेदिति नियमात्। गौतमेन त्वत्र विशेषो दर्शितः “अथातश्चान्द्रायणन्तस्योक्तोविधिः। कृछ्रे वपनं व्रतञ्चरेत्। श्वोभूताम्पौर्णमासीमुपवसेत्। आप्यायस्व” (ऋ० १। ११। १६।) “सन्तेपयांसि (१७) नवोनवः” (ऋ० १०। ८५। १९।) इति चैताभिस्तर्पणमाज्यहोमो हविषश्चानुमन्त्रणमुपस्थानञ्चन्द्रमसः। “यद्देवादेवहेडनम्” इति चतसृभिराज्यं जुहुयात्। देवकृतस्येति चान्ते समिद्भिस्तिसृभिः। ओं भूर्भुवःस्वः महः जनः तपः सत्यं यशः श्रीः ऊर्क् इट् ओजः तेजः पुरुषः धर्मः शिवः इत्येतैर्ग्रासानुमन्त्रणम्। प्रतिमन्त्रं मनसा नमःस्वाहेति वा सर्वान् एतैरेव ग्रासाननुभुञ्जीत ग्रासप्रमाणमास्याविकारेण चरुभैक्ष्यसक्तुकणयावकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरप्रशस्तानि पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकैकापचयेनापरपक्षमश्नीयात्। अमावास्यायामुपोष्यैकेकोपचयेन पूर्वपक्षं विषरीतमेकेषाम् एष चान्द्रायणो मासः” इति। अत्र ग्रासप्रमाणमास्याविकारेणेति यदुक्तन्तद्बालाभिप्रायम् तेषां शिख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः। क्षीरादिद्रवहविषां शिख्यण्डपरिमितत्वन्तु पर्णपुटिकादिना सम्पादनीयम्। तथा कुक्कुटाण्डार्द्रामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरीक्तानि शक्तविषयाणि शिख्यण्डपरिमाणाल्लघुत्वात्तेषां, यत्पुनरत्र “श्वोभूताम्पौर्णमासी मुपवसेदिति” चतुर्दश्यामुपवासमभिधाय पौर्णमास्याम्पञ्चदश ग्रासान् भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तम् तत्पक्षान्तरप्रदशनार्थम् न सार्वत्रिकम्। योगीश्वरादिवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात्। यद्येत्सार्वत्रिकं स्यात्तदा नैरन्तर्य्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात् चन्द्रगत्यनुवर्त्तनानुपपत्तिश्च। चान्द्रायणान्तरमाह” मिता०। “यथा कथञ्चित्पिण्डानाञ्चत्वारिंशच्छतद्वयम्। मासेनैवोपभुञ्जीत चान्द्रायणमथापरम्” या०। “पिण्डानाञ्चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत यथाकथञ्चित्प्रतिदिनं मध्याह्णेऽष्टौ ग्रासान् तथा नक्तन्दिवसयोश्चतुरश्चतुरो वा। अथवैकस्मिंश्चतुरोऽपरस्मिन् द्वादश वा तथैकरात्रमुपोष्यापरस्मिन् षोडश वेत्यादि प्रकाराणामन्यतमेन शक्त्यपेक्षया भुञ्जीतेत्येतत्पूर्वोक्ताच्चान्द्रायणद्वयादपरं चान्द्रायणम्। अतस्तयोर्नायं ग्राससंख्यानियमः। किन्तु तत्र पञ्चविंशत्यधिकशतद्वयसंख्यैव। मनुना चैते प्रकारा दर्शिताः “अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिनेस्थिते। नियतात्मा हविष्यस्य यतिचान्द्रायणञ्चरन्। चतुरः प्रातरश्नीयात्पिण्डान्विप्रःसमाहितः। चतुरोऽस्तमिते सूर्य्येशिशुचान्द्रायणञ्चरन्। यथाकथञ्चित्पिण्डानान्तिस्रोऽशीतीः समाहितः। मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकतामिति। “तथा चत्वारिंशच्छतद्वयान्नूनसंख्यकग्राससम्पाद्यस्यापि संग्रहार्थमपर ग्रहणम्। यथाह यमः “त्रींस्त्रीन् पिण्डान् समश्नीयान्नियतात्मा दृढव्रतः। हविष्यान्नस्य वै मासमृषिचान्द्रा यणं स्मृतमिति”। एषु च यतिचान्द्रायणप्रभृतिषुन चन्द्र गत्यनुसरणमपेक्षितमतस्त्रिंशद्दिनात्मकसावनमासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथञ्चित्तिथिवृद्धिह्रासवशेन पञ्चम्यादिष्वारम्भोभवति तथापि न दोषः। यदपि सो मायनाख्यं मासव्रतं मार्कण्डेयेनोक्तम् “गोक्षीरं सप्तरात्रन्तु पिबेत् स्तनचतुष्टयात्। स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात्। स्तनेनैकेन षट्रात्रं त्रिरात्रं वायुभुग्मवेत्। एतत्सोमायनं नाम व्रतङ्कल्मषनाशनमिति”। तदपि चान्द्रायणधर्म्मकमेव। हारीतेनापि “अथातश्चान्द्रायण मनुक्रमिष्याम इत्यादिना सेतिकर्त्तव्यताकञ्चान्द्रायण ममिधाय” एवं सोमायनमित्यतिदेशस्याभिधानात्। यत्पुन स्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशीपर्य्यन्तं सोमायन मुक्तम् “चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं, द्विस्तनेन त्रिरात्रमेकस्तनेन त्रिरात्रमेवमेकस्तन प्रमृति पुनश्चतुःस्तनान्ते या ते सोम! चतुर्थी तनूस्तया नः पाहि तस्यै स्वाहा या ते सोम! पञ्चमी षष्ठीत्येवं यथार्थास्तिथिहोमाएकमाप्ताएताभ्यः पूतश्चन्द्रमसःसामान्यतां समानलोकतां सायुज्यञ्च गच्छतीति”। चतुर्विंशतिदिनात्मकसोमायनमभिहितन्तदशक्तविषयम्” मिता०। प्रायश्चित्तविवेकेऽत्र विशेषोऽभिहितो यथा “तत्र मनुः। “एकैकं ह्रासयेत् पिण्डं कृष्णे, शुक्ले च वर्द्धयेत्। उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम्। एवमेव विधिं कृत्स्नमाचरेद्यवमध्यमे। शुक्लपक्षादिनियतश्चरेच्चान्द्रायणं व्रतम्। अष्टावष्टौ समश्नीयात् पिण्डान्मध्यन्दिने स्थिते। नियतात्मा हविष्याशी यतिचान्दायणं चरन्। चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः। चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम्। यथा कथञ्चित्पिण्डानां तिस्रोऽशीतीः समाहितः। मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम्” एतत्पञ्चविधं चान्द्रायणं पिपीलिकातनुमध्यं यवमध्यं यतिचान्द्रायणं सर्व्वतोमुखं शिशुसाह्वञ्च। तथाच जावालः। पिपीलिकं यवमध्यं यतिचान्द्रायणन्तथा। चान्द्रायणं तथा ज्ञेयं चतुर्थं सर्व्वतोमुखम्। पञ्चमं शिशुसाह्वञ्च तुल्यं पुण्यफलोदयम्”! कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदा पिपीलिकमध्यं भवति। शुक्लप्रतिपदारम्भे यवमध्यम्। उभयत्रामावास्यायामभोजनम्। कृष्णप्रतिपदि चतुर्द्दशग्रासमोजनारम्भो ह्रासक्रमेण चतुर्द्दश्यामेकोग्रासः अमावास्यायामभोजनमेव प्राप्नोति। तथाच वशिष्ठः “मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश”। नन्वेवं क्रमेण पञ्चविंशत्युत्तरं ग्रासशतद्वयं स्यात्। न चत्वारिंशद्ग्रासाधिकशतद्वयं तच्च याज्ञवल्केनोक्तम् “यथा कथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम्”। इति “यथा कथञ्चित्पिण्डानां तिस्रोऽशीतीः समाहितः” इति मनुनाप्युक्तम्। उच्यते। संयमदिवसे पौर्णमास्याममावास्यायां वा पञ्चदशग्रासभोजनेन संख्यापूरणसम्भवात्। अथ वा पञ्चदश्यादिकमेवेदं व्रतं न प्रति- पदादिकं चतुर्ढश्यामेव व्रतसङ्कल्पः यथाह गौतमः “पौर्ण मास्यां पञ्चदश ग्रासान् भुक्त्रा एकैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्य एकैकोपचयेन पूर्व्वपक्षं विपरीतमेकेषाम्”। शङ्खंलिखितौ “अमावास्यां व्रतोपायनं यवमध्यम्। अमावास्यायां पञ्चदश पिण्डानश्नीयात्”। उपायनमारम्भः। युक्तञ्चेदम् “अमावास्यामुपोषण पञ्चदशकलात्मकख चन्द्रमसः सूर्य्यप्रविष्टत्वात् अत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्द वाच्यत्वात्। जावालः “एकैकं वर्द्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत्। अमावास्यां न भुञ्जीत यवमध्यं चरन् द्विजः। एकैकं ह्रासयेत् पिण्डं कृष्णे, शुक्ले च वर्द्धयेत्। पौर्णमास्यां न भुञ्जीत पिपीलितनुमध्यमम्”। अत्र कल्पतरुव्याख्यानम् “एकैकं ह्रासयेदिति कृष्णप्रतिपाद पञ्चदश ग्रासानारभ्य एकेकापचयेनामावास्यायामेकोग्रासः तदनन्तरं शुक्लप्रतिपदि द्वौ ग्रासावेवं वृद्धिक्रमेण चतुर्दश्यां पञ्चदश ग्रासाः सम्पद्यन्ते पौर्णमाम्यां चोपवासैति पिपीलिकतनमध्यं चान्द्रायणम्। एवं यव मध्ये शुक्लप्रतिपदि एकोग्रासः एवमेकैकोपचयने पूर्णिमायां ञ्चदश ग्रासाः कृष्णप्रतिपदि चतुर्द्दश ग्रासा एवमेकैकापचयेन अमावस्यायामुपवासः”। ऋषिचान्द्रायणभाह यमः “त्रींस्त्रीन् पिण्डान् समश्नीयान्नियतात्मा दृढव्रतः। हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्”। अत्र चत्वारिंशच्छतद्वयंसंख्या नास्ति। ग्रासपरिमाणमाह पराशरः। “कुक्कुटाण्डप्रमाणन्त यावान् वा प्रविशेम्मुखम्। एतं ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम्”। सकलचान्द्रायण एव चतुर्दश्यामुपवासं कृत्वा अपरदिने पञ्चदश्यां संयमः कार्य्यः तत्फलमाह। वौधायनः। “शुक्लाञ्चैव चतुर्दशीमुपवसेत् कृष्णां चतुर्दशीं वा केशश्मश्रुनखरोमाणि वापयित्वा” इत्यभिधाय तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान् विस्तर भयान्न लिलितम्”।

“एकमाप्त्वा विपापोविपाप्मा सर्व्वमेनोहन्ति द्वितीयमाप्त्वा सपूर्व्वान् दशापरानात्मानञ्चैकविंशं पङ्क्तिञ्च पुनाति संवत्सरञ्चाप्त्वा चन्द्रमसः सलोकताम्प्राप्नोतीति” गौतमः। एवञ्च सर्वविधचान्द्रायणे चान्द्रस्य चन्द्रसम्बन्धिनो लोकस्याथनं यस्मादिति व्युत्पत्तिरित्यवधेयम्। अस्य पुंस्त्वमपि “एष चान्द्रायणोविधिः” प्रापुक्तस्मृतेः अत्र तस्येदमित्यर्थेऽणि तत्र चान्द्रायण शब्दस्य ततसम्बन्धिवाचकत्वात् पुंस्त्वमित्यन्ये। चान्द्रायणव्रताशक्तौ तत्प्रत्याम्नायधेनुमूल्याद्युक्तं प्रा० वि० आप्रस्तम्बः “कापालिकान्नभोक्तृणां तन्नारीगामिना न्तथा। ज्ञानात् कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दबद्वयम्” तथा रजकाद्यन्त्यजाधिकारे यमः “भुक्त्वा चैषां स्त्रियो गत्वा पीत्वापः प्रतिगृह्य च। कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम्”। ज्ञानतः कृच्छ्राव्दं त्रिंशद्धेनुदानसमानं विधायाज्ञाने तदर्द्धं चान्द्रायणद्वयं विदवाति। तेन चान्द्रायणद्वये पञ्चदश धेनवः अर्थादेकस्मिंश्चान्द्रायणे सार्द्धसप्तधेनवः। यत्रैकमेव चान्द्रायणं तत्रार्द्धधेनोरसम्भवाद्धेन्वष्टकं देयम्। शिशुचान्द्रायणे तु पादोन धेनुचतुष्टयम्। यतोऽत्र प्रात्यहिकाष्टग्रासपरिमाणेन मासैकेन चत्वारिंशदुत्तरग्रासशतद्वयेन द्वात्रिंशद्गृहस्थ स्येति व्यवस्थया सार्द्धसप्तदिनभोजनं पर्य्यवस्यति सार्द्धद्वाविंशतिश्चोपवासाःपर्य्यवस्यन्ति। अतः सङ्कलनया पादोनप्राजापत्यचतुष्टयं स्यात्। यद्यपि यवमध्य पिपीलिकतनुमध्यचान्द्रायणयोरप्येतावन्त एव ग्रासास्तथा पि वचनात् त्र्युटिवृद्ध्युपवासैः क्लेशातिशयाच्च सार्द्धसप्त घेनवः। अत्र तु तदभावान्न्यायाच्च पादोनधेनुचतुष्टयमेव। एवं यतिचान्द्रायणसर्व्वतोमुखचान्द्रायणर्षिचान्द्रायणेषु बोध्यम्” प्रा० वि०। मिताक्षरायां विशेष उक्तो यथा “चान्द्रायणविषयभूतेषु पुनणपपातकेषु प्राजापत्यत्रयं तदशक्तस्य प्रत्याम्नायस्ताबानेव। यत्पुनश्चतुर्विंशति मतेऽभिहितम् “अष्टौ चान्द्रायणे देयाः प्रत्याम्नाय चिधौ सदेति” तदतिधनिनः पिपीलिकामध्यादिचान्द्रा यणप्रत्याम्नायविषयम्। मासातिकृच्छ्रविषयभूते पुनरुपपातके सार्द्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव। यच्च चान्द्रायणस्यापि तत्रैव प्रत्याम्नानमुक्तम्। “चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव च। मित्रविन्दापशुश्चैब कृच्छ्रम्भासत्रयन्तथा। नित्यनैमित्तिकानाञ्च काम्यानाञ्चैव कर्म्मणाम्। इष्टीनाम्पशुबन्धानामभावे चरवःस्मृताः” इति। तदपि चान्द्रायणाशक्तस्य। यत्तु कृच्छम्मासत्रयन्तथेति कृच्छाष्टकम्प्रत्याम्नातम्। तदतिजठरमूर्खविषयम्। “चान्द्रायणस्त्रिभिः कृच्छ्रैरिति दर्शितत्वादित्यलमतिप्रपञ्चेन।” ऐन्दवादयोऽप्यत्र।

चान्द्रायणि = त्रि० चान्द्रायणमावर्त्तयति टञ्। चान्द्रायणव्रतानुष्ठायिनि राजनि०।

चान्द्री = स्त्री चन्द्रस्येयम् अण्। १ चन्द्रपत्न्यां २ ज्योत्स्नायाञ्च। तत्तुल्यशुभ्रत्वात् ३ श्वेतकण्टकार्य्याञ्च राजनि०। ४ चन्द्रसम्बन्धिन्यां स्त्रियां चान्द्रशब्दे उदा०।

चाप = पु० चपस्य वंशभेदस्य विकारः अण्। १ धनुषि, अमरः मेषावधिके २ नवमे राशौ च “वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले” मनुः। “स चापमुत्सृज्य विवृद्धमत्सरः” रघुः। “कस्यायमसितश्चापः पञ्चशार्दूललक्षणः” भा० वि० ४२ अ०। ३ वृत्तक्षेत्रार्द्धे “दलीकृतं चक्रमुशन्ति चापम् कोदण्डखण्डं खलु तूर्य्यगोलम्” सि० शि०। ज्याभेदेन चापभेदा नयनं च लोला० दर्शित० तच्च वाक्यं क्षेत्रशब्दे २४०४ दर्शितम्।

चापपट = पु० चापश्चापावयवैव पटः पत्रमस्य। पियालवृक्षे शब्दार्थ चि०।

चापल = न० चपलस्य भावः कर्म्म वा अण्। अविमृष्यकारितारूपे प्रयोजनं विनाऽपि पाण्यादेश्चालनरूपे वा १ चपलकर्म्मणि चपलशब्दे उदा “मात्सर्य्यद्वेषरागादेश्चापलं त्वनवस्थितिः” सा० द० २ उक्तलक्षणे नवस्थाने च। ष्यञ्। चापल्यमप्यत्र।

चापिन् = पु० चापोऽस्त्यस्य इनि। १ धनुर्द्धारिणि योधभेदे। २ शिवे पु०। “त्वं गदी त्वं शरी चापी खद्वाङ्गी झर्झरी तथा” भा० शा० २८६ अ०। दक्षकृतशिवस्तुतौ ३ धनूराशौ च। “चापी नरोऽश्वजनो मकरोमृगास्यः” ज्यो० त०

चाफट्टि = पुंस्त्री चफट्टर्षेरपत्यम् इञ्। चफट्टर्षेरपत्ये स्त्रियां ङीप्। यूनि–तौल्वला० फक् तस्य न लुक्। चाफट्टायनि यूनि तदपत्ये स्त्रियां ङीप्।

चामर = पुंन० चमर्य्याः विकारः तत्पुच्छनिर्म्मितत्वात्। चमरीपुच्छकृतव्यजने अमरः। चामरलक्षणादिकमुक्तं युक्तिकल्पतरौ यथा “अथ चामरोद्देशः। “हस्तद्वयोन्नतः शुक्लः सुवर्ण बलिभूषितः। हीरेणालङ्कृतो राज्ञां भव्यमानसुख० प्रदः। बलेश्चामरदैर्घ्याद्वा आयामत्वं प्रकाशितम्। भव्यो भद्रोजयः शीलः सुखः सिद्धश्चलः स्थिरः। वितस्त्ये कैकसंवृद्ध्या दिनेशादिदिशां भुवाम्। सौवर्णं राजतं युग्मं त्रैदेशानां महीभुजाम्। योजयेदिति निश्चित्य बलिकम्पनकर्मणि। स्थलजं जाङ्गलोराजा आनूपो जलजं वहेत्। हीरञ्च पद्मरागश्च वैदूर्य्यं नीलएव च। मणिर्वलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम्। शुक्लो रक्तोऽथ पीतश्च नानावर्णो यथाक्रमम। चामरो राज- केशस्य न सामान्यस्य भूपतेः। न भव्यमानतो नूनं चामरं गुणमावहेत्”। अथ चामरपरीक्षा। “स्थलजं जलजं चेति चामरं द्विविधं विदुः। मेरौ हिमालये विन्ध्ये कैलासे मलये तथा। उदयेऽस्तगिरौ चैव गन्धमादनपर्व्वते। एवमेतेषु शैलेषु याश्चमर्य्यो भवन्ति हि। तासां बालस्य जायेत चामरेत्यभिधा भुवि। आपीताः कनकाद्रिजा हिमगिरेः शुभ्रा सता विन्ध्यजाः कैलासादसिताः सिता मलयजाः शुक्लास्तथा पिङ्गलाः। आरक्ता उदयोद्भवाश्चमरजा आनीलशुक्लत्विषः कृष्णाः केचन गन्धमादनभवाः पाण्डुत्विषश्चामराः। अन्येषु प्रायशः कृष्णाश्चामराः सम्भवन्तिहि। ब्रह्मक्षत्रियविट् शूद्रजातय स्ताश्चतुर्व्विधाः। चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः। दीर्घबालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः। विरलाः स्तनुपर्वाणश्चमर्य्यो ब्रह्मजातयः। विना संस्कार सप्यासां चामरं विमलं भवेत्। दीर्घबालाः सुगुरवः क्षत्रियास्तु भृशं घनाः। विज्ञेया स्थूलपर्वाणश्चमर्य्यो वैश्यजातयः। संस्कारे चाप्यसंस्कारे न स्वभावं त्यजेदिदम्। खर्ववालाः सुलघवः कोमलाङ्गाः भृशं घनाः। चमर्य्यस्तनुपर्वाणो विज्ञेयाः शूदजातयः। संस्कारेणापि मलिनमासां चामरमिष्यते। दीर्घता लघुता चैव स्वच्छता घनता तथा। गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः। खर्तता गुरुता चैव वैवर्ण्यं मलिनाङ्गता। दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः। दीर्धे दीर्घायुराप्नोति लघौ भीतिविनाशनम्। स्वच्छेस्याद्धनकीर्त्तिभ्यां घने स्युः स्थिरसम्पदः। खर्वे खर्वायुरुद्दिष्टं गुरुर्गुरुभयप्रदः। विरले रीगशोकाभ्यां मलिने मृत्युमादिशेत्”। इति स्थलजम्। अथ जलजम्। “लवणेक्षुसुरासर्पिर्दधितोयपयोऽब्धिषु। यथोत्तरं गुणवहाश्चमर्य्यः सप्त सप्तसु। पुच्छानि तासां कृत्तानि जन्तुभिर्मकरादिभिः। कदाचिदुपलभ्यन्ते तत्तीरे पुण्यशालिभिः। लवणाब्धिसमुद्भूतं पीतं गुरु तथा लघु। वह्नौ क्षिप्तश्च बालश्चेत् किञ्चित् चटचटायते। इक्षु सिन्धूद्भवं ताम्रं चामरं विमलं लघु। मक्षिका मशकाश्चेव तस्मिन् व्यजति चामरे। सुराब्धिजातं कलुषं कर्वूरं पुरुकर्कशम्। तद्गन्धेनैव माद्यन्ति अपि वृद्धा मतङ्गजाः। सर्पिःसिन्धुभवं स्निग्धं श्वेतापीतं घनं लघु। वायुरोगाः प्रशाम्यन्ति तस्य वीजनवायुना। जल- सिन्धूद्भवं पाण्डु दीघं लघु घन महत्। अस्य वातेन नश्येत्तु तृष्णामूर्च्छामदोभ्रमः। नारिष्टं न भयं तस्य यस्येदं चामरं गृहे। क्षीरोदसम्भवं श्वेतं दीर्घं लघु घनं महत्। अस्य चामरवातस्य विज्ञेयो गुण विस्तरः। नाल्पेन तपसा लभ्यो देवानामपि जायते। ह्रियतेऽभ्यन्तरे सिन्धोर्नागैः सम्पत्तिलोलुपैः। एषां पूर्ववदुन्नेयं जातिदोषगुणादिकम्। स्थलजे जलजे चैव भाव्यमेतद्विशेषणम्। स्थलजं सुखदह्यं हि दाहे मिषमिषायते। जलजं वह्निदुर्दह्यं महान्तं धूममुद्गिरेत्। चामराणां समुदिष्टमित्येवं लक्षणद्वयम्। एवं विमृष्य यो धत्ते स राजा सुख मश्नुते। जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः। तस्याचिरात् कुलं वीर्य्यं लक्ष्मीरायुश्च नश्यति। अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा। तस्ये तानि विनश्यन्ति लक्ष्मीरायु र्यशो बलम्। नालं वर्गद्वये तेषां विधेयं शिल्पिना क्रमात्। संस्कारो वालुकायन्त्रे मसूरसलिलादिभिः। तदुष्णसलिलक्वाथात् कृत्रिमत्वं विपद्यते”। “सचामारे देवमसेविषाताम्” कुमा०। “गच्छन्तमुच्च लितचामरचारुमश्वम्” माघः। “शशिप्रभं छत्रमुभे च चामरे” रघुः। अस्य स्त्रीत्वमपि वा ङीप्। तत्रार्थे भरतः।

चामरग्राह = त्रि० चामरं गृह्णाति ग्रह–अण् उप० स०। चामरेण वीजनकर्त्तरि स्त्रियां टाप् मुग्धबोधमते षण् ङीप् इति मेदः। ततः रेवत्या० अपत्ये ठक्। चामरग्राहिक तदपत्ये पुंस्त्री। णिनि चामरग्राहिन् तत्रार्थे त्रि० स्त्रियां ङीप्।

चामरपुष्प(क) = पु० चामरमिव पुष्पमस्य। १ क्रमुके, २ काशे, ३ केतके ४ आम्ने च मेदि० एषां चामरतुल्यगुच्छव त्त्वात् तथात्वम्। वा कप्। तत्रार्थे जटा०।

चामरिन् = पुंस्त्री चामरमिव केशरोऽस्त्यस्य इनि। १ घोटके जटाध०। २ चामरयुक्तमात्रे त्रि० स्त्रियां ङीप्।

चामीकर = न० चमीकरे स्वर्णाकरभेदे भवम् अण्। १ स्वर्णे २ धूस्तूरे च अमरः। “जगतीरिह स्फुरितचारु चामीकराः” माघः। तस्य विकारः अण्। ३ स्वर्ण्णमये त्रि० “सशब्दचामीकरकिङ्किणीकः” कुमा०। अस्योत्पत्त्यादिकं कनकशब्दे १६४४ पृ० उक्तम्।

चामुण्डा = स्त्री “यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता। चामुण्डेति ततोलोके ख्याता देवी भविष्यसि” देवोमा० निरुक्तनामके देवीभेदे। २ परव्रह्मणः समष्टिरूपशक्तिभेदे ३ ब्रह्मविद्यायाञ्च गुप्तवती। तत्र (ऐ~ ह्री~ क्ली~ चानुण्डायै विच्चे) इति चण्डिकानर्वार्ण्णार्थनिर्ण्णये उक्तं यथा। “निर्धूतनिखिलध्वान्ते! नित्यमुक्ते। परात्परे!। अखण्ड ब्रह्मविद्यायै चित्सदानन्दरूपिणि!। अनुसन्दध्महे नित्यं वयं त्वां हृदयाम्बुजे। इत्थं विज्ञापयत्येषा या कल्याणी नवाक्षरी। अस्या महिमलेशोऽपि गदितुं केन शक्यते। बहूनां जन्मनामन्ते प्राप्यते भाग्यगौरवात्। एनमर्थं गुरोर्लब्ध्वा तस्मै दत्त्वा च दक्षिणाम्। आशिषञ्च परां लब्ध्वा मन्त्रसिद्धिमवाप्नुयादित्यादि”। अत्र प्रथमश्लोके संबुद्धित्रयं ततश्चतुर्थ्यन्तन्ततः पुनः संबुद्धित्रयमिति सप्तभिः पदैः क्रमेण मन्त्रे सप्तधा परिच्छेदः। पदानां तत्तद्वि भक्त्यन्तता तत्तदर्थाश्चेति कथितं तदुत्तरपद्यार्द्धेनाकाङ्क्षित पदानामध्याहार उक्तः। इतरत्स्पष्टम्। सच्चिदानन्दा त्मकपरब्रह्मधर्म्मत्वाद्देवशक्तेरपि त्रिरूपत्वम्। तत्र चिद्रूपा महासरस्वती वाग्वीजे न (ऐ~) सम्बोध्यते। ज्ञानेनैवाज्ञाननाशात् निर्धूतनिखिलध्यान्तपदेन तद्विवरणम् युक्तमेव। नित्यत्वं त्रिकालाबाध्यत्वम्। अतएव मुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वम्। एतेव सद्रूपात्मकलक्ष्मीरूपस्य हृल्लेखया (ह्री~) सम्बोधनमिति व्याख्यातम्। पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एव तस्यैव पुरुषार्थत्वात्। “आत्मनः कामाय सर्वं प्रिये भवतीति” श्रुत्या तदितरेषामपि तदर्थत्वेनानन्दस्यैव सर्व शेषितया परत्वात्। स च मानुषानन्दमारभ्योत्तरोत्तरं शतगुणाधिक्येन श्रुतौ बहुशोवर्णितः “तेषु परमाति शायी स एको ब्रह्मण आनन्द” इति परमावधित्वेनाम्ना तएव परात्परः “स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः” इति पुराणं च तेन आनन्दप्रधानभहाकालीस्वरूपस्य कामवीजेन (क्ली~) सम्बोधनमुक्तम्। चामुण्डाशब्दो हि मोक्षकारणीभूतनिर्विकल्पकवृत्तिविशेषपरः तादर्थ्ये चतुर्थी चमूं सेनां वियदादिसमूहरूपाण्डाति लडयो रैक्याल्लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयतीतिव्युत्पत्तेः। पृषोदरादित्वात्सर्वंसाधु” इत्याहुः। “मया तवात्रोपहृतौ चण्डमुण्डौ महासुरौ” इति पद्ये द्विवचनयोः स्वारस्येन तूलमूलभेदेनाज्ञानद्वयपरत्वम् “यस्माच्चण्डं च मुण्डञ्च गृहीत्वा त्वमुपागता। वामुण्डेति ततो लोके ख्याता देवी भविष्यतीति” पद्येऽपि तूलमूलाविद्यापरताऽवसेया इति रहस्यम्। विच्चे इति। वित् च, इ, इति पदत्रयात्मकं वीजक्रमेणोक्तानाञ्चित्सदानन्दानां वाचकं सम्बुध्यन्तं अस्य स्त्री ई इत्यस्य ह्रस्वे इ इति हे आनन्दमयब्रह्ममहिषि इत्यर्थः। चित्पदं ज्ञानपरम्प्रसिद्धमेव चकारोऽपि नपुंसकः सन सत्यपर इति योज्यम् अनुसन्दध्महैत्यादिः शेषः। इत्थञ्च महासरखत्यादिरूपेण चिदादिरूपे! चण्डिके त्वाम्ब्रह्मविद्याप्राप्त्यर्थं वयं सर्व्वदा ध्यायेम इतिमन्त्रार्थः फलितः। तस्याय सङ्ग्रहः “महासरस्वति चिते! महालक्ष्मि! सदात्मिके!। महाकाल्यानन्दरूपे! तत्त्वज्ञानप्रसिद्धये। अनुसन्दध्महे चण्डि। वयन्त्वां हृदयाम्बुजे” इति। यद्यपि श्रीत्येव वीजम्महालक्ष्म्याःप्रसिद्धम्। न हृल्लेखा (ह्री~)। तथापि हकारशकारयोरूष्मवर्णत्वेन साजात्यान्नातीव भेदः। अतएव “श्रीश्च ते लक्ष्मीश्च ते पत्न्याविति” श्रुतौ शाखान्तरे श्रीपदस्थाने ह्रीपदपाठः। एवं कामवीज एव लकारस्य स्थाने रेफयोजनेन कालीबीजता रलयोश्चान्त्यस्थत्वेनैक्यान्नात्यन्तंभदः। तन्त्रान्तरेषु तु कालीसरस्वत्योर्वास्तविकभेदमभिप्रेत्य बीजयोर्वैपरीत्यव्यवहारोऽपि दृश्यत इति द्रष्टव्यम्। अयं चार्थः प्राचीतैर्वर्णितप्राय एव सम्यक्परिष्कृष्योक्तः। वस्तुतस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्पनया च समाधानस्याविवादादन्योऽपि प्रकारः सुवचः। चसु अदने इति धातोः उण् चामुरदनीयः पदार्थः स च ब्रह्मातिरिक्तः सर्वोऽपि “अत्ता चराचरग्रहणात्” इत्यधिकरणे तथा निर्णयात् तण्डापयति उड्डापयति न विषयीकुरुते ब्रह्ममात्रविषयिणीति यावत्। अथवा वकार एकाक्षरनिथण्टुरीत्या चन्द्रवाचक आह्लाद प्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन् ब्रह्मैव वक्ति। तत् आसमन्तान्मुण्डयतीति चामुण्डा मुण्डनं नामाधारापेक्षथा न्यूनसत्ताकवस्तुनिरासः शिरश्चर्म्मापेक्षया न्यूनसत्तावतासेव केशानां वपने प्रयोगात्। गौडपादीयभाष्ये तु शरीरराहित्यलक्षणम् मुण्डनं मुण्डकोपनिषदि प्रोक्तं अथवा। चानाम्बुद्धानां सुखानां वा मुण्डमिव शीर्षमिव स्थिता सर्वोत्तमा चरमवृत्तिरूपा ब्रह्मविद्येति यावत्। अथ चण्डिकारूपदेवतापरएव चामु ण्डाशब्दः। अत एव मन्त्रान्ते बह्निजाया योज- नेन होमे चामुण्डाया इदमित्येव त्यागो विधिशब्दस्य मन्त्रत्वे इत्यधिकरणन्यायसिद्धो युज्यते। चतुर्थी वलाच्च नमःशब्दस्यैवाष्याहारः। वीजत्रयमप्यव्यय रूपं चतुर्थ्यन्तमेव व्यष्टिदेवतात्रयवाचकमभेदद्योतकं तद्विशेषणम् विच्चे इत्यप्यखण्डमव्ययं स्वरादेराकृतिगणत्वात्। मन्त्रस्य पदखण्डशो न्यासप्रकरणेऽस्य युगलस्य विभजनं विनैव न्यासविधानात्। भगभालिनी नित्यामन्त्रादिषु बहुषु तस्य प्रयोगसत्त्वेन तत्रोक्तार्थ रीत्या निर्वाहाभावाच्च ततश्च हे अम्ब बन्धनकरणीभूतामिमां रज्जुं ग्रन्थिविसर्जनादिना मोचयेति। स्त्री सम्बोध्यकमोक्षप्रार्थनारूपो विशिष्टस्तदर्थः। यदापि दक्षिणामूर्त्तिसंहितायां भगमालिनीमन्त्रस्थ देवतागणनावसरे “अमोघां चैव विच्चाञ्च तथेशीं क्लिन्नदेवतामिति” पाठाद्विच्चानामिका काचिद्देवतैवेत्यालोच्यते तदापि परि करालङ्कारेण साभिप्रायं चामुण्डाविशेषणम्”।

चाम्पिला = स्त्री चपि–भावे अङ् चम्पैव चाम्पा ततः अस्त्यर्थे इलच्। चम्पानद्याम् त्रिका०।

चाम्पेय = न० चम्पायां नद्यां जम्बुनद्यां भवं ठक्। १ स्वर्णे २ धुस्तूरे च अमरः। ३ चम्पके ४ नागकेशरे च पु० किञ्जल्के न० स्वार्थे क तत्रार्थे राजनि०। तत्र स्वर्णे मणिमाणिक्यचाम्पेयदुकूलेभाश्वगोधनम्” काशी० ख० २४ अ०। ५ चम्पायां भवे त्रि०। ६ विश्वामित्रात्मजभेदे पु० “अवालिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा” भा० आ० ४ अ०। विश्वामित्रात्मजोक्तौ।

***