चन्द्रा = स्त्री चदि–आह्लादे रक्। १ एलायां २ विताने चन्द्रातपे च शब्दरत्ना० ३ गुडूच्यां शब्दार्थचि०

चन्द्रांशु = पु० चन्द्रस्यांशुरिवाह्लादकोऽंशुरस्य। १ विष्णौ परमेश्वरे “ऋद्धः स्पष्टाक्षरोमन्त्रश्चन्द्रांशुर्भास्करद्युतिः” विष्णु स०। “संसारतापतिग्मांशुतापतापितत्तेतसां च- न्द्रांशुरिवाह्लादकत्वात्” भा०। ६ त०। २ चन्द्रस्य कि रणे च।

चन्द्रातप = पु० चन्द्रस्य आतो गमनं ततः पाति पा–क। (चादींया) १ विताने चन्द्रस्य आतप इव किरणः। २ ज्योत्स्नायाम् हेम०। “चन्द्रातपमिव रसतामुपेतम्” काद०।

चन्द्रात्मज = पु० ६ त०। बुधे इन्दुजशब्दे दृश्यम्। चन्द्रतनयादयोऽप्यत्र।

चन्द्रानन = पु० चन्द्र इवाननमस्य। कार्त्तिकेये “अमोघस्त्वन घो रौद्रः शिवश्चन्द्राननस्तथा” भा० व० २३१ अ०। कार्त्तिकेयनामोक्तौ। २ चन्द्रतुल्यवदने त्रि०।

चन्द्रार्द्ध = पु० ६ त०। चन्द्रस्य कलारूपे भागे तुल्यभागार्द्ध परत्वे अर्द्धचन्द्र इत्येव स्यात्। “भुजासक्तेन शुशुभे गजदन्तेन केशवः। चन्द्रार्द्धविम्बसंसक्तो यथैकशिखरोगिरिः” हरिवं० ८७ अ० ८७ अ०। “मोहयन्नम्बुजाक्षीवृन्दं चन्दार्द्धचूडे! प्रभवति स महाघोरवाणावतंसे!” श्यामास्तवः।

चन्द्रालोक = पु० पीयूषवर्षकविकृते अलङ्कारप्रबन्धभेदे। “चन्दालोकममुं स्वयं वितनुते पीयूषवर्धः कविः” इति इति तदारम्भपद्यम्।

चन्द्रावली = स्त्री वृन्दावनस्थे मोपीभेदे। “राधाचन्द्रावलीमुख्याः प्रोक्ता नित्यं प्रिया व्रजे। कृष्णवन्नित्यसौन्दर्य्य वैदग्ध्यादिगुणाश्रयाः” उज्ज्वलमणिः।

चन्द्रास्पदा = स्त्री चन्द्र आस्पदं यस्याः। कर्कटशृङ्ग्याम्। राजनि०।

चन्द्रिका = स्त्री चन्द्रोऽस्त्यस्याः आश्रयत्वेन ठन् चदि–दीप्तौ रक् ततः स्वार्थे क वा। १ ज्योत्स्नायाम् अमरः। २ स्थूलैलायां (चा~दा)। ३ मत्स्यभेदे ४ चन्द्रभागानद्याञ्च शब्दर०। ५ कर्ण्णस्कोटालतायां ६ मल्लिकाया०। ७ श्वेतकण्टकार्य्यां ८ मेथिकायां ९ स्थूलैलायां राजनि०। १० चन्द्रसूरे भावप्र०। “मेधमुक्तविशदां स चनिद्रकाम्” रघुः। “नवचनिद्रकाकुसुमकीर्ण्णतमः” माघः। “न कस्य कुरुते चित्तभ्रमं चनिद्रका” सा० द०। चन्द्रि चन्द्रयुक्तं कं शिरोऽस्य ११ शिवे पु०। “चन्द्रिकानुप्रभावेन कृता दत्तकचनिद्रका” १२ ज्योत्स्नाया इव आह्लादिकायां स्त्रियां स्त्री स्मृतिचन्द्रिका अलङ्कारचन्द्रिका इत्यादि।

चन्द्रिकाद्राव = पु० चन्द्रिकया द्रावोनिष्यन्दो यस्य। चन्द्रकान्तमणौ राजनि०।

चन्द्रिकापायिन् = पुंस्त्री चन्द्रिकां पिबति पा–णिनि। चकोरपक्षिणि शब्दार्थचि० स्त्रियां ङीप्।

चन्द्रिकाम्बुज = न० चन्द्रिकेव शुभ्रमम्बुजम्। सितोत्पले राजनि०।

चन्द्रिन् = त्रि० चन्द्रोऽस्त्यस्य इनि। १ चन्द्रयुक्ते “चन्द्रिकानुप्रभावेण कृता दत्तकचन्द्रिका” २ सुवर्ण्णयुक्ते च “चन्द्री यजति प्रचेताः” यजु० २०। ३७। “चन्द्री” सुवर्ण्णमयः” वेददीपः।

चन्द्रिल = पु० चन्द्र + वा० अस्त्यर्थे इलच्। १ शिवे। २ नापिते ३ वास्तूके च मेदि०।

चन्द्री = स्त्री चदि–रक् गौरा० ङीष्। वाकुच्याम् राजनि०।

चन्द्रेश्वर = पु० चन्द्रसेविते काशीस्थे शिवमूर्त्तिभेदे चन्द्रशब्दे दृश्यम्। चन्द्रेशोऽप्यत्र लिङ्गपरत्वे न०

चन्द्रेष्टा = स्त्री चन्द्र इष्टोयस्याः निष्ठायाः वा परनिपातः। उत्पलिन्याम् राजनि०।

चन्द्रोदकुण्ड = पु० चन्द्रकृतमुदकं यत्र वा उदादेशः कर्म्म०। काशीस्थे कुण्डरूपे तीर्थभेदे “तथा चन्द्रोदकुण्डे च श्राद्धात्तृप्यन्ति पूर्खजाः” काशीख० १४ अ०।

चन्द्रोदय = पु० चन्द्रस्योदयः। विधोः प्राथमिकदर्शनयोग्यस्थानेषु १ प्रकाशे दिनेषु तिथिखण्डभेदस्थित्या तन्निरूपणं हरिभक्तिविलासे १६ वि० यथा “प्रतिपद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायां चन्द्र दर्शनं सम्भाव्यते। तदुक्तमग्न्याधानविषये वृद्धशातातपेन। “द्बितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी। अग्न्याधानं चतुर्दश्यां परतः सोमदर्शनादिति अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः। ततश्च यत्र प्रतिपदि अपराह्णे त्रिमुहूर्त्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनसम्भावनमिति” सुखबोधोक्ते २ औषधभेदे तत्पाकप्रकारो यथा सुखबोधे “पलं मृदुस्वर्णदलं रसेन्द्रं पलाष्टकं षोडश गन्धकस्य। शोणैः सुकार्पासभवैः प्रसूनैः सर्वं विमर्द्याथ कुमारिकाद्भिः। तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटै स्तद्दिवसत्रयञ्च। पचेत् क्रमाग्नौ सिकताख्ययन्त्रे त तोरजः पल्लवरागरम्यम्। निगृह्य चैतस्य पलं पलानि चत्वारि कर्पूररजस्तथैव। जातीफलं सोषष्णमिन्दु पुष्पं कस्मूरिकाया इह शाण एकः। चन्द्रोदयोऽयं कथितस्तु माषो भुक्तोऽहिवल्लीदलमध्यवर्त्ती। मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे। घृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि समस्तकानि। माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र। वलीपलितनाशनस्तनुभृतां वयःस्तम्भनः समस्त- गदखण्डनः प्रचुररोगपञ्चाननः। गृहेषु रसराडयं भवति यस्य चन्द्रोदयः सपञ्चशरदर्पितो मृगदृशां भवेद्दुर्लभः”। ३ चक्रदत्तोक्ते वर्त्तिभेदे स्त्री तत्प्रकारो यथा “हरीतकी वचाकुष्ठं पिप्पली मरिचानि च। बिभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला। सर्वमेतत् समं कृत्वा छागीक्षीरेण पेषयेत्। नाशयेत्तिमिरं कण्डूं पटलान्यर्बुदानि च। अधिकानि च मांसानि यश्च रात्रौ न पश्यति। अपि द्विवार्षिकं पुष्पं माषेणैकेण साधयेत्। वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी”।

चन्द्रोपल = पु० चन्द्रप्रियः उपलः। चन्द्रकान्तमणौ हेमच० इन्द्रकिरणसंपर्कात् तस्य क्षरणात् तत्प्रियत्वम्।

चन्द्रौरस = पु० ६ त०। १ बुधे “म्भौ न्यौ ल्गौ चेदिह भवति च चन्दौरसः” वृ० र० टीकोक्ते चतुर्द्दशाक्षरपादके २ वर्णवृत्तभेदे च

चप = चूर्णीकरणे चु० उभ० सक० सेट् घटा०। चपययि–ते अचीचपत्–त। चिधातोरेव स्वार्थे णिचि तद्रूपमित्यन्ये।

चप = सान्त्वने भ्वा० पर० सक० सेट्। चपति अचापीत–अचपीत्। णिचि चापयति।

चप = गतौ पु० उभ० सक० सेट्। इदित्। अम्पयति ते अचचम्पत् त

चपट = पु० चपेट + पृषो० (चड) चपेटे अमरटीका।

चपल = न० चुप–मन्दायां गतौ कल उपधोकारस्याकारः। १ शीघ्रे मेदि० २ क्षणिके त्रि० हेमच०। ३ पारदे ४ मत्स्ये ५ चातके ६ प्रस्तरभेदे च पु० मेदि०। ७ क्षये पु० राजनि०। ८ तरले चञ्चले च त्रि० मेदि०। ९ दोषमनिश्चित्य कर्मकारिणि त्रि० अम०। १० विकले त्रि० शब्दर०। ११ लक्ष्म्यां स्त्री “निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्मतया। दिवसात्ययात्तदपि मुक्तमहो चपलाजनम् प्रति न चोद्यमदःः” माघः। १२ विद्युति १३ पुंश्चल्यां १४ पिप्पल्याञ्च स्त्री मेदि०। १५ जिह्वायां स्त्री शब्दच०। १६ विजयायां १७ मादरायां स्त्री राजनि०। “नीचि नियतमिह यच्चपलो नियतः स्फुटं नभास निम्नगासुतः” माघः “शैशवाच्चपलमप्यशोभत” रघुः। “न पाणिपादचपलो न नेत्रचपलोऽगुजुः” मनुः। शौण्डा० ७ त०। नेत्रचपलः। पादचपलः। चेण्या० कृतादिभिः अभूततद्भावार्थे समासः। चपलकृतःचपलभूतः। विस्पष्टा० गुणवचनशब्दे परे तत्पुरुषे अस्य प्रकृतिस्वरत्वात् अन्तोदात्तता। चपलकटुकम्। प्रियादि० तस्मिन् परे पूर्वस्य न पुंवत्। प्रकाशमाना चपला विद्युत् यत्र प्रकाशमानाचपल इत्यादि। चपलस्य भावः अण् चापल न० ष्यञ् चापल्य न० त्व चपलत्व न० अनवस्थितत्वे “सहजचापलदोषसमुद्धतः” माघः। “मा चापलायेति गणान् न्यषेधीत्” कुमा०। “उभयार्द्धयोर्जकारो द्वितीयतुर्य्यौगमध्यगौ यस्याः। चपलेतिनाम तस्याः प्रकीर्त्तितं नागराजेन” वृ० र० उक्ते आर्य्याविशेषे १८ मात्रावृत्तभेदे स्त्री। स्वार्थेक। चञ्चले त्रि०। भृशा० अभूततद्भावार्थे क्यङ्। चपलायते अचपलायिष्ट

चपलता = स्त्री चपल–तल्। चाञ्चल्ये सा० द० उक्ते २ व्यभिचारिगुणभेदे। “सधृतिचपलताग्लानिचिन्तावितर्काः” व्यभिचारिण उद्दिश्य “मात्सर्य्यद्वेषरागादेश्चापल्यमनवस्थितिः। तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः” इति लक्षित्वा “अन्यासु तावदुपभोगसहासु भृङ्ग! लोलं विनोदय मनः सुमनोलतासु। मुग्धामजातरजसं कालिकामकाले व्यर्थं कदर्षयसि किं नवमालिकायाः” सा० द० उदाहृतम्।

चपलाङ्ग = पु० चपलमङ्गमस्य। शिशुमारे जलजन्तुभेदे। हारा०।

चपलावक्त्र = न० “चपलावक्त्रमयुजोर्नकारश्चेत् पयोराशेः” वृ० र० उक्ते छन्दोभेदे।

चपेट = पु० चप–वञर्थे क चपाय सान्त्वनाय एटति गच्छति इट–क। विस्तृताङ्गुलिके हस्ते (चापड) स्त्रीत्वमीष्यते “खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति” भाष्यप्रयोगात्। स्वार्थे क। अत्रैवार्थे अमरः।

चपेटी = स्त्री भाद्रशुक्लषष्ठ्याम्। “प्रसूत्या द्वादशे मासि सम्पूज्यापत्यवृद्धये। सुते जाते अथा षष्ठ्यां षष्ठीद्वादश रूपिणी। वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता। आषाढे कार्द्दमी ज्ञेया श्रावणे लुण्ठनी मता। भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा। नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी। पौषे मास्यन्नरूपा च शीतला तपसि स्मृता। गोरूपिणी फाल्गुने च चैत्रेऽशोका प्रकीर्त्तिता” स्कन्द० पु०

चप्य = त्रि० चप–पवर्गान्तत्वात् कर्म्मणि यत्। अदनीये। “चप्यं भवत्यन्नाद्यस्यावरुद्ध्यै” शत० व्रा० १२७। २। १३। “चप्यं न पायुर्भिषमस्य” यजु० १९। ८८।

चम = अदने भ्वा० प० सक० सेट्। चमति आचामति। विचमति। आचमीत् चचाम चेमतुः। उदित् चमित्वा चान्त्वा। आचान्तः। आचमनम् आचमनीयम्। “आचान्तः पुनराचामेत्” स्मृतिः। “मनाग् मग्नोऽपि नाचामसि” प्रवोधच०। “चचाम मधु माध्वीकम्” भट्टिः। णिचि चामयति। “इमां किमाचामयसे न चक्षुषी” नैष०।

चम = भक्षे स्वादि० वैदिकः प० सक० सेट्। चम्नोति उदित् चमित्वा चान्त्वा। कविकल्पद्रुमे “कुस्मित्यां गमॢ गत्यां चम् न्रचम् जम् जिमु झम” इति वाक्ये “परोऽनुबन्धः पूर्व्वेषाम्” इति तत्रोक्तेः सर्व्वेषामुदित्त्वं तेन शब्दकल्पद्रुमे स्वादिगणीयस्य उदित्त्वानुक्तिः प्रामादिकी

चमत्कार = पु० चमदित्यव्यक्तं क्रियते कृ–भावे घञ्। लोकातीतंवस्तु दृष्ट्या चित्तस्य आनन्दहेतौ १ प्रकाशे विस्मये, “लीकोत्तरचमत्कारप्राणदश्च प्रमातृभिः”। “चमत्कारश्च चित्तविस्ताररूपो विस्मयापरपर्य्याय” सा० द०। “रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते” तद्धृतधर्म्मदत्तवाक्यम्। “चमत्कारश्च लोकातीतार्थाकलनेन किमेतदितिज्ञान धाराजननेन चित्तवृत्तेः दीर्घविस्तारः। दृष्टहेतुभ्योऽ सम्भावितत्वज्ञानेन हेत्वन्तरानुसन्धानाय मनसोव्यापारभेद एव चित्तविस्तार इत्यन्ये। सुखविशेष एव चमत्कार इत्यपरे। चमत्कारत्वञ्च आह्लादगतो जातिविशेषः यथाह रसगङ्गाधरे “रमणीयार्थप्रतिपादकः शब्दः काव्यं रमणोयता च लोकोत्तराह्लादजनकज्ञानगोचरता लोकोत्तरत्वञ्च आह्लादगतश्चमत्कारत्वापरपर्य्यायोऽनुभवसाक्षिकोजातिविशेषः” इति। “इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादक शब्दत्वं यत्प्रतिपाद्यार्थविषयकभावनात्व चमत्कार जनकतावच्छेदकं तत्त्वं, स्वविशिष्टजनकतावच्छेदकार्थ प्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्” इति च। कर्त्तरि अण्। २ अपामार्गे त्रिका०।

चमर = पुंस्त्री चम–अरच्। १ महिषाकृतौ मृगभेदे, यस्य पुच्छेन चामराख्यं व्यजनं भवति, स्त्रियां जातित्वात् ङीष्। “कुर्व्वन्ति बालव्यजनैश्चमर्य्यः” “बालप्रियत्व शिथिलं चमर्य्यः” कुमा०। “स्फुरति चानुवनं चमरीचयः” माघः। २ दैत्यभेदे पु०। ३ चमरबालजाते चामरे न०।

चमरपुच्छ = पुंस्त्री चमरस्य पुच्छमिव पुच्छमस्य। (केकडे) बिलेशये १ पशुभेदे। राजनि०। ६ त०। २ चामरे न०

चमरिक = पु० चमरमिव केशरोऽस्त्यस्य ठन्। कोविदारवृक्षे रक्तकाञ्चनारे वृक्षे अमरः

चमरी = स्त्री चमरजातिस्त्री ङीष् चमरमिवाकारोऽस्त्यस्या अच् गौरा० ङीष् वा। १ चमरजातिस्त्रियां चमरशब्दे उदा०। २ मञ्जर्य्यां मेदि०।

चमस = पुंन० अर्द्धर्चादि० चमत्यस्मिन् चम–असच्। १ पलाशादिकाष्ठजाते यज्ञियपात्रभेदे तल्लक्षणभेदादिकं यज्ञपार्श्वे उक्तं यथा “चमसानां तु वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः। त्र्यङ्गुलस्तु भवेत्स्कन्धो विस्तारश्चतुरङ्गुलः। विकङ्कतमयाः श्लक्ष्णार्वाग्बिलाश्चंमसाः स्मृताः। अन्येभ्यो वापि वा कार्य्यास्तेषां दण्डेषु लक्षणम्। होतुर्मण्डल एव स्याद्व्रह्मणश्चतुरश्रकः। उद्गातृणां च त्र्यश्रिः स्याद्याजमानः पृथुः स्मृतः। प्रशास्तुरवतष्टः स्यादुत्तष्टो ब्रह्मश सिनः। पोतुरग्रे विशाखी स्यान्नेष्टुः स्याद्विगृहीतकः। अच्छावाकस्य रास्नाव आग्नीध्रस्य मयूखकः। इत्येते चमसाः प्रोक्ता ऋत्विजां यज्ञकर्म्मणि। पलाशाद्वा वटाद्वान्यवृक्षाद्वा चमसाः स्मृताः” कात्या० श्रौ० १। ३। ३६। सूत्रभाष्ये कर्कः “स च चमसश्चतुरश्रो द्वादशाङ्गुल दीर्घश्चतुरङ्गुलखातः सवृन्तश्च भवति परिशिष्टात् सूत्रकारप्रस्थानाच्च। चमसवत्स्रुवेणेति स्रुवस्य चतुरश्रतां विधातुं चमसवदित्येव चमसस्य सिद्धां चतुरश्रतामाह” कात्या० श्रौ० २। ३। १। “चमसवदविशेषात्” शारी० सू०। “अर्वाग्बिलश्चमस” इति तद्भाष्यधृतश्रुतिः। स्त्रीत्वमपि मेदि०। २ सोमपानपात्रभेदे च। कर्म्मणि अच्। ३ पर्पटे पिष्टकभेदे ४ लड्डुके च पु० “चूर्ण्णं यच्छुष्कमाषाणां चमसी साऽभिधीयते” भावप्र० उक्ते (धूमसी) ख्याते ५ माषचूर्णे च स्त्री गौरा० ङीष्।

चमसिन् = पु० चमस + अस्त्यर्थे इनि। चमसयुक्ते स्त्रियां ङीप् ततः नडा० अपत्ये फक्। चामसायन तदपत्ये पुंस्त्री०

चमसोद्भेद = पु० भारतप्रसिद्धे प्रभासान्तिकस्थे तीर्थभेदे। “ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली। चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत” भा० शल्य० ३६ अ०। “एष वै चमसोद्भेदो यत्रादृश्या सरस्वती। यत्रैनामभ्यवर्त्तन्त सर्व्वाः पुण्याः समुद्रगाः” भा० व० १३० अ०। चमसोदनमप्यत्र न० “आश्रमान् सरितश्चैव सरांसि च नराधिप!। चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत” ८८ अ०। “स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्” ८२ अ०।

चमीकर = पु० कृतस्वराभिधे स्वर्णस्योत्पत्तिस्थाने शब्दार्थचि० यद्योगात् स्वर्णं चामीकरमित्युच्यते।

चमू = स्त्री चम–ऊ। सेनामात्रे (गजाः ७२९, रथाः ७२९ अश्वाः २१८७, पदातयः ३६४५), एतत्संख्याभेदान्विते सैन्यभेदे च अमरः। “अक्षौहिणीशब्दे ४६ पृ० दृश्यम्। “रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्” मेघ०। आधारे ऊ। ३ चमसे स्त्री “द्रप्सा मधश्चमूषदः” ऋ० १। १४। ४। “चमूषदः चमसादिपात्रेषु अवस्थिताः” भा०। ४ द्यावापृथिव्योः द्वि० व० निघ०

चमूचर = पु० चमुषु चरति चर–ट। २ सैनिके शब्दार्थचि०।

चमूनाथ = पु० ६ त०। सैन्याध्यक्षे “युवतिचमूनाथभोज्यवस्त्राणाम्” वृ० सं० १६ अ०। चमूपत्यादयोऽप्यत्र।

चमूरु = पुंस्त्री चम–खर्जूरा० ऊर पृषो० अत ऊत्त्वम्। मृगभेदे। “चकाशतं चारुचमूरुचर्म्मणा” माघः। “इदमूरुयुगं न चमूरुदृशः” प्रसन्नरा०।

चमूहर = पु० चमुं दैत्यसैन्यं हरति हृ–अच्। महादेवे “चमूहरः सुरेशश्च व्योमारिः शङ्गरोभवः” भा० आनु० ९१ अ० शिवनामोक्तौ।

चम्प = पु० तु० चपि–अच्। १ कोविदारवृक्षे शब्दमाला २ तत्पुष्पादौ न०।

चम्पक = पु० चपि–ण्वुल्। (चा~पा) प्रसिद्धपुष्पप्रधाने १ वृक्षभेदे अमरः। “चम्पकः कटुकस्तिक्तः कषायो मधुरोहिमः। विषकृमिहरः कृच्छ्रकफवाता म्लपित्तहृत्” भावप्र० तद्गुणा उक्ताः। २ तत्पुष्पादौ न० “व्यालोकयच्चम्पककोरकाबलीः” नैष०। “उन्निद्रपुष्पचनचम्पकपिङ्गभासा” माषा। ३ पनसफलैकभागभेदे (चा~पी) ख्याते पदार्थे (चा~पाकला) प्रसिद्धे ४ कदलीभेदे पु० तत्फले न० राजनि०। “चम्पकं वातपित्तघ्नं गुरु वीर्य्यकरं तथा। अतिशीतं रसे पाके मधुरं कथितं बुधेः” भावप्र० तद्गुणा उक्ताः। ५ साङ्ख्यमतसिद्धे सिद्धिभेदे “न्यायेन स्वयं परीक्षितमप्यर्थं तावन्न श्रद्दवते यावद्गुरुशिष्यसब्रह्मचारिभिः सह न संवाद्यते अतः सुहृदां गुरुशिष्यसब्रह्मचारिणां संवादकानां प्राप्तिः सुहृत्प्राप्तिः सा सिद्धिश्चतुर्थी चम्पकमुच्यते इति” सांख्यशास्त्रम्।

चम्पकचतुर्द्दशी = स्त्री ज्यैष्ठशुक्लचतुर्द्दश्याम् ज्यैष्ठमासे इत्युपक्रमे “चतुर्द्दश्यां च शुक्लायां चम्पकैः पूजयेत् शिवम्। अयुतैर्वा सहस्रैर्बा शतैर्वा परमेश्वरि!। पायसञ्च बलिं दद्यात् ततो नक्तं चरेद्व्रती। वृषस्थेऽर्के विशेषेण न भूयो जायते भुवि। त्रिमध्वक्तैश्चम्पकैश्च सहस्रं जुहुयान्निशि। क्षयपष्टिं ज्वरान् हन्ति कृत्वा द्रोहाणि यानि च। चम्पकचतुर्द्दशि ख्याता पूजयेद्वै सदाशिवम्। दशजन्मकृतं पापमर्च्चनादेव नश्यति” मत्स्यसू० ४५ प०

चम्पकमाला = स्त्री चम्पकपुष्पनिर्मिता माला ६ त०। १ चम्पक पुष्पमालायाम्। २ चम्पकपुष्पाकारे स्त्रीणां कण्ठाभरण- भेदे। (चापकलि) शब्दार्थ०। “भ्मौ सगयुक्तौ चम्पक माला” वृ० र० उक्ते दशाक्षरपादके ३ वर्णवृत्तभेदे चम्पक मालेत्यत्र “रुक्मवतीयम्” इत्यपि पाठः।

चम्पकरम्भा = स्त्री चम्पकोपपदा रम्भा शा० त०। (चा~पाकला) कदलीभेदे राजनि०।

चम्पकारण्य = न० चम्पकप्रधानमरण्यम्। भारतप्रसिद्धे तीर्थभेदे “ततो गच्छेत राजेन्द्र! चम्पकारण्यमुत्तमम्। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्” भा० व० ८४ अ०।

चम्पकालु = पु० चम्पकेन पनसावयवभेदेन अलति अलौण्। पनसे (का~टाल) शब्दार्थचि०

चम्पकावती = पु० चम्पक + अस्त्यर्थे मतुप् मस्यवः संज्ञायां दीर्घः। चम्प्रापुर्य्यां कर्णराजधान्याम् (भागलपुर) ख्याते पुरीभेदे शब्दरत्ना०।

चम्पकुन्द = पु० चम्पैव कुन्दते कुदि–अच्। (चा~दकु~डा) मत्स्यभेदे राजनि०।

चम्पकोष = पु० चम्पकैरुष्यते अत्र वस–घञर्थे आधारे क ६ त०। पनस त्रिका०।

चम्पा = स्त्री चम्प–अच्। कर्णपुर्य्यासङ्गदेशस्थे १ पुरीभेदे। (चा~पाइ) ख्याते तन्निटस्थे २ नदीभेदे ३ पनसावयवभेदे। (चा~पि) शब्दार्थचि०

चम्पाधिप = पु० ६ त०। कर्णे तस्य तद्राज्यकथा अङ्गाघिपशब्दे ७८ पृ० दृश्यम्।

चम्पापुरी = स्त्री चम्पानामिका पुरी। अङ्कदेशस्थे कर्णराज धान्याम। चम्पानगर्य्यादयोऽप्यत्र।

चम्पालु = पु० चम्पया अलति अल–उण्। पनसे शब्दरत्ना०।

चम्पावती = स्त्री चम्पा अङ्गदेशस्थः नदीभेदः अस्त्यस्याः मतुप् मस्य वः। चम्पापुर्य्यां शब्दरत्ना०।

चम्पू = स्त्री चपि–ऊ। “गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते” इत्युक्ते काव्यभेदे जटा०।

चम्पेश = पु० ६ त०। कणे त्रिका०।

चम्पोपलक्षित = पु० ३ त०। १ अङ्गदेशे हेमच० २ तद्देशवासिषु ब०व०

चम्ब = गतौ भ्वा० पर० सक० सेट्। चम्बति अचम्बोत्। चचम्ब

चम्रिष् = त्रि० चमूषु चमसेषु इष्यति गच्छति इष–क्विप् वेदे नि० वस्य रः। चमसस्थे। “तस्य चम्रिषोऽत्यो न” ऋ० १। ५६। १। “चमूषु चमसेषु इषः वर्त्तमानाः” भा० पृषो० दीर्घः चम्राष इत्यप्यत्रार्थे। “चम्बीषो न शरदा पाञ्चजन्यः” ऋ० १। १००। १२।

चय = गतौ भ्वा० आ० सक० सेट्। चयते अचयिष्ट चेये।

चय = पु० चि–भावकर्म्मादौ अच्। १ समूहे। २ वप्रे ३ प्राकार मूलबन्धने। यदुपरि प्राकारो निरूप्यते प्राकारमूलस्थित वैदिकेति यावत्। तथा चार्थशास्त्रम्। “खातमुद्धृत मृदा वप्रं कारयेद् तस्यीपरि प्राकारमिति” पगार इति गौडभाषा। ४ परिखोद्धृतमृत्स्तूपे। तत्रसमूहे “स्फुरति चानुबनं चमरीचयः”। “निलयेषु नक्तमसिताश्मनाञ्चयैः” “चयस्त्विषामित्यवधारितं पुरः” इति च माघः। वप्रे “चयाट्टालकशोभिना” भा० व० १६ ० अ०। ५ अग्न्यादेश्चयने संस्कारभेदे। “यज्ञांश्च सचयानलान्” हरिवं० ४१ अ०। ६ पुष्पादेः समाहरणे ७ पीठे मेदि०। चये कुशलः आकर्षा० कन्। चयक चयनकुशले त्रि०।

चयन = न० चि–भावे ल्युट्। १ पुष्पादेः समाहरणे २ अग्न्यादेः संस्कारभेदे च। चयनप्रकारः कातीयादौ दृश्यः “स यथा कामयेत तथा कुर्य्यादिति अचयनस्य तथाचयनस्येति” शत० व्रा० ९। ५। २। ११। चीयतेऽनेन करणे ल्युट्। थंस्कारसाधने ३ यूपादौ च। “येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता” भा० द्रो० ५१ अ०।

चर = गतौ भ्वा० पर० सक० सेट्। चरति अचारीत्। चचार चेरतुः। “दिवा चरेयुः कार्य्यार्थं चिह्निताराज शासनैः” मनुः। “चेरतुः खरदूषणौ” भट्टिः “हंसं तनौ सन्निहितं चरन्तम्” नैष०। चरः चारः चरणम् चरितं चरित्रम्। चरन् चंचूर्य्यते “ततश्चंचूर्य्यमाणासौ” भट्टिः। यङ्लुकि चंचुरीति चंचूर्त्ति।अति + अतिक्रंम्य गमने “अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम्” भाग० ३। १७। १४। “अयोगतश्चात्यचरत् योगं दिवि निशाकरः” हरिवं० २३६ अ०। “पुत्राः पितॄनत्यचरन्नार्य्यश्चात्यचरन् पतीन्” भा० शा० ८३८७ श्लो०। अतिचारशब्दोक्तेऽर्थे अतिचारशब्दे ९९ पृ० दृश्यम्।वि + अति व्यतिक्रमे “त्वामहं न व्यतिचरे मनसाऽपि कदाचन” रामा० ल० १०१।अधि + आधिक्येन चरणे। “यामुपरिष्टादधिचरसि” शत० १। ९। १। ८।अनु + अनुगमने पश्चाद्गमने सादृश्यकरणे। अनुचरः।अप + अपकारे अनिष्टसम्पादने। “योयस्तेषामपचरेत् त माचक्षीत वै द्विजः” भा० शा० ९५८६। “पितृदेवर्षिभृत्याश्च न चापचरिता मया” मार्क० पु०।अभि + आभिमुख्येन चरणे अतिक्रमे व्यभिचारे च “पतिं या नाभिचरति मनोवाग्देहसंयता” मनुः “यथैवाहं नाभिचरे कदाचित” भा० वि० ४५७ अ०। अनिष्ट सम्पादने “श्येनेनाभिचरन् यजेत” श्रुतिः। अभिचारश्च मारणोच्चाटनादीनि षट्कर्म्माणि “प्रति तमभिचर योऽस्मान् द्वेष्टि” अथ० २। ११। ३। अभिचारशब्दे दृश्यम्।वि + अभि + विशेषेण अतिक्रमे। यस्य यथात्वमुचितं तस्य तदतिक्रमे। “उम्राणां व्यभिचरतीव सप्तसप्तौ” किरा०। “व्यभिचचार न तापकरोऽनलः” नैष०। हेतोः साध्याभाववद्वृत्तित्वं, साध्यस्य च हेतुसमानाधिकरणाभाब प्रतियोगित्वं व्यभिचारः। “न तावदव्यभिचरितत्वं तद्धि न साध्याभाववदवृत्तित्वम्” अनुमानचिन्ता०। स्त्रीणाञ्च पतिमतिक्रम अन्यपुंसि गमनं व्यभिचारः।अव + समन्तात् चरणे। “कषायं अवचारितम्”। “कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितम्” “प्रमार्जनं धावनञ्च वीक्ष्य वीक्ष्यावचारयेत्” “दूर्व्वां पुनर्णवाञ्चैव लेपे साध्ववचारयेत्” इति च सुश्रु०।आ + अनुष्ठने। “प्रस्थितायां प्रतिष्ठेथा स्थितायां स्थितिमाचरेः” रघुः। “यद्यदाचरति श्रेष्ठः” गीता। प्रतिपाल्यत्वादिना सदृशीकरणे च “संप्राप्ते षोडशे वर्षे पुत्रं मित्रवदाचरेत्” चाण०।अधि + आ + आधिक्येनाचरणे “शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत्” मनुः।अनु + आ + अनुगमने तुल्यरूपानुष्ठाने “कोनु तत्कर्म्म राजर्षेर्नाभेरन्वाचरेत् पुमान्” भाग० ४। ५। ७।सम्–उद् + आ सम्यगाचरणे। “बालानपि च मार्गस्थान् सान्त्रेन समुदाचरेत्” भा० शा० ३३ अ०।उप + आ + उपासने। “उपाचरति तत्रस्म धनानामीश्वरम् प्रभुम्” भा० स० १० अ०।सम् + आ + सम्यगाचारे। “त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु” भा० क० ३१ अ०। उपधातैत्त्वम्। “उच्छिष्टान्ननिषेकञ्च दूरादेव समाचरेत्” मनुः।उद् + उल्लङ्घ्य गतौ सक० आत्म०। धर्म्ममुच्चरते “धर्म्ममुल्लङ्घ्य गच्छतीति” सि० कौ०। उपरिष्टाद्गतौ अक० प०। वाष्प उच्चरति “उपरिष्टाद्गच्छति” सि० कौ०। “सौदामनीमुच्चरन्तीं यथैव” भा० व० ११३ क०। “क्षीवावृन्दैरुदचरत्” भट्टिः “दिव्यस्तूर्य्यध्वनिरुदचरत् व्यश्नुवानोदिगन्तान्” रघुः। कण्ठताल्वाद्यभिघातेन उत्पादने “सकृतच्चरितः शब्दः सकृदर्थं गमयतीति न्यायः। “अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात्” रघुः।वि + उद् + विशेषेण उत्थितौ। “यथाऽग्नेः क्षुद्राविस्फुलिङ्गा व्युच्चरन्ति” शत० व्रा० ४। ५। १। २३।सम् + उद् + सम्यगुत्थितौ। “समुच्चरन्त्यस्मादापः” निरु० ६। ११उप + उपासने “गिरिशमुपचचार प्रत्यहं सा सुकेशी” कुमा०। अन्यथास्थितस्य वस्तुनोऽन्यथात्वप्रतिपादनरूपे शब्दादिव्यापारभेदे उपचारश्च लक्षणा छलं वा। “यथा लोके स्वशक्तिषु योधेषु वर्तमानौ जयपराजथौ राज्ञि उपचर्य्येते” सा० द०। “तेनोपचर्य्यते राहुः”। “याम्योत्तरा शशिगतिर्गणितेऽप्यु पचर्य्यते तेन” वृ० स० ५। १५।दुस् + दुष्टाचरणे। “कामवक्तव्यहृदया भर्त्तारं दुश्चरन्ति याः” रामा० आर० २। २५।निस् + निर्गमने “इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः” हरिव० २२ अ०। “यतोयतोनिश्चरति मनश्चञ्चलमस्थिरम्” गीता।परि + परितोगमने “कङ्का श्येनास्तथा गृध्रा नीचैः परिचरन्ति च” रामा० ल० १६। ११। परितः सेवने “गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु कालेषु दितिं परिचचार ह” रामा० बा० ४६ अ० ११। “आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः” रा० अयो० ३५। १४। परिचर्य्या परिचारकः।प्र + प्रकाशेन गतौ। “प्राणः प्रालीयत ततः पुनश्च प्रचचार ह” भा० आश्व०२३ अ०। प्रकर्षेण चरणे च। “यैः कर्ममिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः” मनुः। प्रचारः।सम् + प्र + सम्यग् प्रकाशके। “अद्य प्रभृति चैवेह लोके संप्रचरिष्यति” भा० आनु० ९६ अ०।वि + विशेषण गतौ “विचरन्ति महीपाला यात्रार्थं विजिगीषवः” रामा० आर० २२। ७। “ततोद्रौणिर्महावीर्य्यः पार्थस्य विचरिष्यतः” भा० वि० ५९ अ०। “रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च” “इन्द्रियाणां विचरतां विषयेष्वपहारिषु” मनुः। वि + चु० चर पर्य्यालोचनया निर्णये। “आयतिं सर्वकार्य्याणां तदात्वञ्च विचारयेत्” मनुः। “मित्रामित्रं विचारयेत्” भा० पा० ३८२६। “विचारदृक्चारदृगप्यवर्त्तत” “भविता न विचारचारु चेत्” नैष०।सम् + सम्यग्गतौ “नैव वाताः प्रतायन्ते न मेघाः सञ्चरन्ति च” हरिव० १०७५८। “आमेखलं सञ्चरतां घनानाम्” कुमा० “सञ्चारोरतिमन्दिवावधि” रतिमञ्जरी करणविभक्तिसहकारे आत्म०। “रथेन सञ्चरते” सि० कौ०। “पद्भ्यां नृपः सञ्चरमाण एव” नैष०।

चर = संशये असंशये च चुरा० उभ० सक० सेट्। चारयतिते अचीचरत् त विचारयति विचारणा विचारितः

चर = पु० चर–अच्। स्वपरराष्ट्रवृत्तान्तज्ञानार्थं राजनियोगेन इतस्ततो भ्रमणकर्त्तरि चारे १ प्रणिधौ, अमरः २ कपर्द्दके, राजनि०। ज्योतिषोक्तेषु ३ मेषकर्कटतुलामकरराशिषु ४ स्वातिपुनर्वसुश्रवणादित्रिकरूपे नक्षत्रभेदे ५ भौमवारे ६ अक्षद्यूतभेदे। ७ चले अनवस्थिते त्रि० मेदि०। ८ खञ्जनखगे पुंस्त्री शब्दमा०। चरलक्षणादिकमुक्तं युक्तिकल्पतरौ “विवस्वानिव तेजोभिर्नभस्वानिव वेगतः। राजा चरैर्ज्जगत् सर्वं प्राप्नुयाल्लोकसन्मतैः। तर्केङ्गितज्ञः स्मृतिमान् स्वीयभावप्रकाशकः। क्लोशायाससहो दक्षः सर्वत्र भयबर्जितः। सुभक्तो राजसु तथा कार्य्याणां प्रतिपत्तिमान्। नृपोनिहन्याच्चारेण परराष्ट्रं विचक्षणः। कालज्ञो मन्त्रकुशलान् सांवत्सरचिकित्सकान्। तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः। अक्रुद्धांश्च तथाऽलुब्धान् दृष्टार्थान् तथ्यभाषिणः। पाषण्डिन स्तापसादीन् परराष्ट्रे नियोजयेत्। स्वदेशपरदेश ज्ञान् सुशीलान् सुविचक्षणान्। वार्त्ताहर्य्याण् बहूंश्चैव चराणां विनियोजयेत्। नैकस्य वचने राजा चारस्य प्रत्ययं वहेत्। द्वयोः संवादमाज्ञाय यद्युक्तं कार्य्यमारभेत्। तस्माद्राजा प्रयुञ्जीत चरान् वहुमुखान बहून्। नीरेतोवामनाः कुब्जास्तद्विधा ये च कारवः। भिक्षुक्य श्चारणा दास्यो मालाकार्य्यः कलाविदः। अन्तःपुरगतां वार्त्तां निर्हरेयुरलक्षिताम्। प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधो मतः। अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः”। “शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये। ते गुह्यचाराः कर्त्तव्याः यथार्थश्रुतबोधकाः” शुक्रखिलनीतिशा०। “चरस्थिरद्व्यात्मकनामधेयामेषादयोऽमी क्रमशस्त्रिधा स्युः” ज्यो० त०। “वातादित्यहरित्रयं चरगणः” ज्यो० त० १५। १३। २२। २३। २४ संख्यकनक्षत्राणि चराणि। “येऽनेन लङ्कोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः। देशान्तरं प्रागपरं तथान्यद् याम्योत्तरं तच्चरसंज्ञमुक्तम्” सि० शि० “यौदयान्तरकर्मणा लङ्कायामौदयिका ग्रहा जातास्ते देशान्तरकर्मणा स्वपुरौदयिकाः स्युः। तच्च देशान्तरं द्विविधम्। एकं पूर्वापरमन्यद्याम्योत्तरम्। तच्चरसंज्ञसुक्तम्” प्रमि० उक्ते याम्योत्तरादौ देशान्तरे। चरानयनप्रकारादि सू० सि० र नारथाभ्यां दर्शितं यथा। “अथ दिनरात्रिमानज्ञानार्थं चरानयनं विवक्षुः प्रथमं तदुपयुक्तां स्पष्टक्रान्तिमाह” र० ना० “विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता। दिग्भेदे वियुता स्पष्टा भास्करस्य यथाऽऽगता” सू० “यस्य ग्रहस्य स्पष्टक्रान्तिरभीष्टा तस्य ग्रहस्यायनांशसंस्कृतस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रान्तिरयनांशसंस्कृतग्रहगोलदिक्वा ज्ञेया। तस्य विक्षेपोऽपि पूर्वोक्तप्रकारेण पातोनगोलदिक्को ज्ञेयः। गोलस्तु मेषादिषट्कमुत्तरस्तुलादिषट्कं दक्षिणः। अथ शरक्रान्त्योरेकदिक्त्वेन क्रान्तिः कलाद्या कलात्मकविक्षेपेण युता तयोर्दिगन्यत्वे क्रान्तिर्व्विक्षेपेण वियुतान्तरिता शेषदिक्वा स्पष्टा क्रान्तिः स्यात्। ननु सूर्य्यस्य विक्षेपाभावात् कथं स्पष्टा क्रान्तिर्ज्ञेयेत्यत आह भास्करस्येति। सूर्य्यस्य यथागता पूर्वागता क्रान्तिरेव स्पष्टा क्रान्तिः। अत्रोपपत्तिः। विषुवद्वृत्ताद्ग्रहविम्बकेन्द्रपर्य्यन्तं याम्यमुत्तरं वान्तरं स्पष्टक्रान्तिरिति तयोरेकदिक्त्वे तद्योगतुल्यमन्तरं, भिन्नदिक्त्वे तदन्तरमितमन्तरमिति। अत्र शरस्य क्रान्तिसंस्कारयोग्यत्वसम्पादिका क्रिया लोकश्रमभयात् स्वल्पान्तरत्वाच्चोपेक्षिता भगवता कृपावता। अन्यथा शरस्य ध्रुवाभिमुखत्वे मगवदुक्तमायनदृक्वर्म्म कथमव्याहतं स्यादित्यलम्। अथ दिनरात्रिमानज्ञानार्थमहोरात्रासून् साधयति” र० ना०। “ग्रहोदयप्राणहता खखाष्ट कोद्धृता गतिः। चक्रासवो लब्धयुताः स्राहोरात्रासवः स्मृताः” सू०। “ग्रहस्य येऽयनांशसंस्कृतराशेर्वक्ष्यमाणनिरक्षोदयासवस्तैर्गुणिता निजस्फुटगतिः कलाद्यष्टादशशतभक्ता फलेन युताश्चक्रासवः षष्टिघटिकानामसवः षट्शतयुतैकविंशतिसहस्रमिताः स्वस्वग्रहस्याहोरात्रासवः कालतत्त्वज्ञैः कथिताः। अत्रोपपत्तिः। ग्रहः पूर्व्वगत्या लम्बितः प्रवहेण गतिभोगकालेन भचक्रपरिवर्तानन्तरमुदेत्यतो भचक्रपरिवर्तकालः षष्टिघटिकासुमितो ग्रहगतिकलासम्बद्धास्वात्मककालेनाधिको ग्रहाहोरात्रमस्वात्मकं नाक्षत्रप्रमाणेन भवति। तत्रैकराशिकलाभिर्यदि ग्रहसम्बद्धराश्युदयप्राणास्तदा गतिकलाभिः क इत्यनुपातेन गत्यसव इत्युपपन्नं ग्रहोदयेत्यादि। अनेनैव श्लोकेन ग्रहाणामुदयान्तरकर्म्मापीत्युक्तं भगवता। तथाहि। अनुपातानीतमध्यग्रहाणां नियताहोरात्रमानान्तरकाले ग्रहाणां सिद्धिः रविमध्यगत्यसूनां प्रतिराशौ भिन्न- त्वेन मध्यमसूर्य्याहोरात्रमानस्य नियतत्वाभावादतस्त्रेराशिकावगतग्रहा अनियतमध्यार्काहोरात्रकालान्तरेणार्ध० रात्रे यत्संस्कारेण भवन्ति तदेवोदयान्तरं तत्साधनं भगवता स्रल्पान्तरत्वादुपेक्षितम्। कथमन्यथा गति कलासूनां समत्वमुपेक्ष्य गतिकलानामसवो भगवदुक्ताः सङ्गच्छन्ते उदयान्तरस्य गतिकलासुभेदोत्पन्नत्वात्। अथ चरोपयुक्तां क्रान्तिज्यां द्युज्यां चाह” र० ना०। “क्रान्तेः क्रमोत्क्रमज्ये द्वे कृत्या तत्रोत्क्रमज्यया। हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्” सू०। “स्पष्टक्रान्तेः क्रमोत्क्रमज्ये क्रमज्योत्क्रमज्ये द्वे अपि प्रसाध्य तत्र तन्मध्ये क्रान्त्युत्क्रमज्यया त्रिज्या हीना दिनव्यासदलमहोरात्रवृत्तस्य व्यासार्धं द्युज्येत्यर्थः। तद्दिनव्यासार्धं दक्षिणोत्तरं दक्षिणगोल उत्तरगोले च स्यात् क्रान्तेर्गोलद्वयेऽपि सत्त्वात्। अपरा क्रान्तिज्यैव। अत्रोपपत्तिः। क्रान्त्यंशानां क्रमज्या क्रान्तिज्या भुजो विषुवद्वृत्तानुकाराण्यहोरात्रवृत्तान्युभयगोले तदुभयतस्तद्व्यासार्धं द्युज्या कोटिस्त्रिज्या कर्ण इति गोले प्रत्यक्षम्। त्रिज्यावृत्त उन्मण्डले याम्योत्तरवृत्ते बा प्रत्यक्षम्। तत्र भुजकर्णयोर्वर्गान्तरपदं कोटिरिति क्रान्तिज्यावर्गोनात्त्रिज्यावर्गान्मूलं द्युज्या। तत्रापि मुजोत्क्रमज्यया हीना त्रिज्या कोटिक्रमज्या स्यादिति वृत्ते प्रत्यक्षदर्शनात् क्रान्त्युत्क्रमज्ययोना त्रिज्या द्युज्या स्यादिति लाघवेन वर्गमूलनिरासेनोक्तं भगवता क्रान्तेरित्यादि। अथ चरानयनपूर्वकदिनरात्रिमानसाधनं श्लोकत्रयेणाह” र० ना० “क्रान्तिज्या विषुवद्भाघ्री क्षितिज्या द्वादशोद्धृता। त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः। तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक्स्थिते। स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते। याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे। विक्षेपयुक्तोनितया क्रान्त्या भानामपि स्वके” सू०। “क्रान्तिज्या विषुवद्गिनीयमध्याह्ने द्वादशाङ्गुलशङ्कोश्छायथा गुण्या द्वादशभक्ता फलं कुज्या स्यात्। सा त्रिज्यया गुणिताहोरात्रार्धकर्णाप्नाहोरात्रवृत्तस्यार्धकर्णेन व्यासदलेन द्युज्यया भक्ता फलं चरजा ज्या चरज्येत्यर्थः। अस्याश्चरज्याया धनुरसवश्चरासवो भवन्ति। स्वाहोरात्रचतुर्भागे स्वस्य चरसम्बन्धिनो ग्रहस्य प्रागुक्ताहोरात्रासवस्तेषां चतुर्थांशे पृथक्स्थिते स्थानद्वयस्थे सत्व- रक्रान्तौ सत्यां चरासू धनहानी युतहीनौ कार्यौ तौ क्रमेण दिनरात्रिदले दिनार्धरात्र्यर्धे कालविद्भिरुक्ते। दक्षिणक्रान्तौ सत्यां विपर्यस्ते दिनरात्रिदले यत्र हीनं तद्दिनार्धं, यत्र युतं तद्रात्र्यर्धमित्यर्थः। तुकारात् ते दिनरात्र्यर्धे द्विगुणे दिनक्षपे दिनमानरात्रिमाने ग्रहस्य स्वः। उक्तरीत्या नक्षत्राणामपि दिनरात्रिमाने साध्ये इत्याह। विक्षेपेत्यादि। नक्षत्रध्रुवाणामानीतया क्रान्त्या नक्षत्रविक्षेपेणैकभिन्नदिक्क्रमेण युक्तयान्तरितयोक्तप्रकारेण सिद्धया स्वके नक्षत्रदिनरात्रिमाने साध्ये इत्यर्थः। अत्रोपपत्तिः। द्वादशाङ्गुलशङ्कुः कोटिः फलभा भुजोऽक्षकर्णः कर्णः, क्रान्तिज्या कोटिः, कुज्या भुजोऽग्रा कर्ण इत्यक्षक्षेत्रद्वयं प्रसिद्धम्। तत्र यदि द्वादशकोटौ फलभा भुजः, तदाक्रान्तिज्याकोटौ को भुज इत्यनुपातेन कुज्या। तत्स्वरूपं तु निरक्षदेशक्षितिजस्वदेशक्षितिजान्तरालस्थिताहोरात्रवृत्तप्रदेशस्य द्युज्याप्रमाणेन ज्येति त्रिज्याप्रमाणेन तज्ज्या चरज्येति द्युज्याप्रमाणेन कुज्या त्रिज्याप्रमाणेन केत्यनुपातेन चरज्या तद्धनुश्चरासवोऽहोरात्रवृत्तखण्डप्रदेशे निरक्षस्वक्षितिजान्तराल उत्तरगोले स्वक्षितिजस्य निरक्षक्षितिजादधःस्थत्वान्निरक्षक्षितिजयाम्योत्तरवृत्तान्तरालेऽहोरात्रवृत्तचतुर्थांशत्वादहोरात्रासुचतुर्थांशे चरासवो युता दिनार्धं हीना रात्र्यर्धं दक्षिणगोले स्वक्षितिजस्य निरक्षक्षितिजादूर्ध्वस्थत्वाद्धीना दिनार्धं, युता रात्र्यर्द्धमित्युपपन्नं सर्वं क्रान्तिज्येत्यादि”। तत्र प्रणिधौ। “राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव” माघः। “तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु तच्चरैः” मनुः। चले “तस्य सर्वाणि भूतानि स्थावराणि चराणि च “देवेभ्यश्च जगत्सर्वं चरं स्थाण्वनुपूर्वशः” मनुः। सुपि कर्म्मण्युप्रपदे “चरेष्टः” पा० ट चरणकर्त्तरि त्रि०। भूचरः खचरः। “शठोमिथ्याविनीतश्च वकव्रतचरोद्विजः” मनुः। मेषादौ “चरलग्ने चरांशे वा स्थापनं च विसर्ज्जनम्” ति० त०। स्वार्थे अण्। चार प्रणिधौ

चरक = पु० चरएव स्वार्थे क संज्ञायां कन् वा। १ चरे दूतभेदे। २ आयुर्वेदकारकमुनिभेदे पु०। “देवाकर्ण्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः” नैष०। मन्त्रियैद्योयोरेकरूपोक्तौ। चरकनामनिरुक्तिः आयुर्वेदशब्दे ७८० पृ० दुर्शिता। ३ तत्कृते ग्रन्थे च भाबप्रका० तत्र च ग्रन्थे सूत्रस्थानं निदानस्थानं विमानस्थानं शारीरस्थानम् इन्द्रियस्थानं चिकित्सितस्थानं कल्पस्थान सिद्धिस्थानम् इत्यष्टौ स्थानानि। ४ पर्पटे राजनि०। ५ चक्रकरे ६ भिक्षौ शब्दार्थचि०।

चरकाल = पु० “निरक्षदेशक्षितिजाख्यवृत्तमुन्मण्डलं तज्जगुरन्यदेशे। स्वे स्वे कुजेऽर्कस्य समुद्गमोऽस्माच्चरार्धमर्कोदययोस्तु मध्ये” सि० शि०। “आदौ स्वदेशेऽथ निरक्षदेशे सूर्योदयोह्यस्तमयोऽन्यथातः। ऋणं ग्रहोऽणादुदये स्वमस्ते फलं चरोत्थं रविसौम्यगोले। याम्ये विलोमं खलु तत्र यस्मादुन्मण्डलं स्वक्षितिजादधस्वात्। नात्याह्वयादुत्तरयाम्यभागौ गोलस्य तावुत्तरयाम्यगोलौ” सि० शि० उक्ते दिनमानज्ञानोपाये कालभेदे।

चरगृह = न० चररूपं गृहम्। मेषकर्कतुलामकररूपेषु राशिषु। चरगेहादयोऽप्यत्र।

चरट = पुंस्त्री चर–बा० अटच्। खञ्जनखगे शब्दमा० स्त्रियां जातित्वात् ङीष्।

चरण = पु० चर–करणे ल्युट्। १ देहावयवभेदे पादे “सुतेन धातोश्चरणौ भुवस्तले” माघः “द्वितीये हस्तचरणौ तृतीये बधमर्हति” मनुः। २ वेदैकदेशे शाखापरपर्याये “गोत्रं च चरणैः सह” महाभाष्यका०। चरणव्यूहः। ३ अर्कादेः किरणे। ४ श्लोकानां चतुर्थभागे पादे च। “प्रथमाङ्घ्रिसमोयस्य तृतीयश्चरणोभवेत्” छन्दोम०। “५ चतुर्थभागमात्रे। “पश्यन्ति खेटाश्चरणाभिवृद्धितः” ज्योति०। ६ एक देशमात्रे “ज्योतिश्चरणाभिधानात्” शा सू०। भावे ल्युट्। ७ अनुष्ठाने “अकृत्वा भैक्ष्यचरणम्” “तपञ्चश्चरणैश्चोग्रैः” मनुः। “रमणोयचरणा अभ्यासोह रमणीयां योनिमापद्येरन्” श्रुतिः चरणशब्दस्य आचारार्थकत्वेऽपि कर्म्ममात्रपरत्वमुक्तं शा० सू० भा० तच्चानुशयशब्दे १८६ पृ० उक्तम् चरण + चतुरर्थ्यां तृणास। चरणस तन्निर्वृत्तादौ त्रि०

चरणग्रन्थि = पु० ६ त०। गुल्फे हेमच०।

चरणपर्व्वन् = न० ६ त०। गुल्फे त्रिका०।

चरणव्यूह = पु० चरणानां वेदशाखानां व्यूहोऽत्र। वेदशाखाविभाजके ग्रन्थभेदे।

चरणायुध = पुंस्त्री० चरण आयुधं यस्य। कुक्कुटे अमरः “आकर्ण्य सम्प्रति रुतं चरणायुधानाम्” सा० द०। स्त्रियां जातित्वात् ङीष्।

चरणि = पु० चर–अनि। मनुष्ये “सुविद्वांसं च कृत्यं चरणीनाम्” ऋ०८ २४ २३। “चरणीनां मनुष्याणाम्” मा०।

चरणिल = त्रि० चरणेन निर्वृत्तादि काशादि० चतुरर्थ्याम् इल। चरणनिर्वृत्तादौ

चरण्टि = स्त्री चिरण्टि + पृषो०। चिरिण्ट्यां सुवासिन्यां हेमच०।

चरण्य = पु० चरण इब शाखा० यत्। चरणतुल्ये पा०।

चरण्य = चरण–गतौ कण्ड्वा० सक० पर० सेट्। चरण्यति अचरण्यीत्। वरणगतौ इति पाठान्तरम्

चरण्यु = त्रि० क० चरण्य–उण् “चरणशीले “चक्षुर्नग्रन्थिनी चरण्युः” ऋ० १०। ९५। ६ “चरण्युश्चरणशीला” भा०।

चरथ = त्रि० चर–गतौ अथ। जङ्गमे। “स्थातुश्चरथमक्तूनव्यूर्ण्णोत्” ऋ० १। ६८। १। “चरथं जङ्गमम्” भा०।

चरभ = न० कर्म्म०। मेषकर्कट तुलामकरराशिषु चरराशिषु चरलग्नादयोऽप्यत्र।

चरम = त्रि० चर–अमच्। १ अन्त्ये २ पश्चिमे ३ शेषभवे “अब्रवीत् क्रियतामेषा सूतानां चरमा क्रिया” भा० वि० २४ अ०। चरमक्ष्माभृत्। जसि सर्वनामत्वात् वा जसः शीभावः चरमे चरमाः। ४ अन्ते न०। “उत्तिष्ठेत् प्रथमं चैव चरमं चैव संविशेत्” मनुः।

चरमक्ष्माभृत् = पु० कर्म्म०। अस्ताचले पश्चिमस्थे अचले। अमरः चरमाचलचरमगिर्य्यादयोऽप्यत्र।

चरव्य = त्रि० चरवे हितः उदन्तत्वात् यत्। चरुहिते तण्डुलादौ सि० कौ०।

चराचर = त्रि० चर–अच् नि०। १ जङ्गमे। २ आकाशे धरणिः। चरश्चाचरश्च समाहारद्व०। ३ स्थावरजङ्गमरूपे जगति न० मेदि०। “त्वया विसृज्यते विश्वं जगदेतच्चराचरम्” देवीमा०। “एवं स जाग्रत् स्वप्नाभ्यामिदं विश्वं चराचरम्” मनुः। इतरेतरद्व०। ४ चरे अचरे च त्रि०। “सर्वे भावाश्चराचराः” रामा० कि० ४३। ४४ श्लो०

चरि = पु० चर इन्। पशौ उणादिकोषः।

चरित = त्रि० चर–कर्म्मणि क्त। १ अनुष्ठिते। भावे क्त। २ च रित्रे ३ स्वभावे। “सर्वं खलस्य चरितं मशकः करीति” हितो० “उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते”। उत्तररामच०। वीरचरितम्। चण्डीशब्दे प्रथमादिचरितादि बहुकृत्वः उदा०। “वाग्देवताचरितचित्रितचि त्तसद्मा” गीत्तगो० कर्म्मणि क्त। ४ गते ५ प्राप्ते ६ ज्ञाते च।

चरितार्थ = त्रि० चरितः कृतः प्राप्तोऽर्थः प्रयोजनं येन। १ कृतार्थे कृतप्रयोजने २ प्राप्तफले सफले। “बभुव कृतसंस्कारा चरितार्थेव भारती” “रामरायुणयो- र्युद्धं चरितार्थमिवाभवत्” इति च रघुः “प्रवृत्तिरासी च्छब्दानां चरितार्था चतुष्टयी” “आश्वासयत् सुचरितार्थपदैर्वचोमिः” इति च कुमा० “अन्योन्याभावतोनास्य चरितार्थत्वमुच्यते” भाषा०।

चरित्र = न० चर–इत्र। १ अनुष्ठाने २ व्रतकर्म्माद्यनुष्ठाने ३ स्वभावे ४ चेष्टिते ५ लीलादौ च शब्दरत्ना०। ६ तिन्तिडीवृक्षे स्त्री शब्दर०। “एतद्देशप्रसूतानां सकाशादग्रजन्मनाम्। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः” “स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव” मनुः। “चरित्रबन्धककृतम्” याज्ञ०। स्वार्थे अण्। चारितं तत्रार्थे न०” पृषो० दीर्घः चरीत्रमप्यत्र न० शब्दरत्ना०।

चरिष्णु = त्रि० चर–इष्णुच्। चरणशीले “यदाणुमात्रिको भूत्वा वीजं स्थास्नु चरिष्णु च” मनुः।

चरु = पु० चरति होमादिकमस्मात् भीमा० अपादाने चरौन्। हव्यान्ने होमार्थं पाच्यान्ने “अनवस्रावितानन्तरूष्मपाकओदनश्चरुरिति याज्ञिकाः। चरन्त्यापोऽत्र आधारे उन्। २ मेधे निघ०। ३ चरुपाकपात्रे भाण्डे विश्वः चरुलक्षणमुक्तं कर्म्मप्रदीपे “स्वशाखोक्तः प्रसुस्विन्नी ह्यदग्धोऽकठिनः शुभः। न चातिशिथिलः पाच्यो स चरुःस्यान्न चारसः” चरुपाक० प्रकारः कातीये ४। १। ५। सूत्रभाष्ययोर्दर्शितो यथा “अपरेण गार्हपत्यं चरुमपूर्णं स्रुचं वा तुष्णीं गृहीत्वोत्तरेण दक्षिणाग्निमवहन्ति तिष्ठन्” ५ सू०। “गार्हपत्यादपरस्यां दिशि अपूर्णं चरुं चरुस्थालीम् तूष्णीं मन्त्रस्याविधानाल्लौकिकवागुच्चारण वर्जम् व्रीहीन्न्युब्जेन मुष्णिना प्राचीनावीती दक्षिणामुखोऽध्वर्युर्गृह्णीयात् अथ वा अपूर्णं स्रुचम् एवं गृहीत्वा दक्षिणाग्नेरुत्तरतो गार्हपत्यस्य पुरस्ताद्दक्षिणाभिमुखस्तिष्ठन्नवहन्ति अत्र शाखान्तराद्दक्षिणाग्नेरुत्तरत उदग्ग्रीवं कृष्णाजिनमास्तीर्य्य तत्रोलूखलं निधाय तस्मिन् व्रीहीणां प्रक्षेपं कृत्वा मुसलमादाय दक्षिणाभिमुखस्तिष्ठन्नवहननं कण्डनं व्रीहीणां करोति ततः शूर्पमादायोलूखलाद्व्रीहीन् निष्काश्य निष्पवनेन तुषान्निष्काशयेन्” कर्कः “सकृत् फलीकरोति” ६ सू० “लोके तस्य पुनःपुनः क्रियमाणत्रात् सकृदित्युच्यते, कर्कः “सारतण्डुलमपूर्णं श्रपयित्वाभिघार्य्योद्धास्य मेक्षणेः जुहोत्यग्नय इति सोमायेति च” ७ सू० “इममेव चरु सारतण्डुलमीषत्स्विन्नतण्डुलम् अपूर्णं यथा शृतन चरुणा स्थाल्याः पूरणं न भवति तथा श्रपयित्वा आसादितेनाज्येनाभिघार्य्य दक्षिणत उद्वास्य दक्षिणाग्नेः पूर्वमार्गेणापदक्षिणमुत्तरत आनीय सव्यं कृत्वा तिष्ठं स्तिस्रः समिध आधायोपविश्य प्राङ्मुखो मेक्षणेन चरुं जुहोति” कर्कः। शाखान्तरे चरुपाकप्रकारो भवदेवपद्धत्यादौ ज्ञेयः। “यवमयश्चरुर्भवति” श्रुतिः। “श्यामकगावेधुकनैवारयवमयः” तै० स० “चरुर्वै देवानामन्नमोदनो हि चरुः” शत० व्रा० ४। ४। २। १। “ये पूष्णो चरुंकुर्व्वन्ति प्रपिष्टानामेव कुर्ब्बन्ति यथा दन्तकायैवम्” १। ७। ४। ७। “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्। अग्नीन्द्रेश्वरसाधर्म्म्यात्तण्डुलोऽत्र विधीयते” छन्दो०। “हेमपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम्” “स तेजो वैष्णवं पत्न्योः विभेजे चरुसंज्ञितम्” “चरोरर्द्धार्द्धभागाभ्यां तामयोजयतामुभे” इति च रघुः।

चरुचेलिन् = चरुश्चेलमिवास्त्यस्य इनि। महादेवे। “चरुचेली मिलीमिली” भा० श० २८६ अ० शिवनामोक्तौ

चरुव्रण = पु० चरोर्व्रण इव। चित्रापूपे (चिताइपिटा) त्रिका०।

चरुस्थाली = स्त्री ६ त०। चरुपाकार्थस्थाल्यां “तिर्य्यगूर्द्ध समिन्मात्रा दृढा नातिवृहन्मुखी। मृण्मय्यौडम्बरी वापि चरुस्थाली प्रशस्यते” कर्म्मप्रदीपे तल्लक्षणमुक्तम्।

चर्च = अध्ययने चुरा० उभ० सक० सेट्। चर्चयति–ते अचचर्चत्–त्। चर्चितः चर्चा।

चर्च = उक्तौ भर्त्सने च तु० पर० सक० सेट्। चर्चति अचर्च्चीत्। उक्तिरत्र विचारार्थपरिभाषणम्।

चर्चरी = स्त्री चर्च–बा० अरन् गौरा० ङीष्। १ गीतिभेदे। २ अनृजुकेशे ३ करध्वनौ च। “चर्चरी गीतिभेदे च केशभित्करशब्दयोः” रुद्रः। ४ हर्षक्रीडायां सुभूतिः। ५ कार्पटिकानां सादरवचने ६ तौर्यत्रिके ७ वसन्तसमयक्रीडायाम् ८ चर्मट्याम्। ९ साटोपवाक्ये शब्दार्थचि० १० वर्णवृत्तविशेषे। यथा हारयुक्तसुवर्णकङ्कणपाणिशङ्खविराजिता पादनूपूरसङ्गता सुपयोधरद्वयभूषिता। शोभिता वलयेन पिङ्गलपन्नगाधिपवर्णिता चर्चरी तरुणीव चेतसि चाकशीति सुसङ्गता” “अनन्तरे चर्चरी” “जलहर! संहर एह कोबमै आणत्तओ, अविरल धारा साराक्वन्तदिसामुहओ। ए! मञि पुहनि भमन्ते जै पिअ पेक्खिहिमि, तवेव जं जु करीहिसि तंतु सहीहिमि” “अनन्तरे चर्चरी “गन्धम्माइअ–महुअरगीएहिं वज्जन्तेहिं परहु अदूरोहिम्। पसरिअपवणुवेवल्लिअ–पल्लव–णिअरू सुललिअ–बिविहपआरेहिं णच्चै कप्पअरू” इति च विक्रमोर्व०। स्वार्थे क अत इत्त्वम्। चर्चरिकाप्यत्रार्थे

चर्चरीक = पु० चर्च–ईकन् फर्फरी० नि०। १ महाकालभैरवे २ केशविन्यासे ३ शाके च मेदि०।

चर्चस् = पु० चर्च–असुन्। १ निधिभेदे त्रिका० निधिशब्दे दृश्यम्

चर्चा = स्त्री चर्च–अच्। १ दुर्गायाम्। चु० चर्च–भावे अङ्। २ विचारणायां ३ चिन्तायां ४ चार्चिक्ये चन्दनादिना देहलेपने च मेदि०। स्वार्थे क। चर्चिका तेष्वर्थेषु चर्चां वेत्ति तत्परं ग्रन्थं वाऽधीते उक्था० ठक्। चार्चिक विचारणाभिज्ञे तत्परग्रन्थाध्योतरि च त्रि०

चर्चि = स्त्री चर्च–भावे इन्। विचारणायाम् “द्वे चर्चावतिरिच्येते एकया गौरतिरिक्तः एकयायुरूनः” तै० व्रा० १२२२।

चर्चिक्य = न० चार्चिक्य पृषो० ह्रस्वः। चार्चिक्ये हेम०

चर्चित = त्रि० चर्च–कर्म्मणि क्त। १ चन्दनादिना कृतलेपे देहादौ। “पयोधराश्चन्दनपङ्कचर्चिताः” ऋतुस०। “भुजं चन्दनचर्चितम्” भा० स० २३७३ श्लो०। भावे क्त २ तथालेपने न०।

चर्त्त्य = त्रि० चृत–कर्म्मणि यत्। हननीये।

चर्पट = पु० सौ० चृप–दीप्तौ अटन्। १ स्फारे २ विपुले ३ चपेटे ४ पर्पटे च मेदि०। ५ भाद्रशुक्लषष्ठ्यां चपेट्याम् स्त्री शब्दार्थचि०। ६ पिष्टकभेदे पौल्यां स्त्री गौरा० ङीष्। त्रिका०।

चर्ब = गतौ भक्षणे च भ्वा० पर० सक० सेट्। चर्बति अचर्बीत्। चचर्ब।

चर्भट = पु० चर–क्विप् भट–अच् कर्म्मधा०। १ इर्वारौ कर्कट्यां हला० गौरा० ङीष् २ हर्षक्रीडायां ३ साटोपवाक्ये ४ चर्चायाञ्च हेम०।

चर्म्म = न० चर्म्म साधनतया अस्त्यस्य अच् टिलोपः। चर्म्मनिर्म्मिते फलके(ढाल) भरतः।

चर्म्मकषा(सा) = स्त्री चर्म्म कष(स)ति कष–अच्। पश्चिमदेशप्रसिद्धे गन्धद्रव्यभेदे(चामरकषा) २ सप्तलालतायां चर्म्मकसाप्यत्र भरतः

चर्म्मकार = त्रि० चर्म्म तन्निर्म्मितं पादुकादि करोति कृ–अण् उप० स०। १ पादुकादिकारके “चाण्डाल्यां तीव- राज्जातश्चर्म्मकार इति स्मतः” पराशरोक्ते, २ सङ्कीर्ण्णजातिभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष्। “चर्म्मकारस्य द्वौ पुत्रौ गणकोवाद्यपूरकः”। “मनुना तु वैदेह्यां निषादाज्जातस्य कारावराख्यचर्म्मकारसंज्ञोक्ता यथा “कारावरो निषादात्तु चर्म्मकारः प्रसूयते” उत्तरत्र वैदेह्यामेवेत्युक्तेः अत्रापि तस्यामेवेत्यन्वयः। उशनसा तु “सूताद्विप्रप्रसूतायां सूतोवेणुक उच्यते। नृपायामेव तस्यैव जातोयश्चर्म्मकारकः” इत्युक्तम्। एवञ्च मुनित्रयप्रामाण्यात् त्रिविधैव चर्मकारजातिः। “धिग्वर्ण्णानां चर्म्म कार्य्यम्” मनुना तेषां वृत्तिरुक्ता। चर्म्मकरोति क्विप् चर्म्मकृदप्यत्र। ण्वुल् चर्म्मकारक तत्रार्थे

चर्म्मकारी = स्त्री चर्म्म किरति कॄ–अण्। १ चर्म्मकषायामोषधौ मेदि० २ चर्म्मकारजातिस्त्रियां च

चर्म्मकील = पु० चर्म्मणि कील इव। गुह्यजाते रोगभेदे (हारिश) ख्याते रोगे “व्यानो गृहीत्वा श्लेष्माणम्। करोत्यर्शस्त्वचो बहिः। कीलोपसंस्थिरखरं चर्म्मकीलन्तु तद्विदुः। वातेन तोदपारुष्यं पित्तादसितरक्तता। श्लेष्मणा स्निग्धता तस्य ग्रथितत्वमवर्णता” माघवक० तन्निदानाद्युक्तम्। “चर्मकीलं जतुमणिं मसकान् तिलकालकान्। उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः” भावप्र०।

चर्म्मचटका = स्त्री चर्मणा चटकेव। (चामचिका) अजिन पत्रायां हेमच०

चर्म्मचटी = स्त्री चर्म्म चटति भिनत्ति चट–भेदे अच् गौरा० ङीष्। (चामचिका) अजिनपत्रायां शब्दरत्ना०। स्वार्थे क। चर्म्मचटिकाप्यत्र।

चर्म्मचित्रक = न० चर्म्म चित्रयति चित्र–ण्वुल्। श्वेतकुष्ठरोगे राजनि०।

चर्म्मज = न० चर्म्मणि जायते जन–ड। १ रोमणि। २ रुधिरे च राजनि०।

चर्म्मण्य = त्रि० चर्म्मणि भवः शरीरावयवत्वात् यत्। चर्मभवे। “श्लेष्मणा चर्म्मण्यं वान्यद्वा विश्लिष्टं संश्लेषयेत्” ऐत० व्रा० ५। ३२।

चर्म्मण्वती = स्त्री चर्म्मन् + अस्त्यर्थे मतुप् मस्य वः संज्ञायां आसन्दीवदित्यादिना नि०। नदीभेदे। सा च रन्ति देवस्य यज्ञोपकल्पितगोराशिचर्म्मत उत्पन्ना यथाह “महानदी चर्म्मराशेरुत्क्लेदात् सुसुवे यतः। ततश्च र्मण्वतीत्येषं विख्याता सा महानदी” भा० शा० २९ अ०। “रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः। अतश्चर्मण्वती राजन्! गोचर्मभ्यः प्रवर्त्तिता” भा० अनु० ६६ अ० नर्मदाफलं दक्षिणसिन्धुफलञ्चोक्त्वा भा० व० ८२ अ० तन्माहात्म्यं यथा “चर्म्मण्वतीं समासाद्य नियतो नियताशनः। रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत्”। अतस्तस्या दक्षिणदेशस्थत्वम्। असंज्ञायां तु चर्म्मवत् इत्येव। चर्म्मयुक्ते त्रि० स्त्रियां ङीप्।

चर्म्मतरङ्ग = पु० चर्म्मणि तरङ्ग इव। जरया पलिते बलौ। राजनि०।

चर्म्मतिल = त्रि० चर्म्मणि तिला अस्य। चर्म्मोपरिजात कृष्णतिलके(तिल) युक्तदेहादौ

चर्म्मदण्ड = पु० चर्म्मणा कृतोदण्डः। कषायाम् (कोडा) हेम०।

चर्म्मदल = न० चर्म्मदलयति दल–अण्। स्वल्पकुष्ठभेदे। “स्युर्य्येन कण्डूव्यथनौघचोषास्तलेषु तच्चर्म्मदलं वदन्ति” सुश्रुतः। “चर्म्मदलाजगल्लीमशकाधिष्ठाना” सुश्रुतः।

चर्म्मदूषिका = स्वी चर्म्म दूषति दूषि–ण्वुल्। कोठरोगे राजनि०।

चर्म्मद्रुम = पु० चर्म्म चर्म्माकारवल्कलं तत्प्रधानोद्रुमः। मूर्जवृक्षे राजनि०। तस्य चर्म्माकारवल्कलत्वात् तथात्वम्।

चर्म्मन् = न० चर–मनिन्। १ देहावरिकायां त्वचि, २ इन्द्रियभेदे येन स्पर्श उपलभ्यते तस्मिन् ३ फलके (ढाल) च। “त्वगिन्द्रियन्तु वायवीयं यथाह “देहव्यापि त्वगिन्द्रियम्” भाषा०। तस्य तथात्वं सि० मु० समर्थितं यथा “शरीर व्यापकं स्पर्शग्राहकमिन्द्रियं तच्च वायवीयं रूपादिषु मव्ये स्पर्शस्यैव व्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्यव्यञ्जक व्यजनवातवत्”। मनसा त्वग्योगोज्ञानसामान्ये कारणं यथाह तत्रैव “त्वचोयोगो मनसा ज्ञानकारणम्” “त्वङ्मनःसंयोगो ज्ञानसामान्ये कारणमित्यर्थः किं तत्र प्रमाणे सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्त्तमानेन मनसा ज्ञानाजननमिति। ननु सुषुप्तिकाले किं ज्ञानं भविष्यति अनुभवरूपं स्मरणरूपं वा। नाद्यः अनुभवसामग्र्यभावात्तथाहि चाक्षुषादिप्रत्यक्षे चक्षुरादिना सह मनःसंयोगस्य हेतुत्वात् तदमावादेव न चाक्षुषादिप्रत्यक्ष, ज्ञानादेरभावादेव न मानसप्रत्यक्षं, ज्ञानाद्यभावे च नात्मनोऽपि प्रत्यक्षमिति। व्याप्तिज्ञानाभावात् नानुमितिः, सादृश्यज्ञानाभावात् नोपमितिः, पदज्ञानाभावात् न शाब्दबोधः, इत्यनुभवसामग्र्यभावात्, नानुभवः। उद्बोधकाभावाच्च न स्मरणम्। मैवं सुषुप्तिप्राक्कालोत्पन्नेच्छादिव्यक्तेस्तत्सम्बन्धेनात्मनश्च प्रत्यक्षप्रसङ्गात् तदतीन्दियत्वे मानामावात् सुषुप्तिप्राक्काले निर्विकल्पमेव जायत इत्यत्रापि प्रमाणाभावात्। अथ ज्ञानमात्रे त्वङ्मनः संयोगस्य यदि कारणत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले स्पार्शनप्रत्यक्षं स्यात् विषयेन्द्रियसंयोगस्य विषयत्वक्संयोगस्थ च तदा सत्त्वात् परस्परप्रतिबन्धादेकमपि वा न स्यादिति। अत्र केचित् पूर्व्वोक्तयुक्त्या त्वङ्मनोयोगस्य हेतुत्वे सिद्धे चाक्षुषादिसामग्र्याः स्पार्शनादिप्रतिबन्धकत्वमनुभवानुरोधात् कल्प्यते इति। अन्ये तु सुषुप्त्यनुरोधात् चर्म्ममनःसंयोगस्य ज्ञानहेतुत्वं कल्प्यं चाक्षुषादिप्रत्यक्षकाले त्वचि मनःसंयोगाभावान्न स्पार्शनप्रत्यक्षमिति वदन्ति”। चर्म्मत्वचोर्भेद इति तु रहस्यम्। त्वचश्च सप्तविधा यथाह सुश्रुतः “तस्य ख्यल्वेवस्प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सान्तानिकाः सप्त त्वचो भवन्ति। तासां प्रथमाऽवभासिनी नाम या सर्व्ववर्णानवभासयति पञ्चविधाञ्च छायां प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठाना, द्वितीया लोहिता नाम षोद्धशभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठाना, तृतीया श्वेता नाम द्वादशभागप्रमाणा चर्म्मदलाजगल्लीमशकाधिष्ठाना, चतुर्थी ताम्रा नामाष्टभागप्रमाणा विविधकिलासकुष्ठाधि ष्ठाना, पञ्चमी वेदिनी नाम ब्रीहिपञ्चभागप्रमाणा कुष्ठविसर्पाधिष्ठाना, षष्ठी रोहिणी नाम व्रीहिप्रमाणा ग्रन्थ्यपच्यर्वुदश्लीपद गलगण्डाधिष्ठाना, सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा भगन्दरविद्रध्यर्शोऽधिष्ठाना” यदेतत्प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटसूक्ष्माङ्गाङ्घ्रादिषु। यतो वक्ष्यत्युदरेषु व्रीहिमुखेनाङ्गुष्ठो दरप्रमाणमवगाढं विध्येदिति”। फलकविवृत्तियु क्तिकल्पतरौ यथा “शरीरावरकं शस्त्रं चर्म्म इत्यभिधीयते। तत्पुनर्द्विविधं काष्ठचर्म्मसम्भवभेदतः। शरीरावरकत्वञ्च लघुता दृढता तथा। दुर्भेद्यतेति कथितश्चर्मणां गुणसंग्रहः। सितोरक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः। ब्रह्मादिजातिभेदेन चर्म्मणां वर्ण निर्णयः। चित्रवर्णस्तु सर्वेषां सर्व्वदैवोपपद्यते” इति भोजदेवः।

चर्म्मनालिका = स्त्री चर्म्मनिर्म्मिता नालिकेव। कषायां ताडन्यां (कोडा) शब्दार्थचि०।

चर्म्मपट्टिका = स्त्री चर्म्मनिर्म्मिता पट्टिका। (चामाटी) चर्म्ममयपट्टिकायाम् शब्दार्थचि०।

चर्म्मपत्रा = स्त्री चर्म्मेव पत्रं पक्षोऽस्याः। (चामचिका) अजिनपत्रायां जटा०।

चर्म्मपादुका = स्त्री चर्ममयी पादुका। चर्मकृतपात्राणे। “ततो ब्रह्मचारी अनेन मन्त्रेण चर्मपादुके पादयोर्निदध्यात्” भवदेवः।

चर्म्मपुट(क) = पु० चर्ममयं पुटमत्र वा कप्। दृतिसंज्ञके चर्ममयपात्रभेदे(कुपा) मेदि०।

चर्म्मप्रभेदिका = स्त्री चर्म्म प्रभिनत्ति प्र + भिद–ण्वुल् टापि अत इत्त्वम् ६ त०। चर्मवेधनेऽस्त्रभेदे अमरः

चर्म्मप्रसेविका = स्त्री चर्मणा प्रसीव्यते प्र + सिव–वा० कर्म्मणिवुन् टापि अत इत्त्वम्। भस्त्रायाम् अग्निसन्दीपनार्थे चर्ममये यन्त्रभेदे अमरः।

चर्म्ममण्डल = पु० ब० व०। देशभेदे “अपरान्ताः परान्ताश्च पह्नवाश्चर्ममण्डलाः” भा० भी० ९ अ० देशोक्तौ।

चर्म्ममय = त्रि० चर्मणोविकारः मयट्। चर्मनिर्मिते पात्रादौ स्त्रियां ङीप्। “द्वीपिचर्मावनद्धैश्च व्याघ्रचर्ममयैरपि” भा० भी० ४६ अ०। “यथा काष्ठमयो हस्ती यथा चर्समयो मृगः” मनुः।

चर्म्ममुण्डा = स्त्री चामुण्डा + पृषो०। दुर्गायां हेमच०।

चर्म्ममुद्रा = स्त्री “वामहस्तं तथा तिर्य्यक् कृत्वा चैव प्रसार्य्य च। आकुञ्चिताङ्गुलीः कुर्य्यात् चर्ममुद्रेयमीरिता” तन्त्रसारोक्ते देवपूजाङ्गे मुद्राभेदे।

चर्म्मम्ना = त्रि० चर्ममये कवचादौ मनति अभ्यस्यति म्ना–क। चर्ममयकवचादौ कृताभ्यासे। “कृष्टयश्चर्मम्ना अभितोजनाः” ऋ० ८। ५। ३८। “साध्येभ्यश्चर्मम्नम्” यज० ३०। १५। पुरुषमेधे देवभेदोद्देनालभ्यपुरुषभेदोक्तौ।

चर्म्मयष्टि = स्त्री चर्ममयी यष्टिरिव। अश्वादेस्ताडन्यां (कोडा)। शब्दार्थचि०।

चर्म्मरङ्गा = स्त्री चर्भणे रङ्गोऽस्याः। १ आवर्त्तकीलतायां विभाण्ड्याम् राजनि०। २ देशभेदे पु० स चदेशः वृ० स० कूर्मविभागे १४ अ० पश्चिमोत्तरदिशि उक्तः। “दिशि पश्चिमोत्तरस्याम्” इत्युपक्रमे “गुरुहामरुकच्छचर्मरङ्गाख्याः”।

चर्म्मरी = स्त्री चर्म–राति रा–क गौरां० ङीष्। स्थावरविषान्तर्गते फलविषे लताभेदे। “कुमुद्वतीरेणुकाकरम्भ कर्कोटकरेणुकखद्योतकचर्मरीत्युपक्रमे फलविषाः” सुश्रु०।

चर्म्मरु = पु० चर्म्म–राति रा–वा० कु। चर्म्मकारे त्रिका०।

चर्म्मवत् = त्रि० चर्म्मन् + अस्त्यर्थे मतुप् मस्य वः असंज्ञात्वात् न नि०। १ चर्म्मयुक्ते स्त्रियां ङीप्। “लोहचर्म्मवती चापि साग्निः सगुडगृष्टिका” भा० व० १५ अ०। २ सुबलात्मजभेदे पु०। “गजोगयाक्षो वृषभश्चर्मवानार्जवः शुकः। षडेते बलसम्पन्ना निर्ययुर्नहतो बलात्” इत्युक्त- क्रमे “अमृष्यमाणास्ते सर्वे सुबलस्यात्मजारणे” भा० भी० ९१ अ० इत्युक्तम्।

चर्म्मवसन = पु० चर्म गजासुरचर्म वसनमस्य। कृत्तिवाससि शिवे कृत्तिवासस्शब्दे २१८८ पृ० दृश्यम्।

चर्म्मवृक्ष = पु० चर्मप्रधानः चर्मतुल्यवल्कप्रधानोवृक्षः। भूर्जवृक्षे। “खर्जूरा नारिकेलाश्च चर्मवृक्षो हरितकी” हरिवं०। ३१ अ०।

चर्म्मसम्भवा = स्त्री चर्मणि त्वचि सम्भवति सम् + भू–अच्। स्थूलैलायां हारा०। तत्फलस्य त्वङ्मध्ये सम्भवात्तस्यास्तथात्वम्।

चर्म्मसार = पु० चर्मणः सारः। रसं राजनि०। भुक्तान्नादेः रसस्य त्वग्सध्ये जायमानत्वात् तस्य तथात्वम्।

चर्म्माम्भस् = पु० चर्मणोऽम्भः। चर्म्मान्तरस्थे रसे राजनि०। भुक्तान्नादिरसस्य चर्माभ्यन्तरस्थत्वात्तस्य तथात्वम्।

चर्म्मार = पु० चर्म शिल्पसाधनतया ऋच्छति ऋ–अण्। उप० स०। चर्मकारे जटा०।

चर्म्मावकर्त्तिन् = पु० चर्म अवकृन्तन्ति स्वशिल्पनिर्वाहाय अव + कृती च्छेदे णिनि। चर्मकारे। तदन्नभक्षणं मनुना निषिद्धं यथा “आयुः सुवर्णकाराणां यशश्चर्माकवर्त्तिनाम्”।

चर्म्मिक = त्रि० चर्मं चर्ममयं फलकं (ढाल)। युद्धसाधनतयाऽस्त्यस्य व्रीह्या० वा ठन्। चर्ममयफलकेन योद्धरि(ढाली) तस्य भावः कर्म वा पुरोहिता० यक्। चार्मिक्य तद्भावे न०।

चर्म्मिन् = त्रि० चर्म देहावरकं(ढाल)फलकं वा अस्त्यस्य वा इनि टिलोपः। चर्मयुक्ते (ढालि) ख्याते चर्मिके। “नागे नागे दश रथा शतमश्वा रथे रथे। अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः” भा० भी० २० अ०। चर्माणि बल्कलान्यस्यां सन्ति वा इनि। २ भूर्जवृक्षे अमरः। ३ कदल्यां ४ भृङ्गरीटे च पु० शब्दर०।

चर्य्या = स्त्री चर–“परिचय्यापरिसर्य्येत्यादि” पा० परीत्यस्याविवक्षातः भावे क्यप्। १ आचारमात्रे “वनवासस्य शूरस्य मम चर्य्या हि रीचते” रामा० अ० २९ १५। २ गतौ “चर्य्यायां हयमुत्सृष्टम्” भा० आ० ६३७ श्लो०। २ ईर्य्यापथस्थितौ परित्राजकादीनां व्रतानुष्ठाने नियमा परित्यामे। “गदमदचरेत्यादि” पा० कर्मणि यत्। ४ अनुष्ठेये आचरणीये त्रि० “षट्त्रिंशदाब्दिकं चर्य्यं गुरौ यवादिकं व्रतम्” मनुः भावे यत्। ५ अवश्यचरणे न०।

चर्व = भक्षणे दन्तैश्चूर्णने (चिवान) या चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। चर्वयति–ते चर्वति अचचर्वत्–त अचर्वीत् चर्वयां बभूव आस चक्रे चचर्व। चर्वणं चर्वणा चर्वितः। रसास्वादव्यापारे चर्वणशब्दे दृश्यम्।

चर्व्वण = न० चर्व–भावे ल्युट्। १ दन्तैश्चूर्ण्णने (चिवान) २ रसास्वादव्यापारभेदे च सा० द०। युच् चर्वणाप्यत्र स्त्री। “प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम्” चर्वणाऽऽस्वादनम्। तच्च “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः। “निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः” “यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्य्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्य्यत्वेन कार्य्यत्वमुपचर्य्यते” इति च सा० द०।

चर्व्वा = स्त्री चर्व–अङ्। १ चर्वणे २ तलप्रहारे शब्दार्थचि०।

चर्व्वित = त्रि० चर्व–कर्मणि क्त। १ भक्षिते दन्तैश्चूर्णीकृते २ आस्वादिते च।

चर्व्वितपात्र = न० ६ त०। चर्वितस्य ताम्बूलादेस्त्यानार्थम् पात्रम् (पिकदानी) ख्याते पतद्ग्रहे। “ताम्बूलं दर्पणं पानपात्रं चर्वितपात्रकम्” पद्मपु० पा० ख०।

चर्व्य = त्रि० चर्व–कर्मणि ण्यत् यत् वा। दन्तैश्चूर्णनीये भक्ष्यभेदे आहारशब्दे ८९९ पृ० भावप्रका० वाक्यम् यथा “भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्यात् यथोत्तरम्। चर्व्यं च चिपिटकचणकादि”। “षट्कोटिं ब्राह्मणानाञ्च भोजयामास नित्यशः। च्यूष्यपेयलेह्यचर्व्यैरतितृप्तिं दिने दिने” व्र० यै० पु०।

चर्षणि = पु० कृष–अनि “आदेश्च चः” उणा०। मनुष्ये निध०। “यएकश्चर्षणीनां वसूनाम्” ऋ० १। ७। ९ “अर्य्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः। यत्र वै मानुषी जाति र्ब्रह्मणा चोपकल्पिता” भाग० ६। ६। ३१ श्लोकः, तद्व्याख्यायां चर्षणयः कृताकृतज्ञानवन्तः” श्रीधरः। विचर्षणि विश्वचर्षणीत्यादिना निघण्टौ चर्षतेः पश्यतिकर्मसूक्तत्वेन तथार्थत्वम्। अस्यायमभिप्रायः “कृषेरादेश्च चः” उणा० २। १०३। सूत्रे उज्ज्वलदत्तेन “आदेश्च घः” इति प्रठित्वा धर्षणिः बधकीत्युदाहृतम्। अतश्चर्षणिनिष्पत्तिर्निघण्टुप्रोक्तचर्षधातोरेव। सि० कौ० तु “आदेश्च चः” इति प्राठात् कृषधातोरेव तच्छब्दनिष्पत्तिरिति भेदः। तयोर्युक्तायुक्तत्वे सुधीभिर्भाव्ये। कृदिकारान्तत्वात् स्त्रियां वा ङीप्। २ पुंश्चल्यां स्त्री “सचर्षणीनामुदगाछुचोगृजन्” भाग० १०। २९। ३। वाक्यस्य चर्षणीनां पुंश्चलीनाम् इत्यर्थपरत्वं युक्तम्। मनुष्यजातिपरत्वे स्त्रिया वा ङीप्। “इदनुक्ता चर्षणीधृता” ऋ० ८। ९०। ५। चर्षण्णीधृताऽसुरहननद्वारेण मनुष्यजातिधारकवज्रेण” भा०

***