चक्रक = पु० चक्रमिव कायति कै–क। तर्कभेदे। तल्लक्षणं स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गश्चक्रकः” तर्के जगदीशः। अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च। अन्योन्याश्रयशब्दे दर्शिते आपादके जन्यपदमन्तर्भाव्योदाहरणम्। अपेक्षा चात्र साक्षात्परस्परासाधारणी ग्राह्या” तर्के जगदीशः। तत्र ज्ञप्तौ एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात तदा एतद्घटज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात्। उत्पत्तौ घटोऽयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्यजन्य भिन्नः स्यात्। स्थितौ घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपकभ्येतेति। २१ ऋषिभेदे पु० चक्रस्य गोत्रा- पत्यम् अश्वा० फञ्। चाक्रायण चक्रगोत्रापत्ये पुंस्त्री “उशस्तिर्ह चाक्रायणः” छा० उ०। कुण्डलकलितनगणमिह सुलभं गन्धकुसुमरसविरचितबलयम्। चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम्” इत्युक्तलक्षणे २२ छन्दोभेदे चक्राकारे २३ ददुरोगे चक्रमर्द्दः। २४ मनस्तत्त्वे चक्रगदाधरशब्दे उदा०। गिरिनद्या० ततः परं नदीनितम्बशब्दस्थनस्य वा णत्वम्।

चक्रकारक = न० चक्रं चक्राकाररेखां करोति कृ–ण्वुल् ६ त०। १ नखे शब्दार्थचि०। तस्य नारीकुचयोः चक्राकाररेखाकरणात् तथात्वम् २ व्याघ्रनखाख्ये गन्धद्रव्ये अमरः।

चक्रकुल्या = स्त्री चक्रस्य तदाकारस्य कुल्येव। १ चित्रपर्ण्याम् (चाकुलिया) शब्दच०।

चक्रगज = पु० चक्रे चक्राकारे दद्रुरोगे गजैव मर्द्दकत्वात्। चक्रमर्द्द वृक्षे (दादमर्दनवृक्षे) राजनि०।

चक्रगण्डु = पु० चक्रभिव गण्डुः। (गालवालिश)ख्याते उपधानभेदे हेमच०।

चक्रगदाधर = पु० “मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वात्मिकां गदाम्। धारयन् लोकरक्षार्थं गुप्तश्चक्रगदाधरः” बिष्णुसं० भाष्यधृतवाक्योक्ते परमेश्वरे

चक्रगुच्छ = पु० चक्रमिव गुच्छोऽस्य। अशीकवृक्षे शब्दच०।

चक्रचर = त्रि० चक्रेण संघशश्चरति चर–ट। संघीभूय चारिणि गजविहगादौ। “तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा” भा० व० ८२१४ श्लो०।

चक्रचारिन् = पु० चक्रेण चरति णिनि। रथे। “विधिरेकक चक्रचारिणं किमु निर्म्मित्सति मान्मथं रथम्” नैष०।

चक्रजीवक = पु० चक्रेण कुम्भसाधनचक्रेण जीवति जीव–ण्वुल् ६ त०। कुम्भकारे हेमच०।

चक्रतीर्थ = न० चक्रेण सुदर्शनेन क्षालनेन कृतं तीर्थम्। प्रभास क्षेत्रस्थे वैष्णवे तीर्थभेदे तत्कथा स्क० प्रभा० “तस्य सीमां प्रवक्ष्यामि विष्णुक्षत्रस्य भामिनि!। पूर्वेयमेश्वरं यावत् श्रीसोमेशस्तु पश्चिमे। उत्तरे तु विशालाक्षी दक्षिणे सरितां पतिः” इत्युपक्रमे “चक्रतीर्थे नरः स्नात्वा सापवासोजितेन्द्रियः। द्वादश्यां कार्त्तिके मासिदद्यात विप्रषु काञ्चनम्। विष्णुं संपूज्य विधिना मुच्यते सवपातकैः देव्युवाच चक्रतीर्थं कथं नाम त्वया प्रोक्तं वृषध्वज!। कुत्र तिष्ठति तत्तीर्थं किंप्रभावं बदस्व मे। ईश्वर उवाच। पुरा देवासुरे यद्ध डत्वा दैत्यान् जनार्द्दनः। चक्रं प्रक्षालयामास तत्र वै रक्तराञ्जतम्। अष्ट कोटीस्तु तीर्थानि तत्रानीय स्वयं हरिः। तीर्थे प्रकल्पयामास शुद्धिं कृत्वा सुदर्शने। तीर्थस्य चक्रे नामापि चक्रतीर्थमिति श्रुतम्। अष्टायुतानि तीर्थानामष्टौ कोट्यस्तथैव च। तत्र सन्ति महादेवि। चक्रतीर्थे न संशयः। यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः। सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम्। तीर्थानामष्टकोट्यस्तु निवसन्ति वरानने!। एकादश्यां विशेषेण चन्द्रसूर्यग्रहे तथा। तत्र स्नात्वा महादेवि! यज्ञकोटिफलं लभेत्। तस्य कल्पेषु नामानि शृणुते कथयाम्यहम्। कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्वितीयके। तृतीये शतधारं च चक्रतीर्थं चतुर्थके। एवं ते कल्पनामानि अतीतान्यखिलानि ते। कथितान्येवमन्यानि ज्ञेयानि विबुधैः क्रमात्। तत्र यद्दीयते दानं तस्य संख्या न विद्यते। अर्द्धक्रोशप्रमाणञ्च विष्णुक्षेत्रं प्रकीर्त्तितम्। व्रह्महत्यापसर्पाय सत्यमेतन्मयोदितम्। मासोपवासी तत्क्षेत्रमग्निहोत्री पतिव्रता। स्वाध्यायी यज्ञयाजी च तपश्चान्द्रायणादिकम्। तिलोदकं च पितॄणां श्राद्धञ्च विधिपूर्ब्बकम्। एकरात्रं त्रिरात्रं बा कृच्छ्रसान्तपनं तथा। मासोपवासी तत्रैव अन्यद्वा पुण्यकर्म्मकृत्। दैत्यारिक्षेत्रमासाद्य यत्किञ्चित् कुरुते नरः। अन्यक्षेत्रात् कोटिगुणं पुण्यं भूयान्न संशयः। सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत्। सम्यक्यात्राफलप्रेप्सुः सर्वपापविशुद्धये। चाण्डालः श्वपचोवापि तिर्यग्योनिगतस्तथा। तस्मिन् तीर्थे मृतः सम्यक् आच्युतं लोकमाप्नुयात्। इति संक्षेपतः प्रोक्तं चक्रतीर्थसमुद्भवम्। माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम्”।

चक्रतैल = न० चक्रस्य तत्फलस्य तैलम्। चक्रमर्द्दफलजाते तैले। “चक्रतैलेन चाभ्यज्य सज्जचूर्ण्णेन चूर्णयेत्”। “कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्” सुश्रुतः।

चक्रदंष्ट्र = पुंस्त्री चक्रमिव दंष्ट्रास्य। शूकरे राजनि०।

चक्रदत्त = न० चक्रपाणिना निर्म्मिते वेद्यकशास्त्रभेदे।

चक्रदन्ती = पु० चक्रमिव फलरूपदन्तोऽस्याः। दन्तीवृक्षे राजनि०।

चक्रदन्तीवीज = न० ६ त०। जयपालवीजे राजनि०।

चक्रदेव = पु० यादवे नृपभेदे। “अष्टादश सहस्राणि भ्रातॄणां सन्ति नः कुले। आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः। चारुदेष्णः सह भ्रात्रा चक्रदेवश्च सात्यकिः। अहञ्च रौहिणेयश्च” भा० स० १३ अ०। कृष्णोक्तिः।

चक्रद्वार = पु० चक्रमिव द्वारमत्र। पर्व्वतभेदे। “द्रोणश्च शत शृङ्गश्च चक्रद्वारश्च पर्वतः” भा० शा० ३२२ अ०।

चक्रधनुस् = पु० सूर्य्याज्जाते कपिलाख्ये ऋषिभेदे। “अत्र चक्रधनुर्नाम सूर्य्याज्जातोमहानृषिः। विदुर्यं कपिलं देवं येनार्त्ताः सगरात्मजाः” भा० उ० १०८ अ०।

चक्रधर = पु० चक्रं मनस्तत्त्वं सुदर्शाख्यमस्त्रं वा धरतिधृ–अच्। १ चक्रधारिणि विष्णौ २ ग्रामयाजिनि च मेदि०। “प्रचक्रमे चक्रधरप्रभावः” रघुः। ३ चक्रास्त्रधारकमात्रे नृपादौ “यजन्ते क्रतुभिर्देवास्तथा चक्रधरानृपाः” भा० व० ८५ अ०।

चक्रधर्म्मन् = पु० विद्याधरभेदे। “विद्याधराधिपश्चैव चक्रधर्म्मा सहानुजैः। उपाचरति तत्रस्थं धनानामीश्वरं प्रभुम्” भा० स० १० अ०।

चक्रधारण = न० चक्रं धार्य्यतेऽनेन धारि–करणे ल्युट्। रथावयवभेदे अक्षनाभौ शब्दार्थ०।

चक्रधारा = स्त्री ६ त०। चक्रस्याग्रे शब्दार्थ०।

चक्रनख = पु० चक्रमिव नखोऽस्त्यस्य अच्। व्याघ्रनखे गन्धद्रव्यभेदे राजनि०।

चक्रन(ण)दी = स्त्री चक्रप्रधाना विष्णुचक्राबिर्भवस्थानं नदी गिरिनद्या० वा णत्वम्। गण्डकीनद्याम्। “यत्राश्रमपदान्युभयतो नाभिर्दृशच्चक्रैश्चक्र(ण)नदी नाम सरित्प्रवरा सर्वतःपवित्रीकरीति” भाग० ५। ७। ११। “चक्रनदी गण्डकी” श्रीधरः।

चक्रनाभि = पु० ६ त०। चक्रस्य नाभौ। “यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम्। नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः। नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता। सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः” सुश्रुतः।

चक्रनामन् = पु० चक्रात् मक्षिकाचक्रात् नाम यस्य। १ माक्षिक धातौ हेमच०। तस्य मक्षिकापटलजातत्वात् तथात्वम् २ चक्रनामनामके चक्रवाके च।

चक्रनायक = पु० चक्र तदाकारं नयति नी–ण्वुल् ६ त०। व्याघ्रनखे गन्धद्रव्यभेदे राजनि०।

चक्रपद्माट = पु० चक्रः चक्राकारो दद्रुरोगः पद्ममिव तत्राटति प्रभवति अच् ७ त०। चक्रमर्द्दवृक्षे दद्रुघ्ने शब्दर०।

चक्रपद = न० “चक्रपदमिह मनननगुरुभिः” वृ० र० टी० उक्ते त्रयोदशाक्षरपादे छन्दोमेदे।

चक्रपरिव्याध = पु० चक्रं दद्रुरोगं परिविध्यति परि + व्यध–ण ६ त०। आरग्बधे वैद्यकम्।

चक्रपर्ण्णी = स्त्री चक्रमिव पर्णमस्या ङीप्। पृश्निपर्ण्याम् शब्दच०

चक्रपाणि = पु० चक्रं पाणावस्य प्रहरणार्थत्वात् सप्तम्याः परनि० व्य० बहु०। विष्णौ। “निघ्रन्नमित्रान् समरे चक्रपाणिरिवासुरान्” भा० भी० ४८ अ०। “प्रायेण निष्क्रामति चक्रपाणौ” माघः।

चक्रपाणिदत्त = पु० चक्रदत्ताख्यवैद्यकग्रन्थकारके विद्वद्भेदे।

चक्रपाद = पु० चक्रं पादैव यस्य। रथे अजयपालः।

चक्रपाल = पु० चक्रं पालयति पालि + अण्। सेनापति चक्ररक्षके योधभेदे। चक्ररक्षशब्दे दृश्यम्।

चक्रपुष्करिणी = चक्रेण खननात् विष्णुना कृता पुष्करिणी। काशीस्थे मणिकर्ण्णिकाख्ये पुष्करिणीभेदरूपे तीर्थे तत्कथा काशीख० २६ अ० यथा “खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः। निजाङ्गस्वेदसन्दोहसलिलैस्तामपूरयत्। समाः सहस्रं पञ्चाशत् तपौग्रञ्चकारसः। चक्रपुष्करिणीतीर्थे तत्र स्थाणुसमाकृतिः” इत्युपक्रमे “त्वदोयचरणाम्भोजमकरन्दमधूत्सुकः। मच्चेतोभ्रमरो भ्रान्तिं विहायास्त्वाशु निश्चलः। त्वदीयस्यास्य तपसो महोपचयदर्शनात्। यन्मया लोलितो मौलिरहिश्रवणभूषणः। तदान्दोलनतः कर्णात् पपात मणिकर्णिका। मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका। चक्रपुष्करिणीतीर्थं पुरा ख्यातमिदं शुभम्। त्वया चक्रेण खननात् शङ्खचक्रगदाधर!। मम कर्णात् पपातेयं यदा च मणिकर्णिका। ततः प्रभृति लोकेऽत्र ख्यातास्तु मणिकर्णिका”। “अस्मिंस्तीर्थवरे शम्भो! मणिश्रवणभूषणे। सन्ध्या स्नानं जपं हीमं वेदाध्ययनमुत्तमम्। तर्पणं पिण्डदानञ्च देवतानाञ्च पूजनम्। गोभूतिलहिरण्यानि दीपान्नाम्बरभूषणम्। कन्यादानं प्रयत्नेन सप्ततन्तूननेकशः। व्रतोत्सर्गं वृषोत्सर्गं लिङ्गादिस्थापनं तथा। करोति यो महाप्राज्ञो ज्ञात्वायुः क्षणगत्वरम्। विपत्ति विपुलाञ्चापि सम्पत्तिमतिभङ्गुराम्। अक्षया मुक्तिरेकाऽस्तु विपाकस्तस्य कर्म्मणः। अन्यच्चापि शुभं कर्म्म यद्दत्तं श्रद्धया हुतम्। विनात्मघातमीशान! त्यक्त्वा प्रायोपवेशनम्। नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर!। नानुशोचति नाख्याति कृत्वा कालान्तरेऽपि यत्। तदिहाक्षयमेवास्तु तस्येश! त्व दनुग्रहात्। तव प्रासादात्तस्येश! सर्वमक्षयमस्तु तत्। यदस्ति यद् भविष्यञ्च यद्भूतञ्च सदाशिव। तस्मादेतच्च सर्वस्मात् क्षेत्रमस्तु शुमोदयम् यथा सदाशिव! त्वत्तो न किञ्चिदधिकं शिव!। तथाऽऽनन्दवनादस्मात् किञ्चनास्त्वधिकं क्वचित्। विना सांख्येन योगेन विना स्वात्मावलोकनम्। विना व्रततपोदानैः श्रेयोऽस्तु प्राणिनामिह”।

चक्रफल = न० चक्रमिव फलमग्रं यस्य। चक्राकाराग्रयुक्ते अस्त्रभेदे त्रिका०।

चक्रबन्धु = पु० ६ त०। सूर्य्ये हेमच०। चक्रबान्धवादयोऽप्यत्र।

चक्रभृत् = पु० चक्रं बिभर्त्ति भृ–क्विप् ६ त०। १ सुदर्शनधरे विष्णौ २ चक्रास्त्रधारिणि च

चक्रभेदिनी = स्त्री चक्रौ चक्रवाकौ भिनत्ति वियोजयति भिद–णिनि ङीप्। रात्रौ त्रिका० रात्रौ हि तयोर्वियोगात्तथात्वम्।

चक्रभोग = पु० चक्रस्य राशिचक्रस्य भोगः। “यत्स्थानमारभ्य चलितो ग्रहः पुनस्तत्स्थानमायाति स चक्रभोगः परिवर्त्त संज्ञः” इति सू० सि० टी० रङ्गनाथोक्ते ग्रहाणां राशि चक्रभोगे “तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः” इति सू० सि० टीकायां दृश्यम्।

चक्रभ्रम = पु० चक्रमिव भ्रमति भ्रम–अच्। कुन्दाख्ये शिल्पिनां यन्त्रभेदे शब्दार्थचि०। इन् चक्रभ्रमिरप्यत्र। भावे इन्। चक्रभ्रमणे चक्रवाकभ्रान्तौ च “किमु चक्रभ्रंमिकारिता गुणः” नैष०।

चक्रमण्डलिन् = पुंस्त्री० चक्रमिव मण्डलोऽस्त्यस्य इनि। अजगरसर्पे हेम० स्त्रियां ङीप्।

चक्रमन्द = पु० नागभेदे। “तथा नागौ चक्रमन्दातिषण्डौ” भा० मौ० ४ अ०।

चक्रमर्द्द = पु० चक्रं चक्राकारं दद्रुरोगं मृद्नाति मृद्–अण् उप० स० (दादमर्दन) क्षुपभेदे राजनि०। ण्वुल्। चक्रमर्दकोऽप्यत्र अमरः। “चक्रमर्द्दोलघुः स्वादूरूक्षः पित्तानिलापहः। हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत्। हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान्। गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम्” भावप्र०।

चक्रमुख = पुंस्त्वी चक्रमिव वृत्तं मुखमस्य। शूकरे हारा० स्त्रियां जातित्वात् ङीष्।

चक्रमुद्रा = स्त्री “हस्तौ तु संमुखौ कृत्वा संलग्नौ सुप्रसारितौ। कनिष्ठाङ्गुष्ठको लग्नौ मुद्रैषा चक्रसंज्ञिका” तन्त्रसारोक्ते देवपूजनाङ्गमुद्राभेदे।

चक्रमुषल = पु० चक्रं मुषलञ्च साधनतया अत्रास्ति अच्। चक्रमुषलनिष्पाद्ये युद्धभेदे “तत्र चक्रं हलञ्चैव गदां कौमोदकीन्तथा। सौनन्दं मुषलञ्चैव वैष्णवान्यायुधानि च। दर्शयिष्यर्त्ति संग्रामे पास्यन्ति च महीक्षिताम्। रुधिरं कालयुक्तानां वपुर्भिः कालसन्निभैः। स चकृमुषलो नाम संग्रामः कृष्ण! विश्रुतः। दैवतैरिह निर्द्दिष्टः कालः स्यादेष संज्ञितः” हरि० ९६ अ०। चक्रेण निर्वृत्तम् अण्। चाक्र तन्निर्वृत्ते युद्धे “चाकं मौषलमिद्येवं संग्रामं रणवित्तमाः। कथयिष्यन्ति लोकेऽस्मिन् ये धरिष्यन्तिं पार्थिवाः” हरि० १० अ०।

चक्रयान = न० चक्रयुक्तं यानम्। चक्रयुक्ते याने रथादौ। “असौ पुष्य(ष्प)रथश्चक्रयाणं न समराय यत्” अमरः।

चक्ररक्ष = पु० चक्रं रक्षति अण् उप० स०। युद्धे सेनापति चक्ररक्षके योधभेदे। “माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत्” भा० आ० १३८ अ०। “यमौ च चक्ररक्षौ ते भवितारौ महावलौ” भा० वि० ३३ अ०। “चक्ररक्षश्च शूरोवै मदिराक्षोऽतिविश्रुतः” ३३ अ०। ण्वुल् चक्र रक्षकोऽप्यत्र।

चक्ररद = पुंस्त्री चक्रमिव वृत्तोरदोऽस्य। शूकरे त्रिका० स्त्रियां जातित्वात् ङीष्।

चक्रलक्षणा = स्त्री चक्रे मण्डलाकारकुष्ठे लक्षणं प्रतीकार साधनरूपं चिह्नमस्य। गुडूच्याम् रत्नमा०।

चक्रलताम्र = पु० चक–तृप्तौ करणे रक् चक्रः तृप्तिसाधनं लताम्रः। वृद्धरसालवृक्षे राजनि०

चक्रला = स्त्री चक्र दद्रुरोगं लाति ला–क। उच्चटायाम् मुस्ताभेदे अमरः।

चक्रलिप्ता = स्त्री ६ त०। राशिचक्रस्य कलांरूपे भागभेदे कलाश्च २१६०० मिताः। तथाहि द्वादशराश्यात्मकचकस्य एकैकराशेस्त्रिंशांशत्मकत्वात् ३६० अंशात्मकं राशिचक्रम् अंशश्च ६० कलामितः तदङ्कस्य षष्ट्या गुणने २१६०० कलाभवन्ति इति कलापर्य्यायलिप्तानां तावन्मितत्वम्।

चक्रवत् = त्रि० चक्रमस्त्यस्य मतुप् मस्य वः। १ चक्रास्त्रयुक्ते स्त्रियां ङीप्। २ तैलिके च। “सुनाचक्रध्वजवतां वेशेनैव च जीवताम्” मनुः। “सुनावान् पशुमारणपूर्व्वक मांसविक्रयजीवी। चक्रवान् वीजबधबिक्रयजीवी तैलिकः ध्वजवान् मद्यविक्रयजीवी शौण्डिकः” कुल्लूकः। चक्रं तदाकारीऽस्त्यस्य। चक्राकारसदृशाकारयुक्ते ३ पर्व्वतभेदे पु०। “तत्रैव चक्रसदृशं चक्रवन्तं महाचलम्। सहस्रकूटं विपुलं भगवान् संन्यवेशयत्” हरिवं० २२५ अ०।

चक्रवर्त्तिन् = पु० चक्रे भूमण्डले, वर्त्तितुं, चक्रं सैन्यचक्रं वा सर्व्वभूमौ वर्त्तयितुं शीलमस्य वृत–वृत–णिच्–वा णिनि। १ समुद्रपर्य्यन्तक्षितेरधीश्वरे, अमरः २ वास्तूकशाके राजनि०। ३ जतुकायां शब्दार्तचि० ५ जटामास्याम् ४ अलक्तके च स्त्री ङीप् राजनि०। ५ जनीसाम- गन्धद्रव्ये स्त्री अमरः चक्र इव वर्त्तते। चक्रवाकतुल्ये त्रि० “तव तन्वि! कुचावेतौ नियतं चक्रवर्त्तिनौ। आसमुद्रक्षितीशोऽपि भवान् यत्र करप्रदः” उद्भटः। “यश्चक्रवर्त्तित्वमवाप वीरः स्वैः कर्म्मभिः शक्रसमप्रभावः” हरिव० १५४ अ०। “वृन्दैर्गजानां गिरिचक्रवर्त्ती” कुमा०। “जन्म यस्व पुरोर्वंशे युक्तरूपमिदं तव। पुत्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि” शकु०। “विद्याधरराज्यमिव चक्रवर्त्तिनरवाहनोचितम्” काद०।

चक्रवाक = पु० स्त्री० चक्रशब्देन उच्यते वच–परिभाषणे कर्मणि घञ् न्यङ्क्वा० कुत्वम्। स्वनामख्याते खगे अमरः। “परस्पराक्रन्दिनि चक्रवाकयोः पुरोवियुक्ते मिथुने कृपावती” कुमा०। स्त्रियां जातित्वात् ङीष्। “वरुणाय चक्रवाकीम्” यजु० २४। २२। “सरिदपरतटान्तादागता चक्रवाकी” माधः। “दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्” मेघ०।

चक्रवाकवती = स्त्री चक्रवाकाः भूम्ना सन्त्यत्र मत्प् मस्य वः ङीप् अजिरा० संज्ञायामपि न दीर्घः। बहुलचक्र वाकयुक्ते नदीभेदे।

चक्रवाट = पु० चक्रस्वेव वाटोऽत्र वट–वेष्टने घञ्। १ क्रियाराहे कर्म्मप्रारम्भे २ पर्य्यन्ते ३ शिखातरौ च मेदि०।

चक्रवाड(ल) = पु० चक्रमिव वाडते वेष्टयति वाड–अच्। वा डस्य लः चक्रमिव वलते बल बा० ण लस्य वा डः। १ लोकालीकपर्व्वते। २ मण्डले न० अमरः। लोकालोकपर्व्वतस्य भूमण्डलवेष्टनाकारेण स्थितत्वात् तथात्वम्। ३ मण्डलाकारेण वर्त्तिनि समूहमात्रे च “किरीटहाराङ्गदचक्रवाडैर्विभूषिताङ्गाः पृथुबाहवस्ते” भा० आ० १८७ अ०। “एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः” हरिवं० ७७ अ०। वलधातोर्वाडधातोर्बा अन्तःस्थादित्वेन वर्ग्यादित्वाभावात् अस्य शब्दस्य वर्ग्यमध्यत्वकल्पनं प्रामादिकमेव।

चक्रवाते = पु० चक्रमिव वातः। (घुर्णीं)। भ्रमिवायौ वात्यायाम्। “दैत्योनाम्रा तृणावर्त्तः कंसभृत्यः प्रचोदितः। चक्रवातस्वरूपेण जहारासीनमर्भकम्” भाग० ७। १८ श्लो०

चक्रवृद्वि = स्त्री चक्रमिव वृद्धिः। “वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता” इति नारदोक्ते १ वृद्धिभेदे। तद्दानादिप्रकांरः मनुना दर्शितो यथा “नातिसांवत्सरीं वृद्धिं नवादृष्टां पुनर्हरेत्। चक्त्रवृद्धिः कालवृद्धिः कारिता कायिका च था। ऋणं दातुमशक्तोयः कर्त्तुमिच्छेत् पुनः क्रियाम्। स दत्त्वा निर्जितां वृद्धिं करणं परिवर्त्तयेत्। अदर्शयित्वा तत्रैव हिरण्यं परिवर्त्तयेत्। यावती सम्भवेद् घृद्धिस्तावतीं दातुमर्हति”। “ममैकस्मिन्मासि मासद्धये मासत्रये वा गते तस्य वृद्धिः विगणय्य एकदा दातव्येत्येवं विधि नियमपूर्ब्बकवृद्धिग्रहणमुत्तमर्णः संवत्सरपर्य्यन्तं कुर्य्यात् नातिक्रान्ते संवत्सरे वृद्धिं गृह्णीयात् न च शास्त्रोक्तधर्म्यद्विकत्रिकशताद्यधिकां गृह्णीयात्। अधर्म्यत्वबोधनार्थो निषेधः। चक्रवृद्ध्यादिचतुष्टयीं चाशास्त्रीयां न गृह्णीयात्। तासां स्वरूपमाह वृहस्पतिः “कायिका कायसंयुक्ता मासग्राह्या च कालिका। वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता”। तत्र चक्रवृद्धिः स्वरूपेणैव गर्हिता। कालवृद्धिस्तु द्विगुणाधिकग्रहणन। कायिका चातिवाहदोहादिना। कारिता ऋणिकेन या आपत्काल एव उत्तमर्णपीडया कृता। चतस्रोऽपि वृद्धीरशा स्त्रीया न गृह्णीयात्। तथा च वृहस्पतिः “भागो यद्द्विगुणादूर्द्ध्वं चक्रवृद्धिश्च गृह्यते। पूर्णे च सोदय पश्चात् वार्द्धुष्यं तद्विगर्हितम्”। कात्यायनः “ऋणिकेन कृता वृद्धिरधिका सम्प्रकल्पिता। आपत्कालकृता नित्य दातव्या कारिता तथा। अन्यथा कारिता वृद्धिर्न्न दातव्या कथञ्चन”। ऋणं दातुमिति। अधमर्णो धनदानासामर्थ्यात् यदि पुनर्लेख्यादिक्रियां कर्त्तुमिच्छेत् स निर्ज्जितां उक्तमार्गेण सत्यतया आत्मसात् कृतां वृद्धिं दत्त्वा करणं लेख्यं पुनः कुर्य्यात्। अदर्शयित्वेति। यदि देवगत्या वृद्धिहिरण्यमषि समग्रं दातुं न शक्नोति तदा तद् गृहीत्वैव तत्रैव पुनः क्रियमाणे लेख्यादौ वृद्धिहिरण्यादिशेषमारोपयेत्। यत्प्रमाणं चक्रवृद्धिधनं तदानीं सम्भवति तद्दातुमर्हति” कुल्लू०। चक्रमस्त्वस्य अच् चक्रं चक्रवच्छकटादि तन्निमित्ता वृद्धिः। २ शकटादिभाटकरूपलाभे च। “चक्रवृद्धिं समारूढो देशकालव्यवस्थितः। अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात्” मनुः। “चक्रदृद्धिमिति। चक्रवृद्धिशब्देनात्र चक्रवच्छकटादिभाटकरूपा वृद्धिरभिमता चक्रवृद्धिमाश्रित उत्तमर्णो देशकालव्यवस्थितः। यदि वाराणसीपर्य्यन्तं लवणादि शकटेन वहामि तदा ममेयद्धनं दातव्यमिति वेतने देशव्यवस्थितिः। यदि मासं यावद्वहामि तदा ममेयद्धनं दातव्यमिति कालव्यवस्थितिः एवमभ्युपगतदेशकालौ नियमस्थौ दैवादपूरयन् शकदादिनाऽवहन् लाभरूपफलं सकलं न प्राप्नोति” कूल्लू०।

चक्रव्यूह = पु० चक्राकारः व्यूहः। चक्राकारे सेनासन्निवेशभेदे चक्रशब्दे दृश्यम्।

चक्रशल्या = स्त्री चक्रमिव शल्यमत्र। श्वेतगुञ्जायां राजनि०

चक्रश्रेणी = स्त्री चक्राणां श्रेणिरन्न ङीव। अजशृङ्ग्याम् वृक्षभेदे रत्नमाला तस्याःफलानां चक्राकारशृङ्गरूपतया जातत्वा त्तथात्वम्।

चक्रसंज्ञ = न० चक्रस्य संज्ञा संज्ञास्य। १ वङ्गे धातुभेदे हेमच० २ चक्रवाके अमरः।

चक्रसंवर = पु० चक्रमिन्द्रियचक्रं संवृणोति अच्। वुद्धभेदे त्रिका०।

चक्रसक्थ = त्रि० चक्रमिव सकिथ अस्य षच् षचः षित्त्वेन नित्यमन्तोदात्तता “सक्थञ्चाचक्रान्तात्” पा० चक्रान्तप्रतिषेधात् न विभाषयाऽन्तोदात्तता। चक्रतुल्यसक्थियुक्ते।

चक्रसाह्वय = पुंस्त्री० चक्रेण समाना आह्वा यस्य। चक्रवाके “चकोरान् वानरान् हसान् सारसान् चक्रसाह्वयान्” भा० आनु० ५४ अ०। जातित्वेऽपि योपधत्वात् स्त्रियां टाप्।

चक्रहस्त = पृ० चक्रं हस्तेऽस्य। १ चक्रपाणौ विष्णौ २ चक्रधारिमात्रे त्रि०।

चक्रा = स्त्री चक–तृप्तौ रक्। १ नागरमुस्तायां, २ कर्कटशृङ्ग्याञ्च राजनि०।

चक्रांश = पु० चक्रस्य राशिचक्रस्यांशः। राशिचक्रस्य ३६० षष्ट्युत्तरशतत्रयात्मके भागे।

चक्रा(की)ङ्की = स्त्री चक्राकारेणाकति अङ्कते वा अक–गतौ अकिङ् गतौ अच् गौरा० ङीष्। हंस्यां शब्दरत्ना०।

चक्राङ्ग = पु० चक्रमिवार्द्धचक्रमिवाङ्गं यस्य। १ हंसे। स्त्रियां जातित्वात् ङीष्। चक्रमङ्गमस्य। २ रथे अमरः। “इदमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः” भा० कर्ण० ४१ अ० हंसकाकीये। ३ चक्रवाके “कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम्” मनुः अभक्ष्यमांसोक्तौ। हंसस्य पृथगुपादानादस्य चक्रवाकार्थता।

चक्राङ्गा = स्त्री चक्रमिवाङ्गमस्त्यस्याः अच्। सुदर्शनायां लतायां रत्नमाला।

चक्राङ्गी = स्त्री चक्रमिव चक्रं तृप्तिकरभङ्गं वाऽस्याः ङीष्। १ कटुरोहिण्याम् मेदि०। २ हंस्यां शब्दर०। ३ हिलमोचिकावां त्रिका०। ४ मञ्जिष्ठायां ५ वृषपर्ण्यां च राजनि०। ६ कर्कटशृङ्ग्यां रत्नमा०।

चक्राट = पु० चक्रं चक्राकारमटति अट–अण् उप० स०। १ विषवैद्ये २ धूर्त्ते ३ दीनारे परिमाणभेदे च मेदि०।

चक्राधिवासिन् = पु० चक्रं तृप्तिकरमधिवासयति अधि + वासि णिनि। तृप्तिकरसौरभयुक्ते नागरङ्गवृक्षे(नारेङ्गानेवु) त्रिका०।

चक्रायुध = पु० चक्रमायुधमस्य। १ विष्णौ “चक्रायुधेन चक्रेण पिबतोऽमृबमोजसा। शिरश्छिन्नम्” भा० आ० १९२ अ०। २ चक्रास्त्रधारिमात्रे चक्रप्रहरणादयोऽप्यत्र।

चक्रावर्त्त = पु० चक्रस्येवावर्त्तः। घूर्णने हेमच०।

चक्राह्व = पु० चक्रेति आह्वा यस्य। १ चक्रमर्द्दे राजनि०। २ चक्रवाके च।

चक्रि = त्रि० कृ–कि द्वित्वम्। करणशीले “चक्रिं विश्वानि चक्रये” ऋ० १। ९। २। विश्वानीत्यत्र कियोगे षष्ठी निषेधात् कर्म्मणि द्वितीया।

चक्रिका = स्त्री चक्रं तदाकारोऽस्त्यस्याः ठन्। जानुनि राजनि०।

चक्रिन् = पु० चक्रमस्त्यस्य इनि। १ विष्णौ २ ग्रामजालिके ३ चक्रवाके ४ सर्पे पुंस्त्री०। ५ कुलाले ६ सूचके त्रि० मेदि०। ७ अजे पुंस्त्री ८ तैलिके शब्दर०। चक्रं राष्ट्रचक्रं स्वत्वेनास्त्यस्य इनि। ९ चक्रवर्त्तिनि हेमच०। १० चक्रमर्द्दे तस्य तदाकारपत्रत्वात्। ११ तिलिशे १२ व्यालनखे पु० १३ काके १४ गर्दभे च पुंस्त्री० राजनि०। तयोश्चक्रवद्भ्रमणवत्त्वात्तथात्वम्। १५ चक्रयुक्ते त्रि० सर्व्वत्र स्त्रियां ङीप्। १६ चक्रयुक्तरथाद्यारूढे त्रि०। “चक्रिणोदशमीस्थस्य” मनुः। “चक्रिणः चक्रयुक्तरथाद्यारूढस्य” कुल्लू०। “वैश्यायां शूद्रतश्चौराज्जातश्चक्री स उच्यते” उशनसोक्ते १७ संकीर्णजातिभेदे पुंस्त्री०। “पदं महेन्द्रालयचारु चक्रिणः” माघः। विष्णोश्च मनस्तत्त्वात्मकचक्रस्य लोकरक्षार्थं सुदर्शनचक्रस्य वा धारणात् तथात्वम्। अतएव “अरौद्रः कुण्डली चक्री” “शङ्खभृन्नन्दकी चक्री” विष्णुस० द्विधा प्रयोगः अवयवार्थभेदाभ्यामिति बोध्यम्।

चक्रीवत् = पुंस्त्री० चक्रं तद्वद्भ्रमणमस्त्यस्य मतुप् आसन्दीवदित्या० पा० नि०। १ गर्दभे अमरः। “चक्रीवदङ्गरुह धूम्ररुचो विसस्रुः” साघः। २ राजभेदे पु० सि० कौ०। वैदिकप्रयोगे ३ चक्रयुक्तमात्रे च। “सदोहविर्धानानि चक्रीवन्ति” कात्या० श्रौ० २४। २३। ३०। सदोहविर्धाना ग्नीध्राणि चक्रीवन्ति” २४। ५। २६। स्त्रियां सर्व्वत्र ङीप्

चक्रु = त्रि० कृ–कु द्वित्वञ्च। कर्त्तरि उज्वलद०।

चक्रेश्वरी = स्त्री ६ त०। १ जिनानां विद्याभेदे २ राष्ट्रेश्वरे पु०।

चक्रोपजीविन् = त्रि० चक्रं तैलनिष्पीडनयन्त्रमुपजीवति उप जीव–णिनि। तैलिके।

चक्ष = कथने त्यागे च अदा० आत्म० सक० सेट्। चष्टे। अख्यत् अख्यत त्यागे तु सम–क्षिष्ट चख्यौ चख्ये चचक्षे। भाष्यमते अक्शासोत् अक्शास्त। चक्शौ चक्शे।अनु + पश्चादुक्तौ “परायतीं मातरमन्वचष्ट” ऋ० ४। १८। ३।अभि + आभिमुख्येन दर्शने “कदा चिकित्वो अभिचक्षसे नः” ऋ० ५। ३। ९।अव + अधोदर्शने। “सुपर्णोऽवचक्षत क्ष्मां सोमः” ऋ० ९। ७१। ९।आ + आख्याने। “विचक्षणः प्रस्तुतमाचचक्षे। “स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम्” रघुः।अनु + आ + अन्वाख्याने “एतमेव तदन्वाचक्षते” शत० व्रा० २। ४। ४। २।अभि + आ + आभिमुख्येनाख्याने। “अभ्याचष्टानुरागास्रैरन्धीभूतेन चक्षुषा” भाग० १। ९। ११। “अभ्याचष्टुं प्रचक्रमे” ८। ५। १४।उद् + आ + उदाहरणे “तस्मादध्वर्य्युरेव गोर्वीर्य्याण्युदाचष्टे” शत० व्रा० ३। ३। ३। ४।प्रति + आ + प्रत्याख्याने निराकरणे “गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः” भा० आ० ७७ अ०।वि + आ + व्याख्याने विवरणे। “व्याचक्षाणस्य तु मे निदिध्यासस्व” शत० व्रा० १४। ५। ४। ४।सम् + आ + सम्यगाख्याने। “तत्सत्यं नः समाचक्ष्व” भाग० १। ४। १३।परि + परितः कथने विख्यातौ “वेदप्रदानादाचार्य्यं पितरं परिचक्षते” मनुः।प्र + प्रकर्षेण कथने विख्यातौ। “तं देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते” मनुः “दहति प्रेतमिति प्रचक्षते” रघुः।प्रति + प्रत्युत्तरोक्तौ प्रतिरूपोक्तौ च “यदा तु सर्व्वभूतेषु दारुष्वग्निमिव स्थितम्। प्रतिचक्षीत मां लोकः” भाग० ३। ९। ३।वि + विशेषेण कथने विख्यातौ “विश्वं विचक्षते धीराः योगराद्धेन चक्षुषा” भाग० ३। ११। १७। विचक्षणः।सम् + सम्यक्कथने। “मेरोरप्यन्तरे पार्श्वे पूर्व्वं संचक्ष्व सञ्जय!” भा० भी० ७ अ०।

चक्षण = न० चक्ष–ल्युट् न ख्यादेशः। १ अनुग्रहेण दर्शने “कद्वरुणस्य चक्षणम्” ऋ० १। १०५। ६। “चक्षणमनुग्रहदर्शनम्” भा०। २ कथने च। करणे ल्युट्। ३ अवदंशे मद्यपानादिरोचके (चाकना) द्रव्यभेदे हेमच०।

चक्षणि = त्रि० चक्ष–अनि। प्रकाशके। “स नी विभावा चक्षणिनं” ऋ० ६। ४। २।

चक्षस् = पु० चक्ष–असि न ख्यादेशः। १ वृहस्पतौ त्रिका०। २ उपाध्याये उणादिकोषः।

चक्षुःश्रवस् = पुंस्त्री० चक्षुषा शृणोति श्रु–असुन्, चक्षुरेव श्रवः कर्णो यस्य बा। सर्पे अमरः। “अदस्तदाकर्णिफलाढ्यजीवितं दृशोर्द्वयं नस्तदवीक्षि चाफलम्। इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः” नैष०।

चक्षुर्मल = न० ६ त०। (पि~चुटि) नेत्रमले शब्दार्थचि०।

चक्षुर्वर्द्धनिका = स्त्री शाकद्वीपस्थे नदीभेदे। “महानदोच कौरव्य! तथा मणिजला नदी। चक्षुर्वर्द्धनिका चैव नदी भरतसत्तम!” भा० भी० ११ अ०।

चक्षुर्वहन = न० चक्षुस्तज्ज्योतिर्वहति वह–ल्यु। १ मेषशृङ्गीवृक्षे रत्नमा०।

चक्षुर्विषय = पु० ६ त०। १ चक्षुर्ग्राह्ये रूपादौ। स च भाषा० उक्तो यथा “उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये। विभागसंयोगपरापरत्वे स्नेह द्रव्यत्वं परिमाणयुक्तम्। क्रियां जातिं योग्यवृत्तिं समवायञ्च तादृशम्। गृह्णाति चक्षुः, सम्बन्धादालोकोद्भूतरूपयोः”। २ नेत्रप्रचारस्थाने च “गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्” मनुः।

चक्षुर्हन् = त्रि० चक्षुषा हन्ति हन–क्विप् ३ त०। दृष्टिमात्रेण घातिनि “सर्पस्पर्शसमाः केचित्तथान्ये मकरस्पुशः। विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे” भा० आनु० ३५ अ०। “त्वां ते चक्षुर्हणं प्राय्य दग्धा घोरेण चक्षुषा” भा० भी० १२२ अ०।

चक्षुष्मत् = त्रि० प्रशस्त चक्षुरस्त्यस्य मतुप्। प्रशस्तनेत्रयुक्ते “चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्य्यार्थदर्शिना” रघुः।

चक्षुष्य = त्रि० चक्षुषे हितः यत्। १ चक्षुर्हिते २ प्रियदर्शने जटा०। ३ केतकवृक्षे ४ पुण्डरीकवृक्षे पु० मेदि० ५ शोंभाञ्जनवृक्षे पु० राजनि० ६ रसाञ्जने हेमच०। ७ सौवीराञ्जने ८ खर्परीतुत्थे ९ प्रपौण्डरोके च न० राजनि०। “शीतेन शिरसः स्नानं चक्षुष्यमिति निर्द्दिशेत्” सुश्रु०। “चक्षुष्यः श्रुतो भवति य एवं वेद” छा० उ०। चक्षुषि भवः शरीरावयवत्वात् यत्। १० नेत्रजाते त्रि०। “चक्षुष्यः खलु महतां परैरलङ्घ्यः” माघः। “चक्षुष्यः अक्षिजः प्रियश्च। “प्रियेऽक्षिजे तु चक्षुष्य” इति विश्वः” मल्लि०।

चक्षुस् = न० चक्ष–धातूनामनेकार्थत्वात् दर्शने करणे उसि। १ नेत्रे तच्च चाक्षुषज्ञानसाधनमिन्द्रियभेदः अक्षिशब्दे ४५ पृ० दृश्यम् तस्य तैजसत्वं मुक्ता० समर्थितं यथा “चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीय रूपव्यञ्जकत्वात् प्रदीपवत् प्रदीपस्य स्वीयस्पर्शव्यञ्जकत्वादाद्यं परकीयेति घटादेः स्वीयरूपव्यञ्चकत्वात् व्यभिचारवारणाय द्वितीयं परकीयेति अथवा प्रभायादृष्टान्तत्व सम्भवादाद्यं परकीयं न देयम्” चक्षुःसन्निर्कर्षे तथात्ववारणाय द्रव्यत्वे सतीति वाच्यम्”। चक्षुषोऽधिष्ठातृदेवः सूर्य्यः। “दिग्वातार्क प्रचेतोश्वीत्यादि” शा० ति० उक्तेः। २ तेजसि च। सूर्य्यश्चक्षुषे” ताण्ड० ब्रा०। चक्षुषे तेजसे” भा०।

चक्षुष्या = स्त्री चक्षुषे हिता यत्। १ शुभगायां स्त्रियां २ कुलत्थिकायां मेदि०। ३ अजशृङ्ग्याम् ४ वनकुलत्थिकायाञ्च राजनि०।

चक्षूराग = पु० चक्षुषोरागः रक्तता। १ नेत्रारुणतायां चक्षुषः तदाकर्षकः रागः अनुरागः। २ नेत्राकर्षके अनुरागे “चक्षूरागः कोकिलेषु (न परकलत्रेषु)” काद०।

चक्षूरोग = पु० ६ त०। नेत्ररोगे नेत्रावयवविभागः सुश्रुतोकः अक्षिशब्दे ४५ पृ० दर्शितः। तत्र निदानादि सुश्रुते उक्तं “उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् सप्नविपर्य्ययाच्च। प्रसक्तसंरोदनशोककोपक्लेशाभिघातादतिमैथुनाच्च। शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च। स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्। वाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे बिकारान् जनयन्ति दोषाः। वाताद्दश तथा १० पित्तात् कफाच्चैव त्रयोदश। रक्तात् षोडश विज्ञेया सर्वजाः पञ्चविंशतिः। तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः। हताधिमन्थोऽनिमिषो दृष्टिर्गम्भीरिका च या। यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः। याप्योऽथ तन्मयः काचः साध्याः स्युः सान्यमारुताः। शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्य्ययाः। असाध्योह्रस्वजात्यो यो जलस्रावश्च पैत्तिकः। परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः। अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिकाह्वया। दृष्टिः पित्तविदग्धा च पोथक्यो लगणश्च यः। असाध्यः कफजस्रावो याप्यः काचोऽथ तन्मयः। अभिष्यन्दोऽधिमन्थश्च बलासग्रथितञ्च यत्। दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः। क्रिमिग्रन्थिप्ररिक्लिन्नवर्त्मशुक्लार्म्मपिष्टकाः। श्लेष्मोपनाहः साध्यस्तु कथिताः श्लेष्मजेषु तु। रक्तस्रावोऽजकाजातं शोणितार्शोऽवलम्बितम्। शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्त्तितः। मन्थस्यन्दौ क्लिष्टवर्त्महर्षोत्पातौ तथैव च। सिराजावञ्जनाख्या च सिराजालञ्च यत् स्मृतम्। पर्वण्यथाव्रणं शुक्रं शोणितार्म्मार्ज्जुनश्च यः। एते साध्या विकारेषु रक्तजेषु भवन्ति हि। पूयस्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी। असाध्याः सर्वजा याप्याः काचः कोपश्च पक्ष्मणः। वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या। प्रस्तार्य्यर्माधिमांसार्मस्नाय्वर्मोत्सङ्गिनी च या। पूयालसश्चार्वुदञ्च श्यावकर्दमवर्त्मनी। तथार्शोवर्त्मशुक्रार्मः शर्करावर्त्म यच्च वै। सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च। अक्लिन्नवर्त्म कुम्भीका विसवर्त्म च सिध्यति। सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु वाह्यजौ। षट्सप्ततिविकाराणामेषा संग्रहकीर्त्तना। नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः। शुक्रभागे दशैकश्च चत्वारः कृष्णभागजाः। सर्व्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु। वाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ। भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः”। “अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः। पूयालसः १ सोपनाहः २ स्रावाः ३। ४। ५। ६ पर्वणिकालजी ७। ८। कृमिग्रन्थिश्च९ विज्ञेया रोगाः सन्धिगता नव। पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः १ सः। ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः २। गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् स्वलिङ्गान्। तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्त्तयिष्ये चतुर्द्धा। पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो२ नैकरूपः प्रदिष्टः। श्वेतं सान्द्रं पिच्छिलं यः स्रवेच्च श्लेष्मास्रावो नीरुजः स प्रदिष्टः। रक्तास्रावः ३ शोणितोत्थः सरक्तं कोष्णं नाल्पं संस्रवेन्नातिसान्द्रम्। पीताभासं नीलमुष्णं जलाभं पित्तस्रावं४ संस्रवेत् सन्धिमध्यात्। ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी ७ वृत्तशोफा जाता सन्धौ कृष्णशुक्लेऽलजी८ स्यात्तस्मिन्नेवाख्यापिता पूर्वलिङ्गैः। क्रिमिर्ग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्य्युः कृमयः ९ सन्धिजाताः। नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति।” “अथातोवर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः। पृथग्दोषाः समस्ताश्च यदा वर्त्मव्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्मव्यपाश्रयान्। विकारान् जनयन्त्याशु नामतस्तान्निबोधत। उत्सङ्गिन्यथ १ कुम्भीका २ पोथक्यो ३ वर्त्मशर्करा ४। तथार्शोवर्त्म ५ शुष्कार्श ६ स्तथैवाञ्जननामिका ७। बहलवर्त्म ८ यच्चापि व्याधिर्वर्त्मावबन्धकः ९। क्लिष्टकर्दमवर्त्माख्यौ १० श्याववर्त्म ११ तथैव च। प्रक्लिन्न १२ मपरि- क्लिन्नं१ १३ वर्त्म १४ वातहत १५ न्तु यत्। अर्वुदं १६ निमिष १७ श्चापि शोणितार्श १८ श्च यत् स्मृतम्। लगणो १९ विसनामा २० च पक्ष्मकोप २१ स्तथैव च। एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः। नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे। पिडकाम्यन्तरमुखी बाह्याधोवर्त्मसंश्रया। विज्ञेयोत्सङ्गिनी१ नाम तद्रूपपिडकान्विता। कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः। आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः २। कण्डूस्रावान्विता गुर्व्योरक्तसर्षपसन्निभाः। पिडकाश्च रुजावत्यः पोथक्य३ इति संज्ञिताः। पिडकाभिः ससूक्ष्माभिर्थनाभिरभिसंवृता। पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा४। सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शो बर्त्म५ कीर्त्त्यते। दीर्घोऽङ्करः खरः स्तब्धो दारुणो वर्त्म सम्भवः। व्याधिरेष समाख्यातः शुष्कार्श६ इति संज्ञितः। दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा। मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका७। बर्त्मोपची यते यस्य पिडकाभिः समन्ततः। सवर्णाभिः समाभिश्च विद्याद्वहलवर्त्म८ तत्। कंण्डूमताल्पतोदेन वर्त्मशोफेन यो नरः। न समं छादयेदक्षि भवेद्बन्धः९ स वर्त्मनः। मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च। अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म१० तदादिशेत्। क्लिष्टं पुनः पित्तयुक्तं विदहेच्छोणितं यदा। तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमम्११। यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्। दाहकण्डूपरिक्लेदि श्याववर्त्मेति १२ तन्मतम्। अरुजं बाह्यतः शूनमन्तः क्लिन्न स्रवत्यपि। कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म १३ तदुच्यते। यस्य धौतानि धौतानि सम्बन्ध्यन्ते पुनः पुनः। वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म १४ तत्। विमुक्तसन्धिनिश्चेष्टं वर्त्म यन्न निमील्यते। एतद्वातहतं १५ विद्यात् सरुजं यदि वाऽरुजम्। वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्। विज्ञेयमर्बुदं१६ पुंसां सरक्तमवलम्बितम्। निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः। चालयेदतिवर्त्मानि निमेषः १७ स गदो मतः। छिन्नाश्छिन्ना विवर्द्धन्ते वत्मेस्था मृदवोऽङ्कुराः। दाहकण्डूरुजोपेतास्तेऽर्शः शोणितसम्भवाः १८। अपाकः कठिनः स्थूलो ग्रन्थिर्व्वर्त्मभवोऽरुजः। सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु १९ सः। शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम्। विसमन्तर्जल इव विसवर्त्सेति २० तन्मतम्। पक्ष्माशयगता दोषा- स्तीक्ष्णाग्राणि खराणि च। निर्वर्त्तयन्ति पक्ष्माणि तैर्ज्जुष्टञ्चाक्षि दूयते। उत्पाटितैः पुनः शान्तिः पक्ष्मभिश्चोपजायते। बातातपानलद्वेषी पक्ष्मकोपः २१ स उच्यते।” शुक्लभागरोगभेदास्तु ११ अर्म्मन शब्दे ३७९ पृ० सुश्रुतोक्ता दर्शिताः तत्रत्यं ततः शेषन्तु यथा “स्नाय्यर्मेत्यभिपठितं खरं प्रपाण्डु ५। श्यावाः स्युः पिशितनिभास्तु विन्दवो ये शुक्तिर्वा सितनयने स शुक्तिसंज्ञः ६। एको यः शशरुधिरोपमः सुविन्दः शुक्लस्थो भवति तमर्ज्जुनं७ वदन्ति। उत्सन्नः सलिलनिमोऽथ पिष्टशुक्लो विन्दुर्यः स भवति पिष्टकः ८ सुवृत्तः। जालाभः कठिनसिरो महान् स रक्तः सन्तानः स्मृत इह जालसंज्ञित९ स्तु। शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः१०। कांस्याभो भवति सिरावृतः सिते यो विन्दुर्व्वा स तु निरुजो बलासकाख्यः११।” कृष्णभागतरोगास्तु तत्रोक्ताः ४ कृष्णगतशब्दे २२१३ पृ० दर्शिताः। सर्वगतरोगास्तु१५ तत्रोक्ता यथा “अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः। स्यन्दास्तु ४ चत्वार इहोपदिष्टास्तावन्त एवेह तथाधिमन्थाः ४। शोफान्वितो०ऽशोफयुत १७ श्च पाकावित्येवमेते दश सम्प्रदिष्टाः। हताधिमन्थो ११ऽनिलपर्य्यय १२ श्च शुष्काक्षिषाकोऽन्यंत एव वातः १४। दृष्टिस्तथाम्लाध्युषिता १५ सिराणामुत्पातहर्षावपि १६ सर्वभागाः। प्राथेण सर्वे नयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः। तस्मादभिष्यन्दमुदीर्य्यमाणमुपाचरेदाशु हिताय धीमान्। निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोऽभितापाः। विशुष्कभावाः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति १। दाहप्रपाकौ शिशिरामिनन्दा धूमायनं वाष्यसमुच्छ्रयश्च। उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति २। उष्णाभिनन्दा गुरुताक्षिशोफः कण्डूपदेहौ सितताति शैत्यम्। स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति३। ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च। पित्तस्य लिङ्गानि च यानि तानि रक्तामिपन्ने नयने भवन्ति ४। वृद्धैरेतैरभिष्यन्दैर्तराणामक्रियावताम्। तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः। उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा। शिरसोऽर्द्धन्तु तं विद्यादधिमन्थं स्वलक्षणैः। नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत्। सङ्घर्षतोदनिर्भेद- मांससंरब्धप्ताविलम्। कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम्। शिरसोऽर्द्धञ्च येन स्यादधिमन्थः स मारुतात्५। रक्तराजिचितं स्रावि वह्निनेवावदह्यते। यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम्। प्रपक्वोच्छूनवर्णान्तमस्वेदं पीतदर्शनम्। मूच्छोशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् ६। शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम्। शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम्। रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम्। नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् ७। बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम्। रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः। रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते। यद्दीप्तं रक्तपर्य्यन्तं तद्रक्तेनाधिमन्थितम् ८। हन्याद्दृष्टिं सप्तरात्रात्कफोत्थोऽधीमन्थोऽसृक्सम्भवः पञ्चरात्रात्। षड्रात्राद्वा मारुतोत्थो निहन्यान्मिथ्याचारात्पैत्तिकः सद्यएव। कण्डूपदेहाश्रुयुतः पक्वोडुम्बरसन्निभः। दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः। जुष्टो मुहुः स्रवेद्वास्नमुष्णशीताम्बुपिच्छिलम्। संरम्भी पच्यते यश्च नेत्रपाकः स शोफजः ९।। शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे १०। अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्।। हताधिमन्थं ११ जनयेत्तमसाध्यं विदर्बुधाः। पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः सञ्चरति प्रदुष्टः। पर्य्यायशश्चापि रुजः करोति तं वातपर्य्याय१२ मुदाहरन्ति।। यत्कूणितं दारुणरूक्षवर्त्म विलोकने वाविलदर्शनं यत्। सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहतं १३ तदक्षि।। यस्यावटूकर्ण्णशिरोहनुस्थो मन्यागतो वाप्यनिलोऽन्यतो वा। कुर्य्याद्रुजोऽतिभ्रुवि लोचने वा तमम्यतोवात १४ मुदा हरन्ति।। अम्लेन भुक्तेन विदाहिना वा सञ्छाद्यते सर्वत एव नेत्रम्। शोफान्वितं लोहितकं सनीलैरेतादृगम्लाध्युषितं १५ वदन्ति।। अवेदना वापि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः। मुहुर्विरज्यन्ति च ताः समन्ताद्व्याधिः सिरोत्पात१६ इति प्रदिष्टः।। महान्सिरोत्पातौपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः १७। ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुञ्च।। अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः।। मसूरदलमात्रान्तु पञ्चभूतप्रसादजाम्। खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययैः।। आवृतां पटलेनाक्ष्णार्बाह्येन विवराकृतिम्। सीतसात्म्या नृणां दृष्टिमाहुर्नयनचिन्तकाः।। रोगांस्तदाश्रयान् घोरान् षट् च षठ् च प्रचक्ष्महे। पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम्।। सिराभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम्। प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः।। अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति। दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते।। मक्षिकान् लशकान् केशान् जालकानि च पश्यति। मण्डलानि पताकाश्च मरीचीः कुण्डलानि च।। परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि वा। दूरस्थान्यपि रूपाणि मन्यते च समीपतः।। समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्। यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति।। ऊर्द्ध्वं पश्यति नाधंस्तात्तृतीयं पटलं गते। महान्त्यपि च रूपाणि च्छादितानीव वाससा।। कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते। यथादोषञ्च रज्येत दृष्टिर्दोषे बलीयसि।। अधःस्थिते समीपस्यं दूरस्थञ्चीपरिस्थिते। पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति।। समन्ततः स्थिते दोषे सङ्कुलानीव प्रश्यति। दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा।। द्विधास्यिते त्रिधा पश्येद्बहुधा चानवस्थिते। तिमिराख्यः स वै दोषश्चतुर्थपटलङ्गतः।। रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते। तस्मिन्नपि तमोभूते नातिरूढे महागदे।। चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विठ्युतः। निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति।। स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः। तत्र घातेन चारूणि भ्रमन्तीव स पश्यति।। आविलान्यरुणाभानि व्याविद्धानि च मानवः। पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान्।। शिखिवर्हविचित्राणि नीलकृष्णानि पश्यति। गौरचामरगौराणि श्वेताभ्रप्रतिमानि च।। पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम्। सलिलप्लावितानीव परिजाड्यानि मानवः।। तथा रक्तेन रक्तानि तमांसि विविधानि च। कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च। हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते।। सन्निपातेन चित्राणि विप्लुतानीव पश्यति। बहुवा वा द्विधा वापि सर्वाण्येव समन्ततः। हीनाधिकाङ्गान्यथ वा ज्योतींप्यपि च पश्यति।। पित्त कर्यातपरिम्लायि मूर्च्छितं रक्ततेजसा। पीता दिशस्तथीद्यन्तमादित्यमिव पश्यति।। विकीर्यमाणान् खदोतैर्वृक्षांस्ते जोभिरेव च। वक्ष्यामि षड्विधैरागैर्लिङ्गनाशमतः परम्।। रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवापि नीलः। कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः।। रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम्। परिम्लायिनि रोगे स्यान्म्लाय्यानीलञ्च मण्डलम्।। दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम्।। अरुणं मण्डलं वाताच्चञ्चलं परुषन्तथा। पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा।। श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम्। चलत्पद्मपलाशस्थः शुक्लविन्दुरिवाम्भसः।। मृद्यमाने च नयने मण्डलं तद्विसर्पति। प्रबालप्रद्मपत्राभं मण्डलं शोणितात्मकम्।। दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे। यथास्वदोषलिङ्गानि सर्वेष्वेव भवन्ति हि।। षड्लिङ्गनाशाःषडिमे च रोगा दृष्ट्याश्रयाः षड्च षडेव च स्युः। तथा नरः पित्तविदग्धदृष्टिः१ कफेन चान्य२ स्त्वथ धूमदर्शी ३।। यो ह्रस्वजात्यो४ नकुलान्ध्यता५ च गम्भीरसंज्ञा६ च तथैव दृष्टिः।। पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः। पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः १।। प्राप्ते तृतीयं पटलन्तु दोषे दिवा न पश्येन्निशि वीक्षते च। तथा नरः श्लेष्मविदग्धदृष्टि २ स्तान्येव शुक्लानि हि मन्यते तु।। त्रिषु स्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य। दिवा स सूर्य्यानुगृहीतदृष्टिर्वीक्षेत रूपाणि कफाल्पभावात्।। शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः। सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति ३ वदन्ति रोगम्।। स ह्रस्वजात्यो ४ दिवसेषु कृच्छाद्ध्रस्वानि रूपाणि च यो न पश्येत्। रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्।। विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्। चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः५। दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्गुच्यतेऽभ्यन्तरतश्च याति।। रुजावगाढा च तमक्षिरोगं गम्भीरिकेति६ प्रवदन्ति तजज्ञाः। बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च।। निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च। सुरषिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भासुराणाम्।। हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः। तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः। विदीर्य्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः। इत्येते नयनगता महाविकाराः सङ्ख्याताः पृथ- गिह षड् च सप्ततिश्च। एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽहं तदनु चिकित्सितञ्च तावत्”।।

चघ = धातने स्वादि० पर० सक० सेट्। चघ्नोति अचघीत् अचाघीत् चचाघ।

चङ्कुर = पु० सौ० स्वकि–भ्रान्तौ कर्त्तृकरणादौ–उरच्। १ रथ २ वृक्षे च मेदि०। ३ यानमात्रे न० त्रिका०।

चङ्क्रमण = न० क्रम + यङ् ल्युट् यञोलुक्। १ अतिवेगेन गमने २ पुनः पुनर्भ्नमणे च। तस्य गुणमाह सुश्रुतः “यत्तुं चङ्क्रमणं नीतिदेहपीडाकरं भवेत्। तदायुर्बलमेधाग्नि प्रदमिन्द्रियबोधनम्”। “श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम्” “अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत्। पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्” इति च सुश्रुतः। रोगभेदे तन्निषेधः सुश्रुते दर्शितो यथा अन्तर्वृद्ध्युपक्रमे “वर्ज्जयेदित्यनुवृत्तौ अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम्। अत्यशनं चङ्क्रमणमुपवासं गुरूणि च”। “स्थांनासनं चङ्क्रमणं यानयानाभिभाषणम्। व्रणवान्न निषेवेत”। “तत्र स्निग्ध स्विन्नवान्तविरिक्तास्थापितानुवासितसिराविद्धैः परिपरिहर्त्तव्यानि क्रोधायासमैथुनदिवास्वप्नवाग्व्यायाम यानोत्थानासनचङ्क्रमणशीवातातपविरुद्धासात्म्याजीर्णान्याबललाभात् मासमेके मन्यन्ते”।

चङ्ग = त्रि० चीयते ची० बा० ड चमङ्गं यस्य शक०। (चाङ्गा) ख्याते १ सुस्थे २ शोभने ३ दक्षे च मेदि०।

चचर = त्रि० चर–अच् बा० द्वित्वम्। चरणशीले “पतरेव चचरा चन्द्र निर्णिक्” ऋ० १०। १०६। ८। चचरा संचन्तौ भा० औस्थाने आच्।

चचेण्डा = स्त्री चम् उपचीयमानं प्रकारे द्वित्वम् उपचीयमान प्रकारण अण्डमिव फलमस्य पृषो०। (टिचिडा) क्याते वृहत्फले पटोल सदृशे लतामेदे वैद्य०।

चञ्च = पु० चन्च–अच्। पञ्चाङ्गुले मानभेदे शब्दार्थचि०।

चञ्चत्पुट = पु० “ताले चञ्चत्पुटे ज्ञेयं गुरुद्वन्द्वं लघुप्लुतम्” संगीतदा० उक्ते तालभेदे।

चञ्चरिन् = पुंस्त्री० चर–यञोलुक् बा० उत्त्वामावः णिनि। भ्रमरे। “करी बरीभरीति चेत् दिशं सरीसरीतिकाम्। स्थिरी चरीकरीति चेत् न चञ्चरीति चञ्चरी” उद्भटः” स्त्रियां ङीप्।

चञ्चरीक = पुंस्त्री० चर–फर्फरीकादि० ईकन् नि० द्वित्वम्। भ्रमरे त्रिका०।

चञ्चरीकावली = स्त्री “यमौ रौ विख्याता चञ्चरीकावली गः वृ० र० टी० उक्ते त्रयोदशाक्षरपादके वर्णवृत्तभेदे।

चञ्चल = पु० चन्च–अलच् चञ्चं गतिं लाति ला–क वा। १ कामुके, २ वायौ शब्दार्थ०। ३ चपले, ४ अस्थिरे च त्रि० अमरः। ५ विद्युति, ६ लक्ष्म्याञ्च स्त्री मेदि०। पिप्पल्यां शब्दच०। “चञ्चलचूडं चपलैर्वत्सकुलैः केलि परम्”। (कृष्णम्) छन्दोम०। “नागजिह्वेव चञ्चला” भा० क० ७७ अ०।

चञ्चा = स्त्री चन्च–अच्। नलनिर्म्मिते कटभेदे (चा~च) मेदि०। चञ्चेवेति इवार्थे कन् “लुव् मनुष्ये” इति तस्य लुप्। तृणमयपुरुषे लुपिव्यक्तिवचनत्वात् स्त्री

चञ्चु = पु० चन्च–उन्। १ एरण्डवृक्षे मेदि० २ मृगे शब्दर०। ३ रक्तैरण्डे ४ क्षुद्रचञ्चुवृक्षे राजनि०। ५ नाडीचशाके शब्दार्थचि० (चेचुनाडी) ख्याते ६ पत्रशाकभेदे स्त्री भावप्र०। “चिञ्चुश्चञ्चुश्चि ञ्चुकी च दीर्घपत्रा सतिक्तिका। चञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा। धातुपुष्टिकरी बल्या मेध्या पिच्छिलिका स्मृता”। ७ पक्षिणामोष्ठे स्त्री वा ऊङ्। “स्वगचञ्चुपुटद्रोणीपूरणे तव कः श्रमः” चातका०। “करयन्त्रणदन्तुरान्तरे व्यालिखच्चञ्च पुटेन पक्षतो” “नुनुदे तनुकण्डुपण्डितः पटुचञ्चूपुटकोटिकुट्टनैः” इति च नैष०। स्वार्थे क। पक्षिणामोष्ठे स्त्री।

चञ्चुपत्र = पु० चञ्चुरिव पत्रमस्य। चञ्चुशाके राजनि०।

चञ्चुभृत् = पुंस्त्री० चञ्चुं बिभर्त्ति भृ–क्विप्। पक्षिणि त्रिका०

चञ्चुमत् = पुंस्त्री चञ्चुरस्त्यस्य मतुप्। पक्षिणि हारा० स्त्रियां ङीप्।

चञ्चुर = पु० चन्च–उरच्। १ पत्रशाकभेदे चञ्चुनामके शाके राजनि०। ३ दक्षे त्रि० “पुराणः पुण्यचञ्चुरः” भा० आ० ९०४७ अ०। “विज्ञाताखिलशास्त्रार्थो लौकिकाचारचञ्चुरः” काशी० १० अ०।

च(चु)ञ्चुल = पु० विश्वामित्रपुत्र दे। “विश्वामित्रस्य च सुता इत्युपक्रमे “उदुम्बराह्यभिष्णातास्तारकायणच(चु)ञ्चु लाः” हरि० २७ अ०।

चञ्चुशाक = न० चञ्चुनामकं चञ्चुसदृश वा शाकमस्य। शाकभेदे।

चञ्चुसूचि = पुंस्त्री० चञ्चुः सूचिरिव यस्य। कारण्डवपक्षिणि स्त्रीत्वपक्षे वा ङीप्। धा कप्। अत्रैव।

चट = भेदे भ्वा० पर० सक० सेट्। चटति अचटीत्–अचाटीत्। चचाट। चटुः चाटुः।

चट = बधे भेदे च चु० उभ० सक० सेट्। चाटयति ते अचीचटत् त उद् + नेदने बधे उत्त्रासने स्थानान्तरायने च। “उच्चाटनीयः करतालिकानाम्” नैष०। उच्चाटनम्।

चटक = पुंस्त्री० चटति भिनत्ति धान्यादिकम् चट–क्वुन्। १ कलविङ्के (चडुइ) अमरः जातित्वेऽपि स्त्रियामजादित्वात् टाप् न तु ङीप्। स्वार्थे क। चटककोऽप्यत्र। स्त्रियां जातित्वेऽपि टापि क्षिपका० नित्यं न अत इत्त्वम्। तन्मांसगुणादि भावप्र० उक्तं यथा “चंटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः। कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफपदः। सन्निपातहरो ग्रामचटकश्चातिशुक्रलः”। २ पिप्पली मूले न० अमरटीका। ३ श्यामाखगे स्त्री राजनि०। चटका + स्वार्थे क। अतो वेत्त्वम् चटकका चटकिका” सि० कौ०। चटकस्य चटकाया वा अपत्यं पुमान् अण् ऐरक्। चाटकैर चटकापत्ये पुंसि। स्त्रियान्तु अणो लुक्। चटका चटकयोः स्त्र्यपत्ये स्त्री।

चटकामुख = न० चटकाया मुखमिव मुखमस्य। अस्त्रभेदे “क्षुरप्रैश्चटकामुखैः” भा० क० ४० अ०।

चटकाशिरम् = पु० चटकायाः शिर इव। पिप्पलीमूले। हेमच०।

चटचटाय = चट–भेदने अच् प्रकारे द्वित्वम्। चटचटम् चटचटेत्यव्यक्तं शब्दं वा करोति भृशा० च्व्यर्थे वा क्यङ् नामधातुः आत्म० अक० सेट्। चटचटायते अचटचटायिष्ट। “हुतभुक्तेन चान्नेन भृशं चटचटायते” सुश्रु०। “चामरतिलसिद्धार्थकादीन् निरन्तरं चटचटायितान्” दशकु०। क्विप् यङ्लोपाल्लोपौ। चटचटा तादृशशब्दकरणे “ततश्चटचटाशब्दः प्रादुरासीत् महारणे”।

चटिका = स्त्री चट–बा० इकन्। १ पिप्पलीमूले २ चटकायां हला०।

चटिकाशिरम् = न० चटिकायाः शिर इव। पिप्पलीमूले अमरः। “सर्व्वे सान्ता अदन्ताःस्युः” इत्युक्तेः पृषो० चटिकाशिरोऽप्यत्र भरतः।

चटु = पु० चट–डन्। १ प्रियवाक्ये, २ ब्रतिनामासनभेदे, ३ उदरे च मेदि०। प्रियवाक्ये न० संक्षि०। “छायां निजस्त्रीचटुलालसानाम्” माघः।

चटुल = त्रि० चट–उलच्। १ चञ्चले, चपले हेमच०। २ विद्युति स्त्री जटाधरः। “मदेन किञ्चिच्चटुलालसानां” “आयस्तमैक्षत जनश्चटुलाग्रपादम्” चञ्चूग्रदष्टचटुलाहिपताकयाऽन्ये” भाघः। “त्रासातिमात्रचटुलैः स्मरतः सुनैत्रैः” रघुः।

चटूल्लोल = त्रि० चटौ उल्लोलः। १ चाटुकारलोके २ चञ्चले त्रिका० ३ सुन्दरे उणादिको० सुचञ्चले हारा०।

चड = कोपे भ्वा० आत्म० अक० सेट् इदित्। चण्डते अचण्डिष्ट। चचण्डे। चण्डः चण्डी

चड = कोपे चुरा० उभ० अक० सेट् इदित्। चण्डयति ते अचचण्डत् त।

चण = शब्दे भ्वा० पर० सक० सेट्। चणति अचाणीत्–अचणीत् चचाण चेणतुः।

चण = गतौ हिंसे च भ्वा० पर० सक० सेट् वा घटा० मित्। चणति अचाणीत्–अचणीत्। चचाण चेणतुः चणयति ते–चाणयति ते।

चण = दाने भ्वा० पर० अक० सेट् घटा०। चणति अचणीतचाणीत्। चणयति। चचाण चेणतुः। चणकः।

चण् = अव्य० चण्–क्विप्। चेदर्थे अस्य णित्त्वम्। समुच्चयादौ तु अननुबन्धं एव चशब्द इति मनोरमा

चण = पु० चण–अच्। चणके शस्यभेदे (छोला) राजनि०।

चणक = पु० चण–दाने क्वुन्। १ शस्यभेदे (वुट्) (छोला) अमरः २ मुनिभेदे च तस्य गोत्रापत्यं गर्गा० यञ् चाणक्यः। “चणकः शीतलोरूक्षः पित्तरक्तकफापहः। लघुः कषायो विष्टम्भी वातलो ज्वरनाशनः। सचाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्गुणः। आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्त्तितः। शुष्कभृष्टोऽतिरूक्षः स्याद्वातकुष्ठप्रकोपनः। स्विन्नः पित्तकफं हन्यात् सूपः क्षोभकरोऽहितः। आर्द्रोऽतिकोमलो रुच्यः रक्तपित्तहरो हिमः”। हरितार्द्रचणकरन्धनन्तु। “सुहरित हरिमन्थः क्षोदभिन्नो नखाग्रैः प्रथममुदकसिक्तो वेसवारेण सिद्धः। लवणमरिंचसङ्गात् तैलहिङ्गुप्रसिक्तः शिखरयति विभोक्तुर्जाठरं मन्दवह्निम्। छोलाभिधायकफलं परिगृह्य शुद्धं तप्ते घृते सुललितक्वथितोषणाभ्याम्। संसाधितम् सुरभितं शुचिरामठेन जिह्वातले विशति नित्यमतिप्रकामम्” शब्दार्थ० चि० धृतवेद्यकम्।

तस्य शाकगुणपाकादि तत्रैव दर्शित यथा “रुच्यं चणकशाकं स्याद् दुर्जरं कफवातकृत्। अम्लं विष्टम्भजनकं पित्तनुद्दन्तशोथहृत्। सकृत्तु चाणकं शाकमम्लतक्रेण साधितम्। सहिङ्गुलवणे तप्ते भर्जितं रामठान्वितम्। क्षाराम्लभावसहजाश्चणकप्रबालाः सम्मर्दिता मरिचसैन्धवशृङ्गवेरैः। संचूर्णिताः कटुकतैलयुतैः सुपक्वेर्भृष्टैः सुहिङ्गुचणकैः परिदत्तवासाः।”

चणकरोटिका = स्त्री चणकचूर्णनिर्म्मिता रोटिका। “चाणक्या रोटिका रूक्षा श्लेष्मपित्तास्रनुत् गुरुः। विष्टम्भिनी न चक्षष्या” शब्दार्थचि० धृतवैद्यकोक्ते चणकरोटिकारूपे भक्ष्यभेदे

चणकात्मज = पु० ६ त०। चाणक्ये वात्स्यायने मुनौ हेमच०

चणकाम्ल = न० चणकजातमम्लम्। चणकक्षारे तच्छाकपाकेन निष्पादिते क्षारभेदे “चणकाम्लकमत्यम्लं दीपनं दन्तहर्षणम्। लवणानुरसं रुच्यं शूलाजीर्णविबन्ध नुत्” भावप्र०।

चणकाम्लवारि = न० ६ त०। क्षेत्रस्थचणकपत्रशिशिरजले शब्दार्थचि०।

चणद्रुम = पु० वणश्चणकैव द्रुमः। क्षुद्रगोक्षुरे राजनि०।

चणपत्री = स्त्री चणस्य चणकस्य पत्रमिव पत्रमस्याः ङीप्। रुदन्तीवृक्षे राजनि०

चणिका = स्त्री चणति रसं चण–दाने बा० क्वुन् चण इव इवार्थे कन् वा। गोदुग्धायाम् तृणभेदे राजनि०

चण्ड = न० चडि–कोपे अच् चण–दाने चमु–अदने बा० ड तस्य नेत्त्वम्। १ तीक्ष्णे शब्दर०। २ तिन्तिडीवृक्षे यमकिङ्करे ३ दैत्यभेदे च पु० मेदि०।। “चण्डमुण्डौ महासुरौ” देवीमा०। ४ अत्यन्तकोपने त्रि० अमरः ५ तीव्रतायुक्ते त्रि० शब्दर०। “अथैकधेनोरपराधचण्डात्” रघुः। “चण्डग्राहवतीं श्रीमान्” भा० आ० १७७ अ०। बह्वा० पाठात् स्त्रियां वा ङीष्। चण्डी चण्डा। तस्य भावः तल् चण्डता स्त्री त्व चण्डत्व न० इमनिच् चण्डिमन् पु० तीव्रत्वे। “भ्राम्यत्पिण्डितचण्डिमा” वीरच०। ततः शिबा० अपत्ये अण् चाण्ड तदपत्ये पुंस्त्री स्त्रियां ङीप्

चण्डकौशिक = पु० १ऋषिभेदे “अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः। शुश्राव तपसि श्रान्तभुदारं चण्डकौशिकम्” भा० स० १६ अ०। चण्ड कौशिको वर्ण्यत्वेनऽस्त्यत्र अच्। २ स्वनामख्याते नाटकभेदे न०।

चण्डतुण्डक = पु० चरुडात्मजभेदे “सुवर्णचूडो नागाशो दारुणश्चण्डतुण्डकः” भा० उ० १०० अ० गरुडात्मजोक्तौ

चण्डनायिका = स्त्री दर्गानायिकाभेदे। एवं चण्डवती चण्डोग्रा अपि दुर्गानायिकाभेदे।

चण्डबल = पु० वानरंभेदे “बलं चण्डबलाख्यञ्च वज्रबाहुञ्च वानरम्” भा० व० २८६ अ०।

चण्डभार्गव = पु० च्यवनवंश्ये ऋषिभेदे। “तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः। च्यवनस्यान्वये ख्यातोविप्रो वेदविदां वरः” भा० आ० ५३ अ०। सर्पसत्रे होत्राद्युक्तौ

चण्डमुण्डा = स्त्री चण्डश्च मुण्डश्च ग्राह्यत्वेनास्त्यस्याः अच्। चामुण्डायां हेमच०। चामुण्डाशब्दे दृश्यम्।

चण्डमुण्डी = स्त्री स्थानभेदे “चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी” तन्त्र०।

चण्डरुद्रिंका = स्त्री चण्डोरुद्रोवेद्यत्वेनास्त्यस्याः ठन्। विद्याभेदे शब्दरत्ना०।

चण्डवृष्टिप्र(यात)ताप = पु० “यदिह नयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्र(यातो) पातोभवेद्दण्डकः” वृ० र० उक्ते दण्डकभेदे।

चण्डशक्ति = पु० चण्डा शक्तिरस्य। वलिसैन्यस्थदैत्यभेदे। “शुश्रूषुश्चण्डशक्तिश्च कुशनेत्रः शशिध्वजः” हरि० २४ अ०

चण्डा = स्त्री चडि–अच् चन–चमु वा ड तस्य नेत्त्वं वा टाप्। १ दुर्गानायिकाभेदे। उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका। चण्डा चण्डवती चण्डनायिकाप्यति चण्डिका” देवीपु०। जिनानां २ शासनदेवताभेदे हेम०। ३ चोरनामगन्धद्रव्ये अमरः ४ शङ्खपुष्पीद्रुमे मेदि०। ५ लिङ्गिनीलतायां ६ कपिकच्छ्वाम् ७ आखुपर्ण्यां ८ श्वेतदूर्वायां च राजनि०। ९ नदीभेदे शब्दर०। एतासांचण्डवीर्य्यत्वात् तथात्वम्। १० कोपनायां स्त्रियां च स्त्री

चण्डांशु = पु० चण्डास्तीव्रा अंशवो यस्य। सूर्य्ये अमरः। चण्डदीधितिचण्डभानुप्रभृतयोऽप्यत्र।

चण्डात = पु० चण्डमतति अत–अण्। करवीरे अमरः।

चण्डातक = पु० न० चण्डां कोपनामतति अत–ण्वुल्। वरस्त्रीणामर्द्धोरुपर्य्यन्ते वस्त्रे अमरः अस्य पुंस्त्वमप्येके

चण्डाल = पु० चडि–आलच्। १ स्वनामख्याते जातिभेदे, शूद्रेण ब्राह्मण्यामुत्पादिते सङ्कीर्णवर्णे “शूद्रादायोगवः क्षत्ता चण्डालश्चाधमोमतः” मनुना वैश्यक्षत्रविप्राङ्गनासु शूद्राज्जातानां क्रमेण आयोगवादिसंज्ञा कृता। ततः जातित्वात् स्त्रियां ङीषि प्राप्ते शार्ङ्गरवा० ङीन् स्वरे भेदः। “चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च। पतत्यज्ञानतोविप्रः ज्ञानात् साम्यन्तु गच्छति” स्मृतिः। चण्डालस्पृष्टजलस्य अपेयशब्दे २५४ पृ० तदन्नभक्षणस्य अभक्ष्यशब्दे २७४ पृ० तत्स्पर्शस्य अस्पर्श्यशब्दे ५७० पृ० तद्द्रव्यग्रहणस्य च निषेधः अग्राह्यशब्दे ६७ पृ० उक्तः। “अथ रात्र्यां व्यतीतायां तस्यां राजा बभूव ह। चण्डालदर्शनो राम! सद्य एव दुराकृतिः। नीलपाताम्बरधरो रक्ताम्बरकृतोत्तरः। संरब्धताम्रघोराक्षः करालो हरिपिङ्गलः। ऋक्षचर्मनिवासी च लौहाभरणभूषितः” तस्य स्वरूपादिकं रामा० उक्तम्। तत्कर्म्मादि मनुनोक्तं यथा “चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः। अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्द्दभम्। वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम्। कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः। न तैः सम यमन्विच्छ्रेत् पुरुषो धर्ममाचरन्। व्यवहारो मिथस्तेषां विवाहः सदृशैः सह। अन्नमेषां पराधीनं देयं स्याद्भिन्न भाजने। रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च। दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः। अबान्धवं शवञ्चैवं निर्हरेयुरिति स्थितिः। बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया। बध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च।” २ क्रूरकर्मणि त्रि०। “कर्म्मचण्डालयोगोत्थं मम पापक्षयं कुरु” ग्रहणमुक्तिस्नानमन्त्रम्

चण्डालकन्द = पु० चण्डालप्रियः कन्दः शाक०। कन्दभेदे राजनि

चण्डालवल्लकी = स्त्री ६ त०। वीणाभेदे कण्डोले अमरः।

चण्डालिका = स्त्री चण्डालःभक्षकत्वेन वादकत्वेनवास्त्यस्याः ठन्। १ चण्डालवीणायां २ ओषधिभेदे च। चण्डमलति अल–ण्वुल्। ३ उमायां स्त्री मेदि०।

***