वाचस्पत्यम्
च to चक्र
links:
Menu अ–ह
Prev घा–ङ
Next चक्रक–चण्डा

चक्र
UpasanaYoga
.org

—च—

= चकारः व्यञ्जनवर्णभेदः चवर्गस्याद्यः अस्योच्चारणस्थानं तालु “इचुयशानां तालु” सि० कौ० उक्तेः तस्योच्चारणेआभ्यन्तरप्रयत्नः तालनि जिह्वामध्यस्पर्शः श्वासविवाराघोषाल्पप्राणा बाह्यप्रयत्नाः। मातृकान्यासे वामबाहुमूलेऽस्य न्यस्यता। अस्य वाचकशब्दाः वर्णोद्धारतन्त्रे उक्ता यथा। “चः पुष्कलो हली वाणी चात्मशक्तिः सुदशेनः। चर्म्ममुण्डधरो भौसो महिषाचारलक्षणः। एकरूपो रुचिः कूर्म्मश्चामुण्डा दीर्घबाहुकः। वामबाहुमूलं माया चतुर्मूर्त्तिस्वरूपिणी। दयितश्च त्रिणेत्रश्च लक्ष्मीस्त्रृतीयलोचनः। चन्दनं चन्द्रमा दैवश्चेतनो वृश्चिको बुधः। देवी कोटमुखस्त्वात्मा कुमारी पूर्वफाल्गुनी। अनङ्गमेखला वायुर्भोदिनी च सुलावणी”। तस्य ध्येयरूपं यथा “चवर्णं शृणु सुश्रोणि! चतुर्वर्गप्रदायकम्। कुण्डलीसहितं देवि! स्वयं परनकुण्डलीम्। सततं कुण्डलीयुक्तं पञ्चप्राणमयं सदा। पञ्च प्राणमयं वर्णं पञ्चप्राणात्मकं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुएहितं प्रिये!” कामधेनुतन्त्रम् काव्यबन्धादौ प्रयोगे सुखदायकता ङशवदे तन्मूलमुक्तम्।

= अव्य० चि–चण–वा भा० ड। १ पादपूरणे २ पक्षान्तरद्योतने ३ अवधारणे मेदि० ४ हेतौ त्रिका०। पादपूरणार्थस्य निरर्थकतैव। “निरर्थकं चादि पादपूरणैकप्रयोजनम्” चन्द्रालोकः ५ समुच्चये ६ अन्वाचये ७ इतरेतरयोगे ८ समाहारे च” अमरः। “चार्थे द्वन्द्वः” पा० सि० कौ० व्याख्यातं यथा “सघुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः। परस्पर (१) निरपेक्षस्वाऽनेकस्य (२) एकस्मिन् (३) अन्वयः समुच्चयः। अन्वतरस्वानुषङ्गिक (४) त्वेऽन्वाचयः। मिलिताना (५) मन्वय इतरेतरयोगः। समूहः (६) समाहारः। तत्रेश्वरं गुरुञ्च भजस्वेति समुच्चये भिक्षामट गाञ्चानयेत्यन्वाचये च न समासोऽसामर्थ्यात् (७)। धवखदिरौ। संज्ञापरिभाषम्”। व्याख्यातं चैतदस्माभिः सरलायाम्। (१) “षरस्परनिरपेक्षस्येति एकस्य क्रियान्वयोत्तरमपरस्यावृत्त्या तदन्वय इति न तयोः परस्पराकाङ्क्षा। (२) अनेकस्येति तेनैकस्य सापेक्षत्वेऽपि न दोष उभयोस्तथात्वाभावात्। समुच्चये चशब्देन स्वसमभिव्याहृतपदा र्थोत्तरसापेक्षत्वं बोध्यते तदसमभिव्याहारे तु न। अतएवात्रैक एव चशब्दः प्रयुज्यते तेन यच्छब्दोत्तरं चशब्दस्तस्यैव समभिव्याहृतक्रियादावन्वये इतरसापेक्षत्वं नत्वन्यस्येति बोध्यम्। (३) एकस्मिन् एकधर्मावच्छिन्ने इत्यर्थः अन्वय इत्येतस्य यत्रेत्यादिस्तथाच यत्रैवमन्वयस्तत्र समुच्चयश्चशब्दार्थैति भावः। न त्वन्वयएव समुच्चय इति म्रमितव्यम्। अन्वयश्च विशेष्यतया विशेषणतया वा तत्राद्यं चैत्रो गच्छति पचति चेत्यादौ क्रियासमुच्चये, अन्त्यम् ईश्वरं गुरुञ्च भजस्वेत्यादौ द्रव्यसमुच्चये। (४) आनुषङ्गिकत्वमनुद्देश्यत्वमन्यतरस्य प्राधान्यञ्च तत्सम्बन्धिक्रियाया अवश्यकर्त्तव्यत्वरूपं तथाच सममिंव्याहृतक्रियादिगतमानुपङ्गिकत्वव्याप्यत्वान्वाचयचकारार्थः। (५) मिलितानामिति परस्परापेक्षाणामुद्भूतावयवभेदकसमूहरूपाणातित्यर्थः। अन्वय इत्यर्स्यैकवर्मावच्छिन्नेनान्वयैत्यर्थः। तेन नीधातोः संयोगजनफव्याग्ररजनकव्यापारबोधकतया द्विकमकत्वेन अजां ग्रामं नयतीत्यादौ अजाग्रामयोरुभयोरपि धातूपात्तक्रियायामन्ववेन तत्र न चकारयोगो नापि समासः तयोरेकस्व संयोगेऽपरस्य संयोगानुकूलव्यापारेऽन्वयादेकत्रान्वयाभावात्। अतएव यत्रातेकचकारप्रयोगः, व्यत्रैवमन्वयश्च तत्रेतरेतरयोगस्ताद्दशसमूहश्च चार्थे इत्यर्थः। (६) अ{??}न्नूतावयवभेदसमूहस्य प्रतीत्या प्रत्येकावयववृत्तिधर्म एव प्रवृ- त्तिनिमित्तं समाहारे तु द्वित्वत्रित्वादिनेब समूहस्य भानात् समूढत्वमेव प्रवृत्तिनिमितमिति विशेषः। एवञ्च उभयत्रैव समूहस्य बोधः। (७) असामथ्यादिति एकार्थीभावाभादित्यर्थः। तथाहि बहुर्ब्राहुघटकपदानां कर्माद्यन्तर्भावेणैव द्वन्द्वघटकपदानां चार्थान्तर्भावेणैव एकार्र्थीभाव आवश्यकः “समर्थः पदविधिरिति” प्रा० परिभाषितत्वात् चार्थे द्वन्द्व इत्युक्तेश्च। नचेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीमावः सम्भवति येन समुञ्चयान्वघयविकार्थीभावेऽनर्भूतौ स्याताम्। ततश्चेतरेतरयोगे समाहारे च साहित्यस्य सत्त्वादेकार्थीभावस्तयास्तदभावान्न तथेति बोध्यम्। इयांस्तु विशेष इतरेतरयोगे साहित्यं विशेषणं द्रव्यं विशेष्यं, समाहारे तु साहित्यं प्रधानं दव्यं विशेषणमिति यथा चानयोर्बोधवैलक्षण्यं तथाकरे दृश्यम्”। पक्षन्तरं चात्र पुनरथकम् यथा “मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः। तावच्च शोभते मर्खो यावत् किञ्चित् न भाषते” हितो०। ९ तुल्ययोगित्य १० विनियोगे च शब्दार्थेचि०। तत्र तुल्ययोगितालङ्कारस्य चेन द्योतनात्तस्य तदर्थकता यथा “सङ्कचन्ति सरोजानि स्वैरिणी वदनानि च” चन्द्रा०। एवं दीपकालङ्कारद्योतकताऽपि ३९९ पृ० दृश्या। “सती च प्रयोषित् प्रकृतिश्च निश्चला” माघः। चकारद्वयप्रयोगे क्वचिदविलम्बयोगितायाः क्वचिततुल्य प्राधान्यस्य चावबोधनम् यथा इतीरिता पत्ररथेन तेन ह्राणा च हृष्टा च यभाण भैमी” नै०। “कला च सा कान्तमता कलाभृतस्त्वमस्य लोकस्य च नेत्र कौमुदी” कुमा०। लिदनुबन्धः चण यद्यर्थे तस्य प्रयोगे णित्त्वम्।

= पु० चीयते शुक्लपक्ष किरणैः अङ्गं परधनं वा चिनोति वा चि–ड। १ चन्द्रे २ कच्छपे ३ चौरे ४ चण्डेशे ५ चर्वणे च मेदि०। ६ निर्वीजे ७ दुर्जने च त्रि० शबदरत्ना०।

चक = भ्रान्तौ सौ० पर० अक० सेट् वदित्। चङ्कति अचङ्कीत्। चचङ्क।

चक = प्रतिघाते तृप्तौ च भ्वा० आ० अक० सेट्। चकते अचकिष्ट चचके। मिते चकयति। प्रतिथातः भयहेतृकोऽनिष्टशङ्कया गमनादिप्रतिरोधः। “व्याधानुसारचकिता हरिणीव यासि” मृच्छ०। “पौलस्त्यचकितेश्वरः” रघुः। उद् + अप्रतिघाते। “यं चेकितानमनुचित्तय उच्चकन्ति” भाग० ६। १७। ४६। उच्चकन्ति अप्रतिहतानि भवन्ति

चकास = दीप्तौ अदा० जक्षा० पर० अक० सट्। चकास्ति अचकासीत्। चकसाम–बभूघ आस चकार। ऋदित्। अचचकासत्। “चकासति च मासादास्तथा रन्ध्रषु जाग्रति”। “चकासां चक्रुरुत्तस्थुः” “शोकादभूषैरपि भूश्चकासाञ्चकार नागेन्दाथाश्वमिश्रैः” भट्टिः। “चकासत चारु चमरुचम्मणा” माघः।

चकित = न० चक–भावे क्त। १ भये २ सम्भ्रमे च। “कुतोऽपि दयितस्याग्रे चकितं मयसम्भ्रमः” सा० व० उक्ते ३ स्त्रीणां सात्त्विकालङ्कारभेदे यथा “त्रस्यन्ती चलशफरीविघट्टितोसूर्वामोरूरतिशयमाप विभ्रमस्य। क्षभ्रन्ति प्रसभमहो विनाऽपि हेतोर्लीलाभिः किमु सति कारणे तरुण्यः “सचकितसस्मितवक्त्रवारिजश्रीः”। भयचकितमाहवे निजम्” माघः। “भः समभनगा यस्या साष्टच्छिदिह चकिता” वृ० र० उक्ते ३ छन्दोभेदे स्त्री। कर्चरि क्त। ४ शङ्किते ५ भीते च त्रि०।

चकोर = पु० चक–त्प्तौ ओरन्। स्वनामख्याते–पक्षिभेदे “कोकप्रीतिचकोरपारणपटुः” मुरारिः। “इमां किमाचामवसे न चक्षुषी चिरं चकोरस्य भवन्भखस्पृशी” नैष०। “इतश्चकोराक्षि! विलोकयेति” रघः। स्वार्थे क तत्रर्थे अमरः। “तन्मांस गुणा राजनि० उक्ता यथा “चाटकं शीतलं रुच्यं वृष्यं कापिञ्जलामिषम्। तद्वच्चकोरज मांसं वृष्यञ्च बलपुष्टिदम्”।

चक्क = आर्त्तौ चुरा० उभ० सक० सेट्। चक्कयति ते अचचक्कत् त।

चक्र = पु० क्रियतेऽनेन कृ–घञर्थे क नि० द्वित्वम्। १ चक्रवाके पक्षिणि, (चका) अमरः २ रथाङ्गे, (चाका) ३ सैन्ये, ४ समुदाये, ५ राष्ट्रे, ६ दम्भभेदे, ७ कुम्भकारोपकरणे, “कलसे निजहेतुदण्डजः किमु चक्रभ्रमिकारितागुणः” नैषधम्। ८ अस्त्रभेदे। ९ व्यूहभेदे, १० जंलावर्त्ते, मेदि० ११ ग्रामजाले, त्रिका० १२ तगरपुष्पे, १३ तैलिकयन्त्रे तन्त्रीक्तेषुमूलाधारादिषु स्थितेषु षट्सु १४ पद्मेषु, १५ सर्वतोभद्रादिषु, १६ देवार्च्चनयन्त्रेषु “श्रीचक्रमेतदुदितं परदेवतयाः” तन्त्रम्। मन्त्रदोक्षोपयोगिषु १६ अकडमादिषु, १७ वसैख्यदिचक्रेषु, “प्रवृत्ते भैरवीचक्रे सर्व्वे वर्णाहिजोत्तमाः इति” तन्त्रम् १८ अलङ्कारोक्ते काव्यबन्धविशेषे च न०। अलङ्कारशब्दे ३९० पृ० दृश्यम् अर्द्धर्चादित्वात् द्विलिङस्वेऽपि लक्ष्यभेदेमैवास्य लिङ्गभेदनियमः। तत्र अस्त्यभेदचक्रलक्षणं हेमाद्रौ परि० लक्षणसमुच्चये “औशनसे धनुर्वेदे जमदग्निं प्रति शुक्र उवाच। वत्स यथाप्र सुपदिश्यमानं निबोघ तत्रोत्तममध्यमाधमभेदेन चक्रंत्रिविधं भवति। चक्रमष्टाभिरारैरुत्तमं, षडारं मध्यमं चतुर्भिरारैः सम्पन्नमधमं भवति। तत्र श्लोकः। अष्टारमुत्तमं चक्रं षडारं मध्यमं भवेत्। जघन्यं चतुरा रं स्यादिति चक्रं भवेत्त्रिधा। द्वादशपलमुत्तममेकादशपलं मध्यमं दशपलमधमं चेति बालानाम्। अबालानां पञ्चाशत्पलमुत्तमं चत्वारिंशत्पलं मध्यमं त्रिशत्पलं कनिष्ठमिति। तथाऽष्टाङ्गुलमुत्तमं सप्ताङ्गुलं मध्यममधमं षडङ्गुलं भवति बालानाम्, अबालानान्तु षोडशाङ्गलमुत्तमं चतुर्दशाङ्गुलं मध्यममधमं द्वादशाङल भवति। तत्र श्लोकौ। द्वादशैकादशदशपलानि क्रमशः शिशाः। अबालस्य द्विरष्टौ स्युर्द्विसप्त द्वादशाप्रि च। वालानां त्रिविधं चक्रमष्टसप्तषडङ्गुलम। षोडशाङ्गुलमन्येषां द्विहीने मध्यमाधमे। त्रिविधं चतुर्दशाङ्गलमाद्य द्विद्विहीनं मध्यमं कनिष्ठं वेति। तत्र त्र्यङ्गुला सैक्यायसमयी प्रथमा नेमिः। सार्द्धद्व्यङ्गुला मध्यमा नेमिर्द्व्यङ्गला तु कनिष्ठा नेमिःसातु मध्यमपरिमण्डला नेमिभिर्विमृताभिःस्यात् मणिरत्नालङ्कृता स्थूलमूला या नेमिः सा चक्रे पूजिता भवति। तत्र सैकां शिल्पिभिर्विचित्रमनेकविधसंस्थानमतिमनोहरं चक्र कर्त्तव्यमब्रणं सुधारवक्त्रं कुर्व्वीत”। विष्णुचक्रलक्षणन्तु हरिभ० ४ वि०। “द्वादशारन्तु षट्कोण वलयत्रयसयुतम्। चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च श्रीहरेः स्मृतः” तन्त्रोक्त भैरवीचक्रं च तत्त्वचकुत्वेन प्रसिद्धम् तत्र च निष्कामाणामधिकारः रुद्रषामलोक्ते चकपञ्चके तु सकामानाम् यथाह चक्र पञ्चविध प्रोक्त तन्त्रं तु रुद्रयामले। विधिना पूजिते चक्रे सौख्यमोक्षफलं लभेत्। महाचक्रं राजचक्रं दिव्यचक्रं तथाऽपरम्। वीरचक्रम् चतुर्थञ्च पशुचक्रञ्च पञ्चभम्। राजचक्रं राज्यदं स्यान्महाचक्रं तु मोक्षदम्। देवत्वटं देवचक्रं वीरचक्र तु सिद्धिदम्। पशचकं तु दारिद्र्यशोकदुःखामयप्रदम्। कापट्ये दक्षिणाहीने सर्व्वचक्रन्तु निष्फलम्। सकामाश्चैव निष्कामाद्विविधाभुवि मानवाः। क्षुद्राशयाः कामिनो ये तेषामत्राधकारिता। ब्रह्मज्ञानाय तु प्रोक्तं भैरवीचक्रमुत्तमम्। ब्रह्मज्ञानयुतानां तु तत्त्वचकेऽधिकारिता।” महानिर्व्वाणे च “नात्राघिकारः सर्वेषां ब्रह्मज्ञान् साधकान् विना। परब्रह्मोपासकाये ब्रह्मज्ञा ब्रह्मतत्पराः। शुद्धान्तःकरणाः शान्ताः सर्व- प्राणिहिते रताः। निर्विकारा निर्बिकल्पा दयाशीलादृढव्रताः। सत्यसङ्कल्पका ब्राह्म्यास्तएवात्राधिकारिणः। ब्रह्मभावेन तत्त्वज्ञा ये पश्यन्ति चराचरम्। तेषां तत्त्वविदां पुंसां तत्त्वचक्रेऽधिकारिता। सर्वव्रह्ममयो भावश्चक्रेऽस्मित् तत्त्वसंज्ञके। येषामुत्पद्यते देयि! त एव तत्त्वचक्रिणः”। कत्र सर्वत्र चक्रारेण साधकैरुप बेशनात् चक्रत्वम्। चक्रानुष्ठानञ्च श्यमारहस्यादौ दृश्यम्। योगोपयोगितया देहस्थमूलाधारादिचक्रनिरूपणाय इडादिनाडीनिवेशनोक्तिपूर्व्विका चक्रभेदोक्तिः तन्त्रसारे “गौतम उवाच। देवर्षे! योगयुक्तानां योगानुभवदर्शक!। सांख्ययोगविशेषज्ञ। कर्म्मयोगनिषेधक! विना योगं न सिध्येत्तु कुण्डलीचङ्क्रमः प्रभो!। मूलपद्मे कुण्डलिनी यावेन्निद्रायिता प्रभो!। तावत् किञ्चिन्न सिध्येत मन्त्रयन्त्रार्च्चनादिकम्। जागर्त्ति यदि सा देवी बहुभिः पुण्यसञ्चयैः। तदा प्रसादमायान्ति मन्त्रयन्त्रार्च्चनादयः। शिवबद्विहरेल्लोके षडैश्वर्य्यसमन्वितः। योगयोगाद्भवेन्मुक्तिर्म्मन्त्रसिद्विरनुत्तमा। सिद्धे मन्त्रे परावाप्तिरितिशास्त्रेषु निर्णयः। तस्मात् कार्य्यं परं योगं कथयस्व मुनीश्वर!। मुक्तात्मा येन विहरेत् स्वर्गे मर्त्येरसातले। जीवन्मुक्तश्च देहान्ते निर्व्वाणपदमाप्नुयात्। नारद उवाच। कथयामि तव स्नेहाद्योगयोग्योऽसि गौतम!। संसारोत्तरणे युक्तिर्योगशब्देन कय्यते। ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः। तव स्नेहात् समाख्यास्ये योगविघ्नकरास्त्विमे। कामक्रोधलोभमोहमदमात्सर्य्यसंज्ञकाः। योगाङ्गैरेभिर्निर्ज्जित्य योगिनोयोगमाप्नुयुः। यमनियमावासनप्राणायामौ ततः परम्। प्रत्याहारं धारणाख्यं ध्यानं सार्द्धं समाघिना। योगाङ्गान्याहुरेतानि योगिनां योगसाधने”। “यमादयस्तु। “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयाऽऽर्जवम्। क्षमा धृतिर्म्मिताहारः शौचञ्चेति यमा दश। तपः सन्तोषमास्तिक्यं दानं देवस्य पूजनम्। सिद्धान्तश्रवणञ्चैत ह्रोर्मतिश्च जपोहुतम्। दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः” आसनानि प्रोक्तानि। “इडयाकर्षयेद्वायुं बाह्य षोडशमात्रया। धारयेत् पूरितं योगी चतुःषष्ट्या त मात्रया। सुषुम्णा मध्यग सम्यग्द्वात्रिंशन्मात्रया शनः। बाड्या पिङ्गलया चैव रेचंयेद्योगबित्तमः। प्राणायाममिमस्प्राहुर्योगशास्त्रविशारदाः। भूयो भूयःक्रमात्तस्य व्यत्यासेन क्रमाच्चरेत्। मात्रावृत्तिक्रमेणैवं सम्यगद्वादश षोडश। जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्युधाः। तदपेतं निगर्भञ्च प्राणायामम्परं विदुः। क्रमादभ्यस्यतः पुंसो देहस्वेदोद्गमोऽधमः। मध्यमः कम्पसंवुक्तो भूमित्यागः परोमतः। उत्तमस्य गुणावाप्तिर्य्यावच्छीलनममिप्यते। इन्द्रियाणां विचरतां विषयेषु निवर्हणम्। बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते। अङ्गुष्ठगुल्फ जानूरुसोमनीलिङ्गनाभिषु। हृद्ग्रीवाकण्ठदेशेतु लम्बिकायां तथा नसि। भ्रूमध्ये मस्तके मूर्द्ध्नि द्वादशान्ते यथाविधि। धारणं प्राणमरुतो धारणति निगद्यते। समाहितेन मनसा चैतन्यान्तरवर्चिना। आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते। समत्वभावनां नित्यं जोवात्मपरमात्ममोः। समाधिमाहुमुनेयः प्रोक्तमष्टाङ्गलक्षणम्। इत्यादि कथितं विप्र! कामादिपट्कनाशनम्। इदानीं कथयिष्येऽहं मन्त्रयोगमनुत्तमम्। विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं मुने!। चन्द्रसूर्य्याग्नि तेजोभिर्जीवबह्मैक्यरूपकम्। तिस्रः कोट्यस्तदर्द्धेन शरीरे नाडयोमताः। तासु मुख्या दश प्रोक्तास्तासु तिस्रोऽध्यवस्यिताः। प्रधाना मेरुदण्डेऽत्र सूर्य्याग्नि चन्द्ररूपिणो। शक्तिरूपा सा च नाडी साक्षादमृतविग्रहा। दक्षिणे पिङ्गलाख्या तु पुंरूपा सूर्य्यविग्रहा। दाडिमोकुसुमप्रख्या विसाभा मुनिभिः स्मृता। मेरुमध्यस्थिता या तु मूलस्था व्रह्मविग्रहा। सर्वतेजो मयी सा तु सुषुम्णाबहुरूपिणी। तस्यामध्ये विचित्रांख्वा अमृतस्राविणी शुभा। सर्वदेवमयी सा तु योगिनां हृदयङ्गमा। बिसर्गाद्विन्दुपर्प्यन्तं व्याप्य तिष्ठति तत्त्वतः। मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके। मध्ये खयम्भू लिङ्गन्तु कोटिसूर्यसमप्रभम्। तदूर्ध्वे कामवीजन्तु कर्णशान्तीन्दुनादकम्। तदूर्द्धेतु शिखाकारा कुण्डन्ती ब्रह्मविग्रहा। तद्बाह्ये हेमवर्णाभं शसयर्णं चतुर्द्दलम्। द्रुत हेमममप्रख्यं पद्मं तत्र विभावयेत्। तदूर्द्घ्वेऽग्निसमप्रख्यं षडुदलं हीरकग्रभम्। बादिलान्तषडर्ण्णेन युक्ताधिष्ठानमंज्ञकम्। लूलमाधारषट्कागां मूलाधारं ततो विदुः। स्वशव्देन परं लिङ्गं खाधिष्ठागं ततो विदुः। तदूर्द्ध्वे नाभिदेशेंतु मणिपूरं महाप्रभम्। मेघाभं विद्युदाभञ्च बहुतेजोमयन्ततः। मणिवाद्भन्नं तत् पद्मं मणिपूरं तथोच्यते। दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम्। शिवेनाधिष्ठितं पद्मं विश्वलोकककारणम्। तदूर्द्ध्वेऽनाहतंपद्ममुद्यदादित्यसन्निगमृ। कादिठान्ताक्षरेरर्फ १२ पत्रैश्च समधिष्ठितम। तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसुमप्रभम। शवदब्रह्ममयं शव्दोऽनाहतस्तत्र लक्ष्यते। तेनाह ताख्यं पद्मं तन्मुनिभिः पारकोर्त्तितम। आनन्दसदनं तत्त पुरुषाधिष्ठित परम्। तदूर्द्ध्वन्तु विशुद्धाख्यं षोडशदल पङ्कजम्। स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम्। विशुद्धिं तनुते यस्माज्जीवस्या हंसलोकनात्। विशुद्धं पद्ममाख्यातमाकाशाख्यं महाप्रभम्। आज्ञाचक्रन्तदूर्द्ध्वे तु आत्मनाधिष्ठितं परम्। आज्ञासंक्रमणन्तत्र गुरोराज्ञेति कीर्त्तितम्। द्विदलं हलसंयुक्तं बोधनन्तु तदूर्द्ध्वतः। एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत!। सहस्राराम्बुजं विन्दुस्थानं तदूर्द्धमीरितम्। इत्येतत् कथितं सर्व्वं योगमार्गमनुत्तमम्”। दीक्षणीयतन्त्रोक्तमन्त्राणां साधकस्य शुभाशुभदायकता विचाराङ्गचक्राणि तन्त्रसारे दर्शितानि यथा“अनूकुलं मन्त्रं गृह्णीयात्तथाच “स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून्”। वाराहीतन्त्रे “ताराचक्रं राशिचक्रं नामचक्रं तथेव च। तत्र चेत् सगुणो मन्त्रो नान्य चक्रं विचारयेत्”। इति तु प्रधानतया बोद्धव्यम्। “अरिमन्त्रं न गृह्णीयादकुलञ्च तथैव च”। इत्यादिदर्शनात् ततश्च चक्रविचारस्यावश्यकत्वात् प्रथमं तन्निरूप्यते। तत्र सिद्धिसारस्वते “नृसिंहार्कवराहाणां प्रसादप्रणवस्य च। सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत्। स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे। बैदिकेषु च सर्ब्बेषु सिद्धादीन्नैव शोधयेत्। एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति!। वैदिकस्य च मन्त्रस्य सिद्धादीन्नेव शोधयेत्”। मालामन्त्रो यथा वाराहीतन्त्रे “विंशत्यर्लाधिका मन्त्रा मालामन्त्राः प्रकीर्त्तिताः। नपुंसकस्य मन्त्र?स्य सिद्धादीन्नैव शोधयेत्। हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च। एकद्वित्र्यादिवीजस्य सिद्धादीन्नैव शोधयेत्” चामुण्डातन्त्रे “काली तारा महाविद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमवती तथा। वगला सिद्धविद्या च मतिङ्गी कमलात्मिका। एता दश महाविद्याः सिद्धा विद्याः प्रकीर्त्तिताः। नात्र सिद्वाद्यपेक्षास्ति नक्षत्रादिविचारणा। कालादि शोधनं नास्ति न चामित्रादिदूषणम्। सिद्धविद्या तथा नात्र युगसेवापरिश्रमः। नास्ति किञ्चिन्महादेवि! दुःख साध्यं कथञ्चन”। मालिनीविजये “काली तारा महा विद्या त्वरिता छिन्नभस्तका। वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा मता। कामाख्यावासिनी बाला मातङ्गी शैलवासिनी। इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः। सिद्धविद्यास्तथा नात्र यगसेवापरिश्रमः। तथा चैता महाविद्याः कलिदोषैर्न बाधिताः” इत्यादि वचनादेषु विचारो नास्ति। वस्तुतस्तु इदन्तु पशंसापरम् सर्व्वत्रविचारस्यावश्यकत्वम्। दुरदृष्टवशात् कदाचिद्वैरि मन्त्रस्य स्वप्नादौ प्राप्त्या तत्तद्दोषस्य दृष्टत्वादिति तु माम्प्रदायिकाः। तत्रादौकलाकुलचक्रम् तच्च तच्छब्दे २१३४ पृ० दर्शितम्।राशिचक्रम आगमकल्पद्रुमे “रेखाद्वयं पूर्ब्बषरेण कुर्य्यात्तन्मध्यतो याम्यकुवेरभेदात्। एकैकमीशाननिशाचरे तु हुताशवाय्वोर्विलिखेततोऽर्णान्। वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान् पञ्चेषुवाणशरपञ्चचतुष्टयार्णान्। मेषादितः पविलिखत् सकलांस्तु वर्णान् कन्यागतान् प्रविलिखेदथ शादिबर्णाब्”। सङ्केतान्तरं शारदायाम् “बालं गौरं खरं शोणं शमी शोभेति राशिषु। क्रमशोभेदिता वर्णाः कन्यायां शादयः स्मृताः”। अ आ इ ई मेषः। उ ऊ ऋ वृषः। ऋ ऌ ॡ मिथुनम्। ए ऐ कर्कटः। ओ औ सिहः। अं अः शष सह लक्षाः कन्यका। कवर्गस्तुला। चबर्गो वृश्चिकः। ष्टवर्गो धनुः। तवर्गोमकरः। षबर्गः कुम्भः। यवर्गो मीनः। स्वराशीतामनुकूलं मन्त्रं भजेत् “स्वतारराशिकोष्ठानामतुकूलान् भजेन्मनून्” इति वचनात्। “राशीनां शुभता ज्ञेया त्यजेच्छत्रुं मृतिं व्ययम्। स्वराशेर्म्मन्त्रराश्यन्त” गणनीयं विचक्षणैः”। यदा तु स्वराशेरज्ञानम तदा साधकनामाक्षरसम्बन्धिनं राशिं गृहीत्वा गणयेत्। “साध्याद्यक्षरराश्यन्तं गणयेत् साधकाक्षरादिति” रामार्च्चनचन्द्रिकाधृतवचनात्। नारायणीये च “अज्ञाते राशिनक्षत्रे नामाद्यक्षर राशितः” इति। रामार्च्चनचन्द्रिकायाम्” “एकपञ्चनवबान्धवाः स्मृताः द्वौ च षट् च दशमास्तु सेवकाः। वह्निरुद्रमुनयस्तु प्रोषकाः द्वादशाष्टचतुरस्तु घातकाः”। चतुरस्तु घातका इति विष्णुविषयं रामार्च्चनचन्द्रिकाघृतत्वात्। शक्त्यादौ तु षष्ठं बर्जनीयम् “षष्ठाष्टमद्वादशानि वर्जनोयानि यत्नतः” इति वचनात्। तन्त्रान्तरे “लग्नं धनं भ्रातृबन्धू पुत्रामित्रकलत्रकम्। मरणं धर्म्मकर्म्मायव्यया द्वादश राधयः। लग्नोऽतिक्लेशजनकोधनंदञ्च धनम्भवेत्। भ्राता रक्षाकरा बन्धुरर्षकृत् सुखदः सुतः। शत्रुर्नाशाय, सम्पत्त्यै कलत्रं भवति ध्रुवम्। मरण मरणार्थाय, धर्म्मोधर्म्माय कल्पते। कर्म्मणि स्वल्पसिद्धिः स्यादायोऽतिशीघ्रदस्तथा। लाभालाभौ व्ययः कुर्य्यादेषाक्रमविचारणा। नामानुरूपमेतेषां शुभाशुभफलं दिशेत्। वैष्णवे तु शत्रुस्थाने बन्धुरिति पाठः। तथाच तन्त्रराजे “तेन मन्त्रादिवर्णेन नाम्नश्चाद्याक्षरेण च। गणयेद्यदि षष्ठं वाप्यष्टमं द्वादशन्तु वा। रिपुर्मन्त्राद्यवर्णः स्यात्तेन तस्याहितं भवेत्।”अष्टवर्गचक्रम्–अष्टवर्गशब्दे ५२२ पृ० तच्चोक्तम्।नक्षत्रचक्रम्–भैरवीतन्त्रे “ऊर्द्ध्वगा दश रेखास्युस्तिर्य्यग्रे खाश्चतसृकाः। सप्तविंशतिकोष्ठानि भेषु वर्णाल्लि~खद्यथा। गणाक्षरनिर्णयः। अ आ अश्विनी देवगणः। इ भरणी मानुषः। ईउऊकृत्तिका राक्षसः। ॠ ऌॡ रोहिणी मानुषः। ए मृगशिरोदेवः। ऐ आर्द्रा मानुषः। ओ औ पुनर्वसू देवः। कः पुष्योदेवः। खगद्यश्लेषा राक्षसः। घङ मघा राक्षसः। च पूर्वफल्गुनी मानुषः। छज उत्तरफाल्गुनी ग्रानुषः। झञ हस्ता देवः। टठ चित्रा राक्षसः। ड स्वाती देवः। ढण विशाखा राक्षसः। तथद अनुराधा देवः। ध ज्येष्ठा राक्षसः। न पस्य मूला राक्षसः। ब पूर्वाषाढा मानुषः। भौत्तरषाढा मानुषः। म श्रवणा देवा। यर धगिष्ठा राक्षसः। ल शतमिषा राक्षसः। वश पूर्वभाद्रपदा मानुषः। षसह उत्तरमाद्रपदा मानुषः। अं अः लंक्ष रेवती देवः। निबन्धे “प्राप लोभात् पटुः प्राद्यं रुद्रस्याद्रिरुरुःकरम्। लोकलोपपटुः प्रायः खलौ योभेषु भेदिताः। वर्णाः क्रमात्स्वरान्त्यौ तु रेवत्यंशगतौ तदा। अन्त्यव्यञ्जनसंख्यात्र ग्राड्या वर्गादिवर्णतः”। तथा च पिङ्गलातन्त्रे “उत्तराद्दक्षिणा ग्रान्तु रेखां कुर्य्याच्चतुष्टयीम्। दश रेखाः पश्चिमाग्राः कर्त्तव्या वरवणिनि!। अश्विन्यादिक्रषेणैव विलिखेचारकाः पुनः। वक्ष्यमाणबिधानेन तन्मध्ये वर्णकाम् लिखेत्। अकारादिक्षकारान्तान्द्विचन्द्रवह्निरेदकान्। भूमीन्द नेत्रचन्द्रांश्च अश्लेषायां खगो प्रिये!। द्विभूगेत्रनेत्रयुम्मानि चेन्द्युनेत्राग्निचन्द्रकान्। मघादिज्येष्ठापर्य्यन्तं द्वितीयं नवतारकम्। वह्निभूमीन्दुचन्द्रांश्च यमेन्दु नेत्रवचिकाम्। षेदेन भेदितान् वर्णान् रेवत्यन्त्ययुगे क्रमात्। पूर्त्तेक त्र्यब्धिरूथावनिभुजकुवगायुन्मभूयुग्मपक्षारुग्र्मैकद्वित्ररूपानलशशिशशिभूद्द्ये कपक्षाग्निवेदाः। वुर्णाः क्रमात् स्वरान्त्यौ तु रेवत्यांशगतावुगौ। तथा च निबन्धे “पूर्वोत्तरा- त्रय ञ्चैव भरण्यार्द्रा च रोहिणी। इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः। ज्येष्ठाशतभिषामूलधनिष्ठाश्लेष कृत्तिकाः। चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः। अश्विनी रेवती पुष्यः स्वाती हस्तपुनर्वसू। अनुराधा मृग शरःश्रवणा देवतारकाः। तथाच “स्वजातौ परमा प्रोतिर्मध्यमा भिन्नजातिषु। रक्षोमानुषयोर्नाशोवैरं दानवदेवयोः। जन्मसम्पग्विपत्क्षेमं प्रत्यरिः साधकोबधः। मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः। जन्मतृतीयपञ्चमसप्तमानि नक्षत्राणि वर्ज्यानि। तथा च “रसाष्टनवभद्राणि युगयुग्मगतान्यपि। इतराणि न भद्राणि” इत्यादि। स्वनक्षत्रादेव नक्षत्रं गणनीयम्। स्वनक्षत्राज्ञाने स्वनामाद्यक्षरसम्बन्धिनक्षत्रादेव नक्षत्रं गणनीयमिति। प्रादक्षिण्येन गणयेत् साधकाद्याक्षरात् सुधीः”।अकथहचक्रम्–तच्च अकथहशब्दे ३८ पृ० दृश्यम्अकडसचक्रम्–गोपालविवषयम् अकडमशव्दे ३७ पृ० उक्तम्ऋणिधनिचक्रम्–ऋणिधनिचक्रशब्दे १४२८ पृ० दृश्यम् अन्यान्यपि तदुपयोगीनि चक्राणि रुद्रयामले दृश्यानि। स्वरोदयसम्मतानि नरपतिजयचर्य्योक्तानि “स्वरचक्राणि चक्राणि भूवलानि बलानि च” इत्यादिना षडङ्गोप क्रमे उक्तानि २० स्वरचक्राणि सर्वतो भद्रादीनि ८४ चक्राणि च क्रमशः प्रदर्श्यन्ते। तत्र षडङ्गेषु प्रथमाङ्गे स्वरचक्राणि विंशतिस्तत्रादौ मात्रास्वरचक्रम्–“अथातः संप्रवक्ष्यामि प्रोक्ता ये ब्रह्म यामले। मांत्रादिभेदभिन्नानां स्वराणां षोडशोदयात्। माबृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः। दश शेषाः स्वराग्राह्याः स्यादेकैकं द्विके द्विके। ज्ञेयास्तत्र स्वरा आद्या ह्रस्वाः पञ्च स्वरोदये। लाभालाभं सुखं दुःखं जीवितं मरणं तथा। जयः पराजयो वेति सर्वं ज्ञेयं स्वरोदये। स्वरादि मातृकोच्चारोमातृव्याप्तं जगत्त्रयम्। तस्मात् स्वरोद्भवं सर्वं त्रैलोक्यं सचराचरम्। स्वरवेत्ता हितस्त न दैवज्ञो देवतांशकः अकारादिस्वराःपञ्च व्रह्माद्याः पञ्च देवताः। निवृत्त्याद्याः कलाः पञ्च इच्छाद्यं शक्तिपञ्चकम्। मायाद्या मन्त्रभेदाश्च धराद्यं भूतपञ्चकम्। शब्तादिविषयास्ते च कामवाणा इतीरिताः। पिण्डं पदं तथा रूपं द्वन्द्वातीतं निरञ्जनम्। स्वरभेदस्थितं ज्ञानं ज्ञायते गुरुतः सदा। अकारादिस्वराः पञ्च तेषामष्टौ- भिदास्त्वमूः। मात्रा वर्णो ग्रहो जीव राशिर्भं पिण्ड योगकम्। “प्रसुप्तो भाषते येन येनागच्छति शब्दितः। नामाद्यवर्णे या मात्रा मात्रास्वरः स हि स्मृतः”।२ वर्णस्वरचक्रम्–“कादिहान्तान् लिखेद्वर्णान् स्वराधोङभणोज्झितान्। तिर्य्यक्पड्क्तिक्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके। नरनामादिमोवर्णो यस्मात् स्वरादधः स्थितः। स स्वर स्तस्य वर्णस्य वर्णस्वर इहोच्यते। ववौ शसौ खषौ चैव जयौ चेति परस्परम्। ज्ञेयौ तुल्यबलौ भिन्नस्वरस्याधःस्थितावपि। न प्रोक्ता ङ ञणोवर्णा नामादौ सन्ति ते न हि। चेद्भवन्ति तथा ज्ञेया गजडास्ते यथाक्रमम्। बहूनि यस्य नामानि नरस्य स्युः कथञ्चन। तस्य पश्चाद्भबं नाम ग्राह्यं स्वरविशारदैः। यदि नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः। ग्राह्यस्तस्यादिमोवर्ण इत्युक्तं ब्रह्मयामले।”३ ग्रहस्वरचक्रम्–“अस्वरोमेषसिंहालि, इः कन्याद्वन्द्वकर्क्कटाः। उस्वरे च धनुर्मीनौ एस्वरे तु तुलावृषौ। ओस्वरे मृगकुम्भौ च राशीशास्तु ग्रहस्वराः। स्वराधः स्थापयेत् खेटान् राशेर्योयस्य रायकः। भौमशुक्रज्ञचन्द्रार्क्काबुधशुक्रारमन्त्रिणः। सौरिः सौरिस्तथा जीवो मेषादीनामधीश्वराः”।४ जीवस्वरचक्रम्–“षोडशाक्षरोऽत्राबर्गःस्यात् कादिवर्गास्तु पञ्चकाः। चतुर्वर्णौ यशौ वर्गौ संख्यावर्गे प्रकीर्त्तिताः। नाम्नि वर्णाः स्वराग्राह्यावर्गाणां वर्णसंख्यया। पिण्डिताः पञ्चमिर्भक्ताः शेषं जीवस्वर विदुः५ राशिस्वरचक्रम्–“मेषवृषावकारे च मिथुनाद्याः षडंशकाः। मिथुनांशत्रयञ्चैवमिकारे सिंहकर्क्कटौ। कन्यातुले उकारे च वृश्चिकाद्यास्त्रयोंऽशकाः। एकारे वृश्चिकस्यांशाः षट् चापे षट् मृगादिमाः। अंशास्त्रयोमृगस्यान्त्याः कुम्भमीनौ तथौस्वरे। एवं राशिस्वराः प्रोक्ता नवांशकक्रमोदिताः६ ऋक्षस्वरचक्रम्–“अकारे सप्तऋक्षाणि रेवत्यादि क्रमेण च। पञ्च पञ्च इकाराद्रावेबमृक्षस्वरोदये”७ पिण्डस्वरचक्रम्–“नाम्नि वर्णस्वरात् संख्यातश्च मात्रा स्वरात्तथा। पिण्डे शरहृते शेषे पिण्डस्वरैहोच्यते८ योगस्वरचक्रम्–“मात्रांदिस्वरभेदेन स्वरानुत्पाद्य नामतः। योगे शरहते शेषे। योगस्वर इहोच्यते”९ द्वादशवार्षिकस्वरचक्रम्–“प्रोक्ता नैसर्गिकाश्चाष्टौ मात्राद्या नामजाःस्वराः। एतेषामुदयाः वक्ष्ये द्वादशाव्दादिषु क्रमात्। प्रभवादिक्रमेणैव अकारादिस्वरास्तथा। वर्षैर्द्वादशभिर्मानमेकैकस्य स्वरोदये। उदयोद्वादशाव्दानां प्रत्येकं द्वादशाव्दिकः। अस्यान्तरोदयोवर्षमासमेकं दिनद्वयम्। लोकाब्धिनाडिकाः ४३ प्रोक्ता अष्टत्रिंशत्पलानि च”१० वार्षिकस्वरचक्रम्–प्रभावाद्यब्दमेकैकमुदयश्चास्वरादिकः। द्वादशाव्दस्य वर्षोना तद्भुक्तिर्वार्षिके स्वरे”११ अयनस्वरचक्रम्–“अस्वरोदक्षिणे स्वामी इस्वरश्चोत्तरायणे। वर्षभुक्त्यर्द्धमानेन भोगः षाण्मासिकस्वरे”।१२ ऋतुस्वरचक्रम्–“अकारादिस्वराः पञ्च वसन्तादिक्रमीदयाः। एकैकस्मिन् स्वरे प्रोक्तोद्विसप्ततिदिनोदयः। षड्दिनानि रदा ३२ नाड्यो वह्निवेद ३४ पलानि च। अन्तरोदयमानं स्याद् ऋतुनाम्नि स्वरोदये” इति१३ मासस्वरचक्रम्–“नमस्यमार्गवैशाखेष्वस्वरस्योदयोभयेत्। आश्विनश्रावणाषाढेष्विकारो नायकः स्मृतः। उकारश्चैत्रपौषे स्यादेकारो ज्यैष्ठकार्त्तिके। ओकार उदयं याति माघफाल्गुनमासयोः। द्वे दिने त्र्यब्धयो ४३ नाड्यश्चाष्टत्रिंशत् पलानि च। अन्तरोदयौक्तोऽ साविति मासस्वरोदये”१४ पक्षस्वरचक्रम्–“अस्वरः कृष्णपक्षेशः शुक्लपक्षेश इस्वरः। पक्षात्मिकान्तरा भुक्तिर्मासभुक्त्यर्द्धमानतः”१५ तिथिस्वरचक्रम्–“अकारादिक्रमान्न्यस्य नन्दादितिथि पञ्चकम्। नन्दा भद्रा जया रिक्ता पूर्णा च कथिताः क्रमात्। दिनस्वरोदयोनित्यं स्वस्वतिथ्यादि जायते। एकैकस्य स्वरस्य स्युर्घटी पञ्च पलानि भैः २७। अस्यान्तरोदयः प्रोक्तोदिनस्वरस्य सूरिभिः”१६ घटीस्वरचक्रम्–“घटीस्वरो घटीपञ्च पलानि सप्तविंशतिः। एवं घटीस्वरोयाति दिनस्वरघटीस्वरः। अस्यान्तरोदयः प्रोक्तोघटिकार्द्धप्रमाणतः”१७ तिथिवारर्क्षादिस्वरचक्रम्–“द्वादशाव्दादिनाड्यन्ताः स्वस्थानाच्च स्वकालतः। उदयन्ते पुनस्ते च ते चैकादशधा स्वराः। वर्षमासदिवानाडीपलानि च यथाक्रमम्। कालमानं मया प्रोक्तं पञ्चधात्र स्वरोदये। द्वादशाब्दस्वरादीनां भुक्तं पलमयन्तु यत्। तद्भक्तं च स्वभोगेन लब्धशेषादिकं भवेत्। लब्धभुक्तस्वरा ज्ञेयाः शेषञ्चैवोदिताः स्वराः। अस्मिन् षष्ट्यादिभक्ते च भुक्तं स्यादुदितः स्वरः। उदितस्य स्वरस्य स्युर्न्नामस्वरवशेन ताः। पञ्च बालादिकावस्थाः स्वस्वकालप्रमाणतः”। (यो यस्य कालसंभोगी तस्य कालगतान्तरम्। पिण्डितं भुक्तिसंभक्तं लब्धाङ्केन गतोदयः। शेषस्वरोदयोज्ञेयः स्वस्य संख्याहृते ततः। पञ्चावस्थाः स्वरूपेण ज्ञेयं तस्य बलाबलम्। उदयास्तस्वरौ यत्र नामाद्यक्षरजस्वरात्। तत्र बालादयोऽवस्था भवन्त्येकादिसंख्यया। नामस्वरोदयोबालः कुमारश्च द्वितीयकः। तत्तृतीयोयुवा तुर्य्यो वृद्धोमृत्युस्तु पञ्चमः) ग्रन्थान्तरेऽधिक पाठः। आद्योवालः कुमारश्च युवा वॄद्धो मृतिस्तथा। निजावस्थास्वरूपेण फलदा नात्र संशय। किञ्चिल्लाभकरोवालः कुमारस्त्वर्द्धलाभदः। सर्वसिद्धिंयुवा दत्ते वृद्धे हानिर्मृते क्षयः। यात्रायुद्धे विवादे च नष्टद्रष्टे रुजान्विते। बालस्वरोभवेद्दुष्टोविवाहादिशुभे शुभः। सर्वेषु शुभकार्येषु यात्राकाले तथैव च। कुमारः कुरुते सिद्धिं संग्रामे सर्वतोजयम्। शुभाशुभेषु कार्येषु मन्त्रयन्त्रादिसाधने। सर्वसिद्धिं युवा दत्ते यात्रायुद्धे विशेषतः। दाने देवार्च्चने दीक्षागूढमन्त्रप्रकल्पने। वृद्धस्वरो भवेद्भव्योरणे भङ्गो भयं गमे। विवाहादिशुभं सर्व्वं संग्रामाद्यशुभं तथा। न कर्त्तव्यं नृभिः किञ्चिज्जाते मृत्युस्वरोदये। मृतोबाल स्तथा वृद्धः कुमारस्तरुणस्वरः। यथोत्तरबलाः सर्व्वे ज्ञातव्याः स्वरवेदिभिः। योयस्य पञ्चमे स्थाने स स्वरो मृत्युदायकः। तृतीये तु भवेत् वृद्धिः शेषामध्यफलप्रदाः। मृत्युहीनस्वरे नाम्नि जयोनाम्नि स्वराधिके। समनाम्नि भवेत साम्यं सन्धिर्जयपराजयौ। एकमात्रोद्विमात्रश्च त्रिचतुःपञ्चमात्रकाः। यथोत्तरबलाः सर्व्वे ज्ञातव्याः स्वरपारगैः। एकमात्रः कवर्णश्च किवर्ण्णश्च द्विमात्रकः। कुस्तृतीयस्तु तुर्य्यः केः, कोवर्ण्णः पञ्चमात्रकः। आद्ये स्वरे भवेत् साम्यं द्वितीयोऽर्द्धफलप्रदः। तृतीये तु फलं पूर्णं तुर्य्ये बन्धपरम्परा। शत्रोर्मृत्यु स्वरे प्राप्ते यूनि प्राप्ते स्वकीयके। तत्काले प्रारमेद्युद्धं विजयो भवति ध्रुबम्। तत्काले मातिकोग्राह्योदिने वर्णस्वरस्तथा। पक्षे ग्रहस्वरोज्ञेयो प्रासे जीवस्वरोदयः। ऋतौ राश्यंशकोग्राह्यः षण्मासे धिष्ण्यसम्भवः। अव्दे पिण्डस्वरोज्ञेयो योगो द्वादशवार्षिके। सर्व्वकाले बली वर्णः सर्वव्यापी न संशयः। तस्मात्सर्व्वप्रयत्नेन वर्णे वीक्ष्यं बलाबलम्। यथा पद हस्तिपदे प्रविष्टं यथा हि नद्यः खलु सागरेषु। यथा हरेर्द्देहगताश्च देवास्तथा स्वरा वर्णफलोदयाःस्युः। साधनं मन्त्रयन्त्रस्य यात्रायोगञ्च सर्व्वदा। अधोमुखानि कार्य्याणि मात्राखरवले कुरु। वर्णस्वरबले सर्व कर्त्तव्यं च शुभाशुभम्। सिद्धिदं सर्व्वकार्य्येषु युद्धकाले विशेषतः। मारणं मोहनं स्तम्भविद्वेषोच्चाटनं तथा विवादं विग्रहं वातं कुर्य्यात् ग्रहस्वरोदये। खान पानादिकं सर्ब्बं वस्त्रालङ्कारभूषणम्। विद्यारम्भं विवाहञ्च कुर्य्याज्जीवस्वरोदये। प्रासादारामहर्म्याणि देवतास्थापनार्चनम्। राजाभिषेचनं यात्रा प्रवेशो वीजवापनम्। स्त्रीविवाहश्च दीक्षा च कर्त्तव्या राशिके स्वरे। शान्तिकं पौष्टिकं यात्रा प्रवेशोवीजवापनम्। स्त्रीविवाहस्तथा सेवा कर्त्तव्या भस्वरोदये। शत्रूणां देशभङ्गश्च कोटयुद्धं च वेष्टनम्। सेनाध्यक्षस्तथा मन्त्री कर्त्तव्यः पिण्डकोदये। योगेन साधयेद्योगं देहस्थं ज्ञानसम्भवम्। आणवं शाम्भवं चैव शाक्तेयञ्च तृतीयकम्। तिथिवारञ्च नक्षत्रं पृथक् पृथक् प्रभाषितम्। यत्तदेकत्र संमेल्य कुर्य्याद्वर्णस्वरोदये। सस्वरो वर्णतोयत्र तत्तस्याधःस्थितं कुरु। यस्य नामादिमं वर्णं तिथिवारर्क्षमृक्षजम्। तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं यतः। अनेन स्वरयोगेन शत्रूणां मारणादिकम्। मन्त्रयन्त्रक्रियाहोमं साधयेत्तद्दिने बुधः। तत्र बालादयोऽवस्थाभानुसंख्याभवन्ति हि। उदयन्ते क्रमेणैव स्वस्वभुक्तिप्रमाणतः। घटिकाख्ये दिने पक्षे मासे ऋत्वयने तथा। वर्षे द्वादशवर्षे च अवस्था जायते स्वरे। भपलानि घटीपञ्च सपादार्द्धं दिनद्वयम्। षडहं पक्षमासं च वर्षैकं भुज्यते क्रमात्। भुक्तस्वरप्रमाणं च पिण्डस्थं भोगभाजितम्। गतावस्था गताङ्केन शेषास्तत्कालजा मताः। मूका १ च बाला२ शिशु३ हासिका४ च कुमारिका५ यौवन६ राज्यदा७ च। क्लेशा ८ च मोघा ९ ज्वरिता १० पवासा ११ मृता १२ च बालस्वरजा अवस्था। स्वस्था १ शुभा २ मोहन ३ हर्ष ४ वृद्धि ५ र्महोदया ६ शान्तिकरी ७ सदर्पा ८। मदा ९ समा १० शान्तिगुणोदया ११ च माङ्गल्यदा १२ द्वादशधा कुमारे। उत्साह १ धैर्य्योग्रजया २। ३। ४। च बाला ५ माङ्गल्ययुक्ता ६ च सकाम ७ पुष्टी ८। सुखा ९ च सिद्धिश्च १० धनेश्वरी११ च शान्ताभिधा १२ द्वादशधा युवाख्ये। बैकल्य १ शोषा २ च तथा च मोघा ३ च्युतेन्द्रिया ४ दुःखित ५ रात्नि ६ निद्रा ७। वुद्धिप्रभङ्गा ८ च तपा ९ च खिन्ना१० जरा११ मृता१२ द्वादश वृद्धजा च। छिन्ना१ च बन्धा २ रिपुचातकारी ३ शोका ४ मही ५ ज्वालन ६ कुष्ठदा७ च। व्रणाङ्किता ८ भेदकरी ९ च दाहा १० मृत्युः११ क्षया१२ द्वादश मृत्युजा इमाः। एवं षंष्टिरवस्थाः स्युरवस्थापञ्चके सदा। तासु सर्वासु विज्ञेयं स्वनामसदृशं फलम्। अवस्था फलम्।१८ तात्कालिकदिनस्वरचक्रम–“तिथ्यादावुदयंयाति अकारादिर्घटीस्वरः। बालस्वरादिकं प्रश्ने फलं तस्य वदाम्यहम्। तिथिभुक्तघटीसंख्यां कृत्वा पलमयीं ततः। ऋक्षवह्नि ३२७ हृते शेषे स्वरस्तत्कालसम्भवः। तिथिभुक्तघटी या स्याद्रुद्रघ्न ११ षष्टिभाजिता। शेषे तिथिस्वरात् प्रोक्तस्तत्कालजघटीस्वरः। शेषं रुद्रा११ हत षष्ट्या भाजयेच्चान्तरोदयः। वर्ण्णतस्तु फलं वाच्यं शेषे तत्कालजस्वरः। तिथिभुक्तघटीसंख्या विंशघ्ना नवखेन्दुना १०९। हृता घटीस्वरः शेषे तत्र स्यादन्तरोदयः। यमुर्दिश्य कृतः प्रश्नः फलं तस्य प्रजांयते। यत्र नोद्दिश्यते किञ्चित् तत्र प्रष्टुः शुभाशुभम्। बालोदये यदा पृच्छा लाभार्थे स्वल्पलाभदा। रुजार्थे चिररोगश्च गमे हानिः क्षयो रणे। कुमारोदयवेलायां लाभोभवति पुष्कलः। रुजानाशोजयी युद्धे यात्रा सर्वत्र सिद्धिदा। युवोदये लभेद्राज्यं क्लेशच्छेदश्च तत्क्षणात्। संग्रामे शत्रु हर्न्ता च यात्रा च सफला भवेत्। दृद्धोदवे न लाभः स्यात् क्लेशिनां क्लेशवर्द्धनम्। संग्रामे भङ्गमायाति यात्रायां न निवर्त्तते। मृतोदये यदा दूतः पृच्छति स्वप्रयोजनम्। तत् सर्वं मृत्युदं ज्ञेयं युद्धे मृत्युश्च भङ्गदः। ओजस्वराः पुमांसः स्युः स्त्रियो युग्मस्वरान् विदुः। स्वस्वस्वरोदये जाते पुंसां स्त्रीणां बलं भवेत्। बलिनःस्युस्तदा तेभ्यो बली स्वस्य स्वरोदये। गर्मार्थे पुंस्वरे पुत्रः। कन्या कन्यास्वरोदये। युग्मे युग्मं, क्षयो नष्टे मातुर्म्मृत्युश्च संक्रमे। द्युकाडीस्वरयोः पुंसोः पुंयुग्मं, स्त्रीयुगं स्त्रियोः। तयोस्तु पुंस्त्रियोः पुंस्त्रोयुग्मं गर्भे विनिर्द्दिशेत्। तिथिनाडीस्वरे साम्ये पुंपुस्त्रीस्त्री पजायते। असाम्ये तिथिनाडीस्थे गर्भे साम्यं न विद्यते”। “तत्रजन्मनि विशेषः। “जन्मर्क्षे जन्मपादस्तद्वर्णे योऽक्षरजस्वरः। तेनाक्षरेण विज्ञेयःस्वमावः प्राणिनामिह। चपलः कातरोमूर्खः कृपणश्चाऽजितेन्द्रियः। असत्यबहुभाषी च जाते बालस्वरोदये। व्यवसायी कलाभिज्ञः स्त्रीरतः सुमगः सदा। दीर्घायुर्विग्रही शूरः कुमारोदयसम्भवः। सर्वलक्षणसम्पूर्णोराजा भवांत धार्मिकः। सर्वकालजयी युद्धे जातो युवोदये शुभः। स्त्रीजितो धामिकः कामी विवेकी स्थिरसाहसः। सत्यवादी सदाचारः पुमान् वृद्धोदयोद्भवः। क्लेशी समत्सरः क्रूरोनिःकामोविकलेन्द्रियः। सर्वकार्य्यालसो दुष्टोजन्म यस्य मृतोदये” जातस्य शुभाशुभनिर्णयः। “ककारादिदकारान्ताः पञ्च ह्रस्वाः स्वरास्तथा। वलिनः स्युः सिते पक्षे शेषाः सर्वे सितेतरे। एकस्वरः पृथक् वर्ण्णोयोधयोरुभयोर्य्यदि। तत्र पक्षबलं ग्राह्यं शुक्लकृष्णविभेदतः। एकपक्षाक्षरैरेक स्वरश्चेद्योधयोर्द्वयोः। शुक्ले गौरः परः कृष्णे युद्धे जयति निश्चितम्। यस्मिन्नेव स्वरे कृष्णो गौरोवा सुभटोयदि। स्वरासन्नाक्षरे ह्रस्वोदीर्घोदूराक्षरे जयी। प्रमाणनाम वर्णैक्यं युद्धकारकयोर्यदि। तत्र युद्धे बलं देयं यायिस्थायिविभेदतः। योधयोः सर्वभेदैक्ये स्वरे यूनि कुमारके। यायी जयीं तथा स्थायी बालवृद्धान्तिमस्वरे। आद्यास्तिथे स्त्रयोवर्णा द्वौ द्वौ शेषकयोर्मतौ। एवं तिथित्रये ज्ञेया वर्णसंख्या तिथिस्वरे। वर्णतिथ्यादितिथ्याख्या जन्महानिर्मृतिस्तथा। श्रीर्जन्म नीरुजा हानौ मृतौ मृत्युर्न्न संशयः। यदुक्तं यामले तन्त्रेज्ञातं गुरुप्रसादतः। स्वराद्दिनफलं वक्ष्येपुंसां कर्मप्रकाशकम्। योगपिण्ड र्क्षराश्याख्यान् जीवखेटाऽक्षरस्वरान्। उत्पाद्य नामतश्चाष्टौ मात्रान्तान् स्थापयेत् क्रमात्। तस्याधःस्थाल्लिखेच्चाष्टौ द्वादशाव्दादिकालजान्। स्वभोगेन समायुक्तान् भोग श्चैकाद्रशांशकः। यथोत्तरबलाः सर्वे तथा कालबलात्पुनः। कालोदयबलाश्चापि ज्ञातव्याः स्वरवेदिभिः। अकारादिस्वराधःस्था संख्याः वेदप्रमाणिकाः। विन्यस्य चक्रयोगेण तेन विंशोपकामताः। योगात् द्वादशबर्षाःस्युरवस्था पिण्डितोव्दके। भस्वरादयने ज्ञेया राशिस्वरादृतुस्वरे। जीवात् मासस्वरेऽवस्था ग्रहात्पक्षस्वरे तथा। वर्णाद्दिनस्वरे ज्ञेया मात्रास्वरात्घटीस्वरे। द्वादशाव्दादिकः कालोयत्राऽकारादिकस्वरे। स्थितस्तत्र शुभो न स्यात् पञ्चावस्थाशुभोऽपि च। स्वरौ दृद्धान्तिमौ दुष्टौ बालपूर्वदलं तथा। शेषं सार्द्धद्वयं भव्यमिति ज्ञेयं शुभाशुभम्। बालवृद्धान्तिमादुष्टाः, शुभौ युवकुमारकौ। उत्पाद्यौ क्रमयोगेण योद्धुरङ्कौ शुभाशुभौ। यो यत्रं वर्त्तते कालो द्वादशाव्दादिसम्भवः। अकारादिस्वरस्थाने योगादि फलनिर्णयः। योगाद् द्वादशवर्ष च पिण्डाद्वर्षं च सायनम्। भादृतुर्जीवतोमासं ग्रहात् पक्षोऽक्षरात् दिनम्। योगादिस्वरयोगेण द्वादशाविदादिकः क्रमात्। यावदुत्पाद्यते राशिस्तावत् ज्ञेयं शुभाशुभम्।” (अङ्कयुग्माध्रिकत्वेन तद्दिने तस्य तत्फलम्। द्वादश- बार्षिकाद्या ये स्वान्तरोदयसंस्थिताः। ते शुभाश्चैकतः स्थाप्यास्त्वशुभास्त्वन्यतः पृथक्। वेदवेदाङ्गनेत्राणि वेदसंख्या क्रमेण च। शुभाशुभस्वरूपस्य राशियुग्मस्य मध्यतः। एकस्मात्पतिते शेषे ज्ञेयं तद्दिनजं फलम्। विंशत्या ताडिते शेषे चतुःषष्टिविभाजिते। लब्ध्या विंशोपकास्तत्र शुभाशुभप्रकाशकाः। योगे स्वकर्म्मतः, पिण्डे शरीराङ्गे सुहृज्जनात्। राशौ स्वकुलतो, जीवे स्ववित्ताद्, ग्रहतो रिपोः। वर्णे स्वस्वामिनो ज्ञेयो, मात्रायां स्त्रीजनात् फलम्। एवं ज्ञात्वा वदेद्विद्वान्दिने फलशुभाशुभम्)”। ग्रन्थान्तरेऽधिकपाठः१९ दिक्चक्रम्–“पूर्वस्मिन्नस्वरः स्वामी इस्वरो दक्षिणे तथा। उस्वरः पश्चिमे ज्ञेयः एसौम्ये मध्य ओस्वरः। यस्यां दिश्युदयं याति स्वरस्तत्पञ्चमीं दिशम्। वर्जयेत् सर्वकर्य्येषु यात्राकाले विशेषतः। गच्छतः पृच्छकस्याशु स्वरस्यास्तमितां दिशम्। हानिर्मृत्युभयं रोगो जायते नात्र संशयः२० देहजस्वरचक्रम्–“अथान्यत् संप्रवक्ष्यामि शरीरस्थं स्वरोदयम्। हंसचारस्वरूपेण येन ज्ञानं त्रिकालजम्। कुण्डलिनी महाशक्तिर्नाभिस्थाऽहिस्वरूपिणी। ततोदशोर्द्धगा नाड्योदश चाधोगतास्ततः। द्वे द्वे बिर्य्यग्गते नाड्यौ चतुर्विंशतिसंख्यया। कुण्डलिन्यां महाशक्तौ मूलमार्गे भवन्त्यमूः। ताम्यः सूक्ष्ममुखा नाड्यः शरीरस्यातिपोषिकाः। सप्त शतानि जायन्ते सप्तोत्तराणि संख्यया। प्रधाना दश नाड्यस्तु दशवायुप्रवाहिकाः। नामानि नाडिकानाञ्च वातानाञ्च वदाम्यहम्। इडा पिङ्गला सुषुम्णा गान्धारी हस्तिजिह्विका। पूषा यशाऽलंबुषा च कुहूः शङ्खिनिका तथा। प्राणोऽपानःसमानश्चोदानव्यानौ तथैव च। नागः कूर्मः कृकरश्च देवदत्तो धनञ्जयः। प्रकटो वायुसञ्चारो लक्ष्यते देहमध्यगः। पिङ्गलेडासुषुराणाभिर्न्नाडीभिस्तिसृभिर्बुधैः। (अष्टाङ्गुले व~हेद्वह्नि रनिलश्चतुरङ्गुलः। दिवाकराङ्गुला पृथ्वी सलिलं षोडशाङ्गुलम्। नीलवर्णो भवेद्व यूरक्तवर्णोहुताशनः। पीतवर्णस्तु माहेयः शुक्लवर्णस्तु वारुणः। चापाकारो भवेद्वायुस्त्रिकोणो वह्निरुच्यते। चतुरस्रस्तु माहेयो वर्त्तुलो वारुणःस्मृतः। कटुस्वादुर्भवेद्वायुस्तीक्ष्णस्वादोऽनलोभवेत्। कषायकस्तु माहेयो मघुरो वारुणोमतः) अधिकपाठः। “इडानाडीस्थितश्चन्द्रः पिङ्गला भानुवाहिनी। सुषुम्णा शम्भ रूपेण शम्भुर्हंसस्वरूपकः। हकारो निर्गमे प्रोक्तः सकारस्तु प्रवेशकः। हकारः शम्भुरूपेण सकारः शक्तिरुच्यते। शक्तिरूपस्थितश्चन्द्रो वामनाडीप्रवाहकः। दक्षनाडीप्रवाहे तु शम्भुरूपी दिवाकरः। एकैकस्य कलाः पञ्च क्रमेणैवोदयन्ति ताः। पृथिव्यापस्तथा तेजो वायुराकाशमेव च। मध्ये पृथ्वी अधश्चाप ऊर्द्धे वहति चानलः। तिर्य्यग्वायुप्रवाहश्च नभोवहति संक्रमे। चलाहितं नभःप्रोक्तं सर्ब्बशास्त्रेषु भाषितम्। अपां स्थाने स्थितं वस्तु पृथिव्यामुत्तरं गतम्। तेजसा पूर्बगं वस्तु त्वाकाशे दक्षिणं गतम्। त्रिंशद्दिनावघिः पृथ्वी सलिलं पक्षसंख्यकम्। एकविंशद्दिनं तेजोवायुः पञ्चदिनं स्मृतम्। वर्षसंज्ञं तु व्योम्नि स्यात् प्रश्नशास्त्रेषु सम्भतम्। दूतोक्तवर्णसंख्याङ्कोद्विगुणोभज्यते त्रिभिः। यद्येकं द्वितयं श्रेष्ठं तृतीये मरणं भवेत्। लग्नं तिथिसमायुक्तं सनक्षत्रं त्रयान्वितम्। पञ्चभिस्तु हरेद्भागं शेषाङ्के तत्त्वमुच्यते। पृथ्व्यापौ चोत्तमौ प्रोक्तौ तैजसे सर्वसिद्धयः। वायौ च निष्फलं ज्ञेयमाकाशे मरणं ध्रुवम्। पृथ्व्याद्येकैकतत्त्वस्याप्येकैकघटिकोदयः। अहोरात्रस्य मध्ये स्यात्तेन द्वादशसङ्क्रमाः। आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे। प्रतिपदादिदिनान्येवं त्रीणि त्रीणि कृतोदयौ। चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्योदये यदा। अशुभं हानिरुद्वेगः शुभं सर्वं निजोदये। शशाङ्कं चारयेद्रात्रौ दिवा चार्य्यो दिवाकरः। इत्यभ्यासरतोनित्यं स योगी नात्र संशयः। यात्रादाने विवाहे च वस्त्रालङ्कारभूषणे। शुभकर्मणि सन्धौ च प्रवेशे च शशी शुभः। विग्रहे द्यूतयुद्धेषु स्नानभोजनमैथुने। व्यवहारे भये भङ्गे मानुनाडी प्रशस्यते। दूरयुद्धे जयी चन्द्रः समासन्ने दिवाकरः। वहन्नाडीपदेनैव कृता यात्राऽतिसिद्धिदा। पृथ्वीजले शुमे तत्त्वे तेजो मिश्रफलोदयम्। हानिमृत्युकरौ पुंलामुभयौ व्योममारुतौ। योद्धृद्वयकृते प्रश्ने पूर्णे च प्रथमोजयी। रिक्तसंस्थे द्वितीयस्तु जयी भवति नान्यथा। युद्धकाले यदा चन्द्रः स्थायी जयति निश्चितम। यदा सूर्य्यप्रवाहश्च याया च विजयी तदा। पार्थिवे सक्षतं युद्धं सन्धिर्भवति वारुण। विजयोवह्नितत्त्वेन वायौ भङ्गो मृतिस्तु खे। पूर्णनाडीगते पृष्ठे शून्यमग्रे तदग्रतः। शून्यस्थाने कृते शत्रुर्म्रियते नात्र संशयः। पूर्व्वोत्तरदिशोश्चन्द्रे भानौ पश्चिमयाम्ययोः। स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च। वामनाड्युदये चन्द्रः कर्त्तव्योवामसंमुखः। सूर्य्यवाहे तथा सूर्य्यः पृष्ठदक्षिणयोर्जयी। शयने वा प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा। यः सूर्य्येण पिवेच्चन्द्रं स भवेन्मकरध्वजः। जीबेन गृह्यते जीवो जीवो जीवस्व दीयते। जीवस्थानगतो जीवोबाला जीवान्तवश्य गा। रात्रित्रियामवेलायां प्रसुप्ते कामिनीजने। ब्रह्मजीवं पिबेद्यस्तु बालाजीवहरोनरः। अष्टाक्षरं जपित्वा तु तस्मिन् क्षणे रते सति। तत्क्षणे दीयते चन्द्रोमोहमायाति कामिनी। शिव आलिङ्ग्यते शक्त्या प्रसङ्गे यत्क्षणेन तु। तत्क्षणे पाययेच्चन्द्रं मोहमायाति कामिनी। चन्द्रचारी विषं हन्ति सूर्य्यो बालां वशं नयेत्। सुषुम्णायां भवेन्मोक्ष एकोदेवस्त्रिधा स्थितः। भुक्तमात्रे च मन्दाग्नौ स्त्रीणां वश्यार्थकर्मणि। शयनं सूर्य्यवाहेन कर्त्तव्यं सर्वदा बुधैः। श्रान्ते शोके विषार्त्ते च ज्वरिते मूर्छितेऽपि च। सज्जनस्यापि वोधार्थे चन्द्रचारं प्रवाहयेत्। ऊर्द्धं वामाग्रतो दूतोज्ञेयोवामपथोदये। पृष्ठे दक्षे तथाऽधस्तात् सूर्य्यवाहगमोमतः। पूर्णनाडीगतो दूतो यत् पृच्छति शुभाशुभम्। तत् सर्व्वं सिद्धिदं ज्ञेयं शून्ये शून्यं न संशयः। पृथिव्यादिद्वितत्त्वेन दिनमासाव्दके फलम्। शोभनञ्च तथा दुष्टं व्योममारुतवह्निमिः। श्वासप्रवेशकाले तु दूतोवाञ्छति जल्पितुम्। सर्वतः सिद्धिमायाति निर्गमे नास्तिसुन्दरम्। सूर्य्ये च विषभान् वर्णान् समवर्णान् निशाकरे। वाहस्थो भाषते दूतस्तदा लाभोऽन्यथा न हि। गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते। शून्ये कन्यायुगे युग्मं गर्भपातश्च संक्रमे। मारणं मोहनं स्तम्भं विद्वेषोच्चटनं वशम्। प्रेरणाकर्षणं क्षोभं भानुनाड्युदये कुरु। शान्तिकं पौष्टिकं क्षेमं दिव्योषधिरसायनम्। योमाभ्यासादिकर्माणि कर्त्तव्यानि निशाकरे। चन्द्रसूर्य्यस्वराभ्यासं ये कुर्वन्ति सदा नराः। अतीतानागतज्ञानं तेषां हस्तगतं सदा” इति स्वरोदये स्वरचक्रनिर्णायकं प्रथमाङ्गम्। सर्वचक्रोपयोगि बालादिचक्रं ज्यो० त० दर्शितं यथा “ऋवर्णञ्च ॡवर्णञ्च त्यक्त्वा कोष्ठेषु पञ्चसु। अकाराद्याः स्वरा लेख्या एकैकस्मिन् द्विकं द्विकम्। कादिहान्तान् लिखेद्वर्णान् स्वराघोङञणोज्झितान्। तिर्य्यक्पङ्क्तिक्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके। अकारादिक्रमात् न्यस्य नम्दादितिथिपञ्चकम्। अर्ककुजौ विधुज्ञौच गुरुः शुक्रः शनिस्तथा। वाराः कोष्ठेष्वधो लेख्या अस्वरे सप्त भानि च। पञ्च पञ्च इकारादौ रेवत्यादिक्रमेण च। प्रसुप्तो बुध्यते येन येनागच्छति शब्दितः। तस्य नाम्नस्त्वादिवर्णोयत्र तिष्ठेन्नरस्य च। तस्माद्बालः कुमारश्च युवा वृद्धोमृतिः क्रमात्। किञ्चिल्लाभकरोबालः कुमारस्त्वर्द्धलाभदः। सर्व्वसिद्धिं युवा धत्ते वृद्धे हानिर्मृते क्षयः। यदि नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः। ग्राह्यस्तस्यादिमोवर्ण इत्युक्तं व्रह्मयामले। तिथिवारर्क्षभेदेन प्रत्येकं बलमादितः। नामवर्णादितो ज्ञेयं फलं पुंसां दिने दिने। तिथ्यादिमेलनवशात् फलं ज्ञेयं शुभाशुभम्। युव त्रये शुभं पूर्णं अशुभञ्च मृतित्रये। अन्यत्राप्येवमह्यं स्यात् शङ्क्रेण शुभाशुभम्।” बालादेरेव नामान्तराणि क्रमेण जन्मकर्म्माधानपिण्डच्छिद्राणि पञ्चस्वराग्रन्थे उक्तानि तत्र च तिथिसख्याभेदेनाङ्गभेदाश्चोक्ताः। ८१। ८७। ९३। ९९। १०५। द्वितीयमङ्गं ८४ चक्रात्मक स्वरोदये उक्तं तेषां नामोद्देशः अङ्गशब्दे ७३ पृ० दर्शितः तत्रादौ एकाशीतिपदं१ सर्व्वतोभद्रचक्रम्–“अथातः संप्रवक्ष्यामि चक्रं त्रैलोक्यदीपनम्। विख्यातं सर्व्वतोभद्रं सदाप्रत्ययकारकम्। ऊर्द्धगा दश विन्यस्य तिर्य्यग्रेखास्तथा दश। एकाशीतिपदं चक्रं जायते नात्र संशयः। अकारादिस्वराः कोष्ठेष्वीशादौ विदिशि क्रमात्। सृष्टिमार्गेण दातव्याः षोडशैव चतुर्भ्रमम्। कृत्तिकादीनि धिष्ण्यानि पूर्व्वाशादौलिखेत्ततः। सप्त सप्त क्रमेणैव अष्टाविंशतिसंख्यया। अवकहडा दिशि प्राच्यां मटपरता दक्षिणे देयाः। नयभजखाश्च वारुण्यां गशदचलाश्चोत्तरस्यां स्युः। त्रयस्त्रयोवृषाद्यास्तु पूर्वादिक्रमतोबुधैः। राशयो द्वादशस्थाप्या मेषान्ता दक्षमार्गतः। शेषेषु कोष्ठकेष्वेवं नन्दादितिथिपञ्चकम्। वाराणां सप्तकं लेख्यं भौमाद्यं तत्तिथिक्रमात्। भौमादित्यौ तु नन्दायां भद्रायां सोमसोमजौ। जयायां देवपूज्यञ्च रिक्तायां भृगुजं लिखेत्। पूर्णायाञ्च शनिः प्रोक्तो ग्रहवेधं विलोकयेत्। शन्यर्कराहुकेत्वाराः क्रूरा शेषाः शुभाग्रहाः। क्रूरयुक्तो बुघः क्रूरः क्षीणचन्द्रस्तथैव च। इत्येष सर्वतोभद्रप्रस्तावः कथितोमया। यस्मिन्नृक्षे स्थितः खेटस्ततोवेधत्रयं भवेत्। ग्रहदृष्टिवशेनात्र वामदक्षिणसंमुखे। भुक्तं भोग्य तथाक्रान्तं विद्धं क्रूरग्रहेण भम्। शुभाशुभेषुं कार्य्येषु वर्जनीयं प्रयत्नतः। वक्रगे दक्षिणा दृष्टिर्वामा दृष्टिश्च शीघ्रगे। संमुखी मध्यचारे च ज्ञेया भौमादिपञ्चके। सूर्य्ययुक्ता ग्रहाः शीघ्रास्तथा चार्के द्वितीयगे। समास्तृयीयगे ज्ञेया मन्दा भानौ चतुर्थगे। वक्राः स्युः पञ्चषष्ठेऽर्के त्वतिवक्रा नगाष्टगे। नवमे दशमे भानौ जायते सहजा गतिः। द्वादशैकादशे सूर्य्ये लभन्ते शीघ्रतां पुनः। रविस्थित्यंशकत्रिंशाबधेः संख्याऽत्र कल्प्यते। न तु राश्यन्तरस्पर्शात् द्वितीयादिनिरूपणम्। राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ। गतेरेकस्वभावत्वादेषां दृष्टित्रयं सदा। क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः। स्युः सहजाः स्वभावस्थाः सौम्याः क्रूराश्च शीघ्रगाः। ऋक्षसन्धिगताः खेटा राशिसन्धिगतास्तथा। एष्यराशेः फलं दद्युर्वक्रे तु विपरीतगम्। घङछाः षणठाश्चैव घफटस्थझञास्तथा। एतत्त्रिकं त्रिकं विद्धं विद्धैः कपभदैः क्रमात्। घङछा रौद्रगे वेधे षणठाहस्तगे ग्रहे। धफढाःपूर्ब्बाषाढायां थझञा भाद्र उत्तरे। बवौ शसौ खषौ चैव जयौ णनौ परस्परम्। एकेन हि द्वयं विद्धं शुभाशुभग्रहव्यधे। अवर्णादिस्वरद्वन्द्वे त्वेकवेधात् द्वयोर्व्यधः। युग्मवर्णामके वेधे अनुस्वारविसर्गयोः”। (अकारादियुग्मवर्णात्मकवेधवदनुस्वारविसर्गयोरेकवेधादुभयवेधैत्यर्थः)। “कोणस्थधिष्ण्ययीर्मध्ये अन्त्यादिपादगे ग्रहे। अकारादिचतुष्के तु वेधः पूर्णतिथौ तथा। एकादिक्रूरवेधेन फलं पुंसां प्रजायते। उद्वेगश्च भयं हानिर्व्याधिर्मृत्युः क्रमेण च। ऋक्षे भ्रमोऽक्षरे हानिः स्वरे व्याधिर्भयं तिथौ। राशौ विद्धे महाविघ्नः पञ्चविद्धोन जीवति। एकवेधे भयं युद्धे युग्मवेधे धनक्षयः। त्रिवेधे तु भवेद्भङ्गो मृत्युर्वेधे चतुर्ग्रहैः”। (दृष्टित्रये उदाहरणम् “भरण्यकारवृषभं नन्दां भद्रां तुलाञ्च तम्। विशांखां हरिभं विध्येद्ग्रह आग्नेयसंस्थितः। उदाहरणान्तरम् “वं युग्ममौस्वरं कन्यां रफं स्वातीमुकारकम्। अश्विनीं रोहिणीसथोऽभिजिद्भमेवं परेष्वपि) जात्या दुष्टफलाः क्रूरास्तथा सौम्याः शुभप्रदाः। क्रूरयुक्ताःपुनः सौम्याज्ञेयाः क्रूरफलप्रदाः। अर्कवेधे मनस्तापोद्रव्यहानिश्च भूसुते। रोगपीडाकरः सोरीराहुकेतू च बिघ्नदौ। चन्द्रे मिश्रफलं पुंसां रतिलाभश्च भार्गवे। बुधवेधे भवेत् प्रज्ञा जीवः सर्व्वशुभप्रदः। स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे ग्रहे। अर्द्धं समगृहे प्रोक्तं पादं शत्रुगृहे स्थिते। इदञ्च सौम्यक्रूराणां बलं स्थानवशात् समम्। एतदेव फलं बिद्धि सौम्ये क्रूरे विपर्य्ययात्। स्थानवेधसमायोगात् यत्संख्यं जायते बलम्। तत्संख्यं वेध्यवस्तूनां फलं ज्ञेयं शुभाशुभम्। ग्रहाः सौम्यास्तथा क्रूराः वक्राः शीघ्रोच्चनीचगाः। स्थानञ्च वेध्यमित्येवं बलं ज्ञात्वा फलं वदेत्। वक्रग्रहे फलं द्विघ्नं त्रिगुणं स्वोच्चसंस्थिते। स्वभावजं फलं शीघ्रे नीचस्थेऽर्द्ध्वफलोग्रहः। तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण यत्। सर्व्वेषु शुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः। न नन्दति विवाहे च यात्रायां न निवर्त्तते। न रोगात्मुच्यते रोगी वेधबेलाकृतोद्यमः। रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः। वक्रगत्या, भवेन्मुत्युः शीघ्रे चाप्यरुजान्वितः। बेधस्थाने रणे भङ्गो दुर्गे खण्डिः (भङ्गः) प्रजायते। कविप्रवेशनं तत्र योधाथातश्च तत्र वै”। (कविश्चौरयोद्धा)। “यत्र पूर्व्वादिकाष्ठायां वृषराश्यादिगो रविः। सा दिगस्तमिता ज्ञेया शेषास्तिस्रः सदोदिताः। ईशानस्थाः स्वराः प्राच्यां ज्ञेया आग्नेयगा यमे। नेरृतस्थाश्च वारुण्यां, वायव्यां सोम्यगा मताः। नक्षत्राणि स्वरा वर्णा राशयस्तिथयोदिशः। ते सर्व्वेऽस्तमिता ज्ञेया यत्र भानुस्त्रिमासिकः। नक्षत्रेऽस्ते रुजा, बर्णे हानिः, शोकः स्वरेऽस्तगे। राशौ विघ्न, स्तिथौ भीतिः, प्रञ्चास्ते मरणं भवेत्। यात्रा युद्धं विवादश्च द्वार प्रासादहर्म्म्ययोः। न कर्त्तव्यं शुभं चान्यदस्ताशाभिमुखं नरैः। अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम्। स आर्त्तः सर्व्वकार्येषु ज्ञेयो दैवहतो नरः। अरौ कोटे तथा युद्धे चातुरङ्गे महाबले। त्यजेदस्तंगतान् योद्धा यदोच्छेद्विजयं रणे। नक्षत्रेऽभ्युदिते पुष्टि, र्वर्णे लाभः, स्वरे सुखम्। राशौ जय, स्तिथौ तेजः पदाप्तिः पञ्चकोदये। प्रश्नकाले भवेद्विद्धं यल्लग्नं क्रूरखेंचरैः। तद्दुष्टं, शोभनं सोम्यै, र्मिश्रैर्मिश्रफलं भवेत्। ग्रहैर्न विद्धं यल्लग्नं फलं लग्नस्वभावतः। ज्ञातव्यं देशिकेन्द्रेण भाषितं यच्चरादिकम्। (शीर्षोदये सौम्यविलग्नवर्गे लग्नेऽपि वा सौम्ययुते शुभं स्यात्। अतोऽन्यथात्वे तुतदन्यथात्वं, मिश्रं विमिश्रैरधिकं वलाढ्यैः। केन्द्रोपगानवमपञ्चमगाश्च सौम्याः केन्द्राष्टवर्जमशुभास्त्रिषडायसंस्थाः। सर्ब्बार्थसाधनकराः परिपृच्छतां स्युरेभिर्ब्बिपर्य्ययगतैस्तु विपर्य्ययः स्यात्। लग्नाधिनाथोयदि केन्द्रगः स्यात् तन्मित्रमेतस्य च केन्द्रगंवा। व्ययाष्टकेन्द्राण्यपहाय पापा अन्थत्र याता यदि तच्छुभं स्यात्। आद्योलग्नाधिपः कार्ये लग्ने कार्य्याधिपोयदि। लग्नपः कार्य्यपश्चापि लग्ने यदि तृतीयकः। चतुर्थः कार्य्यगौ स्यातां यदि लग्नपकार्य्यपौ। कार्य्यसिद्धिस्तदा ज्ञेया मित्रञ्चेदधिकं फलम्। एवं दृष्टिवशाज्ज्ञेयं फलं तद्वच्चतुष्टयम्। पूर्णनाडीस्थितो दूतोयत् पृच्छति शुभाशुभम्। तत् सर्व्वं सिद्धिमाप्नोति शून्ये शून्यं समोरणे। आदौ शून्यगतः पृच्छेत् पश्चात् पूर्णां विशेद् यदि। तदा सर्व्वार्थसिद्धिः स्यात् वामे वामं न संशयः। श्वासप्रवेशकाले चेद् दूतोजल्पति वाञ्छितम्। तस्यार्थसिद्धिमाप्नोति निर्गमे नास्ति सुन्दरम्। ऊर्द्ध्ववामाग्रतोदूतोज्ञेयो वामपथस्थितः। पृष्ठे दक्षे तथाधस्ताद्दक्षवाहौ गतोमतः। यात्रादानविवाहेषु वस्त्रालङ्कारभूषणे। शुभे कर्मणि सन्धौ च प्रवेशे वामगः शुभः। कलह द्यूतयुद्धेषु स्नानभोजनमैथुने। व्यवहारे भये भङ्गे दक्षनाडी प्रशस्यतो)। अन्यप्रकरणोक्त मेतत् ज्यो० त० प्रक्षिप्तम्। “क्रूरैरुभयतोविद्धा यस्याक्षरतिथिस्वराः। राशिधिष्ण्यञ्च पञ्चापि तस्य मृत्युर्न संशयः। मण्डलं नगरं ग्रामोदुर्गं देवालयं पुरम्। क्रूरैरुभयतोवेधे विनश्यन्ति न संशयः। कृत्तिकायां तथा पुष्ये रेवत्याञ्च पुनर्ब्बसौ। वेधे सति क्रमाद्वेधोवर्णेषु ब्राह्मणादिषु। पूर्ब्बात्रयं तथाग्नेयं व्राह्मणानां प्रकीर्त्तितम्। उत्तरात्रितयं पुष्यं क्षत्रियाणां विनिर्द्दिशेत्। पौष्णं मैत्रंमघा चैव प्राजापत्यं विशाम्पतेः। आदित्यमश्विनीं हस्तं शूद्राणामभिजित्तथा। विद्धैरेभिर्द्विजातीनां कारुकाणां च शेषके। तौल्यं भाण्डं रसोधान्यं गजाश्वादिचतुष्पदाः। सर्व्वं महार्घतां याति यावत् क्रूरोव्यधे स्थितः। क्रूरवेधसमायोगे यस्योपग्रहसम्भबः। तस्य मृत्युर्न सन्देहारोगाद्वापि रणेऽपि वा। सूर्य्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधम्। शून्यञ्चाष्टमभं प्रोक्तं सन्निपातश्चचतुर्द्दशम्। केतुरष्टादशं प्रोक्तमुल्का स्यादेकविंशतिः। द्वाबिंवतितमं कम्पस्त्रयोविंशञ्च वज्रकम्। निर्घातश्च चतुर्विंशमुक्ता अष्टावुपग्रहाः। प्रस्थाने विघ्नदाः प्रोक्ताः सर्व्वकार्य्येषु सर्ब्बदा। प्रसङ्गादत्र१ षड्नाडीचक्रं नबनाडीचक्रञ्चोक्तं यथा “जन्मभं कर्म्म आधानं विनाशः सामुदायिकम्। सांघातिकमिदं धिष्ण्यं षट्कं सार्वजनीनकम्। जातिदेशाभिषेकैश्च नुव धिष्ण्यानि भूपतेः। वेधं ज्ञात्वांफलं ब्रूहि सौम्यैः क्रूरैः शुभाशुभम्। जन्मभं जन्मनक्षत्रं दशमं कर्म्मसंज्ञकम्। एकोनविंशमाधानं त्रयोविंशं विनाशकम्। अष्टादशञ्च नक्षत्रं साभुदायिकसंज्ञकम्। सांघातिकञ्च विज्ञेयं धिष्ण्यं षोडशमेव हि। षट्त्रिकञ्च ९ राजजातेर्जातिनाम स्वनामभम्। देशभं देशनामर्क्षं राज्यभं चाभिषेकभम्। मृत्युः स्याज्जन्मभे विद्धे कर्म्मभे क्लेश एव च। आधानर्क्षे प्रवासः स्यात् विनाशे बन्धुविग्रहः। सामुदायिकभे रिष्टं हानिः सांघातिके तथा। जातिभे कुलनाशः स्यात् बन्धनञ्चाभिषेकभे। देशर्क्षे देशभङ्गः स्यात् क्रूरैरेवं शुभैः शुभम्। उपग्रहसमायोगे मृत्युर्भवति नान्यथा। भयं भङ्गश्च घातश्च मृत्युर्भङ्गयुता मृतिः। क्रूरैरेकादिपञ्चान्तैर्युधि वेधे फलं मवेत्। तिथिं धिष्ण्यं स्वरं राशिं वारञ्चैव तु पञ्चमम्। यद्दिने वेधयेच्चन्द्रस्तद्दिने स्यात् शुभाशुभम्। तिथ्यादिपञ्चके विद्धे चन्द्रयोगोयदा भवेत्। उक्तं फलं तदा वाच्यं तद्दिने ग्रहसम्भवम्। अथार्घं = संप्रवक्ष्यामि यदुक्त चादिजामले। एकाशीति पदे चक्रे ग्रहभेदाच्छुभाशुभम्। देशः कालस्ततः पण्यमिति त्रीण्यर्घनिर्णये। चिन्तनीयानि विद्धानि सर्वकालं विचक्षणैः। देशोऽथ मण्डलं स्थानमिति देशस्त्रिधोच्यते। वर्षमासदिनं चेति त्रिधा कालोऽषि कथ्यते। धातुर्मूलं च जीषश्च इति पण्यं त्रिधा मतम्। अथ त्रिक त्रयस्यास्य बक्ष्यामि खामिखेचरान्। देशेशा राहुमन्देज्या मण्डलस्वामिनः पुनः। केतुसूर्य्यसिताः स्थाननाथाश्चन्द्रारचन्द्रजाः। वर्षेशा राहुकेत्वार्क्किजीवा मासाघिपाः पुनः। भौमार्कज्ञसिता ज्ञेयाश्चन्द्रः स्यात् दिवसाधिपः। धात्वीशाः सौरिपातारा, जीवेशाज्ञेन्दुसूरयः। मूलेशाः केतुशुक्रार्का इति पण्याधिपाग्रहाः। पुग्रहा राहुकेत्वर्क जीवभूमिसुता मताः। स्त्रीग्रहौ शुक्रशशिनौ सौरिसौ म्यौ नपु सकौ। सितेन्दू सितवर्णेशौ रक्तेशौ भौम भास्करौ। पीतेशौ ज्ञगुरू कृष्णनाथाः केतुतमोऽर्क्कजाः। ग्रहोवक्रोच्चयोर्यः स्यादुदये च बलाधिकः। देशादीनां स एवैकः स्वामी खेटस्तदा मतः। स्वगृहे वक्रतुङ्गे स्यादुदये च बलाधिकः। वक्रोदये स्वहर्म्ये च पूर्णवीर्य्योग्रहो भवेत्। तदग्रपृष्ठगे खेटे बलं त्रैराशिकात् मतम्। उच्चांशस्थे बलं पूर्णं नीचांशस्थे दलं वलम्। त्रैराशिकवशात्ज्ञेयमन्तरे तु बलं बुधैः। एवं देशा- दिनाथा ये ग्रहवेधे व्यवस्थिताः। सुहृदः शत्रवोमध्याश्चिन्तनीयाः प्रयत्नतः। स्वमित्रसमशत्रूणां विध्यन् देशादिकं क्रमात्। शुभग्रहः शुभं दत्ते चतुस्त्रिद्व्येकपादकैः। दुष्टं दुष्टग्रहः कुर्य्यादेकद्वित्रिचतुःपदैः। विद्धं पूर्णदृशा पश्यन् तत्पादेन फलं ग्रहः। अविद्धं त्वन्यथां ज्ञेयं फलं दृष्ट्यनुमानतः। वर्णादिस्वरराशीनां मेषाद्ये राशिमण्डले। ग्रहदृष्टिवशात् सर्वं बिद्धं वर्णादिकं मतम्। स्वरवर्णः स्वचक्रोक्तस्तिथिवेधाच्च पीडयेत्। तिथिवर्णेषु यो राशिस्तद्दृष्टिः स्यात्तिथीक्षणात्। अशुभो वा शुभोवापि शुक्ले विध्य~स्तिथिं ग्रहः। सर्वं निजफलं दत्ते कृष्णे पक्षे तु तद्दलम्। खेटकेकैकाशके ज्ञेया पूर्णा दृष्टिः सदा बुधैः। दृष्टिहीने पुनर्वेधे न स्यात् किञ्चित् शुभाशुभम्। इत्येवं दृष्टिभेदेन निर्द्दिष्टं सकलं फलम्। वर्णादिपञ्चके विद्धे ग्रहो दत्ते शुभाशुभम्। सौम्यः पूर्णदृशा पश्यन् विद्धं वर्णादिपञ्चकम्। फलं विंशोपकाः पञ्च क्रूरस्य चतुरोदिशेत्। वर्णादिपञ्चके यावत् स्थानवेधे च तावती। ष्टिस्तदनुमानेन वाच्या विंशोपका बुधैः। एव विंशोपका येऽत्र सम्भवन्ति शुभाशुभाः। अन्योन्यं शोधयेत्तेषां शेषात् ज्ञेयं शुभाशुभम्। देशध्वंसः प्रजापीडा नृपविप्रबघस्तथा। यत्र दृष्टिस्तु तत्र स्याद् दुर्भिक्षंमण्डले तथा। वर्त्तमानार्घ विंशांशाः कल्प्या विंशोपका इह। ते क्रमात् वर्त्तमानार्घे देयाः पात्याः शुभाशुभाः। अकालेऽपि फलं पुष्पं वृक्षाणां यत्र जायते। स्वजातिमासभुक्तिश्च दुर्भिक्षं तत्र रौरवम्। परचक्रागमोयत्र विग्रहश्च स्वराज्यके। ऋतोर्विपर्य्ययो यत्र दुर्भिक्षं मण्डले भवेत्। भूमिकम्पोरजःपातोरक्तवृष्टिश्च जायते। देशे सर्वसुखोपेते वेधादेतद्वदेत्बुधः। दीपो यथा गृहस्यान्तमुद्द्योयति सर्वतः। तथेदं सर्वतोभद्र चक्रं ज्ञानप्रकाशकम्”।२ शतपदचक्रम्–“चक्रं शतपदं बक्ष्ये ऋक्षांशाक्षरसम्भवम्। नामादिवर्णतोज्ञेवां ऋक्षराश्यंशकास्तथा। तिर्य्यगूर्द्धगता रेखा रुद्रसंख्यालिखेद्बुधः। जायते कोष्ठकानाञ्च शतैकं १०० नात्र संशयः। न्यस्येदवकहडादि रौद्रादिविदिशि क्रमात्। (अ वकह डा ऐशान्यां म ट प र ता हरिति चाग्नेय्याम। न य भ० ज खा नैरृत्यां ग श द च लावायव्याम्) पञ्च पञ्च क्रमेणैव विंशवर्णान् नियोजयेत्। पञ्चस्वरसमायोगे एकैकं पञ्चधा कुरु। (अवर्णाद्यास्त्रयोज्ञेयाः सन्ध्यक्षर युतस्तथा। सजातीयैक्यमास्थाय पञ्चस्वरविनिर्णयः। ऋदॢतोरप्यकारेण शेन सस्य परिग्रहः) अधिक पा०। “कुर्य्यात् कुपुभुदुस्थाने त्रीणि त्रीण्यक्षराणि च। कुघङछो भवेत् स्तम्भे रौद्रे त्वीशानगोचरे। पुषणठो भवेत् स्तम्भे ह्रस्ते चाग्नेयसंज्ञके। भुधफढोभवेत् स्तम्भे पूर्वाषाढे च नैरृते। दुथझङो भवेत् स्तम्भे वायव्ये भाद्रौत्तरे। एवं स्त्रम्भचतुष्कञ्च ज्ञातव्यं स्वरवेदिभिः। धिष्ण्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः। साभिजिन्त्यंशकास्तत्र शतैकं द्वादशाधिकम्। यदृक्षांशककोष्ठस्थः क्रूरः सौम्योऽपि वा ग्रहः। ततस्तं वेधयेत् तिर्यक् पुंसोनामादिमाक्षरम्। सौम्यैर्विद्धं शुभं ज्ञेयमशुभं पापखेचरैः। मिश्रैर्मिश्रफलं तत्र निर्वेधे न शुभाशुभम्। यदुक्तं सर्वतोभद्रे ग्रहोपग्रहवेधतः। शुभाशुभफलं सर्वं तदिहापि विचिन्तयेत्”। (पञ्च स्वराः अ इ उ ए ओकारास्तैर्योगे धिष्ण्यानि नक्षत्राणि। अ त्र चतुभिर्वर्णैरेकं नक्षत्रं यथा। अ इ उए ३। ओ वविवु। ४। वेवोककि। ५। कुघङछ। ६। केकोहहि। ७। हुहेहोड। ८। डिडुडेडो। ९। ममिमुमे। १०। मोटटिटु। ११ टेटोपपि। १२। पुषणठ १३। पेपोररि। १४। रुरेरोत। १५। तितुतेतो। १६। ननिनुने। १७। नोययियु। १८। येयोभभि। १९। भुधफढ। २०। भेभोजजि। २१। जुजेजोख। (अभिजित्) ०। खिखुखेखो। २२। गगिगुगे। २३। गोशशिशु। २४। शेशोददि। २५। दुथझञ। २६। देदोचचि। २७। चुचेचोल। १। लिलुलेलो। २। ऋऌयुक्तः अकारयुक्तेन ज्ञेयः। ह्रस्वेन दीर्घोज्ञेयः। तालव्यशकारेण दन्त्यसकारोज्ञेयः)।३ अंशचक्रम्–“अष्टाविंशोर्द्धगा रेखा अष्टाविंशतितिर्य्यगगाः। अंशचक्रं भवत्येवं यदुक्तं चादिजामले। कृत्तिकादीनि भ्रान्यत्र पादाक्षरक्रमेण च। साभिजिन्ति न्यसेत् सर्वाण्यष्टाविंशतिसंख्यया। यो ग्रहो यत्र ऋक्षांशेतं तत्रैव न्यसेद्बुधः। वेधयेत् संमुखं वर्णं शुभो वाप्यशुभीऽपि वा। आद्यंशेन चूतुर्थांशं चतुर्थांशेन चादिमम्। द्वितीयेन तृतीयं तु तृतीयेन द्वितीयकम्। यस्य नामाक्षरं विद्ध्वमंशचक्रे ग्रहेण तु। क्रूरैः रिष्टं, शुभैर्हानिर्द्व्याद्यैर्म्मृत्युर्न संशयः। क्रूरोभयस्थिते वेधे मृत्युर्विघ्नं शुमाशुमैः। शुभोभयगते वेधे व्याधिषीडा च बन्ध- नम्। बैधव्यञ्च विवाहे तु यात्राकाले महाभयम्। रोगे मृत्यूरणे भङ्गः क्रूरवेधे न संशयः। अद्रयः सागरानद्यो देशग्रामपुराणि च। क्रूरवेधे विनश्यन्ति नात्र कार्य्या विचारणा। चन्द्रस्यर्क्षांशको विद्धो भवेद्यत्रापरग्रहैः। तन्मानं तद्दिनं वर्ज्यं सर्वदा शुभकर्मणि”४ छत्रत्रयचक्रम्–आदौ चक्रं समालिख्य छत्रत्रयसुशोमितम्। अश्विन्यादीनि लेख्यानि सप्तविंशतिभानि च। अश्विन्याद्यं मघाद्यञ्च मूलाद्यञ्च क्रमेण च। उत्तरे पूर्वके याम्ये चैतच्छत्रत्रयं मतम्। प्रतीचीमध्यरेखायामीशानान्तं हयाधिपः। आग्नेयान्तं नराधीशस्तन्मध्ये च गजाधिपः। अश्वाध्यक्षा गजाध्यक्षोनराध्यक्षः क्रसेण च। एषां छत्रविभागेण ज्ञातव्यं हि शुभाशुभम्। अन्येषां भूभृतामृक्षं यत्र छत्रे व्यवस्थितम्। तच्छत्रं तस्य भूपस्य शुभाशुभफलप्रदम्। यत्र छत्रे स्थितः सौरिर्भङ्गं तस्य विनिर्दिशेत्। फलञ्च चामरादीनां प्रत्येकं च वदाम्यहम्। चामरं कलसं वीणा छत्रं दण्डं पतद्गहम्। आसनं कीलकं रज्जुर्न्नव भेदा प्रकीर्त्तिताः। चामरे १ चण्डता बायोरनावृष्टिश्च जायते। दुर्भिक्षं च भवेद्घोरं प्रजापीडा न संशयः। कलसस्थे २ भवेद्युद्धं रणे भङ्गो महद्भयम्। घातपातादिकं सर्वं जायते नात्र संशयः। वीणासंस्थे ३ चार्कपुत्रे पट्टराज्ञी विनश्यति। चलचित्तो भवेद्राजा भयभीता च मेदिनी। यदाऋक्षत्रये सौरिश्छत्रे ४ दण्डे ५ पतद्ग्रेहे ७। तदा तस्य भवेद्भङ्गश्छत्रस्यापि न संशयः। आसनस्य भवेन्नाश आसनस्थे ७ शनैश्चरे। युवराजक्षयः कीले ८ वन्धनं रज्जुसंस्थिते ९। सौम्ययुक्तोऽतिचारस्थः शनिरुक्तफलो न हि। वक्रगः क्रूरयुक्तश्च सर्व्वं क्रूरं करोति सः। शनिराहुकुजादित्यायदाजीवेन्दुसंयुताः। उत्तराधीशराज्यस्य निश्चितं छत्रभङ्गदाः। क्रूरचतुष्टयं चैव बुधचन्द्रेण संयुतम्। पूर्वछत्रविनाशाय कथितं पूर्वसूरिभिः। एवं पापचतुष्क च यदा शुक्रेन्द संयुतम्। दक्षिणाधिपतेश्छत्रविनाशो भाषितो बुधैः। एवमन्येषु राज्येषु यत्र यस्य च सम्भवः। उपग्रह समायोगाच्छत्रभङ्गं विनिर्दिशेत्। यथा दुष्टफलः सौरिस्तथा सौम्यफलोगुरुः। भौमज्ञौ शुक्रराहू च रविचन्द्रौ बले समौ। यथा हानिकराः क्रूरास्तथा सौम्याः शुभप्रदाः। क्रूरयुक्तो भवेत् क्रूरश्चन्द्रः सौम्ययुतः शुभः। सौम्यक्रूरा यदा छत्रे अष्टावेकत्र संस्थिताः। छत्रभङ्गो मवे- त्तस्य परचक्रागमेण च। नृपनामर्क्षगोराहुः केतुर्वा यस्य संस्थितः। छत्रभङ्गोभवेत्तस्य विषदानेन भूपतेः। मृगयां साहसं यात्रां दुष्टाश्वगजवाहनम्। विग्रहञ्च त्यजेद्राजा छत्रस्थैः क्रूरखेचरैः। एवं ज्ञात्वा सदा राजा करोति ग्रहशान्तिकम्। यदुक्तं यामले तन्त्रे तेन शान्तिर्भविष्यति” इति५ सिंहासनचक्रम् (३)–“अथातः संप्रवक्ष्यामि चक्रं सिंहासन त्रयम्। येन विज्ञातमात्रेण क्रियते राज्यनिर्णयः। सप्तविंशतिनक्षत्रेष्वेकैकन्तु नवात्मकम्। अश्विनीमधमूलाद्यं पञ्चनाडीविभेदितम्। अश्विन्याद्युत्तरे भागे मघाद्यं पूर्वतः स्थितम्। भूलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम्। इतरेषु च राज्येषु नृपनामर्क्षतोवदेत्। शुभाशुभमिदम् मर्वं यस्य यत्र शनिः स्थितः। नाडिकापञ्चभेदेन एकैकस्याऽऽसनं भवेत्। आधारमासन पट्टं सिंहं सिंहासनं तथा। आधारादिफल सर्वमेकैकस्य वदाम्यहम्। ग्रहवेध वशाज्ज्ञेयं मौम्यैःक्रूरैः शुभाशुभम्। नृपस्याऽऽधारनामर्क्षे यदा पट्टाभिषेचनम्। पराधीनगतं राज्यं कुरुते नात्र संशयः। आसनस्थेन ऋक्षेण नीतियुक्तो भवेन्नृपः। प्रधानपुरुषादेशी प्रजाशान्तिकरो भवेत्। पट्टऋक्षे यदा राजा चोपविष्टो यदासने। पूर्वराजस्थितेस्तुल्यं चिरं पालयते महीम्। सिंहरूपी भवेद्राजा सिंहऋक्षासने स्थितः। संग्रामस्य प्रियोनित्यमसाध्यो मन्त्रिणः सदा। सिंहासनगते ऋक्षे तेजस्वी भीषणाकृतिः। चलचित्तो महाक्रोधी प्रजापीडाकरोनृपः। तत्कालेन्दुगते ऋक्षे क्रूरनिर्वेधनाडिके। शुभावस्थे शुभलग्ने संस्थायी नृप आसने। ईदृशे च समायोगे उपविष्टो यदासने। उच्छिद्य शत्रुसंघातमेकच्छत्रं करोति सः। क्रूरग्रह गतनाड्यामुपविष्टो यदासने। बन्धनं भूमिनाशश्च तथा मृत्युः प्रजायते। आधारादिफलं तत्र क्रूरैरेव शुभैः शुभम्। आधारऋक्षगः सौरिरनावृष्टिं करोति सः। दुर्भिक्ष रौरवं घोरं प्रजामृत्युः प्रजायते। आसनस्थो यदा सौरिर्युद्धे भङ्गप्रंदोभवेत्। अथ वा व्याधिपीडा च घातदुःखञ्च जायते। पट्ट ऋक्षे यदा सौरिः पट्टराज्ञी विनश्यति। प्रियो वाथ कुमारो वा मन्त्रिवर्गक्षयोऽपि वा। सिंहे सिंहासने वाथ यदि तिष्ठति सूर्य्यजः। तदा मृत्युर्न्न सन्देहो यदि शक्रसमोनृपः। शन्यर्कराहुमाहेया यदा चन्द्रर्क्षसंयुताः। यस्यासनगता एते तदा तस्य क्षयङ्कराः। क्रूरयुक्तोऽतिवक्रश्च क्रूरनाडीगतो-ऽपि वा। आसने चन्द्रयोगेण कालरूपी शनैश्चरः। एवं शुभफलं दद्याद्देवमन्त्री नं संशयः। करोति विपुलंराज्यं यस्यासनगतो गुरुः”६ कूर्मचक्रम् (५)–“कूर्मचक्रं प्रवक्ष्यामि यदुक्तं कौशलागमे। येन विज्ञातमात्रेण ज्ञायते देशनिर्णयः। यस्य शृङ्गैक देशस्था देवास्त्रित्रिंशकोटयः। स मेरुः पृथिवीमध्येश्रूयते दृश्यते न तु। तादृशाः पर्वताश्चाष्टौ सागरा द्वीप दिग्गजाः। सर्वे तु विधृता मूम्या सा धृता येन तं शृणु। दंष्ट्रायां सा वराहेण विधृता सधराधरा। मुस्ताखननतोयस्य शोभते मृत्तिका यथा। ईदृशोऽपि महाकायो वराहः शेषमस्तके। तस्य चूडामणेरूर्द्ध्वं शीभते मशकोपमः। एवंविधः स शेषोऽपि कुण्डलीभूय संस्थितः। कूर्मपृष्ठैक भागेन विसतन्तुरिवाबभौ। वपुःस्कन्धः शिरः पुच्छनखाङ्घ्रि प्रभृतीनि च। मानेन तस्य कूर्मस्य कथयामि प्रयत्नतः। शङ्कोः शतसहस्राणि योजनानि वपुः स्थितम्। तदर्द्धेन भवेत् पुच्छं पुच्छार्द्धेन तुकुक्षिकम्। ग्रीवाऽस्याऽयुतकोटीभि र्मस्तकं सप्तकोटिभिः। नेत्रयोरन्तरं तस्य कोटिरेका प्रजायते। मुखं कोटिद्वयं तस्य द्विगुणेन च पादयोः। अङ्गुलीनां नखाग्रे तु योजनायुतसं ख्यया। एवं कूर्म प्रमाणन्तु कथितं चादियामले। तस्योपरिस्थिता चेयं सप्त द्वीपवती मही। कूर्माकारं लिखेच्चक्रं सर्वाबयवसंयुतम्। पूर्वभागे मुखं तस्य पुच्छं पश्चिममण्डले। पूर्वापरं लिखेद्वेधं वेधश्चोत्तरदक्षिणे। ईशानराक्षसे वेध वेधमाग्नंय मारुते। नाभिशीर्षचतुःपादकुक्षिपुच्छेषु संस्थिते। तारात्रयाङ्किते ह्यस्मिन् सौरिं यत्नेन चिन्तयेत्। अधिके भत्रिके तत्र पादार्द्धेषु भमण्डलम्। चतुर्विंशति संसथाः स्युस्तांश्च हन्ति शनिः क्रमात्। अश्विन्याद्युत्तरेभागे मघाद्र्यं पूर्व्वतः स्थितम्। मूलं च दक्षिणे भागे ज्ञातव्यं नृपतित्रयम्। व्यापकग्रहराशिस्थे चन्द्रे मन्दोविशेद्यदा। यद्यद्धिष्ण्यपदार्द्धे च तत्र दोषा भवन्त्यमी। अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः। स्वचक्र परचक्रञ्च सप्तैताः ईतयः स्मृताः। कृत्तिका रोहिणी सौम्यं (५) कूर्मनाभीगतं त्रयम्। साकेता मिथिला चम्पा कौशाम्बो कौशिकी तथा। अहिच्छत्रं गया विन्ध्यमन्तर्वेदी च मेकला। कान्यकुब्जं प्रयागञ्च मध्यदेशो विनश्यति। रौद्रम्पुनर्वसू पुष्यः कूर्मस्य च शिरःस्थितम्। सगौडो हस्तिबन्धश्च पञ्चराटञ्च कामरूः। वरेन्द्री च तथा ज्ञेया मगधश्च तथैव च। सूरसेनो वने- यासः पूर्वदेशोविनश्यति। अश्लेषा च मघापूर्वफाल्गुन्याग्नेयगोचरे। अङ्गवङ्गौ कलिङ्गश्च पूर्वजाश्चैव कोशलाः। डाहलोजयहन्ता च तथैवच सुलज्जिका। उड्डीयानं वराटञ्च अग्निदेशो विनश्यति। उत्तरा हस्तचित्रा च दक्षिणं कुक्षिमाश्रिताः। दर्दुरश्च महेन्द्रश्च वनवासश्च सिंहलः। तापी भीमरथी लङ्का त्रिकूटं मलयस्तथा। श्रीपर्वतः किष्किन्घा इति नश्यति दक्षिणः। स्वाती विशाखा मैत्रं च कूर्मनैरृत्यगोचरे। नासिक्यं च सुराष्ट्रं चोत्तरमालवकं तथा। बाह्लीकं च प्रकाशञ्च भृगुकच्छञ्च कोङ्कणम्। खेटापुरं च मौटेरं देशा नश्यन्ति चेदृशाः। ज्येष्ठा मूलं तथाषाढा पुच्छे कूर्मस्य संस्थिताः। पारावतं मरुकच्छमवन्ती पूर्वमालवः। पारातवर्वरद्वीपं सौराष्ट्रं सैन्धवं तथा। जनस्थानं विनश्यन्ति स्त्रीराज्यं पुच्छपीडने। उत्तरादित्रिऋक्षाणि पादे वायव्यगोचरे। गुर्ज्जरं तङ्गणञ्चैव मरुदेशं सरस्वतीम्। जालन्धरं बरादं च वालुकोदधिसंयुतम्। मेरुशृङ्गं विनश्यन्ति ये चान्ये कोणसंस्थिताः। शतभिषादित्रयञ्चैव उत्तरं कुक्षिमाश्रितम्। नेपालं कीरकाश्मरीरगञ्जन खुरसानकम्। माथुरं म्लेच्छदेशश्च खसकेदारमण्डले। हिमाश्रया विनश्यन्ति ये देशाश्चोत्तराश्रयाः। रेवती चाश्विनी याम्यं २ पादे त्वीशानगोचरे। गङ्गाद्वारं कुरुक्षेत्रं श्रीकण्ठं हस्तिनापुरम्। अश्ववक्त्वेकपादाश्च गजकर्णस्तथैव च। विनश्यन्ति च ते सर्वे देशा स्त्वीशानगोचरे। सौरिःस्वदेशगोयत्र तत्र यत्नेन चिन्तयेत्। परदेशस्थितः कुर्याद्विग्रहंपृथिशीवतेः। यत्रस्थः पीडयेत्तत्र वेधस्थाने तथैव च। देशनामर्क्षगः सौरिर्भङ्गदो नात्र संशयः। १ पृथ्वीकूर्मं समालेख्यं कृत्तिकादि यमान्तकम्। देशादिस्वस्वऋक्षादि वक्ष्ये कूर्मचतुष्टयम्। पूर्ववच्चक्रमालिख्य देशनामर्क्षपूर्व्वकम्। २ देशकूर्मो भवेत्तत्र यत्र सौरिक्षयन्तथा। नगरे ३ नागरमृक्षं कृत्वा लेख्यं तु पूर्ववत्। सौरिस्थाने भवेद्दुष्टं वेधस्थाने तथैव च। ४ क्षेत्रजे क्षेत्रभान्यत्र कृत्वा कूर्मं यथास्थितम्। सौरिस्थाने तथा वेधे जायतेऽत्र महद्भयम्। ५ गृहकूर्मं समालिख्य गृहद्वारमुखस्थितम्। स्वाम्यर्क्षपूर्व्वकम् कृत्वा ततोवीक्ष्यं शुभाशुभम्। गृहमध्यस्थितः सौरिः शोकसन्तांपदायकः। द्वारे विघ्नप्रदोज्ञेयः पावके वह्निदायकः। ज्ञेयो मृत्युप्रदो याम्ये राक्षसे राक्षसाद्भयम्। वारुणे शुभदोज्ञेयो वायव्ये शून्यदायकः। अर्थलाभप्रदः सौम्ये शाङ्करे सर्वसिद्धिदः। सौरिर्बलाधिकोदुष्टः स्वल्पवीर्य्यः शुभावहः। समकालं पीडयेद्यत् भानुजः कूर्मपञ्चक्वम्। तत्र स्थानेमहायुद्धं जायते नात्र संशयः। दुष्टस्थाने गते चन्द्रे कर्त्तव्यन्तत्र शान्तिकम्। यदुक्तं यामले तन्त्रे सर्वविघ्न विनाशकम्। यन्देशञ्चैवं पश्यन्ति राहुभौमशनैश्चराः। परचक्रभयं चाग्निदुर्भिक्षन्तत्र दारुणम्। कूर्म चक्रं महाचक्रं कथितञ्चादियामले। तिकालविषयज्ञानं पाणिस्थं येन जायते”। तन्त्रोक्ते मन्त्रग्रहणतत्साधनोपयोगिकुर्म्मचक्रे तु कूर्म्मचक्रशब्दे पृष्ठे उक्ते तत्र दृश्ये।”७ पद्मचक्रम्–“पद्माकारं लिखेच्चक्रमष्टपत्रं सुशोभनम्। कोष्ठकं नवमं मध्ये पद्मचक्रं प्रजायते। कृत्तिकादीनि भान्यत्र त्रीणि त्रीणि यथाक्रमम्। मध्यकोष्ठादि रुद्रान्तं सप्तविंशतिसंख्यया। नव खण्डा धरा सा च नवभागेषु संस्थिता। यत्र खण्डे स्थितः सौरिः स्वण्डं तच्च विनश्यति”८ फणीश्वरचक्रम्–“कृत्तिकाद्यं लिखेच्चक्रं सर्पाकारं फणीश्वरम्। सप्तनाडीसमायुक्तं सौरिवेधं विलोकयेत्। नाड्येकैकसमायोगे जम्बूद्वीपादि गण्यते। सप्त द्वीपाः क्रमेणैव पीड्यन्ते सौरिपीडया। जम्बूप्लःक्षस्तथा शाकः कुशः क्रौञ्चश्च शाल्मलिः। सप्तमः पुष्करद्वीपः पीड्यन्ते सौरिपीडया”। कोलानलचक्राणि सप्त९ राहुकालानलचक्रम्–(३) “अथातः संप्रवक्ष्यामि प्रोक्ता या व्रह्मयामले। राहुकालानली यात्रा सद्यःप्रत्यय कारणम्। ग्रहयोगवशाद्यात्रा ज्योतिःशास्त्रे प्रभाषिता। या सा शुभेषु कार्य्येषु फलदा न तु सङ्गरे। यस्य छायाप्रभावेण छाद्येते शशिभास्करौ। तस्य राहोः प्रभावञ्च वक्ष्येऽहं रणकर्म्मणि। केचित् मूर्खा वदन्त्येवं ग्रहोराहुरकारणम्। यतो वर्षे दिने लग्नेष्वाधिपत्य न दृश्यते। आधिपत्ये स्थिता ये च वर्षे मासे दिवानिशोः। ते चाधिकारिणोज्ञेया राहू राजाऽभिधीयते। वेदागमपुराणेषु विख्यातो राहुखेचरः। तस्य माहात्म्यमज्ञात्वा मिथ्या जल्पति स्वल्पवित्। दुष्टारिष्टेषु सर्वेषु जातकादिषु मन्यते। सद्यः प्रत्ययदो राहुः स कथं स्यादकारणम्। भ्रम~श्च कालरूपेण संहारेण महीतले। स्ववक्त्रदंष्ट्रया रौद्रोज्ञेयो राहुर्न्न संशयः। ग्रहा ग्रासभयाद् यस्य सृष्टिमार्गे भ्रमन्ति च। तस्य नामान्यहं वक्ष्ये मुखं पुच्छं क्रमेण च। राहुरगुस्तमः पातः स्वर्भानुः सिंहिकासुतः। दैत्यश्छाया शिरोबक्त्रं ग्रहारिश्च विधुन्तुदः। पुच्छं केतुः शिखी सर्पो गुदं गुह्यं घटोमतम्। उत्पातो विषगर्भश्च धूम्रकालः ग्रहान्तकः। ऋक्षाधारगतोराहुः सर्परूपेण संस्थितः। तस्य चक्रं प्रवक्ष्यामि राहुकालानलाख्यकम्। शलाकासप्तकं चक्र मीशादौ कृत्तिकादिकम्। साभिजित् सर्वमालिख्य अष्टाविंशतितारकाः। यत्र ऋक्षस्थितोराहुर्वदनं तद्विनिर्दिशेत्। मुखात् पञ्चदशे ऋक्षे पुच्छं तस्य व्यवस्थितम्। एकोत्तरशतं ख्याताः जायन्ते तत्र केतवः। व्याप्नुवन्तो जगत्सर्वं सहस्रार्कसमत्विषः। राहुभुक्तानि ऋक्षाणि जीवपक्षे त्रयोदश। त्रयोदशाऽपि भोग्यानि मृतपक्षः प्रकीर्त्तितः। मृतपक्षे मुखन्तस्य गुदं जीवाङ्गमध्यगम्। एवमङ्गद्वयं राहोर्ज्ञातव्यं स्वरवेदिभिः। जीवपक्षे क्षपानाथे मृतपक्षे रवौ स्थिते। तस्मिन् काले शुभा यात्रा विपरीता तु हानिदा। चन्द्रादित्यौ यदा युक्तौ जीवपक्षव्यवस्थितौ। तत्र क्षेमं जयो लाभो यात्राकाले न संशयः। मृतपक्षे यदा काले सस्थितौ चन्द्रभास्करौ। तदा हानिर्भयं भङ्गोमृत्युर्यात्राफलं मतम्। जीवपक्षस्थिते चन्द्रे कार्य्यं स्यादऽमृतोपमम्। मृतपक्षे मृतं ज्ञेयं यतश्चन्द्रबलात् बलम्” तत्राङ्गभेदेन फलभेद उक्तस्तत्रराहुषडङ्गविभागचक्रम्–“अतः षडङ्गभेदेन राहुचक्रं वदाम्यहम्। मुखं हृदुदरं गुह्यं पुच्छं मस्तकमेव च। मुखैकं हृदये सप्त षडृक्षाणि तथोदरे। ऋक्षैकं गुह्यगं तस्य षट् पुच्छे “मुखाद्यङ्गनामभेदः सप्तमस्तके मुखाद्यङ्गस्य नामानि फलं चास्य वदाम्यहम्। यथोत्तरं क्रमेणैवं चन्द्रार्कभ्रमणेन च। यत्र ऋक्षे स्थितो राहुस्तस्याभिधानमीरितम्। गिलितं कर्त्तरी जिह्वा चन्द्राङ्गं वदनं तथा। राहुधिष्ण्याग्रतः सप्त भुक्तधिष्ण्यानि यानि च। तानि सम्पुटसंज्ञानि कामाङ्गं हृदयन्तथा। हृदयाग्रे स्थितायाश्च तारका रससंख्यया। कामाङ्गं जठरं जीवं सम्पुटोदरसंज्ञकम्। तत्पुरोयत्तु नक्षत्रमेकं पञ्चदशं मुखात्। गुदमुद्गिलितं गुह्यं केतुश्चन्द्राङ्गकर्त्तरी। गुदधिष्ण्याग्रतोयानि धिष्ण्यनि रससं ख्यया। पुच्छं सूर्य्याङ्गवज्राङ्गपुष्टिमृत्युस्तथैव च। शेषाणि सप्त भान्यत्र मध्यस् थान्यस्य पुच्छयोः। कपालं मस्तकं शीर्षं रुद्राङ्गंभोगिमण्डलम्। स्थिररूपी स्थितोभानुश्चररूपश्च चन्द्रमाः। क्रमेणैकैकशोऽङ्गानां योगषट्कं वदाम्यहम्।मुखादियोगषट् कम्–“राहुवक्त्रे स्थिते सूर्य्ये चन्द्रे हृदयसंस्थिते। यायिनो विजयस्तत्र स्थायिनो भङ्ग आहवे। मुखाग्रसंस्थिते सूर्य्ये चन्द्रे चोदरगे तथा। अत्र यायी जयेद्युद्धे हेलया नात्र संशयः। भास्करे गिलिताङ्गस्थे चन्द्रे वज्राङ्गसंस्थिते। स्थायी भङ्गमवाप्नोति यायी जयति सक्षतः। राहुऋक्षस्थितो भानुश्चन्द्रे पुच्छाड। संस्थिते। स्थायिनोविजयोयुद्धे यायिनो मृत्युमादिशेत्। राहुजिह्वां गते सूर्य्ये चन्द्रे रुद्राङ्गसंस्थिते। बलावर्तो भवेत्तत्र सैन्ययोरुभयोरपि। राहुऋक्षस्थितोभानुश्चन्द्रस्तत्रैव संस्थितः। न कश्चिज्जयमाप्नोति सैन्ययोरुभयोःक्षयः”।हृदयादियोगषट्कम्। “हृदयस्थे दिवानाथे जठरस्थे निशाकरे। निर्द्दिष्टः स्थायिनोमृत्युर्य्यायो जयति निर्व्रणः। हृदयस्थो यदा भानुः शशाङ्कोगुदमाश्रितः। हेलया जयते यायी स्थायी च म्रियते रणे। कामाङ्गके दिवानाथे पुच्छषट्के निशाकरे। स्थायिनो विजयस्तत्र यायिनश्च पराजयः। सम्पुटस्थो यदादित्यो रुद्राङ्गे चन्द्रमा स्थितः। यायी च भङ्गमायाति किञ्चित्स्थायी जयी रणे। कामाङ्गं याति चेत् भानुश्चन्द्रे राहुमुखस्थिते। संग्रामे विजयी यायी, स्थायिनो भङ्गमादिशेत्। हृदयाङ्गे यदा युक्तौ चन्द्रादित्यौ व्यवस्थितौ। देवानपि जयेत् यायी किंपुनर्मानवं बलम्”।उदरादियोगषट्कम्–“उदरस्थे दिवानाथे निशानाथे गुदस्थिते। समयुद्धं भवेत्तत्र किञ्चित् यायी जयी रणे। सम्पुटस्थो यदा भानुः पुच्छे भवति चन्द्रमाः। यायिभङ्गो, जयः स्थातुस्तत्र काले न संशयः। कामाङ्गगः सहस्रांशुर्म्मस्तकस्थो निशाकरः। यात्रिकोभङ्गमायाति स्थाने वासी जयी रणे। भानुरुदरगोयत्र निशेशोराहुवक्त्रगः। विवादी हीयते तत्र स्थायी जयति नान्यथा। स्वर्भानोरुदरे भानुर्हृदये तारकाधिपः। अनायासेन संग्रामे यायिनो जयमादिशेत्। उदराङ्गे यदा युक्तौ चन्द्रादित्यौ व्यवस्थितौ। तदा सन्धिर्न्न सन्देहः सैन्ययोरुभयोरपि”।गुदादियोगषट्कम्–“केतुधिष्ण्ये स्थिते सूर्य्ये चन्द्रे वज्राङ्ग संस्थिते। यायिभङ्गो, जयी स्थायी भाषितं व्रह्मयामले। गुदे तीक्ष्णांशुसंयुक्ते कपालस्थे निशाकरे। यायी च भज्यते तत्र स्थायी जयति नान्यथा। गुदऋक्षस्थितः सूर्य्योराहुऋक्षस्थितः शशी। महाहवं भवेद् वोरं किञ्चित् स्थायी जयी रणे। भानुरुद्गिलिते ऋक्षे शशभृत् संपुटे यदि। यायिनो विजयस्तत्र स्थायिनो भङ्गमादिशेत्। गुदभे वर्त्तते भानुर्ज्जठरे रोहिणीपतिः। दण्डयित्वा रिपोः सैन्यं याताभ्येति निजालयम्। गुदे दिनकरो यत्र तत्रैव यामिनीकरः। समयुद्धं भवेत्तत्र किञ्चिदागन्तुको जयी”।वज्राङ्गयोगषट्कम्–“सूर्य्याङ्गस्थः सहस्रांशुर्ज्जिह्वायां शीतगुः स्थितः। यायिनोविजयं विद्यात् स्थायिनश्च पराजयम्। पुच्छक्षेत्रस्थितो भानुः रुद्रक्षेत्रे तु चन्द्रमाः। यायिनो मृत्युरायाति जयलाभौ च स्थायिनः। पुच्छषट्के यदादित्यः कामाङ्गे चन्द्रमाः स्थितः। यायी विजीयते तत्र शक्रतुल्योऽपि वैरिभिः। अंशुमाली स्थितोवज्रे जठरस्थं सुधाकरे। आदत्तेऽरिश्रियं सर्वां जित्वा यायी रणाङ्गणे। भास्करे राहुपुच्छस्थे मृगाङ्के गुदमाश्रिते। समयुद्धं भवेत् तत्र किञ्चित् यायी जयी रणे। सूर्य्याचन्द्रमसौ यत्र वज्राङ्गे यदि संस्थितौ। सैन्ययोरुभयोस्तत्र बधो भबति निश्चितम्”।कपालादियोगषट्कम्–“रुद्राङ्गस्थे दिवानाथे राहुजिह्वाङ्गगः शशी। स्थायिनस्तु जयस्तत्र भङ्गो भवति यायिनः। राहुशीर्षस्थिते मित्रे शशाङ्के हृदि संस्थिते। विना युद्धेन गृह्णीयाद्यायी सर्वामरिश्रियम्। कपाल संस्थितः सूर्य्यः सम्पुटस्थो यदा शशी। यायिना जीयते तत्र स्थायिनो भङ्गमादिशेत्। मस्तकस्थे दिवानाथे धिष्ण्यनाथे गुदश्रिते। यायिनो विजयो युद्धे स्थायिनस्तु पराजयः। राहुशीर्षगतोभानुः पुच्छर्क्षे तु निशाकरे। अन्योऽन्यं विग्रहं घोरं युद्धं भवति दारुणम्। दिनेशो राहुरुद्राङ्गे चन्द्रस्तत्रैव सङ्गतः। विनाशं कोषराज्यस्य यायिनो मृत्युमादिशेत्।”राहुदशाङ्गविभागचक्रम्–“हृदयादीनि चाङ्गानि जिह्वान्तानि क्रमेण च। दशसंख्यान्यहं वक्ष्ये राहुचक्रस्य मध्यतः। पुष्पितं फलितं चैव निःफलं झटितं गुदम्। राजसन्तामसं वृद्धं मृतं जिह्वा क्रमेण च। पुष्पिते त्रीणि धिष्ण्यानि क्षेमलाभकराणि च। शत्रुभङ्गो भवेद्युद्धे यात्रा मासेन लाभदा। ततश्चत्वारि धिष्ण्यानि पक्षैकेण्ण फलन्ति च। गजवाजिधनं देशं यायी तु लभते ध्रुवम्। अफलेषु त्रिविष्ण्येषु षण्मासैर्य्यायिनं प्रति। सन्धिं सेवां तथा देशं स्थायी यच्छति निश्चितम्। फलं प्राप्नोति वर्षेण झटितैश्च त्रितारकैः। हस्त्यश्वपुत्रमित्रादि देशकोषपरिग्रहैः। गुदैकेन भृशं लक्ष्मीः पद्मिनी प्रियवादिनी। रूपयौवनसम्पन्ना मासयुग्मेन लभ्यते। विग्रहस्य भवेद्वृद्धिर्युद्धे भङ्ग स्तथैवच। रोगपीडा भवेद्वर्षे राजसाख्यैस्त्रितारकैः। हस्त्यश्वपुत्रमित्रादि देशकोषपरिग्रहाः। षड्भिर्मासैर्विनश्यन्ति यायिनस्तामसत्रये। तामसाग्रे चतुष्के तु तारकावृद्धसंज्ञकाः। सर्व्वनाशकराः प्रोक्ता मासैकेन न संशयः। ततस्त्रीणि मृत्युभानि राजमृत्युप्रदानि च। आर्शोवातश्च गुल्मश्च पक्षैकेण फलन्ति च। युद्धे भङ्गोमहाभीतिर्द्रव्यनाशः कुलक्षयः। सद्यो मृत्युं लभेद्यायी राहुवक्त्रे सुनिश्चितम्।” इति दशाङ्गफलम्।“युद्धकाले यदा शीध्रं यात्रायोगो न लभ्यते। उत्पाद्येते तदा शीघ्रं तत्कालेन्दुदिवाकरौ। इष्टनाड्योहताधिष्ण्यैः षष्टिभागाप्तशेषके। अश्विन्यादीन्दुभुक्तेन युतस्तत्कालचन्द्रमाः। यथा चन्द्रस्तथा सूर्य्यः कर्त्तव्यश्चेष्टकालिकः। अहोरात्रस्य मध्ये तौ विभ्रान्तौ धिष्ण्यमण्डले। स्थिरचक्रे पुरा प्रोक्तं चन्द्रादित्यफलं मया। चरचक्रेऽप्यनेनैव प्रकारेण फलम्भवेत्। सर्व्वेषु शुभकार्य्येषु यात्राकाले विशेषतः। सर्वकाले शुभश्चन्द्रोज्ञेयो हृदि गुदोदरे। पुच्छषट्के कपालस्थे शशाङ्के राहुवक्त्रगे। बन्धनं हानि र्मृत्युश्च सर्वकार्य्येषु जायते। हृदि गुदोदरे चन्द्रे विवाहे नन्दति द्वयम्। नैःस्वं वैधव्यविद्वेषौ मुखे पुच्छे तु मस्तके। पुष्पिते फलिते गुह्ये प्रश्नकाले शशो शुभः। अफले झटिते मध्ये मृत्युः शेषाङ्गगे विधौ। ऊर्द्धे तु खेचरं चक्रमधोभूचरमुच्यते। उभयोः सन्निपातेन राहुकालानलं मतम्”।१० सूर्य्यकालानलचक्रम्–“ऊर्द्धगास्त्रिस्रः शूलाग्रास्ति स्रस्तिर्यक् च संस्थिताः। द्वे द्वे नाड्यौ स्थिते कोण शृङ्गयुग्मं तथैकया। मध्ये त्रिशूलदण्डाधो भानुभाद्य भमण्डलम्। साभिजिच्च प्रदातव्यं सव्यमार्गेण सर्वदा। ऋक्षाष्टके जयोलाभः ऋक्षषट्के तथा पुनः। शृङ्गयुग्मे रुजाभङ्गो मृत्युः शूलत्रये स्फुटम्। नामऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम्। अधोगतैश्च नक्षत्रैरुद्वेगोबधबन्धनम्। विवाहे विग्रह युद्धे रोगार्त्तौ गमने तथा। सूर्य्यकालानलं चक्रं ज्ञातव्यं च प्रयत्नतः।” (रोगे च कुजनक्षत्र दिन ऋक्षन्तु युद्धके। प्रयाणे कृत्तिका लेख्या अन्यत्रार्कस्य दीयते)। क्वचित् अधिकपाठः११ चन्द्रकालानलचक्रम्–“चन्द्रकालानलं चक्रं व्योमाकारं लिखेद्बुधः। चतुर्द्दिक्षु त्रिशूलानि मध्ये भिन्नानि कार- येत्। पूर्वत्रिशूलमध्यस्थं दिनऋक्षादि लेखयेत्। सव्यमार्गेणदातव्या अष्टाविंशतितारकाः। त्रिशूले च बहिर्मध्ये म ये बहिस्त्रिशूलके। त्रिशूले चक्रबाह्ये च चक्रमध्ये तथैव च। नामऋक्षं स्थितं यत्र तत्र ज्ञेयं शुभाशुभम्। त्रिशूले च भवेन्मृत्युर्भव्यञ्च बहिरष्टकम्। लाभः क्षेमं जयः प्रज्ञा चन्द्रगर्भ न संशयः। वर्ज्जनीयं प्रयत्नेन प्रथमाष्टत्रिपञ्चकम्। ऋक्षं द्वातिंशकं चात्र कालरूपं न संशयः। लाभालाभौ सुखं दुःखं जय श्चैव पराजयः। चन्द्रकालानलं चक्रं ज्ञात्वा संशयवर्ज्जितम्”।१२ घोरकालानलचक्रम्–“शलाकासप्तकं चक्रं लिखित्वा चन्द्रभादितः। त्रिषु त्रिषु च ऋक्षेषु नव सूर्यादयोग्रहाः। यदङ्गे नामनक्षत्रं युद्धकारस्य जायते। फलन्तस्य प्रवक्ष्यामि एकैकस्य यथाक्रमम्। भानुना शोकसन्तापः शशाङ्कः क्षेमलाभदः। भूसुतो मृत्युमाधत्ते बुधेबुद्धिः प्रजायते। जीवे लाभः, शुभं शुक्रे, सूर्य्यपुत्रे महद्भयम्। राहुणा घातपातश्च केतौ मृत्युर्न्न संशयः। यात्राजन्मविवाहेषु संग्रामे विग्रहेऽपि वा। घोर कालानलं चक्रं ज्ञात्वा कर्म समारभेत्”।१३ गूढकालानलचक्रम्–“सप्तरेखोद्भवं चक्रं चन्द्रभाद्यं भमण्डलम्। लिखित्वा कल्पयेच्चक्रं षडङ्गं जयकाङ्क्षिभिः। दिनर्क्षाद्गण्यते चक्रे गूढसम्पुटकर्त्तरी। दण्डः कपालं वज्राङ्गं ज्ञातव्यं स्वरवेदिभिः। यत्र ऋक्षे स्थितश्चन्द्रस्तत्रादौ त्रीणि गूढकम्। सम्पुटे नव भान्यत्र कर्त्तरी च ततस्त्रिभिः। दण्डे धिष्ण्यानि च त्रीणि कपाले धिष्ण्यसप्तकम्। वज्राङ्गे त्रीणि धिष्ण्यानि षडङ्ग स्येति निर्णयः। यदङ्गे नामनक्षत्रं युद्धकारस्य जायते। वक्ष्य शुभाशुभं तस्य गूढकालानले स्थितम्। गूढस्थे विभ्रमो, युद्धे जयो भवति सम्पुटे। कर्त्तर्य्यां सक्षतं युद्धं, दण्डे भङ्गो न संशयः। कपालस्थ भवेन्मृत्युर्वज्रें तस्य महद्भयम्। गूढकालानलं चक्रं भाषितं व्रह्मजामले”।१४ शशिसूर्य्यकालानलचक्रम्–“द्वादशारं लिखेच्चक्रं मेषादि द्वादशान्वितम्। क्षेत्रयुग्मञ्च तत्रैव विख्यातं रविचन्द्रयोः। सिहाद्यं मकरान्तञ्च भानुक्षेत्रमुदाहृतम्। कुम्भादिकर्क पर्य्यन्तं चन्द्रक्षेत्रं न संशयः। चन्द्रक्षेत्रगते सूर्य्ये चन्द्रस्तत्रैव संस्थितः। यायिनो विजयोयुद्धे स्थायिनो भङ्ग नादिशेत्। सूर्य्यक्षेत्रे गते चन्द्रे सूर्य्यस्तत्रैव संस्थितः। यायी भङ्गमवांप्नोति स्थायिनो विजयो भवेत्। सूर्य्ये सूर्य्याङ्गसंयुक्ते चन्द्रे चन्द्राङ्गसंगते। तदा काले भवेद्सन्धिर्युद्धं तस्य विपर्यये। सूर्य्यक्षेत्र गते चन्द्रे चन्द्रक्षेत्रगते रवौ। महायुद्धं प्रवर्त्तेत संहारः सैन्ययोर्द्वयोः। यात्रायां युद्धकाले च चक्रमेतद्विलोकयेत्”। अत्र विशेषः। “एकेन क्रूरवेधेन विद्धो भवति चन्द्रमाः। स्वल्पं युद्धं तदा काले जायते नात्र संशयः। द्वाभ्यां वापि त्रिभिर्व्वापि पापैर्विद्धो यदा शशी। तदा युद्धं महाघोरं सैन्ययोरुभयोरपि। वक्रैः पृष्ठे भवेद्युद्धमग्रे चैवातिचारिभिः। मध्यगत्या भवेन्मध्ये पापैः सौम्यैस्तु तत् नं हि। ऊर्द्ध्वदृष्टौ भवेदूर्द्धं मध्यदृष्टौ तु मध्यमे। अधोदृष्टावधस्ताच्च केकरे पार्श्वतो भवेत्। शनिराहुकुजादित्यास्त्वेकरेखागता यदि। चन्द्रेण संयुतास्ते च तदा पात चतुष्टयम्। शनिना चन्द्रयुक्तेन जीववेधगतेन च। तदा वृष्टिर्भवेन्नूनं वर्षोपलमथोच्छ्रितम्। भौमेनाग्नेर्भवेत् पातो राहुणा लौहपातकृत्। भानु ना चण्डवातश्च सर्व्वैः सर्व्वे भवन्ति च। शुक्रेण जलपातोऽपि पांशुपातः शशाङ्कजे। गुरुणा चञ्चलापातः दिग्दाहः केतुना भबेत्”।१५ संघट्टचक्रम्–“अश्विन्यादि लिखेत् चक्रं सप्तविंशति तारकम्। त्रिकोणं नवभिर्वेधः कर्त्तव्यस्तिर्य्यगाकृति। अश्विनीरेवतीवेधी वेधश्चाश्विनिज्येष्ठयोः। मघापौष्णै मथाश्लेषे अश्लेषामूलयोस्तथा। एवं संघट्टचक्रं च कार्य्यमृक्षगता ग्रहाः। भूपनामर्क्षसंघट्टे युद्धं भवति नान्यथा। निर्वेधे सौम्यबेधे च युद्धं नास्ति न संशयः। क्रूरवेधे भवेद्युद्धं तत्काले घोरदर्शनम्। युद्धकाङ्क्षी भवेद्राजा यस्य भंक्रूरवेधितम्। युद्धद्वेषी भवेत् सौम्ये तथा वेधविवर्जिते। सौम्यक्रूरविभागेन मित्रामित्र क्रमेण च। वक्रातिचारगत्या च युद्धं स्वल्पञ्च जास्ति च।१६ कुलाकुलचक्रम्(३)–“द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम्। बिषमा अकुलाः सर्वाः शेषाश्च तिथयः कुलाः १ रविचन्द्रौ गुरुः सौरिश्चत्वारोऽप्यकुलामताः। भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः २। वारुणार्द्राभिजिन्मूलं कुलाकुलमुदीरितम्। कुलानि समधिष्ण्यानि शेषभान्यकुलानि च ३। तिथौ वारे च नक्षत्रे अकुले यायिनो जयः। कुलाख्ये स्थायिनोनूनं सन्धिश्चैव कुलाकुले”।१७ कम्भचक्रम्(२)–“कुम्भाकारं लिखेच्चक्रं तिर्य्यग्रेखाप्रभेदितम्। तस्य चोर्द्ध्वमधोलेख्यमेकैकान्तरभं क्रमात्। भानुभाद्यं न्यसेत्तत्र रिक्तां पूर्णामिति क्रमात् १। एवं राशिक्रमाल्लेख्यारिक्ता पूर्ण्णा इति क्रमात् २। रिक्ते रिक्ता भवद्यात्रा पूर्ण्णे यात्रा शुभावहा। इति यात्रा फलं ज्ञेयं कुम्भचक्रद्वये स्थितम्”।१८ प्रस्तारचक्र–“त्रयोदशोर्द्धगारेखा दश रेखाश्च तिर्य्यगाः। भवेयुः कोष्ठकास्तत्र सङ्ख्ययाष्टोत्तरं शतम्। मेषाद्या राशवोलेख्यास्तिर्य्यक् प्रथमपङ्क्तिषु। नवांशराशयश्चाधो नवधा सर्व्वराशिषु। कवर्गान्नवधा लेख्यं कोष्ठके प्रथमाष्टके। द्वितीये सप्तमे चाद्या एवं टाद्यास्त्रिषष्ठले। यशवर्गौ चतुर्थे च अवर्गः पञ्चमे तथा। नवद्वादशके ताद्याः शेषे पाद्याः द्विकोष्ठके। चतुरक्षरसंयोगात् अश्विन्यादिक्रमेण च। ज्ञेया नवांशका वर्ण्णा मेषादिराशिमण्डले। भौमं शुक्रं बुधं चन्द्रं भानुं सौम्यं सितं कुजम्। गुरुं सौरिं शनिं जीवं विदध्यात् कोष्ठकोपरि। कोष्ठाक्षरगतो ज्ञेय श्चन्द्रस्तत्कालसम्भवः। तदधीनं फलं सर्व्वं लाभालाभजयादिकम्। दिनऋक्षगतानाड्यः सप्तविंशति ताडिताः। षष्टिभक्ते भवेदृक्षं तत्कालेन्दुंगतं स्फुटम्। इष्टनाड्योहताधिष्ण्यैः षष्टिभागाप्तशेषके। अश्विन्यादीन्दुभुक्तेन युक्तस्तत्कालचन्द्रमाः। क्रूर क्षेत्राक्षरे चन्द्रे न शुभं सर्व्वकर्म्मसु। शुमक्षेत्रे शुभं चैव प्रस्तारे चन्द्रनिर्ण्णयः। नाडीफलौ यशौ वर्गा ववर्गोद्युफलोदयः। कुःपक्षेण च मासेन ऋतौ च तोऽयनोदयः। जन्मकाले विवाहे च याने जन्मनि सङ्गरे। शशाङ्कस्य फलं श्रेष्ठं स्वरशास्त्रेषु निश्चितम्। अंशकेनांशकं गुण्यं ध्रुवयुक्तं कृतं पुनः। चतुःस्थामुनयः (७, ७, ७, ७), सूर्य्याः १२ सप्त ७ रन्ध्र ९ गुणेषवः ५३। मासाः १२ शैलाः ७ इना १२ स्तत्वा २४ राशीनां च ध्रुवाइमे। गुणाः ३ शैलाः ७ युगाः ४ पञ्च सप्त पञ्चाद्रयो ७ युगाः ४। नागा ८ वाणा ५ रसा ६ भूता ५ मेषादेरंशका इमे। नग्नस्य योऽंशकोदेवि! तस्य स्वामी च यो ग्रहः। तद्वशात् कालविज्ञानमुदितांशकसंख्यया। सूर्य्येऽयनं क्षणश्चन्द्रे दिनान्यारे तथा बुधे। ऋतवंश्च, गुरौ मासाः, शुक्रे पक्षः प्रकीर्त्तितः। सूर्यपुत्रे समा देवि! सर्व्वदैवंविधिः स्मृतः”।१९ तुम्बरचक्रे दृष्टिचक्रम्–“प्रस्तारे द्वादशारे च ऋक्षाक्षर- क्रमेण च। नवांशराशिमार्गेण चक्रं भवति तुम्बरम्। यत्र मेषादिराशिस्थस्तत्कालेन्दुः प्रजायते। ग्रहदृष्टिवशात् सर्व्वं ज्ञेयं तत्र शुभाशुभम्। त्रिदशे पञ्चमे धर्मे चतुर्थाष्टमसप्तमे। पादवृद्ध्या निरीक्षन्ते प्रयच्छन्ति तथा फलम्। ऊर्द्धदृष्टी च भौमार्क्कौ केकरौ बुधभार्गबौ। समदृष्टी च जीवेन्दू शनिराहू त्वधोमुखौ। मेषो वृषो मृगः कन्या कर्कमीनतुलास्तथा। आदित्यादिग्रहेषूच्चा नीचं तु तस्य सप्तमम्। परमोच्चा दिशो१० रामा ३ अष्टाविंशतिथोन्द्रियाः १५। ५। सप्तविंशास्तथा विंशः सूर्य्यादीनां तथांशकाः। परमोच्चात् परं नीचमर्द्धचक्वांशसंख्यया। नीचस्थानात् क्रमेणोच्च उक्तोऽसावत्र खेचरः। उच्चान्नीचाच्च यत्तुर्य्यं समस्थानं तदुच्यते। उच्चनीच समस्थाने चन्द्रं ज्ञात्वा फलं वदेत्। उच्चस्थानस्थितं चन्द्रं भोमादित्यौ प्रपश्यतः। समस्थाने च गुर्विन्दू नीचस्थं राहुसूर्य्यजौ। बुधशुक्रौ त्रिकोणे च चन्द्रं तत्कालसम्भवम्। अन्यत्रस्थं न पश्यन्ति जात्य न्धा इव खेचराः। सौम्यदृष्टिस्थिते चन्द्रे सर्वं सौख्यं प्रजायते। क्रूरदृष्टिगतं पुंसां मृत्युर्हानिर्महद्भयम्। एवं शुभयुते चन्द्रे सर्वं सौम्यं प्रजायते। क्रूरैः क्रूरफलं तत्र मिश्रैर्मिश्रं न संशयः। रक्तं पीतं सितं कृष्णं चन्द्रे वर्णचतुष्टयम्। ज्ञातव्यञ्च प्रयत्नेन प्रश्नकाले सदा बुधैः। रविर्भौमः सितः सौम्योगुरुः सौरिः श शी तमः। वर्गेशाश्च अवर्गादौ ग्रहाज्ञेया विचक्षणैः। स्यातां रविकुजौ रक्तौ पीतौ जीवबुधौ ग्रहौ। शशिशुक्रौ सितौ वर्णौ कृष्णत्वं राहुमन्दयोः। यद्वर्ण वर्गगश्चन्द्रस्तस्य स्वामी च यो ग्रहः। तस्य वर्णेन वर्णत्वं शशाङ्कस्य प्रजायते। रक्ते चन्द्रे भवेद्युद्धं कृष्णे मृत्युर्न्न संशयः। पीते शुभं विजानीयात्सिते शुभतरं फलम्”।२० तुम्बुरचक्रम्–“द्वादशारं लिखेच्चक्रं नाडिकैका त्रिधा पुनः। पञ्चमे पञ्चमे स्थाने तिर्य्यग्वेधं तथा कुरु। अष्टोत्तरशतं चैव नाडीसंख्या प्रजायते। अक्षराण्यस्य चक्रस्य नाडिकाग्रेषु विन्यसेत्। क्रूरवेधाक्षरे चन्द्रो यदा तत्कालसम्भवः। तदा तस्य फलं वक्ष्ये विवाहादौ शुभाशुभम्। विवाहे क्रूरवेधेन वैधव्यं च विशीलता। यात्रायाञ्च भवेद्धानिर्मृत्युर्भङ्गोमहाहवे। क्रूराः सर्वे हानिकराग्रहाः सौम्याः शुभप्रदाः। द्व्यादिवेधो भवेद्यस्य तस्य मृत्युर्न्न संशयः। तत्कालेन्दुफलं सर्व यद्क्तं चादिजामले। गोपितंत्वन्यशास्त्रेषु मया चात्र प्रकाशितम्”। अङ्गशब्दे ७३ पृ० चक्रनामोद्देशे चरमित्यशुद्धम्। तुम्बरमिति शुद्धम् एवमन्यस्याप्यशुद्धस्यात्र दर्शितचक्रनामानुसारेण तत्र शुद्धता बोध्या२१ भूचरखेचरचक्रम्–“अधःस्थं भूचरं चक्रमूर्द्ध्वस्थं खेचरं तथा। चरस्थिरविभागेन स्थायी यायी फलं क्रमात्। मेषादिद्वादशारे च वाममार्गेण भूचरम्। तस्योर्द्धं खेचरं चक्रं दक्षमार्गेण सर्वदा। ये ग्रहाराहु मार्गस्था भूचक्रे ते व्यवस्थिताः। सूर्य्यमार्गेण ये लग्नाः खेचराः खेचरस्थिताः। भूचक्रे संस्थितैः पापैः खेचक्रे सौम्यखेचरैः। स्थायियायिबलं ज्ञेयं क्रमात् स्वर विचक्षणैः। सौम्यश्च भूचरे चक्रे क्रूराः खेचरगा यदि। संहारोजायते तत्र सैन्ययोरुभयोरपि। भूचरस्थाग्रहा यत्र दृश्यन्ते च शुभाशुभाः। यायी संहारमायातिस्थायी सार्द्धक्षये जयी। खेचरे खेचराः सर्वे सौम्याः पापगतायदा। स्थायिनो बलसंवर्त्तो यायी जयति सक्षतः। भूचरे खेचरे सर्वे यदा मिश्रा शुभाशुभाः। तदा मिश्रं फलं वाच्यं स्थायिनो यायिनोऽपि वा”।२१ पथचक्रम्–“अश्विन्यादीनि धिष्ण्यानि पङ्क्तियुक्त्या लिखेद्बुधः। नाडीनाञ्च त्रये वेधः सर्पाकारः पथाख्यके। क्रूरवेधस्थिता नाडी तद्धिष्ण्येन युते दिने। यात्रा युद्धं न कर्त्तव्यं पथचक्रे त्विदम फलम्”!२२ नाडीचक्रम्(३)–आर्द्रादिकं लिखेच्चक्रं मृगान्तञ्च त्रिनाडिकम्। भुजङ्गसदृशाकारं मध्ये मूलं प्रतिष्ठितम्। यद्दिने चैकनाडीस्थाश्चन्द्रनामर्क्षभास्कराः। तद्दिनं वर्जयेत्तस्य विवाहे विग्रहे रणे।” १ एकनाडीगते भौमे रविजीवसमन्विते। यदा चन्द्रेण संयुक्ते तदाक्षौणी परिप्लुता। ऊर्द्ध्वनाडीगतो वायु र्मध्यनाड्यां समोभवेत्। अधोनाड्यां भवेत्वृष्टि रेतद्वृष्टेस्तुलक्षणम् २ विवाहाङ्गत्रिनाडीचक्रम्–“अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडीकम्। तत्र वेधवशात् ज्ञेयं विवाहादि शुभाशुमम्। आद्यनाडीगनक्षत्राण्यश्विरौद्र पुनोत्तराः ७। १२। हस्तेन्द्रमूलबारुण्यः पूर्वभाद्रपदस्तथा १ याम्यः सौम्यो ५ गुरु ८ र्य्योनि ११ श्चित्रा मित्र १७ जलाह्वयम् २०। धनिष्ठा चोत्तरा भाद्रा मध्यनाडीव्यवस्थिताः। कृत्तिका रोहिणी सार्प ९ मथास्वातीविशाखकम्। उत्तरा श्रवणं पौष्णं २७ पृष्ठनाडीव्यवस्थिताः। वेधनाड्यृक्षमश्विन्यादिषष्ठं च द्वितीयकम्। याम्यादि तुर्य्यतुर्य्यं च कृत्तिकादि द्विकं द्विकम्। एवं निरीक्ष्य बोद्धव्यं कन्यामन्त्रे गुरौ स्वरे। पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे। एकनाडीस्थऋक्षाणि यदा स्युर्वरकन्ययोः। तदा बेधं विजानीयाद्गुर्वादिषु तथैव च। प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतोवदेत्। प्रनष्टं जन्मभं यस्य तस्य नामार्क्षतो वदेत्। द्वयोर्ज्जन्मभयोर्वेधो द्वयोर्न्नाम र्क्षयोस्तथा। जन्मनामर्क्षयोर्वेधो न कर्त्तव्यः कदाचन। एकनाडीस्थिता दुष्टा भर्त्तुश्चैव कुलाङ्गना। तस्मान्नाडीव्यधोवीक्ष्यो विवाहे शुभमिच्छता। आद्यनाडी व्यधे भर्त्ता मध्यनाडीव्यधे द्वयम्। पृष्ठनाडीब्यधे कन्या म्रियते नात्र संशयः। समासन्ने व्यधे शीघ्रं दूरवेधे चिरेण तु। व्यधान्तरभमानेन वर्षे रिष्टं प्रजायते। एकर्क्षं जायते यत्र विवाहे वरकन्ययोः। मूलवेधो भवेत्तत्र महादुष्टफलप्रदः। एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवताः। तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत्। प्रभुःपण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम्। एक नाडीगता भव्या न भव्या वेधवर्ज्जिताः। क्रूर ग्रहगता नाड्यो यस्य जन्मर्क्षसम्भवाः। तस्य मृत्युर्न्न सन्देहो यात्रायुद्धे भयं भवेत्। द्व्यादिक्रूरव्यधो यस्य चक्रे चैव त्रिनाडिके। हानिर्विघ्नं भयं क्लेशोजायते बधबन्धनम्। एवं सौम्यव्यधो यस्य जन्मधिष्ण्ये प्रजायते। जयो लाभः सुखं तस्य जायते नात्र संशयः। शुभपापग्रहैर्विद्धा यस्य जन्मर्क्षनाडिका। तस्य मिश्रं फलं वाच्यं नाडीचक्रे स्वरज्ञकैः” २। “एतच्चक्रं समालिख्य अश्विन्याद्यं हि पङ्क्तितः। वेधो द्वादशनाडीभिः कर्त्तव्यः पन्नगाकृतिः। आद्यंशेन चतुर्थांशं चतुर्थांशेन चादिमम्। द्वितीयेन तृतीयञ्च तृतीयेन द्वितीयकम्। एवं चांशव्यधोयेषां जायते वरकन्ययोः। तेषां मृत्य्रन्नसन्देहः शेषांशाः स्वल्पदुःखदाः। गुरुमन्त्राश्च देवाश्च स्वस्थाने च सुशोभनाः। अन्यांशकगताभव्या ज्ञातव्या स्वरवेदिभिः। एवं जानाति यश्चक्रं चक्रराजं त्रिनाडिकम्। तस्य पाणितले ज्ञानं सर्वदैक प्रतिष्ठितम्” ३।२३ कालचक्रम्–“नवोर्द्धगानि धिष्ण्यानि नव तिर्य्यग्गतानि च। अधोगतानि धिष्ण्यानि नव चैव विनिर्द्दिशेत्। चतुर्न्नाडीकृतो वेघो मध्यऋक्षत्रयोज्झितः। सर्पाकारञ्च तच्चक्रं कालचक्रं प्रजायते। त्रीणि मध्यगतर्क्षाणि तानि कालमुखानि च। कोणस्थिते च ये धिष्ण्ये ते च दंष्ट्रे द्वयं मतम्। दिनर्क्षमादितः कृत्वा नामर्क्षं यत्र संस्थितम्। मुखदंष्ट्रागतो मृत्युः शुभमन्यत्न संस्थिते। ज्वरिते नष्टदग्धे च विवाहे विग्रहे रणे। काल दंष्ट्रास्यगं नाम यस्य तस्य महद्भयम्”।२४ सूर्य्यफणिचक्रम्–“सप्तविंशतिभान्यत्र पङ्क्तियुक्त्या क्रमेण च। त्र्यन्तरे त्र्यन्तरे चैव फणिचक्रं त्रिनाडिकम्। यत्र ऋक्षे स्थितो भानुस्तदादि गणयेद्बुधः। नामर्क्षं च स्थितं यत्र ज्ञेयं तत्र शुभाशुभम्। कुर्य्यान्मृत्युं च रोगञ्च नाडीवेवं गतो नृणाम्। वर्ज्जयेत् सर्व्वकार्य्येषु युद्धकाले विशेषतः। निर्व्वेधर्क्षकमध्यस्थं यस्य नाम प्रजायते। सिद्ध्यन्ति तस्य कार्य्याणि संग्रामे विजयो भवेत्”।२५ “चन्द्रफणिचक्रम्–“सूर्य्यफणीश्वरे चक्रे यदुक्तं च शुभाशुभम्। चन्द्रादौ तत्फलं चक्रे ज्ञेयं सर्वं फंणीश्वरे।”२६ कविचक्रम्–“हीनसैन्यः सदा स्थायी यायी सैन्याधिकः सदा। अबलस्य बलोपायं वक्ष्येऽहं कविसङ्गरे। प्रयाणे चोत्प्रयाणे वा निशीथे मृगयाङ्गते। शोकार्त्ति व्यसनप्राप्ते हतसैन्ये विनायके। अष्टधा कविकालस्तु कथितो दुर्बले नृपे। इत्थं कुर्वन् परान् युद्धे जयतीह न संशयः। चतुरस्रं त्रिनाडीकम् कविचक्रं लिखेद्वुधः। प्रवेशे निर्गगे भानि स्थानविष्ण्यादि विन्यसेत्। यत्र नामाङ्किते स्थाने शत्रुसैन्यं व्यवस्घितम्। तत्र चक्रम् समालेख्यं सेनाध्यक्षर्क्षपूर्वकम्। त्रीणि त्रीणि प्रवेशे च ईशादौ विदिशि क्रमात्। निर्गमे तुर्य्यतुर्य्यौ च पूर्वाशादिक्रमेण च। सौम्याः क्रूरा ग्रहायत्र प्रवेशे निर्गमे स्थिताः। वक्रातिचारगास्तत्र ज्ञात्वा कविरणं कुरु। जीवपक्षस्थिते चन्द्रे अकुलर्क्षे प्रवेशके। यानं कविरणे प्रोक्तं ज्ञात्वा प्रवेशनिर्गमौ। उदितेऽस्तस्वरो यस्य यत्र जन्मेन्दुसम्भवः। तद्दिने ते भटाः सर्वे वर्जनीयाः कवौ रणे। क्रूरे शीघ्रे प्रवेशर्क्षे यत्र तत्र बिशेद्रणे। वक्रस्थे निर्गमे सोम्ये तद्दिशि निर्गम कुरु। प्रवेशर्क्षे प्रवेशं च निर्गमे निर्गमे क्रुरु। भूबलं पृष्ठतः कृत्वा प्रोक्तः कंविरणे जयः।”२७ खलचक्रम्–“चतुरस्रं चतुर्द्वारं” खलचक्रं लिखेद्बुधः। नन्दाद्यास्तिथयोन्यस्याः पूर्यद्वारक्रमेण च। पूर्वाशादिचतुष्के तु सप्त सप्त क्रमेण तु। कृत्तिकादि लिखेन्मध्ये खले मान्यष्टविंशतिम्। शनिचन्द्रौ कुज सौम्यौ भानुशुक्रौ वृहस्पतिः। मध्ये बहिर्गतादेया अपसव्यं दिशां क्रमैः। यद्दिने यद्दिशि स्युस्ते तिथिधिष्ण्यदिनाधिपाः। प्रवेशः खलकद्वारे कृर्त्तव्यस्तेन सर्वदा। खलकाभ्यन्तरे कालः शनिसूर्य्येज्यमङ्गलैः। बुधशुक्रेन्दुभिर्बाह्ये यायी स्थायी क्रमाज्लयी। खलके मध्यनक्षत्रे यो ग्रहो यत्र संस्थितः। तत्र स्थाने गते चन्द्रे फलं वक्ष्ये शुभाशुभम्। सूर्य्यस् थानेस्थिते शूरे मृत्युश्चन्द्रसमाश्रिते। भौमस्थाने भहाक्रोधी बुधस्थाने महद्भयम्। गुरुस्थाने स्थितः स्थास्नुर्भङ्गमायाति भार्गवे। शनिस्थे सक्षतं युद्धं राहुस्थे मरणं ध्रुवम्। वक्रस्थाने भवेद्युद्धं शीघ्र स्थाने च धावति। समचारगते स्थायी क्षीणेन्दुस्थे च मोहनम्। क्रूरपृष्ठे जयो युद्धे, सौम्यपृष्ठे पराजयः। क्रूरे च संमुखे मृत्युर्ज्जयः सौम्यग्रहे स्थिते। योधयोः पृष्ठगाः क्रूरा उभयोर्म्मृत्यु कारकाः। सौम्याः सन्धिप्रदा युद्धे मिश्रा मिश्रफलप्रदाः।”२८ कोट चक्रम् (८)–“अथातः सं प्रवक्ष्यामि कोटयुद्धस्य निर्णयम्। अल्पारिः कुरुते यत्र भूरिसैन्यपराभवम्। यस्याश्रयबलादेव राज्यं कुर्वन्ति भूतले। विग्रहं चतुराशायां सामात्यैः शत्रुभिःसह। विषमं दुर्गभं घोरं चक्र भीरुभयावहम्। कपिशीर्षञ्च शोभाद्यं रौद्राट्टलकमण्डिनम्। प्रतोली यत्र कालास्यं परिखा कालरूपिणी। रणमण्डकृताटोपः ठिङ्कुनीयन्त्रमण्डितम्। मुसलैर्मुद्गरैः पाशैःकुन्तखङ्गैर्धनुःशरैः। संयुतैः सुभटैः शूरैरिति दुर्गं समादिशेत्। दुर्गस्थो दुर्गमः शत्रुरसाध्यो येन सिध्यति। कोटचक्रं प्रवक्ष्यामि विशषादष्टधा मतम्। प्रथमं मृण्मयं कोटं जलकोटं द्वितीयकम्। तृतीयं ग्रामकोटञ्च चतुर्थं गिरिगह्वरम्। पञ्चमं पर्वतारोहं षष्ठकोटञ्च डामरम्। सप्तमं वक्रभूमिस्थं विषमाख्यं तथाष्टमम्। मृण्मथे साधयेत् खण्डिर्जलस्थे जलमोक्षणम्। ग्रामदुर्गेऽग्निदानञ्च प्रवेशो गह्वंरस्य च। पर्वते स्थानभेदश्च भूबलं डामरेरणे। चक्राख्ये कविंयोगश्च विषमे स्थायियायिता। अतिवर्ण्णं कालकर्णञ्चक्रावर्त्तं च डामरम्। तालायर्त्तञ्च पद्माङ्गं यक्षभेदञ्च शाम्बरम्। एतन्नामाष्टकं ज्ञेयं दुर्गाष्टकक्रमेण च। यस्य वर्गस्य योभक्ष्यः स वर्गस्तस्य भङ्गदः। अ गरुडः क मार्ज्जारः च सिंहः ट शुनीसुतः। त सर्पः प आखुकश्च य गजः श अजासुतः। दुर्गवर्गस्य ये भक्ष्या वर्ज्यास्तद्भागजा नराः। तद्वर्ग्यास्तु रणे त्याज्या न कर्त्तव्या गडाधिपाः स्ववर्गपञ्चमे स्थाने खण्डिर्भङ्गश्च जायते। अवर्गाद्यष्टकं ज्ञेयं पूर्वाद्यष्टदिशां क्रमात्। कोटचक्रं लिखेच्चादौ चतुरस्रं त्रिनाडिकम्। कृत्तिकादीनि भान्यत्र साभिजन्ति न्यसेद्बुधः। बहिः कोटे च मध्ये च मध्ये दुर्गे बहिर्बहिः। प्रवेशो निर्गमस्तत्र ज्ञातव्यः स्वरवेदिमिः। ईशात् प्रवेशधिष्ण्यानि मध्यात् प्राचीविनिर्गमः। वहिर्द्वादश भान्यत्र प्राकारे तारकाष्टकम्। दुर्गमध्ये तथा चाष्टौ तन्मध्ये स्तम्मतुर्य्यकम्। कृत्तिका पुष्यसार्पञ्च मघास्वातीविशाखकम्। अनुराधाभिजित् कर्णो धनिष्ठाश्वियमाह्वयम्। ब्राह्मं पुनर्वसु भाग्यं चित्रा ज्येष्ठा तथोत्तरा १२। शतभं रेवती चैवं प्राकारे तारकाष्टकम्। मृगरौद्रोत्तराहस्तमूलमाषाढपूर्वकम्। पूर्वोत्तरा तंथा भाद्रा मध्ये ताराष्टकं तथा। प्राच्यां रौद्रं यमे हस्तं पूर्वाषाढा च पश्चिमे। कौवेर्य्यामुत्तरा भाद्रा ह्येतत्स्तम्भचतुष्टयम्। कृत्तिकाद्यं मघाद्यञ्च मैत्राद्यं वासवादिकम्। त्रीणि त्रीणि प्रवेशे च द्वादशर्क्षाणि निर्गमे। कृत्तिकादिरयं न्यासः सुबेधार्थः प्रदर्शितः। दुर्गभाद्गणना चात्र ग्रहैर्वाच्यं ततः फलम्। दुर्गनामस्थितो वर्णोयद्वर्गोच्चारितः स्फुटम्। तदाशादि लिखेच्चक्रं क्रमात् स्वरविचक्षणैः। चतुरस्रं १ वृत्तं २ दीर्घं ३ त्रिकोणं ४ वृत्तदीर्घकम् ५। अर्द्धचन्द्रं ६ तथा ज्ञेयं गोस्तनं ७ धनुराकृति ८। चतुरस्रे यथा न्यासो भूमिभागक्रमेण च। प्रवेशे निर्गपे ह्यस्ति तथा वृत्तादिसप्तके। दुर्गे भित्ति विभागेन दातव्यं धिष्ण्यमण्डलम्। तत्र स्थैः खेचरैः सर्वैः फलं वाच्यं यथोदितम्। बाह्यभे मध्यभे वापि यत्रस्थाः क्रूरखेचराः। तत्रस्थाने कृतं यत्न हन्ति दुर्गं ससैनिकम्। बुधशुक्रेन्दुजीवाश्च सदा सौम्या ग्रहा मताः। शन्यर्कराहुकेत्वारा मताः क्रूरा बुधैरिमे। त्रिप्रकारो ग्रहे चारो वक्रः शीघ्रः समोमतः। उच्चनीचसमास्ते च त्रिधा चक्रे भ्रमन्तिं च। ऊर्द्धं चाधः समास्तिर्ष्यग्दृष्टिभेदश्चतुर्विब्धः। स्वके मित्रे समं शत्रौ चतुर्द्ध च गृहे ग्रहः। सूर्य्यमुक्ता उदीर्यन्ते शीघ्राश्चार्क्के द्वितीयगे। समास्तृतीयगे यान्ति मन्दगत्या चतुर्थगे। वक्रः स्यात् पञ्चषष्ठेऽर्के त्वतिवक्रोऽष्टसप्तमे। नवमे दशमे भानौ जायतेकुटिला गतिः। शीघ्रगाश्च भवन्त्येते द्वादगैकादशे तथा। राहुर्वक्रः सदा ज्ञेयो रवीन्दू शीघ्र गौ तथा। शीघ्रोऽतिचारगत्या च समश्च सप्तमन्दया। वक्रातिवक्रकौटिल्यगत्या वक्रग्रहोमतः। क्रूरोऽतिक्रूरतां याति सौम्थोयात्यतिसौम्यताम्। वक्रचारे समुत्पन्ने शीघ्रे तूक्तविपर्य्ययः। मेषो वृषोमृगः कन्या कर्क मीनतुलास्तथा। रव्यादीनां क्रमादुच्चं नीचं यत्तस्य सप्तमम्। उच्चान्नीचाच्च यत्तुर्य्यं समस्थानं तदुच्यते। उच्चस्थं मध्यमं नीचं वक्रे यत्र व्यवस्थितम्। ऊर्द्धदृष्टी च भौमार्क्कौ केकरौ बुधभार्गवौ। समदृष्टी च जीवेन्दू शनिराहू त्वधोदृशौ। सुहृदोर्क्केन्दुभौमेज्या एवं शुक्रज्ञभानुजाः। अन्योन्यं वैरिणोह्येते राहीः सर्वे च शत्रवः। स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे ग्रहे। अर्द्धं समगृहे ज्ञेयं पादं शत्रुगृहस्थिते। क्रूरोगर्भे पुरंहन्ति प्राकारे खण्डिकारकः। बहिःस्थो वेष्टके सैन्थे मृत्युदो नात्र संशयः। क्रूरागर्भे, शुभा बाह्ये निश्चितन्ते पुरान्तकाः। सौम्या मध्ये बहिः क्रूरा असाध्यं दुर्गमुच्यते। क्रूरचतुष्टयं मध्ये प्राकारे सोम्यखेचराः। भेदोभङ्गो भवेत्तत्र विना युद्धेन गृह्यते। प्राकारे संस्थिताः क्रूरामध्ये सौम्याग्रहा यदि। दुर्गभङ्गे समुत्पन्ने भङ्गमायाति वेष्टकः। मध्ये नाडीस्थिताः सौम्याः क्रूरां बहिरवस्थिताः। सैन्यावर्त्तोबहिः शत्रोर्थिना युद्धेन जायते। प्राकारे पुरमध्ये च यदा क्रूरा व्यवस्थिताः। सौम्या बाह्ये तदा दुर्गमयत्नेनापि सिद्ध्यति। सौम्या मध्ये च कोटे च बाह्ये पापग्रहो यदि। देवैर्ब्रह्मादिभिर्दुर्गं रणारम्मे न गृह्यते। प्राकारबाह्यगाः क्रूराः सौम्या मध्यगता यदि। युद्धे प्राकारखण्डिश्च पुरभङ्गो न जायते। सौम्या बाह्ये तथा कोटे मध्ये क्रूरग्रहाःस्थिताः। स्वयं दुर्गं प्रयच्छन्ति वेष्टकस्य गडाधिपाः। बाह्याभ्यन्तरगाः क्रूणाः प्राकारे शोभना ग्रहाः। रिपुपक्षः क्षयं याति विनायुद्धेन निश्चितम्। प्राकारस्था ग्रहाः क्रराबहिर्म्मध्ये शुभाःस्थिताः। समयुद्धं भवेत्तत्र खण्डिःपाता दिने दिने। स्तम्भान्तरगता यस्यं ग्रहाः सौम्याः शुभान्विताः। भवेयुस्तस्य कोटस्य न नाशस्तु कदाचन। यदि साक्षादहं (शिवः) तत्र युध्यमानोरणेऽम्बिके।! तथापि न भयं विद्यादिति सत्यं च नान्यथा। भौम्याः क्रूराग्रहाश्चाष्टौ मध्ये प्राकारबाह्यगाः। एकस्था यत्र कुर्वन्ति सङ्ग्रामं तत्र दारुणम्। गजाश्वरथभूपालैः सामन्तैर्मण्डलेश्वरैः। तत्राप्यकभटामर्द्द उभयोः सैन्ययोः क्षयः। बाह्ये शत्रुप्रवेशर्क्षे संग्रामं चारभेद्यदा। तदा सिध्यति तत् दुर्गं न करोतीह विस्मितम्। कोष्टस्थैस्तु गतोयोद्धा शस्त्रहस्तो महाबलः। शस्त्रंत्यक्त्वा ब्रवीत्येवं धर्म्ममार्बं ददख मे। निर्गमेषु च ऋक्षेषु संग्रामं यदि चारभेत्। नैव सिद्ध्यति तद्वुर्गं कोटस्थश्च जयावहः। बाह्यनाड्यां स्थिता ये च ग्रहाः पापान्विता यदा। मध्ये शुभान्विता ये च तत्र भङ्गो न जायते। गडाधीशाः स्मृताः सौम्या वेष्टाधीशाश्च पापकाः। क्षेत्रयुग्मे स्थिता ये च ज्ञातव्याश्च प्रयत्नतः। गडाधीशो भवेच्चन्द्रो वेष्टाधीशश्च भास्करः। चन्द्रसूर्य्यविभागेन ज्ञातव्यं च बलाबलम्। अंशाधीशोभवेच्चन्द्रस्ताराधीशोहि भास्करः। चन्द्रसूर्य्यगतिं ज्ञात्वा पश्चाद्द्वेषं तु कारयेत्। वेष्टाधीशो भवेन्मध्ये गडाधीशो हि याह्यगः। स्वयं दुर्गं प्रयच्छन्ति वेष्टकस्य गडाधिपाः। चापकुन्तगदापाशखङ्गहस्तैर्महाभटैः। अभङ्गयोर्द्वयो राज्ञोः सेन्यावर्त्तो हि जायते। वाहिन्यो रक्तवाहिन्यो दुस्तराः प्रेतसङ्कुलाः। वसासृक्पङ्कलिप्ताङ्गा अन्त्रमालावगुण्ठिताः। गृध्रकाकशिवाश्येनशाकिनीप्रेतराक्षसाः। वेतालखेचरा भूताः र्पिशाचाः स्वेच्छयादृताः। ईदृशञ्च मादाथोरं तत्काले जायते ध्रुबम्। न कश्चिद्विजयी युद्धेद्वयं याति यमालयम्। समसंख्याः शुभाः क्रूराः बहिर्म्मध्ये यदा सिथताः। तदा सन्धिं विजानीयात् सैन्ययोरुभयोरपि। क्रूरैर्भङ्गोजयः सौम्यैर्मिश्रै र्मिश्रं फलं मतम्। विचार्य्य युद्धं कर्त्तव्यं कोटचक्रे स्वरोदये। प्रबेशधिष्ण्यगे चन्द्रे जीवपक्षर्क्षसंस्थिते। निशि कविरणं दुर्गे कर्त्तव्यं बाह्यसैन्यकैः। निर्गमर्क्षस्थिते चन्द्रे दुर्गाभ्यन्तरगैर्न्नृपैः। कर्त्तव्यं कवियुद्धं तु रात्रौ सुप्ते वहिर्ज्जने। प्रवेशनिर्गमावुक्तौ सैन्ययोरुभयोर्न्निशि। कवौ कोटे जयोयुद्धे विपरीते पराजयः। क्रूरोवक्री प्रवेशर्क्षे पुरमध्यगतो यदा। तदा कोटविनाशाय कोटम् थो बाह्यभूपतेः। प्रवेशे बाह्यगैर्वक्रैः क्रूरैः स्वसैन्यविग्रहः। दुर्भिक्षं मृत्युर्भङ्गश्च बहिःसैन्यस्य जायते। निर्गमर्क्षे बहिःस्थे च क्रूरोवक्रं करोति चेत्। प्राकारस्य भवेद्भङ्गः प्राकारस्थे पुरस्य च। पुरभे निर्गमे वक्राः कथञ्चित् क्रूरखेचराः। दुर्गं सुक्त्वा तदा काले दुःर्गस्थः प्रपलायते। यथा क्रूरैस्तथा सौम्यैः फलं ग्राह्यं विपर्य्यये। मिश्रैर्मिश्रं विजानीयात् कोटचक्रे न संशयः। उक्तग्रहैः समायोगो न चात्यै- र्न बलोञ्झितैः। न भास्करकरोच्छिन्नैर्न खेचरपराजितैः। दुर्गसैन्यं तथा तूच्चे प्राकारे मघ्यभागतः। नीचस्थ वेष्टक सैन्य ज्ञातव्य स्वरवेदिभिः। कोटं कोटाधिपौ नीचौ निघ्नन्तौ भौमभास्करौ। समस्थौ च पुरं सर्वमुच्चस् थौ निफलौ च तौ। प्राकारवेष्टकान् घ्रन्तावुच्चस्थौ राहुसूर्य्यजौ। प्राकारस्थौ बहिःसैन्यं नीचस्थौ निःफलौ चतौ। समदृष्ट्या गुरु चन्द्रौ पश्यतः सर्वतः सदा। तिर्य्यकस्थानं बुधशुक्रौ फलदौ नात्र संशयः। ऊर्द्ध्वदृष्टिग्रहैः कुर्य्यात्ढङ्कुलीयन्त्रवाहनम्। समे च साधयेत् खण्डिरन्ध्रपातमधोमुखे। दुर्गमध्यस्थिते सूर्य्ये जलशोषः प्रजायते। चन्द्रे भङ्गः, कुजे दाहो, बुधे बुद्धिबलानराः। वाक्पतौ दुर्गमध्यस्थे सुभिक्ष प्रचुरं जलम्। चलचित्तानराः शुक्रे, मृत्युरोगो शनैश्चरे। दुर्गमध्ये स्थिते राहौ भेदोभङ्गो महद्भयम्। केतौ मध्यगते तत्र विषदानं गडाधिपे। इत्थमुक्तं फलं मध्ये एवं बाह्यस्थितैर्ग्रहैः। उपग्रह समायोगादत्यन्तं प्राणसंशयः। अकारादिस्वराः पञ्च पूर्वाद्याशाचतुष्टये। मध्येऽन्त्यं सव्यमालिख्य अन्तस्थाने च खण्डिका। दुर्गनाम्नः स्वरोयस्य बालो वास्तमितोऽपि वा। तद्दिने प्रारभेद्युद्धं दुर्गं सिद्ध्यति नान्यथा। वज्रार्गलविधांनं च कर्त्तव्यं दुर्गरक्षणे। भञ्जने यमराजाख्यं यदुक्तं चादिजामले। शुक्रोबुधोगुरुर्मन्दो राहुर्मन्दः सितोबुधः। चन्द्रः सूर्य्यः शनिः सौम्यो वैशाखात् कोटपालकाः”।२९ गजचक्रम्–“अथातः सं प्रवक्ष्यामि चक्र” मातङ्गनामकम्। येन विज्ञातमात्रेण यात्रायुद्धे जयोभवेत्। गजाकारं लिखेच्चक्रं सर्व्वावयवसंयुतम्। अष्टाविंशति भान्यत्र देयानि सृष्टिमार्गतः। मुखे शुण्डाग्र नेत्रेच कर्णे शीर्षाङ्घ्रिपुच्छके। द्विकं द्विकञ्च दातव्यं पृष्ठोदरे चतुश्चतुः। द्विरदर्नामभान्यादौ वदनाद्गण्यते बुधैः। यत्र धिष्ण्ये स्थितः सौरिर्ज्ञेयं तत्र शुभाशुभम्। सुखशुण्डाग्रनेत्रे च सौरिभं सस्तकोदरे। युद्धकाले भनेद्यस्य जयस्तस्य न संशयः। पादे पृष्ठे च पुच्छे च कर्णसंस्थे शनैश्चरे। मृत्युर्भङ्गो रणेतस्य ऐरावतसमोयदि। एतेषां दुष्टभानाञ्च यत्काले संस्थितः शनिः। तत्काले पट्टबन्धश्च वर्जनीयः प्रयत्नतः। पृथिव्या भूषणं मेरुः शर्व्वर्य्या भूषणं शशी। नराणां भूषणं विद्या सैन्यानां भूषणं गजः। शरत्रोमरचक्राद्यैर्गजस्कन्धहतानराः। तत्क्षणात् स्वर्गप्तायान्ति तस्मात् स्वर्गोपमागजाः। नास्ति हस्तिसमोयोद्धा नास्तिहस्तिसमः सखा। नास्ति हस्तिसमोबन्धुर्न्नास्ति हस्तिसमोरिपुः”।३० अश्वचक्रम्–“अश्वाकारं लिखेच्चक्रमश्वधिष्ण्यादितारकाः। वदनात् सृष्टिगा देया अष्टाविंशतिसंख्यया। मुखाक्षिकर्णशीर्षेषु पुच्छाङ्घ्रौ युग्मसंख्यया। पञ्च पञ्चोदरे पृष्ठे सौरिर्यत्र फलं ततः। मुखाक्ष्युदरशीर्षेषु यदा सौरिर्व्यवस्थितः। युद्धकाले तदा तस्य जयो भवति नान्यथा। कर्णपुच्छाङ्घ्रिपृष्ठस्थे अश्वचक्रेऽर्कनन्दने। विभ्रमं भङ्गं हानिञ्च करोत्यश्वो महाहवे। एतत्स्थाने स्थितः सौरिर्यदा काले हयस्य च। पट्टवन्धे गमे युद्धे वर्ज्जयेत्तं हयं नृपः। देशान्तरस्थितास्तस्य रिपवः सन्ति शङ्किताः। तुरङ्गायस्य भूपस्य विचरन्ति महीतले। मेदिनी तस्य यस्याश्वा इति वाक्यं विनिश्चितम्। सर्व्वाःश्रियो न राजन्ते विनाऽश्वेन महीभुजाम्”।३१ रथचक्रम्–“आदौ चक्रं समालिख्य रथाकारं सुशोभनम्। रथाग्रे त्रित्रिशूलानि रथचक्रं त्रिदण्डकम्। भानुभं मध्यशूलाग्रे ततः स्वर्क्षगतानि च। त्रीणि त्रीणि लिखेदेवं सप्तविंशतिसंख्यया। महारथिकनक्षत्रं यत्र तत्र शुभाशुभम्। शृङ्गे मृत्युर्ज्जयश्चक्रे रथे सन्धिः सदण्डके”।३२ व्यूहचक्रम्–“अष्टारं वर्त्तुलाकारं व्यूहचक्रं त्रिनाडिकम्। दण्डचतुष्टयं बाह्ये कर्त्तव्यञ्च चतुर्द्दिशम्। पूर्व्वदण्डाग्रतोन्यस्य दिनभाद्यं भमण्डलम्। प्रवेशे निर्गमे चैव त्रीणि त्रीणि प्रदक्षिणे। शशिसंज्ञाष्टकं मध्ये तद्बाह्ये भानुसंज्ञकम्। तृतीयं राहुसंज्ञं च क्रेतु र्दण्डवतुष्टये। चन्द्रर्क्षे विजयोलाभः सूर्य्यर्क्षे मध्यसं फलम्। रांहुधिष्ण्याष्टके विघ्नं मृत्युः केतुचतुष्टये। एवमुकं चतुःस्थाने यद्दिने यस्य नामभम्। तद्दिने तत् फलं तस्य सर्वकार्य्येषु सर्वदा”।३३ कुन्तचक्रम्–“कुन्ताकारं लिखेच्चक्र तीक्ष्णदण्डसमन्वितम्। दिनभादि समारभ्य कर्त्तव्यं नवकत्रयम्। राजभं नथके यत्र तत्र वक्ष्ये शुभाशुभम्। तीक्ष्णे मृत्यु र्ज्जयोदण्डे शेषधिष्ण्ये समं रणम्”।३४ खङ्गचक्रम्–“खड्गचक्रं समालिख्य नवभेद समन्वितम्। योधधिष्ण्यात् समारभ्य त्रीणि त्रीणि लिखेद्बुधः। यवं वज्रं तथा मुष्टिं पालिकां वन्धधारिके। स्वड्गं तीक्ष्णं विजानीयान् नवाङ्गानि विधानतः। यवादौ यत्र बन्धान्ते जायन्ते क्रूरखेचराः। मृत्युर्भङ्गो भवेदुद्धं सोम्यैर्लाभो जयस्तथा। खड्गे धाराद्वये तीक्ष्णे क्रूरैर्जयति सङ्गरे। सौम्यैस्तथा भवेद्भङ्गो मिश्रैर्मिश्रफलं मतम्”।३५ छुरिकाचक्रम्। “यथा खङ्गं तथा विद्याच्छुरिका चक्रनिर्णयम्। क्रूरसौम्यविभागेन योधधिष्ण्यादि विन्यसेत्”।३६ चापचक्रम्–“चापचक्रं समालेख्य गुणवाणसमन्वितम्। शशिनक्षत्रतोभानि त्रीणि त्रीणि समालिखेत्। त्रीणिवाणस्य मूले तु मध्ये मूर्द्ध्निक्रमात्तथा। चापमूलस्य मध्योर्द्धे त्रीणि त्रीणि तथा पुनः। गुणे तु त्रीणि त्रीण्येव योधनक्षत्रतः फलम्। शरमूले भवेन्मृत्युर्मध्ये व्याधिः फले जयः। गुणमध्ये भवेद् भङ्गश्चापमध्ये धनक्षयः। चापोर्द्धे विजयोज्ञेयो, गुणोर्द्धे लाभसंयुतः। चापाधो विग्रहो मृत्युर्गुणाधोऽपि तथा फलम्। पापग्रहयुते नेष्टं विशेषेण तु नान्यथा। सौम्ययोगे जयोलाभश्चापचक्रे समादिशेत्। शुभपापसमायोगे बलाधिक्ये बलं स्फुटम्”।३७ शनिचक्रम्–“शनिचक्रं नराकारं लिखित्वा सौरिभादितः। नामधिष्ण्यं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम्। मुखैकन्दक्षदोस्तुर्य्यं षट्पादे तुर्य्यं वामके। हृदि पञ्च त्रयं शीर्षे नेत्रगुह्ये द्विकद्विकम्। हान्यास्ये दक्षदोर्लाभः भ्रमोऽङ्थ्रौ वामदोरुजम्। हृदि श्रीर्मस्तके राज्यं नेत्रे सौख्यं मृतिर्गुदे। जन्माष्टद्वादशे तुर्य्ये यदा विघ्नकरः शनिः। तदा सौख्यं यपुस्थ चेत् हृत्शीर्ष नेत्रदक्षदोः। तृतीयैकादशे षष्ठे यदा सौख्यकरः शनिः। तदा विघ्नं शरीरं चेत् वक्त्राङ्घ्रिगुह्यवाभदोः। यस्य पीडाकरः सौरिस्तस्य चक्रमिदं स्फुटम्। लिखित्वा कृष्णवर्णेन तैलमध्ये क्षिपेद्बुधः। निःक्षिप्य भूमिमध्यस्थं कृष्णपुष्पैः प्रपूजयेत्। तुष्टिं याति न सन्देहः पीडां मुक्त्वा शनैश्चरः”।३८ सेवाचक्रम्–“सेवाचक्रं शीरे सप्त पृष्ठे सप्त तथोदरे। पादयोः सप्त ऋक्षाणि साभिजिन्त्यत्र विन्यसेत्। स्वामिभाद्भृथभं गुण्यं, भृत्यभात् स्वामिभं तथा। निम्फलं पादपृष्ठस्थे फलदं मस्तकोदरे”।३९ नरचक्रम्–“नरचक्रं समालिख्य अष्टावयवसंयुतम्। येन विज्ञातमात्रेण क्रियते क्षातनिर्णयः। मुखैकं मस्तके त्रीणि हस्ते पादे चतुश्चतुः। हृदि पञ्च त्रिकं कण्ठे साभिजित् तत्र विन्यसेत्। कृत्वा योधभमादौ तु मुखमस्तकवामके। हस्तपादोदरे कण्ठे दक्षहस्ताङ्घ्रि गण्यते। यत्राङ्गे भानुभौमार्किराहवोधिष्ण्यसंस्थिताः। तत्र घातं विजानीयात् चन्द्रयोगे विशेषतः। ग्रहभुक्तिप्रमाणेन नवांशकक्रमेण च। प्रहारोजायते तत्र वक्रे द्विगुणसंख्यया। निजभे चार्द्धघातं च पादोनं मित्रभे ग्रहे। उदासीने भवेत् सर्वं द्विगुणं शत्रूक्षेत्रगे। एकोऽप्यनेकघातं च करोति भूबलोज्झितः। भूबले च यदा खेटाः स्थिताघातं न कुर्वते। यत्र यत्र स्थिते घातो यत्रयत्रस्थितेन हि। तत्फलं कथयिष्यामि ग्रहभूमिवशात्पुनः। क्रूराथातं न कुर्वन्ति पृष्ठदक्षिणगा रणे। सम्मुखाबामगा ह्येते योधाङ्गे घातकारकाः। दक्षिणाङ्गे गताः क्रूराः सौम्यावामाङ्गसंस्थिताः। शिरश्छेदे समुत्पन्ने भटं धावति सम्मुखम्। यस्य वामाङ्गगाः क्रूराः सौम्या यस्य च दक्षिणे। तस्य मङ्गे रणे नूनं यदि शूरो महाभटः”।४० डिम्भचक्रम्–“डिम्भचक्रे न्यसेद्भानि भानुभात् त्रीणि मस्तके। मुखे त्रीणि द्वयं स्कन्धे एकैकं बाहुहस्तयोः। पञ्चहृन्नाभिगुह्यैकं षट्जान्वैकैकपादयोः। विलेख्यंस्नर्य्यनक्षत्रात् जन्मभं तत्र चित्तयेत्। शीर्षस्थे छत्रलाभश्च वक्त्रे मिष्टान्नभोजनम्। स्कन्धेऽवनी च, बाहुभ्यां स्थानभ्रष्टोमवेन्नरः पाणिभ्यां तस्करोलक्ष्मी र्हृद्यल्पायुश्च नाभिभे। गुह्ये कामी, भ्रमो, जानौ, स्तोकजीवी च पादयोः”।४१ पक्षिचक्रम्ं–“चञ्चुमस्तकूकण्ठे च हृद्युदराङ्घ्रिपक्षयोः। त्रीणि त्रीणि क्रमेणैव शशिभाद्विन्यसेद्बुधः। चञ्चुस्थे नामभे मृत्युः, शीर्षे कण्ठोदरे हृदि। विजयः क्षे मलाभश्च च भङ्गदं पादपक्षयोः”।४२ वग्र्गचक्रम्–“अगरुडःक मार्जारश्चः सिंहः टः शुनीसुतः। तःसर्पः प आखुश्च य गजः शअजासुतः। वसुवाणाङ्गवेदास्तु चन्द्राग्निनेत्रवह्नयः। वर्गाङ्काः क्रमशोज्ञेया वैनतेयाद्यजात्तकाः। पूर्वादिक्रमशो ज्ञेयं वर्गोपरिदिगष्टकम्। नाम्नि मात्राक्षराः ग्राह्या वर्गाङ्कोपेत संख्यया। प्रत्येकं स्थापयेत्तत्र पिण्डं कृत्वाष्टभिर्भजेत्। शेषसंख्यो ध्वजो १ धूम्रः २ सिंहः ३ श्वा ४ वृष ५ रास भौ६। गजो७ धाङ्क्षः८ क्रमेणैवमायाह्यष्टौ भवन्ति च। धाङ्क्षश्वरासंभोक्षाणो गजः सिंहोध्वजोऽनलः। यथो- त्तरवलाः सर्वे ज्ञातव्याः स्वरवेदिभिः। प्रभौ योधे पुरे देशे मित्रनारोगृहेषु च। बलिन्याये भवेल्लाभोन लाभोबलवर्ज्जिते”।४३ आयचक्रम्–“ध्वजोधूर्म्रोऽथ सिंहःश्वा सौरभेयः खरोगजः। ध्वाङ्क्षश्चेति क्रमेणैव आयाष्टकदिशाष्टके। प्रतिपदाद्वितीयादौ तिथिभुक्तिप्रमाणतः। अहोरात्रे ततः सर्वेयामभुक्त्या भ्रमन्ति च। इन्दस्थाने महालाभ आग्नेय्यां मरणं ध्रुवम्। दक्षिणे विजयः सौख्यं, नैरृत्यां बन्धनं मृतिः। वारुण्यां सर्वलाभश्च वायव्यां हानिकारकम्। उत्तरे धनधान्यं च त्वैशान्यां निःफलं मतम्। अतीतं गोहारधाङ्क्षै र्वर्त्तमानं ध्वजेऽनले। अनागतं परं विद्यात् धूम्र कुक्कुट हस्तिभिः। वृषे ध्वजे समीपस्थं, दूरस्थः गजसिंहयोः। श्वाने खरे च मार्गस्थो निःफलं धूम्रधाङ्क्षयोः। ऐन्द्राग्नेय्यो र्मूलचिन्ता धातोर्द्दक्षिणनैरृतौ। वारुण्यां धातुचिन्ता च जीवचिन्तोत्तरे शिवे”। आयावर्गाष्टके ज्ञेया दिगष्टकक्रमेण च। स्वोदये मृत्युदं ज्ञेयं सर्वकार्य्येषु सवर्दा”।४४ विरिञ्चिचक्रम्–“अथातः संप्रवक्ष्यामि सद्यःप्रत्ययकारकम्। चक्रं विरिञ्चिविख्यातं यत्सूरैरपि दुर्गमम्। कृत्तिका चोत्तरा फाल्गुन्युत्तराषाढभादितः। पङ्क्ति युक्त्या न्यसेद्भानि क्रमेण नवकत्रयम्। वेधोऽबि तिर्य्यगस्तत्र कर्त्तव्यो नवकत्रये। क्रूरसौम्यैर्ग्रहैर्विद्धं ज्ञेयं तत्र शुभाशुभम्। जन्मसम्पद्विपत्क्षेमं प्रत्यरिः साधको बधः। मित्रातिमित्रगास्तारानव भेदा भवन्ति च। जन्मत्रयस्य वेधेन मृत्युः क्रूरग्रहैर्यवेत्। जयोलाभः शुभैस्तत्र मिश्रैर्मिश्रफलं मतम्। सौम्योयः शुभतारास्थस्तत्ताराभावपोषकः। दुष्टास्थो दुष्टमाध्रत्ते क्रूरे तस्माद्विपर्ययः। जन्मत्रये स्थितः सौरिः क्षेमायेराहुभूमिजौ। मित्रातिमित्रगे सूर्ये जायते बधयन्धनम्। जन्मत्रये यदा मन्त्री क्षेमाये बुधभार्गवौ। मित्राति मित्रगे चन्द्रे जयलाभसुखानिच। त्रिपञ्चसप्तनासु रोगोत् पत्तिर्यदा तदा। चिरं रोगे मृतिस्तासु क्रूरविद्धासु जायते”।४५ सप्तशलाकचक्रम्–“तिर्यगूर्द्धं गतारेखा सप्तसप्त न्यसेद्बुधः। कृत्तिकादीनि भान्यत्र साभिजिन्ति कमेण च। भुक्तं भोग्यं तथाऽऽक्रान्तंविद्धं पापग्रहेण भम्। शुभाशुभेषु कार्येषु वर्ज्जनीयं प्रयत्नतः। यस्याभिधान नक्षत्रं विद्धं क्रूरग्रहेण च। देशग्रामं पुरं सैन्यं नरोनारी विनश्यति”। अधिकमुपयमशब्दे १२६३ पृ० दृश्यम्।४६ पञ्चशलाकचक्रम्–“तिर्यगूर्द्धगताः पञ्च द्वे द्वे रेखे च कोणयोः। ईशकोणाग्ररेखायां कृत्तिकां विलिखेद्बुधः। विशाखाकृत्तिकावेधो भरण्याश्चानुराधया। धनिष्ठा सार्पयोवेधो मधाश्रवणयोस्तथा। शुभाशुभैर्ग्रहैर्विद्धं विवाहे परिबर्जयेत्। यदि विद्धं महादुष्टं क्रूरवेधेमहद्भयम्”। अधिकमुपयमशब्दे १२६३ पृ० दृश्यम्।४७ चन्द्रचक्रम्–वक्रेन्दुसदृशं चक्रं त्रित्रिशूलसमन्बितम्। मध्ये द्वादश भान्यत्र षट् पृष्ठे नव शूलके। मध्ये शूलस्य मध्यस्थं शशभृदृक्षमादितः। सव्येन मण्यते चक्रं यावद्योधस्य नामभम्। शृङ्गे मृत्युर्भयं मध्ये, पृष्ठे भङ्गो महाहवे। चतुरङ्गे कवौ कोटे द्वन्द्वे युद्धे विशेषतः”।४८ भास्करचक्रम्–“रेखात्रयं त्रिशूलाग्रं तिर्य्यग्रेखाषडन्वितम्। एकैकाः कोणगास्तत्र मध्याधोभानुभादितः। अधस्त्रये भवेन्मृत्युश्चतुर्भिः कोणगैः शुभम्। द्वादश सध्ये संप्रोक्ता नवर्क्षाश्चैव दाहकाः।”४९ प्रथममातृकाचक्रम्–“षोडशोर्द्धगतारेखाः पञ्च रेखाश्च तिर्य्यनाः। कोष्ठकानां भवेद् षष्टिर्मात्राङ्कस्वरयोजना। पूर्णिमादिविलोमर्क्षान् लिखेत् प्रतिपदादिकान्। तदधो मातृकालेख्या ङञणान्त्यस्वरोज्झितान्। संगृह्य नामवर्णाङ्कान् मात्राभेदेन संयुतान्। मुनिभि(७)स्तु हरेद्भागं पश्चात् ज्ञेयं शुभाशुम्। मात्राधिके भवेल्लाभो मात्राहीने पराजयः। मातृकायाः प्रभेदोऽयं तस्मात् ज्ञेयः प्रयत्नतः”।५० द्वितीयमावृकाचक्रम्–“द्वादशोर्द्धगता रेखाः पञ्चरेखाश्च तिर्य्यगाः। मातृकाप्रस्तरे तत्र षण्डान्त्यस्वरवर्ज्जितान्। कोष्ठकाधोलिखेदङ्कान् पञ्च युग्मं त्रिकं त्रयम्। षड्द्वयमष्टकं त्रीणि नवकैकं तथैव च। नाम वर्णस्य या संख्या मात्रासंख्या तथैव च। पिण्डिता नवमिर्भक्ता जयोमात्राधिके रणे।”५१ तृतीयमातृकाचक्रम्–“भानुमार्त्तण्डदोर्वाणतिथ्यद्रिरसदिग्गजाः। नवाङ्कास्तदधः स्थाप्याः पञ्चस्वरकखादितः। ङञणोना हकारान्ता नबधा कोष्ठकक्रमैः। नाममात्राक्षराङ्कैक्यसप्तशेषेऽधिके जयः”। “भूवाणादित्यदोर्वाणतिथिवेदाश्वदिग्रसान्। वसुनन्दान्तलान् लिख्य षण्डकोज्झितमातृकाम्। पुन्नामवर्णमात्राणा मङ्कयोगेऽष्टशेषके। मात्राधिके जयो युद्धे मात्राहीने पराजयः” पाठान्तरम्।५२ विजयचक्रम्–“अथ सारतरं वक्ष्येलम्पटाचार्य्यभाषितम्। जयपराजयौ येन नामोच्चारणतः स्फुटम्। लग्नालग्नप्रभेदेन घोषाघोषक्रमेण च। प्रवेशनिर्गमाभ्यां च चक्रं जयपराजयम्।”५३ श्येनचक्रम्–“श्येनचक्रं समालिख्य पक्षिरूपं सुशोभनम्। चञ्च्वग्रे भानुभं कृत्वा अष्टाविंशतिभंलिखेत्। ऋक्षैकं चञ्चुकोटिस्थं शीर्षे नेत्रे त्रिकं त्रिकम्। पादे पृष्ठे चतुष्कं च उदरे नव भानि च। नाम ऋक्षं स्थितं यत्र फलं तस्य वदाम्यहम्। चञ्च्वग्रे बधबन्धाय नामर्क्षं च यदा भवेत्। लाभः शीर्षोदरे नेत्रेऽशुमं स्यात् पादपृष्ठयोः।”५४ तोरणचक्रम्–“नाडीचतुष्टयं चक्रं लिखित्वा तोरणाकृतिं। नृपभाद्विन्यसेत् भानि प्रवेशे निर्गमे तथा। स्तम्भमूले स्थितान्यष्टौ सिंहद्वारे तथाष्टकम्। मालायामष्टकं चैव चतुर्धिष्ण्यानि तोरणे। निर्गमे चन्द्रमा यत्र प्रवेशे यत्र भास्करः। तत्र काले शुभा यात्रा विपरीता च हानिदा। चन्द्रःप्रवेशऋक्षस्थो निर्गमस्थो दिवाकरः। बधबन्धनदा यात्रा प्रवेशे तत्र शोभना। चन्द्रादित्यौ प्रवेशर्क्षे अथ वा निर्गमे स्थितौ। मिश्रं फलं भवेत्तत्र प्रवेशे वाऽथ निर्गमे। क्रूरग्रह युतश्चन्द्रः प्रवेशे वाऽथ निर्गमे। तद्दिने भूभुजां चैव निषिद्धा राजपट्टिका। शुभग्रहयुते चन्द्रे ३ सिंहद्वारभसंस्थिते। प्रवेशः पट्टवन्धश्च भूभुजां शोभनः स्मृतः। स्तम्भे सौरिर्नृपं हन्ति सिंहे स्वचक्रविग्रहः। मालास्थिते बलं राज्यं तोरणे सर्वसिद्धिदः”।५५ अहिचक्रम्–“अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञ भाषितम्। द्रव्यं शल्यं तथा शून्यं येन जानन्ति साधकाः। निधिर्न्निबर्त्तनैकस्थः सम्भ्रान्तो यत्र भूतले। तत्रचक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम्। ऊर्द्ध्वरेखाष्टकं लेख्यं तिर्य्यक् पञ्च तथैव च। अहिचक्रं भवत्येव मष्टाविंशतिकोष्ठकम्। अहिगत्या च नक्षत्रे तत्काले यत्र चन्द्रमाः। द्रव्यं शल्यं भवेत्तत्र चन्द्र भास्करसंक्रमे। तत्र पौष्णाश्वियाम्यर्क्षकृत्तिकामघभाग्यकम्। उत्तराफालगुनी लेख्यं पूर्ब्बपङ्क्त्यां भसंज्ञकम्। अहिर्बुध्नाजपादर्क्षे शतभं ब्राह्मसर्पभम्। पुष्पं हस्तं समालेख्यं द्वितीयपङ्क्तिसंस्थितम्। विघिं विष्णुं धनिष्ठाख्यं सौम्यं रौद्रं पुनर्वसुम्। चित्रभं च तृतीयायां पङ्क्तौ वै धिष्ण्यसप्तकम्। विश्वभं तोयभं मूलं ज्येष्ठां चैत्रविशाखके। स्वातीं पङ्क्त्यां चतुर्थ्यां च कृत्वाथ प्रविलोकयेत्। एवं प्रजायते चक्रे प्रस्तारः पन्नगाकृतिः। द्वारस्तम्भे मघायाम्ये द्वारस्था कृत्तिका ततः। अश्विन्यादित्रिऋक्षञ्च आर्द्रादिपञ्चकं तथा। रेवती पूर्वभाद्रेन्दोः पूर्वाषाढचतुष्टयम्। शेषाणि भानुभान्यत्र प्रोक्तानि सर्वसंख्यया। शशाङ्के चन्द्रभे द्रव्यं शल्यं भवति सूर्य्यभे। उदयादिगताबाड्यो भ २७ घ्नाःषष्ट्याप्तशेषके। दिनेन्दुभुक्तयुक्तोऽसौ भवेत् तत्कालचन्द्रमाः। ग्रहैर्भुक्तानि धिष्ण्यानि खखभै र्गुणयेत्ततः। भुक्तपादकलायोज्याः षष्ट्या भागं ततोहरेत्। लब्धस्य त्रिंशता भागो ग्रहाःस्युः शशिपूर्वकाः। अश्विन्यादीन्दुभुक्तानि भानि षष्टिहतानि च। स्वभुक्त नाडीसंयुक्तं द्विव्नं नन्द ९ हृतं त्रिधा। दिनेन्दुभुक्तमागादि जायन्ते चेष्ठकालिकाः। चन्द्रवत् साधयेत्सूर्य्यमृक्षस्थं चेष्टकालिकम्। पश्चात् विलोकयेत् तौ च स्वऋक्षे चात्यभे स्थितौ। चन्द्रर्क्षे च यदाऽर्केन्दू तदास्ति निश्चितं निधिः। भानुऋक्षेगतौ द्वौ च तदा शल्यं न संशयः। स्वस्व भे द्वितयं ज्ञेयं नास्ति किञ्चिद्विपर्य्यये। स्थितं न लध्यते द्रव्यं चन्द्रे क्रूरग्रहान्विते। पुष्टे चन्द्रे भवेत्पुष्टः क्षीणे चन्द्रेऽल्पको निधिः। ग्रहदृष्टिवशात् सोऽपि विज्ञेयो नवधा बुधैः। नवांशकानुमानेन भूमानं तस्य कल्पयेत्। कालमानेन तत्संख्या धातुज्ञानं निरीक्षणैः। हैमं तारं च ताभ्रं च रत्नं कांस्यायसं त्रपु। चन्द्रे नागंविजानीयाद् भास्करादिग्रहेक्षिते। भिश्रैर्मिश्रं भवेद्द्रव्यं शून्यं दृष्टिविवर्जिते। सर्वग्रहेक्षिते चन्द्रे निर्दिष्टोऽसौ महानिधिः। हैमं तारञ्च ताम्रारं पाषाणं मृण्मयायसम्। सूर्यादिगृहगे चन्द्रे द्रव्यभाण्डं प्रजायते। भुक्तराश्यंशमानेन भूमानं कायिकैः करैः। नीचे निम्नः, परे नीचेजलस्थोऽसौ महानिर्धिः। स्वोच्चस्थे ऊर्द्ध्वगं द्रव्यं नवांशकक्रमेण च। कोष्ठद्वयं परित्यज्य लेख्या मेषादयः क्रमात्। प्रश्नलग्नाधिपोयत्र तत्र द्रव्यं विनिर्दिशेत्। परमोच्चे परे तुङ्गे भित्तिस्थमृक्ष संक्रमे। चन्द्रांशभुक्तिमानेन द्रव्यसंख्याभिधीयते। तस्वद्दशगुणा वृद्धिः षड्वर्गे तु वलक्रमात्। अघिष्ठितं भवेत् द्रव्यं यत्र चन्द्रो ग्रहान्वितः। तदधिष्ठायकोज्ञेयो भास्करादिग्रहक्रमात्। ग्रहं मुख्यग्रहं चैव क्षेत्रपालं च मातृकाम्। दीपेशं भीषणं रुद्रं यक्षं नागं विदुः क्रमात्। ग्रहे होमः प्रकर्त्तव्यो मुख्ये नायराणो बलिः। क्षेत्रपाले सुरामांसं मातृकायां महाबलिः। दीपेशे दीपिकापूजा भीषणे भीषणार्चनम्। रुद्रे च रुद्रियोजाप्योयक्षे यक्षादिशान्तयः। नागे नाम ग्रहाःपूज्या गणनाथेन संयुताः। लक्ष्मीधरादितत्त्वानि सर्वकाय्येषु पूजयेत्। निर्वर्त्तनैकमध्ये च सम्भ्रान्तो यत्र भूतले। तत्र चक्र लिखेद्धीमान् द्रव्यशल्यस्य निर्णयम्। एवं कृतविधाने तु असाध्यो निधिराप्यते। निधिं प्राप्य नरा लोके वन्दनीया न संशयः”।५६ चन्द्रशृङ्गोन्नतिचक्रम्–“मीनमेषोदयश्चन्द्रः सततं दक्षिणोत्तरा। उत्तरोत्तरशेषेषु समत्वं वृषकुम्भयोः। विट्वरं स्यात् समे चन्द्रे दुर्भिक्षं दक्षिणोन्नते। इति रोगं भयं शूले सुभिक्षं तूत्तरोन्नते”।५७ जीवचक्रम्–“शीर्षे राज्यं चतुर्भिर्भवति खलु करे दक्षिणे श्रीश्चतुर्भिः पीडां षड्भिः पदस्थैर्मृतिरपि च भवेद्वामहस्ते चतुर्भिः। कण्ठेचैकेन भूतिर्मदनशरमितैर्वक्षसि प्रीतिलाभः स्यान्नेत्रस्थैस्त्रिभिर्मैरपि वशमसुखं वाक्पतेश्चक्रमेतत्”।५८ लाङ्गलचक्रम्–“लाङ्गलं दण्डिकायूकं योत्रद्वयसमन्वितम्। दण्डिकादि लिखेद्भानि दिनेशाक्रान्तभादितः। दण्डिकाहलयूकानां द्विद्विस्थाने त्रिकं त्रिकम्। योत्रयोः पञ्चकं सव्यगणना चक्रलाङ्गले। दण्डस्थे च गवां हानिर्युगस्थे स्वामिनो भयम्। लक्ष्मीर्लाङ्गलयोत्रस्थे क्षेत्रारम्भो दिनर्क्षगे”। “त्रिकं त्रिकं त्रिकं पञ्च त्रिकं पञ्च द्विकं द्विकम्। अशुभानि शुभानि स्युश्चक्रे लाङ्गल संज्ञके” क्वचिदधिकः पाठः।५९ वीजोप्तिचक्रम्–“सूर्य्यभादुरगं स्थाप्यंत्रिमाड्येकान्त न्तरं क्रमात्। मुखे त्रीणि गले त्रीणि भानि द्वादश चोदरे। पुच्छे तुर्य्यं बहिः पञ्च दिनभाच्च फलं वदेत्। वदने पुलाकं विद्याद्गलकेऽङ्गारकस्तथा। उदरे धान्यवृद्धिश्च पुच्छे धान्यक्षयोभवेत्। ईतिरोगभयं बाह्ये चक्रे वीजोप्तिसम्भवे”।६० वृषचक्रम्–“वृषचक्रं वृषाकारं सर्वावयवसंयुतम्। लिखित्वा विन्यसेद्भानि वृषनामर्क्षपर्वकम्। मुखाक्षिकर्णशीर्षेषु शृङ्गस्कन्धे द्विकं द्विकम्। त्रीणि पुष्ठे द्विद्धं पुच्छे र्द्विर्द्विः पादोदरे न्यसेत्। हलप्रवाहवीजोप्तिप्रारम्भादिदिनर्क्षकम्। यत्राङ्गे संस्थितश्चन्द्रस्तस्य वक्ष्ये शुभाशुभम्। हान्यास्ये च सुखानि लोचनगते कर्णे च भिक्षाटनम्, शीर्षे स्यात् मृतिरत्र शृङ्गकयुगे स्कन्धे स्थिते शोभनम्। पृष्ठे राजभयं च पुच्छभगते पादे भ्रमं हृत्सुखमेवं चन्द्रभजं फलं प्रकटितं चक्रे वृषाख्ये नृणाम्”।६१ सप्तनाडीचक्रम्–“अथातः संप्रवक्ष्यामि यच्चक्रं सप्तनाडिकम्। येन विज्ञातमात्रेण वृष्टिं जानन्ति सांधकाः। कृत्तिकादि लिखेद्भानि साभिजिन्ति क्रमेण च। सप्तनाडीव्यधस्तत्र कर्त्तव्यः पन्नगाकृतिः। ताराचतुष्कवेधेन नाड्येकैका प्रजायते। तासां नामान्यहं वक्ष्ये तथा चैव फलानि च। कृत्तिका च विशाखा च मैत्राख्यं भरणी तथा। ऊर्द्धाख्या शनि नाडी स्याच्चण्डनाड्यभिधा मता। रोहिणी स्वाति ज्येष्ठाश्वि द्वितीया नाडिका मता। आदित्यप्रभवा नाडी नायुनाडी तथैव च। सौम्यं चित्रा तथा मूलं पौष्णर्क्षं च चतुर्थकम्। तृतीयाऽङ्गारका नाडी दहनाख्या तथैव च। रौद्रं हस्तं तथा पूर्वाषाढभाद्रोत्तरा तथा। चतुर्थी जीवनाडी स्यात् सौम्या नाडी प्रकीर्त्तिता। पुनर्वसूत्तराफाल्गुन्युत्तराषाढतारका। पूर्वभाद्रश्च शुक्राख्या पञ्चषी नीरनाडिका। पुष्यर्क्षं फालगुनी पूर्वा सामिजिच्छततारका। षष्ठी नाडी च विज्ञेया वुधाख्या जलनाडिका। अश्लेषर्क्षं मघा कर्णो धनिष्ठाभं तथैव च। अमृताख्या हि चन्द्रस्य सप्त नाड्यः प्रकीर्त्तिताः। मध्यमार्गे स्थिताः सौम्या नाडी तस्याग्र पृष्ठतः। सौम्ययाम्यगतं ज्ञेयं नाडिकानां त्रिकं त्रिकम्। क्रूरा याम्यगता नाड्यः सौम्याः सौम्यदिगाश्रिताः। मध्यनाडी च मध्यस्था ग्रहरूपफल प्रदा। एकनाडीगता द्व्याद्या ग्रहाःक्रूराः शुभायदि। ततोनाडीफलं वाच्यं शुभं वा यदिवाऽशुभम्। ग्रहाःकुर्य्युर्म्महावातं गताश्चण्डाख्यनाडिकाम्। वायुनाडीं नतावायुं दहन्यासपि दाहकाः। सौम्यनाडीगतामध्या नीरस्था मेघवाहकाः। जलायां वृष्टिदा चन्द्र नाडिकाऽप्यतिवृष्टदा। एकोऽप्येतत्फलं दत्ते स्वनाडी संस्थितो ग्रहः। भूसुतः सर्वनाडीषु धत्ते नाडीभवं फलम्। प्रावृट्काले समायाते रौद्रऋक्षगते रवौ। नाडीबेधसमायोगे जलयोगं बदाम्यहम्। यत्र नाडी स्थितश्चन्द्रस्तत्रस्थाः खेचरा यदि। क्रूरसौम्यैर्वि- मिश्रैश्च तद्दिने वृष्टिरुत्तमा। एवमृक्षांशसंयोगो जायते यदि खेचरैः। तत्र काले महावृष्टिर्य्यावत् तस्यांशके शशी। केवलैः सौम्यपापैर्वा ग्रहैर्विद्धो यदा शशी। तदा तु तुच्छपानीयं दुर्द्दिनं तु भवेद्ध्रुवम्। यस्य ग्रहस्य नाडीस्थश्चन्द्रमास्तद्ग्रहेण च। दृष्टो युक्तः कंरोत्यम्भो यदि क्षीणोन जायते। पीयूषनाडी गश्चन्द्रस्तत्र खेटाः शुभाशुभाः। त्रिचतुःपञ्चपानीयं दिनान्येकत्रिसप्तकम्। एवं जलाख्यनाडीस्थे चन्द्रे मिश्रग्रहान्विते। दिनार्द्धं दिवसं पञ्च दिनानि जायते जलम्। नीरनाडीस्थिते चन्द्रे तत्रस्थैः पूर्ववद्ग्रहैः। यामं दिनार्द्धकं त्रीणि दिनानि जायते जलम्। अमृतादित्रये यत्र भवन्ति सर्वखेचराः। तत्र वृष्टिः क्रमाज्ज्ञेया धृत्यर्करसवासरान्। सौम्यनाडीगताः सर्वे वृष्टिदास्ते दिनत्रयम्। शेषनाड्यां महावात दुष्टवृष्टिप्रदा ग्रहाः। निर्जला जलदानाडी भवेद्योगे शुभाधिके। क्रूराधिक्रसमायोगे जलदाऽप्यम्बुवाहिका। एकनाडीसमारूढौ चन्द्रमोधरणीसुतौ। यदि तत्र भवेज्जीवस्तदा वारिमयी मही। याम्यनाडीगताः क्रूरा अनावृष्टिप्रसूचकाः। शुभयुक्ता जलाख्यास्थास्तेऽतिवृष्टिप्रदायकाः। बुधशुक्रौ यदैकत्र गुरुणा च समन्वितौ। चन्द्रयोगे तदा काले जायते वृष्टिरुत्तमा। जलयोगसमायाते यदा चन्द्रसितौ ग्रहौ। क्रुरै र्दृष्टौ युतौ वापि तदा मेघोऽल्पवृष्टिदः। उदयास्त मिते मार्गे चक्रे युक्ते च संक्रमे। जलनाडीगताः स्वेटा महावृष्टिप्रदामताः”। “प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः। सूर्य्यसुतान्नवपञ्चमगोवा सप्तमगश्च जलागमनाय”। क्वचित् पाठान्तरम्।६२ संवत्सरचक्रम्–“चक्रं सांवत्सरं वक्ष्ये यदुक्तं कौशलागमे। येन विज्ञायते सम्यग्वर्षे वर्षे शुभाशुभम्। द्वादशारं लिखेच्चक्रं तत्र मेषादिराशयः। संस्थाप्याः क्रमयोगेण मीनान्ताः सव्यमार्गगाः। तत्र चक्रे समालेख्या मेषादिराशिमार्गगाः। प्रभवाद्यव्दमेकैकं षष्टिपञ्चप्रवर्त्तनैः। एकराशौ स्थितो यत्र वत्सरोवर्त्तमानकः। तद्राशिस्थं फलं वीक्ष्य यत्किञ्चित् वार्षिकं मतम्। चैत्रे या प्रतिपच्छुक्ला तस्याः काले प्रवेशयेत्। एतद्विलोकयेच्चक्रं कालज्ञानविनिश्चिये। तत्र सप्त ग्रहाणस्य राशौ यो यत्र संस्थितः। वर्षे राशौ विचिन्त्यास्ते रेखास्थानगता ग्रहाः। उपचयेषुगता, क्रूराः सौम्या श्छिद्रान्त्यवर्ज्जिताः। ग्रहरेखाप्रदाज्ञेया मित्रमध्यस्थिता ग्रहाः। स्वर्क्षे द्विघ्नं फलं दत्ते स्वोच्चे त्रिघ्नं तथैव च। फलार्द्धं शत्रुगेहस्थो नीचस्थो निष्फलोग्रहः। एवं रेखाप्रमाणेन वर्षविंशोपका मताः। ज्ञातव्यादिशि केन्द्रेण वर्षे वर्षे प्रयत्नतः। एवं वर्षफलं प्रोक्तं चैत्रमासाद्यवासरात्। आषाडे कार्त्तिकेऽप्येवं जलं धान्यं विचिन्तयेत्। ननु देशे पुरे ग्रामे फलं भिन्नं प्रदृश्यते। तस्मात् तत्कारणं वाच्यं येन जानन्ति साधकाः। देशादिराशिनाथस्य यो रेखादायको ग्रहः। मित्रोदासीन शत्रुत्वे फलं भिन्नं करोति सः। मित्रं द्विघ्नं फलं दत्ते समः साम्यं करीति च। शम्रुः सर्व्वहरोज्ञेयः सर्वदा कालचिन्तकैः। एवं विचार्य्य कर्त्तव्या काल विंशोपकाबुधैः। तथा पानीयधान्यानां स्वकाले च विचिन्तयेत्”।६३ स्थानचक्रम्–“स्थानचक्र प्रवक्ष्यामि यदुक्त लम्पटागमे। येन विज्ञायते सम्यक् स्थाने स्थाने शुभाशुभम्। स्थानपोडाप्रभावेण राज्ञां पीडा प्रजायते। तस्मादपीडिते स्थाने स्थातव्यं सर्व्वदा बुधैः। स्थाननामोद्भवं राशिं कृत्वादौ द्वादशारके। राशिमण्डलकं न्यस्य वाममार्गेण संस्थितम्। तत्र नव ग्रहा स्थाप्याः मासचन्द्रः स्वराशिभे। तेषां विलोकनं वीक्ष्य स्थानराशिगतायथा। तृतीयैकादशे पादं द्विपादं व्योमबन्धुगे १०। ४। त्रिकोणे ५। ९। त्र्यङ्घ्रिमूर्त्त्यस्ते १। ७। पूर्णं पश्यन्ति खेचराः। शन्यर्क्क राहुकेत्वाराः पञ्च क्रूरा ग्रहा मताः। शेषं चतुष्टयं सौम्यं मासेन्दुश्चापि पञ्चमः। एवं पञ्च ग्रहाः क्रूराः पञ्च सौम्यास्तथैव च। तेषां शुभाशुभाम् दृष्टिं ज्ञात्वा स्थानवलं वदेत्। एकैकग्रहजा दृष्टिः पूर्णपादचतुष्टयम्। पञ्चमे लापकैस्तेषां पादानां विंशतिर्भवेत्। तत्र विंशोपकाज्ञेया सौम्यक्रूरहोद्भवाः। एवं प्रसाधयेद्दृष्टिं युग्मं मानं शुभाशुभम्। बह्वी स्तोकोनिता शेषा जायते दृक्शृभाशुभा। ते च विंशोपकास्तस्य स्थानस्य बलनिर्णये। एवं देशेपुरे ग्रामे बलं यत्र शुभाधिकम्। तत्र स्थाने स्थितोराजा दुष्टारिष्टैर्न्न पीड्यते। स्थानबलप्रभावेण स्वबलस्य बलोदयः। शत्नुसैन्यं क्षयं याति यावत्स्थाने शुभे स्थितः। एतानि सर्व्वचक्राणि ज्ञात्वा युद्धं समारभेत्। जयेदिह न सन्देहः शक्रतुल्योऽपि भूभुजि”। ऐतेषां त्रिषष्टिसंख्याकत्वेऽपि अवान्तरचक्रसंख्याभेदेन चतुरशीतिसंख्यापूरणम्। अङ्गशब्दे ७३ पृ० दर्शितानि “तथाचान्तरचक्रं च मृनचक्रं तथैव च। श्वचक्रं वातचक्रञ्च चक्राङ्गेषु चतुष्टयम्” गर्गोक्तानि च चत्वारि चतुषष्ट्यङ्गज्योतिषमध्ये अन्तरादिचक्राणि यान्ति तत्र चान्तरचक्रं वृ० सं० ८७ अ० उक्तं यथा “ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितागमं वक्ति। शकुनिः पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम्। तदनन्तरदिशि कनकागमो भवेद्वाञ्छितार्थसिद्धिश्च। आयुधधन पूगफलागमस्तृतीये भवेद्भागे। स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाऽऽहिताग्नेश्च। कोणेऽनुजीविभिक्षुप्रदर्शनं कनकलोहाप्तिः। याम्ये त्वाद्ये नृपपुत्रदर्शनं सिद्धिरभिमतस्याप्तिः। परतः स्त्रीधर्म्माप्तिः सर्षपयवलब्धिरप्युक्ता। कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य। यद्वा तद्वा फलमपि यात्रायां प्राप्तुयाद्याता। यात्रासिद्धिः प्रथमदक्षिणेन शिखिमहिषकुक्कटाप्तिश्च। याम्याद्वितीयभागे चारणसङ्गः शुभं प्रीतिः। ऊर्ध्वं सिद्धिः कैवर्त्तसङ्गभो मीनतित्तिराद्याप्तिः। प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः। नैरृत्यां स्त्रीलाभस्तुरगालङ्कारदूतले खाप्तिः। परतोऽस्य चर्मतच्छिल्पिदर्शनं चर्म्ममयलब्धिः। वानरभिक्षुश्रमणावलोकनं नैरृतीतृतोयांशे। फलकुसुमदन्तघटितागमश्च कोणाच्चतुर्थांशे। वारुण्यामर्णवजातरत्नवैदूर्य्यमणिमयप्राप्तिः। परतोऽतः शवरव्याधचौरसङ्गः पिशितलब्धिः। परतोऽपि दर्शनं वातरोगिणां चन्दनागुरुप्राप्तिः। आयुधपुस्तकलब्धिस्तद्वृत्तिसमागमश्चोर्ध्वम्। वायव्ये फेनकचामरौर्णिकाप्तिः समेति कायस्यः। मृण्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डानाम्। वायव्याद्यतृतीये मित्रेण समागमो धनप्राप्तिः। वस्त्राश्वाप्तिरतः परमिष्टसुहृत्सम्प्रयोगश्च। दधितण्डललाजानां लब्धिरुदग्दर्शनं च विप्रस्य। अर्थावाप्तिरनन्तरमुपगच्छति सार्थवाहश्च। वेश्यावटुदाससमागर्मः परे शुष्कपुष्पफललब्धिः। अतः परं चित्रकरस्य दर्शेनं वस्त्रसम्प्राप्तिः। ऐशान्यां देवलफोपसङ्गमो धान्यरत्नपशुलब्धिः। प्राक् प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या। रजकेन समायोगो जलजद्रव्यागमश्च परतोऽतः। हस्त्युपजीविसमाजश्चास्माद्धनहस्तिलब्धिश्च। द्वात्रिंशत् प्रविभक्तं दिक्चक्रं वास्तुबन्धनेऽप्युक्तम्। अरनाभिस्थैरन्तः फलानि नवधा विकल्प्यानि। नाभिस्थे बन्धुसुहृत्ससागमस्तुष्टिरुत्तमा भवति। प्रागूक्त पट्टवस्त्रागमस्त्वरे नृपतिसंयोगः। आग्नेये कौलिकतक्षपारिकर्माश्वसूतसंयोगः। लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिर्वा। नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणे योऽरः। धार्म्मिकजनसंयोगस्तत्र भवेद्धर्मलाभश्च। उस्राक्रीडककापालिकागमो नैरृते समुद्दिष्टः। वृषभस्य चात्र लब्धिर्माषकुलत्थाद्यमशनं च। अपरस्यां दिशि योऽरस्तत्रासक्तिः कृषीवलैर्मवति। सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च। भारवहतक्षभिक्षुकसन्दर्शनमपि च वायुदिक्संस्थे। तिलककुसुमस्य लब्धिः सनागपुन्नागकुसुमस्य। कौवेर्य्यां दिशि शकुनः शान्तायां वित्तलाभमाख्याति। भागवतेन समागममाचष्टे पीतवस्त्रैश्च। ऐशाने व्रतयुक्तवनितासन्दर्शनं समुपयाति। लब्धिश्च परिज्ञेया कृष्णायोवस्त्रघण्टानाम्। याम्येऽष्टांशे पश्चाद्द्विषट्त्रिसप्ताष्टमेषु मध्यफला। सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा। अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु। वायव्यानैरृतयोरुभयोः क्लेशावहा यात्रा। शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि। ऐन्द्र्यां भयं नरेन्द्रात् समागमश्चैव शत्रूणाम्। तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम्। अर्थक्षयस्तृतीये कलहः शस्त्रप्रकोपश्च। अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः। कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः। प्रमदागर्भविनाशस्तृतीयभागे भवेच्चतुर्थे च। हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च। अथ पञ्चमे नृपभयं मारीमृतदर्शनं च वक्तव्यम्। षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोम्बानाम्। धीवरशाकुनिकानां सप्तमभागे भयं भवति दीप्ते। भोजनविघात उक्तो निर्ग्रन्थिभयं च तत्परतः। कलहो नैरृतभागे रक्तस्रावोऽथ शस्त्रकोपश्च। अपराद्ये चर्मकृतं विनश्यति चर्मकारसुभयम्। तदनन्तरे परिव्राट्श्रमणभयं तत्परे त्वनशनभयम्। वृष्टिभयं बारुण्यां श्वतस्कराणां भयं परतः। वायुग्रस्ते विनाशः परे परे शस्त्रपुस्तवार्त्तानाम्। कोणे पुस्तकनाशः परे विषस्तेन वायुभयम्। परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः। तस्यासन्नेऽश्वबधो भयमपि च पुरोधसः प्रोक्तम्। गोहरणशस्त्रघातावुदक् परे सार्थघातधननाशौ। आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम्। ऐशानस्थासन्ने चित्राम्बरचित्रकृद्भयं प्रोक्तम्। ऐशाने त्वग्मिभयं दूषणमप्युत्तमस्त्री- णाम्। प्रोक्तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च। भयमूध्वं रजकानां विज्ञेयं काच्छिकानां च। हस्त्यारोहभयं स्याद् द्विरदविनाशश्च मण्डलसमाप्तौ। अभ्यन्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे। शस्त्रानलप्रकोपावाग्नेये वाजिमरणशिल्पिभयम्। याम्ये धर्मविनाशः परेऽग्न्यवस्कन्दचोक्षबधाः। अपरे तु कर्मिणां भयमथ कोणे चानिले खरोष्ट्रबधः। अत्रैव मनुष्याणां विसूचिकाविषभयं भवति। उदगर्थविप्रपीडा दिस्यैशान्यां तु चित्तसन्तापः। ग्रामोणगोपपीडा तत्र च नान्या तथात्मवधः”। २ मृगचक्रं वृ० स० ९२ अ० यथा “सीमागता वन्यमृगा रुवन्तः स्थिता व्रजन्तोऽथ समापतन्तः। सम्प्रत्यतीतैष्यभयानि दीप्ताः कुर्वन्ति शून्यं परितो भ्रमन्तः। ते ग्राम्यसत्वैरनुवाश्यमाना भयाय रोधाय भवन्ति वन्यैः। द्वाभ्यामपि प्रत्यनुवाशितास्ते वन्दिग्रहायैव मृतौ भवन्ति। वन्ये सत्वे द्वारसंस्थे पुरस्य रोधो वाचः सम्प्रविष्टे विनाशः। सूते मृत्युः, स्याद्भयं संस्थिते च गेहं याते बन्धनं सम्प्रदिष्टम्।” ३ श्वचक्रं वृ० स० ८९ अ० “नृतुरगकरिकुम्भपर्याणसक्षीरवृक्षेष्टकासञ्च यच्छत्रशयासनोलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं यदा श्वावमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रके गोमये मिष्टभोज्यागमः शुष्कसम्मूत्रणे गौडिकामोदकावाप्तिरेवाथ वा। अथ विषतरुकण्टकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि मूत्र्यावहत्याथवा यायिनोऽग्रेसरोऽनिष्टमाख्याति शय्याकुलालादिभाण्डान्यभुक्तान्यभिन्नानि वा मूत्रयत् कन्यकादोषकृद् भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणे वर्णजः सङ्करः। गमनमुखमुपानहं सम्प्रगृह्योपतिष्ठेद्यदा स्यात्तदा सिद्धये मांसपूर्णाननेऽर्थाप्तिरार्द्रोण चास्थ्ना शुभं साग्न्यलातेन शुष्केण चास्थ्ना गृहीतेन मृत्युः प्रशान्तील्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादिवक्त्रे भुवो ह्यागमो वस्त्रचौरादिभिर्व्यापदः केचिदाहुः सवस्त्रे शुभम्। प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् बधः शृङ्खलाशीर्णवल्लीबरत्रादि वा बन्धनं चोपगृह्योपतिष्ठेद्यदा स्यात्तदा बन्धनंलेढि पादौ विधुन्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात् स्वपंश्चोर्ध्वपादः सदा दो- षकृत्। सूर्य्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्यें यदि सारमेयः। एको यदा वा बहवः समेताः शंसन्ति देशाधिपमन्यमाशु। सूर्योन्मुखः श्वाऽनलदिक्स्थितश्च चौरानलत्रासकरोऽचिरेण। मध्याह्नकालेऽनलमृत्युशंसी सशोणितः स्यात्कलहोऽपराह्णे। रुवन्दिनेशाभिमुखोऽस्तकाले कृषीवलानां भयमाशु धत्ते। प्रदोषकालेऽनिलदिङ्मुखस्तु धत्ते भयं मारुततस्करोत्थम्। उदङ्मुखश्चापि निशार्धकाले विप्रव्यथां गोहरणं च शास्ति। निशावसाने शिवदिङ्मुखश्च कन्याभिदूषानलगर्भपातान्। उच्चैःस्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मोत्तमसंस्थिता वा। वर्षासु वृष्टिं कथयन्ति तीव्रामन्यत्र मृत्युं दहनं रुजश्च। प्रावृट्कालेऽवग्रहेऽम्भोऽवगाह्य प्रत्यावृत्तै रेचकैश्चाप्यभीक्ष्णम्। आधुन्वन्तो वा पिबन्तश्च तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात्। द्वारे शिरो न्यस्य बहिः शरीरं रोरूयते श्वा गृहिणीं विलोक्य। रोगप्रदः स्यादथ मन्दिरान्तर्बहिर्मुखः शंसति बन्धकीं ताम्। कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा। गोष्ठमुत्किरति गोग्रहं वदेद्धान्यलब्धिमपि धान्यभूमिषु। एकेनाक्ष्णा साशुणा दीनदृष्टिर्मन्दाहारो दुःखकृत्तद्गृहस्य। गोभिः सार्धं क्रीडमानः सुभिक्षं क्षेमारोग्यं चाभिधत्ते मुदं च। वामं जिघ्रेज्जानु वित्तानमाय स्त्रीभिः साकं विग्रहो दक्षिणं चेत्। ऊरुं वामं चेन्द्रयार्थोपभोगाः सव्यं जिघ्रेदिष्टमित्रैर्विरोधः। पादौ जिथ्रेद्यायिनश्चेदयात्रां प्राहार्थाप्तिं वाञ्छितां निश्चलस्य। स्थानस्थस्योपानहौ चेद्विजिथ्रेत् क्षिप्रं यात्रां सारमेयः करोति। उभयोरपि जिघ्रतीह बाह्वोर्बिज्ञेयो रिपुचौरसम्प्रयोगः। अथ गोपायति भस्मनि स्वभक्षान् मांसास्थीनि च शीघ्रमग्निकोपः। ग्रामे भषित्वा च बहिः श्मशाने भषन्ति चेदुत्तमपुंविनाशः। यियासतश्चाभिमुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम्। उकारवर्णेन रुतेऽर्थसिद्धिरोकारवर्णेन च वामपार्श्वे। व्याक्षेपमौकाररुतेन विद्यान् निषेधकृत्सर्वरुतैश्च पश्चात्। स्वङ्खेति चोच्चैश्च मुहुर्मुहुर्ये रुवन्ति दण्डैरिब ताड्यमानाः। श्चानोऽभिधावन्ति च मण्डलेषु ते शून्यतां मृत्युभयं च कुर्य्युः। प्रकाश्य दन्तान् यदि लेढि सृक्विणी तदाऽशनं मिष्टमुशन्ति तद्विदः। यदाननं चावलिहेन्न सृकिणी प्रवृत्तभोज्येऽपि तदान्नविघ्रकृत्। ग्रामस्य मध्ये यदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुर्ये। ते क्लेश- माख्यान्ति तदीश्वरस्य श्वारण्यसंस्थो मृगवद्विचिन्त्यः। वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा। वायोर्गृहे शस्यभयं गृहान्तः पीडा पुरस्यैव च गोपुरस्थाः। भय च शय्यासु तदीश्वराणां याने भषन्तो भयदाश्च पश्चात्। अथापसव्या जनसन्निवेशे भयं भषन्तः कथयन्त्यरीणाम्”। ४ अनिलचक्रञ्च अनिलशब्दे १६६ पृ० दर्शितम्। व्यूहश्चात्र चक्राकारः स च द्रोणेनाभिमन्युबधपर्व्वणि कृतः। “चक्रव्यूही महाराज! ह्याचार्य्येणाभिकल्पितः” भा० द्रो० ३४ अ०। इत्यादिनोक्तः। यन्त्ररूपचक्राणि यन्त्रशब्दे वक्ष्यन्ते। तत्र राष्ट्रे “स्वचक्रं परचक्रञ्च” इतिकथने एतद्दच्छव्दे अनुपदं दर्शितवाक्ये। समूहे “भूरेणवो नभसि नङ्धपयोदचक्रम्” माघः। “दिक्चक्रमाक्रामति” मृच्छ०। सुदर्शनाख्ये राष्ट्रे च। “अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया” माथः। “न चक्रमस्याक्रमताधिकन्धरम्” माघ। चक्रवाके। “तव तन्वि! कुचावेतौ नियतं चक्रवर्त्तिनौ” उद्भटः। कुम्भकारचक्रे चक्रवाके च। “कलसे निजहेतुदण्डजः किमु चक्रभ्रमिकारितागुणः। स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनोति यत्” नैष०। राशिचक्रे “त्रिंशत्कृत्यो युगे भानां चक्र प्राक्प्रविलम्बते” सू० सि०। “रवेश्चक्रभोगोऽर्कवर्षं प्रदिष्टम्” सि० शि०। २० मण्डलाकारे रेखाविन्यासभेदे “चक्रे सचक्रनिभचङ्क्रमणच्छलेन” “वितत्य वात्यामयचक्र चङ्क्रमान्” नैष०। “शालग्रामशिलाचक्रम् गोमतीचक्रम्” एकद्वारे चतुश्चक्रं वनमालाविभूषितम्” शालग्रामशब्दे दृश्यम्।

***