घा = स्त्री हन–बा० ड हस्य घश्च। १ काञ्च्यां २ घाते च मेदि०।

घाट = पु० चु० घट–अच्। ग्रीवायाः पश्चाद्भागे अवटौ (षाड) शब्दर०। तत्रैवार्थे स्त्री टाप् अमरः। “दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटां सुरुजाः सतीव्राम्” सुश्रु०। ३ घट्टे ४ गवादिप्रचारस्थानभेदे “घाटाः किं वहबोमातरभिन्नाः सर्व्वतोव्रजे” हरिवं० ३२१ अ०। घाटा अस्त्यस्व अर्श० अच्। ५ घाटायुक्ते त्रि०।

घाटाल = पु० घाटा + सिध्मा० अस्त्यर्थे लच्। सुश्रुतोक्ते सान्निपातिकविद्रधिरोगलक्ष्मभेदे “नानारूपरुजास्रावो घाटालोविषमोमहान्। विषमं पच्यते वापि विद्रधिः सान्निपातिकः” सुश्रुतः”। घाटालस्य नद्याद्यवता- रस्थानवत् गम्भीरतायुक्तत्वात् तद्वदुन्नतानतत्वेन च तथात्वम्।

घाटिका = स्त्री घाटा स्वार्थे क। घाटायाम् शब्दच०।

घाण्टिक = पु० घण्टया चरति ठक्। “राज्ञां प्रबोधसमये घण्टाशिल्पास्तु घाण्टिकाः” इत्युक्तलक्षणे राज्ञां प्रबोधनाय घण्टां वादयित्वा १ स्तुतिपाठके २ घण्टावादके त्रि० अमरः। अमुं घाटिकैत्यप्यमरटीकायां भरतः पपाठ। घण्टा तदाकारं पुष्पमस्त्यस्य ठन्। ३ धूस्तुरे हारा० तस्य तदाकारकुसुमत्वात्तथात्वम् “पुष्पे घाण्टिकघोषिकयवनबणिक्कितवकुसुमानि”। “उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम्। वृ० स० १० अ०। शपथवचनेन ४ व्यवहारिणि” प्रा० वि०। “राजपौरुषिके विप्रे घाण्टिके परिचारके”। दैवषैत्रयोः अपात्रोक्तौ तस्याभोज्यान्नतामाह यमः “राजान्नं हरते तेजः” इत्युपक्रमे “पाप्मा तथान्नं शौण्डस्य घाण्टिकस्य तथैव च। इतरे ये त्वभोज्यान्नास्तेषामन्नं विवर्जयेत्। कृच्छ्रं द्वादशरात्रं वा तप्तकृच्छ्रमथापि वा”। “घाण्टिकोदिव्यवाचकः” प्रा० वि०।

घात = पु० हन–घञ्। १ प्रहारे, २ मारणे, ३ पूरणे, गुणनें च। “चरेत् व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः” याज्ञ०। “पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः” भा० आ० १४८ अ०। “समद्विघातः कृतिरुच्यतेऽथ” लीला०। करणे घञ्। ४ वाणे मेदि०। चतुरङ्गक्रीडायां वट्यादिबलानां स्थानविशेषेषु ५ अन्यबालनामागमे तदपसारणेन तत्स्थाने तदाक्रमे। चतुरङ्गशब्दे दृश्यम्। जन्मतारापेक्षया ६ निधनाख्ये सप्तमषोडशपञ्चविंशतितमनक्षत्रे च।

घातक = त्रि० घातयति हन–ण्वुल्। हननकर्त्तरि। “अनुमन्ता विशसिता निहन्ता क्रयविक्रयी। संस्कर्त्ता चोपहर्त्ता च खादकश्चेति धातकाः” मनुः। अत्र खादकस्यापि घातकत्वमुक्तं मिताक्षरायां तु कर्त्तप्रयोजकादीनां घातकत्वं समर्थितं यथा “हन्तिरयं प्राणवियोगकरे व्यापारे रूढः। यद्व्यापारसमनन्तरङ्कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति स ब्राह्मणं हतवानिति ब्रह्महा”। “तथाशब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्त्तृसं ग्रहार्थः। अनुग्राहकश्च यः पलायमानममित्रमुपरुन्धन् परेभ्यश्च हन्तारम्परिरक्षन् हन्तुर्द्रढिमानमुपजनयन्नुप- करोति स उच्यते। अतएव मनुना अनुग्राहकस्य हिंसाफलसम्बन्धो दर्शितः “बहूनामेककार्याणां सर्वेषाम् शस्त्रधारिणाम्। यद्येकोघातयेत्तत्र सर्वे ते घातकाः स्मृताः” इति। तथा प्रयोजकादीनामप्यापस्तम्बेन फल सम्बन्ध उक्तः “प्रयोजयिताऽनुमन्ता कर्त्ता चेति स्वर्ग नरंकफलेषु कर्म्मसु योभूय आरभते तस्मिन् फलविशेषः” इति। तत्राप्रवृत्तस्य प्रवर्त्तकः प्रयोजकः स च त्रि प्रकारः। आज्ञापयिताऽभ्यर्थयमान उपदेष्टेति। तत्राज्ञापयिता नाम स्वयमुच्चः सन्नीचम्भृत्यादिकं यः प्रेषयति मदीयममित्रञ्जहीति स उच्यते। अभ्यर्थयमानस्तु यः स्वयमसमर्थः प्रार्थनादिना मच्छत्रुं व्यापादयेति समर्थं प्रवर्त्तयति सोऽभिधीयते। अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयोक्तृत्वम्। उपदेष्टा पुनः त्वं शत्रुमित्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरम्प्रेरयन् कथ्यते। तत्र च प्रयोज्यगतमेव फलमिति तेषाम्भेदः। अनुमन्ता तु प्रवृत्तस्य प्रवर्त्तकः स च द्विप्रकारः कश्चित् स्वार्थसिद्ध्यर्थ मनुजानाति कश्चित्परार्थमिति। नन्वनुमननस्य कथं हिंसाहेतुत्वं न तावत् प्राणवियोगोत्पादनेन, तस्य साक्षात्कर्त्तृव्यापारजन्यत्वात् नापि प्रयोजकस्येव साक्षात् कर्तृप्रवृत्त्युत्पादनद्वारेण, प्रवृत्तस्य प्रवर्त्तकत्वात्। न च साधु त्वया व्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्कनीयम्। तादृशस्यानुमननस्य हिंसाम्प्रत्यहेतुत्वाद्व्यर्थत्वाच्च। उच्यते यत्र हि राजादिपारतन्त्र्यात् स्वयं मनसा प्रवृत्तोऽपि प्रवृत्तिविच्छेदादागामिदण्डभयाद्वा शिथिलप्रयत्नो राजाद्यनुमतिमपेक्षते तत्रानुमतिर्हन्तुः प्रवृत्तिमुपोद्वोलयन्ती हिसाफलम्प्रति हेतुतां प्रतिपद्यते। तथा योऽपि भर्त्सनेन ताडनधनापहारादिना परान् कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसाहेतुर्भवत्येव। अतएव विष्णुनोक्तम् “आक्रुष्टस्ताडितोवापि धनैर्वापि वियोजितः। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्”। तथा “ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च। यमुदिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकमिति”। न च कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पत्त्यदर्शनादकारणतेति शङ्कनीयम् पुरुषस्वभाववैचित्र्यात् येऽल्पतरेणापि निमित्तेन जातमन्यबोभवन्ति तेष्वव्यभिचार इति नाकारणता। एतेषाञ्चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवम्बोद्ध- व्यम् “यो भूय आरभते तस्मिन् फलविशेषः” इति वचनात्तथाह्यनुग्राहकस्य तावत् स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्वकर्पृत्वे सत्यपि साक्षात्प्राणवियोगफलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्पृवद्भूयो हिंसारम्भकत्वाभावादल्पफलत्वमल्पप्रायश्चित्तं च, प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यवहितत्वात्ततोऽल्पफलत्वं, प्रयोजकादीनां मध्ये परार्थ प्रवृत्तेरुपदेष्टुरल्पफलत्वम्। ननु प्रयोजकस्य हस्तस्थानीयत्वात् प्रयोज्यस्य न फलसम्बन्धो युक्तः यदि पर प्रयुक्त्या प्रवर्त्तमानस्यापि फलसम्बन्धस्तर्हि स्थपतितडाग खनितृप्रभृतीनामपि मूल्येन प्रवर्त्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः। उच्यते। “शास्त्रफलम्प्रयोक्तरीति” न्यायेनाधिकारिकर्तृगतफलजनका देवकुलतडागनिर्माणादयः। न च स्थपतितडागखनित्रादयी देवकुलतडागादिकरणादिष्वधिकारिणोऽस्यर्गकामित्वात्। अत्र पुनः परप्रयुक्त्या प्रवर्त्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्व्यतिक्रमनिबन्धनो दोषः। अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वम्प्रयोजकव्यापाराद्बहिरङ्गत्वाल्लघुत्वाच्च अनुमननस्य, निमित्तकर्त्तुः पुनराक्रोशकादेः प्रवृत्तिहतुभूतमन्युजनकत्वेन व्यवहितत्वान्मरणानुसन्धानं दिना प्रवृत्तत्वाच्चानुमन्तुः सकाशादल्पफलत्वम्। ननु यदि व्यवहितस्यापि कारणत्वन्तर्हि मातापित्रोरपि हन्तृपुरुषोत्पादनद्वारेण हननकर्वृत्व प्रसङ्गः। उच्यते नहि पूर्वभावित्वमात्रेण कारणत्वम् अकारणस्यापि तथा भावित्वापत्तेः। यत् खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद्धिकारणं, “यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति” रथन्तरसामतैव क्रतीरैन्द्रवायवाग्रताक रणुं” न हि तत्र सोमयागः स्वरूपेण कारणं व्यभिचारात्। न च पित्रोस्तादृग्विधकारणलक्षण योगित्वमिति नातिप्रसङ्गः। अनेनैव न्यायेन धर्माभिसन्धिना निर्मितकूपवाप्यादौ प्रमादपतितव्राह्मणादि मरणे खानयितुर्दोषाभावः। न हि कूपोऽनेन खानितः अतोऽहमात्मानं व्यापादयामीत्येवं कूपखननंनिमित्तव्यापादनं यथाऽऽक्रोशादौ अतः कूपकर्तुरपि कारणखमेव न पुनर्हिंसाहेतुत्वमिति मातापिवृतुल्यतैव। तथा क्वचिसत्यपि हिंसानिमित्ततायोगित्वे परोपकारार्थ प्रवृत्तौ वचनाद्दोषाभावः यथाह संवर्त्तः “बन्धने गो- श्चिकित्सार्थे गूढगर्भविमोचने। यत्ने कृते–विपत्तिश्चेत् प्रायश्चित्तं न विद्यते। ओषधं स्नेहमाहारन्ददद्गो ब्राह्मणादिषु। दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते। दाहच्छेदसिराभेदप्रयत्नैरुपकुर्वताम्। प्राणसन्त्राण सिद्ध्यर्थं, प्रायश्चित्तं न विद्यते” इति। एतच्चदानं निदान निपुणभिषग्विषयम्। इतरत्र “भिषग्मिथ्या चरन् दाप्यः” इत्यत्र दोषो दर्शितः। यत्र तु मन्युनिमित्ताक्रोशनादि कमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोषः। “अकारणं तु यः कश्चित् द्विजः प्राणान् परित्यजेत्। तस्यैव तत्र दोषः स्यान्नतु यम्परिकीर्त्तयेदिति” स्मरणात्। तथा यत्राप्याक्रोशकादिजनितमन्युरात्मानं खङ्गादिना प्रहृत्य मरणादर्वागाक्रोशनादिकृता धनदानादिना सन्तोषितो यदि जनसमक्षमुच्चैः श्रावयति नात्राक्रोशकस्यापराध इति तत्रापि वचनान्न दोषः। यथाह विष्णुः “उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत्पुनः। तस्मिन्मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते” इति। एतेषाञ्च प्रयोजकादीनां दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेष’ वक्ष्यामः” मिता०। प्राय० वि० तस्य पञ्चविधत्वमुक्तं यथा “प्राणवियोगफलकव्यापारोबधः तन्निष्पादकत्वञ्च साक्षात् परम्परोदासीनं स्मृतिकारपरिगणितं बधित्वम् अतो नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधं स्मृतिस्वरसात् कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहको निमित्ती चेति यथा आपस्तम्बः “प्रयोजयिता अनुमन्ता कर्त्ता चेति सर्व्वेस्वर्गनरकफलभोक्तारो योभूय आरभते तस्मिन्फले विशेषः”। अनुग्राहकमाह याज्ञवलक्यः “चरेद्व्रत महत्वापि घातार्थञ्चेत् समागतः” तथा मनुः “वहूनामेककार्य्याणां सर्व्वेषां शस्त्रधारिणाम्। यद्येकोघातकस्तत्र सर्व्वते घातकाः स्मृताः”। भविष्ये “यद्येकंवहवो विप्रा घ्नन्ति विप्रमनागसम्। तदेषां निष्कृतिं वच्मि शृणुष्वेकमना गुह!। तेषां यस्य प्रहारेण स विप्रोनिधनंगतः। सरस्वतीप्रतिस्रोतः सञ्चरेत् पापशुद्धये”। सचद्विविधः। एकोबध्यप्रतिरोधकः अन्यः स्वल्पप्रहर्त्ता। निमित्तिनमाह विष्णुः “अन्यायेन गृहीतस्वो न्यायमर्थयते तु यः। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्”। अत्र नरान्तरव्यापार व्यवधानेन बधनिष्पादकः कर्त्ता यः कर्त्तारं कारयति स प्रयोजकः सोऽपि द्विविधः। एकःस्वतोऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयति अपरः स्वतःप्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति। अनुमतिदाता अनुमन्ता अनुमतिश्च द्विविधा। एका यद्विरोधाद्धननं न सम्भवति तस्य विरोधिनोमया निरोधः कर्त्तव्यैति युक्तिरनुमतिः। अपरा एनं हन्मीतिवचने शक्तस्याप्रतिषेधः। अतएव कात्यायनः “स्वंद्रव्यं दीयमानन्तु यत् स्वामी न निवारयेत्। ऋक्थिभिर्वा परेर्वापि दत्तं तेनैव तद्भृगुः” दत्तमिति दातुमनुमतमित्यर्थः। तथा “प्रार्थ्यमानोऽर्थिना यत्र योह्यर्थो न विघातितः। दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनुमोदितः”। अत्राप्रतिषेध एवानुमतिरुक्ता। अतएव “परवचनमप्रतिषिद्धमनुमतं भवतीति” न्यायविदः। घध्यस्य पलायनादिरोधकोऽनुग्राहकः। उद्देश्यत्वे सति हन्तुर्मन्यूत्पादके निमित्ती। तत्र प्रयोजकस्य कर्तृप्रयुक्तिद्वारेण बधकारणत्वम् अनुमन्तुश्च हन्तुर्निर्भयत्वेन दृढतरप्रहारोत्पत्तिद्वारेण, अनुग्राहकस्य पलायनाद्यसम्भवेन हननीयस्थैर्य्यं कुर्व्वतः प्रहारस्वरूपोत्पत्ति द्वारेण कारणत्वं, निमित्तिनो हन्तृमन्यूत्पादनद्वारेण इति प्रयोजकादीनां च चतुर्णां व्यवहितहनन कारणानाम् अवान्तरव्यापारप्रकारभेदाद्भेदः। अतः पञ्चविधं बधित्वम्”।। ततोजिकनमतं प्रदर्श्य दूषयित्वा स्वमतं तेन दर्शितं यथा “तस्माच्चेतनान्तरव्यापाराव्यवधानेन धात्वर्थनिष्पादकश्चेतनः कर्त्ता, कर्म्मकरणादिकारकचक्रप्रयोक्ता वा कर्त्तेति सामान्येन कर्तृलक्षणः। यश्च पदातिद्वारा व्राह्मणंहन्ति तत्र न पदातेः करणत्वं हननकर्म्मकाले कर्तृव्यापारव्याप्यत्वाभाबात् न वा तस्याव्यवधायकत्वं प्रमाणा भावात् खङ्गस्य तु व्यबधायकत्वेऽपि न दोषः तस्य चेत नत्याभावात् न वा तस्य व्यवधायकत्वं हन्तृव्यापारे हन्तुः साक्षादेव कारणत्वात् द्वैधीभावफलनिष्पत्तौ खङ्गव्यापारस्य सहकारितामात्रम् अतएवाश्वेन पदातिना च राजा सञ्चरतीति सत्यपि चेतनान्तरव्यापारे तस्य सहकारितामात्रं न तु व्यवधायकत्वं स्वव्यापारे राज्ञः साक्षात्कारणत्वात् एवञ्च यजमानस्य स्वव्यापारे यागे देवतोद्देशेन द्रव्यत्यागलक्षणे साक्षात्कारणत्वमेव प्रक्षेपादौ च तदङ्गे ऋत्विगादिव्यापरः सत्रेऽपि साधारणद्रव्यत्यागात् सप्तदशानामेब कर्त्तृत्वम् एकस्य तदसम्भबात् यागव्यतिरिक्तकर्म्मणि प्रत्येकं सप्तदशानां कर्म्मव्यबस्थ। अथ बा “स्वर्गकामोयजेत” “सप्तदशावरा- ऋद्धिकामाः सत्रमुपासीरन्निति” वेदे कामिनां कर्तृत्वावगतेस्तदनुपपत्त्या ऋत्विग्व्यापारान्तर्भावो न व्यवधायकः आग्नेयादिकरणत्वानुपपत्तिकल्पितोत्पत्त्यपूर्व्वमिव। न चेह तथा, कर्तृत्वे प्रमाणाभावात् तस्मात् पूर्व्वोक्तकर्तृलक्षणानाक्रान्तत्वादस्वतःप्रवृत्तपदातिप्रेरको न बधकर्त्ता किन्तु प्रयोजक एव। अनुग्राहकोऽपि न कर्त्ता कर्तृलक्षणाव्याप्यत्वात् सत्रे तु विशेष उक्त एव। पाक्षिकमरणानुमन्तृत्वान्निमित्तिनोऽनुमन्तृत्वमयुक्तम् एवं प्रयोजकस्यानुमन्तृत्वापत्तेः अतो मन्यूत्पादन द्वारा योनिमित्तवान् स निमित्तीत्यनुमन्तृतः प्रकारान्तरएवायं प्रयोजकादिवत् अतो यथा कथञ्चि न्निमित्ततामात्रेण यदि निमित्तबधः तद मातापित्रो रिषुकारस्यापि निमित्तत्वं स्यादिति निरस्तं, ननु सत्यपि मन्यूत्पादने, न निमित्तत्वं यथा वध्यस्य बधकमन्यूत्पादकस्य, नह्यनुत्पादितमन्युः कश्चित् कमपि व्यापादयति, असत्यपि मन्यूत्पादे निमित्तत्वं यथा मरणाभिसन्धानेन अन्ने विषप्रक्षेप्तुर्नहि तस्य कर्त्तृत्वं सम्भवतिं नरान्तरविषभक्षणव्यापारव्यबधानात् अतस्तत्रापि कर्त त्वमस्तीति भवदेवमतं निरस्तं सत्यं कर्त्त्रादिचतुष्टयविलक्षणो वाचनिकनिषिद्धनिमित्तमावएव निमित्तीति निमित्तिलक्षणं नेषुकारस्य बध्यस्य वा निमित्त भावोंनिषिद्धः अभक्ष्यान्नदातुश्च निषिद्ध एव। अहितमाहा रादिकं मरणफलकं हितनिश्चयेन क्रियमाणं न पापहेतुरिति वदता अहितं मरणफलकमहितबुद्ध्या क्रियमाणं पापहेतुरिति दर्शितं निमित्तबधापवादकवचनेन, एतच्च वक्ष्यते एवं यत्रामिसन्धानं नास्ति हेत्वनरव्यवस्थापितं विषं खादित्वा कश्चिन्म्रियते तत्र न बधित्वम् एवं व्याघ्रादिमारणार्थकृतयन्त्रादावन्यस्य मरणे न बधित्वम् एवंकूपखातादावपि। मरणाभिसन्धाने तु तत्रास्त्येव। तथा यः कश्चित् संशयस्थाने प्रस्थाप्यते बलवती च मरणाशङ्का भवति तत्र प्रस्थापितोयदि म्रियते तत्र बधित्वं, पाक्षिक मरणाभिसन्धानात् अतएवेतरनिमित्तिनो विषक्षेप्तुर्जघन्यत्वम् तथा च याज्ञवल्क्यः “कृच्छ्रत्रयं गुरुः कुर्य्यात म्रियेत प्रहितो यदि”। वौधायनः “गुरुः प्रयुक्तश्चेन्म्रियते गुरुस्त्रीन् कृच्छ्रान् चरेत्”। उपकाराचरणेन बधनिष्पत्तौ निमित्तबधापवादमाह संवर्त्तः” “औषधं स्नेहमाहारं ददद्गोव्राह्मणेषु च। प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते”। यन्त्रणे गोश्चिकित्सायां मूढगर्भविमोचने। यत्ने कृते विपत्तिः स्यात् प्रायश्चित्तं न विद्यते”। मूढगर्भोऽन्तर्मृतगर्भः। तथा “दाहच्छेदसिराभेदप्रयत्नैरुपकुर्व्वताम्। द्विजानां गोहितार्थेषु प्रायश्चित्तं न विद्यते”। याज्ञवल्क्यः “क्रियमाणोपकारे तु मृते विप्रे न पातकम्। यिपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च”। विशेष माहाङ्गिराः “औषधे तु न दोषोऽस्ति स्वेच्छया पिवते यदि। अन्यथा दीयमाने तु प्रायश्चित्तं न संशयः”। मन्यूत्पादने निमित्तवधमाह वृद्ध शातातर्पः “गोभूहिरण्यहरणे स्त्रीसम्बन्धकृतेऽपि च। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्व्रह्मघातकम्” विष्णुः “अन्थायेन गृहीतस्वो न्यायमर्थयते तु यः। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्”। तथा वृहस्पति नाम्ना पठितानि वचनानि “ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्म घातकम्। गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्। गुर्व्वर्थं पितृमात्रर्थमात्मार्थमथ वा पुनः। यमुद्दिश्य त्यजेत् प्राणां स्तग्राहुर्ब्रह्म घातकम्” षट्त्रिंशन्मतमिति कृत्वा पठितम् “आक्रोशितस्ताडितो वा धनै र्वा परिपीडितः। यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्”। अत्रोद्दिश्येति सर्वत्र कीर्त्तनात् उद्देशाभावे निमित्ततामात्रेण बधित्वं नास्ति, अर्थादिहरणाक्रोशनताडनादीनां मन्युकारणानामुपात्तत्वादेतेषामभावे धनाद्यर्थं वृक्षारोहणादिना ये म्रियन्ते तत्र कीर्त्तनमात्रेण निमित्तबधोनास्ति तथा च पठन्ति “असम्बन्धेन यः कश्चित् द्विजः प्राणान् परित्यजेत्। तस्यैव तद्भवेत् पापं न तु यं परिकीर्त्तयेत्”। असम्बन्धेनेति वाक्कृतादिसकलापराधसम्बन्धाभाव परम्। यच्च “सम्बन्धेन विना देव! शुष्कवादेन कोपितः”। इति भविष्यपुराणवचनं वार्पिकप्रायश्चित्तविधायकम् तत् वाक्कृतेतरापराधसम्बन्धाभाबपरं “शुष्कवादेन कोपितः” इत्यभिधानात्। एवं यत्राक्रोशनादौ पश्चात्कृतेनापराधः तत्रापि न बधः। यथा वृहस्पतिः “आक्रुष्ट स्तु यदाऽऽक्रोशंस्ताडितः प्रतिताडयन्। हत्वाततायिनञ्चैव नापराधी भवेन्नरः” शास्त्रविहितताडनादौ कृते यत्र शिष्यादिर्म्रियते तत्रापि वधो नास्त्येव यथा भविष्य पुराणे “पत्रः शिष्यस्तथा भार्य्या शासितश्चेद्विनश्यति। न शास्ता तत्र दोषेण लिप्यते देवसत्तम!”। अशास्त्वाय ताडनादौ भवत्येव यथा मनुः “पुत्रः शिष्यस्तथा भार्य्या दासी दासस्तु पञ्चमः। प्राप्तापराधास्ताड्याः स्यूरज्ज्वा वेणुदलेन वा। अधस्तात्तु प्रहर्त्तव्यं नोत्तमाङ्गे कदाचन। अतोऽन्यथा तु प्रहरंश्चौरस्याप्नोति किल्विषम्”। एवञ्च विहितदण्डाचरणे शास्त्रीयकरग्रहणे क्रियमाणे यदि म्रियते तदापि बधोनास्त्येव दण्डादिशास्त्रविधिविरोधान्निषेधाप्रवृत्तेः। सोमविक्रयणे तु रागादेव प्रवृत्ति सम्भवान्न विरोधः। आततायिबधापवादमाह वृहस्पतिः “नाततायिवधे हन्ता किल्विषं प्राप्नुयात् क्वचित्। विनाशिनमथायान्तं घातयन्नापराध्नुयात्” किल्विषाभावः प्रायश्चित्तनिषेधार्थः। अप्रराधाभावोदण्डनिषेधार्थः। यतः “सर्व्वत एवात्मानं गोपायीत इति श्रुतिमूलमिदम् अतः पलायनादिनापि आत्मरक्षणाभावे इदं बोद्धव्यम्। कात्यायनः “आततायिनमायान्तमपि वेदान्तपारगम्। जिघांसन्तं जिघांसीयान्न ते न ब्रह्महा भवेत्”। जिघांसी सन् इयात् गच्छेदित्यर्थः। देवलः “उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम्। निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत्”। भ्रूणो ब्राह्मणविशेषः दोषदर्शनं नियमार्थम्। मनुविष्णू “गुरुं वा बालवृद्धौ वा ब्राह्मणं वा वहुश्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्”। एवकारो नियमार्थः “तथा नाततायिवधे दोषोहन्तुर्भवति कश्चन। प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति” यस्माद्धन्तुर्मन्युर्हन्यमान मन्युं नाशयति न पुनः पुरुषोहन्ति हन्यते वेति हननबिधेरनुवादः। “आततायिनमाह वशिष्ठः” “अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते आततायिनः” विष्णुकात्यायनौ “उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा। आथर्वणेन हन्तार पिशुनञ्चैव राजसु। भार्य्यातिक्रमिणञ्चैत विद्यात् सप्ताततायिनः। यशोवृत्तहृरानऽन्यानाहुर्धर्म्मार्थहारकान्”। विशेषमाह कात्यायनः” “अनाक्षारितपूर्व्वोयस्त्वपराधे प्रवर्त्तते। प्राणद्रव्यापहारे च प्रवृत्तस्याततायिता” अनाक्षारितोऽनपकृतः। एतेन पूर्व्वकृतापकारस्य मारणोद्यतस्य नाततायिता तेन प्रत्यपकारिबधे दोष एव। ननु आततायिनोरपि गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः “आततायिबधे न दोषोऽन्यत्र गोब्राह्मणात् यदा हन्यात् तदा प्रायश्चित्तं कुर्य्यात्”। तथा भविष्ये “क्षिण्वानमपि गोविप्रं न हन्याद्बै कदाचन” इति अतः पूर्व्ववचनविरोधः तत्र व्यव- स्थामाह कात्यायनः “आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः। बधस्तव तु नैव स्यात् पापे हीने बधोभृगुः”। जन्मपदेन जातिः कुलञ्चोच्यते। तेन हन्त्रपेक्षया तवोविद्याजातिकुलैरुत्कृष्टोनाततायी बध्यएव। अतएव भगवद्गीतायामाह “पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः” इति एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणानित्यर्थः। एवम्भूताततायिनश्चाहनने फलमप्याह वृहस्पतिः “आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम्। यो न हन्याद्बधप्राप्तं सोऽश्वमेधफलं लभेत्” यद्यपि “गुरुं बहुश्रुतंहन्यात्” इति श्रूयते तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिव्यस्याऽप्युत्कर्षसम्भवात् एवं बहुश्रुतादपि। एवमधमवर्णस्योत्तमवर्णो न बध्यः। पूर्वकृतापराधविषयं वा सुमन्तुवचनम्। गौरातताय्यपि न बध्यः “नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम्। हस्त्यश्वानां तथान्येषां बधे हन्ता न दोषभाग्” इति कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम् विशेषमाह कात्यायनः “उद्यतानान्तु पापानां हन्तुर्दोषो न विद्यते। निवृत्तास्तु यदारम्भाद्ग्रहणंन बधःस्मृतः”। तन्त्रोक्ते ग्राह्यमन्त्रसाधकयोः २ शुभाशुभज्ञापके राशिचक्रस्थे साधकराश्यपेक्षया साध्यराशेर्द्वादशाष्टचतुः संख्यान्विते कोष्ठेऽवस्थाने। चक्रशब्दे च राशिचक्रं वक्ष्यते तत्र विवृतिः “वह्निरुद्रमुनयस्तु पोषका द्वादशाष्टचतुरस्तु घातकाः” एतच्च विष्णुविषयम् रामार्च्चनचन्द्रिकाधृतत्वात्” कृष्णानन्दः।

घातन = न० हन–हन्त्यर्थत्वात् स्वार्थे णिच्–भावे ल्युट्। १ मारणे हनने २ यज्ञार्थपश्वालम्भने शब्दार्थ०। घातयति कर्त्तरिं ल्यु। २ मारके त्रि० हन्तेरौणादिके युनि तु घतन इत्येव घतनशब्दे विवृतिः। शब्दकल्पद्रुमे घतनेत्यत्र लिपिकरप्रमादकृतघातनशब्ददर्शनात् सि० कौ० सम्मतत्वेन घातनशब्दकल्पनं प्रामादिकमेव “हन्तेर्युन्नाद्यन्तयोर्घत्वंतत्वे” उणा० ५। ४२। घतनस्यैव सिद्धेः दीर्घत्वे निमित्ताभावात्। चुरा० हन्तेस्तथाप्रत्ययकल्पने घत्वतत्वविधानानर्थक्यप्रसङ्गात्। एवं मुद्रित पुस्तके “वातनो मारकः” इति दीर्घपाठोऽपि प्रमादकृतएव

घातवार = पु० राशिविशेषजातस्याशुभसूचके वारभेदे यथा “नक्रे भौमो गोहरिस्त्रीषु मन्दश्चंन्द्रोद्वन्द्वेऽर्कोऽजमे ज्ञश्च कर्के। शुक्लः कोदण्डालिमीनेषु, कुम्भे यूके जीवो घातवारा न शस्ताः” शब्दार्थचि० ज्यो० वाक्यम्।

घातस्थान = न० ६ त०। श्मशाने शब्दार्थचिन्तामणिः।

घाति = पु० हन–इण्। पक्षिबन्धने संक्षिप्तसारे उणदिवृत्तिः।

घातिन् = त्रि० हन–ताच्छील्यार्थे णिनि। हननकरणशीले। स्त्रियां ङीप्।

घातिपक्षिन् = पुंस्त्री० कर्म्म०। श्येनखगे हारा० स्त्रियां ङीप्।

घातुक = त्रि० हन–उकञ्। १ हिंस्रे २ क्रूरे च अमरः।

घात्य = त्रि० हन–ण्यत्। १ बध्ये २ बधार्हे ३ गुणनीये च।

घार = पु० घृ–सेके घञ्। सेचने।

घारि = न० छन्दोविशेषे। “रं विधाय लं निधाय धारि नाम वृत्तमेहि”। यथा “राम राम राम राम। सारमेतदेव नाम”। शब्दार्थ चि०।

घार्तिक = त्रि० पु० घृतेन निर्वृत्तः ष्ठञ्। घृतप्रचुरे छिद्रबहुले (घिओड) पक्वान्नभेदे हेमच०। घृतपूरशब्दे दृश्यम्। “तृतीयस्य घार्त्तिकं ददाति स दृष्ट्वाह “छिद्रेष्वनर्या बहुलीभवन्ति” पञ्चत०।

घार्त्तेय = त्रि० घृताया अपत्यम् द्यच्कत्वात् ढक्। १ दीप्ताया अपत्ये ततः यौधेया० स्वार्थे अञ्। तत्रार्थे स्त्रियां शाङ्गरवा० ङीन्। २ तद्राजे च तस्य च यौधेया० तद्राजस्य स्त्रितां न लुक्। घार्त्तेयी। तत्र घार्त्तेयी इति तत्र पाठान्तरम्।

घास = पु० घस–कर्म्मणि घञ्। गवादीनां भक्ष्ये तुणभेदे अमरः। “घासमुष्टिं परगवे दद्यात् संवत्सरं तु यः” भा० आनु० ६९ अ०। “घासं दद्यात् परगवे” प्रा० त० २ भक्ष्यद्रव्यमात्रे च “अश्वायेव तिष्ठते घासमस्मै” यजु० ११। ७५। “घासं समिद्रूपम्” वेददी०। “कर्षितं व्याघितं क्लिष्टमपानीयमघासकम्। परिश्रान्तं च मन्दञ्च प्रहर्त्तव्यमरेर्बलम्” भा० आ० १४४ अ०।

घासकुन्द = पु० घासार्थिः कुन्दः। घासार्थकुन्दे तत्प्रचुरस्थाने ततः कुमुदा० चतुरर्थ्यां ठक्। घासकुन्दिक तत्सन्निकृष्टदेशादौ त्रि०।

घासि = पु० वस बा०–इण्। १ अग्नौ त्रिका० कर्म्मणि इण्। २ भक्ष्ये तृणादा त्रि० उज्जलदत्तः “यच्च पपौ यच्च घासिं जघान” ऋ० १। १६२। १४। “घासिमदनीयम्” भा०।

घिण = ग्रहणे भ्वा० आ० सक० सेट् इदित्। धिणते अघिस्मिष्ट जिविण्णे।

घु = ध्वनौ भ्वा० आत्म० अक० अनिट्। घवते अघोष्ट। जुधुले।

घु = पु० घु–ध्वनौ बा० डु। १ ध्वनौ जटाधरः। अत्र ध्वनिः वनकपोतस्य (घुघु) ख्यातस्य ध्वनिः। गैग० वाक्ये व्यकं भविष्यति “दाधाघ्वदाप् पा० उक्ते दाधारूपे पारिभाषिके २ धातुद्वये च। “यास्त्वेताः स्वेच्छया संज्ञाः क्रिथन्ते ठिघुभादयः। कथं नु तासां साधुत्वं? नैव ताः साधवोमताः” इत्याशङ्क्य “अनपभ्रंशरूपत्वं नाप्यासामपशब्दता। असाधूनां प्रयोगे वा प्रत्यवायोऽपि नो तथा” इति हरिणा तस्यानपभ्रंशत्वेन साधुत्वमुक्तं संज्ञाकरणफलं तु स्वशास्त्रे तया व्यवहारः यथा “उपसर्गात् घोः किः” पा०। “दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत् कोऽप्यधीती कपोतः (घुघु) कण्ठे शब्दौघसिद्धिक्षबहुकठिनीशेषभूषानुयातः। सर्व्वं विस्मृत्य दैवात् स्मृतिमुषसि गतां घोषयन् यो घुसंज्ञां प्राक् संस्कारेण सम्प्रत्यपि धुवति शिरः पट्टिकापाठजेन” नैष०। “स्वर्घौ गुरू” मुग्ध० परिभाषिते ३ लघुवर्णे च।

घुट = आवर्त्तने (घा~टा) भ्वा० आत्म० सक० सेट्। घोटते ऌदित् अघुटत् जुघुटे।

घुट = प्रतिघाते तु० कुटा० पर० सक० सेट्। घुटति अघुटीत् जुघोट।

घुट = पु० कु० घुट–अच्। चरणग्रन्थौ गुल्फे हेम०। ततः स्वार्थे क, घुट–ण्वुल् वा। घुटक अत्रैवार्थे पु०।

घुटि(टी) = स्त्री कुटा० घुट–इन् वा ङीप्। गुल्फे द्विरूपको०!

घुटिक = पु० घुट। अस्त्यर्थे ठन्। गुल्फे हेमच०। तत्रार्थे स्त्री टाप् अमरः।

घुड = व्याघाते तु० कु० पर० सक० सेट्। घुडति अघुडीत् जुघोड।

घुण = भ्रमणे भ्वा० आ० अक० सेट्। घोणते अघोणिष्ट। जुघुणे।

घुण = भ्रमणे तु० प० अक० सेट्। घुणति अघोणीत् जुघोण।

घुण = ग्रहणे भ्वा० आ० इदित् सक० सेट्। घुणते अघोण्णिष्ट जुघुणे।

घुण = पु० घुण–क। स्वनामख्याते काष्ठभक्षके कीटभेदे। “घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य” सुनुतः। “भग्नं शम्भुधनुर्घुणैरुपहतम्” महाना०।

घुणप्रिया = स्त्री ६ त०। उदुम्बरपत्रवृक्षे शब्दार्थणि०।

घुणवल्लभा = स्त्री ६ त०। अतिविषायां भावप्र०।

घुणाक्षर = न० घुणकृतमक्षरम्। घुणाख्यकृमिणा काष्ठच्छेदनद्वारेण अयत्ननिष्पादित्ते १ वर्ण्णाफाररेखाभेदे। तत् तुल्यतयाऽस्त्यस्य अच्। तत्तुल्ये अनुद्देशेनापि किञ्चिदभीष्टसिद्धिस्वरूपे २ व्यायभेदे पु० “सकृज्जयमरेर्गीरामन्यन्ते हि घुणाक्षरम्” राजत०। अवैद्यजीविनां सिद्धिः स्यात् घुणाक्षरवत् क्वचित्” रत्नाव०।

घुणि = त्रि० घुण–इन्। भ्रान्ते “सं वा शरिष्यते घुणिर्वाभविष्यति” शत० व्रा० ११। ४। २। १४।

घुण्ट = पु० घुट–क नि० मुम्। १ गुल्फे शब्दमाला। स्वार्थे क। तत्रैवार्थे। हेमच०।

घुण्टिक = न० घुण्टस्तदाकारोऽस्त्यस्य ठन्। गुल्फाकारतुल्ये वनस्थे करीषे(काण्डा)शब्दच०।

घुण्ड = पुंस्त्री घुण–ड तस्य नेत्त्वम्। भ्रमरे उणादिको०।

घुम् = अ० घुण–बा० डुम्। अव्यक्तशब्दे चादावाकृतिगणलब्धः।

घुर = ध्वनौ भीमभवने च तु० पर० अक० सेट्। धुरति अघोरीत्। जुघोर। “अघोरीच्च महाघोरम्”। “जुघुरे चातिभैरवम्” भट्टिः। भावे तङ्। घोरम्।

घुर = त्रि० घुर–क। ध्वनिभेदकारके। प्रकारे तस्य द्वित्वम्। घुरघुर घुरप्रकारे घोणाशब्दे काद० उदा०।

घु(रि)री = स्त्री घुर–वा० कि वा ङीप्। शूकरतुण्डे “कः कः कुत्र न घुर्घुरायितघुरीघोरोत्सुकः शूकरः” सा० द०।

घुर्घुर = स० घुरित्यव्यक्तं घुरति घुर–क। (घुरघुरिया) १ यमकीटे त्रिका०। २ शूकरशब्दे च। घुर्घुर इवाचरति क्यङ्। घुर्घुरायते। “कासश्वासकृतायामः कण्ठे घुर्घुरायते” वैद्यकम्। “कः कः कुत्र न घुर्घुरायितघुरीघोरीत्सुकः शूकरः” सा० द०।

घुर्घुरक = पु० घुर्घुर इव कायति कै–क। सुश्रुतोक्ते दर्व्वीकरविषोपद्रवभेदे। “दर्वीकरविषेण इत्युपक्रमे “स्वराव सादी घुर्घुरको जडतेत्यदि” सुश्रु०।

घुर्घुरिका = स्त्री घुर्घुरोवराहध्वनिरस्त्यस्याः ठन्। तमककासोपद्रवे रुग्भेदे (गला घड्धडे) “तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकात्वितः। विशेषाद्दुर्दिने ताम्येच्छ्वासः स्यात् तमकोमतः” सुश्रु०।

घुर्घुरी = स्त्री घुर्घुरः शूकरशब्दोऽस्त्यस्य अच् गौरा० ङीष्। जलजन्तुभेदे मृत्किरायाम्” त्रिका०।

घुलञ्च = पु० घुर–क्विप् तमञ्चति अन्च–अण् उप० स० रस्य लः। (गडगडे) गवेधुकाधान्ये रत्नमाला।

घुल्घुलारव = पुंस्त्री घुल्घुलित्यव्यक्तमारौति आ + रु–अच्। पारावतभेदे राजनि०।

घुष = कान्तौ कक० कृतौ स० भ्वा० आत्म० सेट् इदित्। घुंवते अघुषिष्ट जुघुंषे सान्तोऽयमित्यन्ये घृसृणम्।

घुष = बधे भ्वा० पर० सक० सेट्। घोषति इरित् अघुषत् अघोषीत्। जुघोष। घोषः। घुषितः।

घुष = खतौ आविष्करणे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। घोषधति ते घोषति सजूघुघत् त इरित् अघुषत् अघोषीत्। जुघोषाम् बभूव आस चकार चक्रे। जुघोष णिजभावे घुषितः–घुष्टः। घोषः घोषणा। घोषणम्। “इति स द्रुपदो राजा स्वयंवरमघोषयत्” भा० आ० १८५ अ०। “सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम्” भा० वि० ३४ अ०। “जयमघोषयदस्य तु केवलम्” रघुः। आविष्करणञ्च सर्वजनश्रुतियोग्यशब्दकरणम्। (ढेडरापेटा)आ + सम्यक् घोषणे। “आघोषयन् भूमिपतिः समस्तम्” भट्टिः। सततक्रन्दने इत्यन्ये।उद् + ऊर्द्ध्वमाविष्करणे। “उद्घुष्टजयशब्दविराविताशाः” वृ० स० १९ अ०।

घु(ष्ट)षित = त्रि० घुष–क्त वा इट्। शब्दिते इडभावे। घुष्ट इत्यपि तच्च उच्चशब्देन प्रकटिताभिपाये २ वाक्यादौ न०।

घुष्टान्न = न० घुष्टं को भोक्तेत्युद्घुष्य देयमन्नम्। कोभोक्तेत्युद्घुष्य सत्रादौ दीयमानेऽन्ने तस्याभोज्यतामाह मनुः “गवा चान्नमुपघ्रातं घुष्टान्नञ्च विशेषतः। गणान्नं गणकान्नं च विदुषा च जुगुप्सितम्”।

घुसृण = न० घुषि(सि)–बा० ऋणक् पृषो० नलोपः घुषेः षस्य सश्च। कुङ्कुमे त्रिका०। “घुसृणैर्यत्र जलाशयोदरे” इति नैषधम्।

घुसृणापिञ्जरतनु = स्त्री घुसृणमिव घुसृणेन वा आपिञ्जरा तनुरस्याः। गङ्गायां “घुसृणापिञ्जरतनुर्घर्घरी घर्घरखना” काशी० २९ अ० गङ्गानामोक्तौ

घूक = पुस्त्री० घू इत्यव्यक्त्वं कायति कै–क। उलूके पेचके। हेमच०। स्त्रियां जातित्वात् ङीष्।

घूकनादिनी = स्त्री घूक इव नदति नद–णिनि ङीप्। गङ्गायाम् “घर्घरा घूकनादिनी” काशी० २९ अ०। गङ्गानामोक्तौ।

घूकारि = पुंस्त्री० ६ त०। काके हेमच०। तस्य पेचकवैरित्वं लोकसिद्धम्। स्त्रियां जातित्वात् वा ङीप्।

घूकावाम = पु० ६ ग०। शाखोटवृक्षे राजनि०। तस्य निविडह्रस्वशाखायुतत्वेन कोटरतुल्यत्वात् दिवामीरोस्तस्यान्धकारावृतत्वेनावासस्यानत्वात्तथात्वम्।

घूर = हिंसायां सक० जीर्णतायाम् अक० दि० आत्म० सेट्। घूर्य्यते अघूरिष्ट। जुघूरे ईदित्। घूर्णः। ध्वनौ च “जुघूरेचातिभेरवम्” भट्टौ दोर्घमध्यं पठित्वा तस्य ध्यन्यर्थकतां भरत आह।

घूर्ण्ण = भ्रमणे अक० तु० उभ० सेट्। घूर्णति ते। अचूर्णीत् अघूर्णिष्ट। जुषूर्ण जुघूर्णे। “गुरुभारसमाक्रा- न्तश्चचाल च जुवूर्ण्ण च” रामा० कि०। “केचिदासिषते स्तब्धा भयात् केचिदवूर्णिषु” “अघूर्णिष्टां क्षतौ क्ष्माञ्च तावशिश्रियतामुभौ” इति च भट्टिः। घूर्णितः घूर्णितवान्। “ततोरथो घूर्णितबान् नरेन्द्र!” भा० क० ९० अ०। “कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भटः। “भो वृक्षाः पर्वतस्थाः बहुकुसुमयुता वायुना घूर्णमाना” महाना०। वायुनेति हतौ तृतीया सयकारपठे ण्यन्ताव् कर्मणि शानच् कर्त्तरि तृतीयेति भेदः। णिचि घूर्णयन्नि ते अजुघूर्णत् त। “नयनान्यरुणानि घूर्णयन्” कुमा०। “घूर्णयन् मदिरास्वादमदपाटलितद्युती” माघः। कर्म्मणि घूर्ण्यते अघूर्णि। घूर्ण्यमानः। “वायुना घूर्ण्यमानाः” महाना० पाठान्तरम्।

घूर्ण्ण = पु० घूर्णयति अच्। (गिमा) १ शाकभेदे ग्रीष्मसुन्दरके शब्दच०। २ भ्रान्ते त्रि०। भावे घञ्। ३ भ्रमणे। घूर्ण–णिच्–अच्। ४ घूर्णकारके रोगभेदे

घूर्ण्णन = न० घूर्ण–भावे ल्युट्। १ भ्रमणे चक्राकारावर्त्ते। हेमच०। युच्। घूर्णनाप्यत्र स्त्री “घूर्णनागात्रपतनभ्रमणादर्शनादिकृत्” सा० द०।

घूर्ण्णायमान = त्रि० घूर्णः भ्रान्त इवाचरति भृशा० च्व्यर्थे वा क्यङ्कर्त्तरि शानच्। भ्राम्यमाणे। “इन्द्राद्यैरखिलार्थसाधनपरैः संस्तूयमानं मुहुः पीतोन्मत्तफलाऽतुलालसतया घूर्णायमानेक्षणम्” इति कलापधातुव्याख्यासारः।

घूर्ण्णि = पु० घूर्ण–भावे इन्। भ्रमणे हेमच०।

घूर्ण्णित = त्रि० घूर्ण–णिच् कर्मणि क्त। १ भ्रमिते। कर्त्तरि क्त। २ भ्रान्ते प्रचलायिते अमरः। धूर्णधातौ उदा०।

घूर्ण्णिका = स्त्री शुक्राचार्य्यकन्यादेवयानीमखीभेदे। “गते तु नाहुषे तम्मिन् देवयान्यप्यनिन्दिता। उपाच शोक सन्तप्ता घूर्णिकामागतां पुरः। देवयान्युवाच। त्वरितं घूर्णिके! गच्छ शीघ्रमाचक्ष्व मे पितुः। नेदानीं सम्प्रवेक्ष्यामि नगरं वृषपर्वणः। वैशम्पायन उवाच। सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिराम्। दृष्ट्वा काव्य मुषाचेदं सम्भ्रमाविष्टचेतना” भा० का० ७८ अ०।

घृ = सेके भ्वा० पर० सक० अगिट्। घरति अघार्षीत्। जघार

घृ = सेके छादने च चु० उभ० सक० मेट्। घारयति ते अजीघरत त। घारयां बभूव आस चकार चक्रे। घारितः। आ + समन्तात्सेके आधारः। तच्छब्दे ६२५ दृश्यम्। “प्रणीत पृषदाज्याभिघारघोरा” वीरच०।

घृ = भासे अक० सेके सक० जु० पर० अनिट्। जिघर्त्ति अघार्षीत्। अय वैदिकः। घर्मः (दीप्तः)।

घृङ् = अव्य० अव्यक्तशब्दे। “घृङ्ङिति पपात” इत्युपक्रमे तद्यद्घृङ्ङित्यपतत्तस्माद्घर्मः” शत० ब्रा० १४। १। १। १०।

घृण = दीप्तौ तना० उभ० अक० सेट्। घर्णोति वृणोति घर्णुते घृणुते अघर्णीत् अघर्णिष्ट जघर्ण जघृणे घृणा। उदित्। वर्णित्वा घृण्ट्वा। क्त्वो वेट्कत्बात् निष्ठा त्वनिट्। घृण्णः। वेदे गणव्यत्ययोऽपि “आ यो घृणे न ततृषाणो अजरः” ऋ० ६। १५। ५। “आघृणे आदीप्यते” भा०।

घृण = ग्रहणे भ्वा० आत्म० सक० सेट् इदित्। घृण्णते अघृण्णिष्ट। जघृण्णे।

घृण = पु० घृण–दीप्तौ क। १ दिवसे निघ०। २ दीप्ते ३ उष्णे च। “अह्ना शं भानुना शं हिमा शं घृणेन ऋ० १०। ३७। १०। “घृणेन उष्णेन” भा०। “घृणान्न भीषा अद्रिवः ऋ० १। १३३। ६। “घृणात् दीप्तात्” भा०।

घृणा = स्त्री घृ–सेके नक्। १ कारुण्ये–दयायां कारुण्येन हि हृदयं सिक्तमिवार्द्रं भवतीति तस्य तथात्वम्। “मन्दमस्यन्निषुलतां घृणया मुनिरेष वः” किरा०। “इत्थङ्गते गतघृणः किमयं विधत्ताम्” रघुः २ जुगुप्सायां निन्दायाञ्च अमरः “तां विलोक्य वनिताबधे घृणाम्” “प्रागजीयत घृणा ततो मही” इति च रघुः। “अधारि पद्मेषु तदङ्व्रिणा घृष्णा” नैष०।

घृणालु = त्रि० घृणा + बा० आलुच्। कृपायुक्ते “निष्पादितश्च कार्त्स्न्येन भगवद्भिर्वृणालुभिः” भाग० ४। २२। ४१।

घृणावत् = त्रि० घृणा + अस्त्यर्थे मतुप् मस्य वः १ कृपायुक्ते स्त्रियां ङीप्। सा च २ गङ्गायाम् घृणिनिधिशब्दे उदा०।

घृणावास = पु० ६ त०। १ कुष्माण्डे त्रिका०। २ कृपायुक्ते च

घृणि = पु० घृ–नि नि० गुणाभावः। १ किरणे, २ ज्वालायाम्, अमरः। ३ तरङ्गे, ४ सूर्य्ये ५ जले न० मेदि० ६ दोप्ते त्रि० “तस्य त्यक्त स्वभावस्य घृणेर्मायावनौकसः” भाग० ७। २। ६। घृणर्दीप्तस्य

घृणिनिधि = पु० निघोयते अस्मिन् नि + धा आधारे कि ६ त०। १ सूर्य्ये २ गङ्गायाञ्च “घृणावती घृणिनिधिः” काशीख० गङ्गानामोक्तौ।

घृणीवत् = त्रि० घृणिरस्त्यस्य मतुप् बा० वेदे न मस्य वः दीर्घः। दीप्तिमति “घृणीवा~ चेतति त्मना” ऋ० १०। १७६। ३। घृणीवान् दीप्तिमान्” भा०।

घृत = पुंन० घृ–सेके क्त। अर्द्धर्चादि दुग्धभवे “सर्पिर्विली- नमाज्यं तु घनीभूतं घृतं भवेत्” उक्ते घनीभूते १ आज्ये घृत गुणभेदादि भावप्र० उक्तं यथा “वृतमाज्यं हविः सर्पिः कथ्यन्ते तद्गुणा अथ। घृतं रसायनं स्वादु चक्षुव्यं वह्निदीपनम्। शीतं वीर्य्ये विषालक्ष्मी पापपित्तानिलापहम्। अल्पाभिष्यन्दि कान्त्योजस्तेजो लावण्यबुद्धिकृत्। स्वरस्मृतिकरं मेध्यमायुष्यं बलकृद्गुरु। उदावर्त्तज्वरोन्मादशूलानाहव्रणान् हरेत्। स्निग्धं कफकरं रक्षःक्षयवीसर्परक्तनुत्। गव्यस्य घृतस्य गुणाः गव्यं घृतं विशेषेणेत्यादि भावप्र० वाक्यम् २५८२ पृ० उक्तम् घृतभेदगुणा भावप्र० उक्तायथामाहिषस्य गुणाः। “माहिषन्तु घृतं स्वादु पित्तरक्तानिलापहम्। शीतलं श्लेष्मलं वृष्यं गुरु स्वादुविपच्यते”।छागस्य गुणाः “आजमाज्यङ्करोत्यग्निं चक्षुष्यं बलवर्द्धनम्। कासे श्वासे क्षये चांपि हितं पाके भवेत्कटु”।अथ उष्ट्रीवृतम् “औष्ट्रं कटु घृतं पाके शोषक्रिमिविषापहम्। दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम्”।अथ आविकघृतम् “पाके लघ्वाविकं सर्षिः सर्वरोगविनाशनम्। वृद्धिं करोति चास्थीनामश्मरीशर्करापहम्। चक्षुष्यमग्निव्युषणं वातदोषनिवारणम्”।अथ नारीघृतम्। “कफेऽनिले योनिदोषे पित्ते रक्ते च तद्धितम्। चक्षुष्यमाज्यं स्त्रीणां वा सर्पिः स्यादमृतोपमम्”।अथाश्वघृतम् “वृद्धिं करीति देहाग्नेर्लघु पाके विषापहम्। तर्पणं नेत्ररोगघ्नं दाहनुद्बडवाघृतम्”।दुग्धघृतस्य गुणाः “वृतं दुग्धभवं ग्राहि शीतलं नेत्र रोगहृत्। निहन्ति षित्तदाहास्रमदमूर्च्छाभ्रमानिलान्”।अथ ह्यस्तनदधिजवृतगुणाः “हविर्ह्यस्तनदुग्धोत्थ तत्स्याद्धैयङ्गवीनकम हैयङ्गवीनं चक्षुष्यं दीपनं रुचिकृत्परम्। बलकृद्वृंहणं वृष्यं विशेषाज्ज्वरनाशनम्”।पुराणघृतस्य गुणाः “वर्षादूर्द्ध्वं भवेदाज्य पुराणं तत्त्रिदोषनुत्। मूर्च्छाकुष्ठविषोन्मादापस्मारतिमिरापहम्। यथा यथाऽखिलं सर्पिः पुराणमधिकं भवेत्। तथा तथा गुणैः स्वैः स्वैरधिकं तदुदाहृतम्”अथ नतनस्य घृतस्य विषयाः “योजयेन्नवमेवाज्यं भोजने तर्पणे श्रमे। वलक्षये पाण्डुरोगे कामलानेत्ररोगयोः”।घतप्रयोगस्याविपयाः “राजयक्ष्मणि बाले च वृद्धे श्लेष्मकृते गदे। रोग सामे विसूच्याञ्च विबन्ध च मदायये। ज्वरे च दहने मन्दे न सर्पर्वहु मन्यते”। अस्य गव्यादिघृतभेदास्तद्गुणादिकं च सुश्रुतेनोक्तं यथा “घृतन्तु सौम्यं शीतबीर्य्यं भृदु मधुरमल्पाभिस्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्य्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्द्धनं पाप्मालक्ष्मीपशमनं विषहरं रक्षोघ्नञ्च। विप्राके मधुरं शीतं वातपित्तविषापहम्। चक्षुष्यमग्र्यं बल्यञ्च गव्य सर्पिर्गुणोत्तरम्। आजं घृतं दीपनीयं चक्षुष्य बलवर्द्धनम्। कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु। मधुर रक्तपित्तघ्नं गुरु पाके कफापहम्। वातपित्तप्रशमनं सुशीतं माहिषं घृतम्। औष्ट्र कटुरसं पाके शोफक्रिमिविषापहम्। दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम्। पाके लघ्वाविकं सर्पिर्नच पित्तप्रकोपणे। कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम्। पाके लघूष्णवीर्य्यञ्च कषायं कफनाशनम्। दीपनं बद्धमूत्रञ्च विद्यादेकशफं घृतम्। चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतोपमम्। वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम्। कषायं बद्धविण्मूत्रं तिक्तमग्निकरम् लघु। हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन्। क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितञ्च।

सर्पिर्मण्डस्तु मधुरः सरोयोनिश्रोत्राक्षिशिरसां शूलघ्नो वस्तिनस्याक्षिपूरणेषूपदिश्यते। सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामेद उन्मादोदरज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं दीपनं वस्तिनस्याक्षिपूरणेषूपदिश्यते। भवन्ति चात्र। पुराणं तिमिरश्वासपीन सज्वरकासनुत्। मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम्। एकादशशतञ्चैव वत्सरानुषितं घृतम्। रक्षोघ्नं कुम्भसर्पिः स्यात्परतस्तु महाघृतम्। पेयं महाघृत भूतैः कफघ्नं पवनाधिकैः। बल्यं पवित्रं मेध्यञ्च विशेषात्तिमिरापहम्। सर्वभूतहरञ्चैव घृतमेतत्प्रशस्यते”। “उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्। लाक्षारसनिभं शीतं प्रपुराणमतः परम्” राजवल्लभः। तस्य गुरुतमत्वमाह वैद्यके “अन्नादष्टगुणं चूर्णं चूर्णादष्टगुणं पयः। पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम्” पक्वघृतस्य वर्षोन्तेऽवीर्य्यतामाह “घृतमव्दात् परं पक्वं हीनवीर्य्यत्वमाप्नुयात्” राजव०। “घृतं कांस्ये दशाहिकम्” इत्युक्तघृतस्याभक्ष्यता। “तेजोवै घृतमिति” श्रुत्या वाक्यशेषे घृतप्रशसनात् “अक्ताः शर्करा उपदधाति” इत्यादौ घृतेनैवाञ्जनम् न तैलेनेति मीमांसायां स्थितम्। घृतघटितौषधस्य षण्मासपर्य्यन्तं बीर्य्यवत्त्वं वैद्यके उक्तम्। पक्ववृतादि नानाविधं चक्रदत्तादौ उक्तं विस्तरभयान्नोक्तम्। “घृतं घृतपावानः पिबत वसां वसापावानः” यजु० ६। १९। घृ–दोप्तौ कर्त्तरि–क्त। २ दीप्ते ३ सेचके च त्रि० शब्दर०। अस्य घृतादित्वात् अन्तोदात्तता। ४ जले न० शब्दार्थचि०।

घृतकरञ्ज = पु० घृतमिव घनीभूतनिर्यासकत्वात् करञ्जः। (घियाकरम्चा) करञ्जभेदे राजनि०।

घृतकुमारी = स्त्री घृतमिव कुमारी सुन्दरी। घृततुल्य निर्यासे स्वनामख्याते गुल्मभेदे शब्दरत्ना० स्वार्थे क ह्रस्वः। घृतकुमारिकाप्यत्र स्त्री भावप्र० कुमारीशब्दे दृश्यम्।

घृतकुल्या = स्त्री घृतपूरिता कुल्या। घृतपूरितकृत्रिमसरिति

घृतकेश = पु० घृतोदीप्तः केश इव ज्वाला अस्य। वह्नौ “ऊर्जोनपातं घृतकेशमीमहे” ऋ० ८। ६०। २।

घृतकौशिक = पु० घृतोदीप्तः कौशिकः। १ गोत्रभेदे २ तद्गोत्रान्तर्गतप्रवरभेदे च “घृतकौशिकगीत्रस्य कुशिककौशिकघृतकौशिकाः प्रवराः” उ० त० रघु०। “स च यजुर्वेदीयवंशान्तर्गतः “घृतकौशिकात् घृतकौशिकः” शत० ब्रा० १४। ५। ५। २१। तथा तत्रैव १४। ७। ३। २७।

घृतच्युता = स्त्री घृतं च्युतं यस्याः। कुशद्वीपस्थे नदीभेदे। कुशशब्दे २१४५ पृ० दृश्यम्।

घृतदीधिति = पु० घृतेन घृता दीप्ता वा दीधितिरस्य। अग्नौ त्रिका०।

घृतधारा = स्त्री घृतं घृततुल्यं जलं धारयति धारि–अण् उप० स०। पश्चिमदेशस्थे नदीभेदे। “शुभामतिरसाञ्चैव घृतधारेति विश्रुताम्। वराहः सरितं पुण्यां प्रतीच्यामकरोत् प्रभुः” हरिवं० २२५ श्र०। ६ त०। २ घृतस्याविच्छिन्नसन्ततौ च।

घृतनिर्ण्णिज् = त्रि० घृतं दीप्तं निर्णिक् रूपं यस्य। १ दीप्तरूपे। “दीदायानिध्मो घृतनिर्ण्णिगप्सु” ऋ० २। ३५। ४। निर्णिगिति रूपनाम दीप्तरूपः” भा०। “जुष्टासो अद्य घृतनिर्णिजोगुः” ऋ० ४। ३५। २। “घृतनिर्णिजो मिश्रद्रव्येण दीप्तरूपाः” भा०। घृतं निर्णेनेक्ति निर् + निजक्विप् ६ त०। तापनद्वाराविलापनेन २ घृतशोधके वह्नौ। “शोचिष्केशो घृतनिर्णिक् पावकः” ३। १७। १। “घृतनिर्णिकु घृतस्य तापनद्वारा विलापनेन शोधकः” भा०।

घृतप = पु० व० व० वृतमाज्यं पिबन्ति + पा–क उप० स०। आज्यपाख्ये पितृगणभेदे। “घृतपाः सोमपाः यव्या वैश्वानरमरीचिपाः” भा० शा० १६६ अ०। २ घृतपान कर्त्तरि त्रि०।

घृतपदी = स्त्री घृतं पादे संस्थितं यस्या पाद्भावः स्वाङ्गत्वात् डीषि पद्भावः। १ इडादेवताभेदे। शत० व्रा० इडा ब्राह्मणे १। ८। १। २६। तन्निरुक्तिर्दर्शिता यथा “मानवी घृतपदीति मनुर्ह्येतामग्रेऽजनयत तस्मादाह मानवीति वृतपदीति यदेवास्यै घृतं पादे समतिष्ठत तस्मादाह घृतपदीति”। तद्व्राह्मणोषोद्घाते “इडाया मानवीमिडादेवतां वक्तुं मानवी घृतपदीमैत्रावरुणीत्येतानि च निगदपदानि व्याख्यायन्ते” भा०। घृताः दीप्ताः पादा यस्याः प्राग्वत् पाद्भावादि। २ सरस्वत्यामिडादेव्याञ्च। “हविषीडा देवी घृतपदी जुषन्त” ऋ० १०७०८। इडेतन्नामिका देवी सरस्वती घृतपदी दीप्तपदोपेता” भा०।

घृतपर्ण्णक = पु० घृतमिव स्वादु पर्णमस्य कप्। घृतकरञ्जे राजनि०।

घृतपीत = त्रि० घृतं पीतं येन आहिता० बा परनिपातः। घृतपानकर्त्तरि पक्षे पीतघृत इत्यपि तत्रार्थे त्रि०।

घृतपूर = पु० घृतेन पूर्य्यते पूरि–कर्म्मणि अच्। घक्वान्नभेदे तस्य प्रचुरघृतेन पक्वत्वात्तव्यात्वत् तत्पाकप्रकारादि शब्दार्थ चि०। “मर्द्दितां समितां क्षीरनालिकेरघृतादिभिः। अवगाल्य घृते पक्त्वा घृतपूरोऽयमुच्यते। घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः। रक्तपित्तहरोहृद्यः स्वादुः पित्तहरोऽग्निदः। अपि च “क्षीरेण मर्दितं चूर्णं गोधूमानां सुगा लितम्। विस्तार्य्य सर्पिषा पाच्यं कटाहेऽथ सिता न्वितम्। घृतपूरोऽयमुद्दिष्टः कर्पूरमरिचान्वितः”। नारिकेलजस्तु “समिता मर्दिता क्षीरे नालिकेलसितार्द्रकेः। अवगाल्य घृते पाच्यो घृतपूरोऽपरः स्मृतः”। दुग्धजोऽपि “पाकपिण्डीकृतंक्षीरं शर्कराचूर्णमिश्रितम। घृतपूरविनिर्माणंकारयेत् स्वल्पसर्पिषि”। शालिभवोऽपि “सुशालीपिष्टं दुग्धन्तु क्वाथितं वस्त्रगालितम्। खण्डयुक्तं घृते पक्वं घृतपूरो भवेदयम्”। कमेरुजोऽपि “कसेरुचूर्णे निःक्षिस्य पाकपिण्डीकृतं पयः। निर्माणं घृतपूराणां शर्करासहितं भवेत्”। आम्ररसजः “पक्वाम्रस्य घृते तप्ते रसस्त्वनलपिण्डितः। शुद्धशर्करया योज्यो घृतपूरो यद्दृच्छया। क्षीरमाद्यं स्वरूपं हि खण्डं चूर्णं ततः स्मृतम्। योजिते यो विशेषोऽत्र तदाख्यावर्णसंज्ञितः। घृतपूरो गुरुर्वृष्यो हृद्यः पित्तानिलापहः। सद्यः प्राणप्रदोवल्यः सुरुच्योऽग्निप्रदीपनः। शृङ्गाटकमुखानामप्येवं स्याद् घृतपूरकः। विचार्य्य वस्तुसंयोगं तद्गुणानपि चाहरेदिति”।

घृतपूर्ण्णक = पु० घृतं पूर्णमत्र कप्। करञ्जभेदवृक्षे त्रिका० घृतपूर्णकरञ्जकोऽप्यत्र भावप्र० करञ्जशब्दे १६८८ पृ० दृश्यम्।

घृतपृष्ठ = पु० घृतं दीप्तं पृष्ठमस्य। क्रौञ्चद्वीपपतौ प्रियव्रत पुत्रे राजभेदे। क्रौञ्चशब्दे २३४१ पृ० विघृतिः।

घृतप्रतीक = पु० घृतं प्रतीकं मुखं यस्य। अग्नौ। तस्य उत्तरवेद्यामाज्याघारेणोद्दीपनात् तथात्वम् “घृतप्रतीको घृतयोनिः” यजु० ३५। १७।

घृतप्रयस् = पु० घृतं तत्सहितं प्रयोऽन्नं यस्य। वह्नौ “घृतप्रयाः सधमादे मधूनाम्” ऋ० ३। ४२। ३। “घृतप्रयाः घृतसहितानि प्रयांसि अन्नरूपाणि हवींषि यस्य” भा०।

घृतप्रसत्त = पु० प्र + सद–बा० त ३ त०। घृतेन प्रसन्ने वह्नौ। “घृत प्रसत्तो असुरः सुशेवः” ऋ० ५। १५। १।

घृतमण्ड = पु० ६ त०। घृतसारे। गलितघृतस्याधःस्थे सारांशभेदे (जमादानाघि) “ततः स घृतमण्डेन हृद्येनेन्द्रियबोधिना”। “भुक्तवन्तं घृतमण्डेन यष्टीमधुकसिद्धेन तैलेन वानुवासयेत्” सुश्रु०। सर्पिर्मण्डोऽप्यत्र घृतशब्दे तद्गुणाः सुश्रुतोक्ता दर्शिता। घृतमण्डोऽस्त्यस्याः अच्। ३ काकोल्यां स्त्री शब्दच०।

घृतमण्डलिका = स्त्री घृतमण्डं तदाकारनिर्यासं लाति ला–क संज्ञायां कन् अत इत्त्वम्। हंसपदीवृक्षे राजनि०

घृतलेखनी = स्त्री घृतं लिख्यतेऽनया लिख–करणे ल्युट् ङीप्। दारुमये घृतलेखनपात्रीभेदे हेमच०।

घृतवती = स्त्री द्वि० व०। घृतमुदकं हेतुत्वेन कार्य्यत्वेन वास्त्यस्याम् मतुप् मस्य वः ङीप्। द्यावापृथिव्योः निघ०। “अद्भ्यः पृथिवी” इति श्रुतेर्भूमेर्जलहेतुकत्वात् तथात्वम् दिवश्च उदकहेतुत्वात् तथात्वम्। २ आज्ययुक्ते ३ घृतपदयुक्ते च त्रि० स्त्रियां ङीप्। “तैलं प्रतिनिधिं कुर्य्यात् घृतार्थे याज्ञिको यदि। प्रकृत्यैव तदा व्रूयात् होता घृतवतीमिति” ति० त० यज्ञपार्श्वः।

घृतवर = पु० घृतं वरमत्र। घृतपूरे पक्वान्नभेदे हेमच०। तस्य घृतप्रचुरत्वात्तथात्वम्।

घृतस्थला = स्त्री घृतमुदकं स्थलमुत्पत्तिस्थानं यस्याः घृतं दीप्तं स्थलं नितम्बस्थलं यस्या वा। अप्सरोभेदे। अप्- सरसां हिं जलोद्भवत्वं भाग० ८। ७। ६। समुद्रमन्थने उक्तं यथा “ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः” तासां मध्ये अस्याः प्रशस्तनितम्बस्थलत्वात् तथात्वम्। “घृतस्थला घृताची च विश्वाची चोर्वशी तथा” हरिवं० २२६ अ०।

घृतस्पृश् = त्रि० घृतं स्पृशति स्पृश–क्विन्। घृतस्पर्शिनि क्विन्नन्तत्वात् स्वादौ कुः। घृतस्पृक् घृस्पृग्भ्यामित्यादि

घृताची = स्त्री घृतमुदकं कारणतयाऽञ्चति अन्च–क्विप् नलोपे स्त्रियां ङीप् पूर्बाणोदीर्घश्च। १ अप्सरोभेदे तस्या अद्भ्योजातत्वात् तथात्वम्। घृतस्थलाशब्दे दृश्यम्। सा च पौरवरौद्राश्वनृपस्य परिग्रहेदश पुत्रान् कन्याश्च दशं। सुषुवे यथा हरिवं० ३१ अ०। “रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनयः। ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैवच। कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुस्तथैवच। दशार्णेयुर्जलेयुश्च स्थलेयुश्च महावलः। वननित्योवनेयुश्च पुत्रिकाश्च दश स्त्रियः। रुद्रा शूष्ट्रा च भद्रा च मलदा मलहा तथा। स्थलदा चैव राजेन्द्र! नलदा सुरसाऽपि चा। तथा गोचपला च स्त्री रत्नकूटा च ता दश”। २ रात्रौ निघ० तस्याः सोमरश्मिजादिशिशिरजलभूयस्त्वात् तथात्वम्। घृतमाज्यमञ्चति प्राप्तोति। ३ घृतप्राप्तरि त्रि० स्त्रियां ङीप्। “घृताच्यसि जुहूर्नाम्ना” यजु० २। ६। ४ उदकयुक्ते त्रि० स्त्रियां ङीप्। ईं वहन्ति सूर्य्यं घृताचीः” ऋ० ७। ६०। ३ “घृताचीः उदकवत्यः” भा०। घृतं दीप्तं रूपमञ्चति। ५ दीप्तरूपवति त्रि० स्त्रियां ङीप् पूर्ववत् सर्वम्। “स विश्वाचीरमिचष्टे घृताचीः” ऋ० १०। १३९। २। “घृताचोर्दीप्तरूपवतीः” भा०।

घृताचीगर्भसम्भवा = स्त्री घृताच्या गर्भ इव सम्भवति सम् + भू–अच्। स्थूलैलायाम् राजनि०। घृताच्या गर्भे सम्भवोऽस्य। २ ऋतेयुप्रभृतौ पौरवे नृपभेदे पु० ३ तत्र्कन्यायां स्त्री घृताचीशब्दे विवृतिः।

घृतादि = पु० घृतमादिर्यस्य “घृतादीनाञ्च” सान्तनवाचार्य्यसूत्रोक्ते अन्तोदात्ततानिमित्ते शब्दगणे स च आकृतिमागणः” सि० कौ०।

घृतान्न = पु० घृतमाज्यमन्नमदनीयं यस्य। हविर्भुजि वह्नौ। “तपुर्मूर्द्धा घृतान्नः पावकः” ऋ० ७। ३। १। २ वृतभोजिनि त्रि० घृतेम मिन्नितमन्नम्। २ घृतमिश्रिते अन्ने न०।

घृतार्च्चिम् = पु० घृतेनार्च्चिर्यस्य घृतं दीप्तमच्चिर्यस्य वा। वह्नौ। “घृतार्च्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया” भा० आ० ४८ अ०।

घृतावनि = स्त्री घृतस्याविनिरिव। यूपकर्णे हेमच०।

घृतावृध् = त्रि० घृतमुदकं वर्द्धतेऽनया क्विप् दीर्घः ६ त०। उदकवर्द्धके “घृतेन द्यावापृथिवी अभिवृते घृतश्रिवा घृतंपृचा घृताबृधा” ऋ० ६। ७०। ४। उदकवर्द्धिके द्यावापृथिव्यावित्यर्थः औस्थाने आच्।।

घृतासुति = पु० घृतमुदकं वृष्टिरूपमासुवति आ + सु–क्तिच् वृष्टिसंपादकयोर्मित्रावरुणयोः “ता (मित्रावरुणौ) सम्राजा घृतासुती यज्ञे यज्ञ उपस्तुता” ऋ० १। १३६। ६। औस्थाने आच्। घृतमासुतिरन्नं यस्य। घृतान्नयोः इन्द्राविष्ण्वोः। (इन्द्राविष्णू) “घृतामुती द्रविणं दत्तमस्मे” ऋ० ६। ६९। ६। अस्मे अस्मभ्यम्।

घृताहवन = पु० घृतेनाहूयतेऽस्मिन् आ + हु–आधारे ल्युट् जुहोतेरविवक्षितकर्म्मकत्वे नाकर्म्मकत्वात् घृतस्य करणत्वमेव “तृतीया च होश्छन्दसि” पा० कर्म्मणि न तृतीया किन्तु “कर्त्तृकरणयोस्तृतीया” पा० करणे तृतीया ३ त०। घृतेनाहवनाधिकरणे वह्नौ। “घृताहवन! दीदिवः प्रति ष्म रिषतो दहः। अग्ने! त्वं रक्षस्विनः” ऋ० १। १२५। घृतावहन!। अग्ने!” भा०।

घृताहुति = स्त्री घृतेनाहुतिः “तृतीया च होश्छन्दसि” पा० कर्मणि तृतीया जुहोतेरविविक्षितकर्म्मकत्वेनाकर्मकत्वात् करणे तृतीया बा ३ त०। वृतेनाहुतौ। “यद्यजूंषि घृताहुतिभिः। यत्सामानि मध्वाहुतिभिः” आश्व० गृ० ३। ३। २।

घृताह्व = पु० घृतं तद्गन्धमाह्वयते स्पर्द्धते निर्यासेन आ + ह्वे–क उप० स०। घृततुल्यगन्धनिर्यासके सरलद्रुमे त्रिका०।

घृतिन् = त्रि० घृतमाज्यमुदकं वा प्राशस्त्येनास्त्यस्य इनि। १ प्रशस्ताज्यके २ प्रशस्तजलके च स्त्रियां ङीप्। “पयस्विनीं घृतिनीमत्युदाराम्” (गङ्गाम्) भा० आनु० २६ अ०।

घृतेयु = पु० पौरवे रौद्राश्वनृपपुत्रभेदे कृतेयुशब्दे दृश्यम् तत्र जलेयुरित्यत्र घृतेयुरिति विष्णु पु० पाठः

घृतेली = स्त्री घृते स्नेहद्रव्ये इलति शेते इल–शये अच् गौरा० ङीष्। तैलपायिकायां (तेलापोका) हेमच०।

घृतोद = पु० घृतमिव स्वादु उदकमस्य उदकस्योदः। कुशद्वीपावरके समुद्रभेदे घृतोदध्यादयोऽप्यत्र कुशशब्दे २१४३ पृ० दृश्यम्।

घृतौदन = पु० घृतेन मिश्रः ओदनः। “भक्ष्येण मिश्रणे” पा० ३ त०। आज्यमिश्रिते ओदने। “दध्योदनं च जीवाय शुक्राय च घृतौदनम्” ग्रहवलिकथने सं० त०।

घृत्समद = पु० गृत्समद + पृषो०। ऋषिभेदे विष्णु पु० तथापाठः।

घृष = संघर्षे स्पर्द्धायाञ्च सक० पर० सेट्। घर्षोमर्द्दनम् (घषा) व्यापारभेदः संमर्द्दो वा घर्षति अघर्षीत् जघर्ष। घर्षणं घर्षः। उदित् थर्षित्वा घृष्ट्वा। क्त्वो वेट्कत्वात् निष्ठा त्वनिट् घृष्टः। घर्षित इति प्रयोगस्तु तारका० इतजन्तः। “धातुजं सृजते रेणुं वायुवेगेन घर्षितम्” (शैलराजः) रामा० ३। ७९ अ०।

घृष्ट = त्रि० घृष–कर्मणि क्त। मर्दिते १ कृतघर्षणे “घृष्टरसाञ्जैनं नार्याः क्षीरेण” सुश्रु०। “द्रोपद्या ननु मत्स्य राजभवने घृष्टं न किं चन्दनम्” पञ्चतन्त्रम्। २ गन्धभेदे “घृष्टोम लयजोगन्धः सरलश्च नमेरुणा। अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते। घृष्टः संघृष्टगन्धोऽयं द्घितीयः परिकीर्त्तित” इति शब्दार्थचि० धृतवाक्यम्।

घृष्टि = पुंस्त्री घृष–कर्त्तरि क्तिच्। १ शूकरे मेदि० स्त्रियां वा ङीप्। (चामरआलु) २ वाराह्याम् अमरः। ३ अपराजितायाम् स्त्री मेदि०। भावे क्तिन् घर्षणे (घसा) ४ व्यापारभेदे ५ स्पर्द्धायाञ्च स्त्री मेदि०। क्तिन्नन्तत्वात् न ङीप्

घृष्टिला = स्त्री घृष्टिं लाति ला–क। पृश्निपर्ण्याम्। (चाकुलिया)। रत्नमा०।

घृष्वि = पुंस्त्री घर्षति भूमिं तुण्डेन घृष–क्विन् कृविघृष्वि छवीत्यादि उ० नि० न वलोपः। १ वराहे २ घर्षणशीले त्रि०। “मदन्ति वीरा विदथेषु थृष्वयः” ऋ० १। ८५। १। “प्र वः शर्द्धाय थृष्वये” १। ३७। ४। “घृष्वये शत्रु घर्षणयुक्ताय” भा०। “क्रीडन्ति क्रीडा विदथेषु घृष्वयः” १। १६६। २। एवं सर्वत्र घृष्विशब्दस्य इदन्तत्वेन प्रयोगदर्शनात् क्विन्प्रत्ययान्तत्वेव निष्पन्नत्वात् कृष्विर्वराह इति सि० कौ० उक्तेश्च शब्दक० थृष्वत्शब्दस्य नान्तत्वकल्पनं प्रामादिकमेव। स्त्रियां वा ङीप्।

घेल्कुलिका = स्त्री (घ~चु) ख्याते क्रौञ्चादने वृक्षे रत्नमाला।

घोङ्क = पुंस्त्री पक्षिभेदे शब्द च० स्त्रियां ङीष्।

घोट(क) = पु० घुट–अच् ण्वुल् वा। अश्वे। तस्य भुतिवेष्टनाकारेण चेष्टनात्तथात्वम्। स्त्रियां जातित्वात् ङीष्। “घोटी ह्येपा बिकृतविरुतं तु हेतुहीनं हसन्ती” सा० द०। तल्लक्षणादि अश्वशब्दे ४९८ पृ० दृश्यम्” भा०।

घोटकमुख = पु० घोटकस्य मुखमिव मुखमस्य १ किन्नरभेदे २ प्रवरर्षिभेदे च हेमा० व्र० प्रवराध्याये दृश्यम्।

घोटकारि = पु० ६ त०। महिषे शब्दार्थ चि०। तस्य यथाऽ श्ववैरं तथा उपयमशब्दे १२५० पृ० उक्तम् स्त्रियां वा ङीप्। २ हयारिवृक्ष करवीरे च। हयारिशब्दे दृश्यम्।

घोटिका = स्त्री घुट्–ण्वुल् टापि अत इत्त्वम्। कर्कट्याम् राजनि०।

घोणा = स्त्री घुण–अच्। १ अश्चनासिकायां, २ नासामात्रे च अमरः। “जवनिरोधस्फीतरोषघुरघुरायमाणघो र घोणेन” काद०। “गौरः प्रलम्बोज्ज्वलचारुघोणः” भा० आ० १८९ अ०। अस्य क्रोडादित्वात् स्वाङ्गत्वेऽपि न ङीष् दीर्घघोणा स्त्री।

घोणिन् = पुंस्त्री दीर्घा घोणाऽस्त्यस्य व्रीह्या० इनि। शूकरे अमरः स्त्रियां ङीप्।

घोण्टा = स्त्री घुण–बा ट तस्य नेत्त्वम्। वदरीभेदे (सेओलाकुल) २ पूगवृक्ष च मेदि०।

घोण(न)स = पु० गोनस + पृषो०। तिलत्से गोनसे सर्पभेदे हेमच०।

घोर = न० घुर–अच्। १ विषे राजनि० २ भयानके त्रि० हेम०। घोणाशब्दे उदा०। “शिवाथोरस्वनां पश्चात्” रघुः। “घोरेऽस्मिन् भूतसंसारे” मनुः। “घोररावां महारौद्रीम्” कालीध्यानम्। ३ शिवे पु० “घोराय घोररूपाय घोरघोरतराय च” भा० शा० २८६ अ० शिवस्तोत्रे। “नमोवः पितरोघोराः” यजु० २ ३२।

घोरक = पु० ब०। देशभेदे। “काश्मीरश्च कुमारश्च घोरका हंसकायनाः” भा० स० ५१ अ०।

घोरघुष्य = न० घोरं घुष्यते घुष–क्यप्। कांस्ये राजनि०। घोरं घृष्टं यस्य घोरघुष्टमित्यपि तत्र पाठः। तत्रार्थे राजनि०।

घोरघोरतर = पु० घोर + प्रकारे द्वित्वम् ततः तरप्। १ शिवे घोरशब्दे दृश्यम् २ अत्यन्तघोरे त्रि०।

घोरदर्शन = पुंस्त्री घोरं दृश्यतेऽसौ दृश–कर्म्मणि ल्युट्। १ उलूके राजनि० स्त्वियां जातित्वात् ङीष्। २ भयानके त्रि०। “वीक्षाञ्चक्रे महावाहुस्तद्वनं घोरदर्शनम्” भा० सो० १ अ०।

घोररामन = पुंस्त्री घोरं रासनं शब्दोऽस्य। १ शृगाले शब्दर०। स्त्रियां जातित्वात् ङीष्। २ घोरशब्दयुक्ते त्रि०।

घोररामिन् = पुंस्त्री० घोरं रसति रस–णिनि। १ शृगाले हेमच०। स्त्रियां ङीप्। २ घोरशब्दकारिणि त्रि०

घोररूप = पु० घोरमुग्रं रूपमस्य १ महादेवे। घोरशब्दे दृश्यम्। २ उग्ररूप त्रि०।

घोरवाशन = पुंस्त्री० घोरं वाशते वाश–ल्यु। १ शृगाले शब्दर० स्त्रियां जातित्वात् ङीष्। २ भयानकशब्दकारिणि तिर्य्यग्जात्रिमात्रे त्रि०।

घोरवाशिन् = पुंस्त्री० घोरं वाशते वाश–णिनि। १ शृगाले हेमच० २ भयानकशब्दकारिणि पक्षि मृगादौ च स्त्रियां ङीप्।

घोरा = स्त्री घुर–अच्। १ देवताडीलतायां, राजनि० भयानकाया स्त्रियां त्रिका०। “२ करालवदनां घोराम्” कालीध्यानम्। ३ रात्रौ, ४ सांख्वोक्तायां राजस्यां मनोवृत्तौ शब्दार्थचि० ज्योतिषोक्ते “रवावुग्रभे संक्रमे भास्करस्य भवेद्घोरनाम्नीत्युक्ते” २। १०। ११। २०। २५। संख्यकनक्षत्रे ५ रविसंक्रान्तिभेदे च। संक्रमशब्दे विवृतिः

घोल = पुंन० घड–कर्म्मणि घञ् डस्य लः। १ तक्रे मथितदघ्नि। तत्तु सस्नेहमजलं मथितं घोलमुच्यते” सुश्रु०। “सशरं निर्जलं घोलं वातपित्तहरं स्मृतम्। मस्तुना राहतं गाल्यं दधि शुभ्रतरे पटे। जीरसैन्धवसंमिश्रं थोलं घनतरं स्मृतम्। जीरसैन्धवसंयुक्तं घोलं वातप्रणाशनम्। अतीसारे च मन्देऽग्नौ हितं रुच्यं बलप्रदम्” शब्दार्थचि० वैद्यकम्। “हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम्। भवेदतीव वातघ्नमर्शोऽतीसारहृत् परम्। रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम्। मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम्। भावप्र० द्रव्यभेदयुतस्य तस्य गुणादिकमुक्तम्।

घोलज = न० घोलात् जायते जन–ड। घोलजाते घृतादौ।

घोलवटक = पु० घोलमिश्रितो वटकः। वटकभेदे “विष्टम्भीघोलवटको विदाही पवनापहः” मदनपालनि०।

घोलि(ली) = घुड–इन् डस्य वा ङीप्। पत्रशाकभद राजनि०

घोष = पु० घुष–आधारे थञ्। १ आभीरपल्ल्यां तस्यां गोभिर्नादात् तथात्वम् कर्त्तरि अच। २ गोपाले ३ कांस्ये न० मेदि० ४ मशके त्रिका०। भाव घञ्। ५ ध्वनौ ६ मेथशब्दे “खयां वमः खयः + कूपौ विसर्गः शरएव च। एते श्वासानुप्रदाना अघोपाश्चं विवृण्वते। कण्ठमन्थे तु घोषाः स्युः” शिक्षोक्ते ७ वर्णोच्चारणबाह्यप्रयत्रमेदै। ८ थोषलतायाम् स्त्री शबदार्थचि० “न च वृन्दावने कार्य्यो गवां घोषः कदाचन” हरिवं० ३३८१ श्लो० शब्दे “द्युमन्तं घोषं विजयाय कृण्महे” ऋ० १०। ८४। ४। “तत्र भुक्त्वा पुनःकिञ्चित् तुर्य्यघीषैः प्रहर्षितः” मनुः। गोपे “हैयङ्गवोनमादाय घोषवृद्धानुपस्थितान्” रघुः। धूमा० वुञ्। घौषक आभीरपल्लीभवे त्रि०।

घोषक = पु० घोष + स्वार्थे क। धामार्पगवे घोषातकीलतायाम् अमरः।

घोषकाकृति = पु० घोषकस्य लताभेदस्याकृतिरिवाकृतिरस्य। श्वेतघोषातकीलताभेदे रत्नमा०।

घोषण = न० थुष–भावे ल्युट्। १ ध्वसौ णिच्–भावे ल्युट्। उच्चैःशब्देन ज्ञापते २ व्यापारभेदे (डेडरा पेटा)। “वीर्य्यविक्रमशौर्य्याणां घोषणं सहितं भवेत्” रामा० सुन्द० ५८ अ०। युच्। घोषणाऽप्यत्र स्त्री। “राजा सर्व्वत्र पटहशब्देन घोषणामाज्ञापयामास” पञ्चत०। “दिग्विजृम्मित्काकुत्स्थपौलस्त्यजयघोषणः” रघुः।

घोषयित्नु = पुंस्त्री० घुष–णिच् बा० इत्नच। १ ब्राह्मणे २ कोकिले। ३ वन्दिनि त्रि० शब्दरत्ना०।

घोषवत् = त्रि० घोषः ध्वनिः वर्णभेदोच्चारणे बाह्यपयत्नोवाऽस्त्यस्य मतुप्मस्य वः। १ घोषरूपबाह्यप्रयत्नयुक्ते गकारादिवर्ण्णभेदे। “सर्व्वे स्वरोबलवन्तो घोषवन्तः कर्त्तव्याः” छा० उ० “थोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं द्व्यक्षरं चतुरक्षरं वा” आश्व० गृ० १। १५। ५। ६। “वर्गप्रथमद्वितीयवर्णा ऊष्माणश्च हकारवर्जमथोषवन्तः शिष्टाः थोषवन्तः। तदादौ यस्य तत्तथोक्तं अन्तर्मध्येऽन्तःस्थायरलवायस्य तत् तथोक्तम्। अअभिनिष्ठानो विसर्गः अन्ते यस्य तत् अक्षर स्वरः। अकारादयो द्वादश स्वराः शिष्टं व्यञ्जनम अपरिमित व्यञ्जनः। चतुरक्षरं वा। तत्र द्व्यक्षरे भद्रः देवः भवः। चतुरक्षरे भवनाथः नागदेवः रुद्रदत्तः नारा० “आदौ घोषवदक्षरं यरलवान् मध्ये पुनःस्थापयेदन्ते दीर्घविसर्जनीय रहितं नाम प्रयत्रात् कृतम्” गर्गः। शाखिभेदात्ऽविसर्गान्तता व्यवस्थाप्या। २ ध्वनियुक्ते च। “त्वं वज्र मतुलं घोषं घोषवांस्त्वं वलाहकः” मा० आ० २५ अ०। स्त्रियां ङीप्। सा च ३ वीणायां हेमच०।

घोषा = स्त्री घुव्यते भ्रमरैरियं कर्म्मणि घञ्। १ शतपुष्पायां, मधुरिकायां, (मौरि) मेदि० ३ कर्कटशृङ्यां, राजनि०। ४ कोशातक्याञ्च शब्दार्थचि०।

घोषातकी = स्त्री कोषातकी + पृषो०। कोषातकीलतायां श्वेतघोषालतायां रत्नमा०।

घोषादि = पु० “घोषादिषु च” पा० परस्थितेषु पूव्वपदस्याद्युदात्ततानामत्त षु शब्दर्भेदेषु स च भणः चाफट वल्लभ ह्रद वदरी पिङल पिशङ्ग माला रक्षा शाला कूटशाल्मका अश्वत्थ तृण शिल्पी मुनि प्रेक्षा।”

घौर = पु० घोरस्यर्षेरपत्यम् ऋष्यण्। कण्वगोत्रप्रवरे ऋषिभेदे। “कण्वान माङ्गिरसाजमोढ एवेति घोरमु चैके व्रुवतेऽवकृव्याजमीढमाङ्गिरसघौरकाण्वेति” आ० श्रौ० १२ १३। १

घ्रंस = पु० ग्रन्यन्ते रसा अस्मित् ग्रस–आधारे घञ पृषो०। १ दिवसे निघ०। “यो अस्मै घ्र स उत वा य ऊधनि” ऋ० ५। ३४। ३। इमामृचमधिकृत्य निरु० ६। १०। उक्तं यथा घ्रंस इत्यहर्नान ग्रस्यन्तेऽस्मिन् रसाः” इति। अहस्तुल्ये २ दीप्ते त्रि० “परि घ्रंसमोमना वां वयो गात्” ऋ० ७। ६९। ४। घ्रसं दीप्तम्” भा०। इमामृचमधिकृत्य निरुक्ते तु घ्रंसमहरिति व्याख्यातम्। पृषो० अन्त्य, लोपे घ्रंस् अप्यत्र। “न घ्रंस्तताप न हिमो जघान” अथ० ७। १८। २।

घ्रण्ण = वृण्णवत् धातुरिति केचित्।

घ्रा = गन्धग्रहणे अक० घ्राणजप्रत्यक्षे सक० भ्वा० प० अनिट्। जिघ्रति अघ्रात् अघ्रासोत् अघ्राताम् अघ्रासिष्टाम्। जघ्रो जघ्रिथ जघ्राथ। घ्राता घ्रेयात् घ्रायात्। कर्म्मणि भावे वा घ्रायते अघ्रायि “अघ्रायि वान् गन्धवहः सुगन्धः” भट्टिः। “षाड्वर्गिकं जिघ्रति षड्गुणेशः” भाग० १। ३। ६। नासिकया गन्धज्ञागमिह (सोङा) ग्रहणम्। उपवर्गपूर्व्वकस्तत्तदुपसर्गद्योत्यार्थयुक्ते ग्रहण। घ्रेयः घ्रात–घ्राणम् घ्राति

घ्राण = न० घ्रा–करणे ल्युट्। १ नासो। तस्य मतप्रेदेव भौतिकादिता इन्द्रियशब्दे ९५४० पृ० दशिता। “इन्द्रियं घ्राणलक्षशम्” भाषा० तस्य पार्थिवत्वे प्रमाणं सि० मु० दर्शितं यथा “घ्रारेन्द्रियं पार्यिवं रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात् कुङ्गुमगन्धादिव्यञ्जतघतवत् न च दृटान्ते स्वकीयरूपादिव्यञ्चकत्वादसिद्धिरिति वाच्यं परकीयंरूपाद्यव्यञ्चकावस्थ तदर्थत्वात् न च नवशरावगन्धव्यञ्जकजलेन नैकान्तमिवि वाच्यं तस्य सक्तुरसाभिव्य ञ्जकत्वात् यद्वां परकीयेति न देयं, वायूपनीतसुरभिभागस्य वृष्टान्तत्वसर्म्मषात् म च घ्राणेन्द्रियसन्निकर्षस्य गन्धमात्रव्यञ्जंकत्वात् तत्र व्यमिचार इति वाच्यं द्रव्यत्वे सति इति विशेषणात्”। कर्म्मणि क्त वा तस्य नः। २ कृतघ्राणे त्रि० घ्रातोऽप्यत्र। भावे ल्युट्। (सोङ्।) ३ व्यापारे न० घ्राणेन शूकरो हत्वि पवतेन कुक्कुटः” मनुः। तस्याधष्ठातारावव्यिनौ

घाणज = न० घ्राणे जायते करणस्याधारत्वविवक्षया “सप्तम्या जनेर्डः” पा० जन–ड ७ त०। नासिकेन्द्रियजाते प्रत्यक्षभेदे “घ्राणजादिप्रभेदेन प्रत्यक्ष षड्विधं मतम्” भाषा० तच्च प्रत्यक्षं गन्घादेर्यथाह तत्रैव “घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः”। “घ्राणग्राह्योभवेद्गन्धो घ्राणस्यैवोपकारकः” इति च

घ्राणतर्पण = पु० घ्राणमिन्द्रियं तर्पयति। सुगन्धे अमरः।

घ्राणदुःखदा = स्त्री घ्राणस्य दुःखं ददाति दा–क। छिक्कन्यां (हा~चि) भावप्र०।

घ्राणश्रवस् = पु० घ्राणमिव श्रवः कर्णोऽस्य। कार्त्तिकेय सैन्यभेदे। “घ्राणश्रवाः प्रतिस्कन्घः काञ्चनाक्षोजलन्धरः” भा० आनु० ४६ अ० कुमारसैनिकोक्तौ

घ्राति = स्त्री घ्रायते अनया घ्रा–करणे क्तिन्। १ नासिकायां शब्दच०। भावे क्तिन्। २ घ्राणे (सोङा) व्यारारे स्त्री “ब्राह्मणस्य रुजः कृत्या थातिरघ्रेयमद्ययोः मनुः। इति वाचस्पत्ये घकारादिशब्दार्थनिरूपणम्।

—ङ—

= ङकारः व्यञ्जनवर्णभेदः कवर्गपञ्चमः तस्योच्चारणस्थान” कण्ठमूलं नासिका च “जिहामूले तु कुःप्रोक्तः” इति “अमोऽनुनासिका नर्हौ” इति च शिक्षोक्तेः तदुच्चारणे आभ्यन्तरप्रयत्नः कण्ठमूले जिह्रामूलस्पर्शः। बाह्यप्रयत्नासवारनादघोषाल्पप्राणाः। मावृकान्यासेऽस्य दक्षकराङ्गुलग्रेषु न्यस्यता। तस्य तन्त्रे वाचकशव्दा वर्णोद्धारतन्त्रे उक्ता यथा “ङः शङ्खो भैरवश्चण्डो विन्दूत्तंसः शिशुः प्रियः। एकोरुद्रोदक्षनखः खर्परोविषयस्पृहः। कान्तिः खेटाप्लयोधीरोद्विजात्मा ज्वालिनी वियत्। मन्त्रगक्तिश्च मदनो विघ्नेशो चात्मनायकः। एकनेत्रो माहानन्दो दुर्द्धरश्चन्द्रमां मतिः। शिवश्चलो नीलकण्ठः कामेशी चमसांशुकौ”। कामधेनुतन्त्रे तस्य ध्येय रूपमुक्तं यथा। “ङकारं परमेशानि। खयं परमकुण्डलीम्। सर्वदेवमयं वर्णं त्रिगुणं लोललोचने!। पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम्”“नकार- जावनुस्वारपञ्चमौ झिलिधानुषु” कामधेनौ झलन्त सर्वधानुषु वर्गपञ्चमवर्णस्य नकारजत्वोक्तेः ङकारस्य तत्र नकारजत्वम् तेन अङ्क–क्विपि अन् इत्यादिरूपम तस्य काव्यादौ प्रथमनिर्देशफलं यथा “कः खः गोघश्च लक्ष्मीं वितरति वियशो ङस्तथा चः सुखं छः” वृ० र० टी० इत्युक्तेरपयशः।

= पु० ङु–बा० ड। १ विषये २ विषयस्पृहायां मेदि० ३ भैरवे एकाक्षरकोषः।

ङु = ध्वनौ भ्वा० आत्म० अक० अतिट्। ङवते अङविष्ट। ञुङुबे। सनि ञुङूषते। इति वाचस्पत्ये ङकारादिशब्दार्थनिरूपणम्।

***