—घ—

= घकारस्योच्चारणं स्थानं जिह्वामूलं “जिह्वामूले तु कुः प्रोक्तः” शिक्षोक्तेः “अकुहविसर्जनीयानां कण्ठः” इत्युक्तिस्तु जिह्वामूलरूपकण्ठपरा। अस्योच्चारणे आभ्यन्तरः प्रयत्नः स्पर्शः जिह्वामूलस्पर्शनेन तदुच्चारणात् अतएवास्य स्पर्शवर्णत्वम्। बाह्यप्रयत्नास्तु घोषनादसंवार महाप्राणाः सि० कौ० मूलं दृश्यम्। तस्य तन्त्रे वाचकशब्दा उक्ता यथा

“घः खड्गी घुर्घुरा मण्डी मुण्डीशस्त्रिपुरान्तकः। वायुः शिवोत्तमः सत्यकिङ्किणी घोरनादकः। मरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः। लम्बोदरी ज्वालमाला नंन्देशो हननं ध्वनिः। त्रैलीक्यविद्या संहर्त्ता कामाख्या मनघा मघा” वर्ण्णोद्धारतन्त्रम् अस्य ध्येयरूपं यथा “मालतीपुष्पवर्ण्णाभां षड्भुजां रक्त लोचनाम्। शुक्लाम्बरपरीधानां शुक्लमाल्यविभूषिताम्। सदा स्मेरमुखीं रम्यां लोचनत्रयराजिताम्। एवं ध्यात्वा घकारन्तु तन्मन्त्रं दशधा जपेत्”। अस्य मातृकान्यासे दक्षिणकराङ्गुलीषु न्यस्यता।

= पु० घट–बा० ड। १ घटायां २ घर्घरशब्दे च मेदि०।

घकार = पु० घ–स्वरूपे कार। घस्वरूपे वर्ण्णे “एवं ध्वात्वा वकारन्तु” वर्ण्णोद्धारत०।

घग्ध = हसने भ्वा० पर० अक० सेट्। घग्धति अघग्धीत्। जघग्ध।

घट = चेष्टायां भ्वा० आत्म० अक० सेट् घटादि। घटते अघटिष्ट जघटे घटमानः। षित् अङ् घटा। “घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्” भा० व० १५८१ श्लो०। “कदाचित् तस्य वृद्धस्य घटमानस्य यत्नतः” १०४७३ श्लो०। “प्रागेव मरणात्तस्माद् राज्यायैव घटा० महे” १३८१ श्लो०। “अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः” भट्टिः। णिच् योजने सक० मित्त्वात् ह्रस्वः घटयति। अजीघटत् त “अनेन भैभीं घटयिष्यतोविधेः” नैष०। “अन्यथा घटयिष्यामि” शकु०। “इत्थं नारीर्धटयितुमलं कामिभिः काममासः” माघः।उद् + घटि–आवरणनिवारणे निरावरणकरणे। “द्वारे पुरस्योद्घटितापिधाने” कुमा०।प्र + प्रारम्भे “ततः प्रजघटे युद्धम्” भट्टिः।वि + वियुक्तो अक० “ततोविजघटे शैलैः” भट्टिः। “कार्य्य मुद्घाटितं क्वापि मध्ये विजघटे यतः” हितो०। “विघटितास्तृष्णालताग्रन्थयः” प्रबो०। णिच्–वियोजने सक० विघटयति ते।सम् + सम्यक्श्लेषे संयोगे अक०। संघटते संयुज्यते इत्यर्थः णिच् संयोजने सक० संघटयति–संयोजयतीत्यर्थः।

घट = हिंसे सक० संघाते अक० चु० उभ० सेट्। घाटयति–ते अजीघटत्–त। घाटा।उद् + निरावरणे उद्घाटयति द्वारम् “उद्घाटिनी कुञ्जिका” मृच्छक०। “उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः” वृ० स० ५३ अ०।

घट = द्यु तौ वा चु० उभ० पक्षे भ्वा० पर० अक० सेट्। घाटयति ते घटति। अजीघटत-त अघाटीत् अघटीत्।

घट = शब्दकरणे चुरा० उभ० अक० सेट् इदित्। घण्टयति ते अजघण्टत् त। घण्टा निघण्टुः।

घट = पु० घटते अच्। कम्बुग्रीवादिमति पृथुबुध्नोदराकृतियुक्तं पदार्थे अमरः कुम्भतुल्यनिश्चलताहेतुत्वात् प्राणायामभेदे २ कुम्भके। ३ हस्तिकुम्भ च मेदि०। “कुम्भस्तु द्रोणविंशतिः” कात्यायनोक्ते द्रोणविंशतिपरिमाणे इति शब्दक०। तच्चिन्त्यम् कुम्भशब्दस्यैव तदर्थे परिभाषितत्वात् तदर्थकशब्दमात्रस्य तत्रापरिभाषितत्वाच्च। वैद्यकोक्तद्रोणपरिमाणार्थकतापि तत्रोक्ता चिन्त्या तत्र कुम्भशब्दस्यैव परिभाषितत्वात्। ४ कुम्भराशौ “हरिः कीटघटेन च” ज्यो० त० पताकीवेधे

घटक = त्रि० घटयति घट–णिच्–ण्वुल्। १ योजके। तद्भेदाः “धावकोभावकश्चैव योजकश्चांशकस्तथा। दूषकः स्तावकश्चैव षडेते घटकाः स्मृताः” इत्युक्ताः। “घटकं ब्राह्मणं देवि! स्पर्शेषु यत्नतस्त्यजेत्” महिषमर्द्दिनीत० तस्यास्मृ श्यतोक्ता। योजकश्च वरकन्ययोर्विवाहे योजकः, वस्तुमात्रयोर्योजकश्चेति द्विधा। २ स्वविषयताव्यापकविषयताविशिष्टे “यः स्वार्थघटकार्थस्य स्वार्थान्वयिनि बोधने। अनुकूलोबहुव्रीहिः सत्तयोरथवादिमः” शब्द० प्र० “साध्याभावाधिकरणत्वं च साध्यवत्ताग्रहविरोधिताघटकसम्बन्धेनेति साध्याभावप्रतियोगित्वञ्च साध्यताघटकसम्बन्धेन इति च नव्यनंया०। तस्य भावः त्व घटकत्वम् स्वभिन्नत्वस्वव्यापकत्वोभयसम्बन्धेन विषयताविशिष्टत्वे। भवति च वह्न्यभावे वह्नेर्घटकत्वम् वह्न्यभावज्ञानीयविषयताया वह्निविषयताव्याप्यत्वात्।

घटकर्पर = पु० विक्रमादित्यसभ्ये नवरत्नान्तर्गते कविभेदे। “धन्वन्तरिःक्षपणकोऽमरसिंहशङ्कुर्वेतालभट्टघटकर्परकालिदासाः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचि र्नव विक्रमस्य” ज्यीतिर्विदाभरणम्। तत्कृतकाव्यञ्च नीतिसाराख्यं तन्नाम्ना प्रसिद्धमस्ति। तच्च “गिरौ कलापी गगने पयोदाः” इत्यादिकं “यथा करोतु नीतिज्ञो व्यवसायमितस्ततः। फलं पुनस्तदेव स्याद् यद्विधेर्मनसि स्थितम्” इत्यन्तम्। ६ त०। २ भग्नघटावयवभेदे (खावरा) “तस्मै वहेयमुदकं घटकर्परेण” नीतिसारः “घटकर्परतीक्ष्णाग्रः” पञ्चत०।

घटकार = त्रि० घटं करोति कृ–अण् उप० सु०। कुम्भकारे (कुमार) शिल्पिभेदे “घटकारपुरोहिताव्दज्ञाः” वृ० स० १६ अ०। ण्वुल्। घटकारकोऽप्यत्र।

घटकृत् = त्रि० वटं करोति कृ–क्विप्। कुम्भकारके “विद्वदमात्यबणिग्जनघटकृच्चित्रान्त्यजास्त्रिफलाः” वृ० स० १६ अ०।

घटग्रह = त्रि० घटं गृह्णाति कर्मण्युपपदेऽपि न अण् किन्तु “शक्तिलाङ्गूलाङ्कुशतोमरयष्टिषटघटीधनुष्षु ग्रहेरुपसंख्यानम्” वाति० अनुद्यमने अच्। कुम्भग्राहके। उद्यमने तु अण्। घटग्राह तत्रार्थे त्रि०

घटज = पु० घटात् जायते जन–ड। कुम्भसम्भवे अगस्त्येमुमौ। कुम्भयोनिशब्दे २११७ पृ० दृश्यम्। “किं बहूक्तेन घटज! काशी प्राप्ताथ तेन वै” काशीख० ३० अ०। घटजातादयोऽप्यत्र।

घटदासी = स्त्री घटयति नायकौ परस्परं योजयति घटि अच् ह्रखः। कुट्टिन्यां त्रिका०।

घटन = न० घष्टि + त्युट्। योजने संमेलने “अघटनघटना पटीयमी माया” वेदा०। “तप्तेन तप्तमयसा घटनाय योग्यम्” विभा०।

घटना = स्त्री चु० घट–युच्। १ संहतकरणे, २ योजने ४ मेलने, ४ करिणां समूहे च अमरः। “वाच्यं स्पष्टनिजपराङ्ग घटनामालोक्य कालविज्ञः” वृ० स० ५१ अ०। “प्रियजन घटनामाशु दुःशीलतां च” वृ० स० ५२ अ०।

घटराज = पु० घटेन योजनेन राजते राज–अच्। कुम्भे हारा० कपालद्वययोजनात्तस्य जातत्वात्तथात्वम्।

घटपर्य्यसन = न० ६ त०। प्रायश्चित्ते पराङ्मुखस्य पतितस्य त्यागार्थं जीवतएव तस्य प्रेतकार्य्यार्थं च ज्ञातिभिः क्रियमाणे दास्याः पादेन कुम्भस्य निरुदककरणे ततद्विधिः मनुना दर्शितो यथा

“पतिस्योदकं कार्य्यं सपिण्डैर्बान्धवैर्बहिः। निन्दितेऽहनि सायाह्ने ज्ञात्य त्विग्गुरुसन्निधौ। दासी घटमपां पूर्णं पर्य्यस्येत् प्रेतवत् पदा। अहोरात्रमुपासीरन्नशौचं बान्धवैः सह। निवर्त्तेरंश्च तस्मात्तु सम्भापणसहासने। दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिकी। ज्येष्ठता च निवर्त्तेत ज्येष्ठाबाप्यञ्च यद्धनम्। ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः” “पतितस्येति। महापातकिनो जीवतएव प्रेतस्योदकक्रिया वक्ष्यमाणरीत्या सपिण्डैः समानोदकैश्च ग्रामाद्वहिर्गत्वा ज्ञात्यृत्विग्गुरुसन्निधाने रिक्तायां नवम्यादौ तिथौ दिनान्ते कर्त्तव्या। दासीति। सपिण्डसमानोदकप्रयुक्ता दासी उदकपूर्णं वटं प्रेतवदिति दक्षिणाभिमुखीभूय पादेन क्षिपेत् यथा स निरुदको भवति तदनु ते सपिण्डाः समानोदकैः सहाहोरात्रमशौचमाचरेयुः। निवर्त्तेरन्निति। तस्मात् पतितात् सपिण्डादीनां सम्भाषणमेकासनोपवेशनं च तस्मै रिक्थदानं सांवत्सरिकादौ निमन्त्रणादिरूपो लोकव्यवहारः एतानि निवर्त्तेरन्। ज्येष्ठतेति। ज्येष्ठस्य यत् स्तुत्युत्थानादिकं कार्य्यं तत्तस्य न कार्य्यं ज्येष्ठलभ्यं च तस्य विंशोद्धारादिकं घनं न देयं यद्यपि रिक्थप्रदानप्रतिषेधादेवाप्युद्धारप्रतिषेधः सिद्धः तथापि यवीयसस्तत्प्राप्त्यर्थमनूद्यते तस्यैव ज्येष्ठस्य सम्बन्धि धनं सोद्ध्वारांशं तदनुजो गुणाधिको लभते” कुल्लू०। विस्तरस्तु मिताक्षरायामुक्तोयथा “यस्त्वौद्धत्यादेतन्न चिकीर्षति तस्य किं कार्य्यमित्याह “दासीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः। पतितस्य वहिः कुर्युः सर्वकार्येषु चैव तम्” या०। “जीवतएव पतितस्य स्वज्ञातयोबान्धवाः मातृपक्षाश्च ते सर्वे सन्निपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितयाऽऽनीतं कुम्भमपाम्पूर्णं ग्रामाद्बहिर्निनयेयुः। एतच्चतुर्थ्यादिरिक्ततिथिष्वह्रः पञ्चमे भागे गुर्वादिसन्निधौ कार्यम् “पतितस्योदकङ्कार्यं सपिण्डैर्वान्धवैःसह। निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधाविति” मनुस्मरणात्। अथ वा दास्येव सपिण्डादिप्रयुक्ता निनयेत् यथाह मनुः “दासी घट मपाम्पूर्णम्पर्यस्येत् प्रेतवत्तदा। अहोरात्रमुपासीरन्नशौचं वान्धवैः सहेति”। प्रेतवदिति दक्षिणामुखापसव्यत्वयोः प्राप्त्यर्थम्। तच्च निनयनमुदकपिण्डदानादिप्रेतक्रियोत्तरकालं द्रष्टव्यम्। “तस्य विद्यागुरुयोनिसम्बन्धांश्च सन्निपात्य सर्वाण्युदकादीनि प्रेतकर्म्माणि कुर्युः पात्रञ्चास्य विपरिषिञ्चेयुर्दासः कर्म्मकरोवावचारात्पात्रमानीय दासी घटं पूरयित्वा दक्षिणामुखी पदा विपर्थ- स्येदगुदकमुदकङ्करोति नामग्राहान्तं सर्वे त्वालभेरन् प्राचीनावीतिनोमुक्तशिखा विद्यागुरवो योनिसम्बन्धाश्च वीक्षेरन्नपौपस्पृश्य ग्रामम्प्रविशेयुरिति” गौतमस्मरणात्। अयञ्च त्यागोयदि बन्धुमिः प्रेर्यमाणोऽपि प्रायश्चित्तं न करोति तदा द्रष्टव्यः “तस्य गुरोर्बान्धवानां राज्ञश्च समक्षन्दोषानप्रिख्याप्यानुभाय्य पुनः पुनराचारं लभस्वेति स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं विपर्यस्येदिति” शङ्खस्मरणात्। ततस्तं लब्धोदकम्पतितं सर्वकार्येषु सम्भाषणसहासनादिषु वहिःकुर्युर्वर्जयेयुः। तथा च मनुः “निर्बर्त्तेरंस्ततस्तस्य सम्भाषणसहासने। दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिकी”। यदि स्नेहादिना सम्भाषणङ्करोति तदा प्रायश्चित्तं कार्यम्। “अत ऊर्द्धन्तेन सह सम्भाष्य तिष्ठेदेकरात्रं जपन् सावित्रीमज्ञानपूर्ब्बं ज्ञानपूर्ब्बं त्रिरात्रमिति”। घटनिनयनादयोऽप्यत्र।

घटप्रक्षेप = न० ६ त०। “कृतप्रायश्चित्तेन महापुण्यजलाशये स्नानोत्तरं सपिण्डसमीपे पुण्यजलपूर्ण्णघटस्यापवर्जने तद्विघिः मिता० दर्शितो यथा “यदा तु वन्धुत्यागादन्यथा वा जातबैराग्यः प्रायश्चित्तं कुर्य्यात्तदा किं कार्य्यमित्याह “चरितव्रत आयाते विनयेरन्नवं घटम्। जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः” या०। “कृतप्रायश्चित्ते वन्धुसमीपम्पुनरायाते तत्सपिण्डाद्यास्तेन सहिता नवममुपहतं घटमुदकपूर्णं निनयेयुः। एतच्च निनयनं पुण्यह्रदादिस्नानो त्तरकाल न्द्रष्टव्यम्। “प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम्। तेनैव सार्द्धभ्प्रास्येयुः स्नात्वा पुण्वजलाशये” इति मनु स्मरणात्। गोतमेन तु विशेष उक्तः “यस्तु प्रायश्चित्तेन शुध्येत्तस्मिंश्छुद्धे शातकुम्भमयस्पात्रं पुण्यतमाद्ध्रदात्पूरयित्वा स्रवन्तीभ्यो वा त एनमप्युपस्पर्शयेयुरथास्मैतत्पात्रन्दद्युस्तत्सम्प्रतिगृह्य जपेत् शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं योरोचनस्तमिह गृह्णामीत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डैश्चाज्यं जुहुयाद्धिरण्यं दद्याद्गाञ्चाचार्याय यस्य तु प्राणात्तिकम्प्रायश्चित्तं स मृतः शुध्येदेतदेव शान्त्युदकं सर्वेषूपपातकेप्विति तत एनङ्कृतप्रायश्चित्तन्तं नैव कुत्सयेयुस्तथा सर्वकार्य्येषु क्रयविक्रयादिषु तेन सह संव्यवहरेयुः”। “प्रकृतएव चरितव्रतविधौ विशेषमाह “घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम्। प्रदद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया” या० मिताक्ष० अत्रेदं बोध्यम् घटेऽपवर्जिते इत्यादि याज्ञ० वचनस्य प्रायश्चित्ते तु चरिते इत्यादि मनुवचनस्य च प्रकरणात् घटप्रक्षेपस्य पतितविषयकत्वावधारणे “स्वशिरसा यवसमादाय गोभ्योदद्यात्” इति हारीतवचनस्य गोग्रासमात्रदानप्रतिपादकत्वेन तस्य सर्वप्रायश्चित्तशेषत्वेनावधारणेऽपि “एवं हारीतयाज्ञवल्क्यवचनैकवाक्यतया वक्ष्यमाणमनुवचनद्वयमपि सामान्यप्रायश्चित्तोत्तरकर्त्तव्यतापरं न तु प्रकरणादसत्प्रतिग्रहमात्रपरं तस्यासत्प्रतिग्रहमात्रपरतया यत् कुल्लूक भट्टव्याख्यानं तत्प्रदर्शनमात्रम् एवं घटापवर्जनमपि न पतितमात्रविषयम् यथाह मनुः “उपवासकृशं तं तु गोव्रजात् पुनरागतम्। प्रणतं परिपृच्छेयुः साभ्यं सौम्येच्छसीति किम्। सत्यमुक्ता तु विप्रेषु विकिरेत् यवसं गवाम्”। इत्यन्तेन प्रा० त० यद् घटापवर्जनस्यापि सर्वप्रायश्चित्तशेपतया व्यवस्थापितम् तच्चिन्त्यम् दर्शितहारीतवाक्ये “उपवासकृशमित्यादिमगुवाक्ये च घटापवर्जनस्यानुक्तेः पतितविषये च प्रागुक्तमनुयाज्ञवल्क्यवाक्ययोर्घटापवर्जनस्योक्तेः उभयस्येकविषयत्वाभावात् ततश्च सर्वप्रायश्चित्ते केबलं गोग्रासदानमात्रं शेषकर्त्तव्यं पतितप्रायश्चित्ते तु घटापवर्जमरूपविशेषकार्य्यसहितगोग्रासदानमिति विषय विवेकसम्भवे मनुयाज्ञवल्क्यवचनसङ्कोचस्मायुक्तत्वात् किञ्च हारीतवचनस्य गोग्रासदानविषयकत्वेन श्रवणेऽपि याज्ञवल्क्यवाक्ये “घटेऽपवर्जिते इत्यनेन प्राप्तपतित विषयकघटापवर्जनमनूद्य गोग्रासमात्रविधायकत्वात् न सामान्यपरत्वं यद्विषये घटापवर्जनं विहितं तद्विपयेऽपि गोग्रासदानाधिक्यविधानार्थं तस्य प्रवृत्तेः घटापवर्जनं तु पतितविषयकं प्रकरणादवगस्यते। किञ्च पतितविषये दासीपदा घटप्रक्षेपपूर्व्वकं निरुदक घटकरणं घटपर्य्यसनशब्दे मन्वादिवाक्येन दर्शितम् तदुत्तरमेव मनुयाज्ञवल्क्याभ्यां घटापवर्जनं विहितमिति तस्य तद्विषयकत्वौचित्यात् न तु तत्सङ्कोचः इति। वस्तुतस्तु घटपर्य्यसनशब्दे दर्शितगौतमवाक्ये “एतदेव शान्त्युदकं सर्व्वेषू पपातकेषु” इत्युक्तेः शान्त्युदकग्रहणस्य सर्वोपपातक प्रायश्चित्तशेषत्वावधारणात् शान्त्युदकग्रहणस्य च पूर्ण्णघटनिनयनपूर्वकत्वौचित्येन सर्व्वोपपातकप्रायश्चित्ते शान्त्युदकग्रहणार्थं घटनिनयनं कार्य्यमिति सुधीभिर्भाव्यमिति। घटापवर्जनघटनिनयनादयोऽप्यत्र।

घटसम्भव = पु० सम्भवत्यस्मात् सम् + भू–अपादाने अप् घटः सम्भवोऽस्य। कुम्भसम्भवे अगस्त्ये घटोद्भवादयोऽप्यत्र

घटसृञ्जय = पु० ब० व०। दक्षिणस्थे जनपदभेदे “अथापरे जनपदा दक्षिणा भरतर्षभ!” इत्युपक्रमे “मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः” जम्बुखण्डनिर्म्माणे भा० भी० ९ अ०।

घटा = स्त्री घट–भावे अङ्। १ सघाते “यदगारघटाट्ट कुट्टिमस्रवदिन्दूपलतुन्दिलापया” नैष०। २ घटनायां ३ गोष्ठ्यां ४ सभायाञ्च मेदि०। ५ करिणां युद्धादावेकत्र संघाते अमरः “आयामवद्भिः करिणां षटाशतैः” माघः। ६ घटने योजने च अच्। ७ तत्रार्थे पु०।

घटाटोप = पु० घटया आटोपः। आडम्बरे।

घटाभ = पु० हिरण्यकशिपुसेनापतौ असुरभेदे। “तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम्। उपासन्ति” इत्युपक्रमे “घटाभोविकटाभश्च संह्रादश्चेन्द्रतापनः” हरिवं० २३२ अ०। कुम्भाकारत्वात्तस्य तथात्वम्।

घटाल = त्रि० घटा घटनाऽस्त्यस्य निन्दिता सिध्मा०। “जटाघटाकटाकालाः क्षेपे” ग० सू० लच्। निन्दितघटनायुक्ते।

घटालाबू = स्त्री घटैवालाबूः। कुम्भतुम्ब्याम् (गोललाउ) राजनि०।

घटिक = न० घटेन तरति तरतीत्यधिकारे “नौद्व्यचष्ठन्” पा० ठन्। घटेन नद्यादितारिणि।

घटिका = स्त्री “गुर्वक्षराणामुदितं च षष्ट्या पलं पलानां घटिका किलैका” इति ज्योतिर्विदाभरणोक्ते १ षष्टिपलात्मके दण्डरूपे काले घटयति विहितकार्य्यकरणाय घटणिच्–ण्वुल्। २ दण्डद्वयरूपे मुहूर्त्तात्मके काले। अल्पो घटः ङीप् ततः स्वार्थे क। ३ स्वल्पे घटे। इवार्थे कन्। ४ नितम्बे न० शब्दच०। “चतस्नो घटिकाः प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः। त्रियामां रजनी प्राहुस्त्यक्त्वाद्यलचतुष्टयम्। नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” कालमा० व्रह्मवै०। “व्रतोपवासस्नानांदौ घटिकैका यदा भवेत्। उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” विष्णुधर्म्मो०। “अत्र घटिका सुहूर्त्तं श्राद्धयोग्यकालानुरोघादिति वक्ष्यते व्रह्मवै० घटिकादण्डरूपा परवचने नाडीनामाद्यन्तचतुष्टयमित्यनुरोधात्” ति० त० रघु०। “त्रिंशत् कलार्क्षी घटिका क्षणः स्यात् नाडीद्वयं ते खगुणैर्दिनञ्च” सि० शि० “आर्क्षी भचक्रभ्रमस्य षष्टिभागः घटिका” प्रमिता०।

घटिघट = पु० घट्या घटते घट–अच् संज्ञात्वात् ह्रस्वः। महादेवे तस्य कालरूपेण घटीवत् स्थितत्वात् तथात्वम्। “नमोऽघटाय घण्टाय नमो घटिघटाय च” हरिवं० २७८ अ० शिवस्तुतौ।

घटित = त्रि० घट–णिच्–क्त। १ योजिते रचिते २ स्वविषयताव्याप्यविषयताविशिष्टे भवति च वह्न्यभावः वह्निघटितः वह्न्यभावविषयताया वह्निविषयताव्याप्यत्वात्” “प्रतियोगिवैयधिकरण्यघटितव्यापकताया निवेशः” व्युत्पत्तिवादे गदाधरः। तस्य भावः त्व घटितत्व तद्भावे न०। विशिष्टान्तराघटितत्वं विशिष्टद्वयाघटितत्वम् इति च सामान्यनिरुक्तौ गदाधरः।

घटिन् = पु० घट + स्तदाकारो अस्त्यस्य इनि १ कुम्भराशौ “मत्स्यौ घटी नृमिथुनं सगदं सवीणम्” ज्यो० त०। तस्य कुम्भाकारत्वात् शिरसि तद्युक्तत्वाच्च तथात्वम् २ कुम्भयुक्ते त्रि० स्त्रियां ङीप्।

घटिन्धम = त्रि० घटीं धमति ध्मा–खश् मुम् ह्रस्वश्च। मुखमारुतेन घटीवादके।

घटिन्धय = त्रि० घटीं धयति घेट–खश् मुम् ह्रस्वश्च। कुम्भधायके।

घटिल = त्रि० घटोऽल्यस्य पिच्छा० इलच्। कुम्भयुक्ते।

घटी = स्त्री घटः कालमानज्ञापकः सच्छिद्रः कुम्भः ज्ञापकतयाऽ स्त्यस्याम् अच् गौरा० ङीष्। १ दण्डात्मके काले। “गुर्व्वक्षरैः खेन्दुमितैरसुस्तैः। षड्भिः पलं तैर्घटिका खषड्भिः। स्याद्वा घटीषष्टिरहः खरामैः” सि० शि०। अल्पार्थे ङीप्। २ क्षुद्रे कुम्भे।

घटीकार = स्त्री घटीं करोति अण्। कुम्भकारे शिलिपभेदे।

घटीग्रह = त्रि० घटीं गृह्णाति ग्रह–अनुद्यमने घटग्रहवत् अच्। घटीग्राहके उद्यमेन तु अण्। घटीग्राह तदर्थेत्रि०।

घटीयन्त्र = न० घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम्। कालमानज्ञापके यन्त्रभेदे। (घडि) तच्च यन्त्रं नानाविधं सू० सि० रङ्गनाथयोर्दर्शितं तत्र दिवसे कालज्ञानस्य शङ्कुच्छायादियन्त्रैकसाध्यत्थमुक्त्वा घटीयन्त्रादिकं तु अहर्निशतज्ज्ञानसाधनमिति घटीयन्त्रादिकमेवात्रतत्रोक्तं प्रदर्श्यते यथा “अथ घटीयन्त्रादिमिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साधयेदिति कालसाधनमुपसंहरति” “तोययन्त्रकपालाद्यैर्मयूरनरवानरैः। ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत्” सू० सि०। “जलयन्त्रं तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यमाणं तदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालुकायन्त्रप्रभृतिभिः सापेक्षघटीयन्त्रैर्मयूरनरगनरैः। मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्क्वाख्यं छायायन्त्रं पूर्वोद्दिष्टं वानरयन्त्रं स्वयंवहं निरपेक्षमेतैः ससूत्ररेणुगर्मैः सूत्रसहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः षष्टिसङ्ख्याका मृद्वटिता मयूरोदरस्था मुखाद् घटिकान्तरेण स्वत एव निःसरन्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः। यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भे उदरे यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम्। तेन महितैर्मयूरादियन्त्रैर्मयूराद्युक्तयन्त्रैर्वालुकायन्त्रेण चेति सिद्धोऽर्थः। चकारस्तोययन्त्रकपालाद्यैरित्यनेन समुच्चयार्थकः। कालं दिनगतादिकं सम्यक् सूक्ष्मं प्रसाधयेत्। प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेनेत्यर्थः। जानीयादिव्यर्थः। ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तसाधनप्रकारा वहवो दुर्गमाश्च सन्तीत्याह” र० ना० “पारदाराम्बुसूत्राणि शुल्वतैलजलानि च। वीजानि पांसवस्तेषु पयोगास्तेऽपि दुर्लभाः” सू०। “तेषु मयूरादियन्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः। प्रकर्षस्तु यावदभिमतसिद्धेः। एते क इत्यत आह। पारदाराम्बुसूत्राणीति। पारदयुक्ता आराः। तथा च सिद्धान्तशिरोमणौ” लघुकाष्ठगसमचक्रे समसुषिराराः समान्तरा नेम्याम्। किञ्चिद्वक्रा योज्याः सुषिरस्यर्धि पृथक् तासाम्। रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयंभ्रमति”। (१) इति। अब्धु जलस्य प्रयोगः। सूत्राणि सूत्रसाचनप्रयोगः। शुल्वं ताम्रम्। तैलजलानि तैलयुक्तजलस्य प्रयोगः। चकारात् तयोः पृथक् प्रयोगोऽपि। तथा च सिद्धान्तशिरोमणौ “उत्कीर्य नेमि(२) मथवा परितो मदनेन संलग्नम्। तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपत् तावत्। यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति। पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जलाकृष्टम्। (३) ताम्रादिमयस्याङ्कुशरूपनलस्य म्बुपूर्णस्य। एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च बहिः। युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिः पतति। नेम्यां बद्ध्वा घटिकाश्चक्रं जलयन्त्रवत् तथा धार्य्यम्। नलकप्रच्युतसलिलं पतति यथा तद्वटीमध्ये। भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम्। चक्रच्युतं स्वमुदकं कुण्डे याति प्रणालिकया” इति। बीजानि केवलं तुङ्गवीजप्रयोगाः। पांसवो घूलिप्रयोगास्तैर्युक्ताः। अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः। दुर्लभाः साधारणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः। अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्यापत्तेः। इयं स्वयंवहविद्या समुद्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यगभ्यस्तेति। कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः। अथ कपालाख्यं जलयन्त्रमाह” रङ्गन०। “ताम्रपात्रमधश्छिद्रंन्यस्तं कुण्डेऽमलाम्भसि। षष्टिर्मज्जत्यहोरात्रे स्फुटंयन्त्रं कपालकम्” सू० “यत् ताम्रघटितं पात्रमधश्छिद्रमधोभागे छिद्रं यस्य तत्। अमलाम्भसि निर्मलं जलं विद्यते यस्मिन् तादृशे कुण्डे वृहद्भाण्डे न्यस्तं धारितं सदहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवारमेब न न्यूनाधिकं मज्जति अधश्छिद्रमार्गेण जलागमनेन जलपूर्ण्णतया निमग्नं भवति। तत् कपालकं कपालमेव कपालकं घटखण्डानां कपालपदवाच्यत्वात् घटाधस्तनार्धाकारं यन्त्रं घटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु। “शुल्बस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम्। तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात्। सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुला स्यात्। विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकयाम्बुभिस्तत्” इति व्यक्तम्। भगवता तु सूक्ष्ममुक्तम्। अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह” रङ्गन० “नरयन्त्रं तथा साधु दिवा च विमले रवौ। छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम्” सू० सि०। रङ्गनाथ धतसि० शि० वाक्यानि प्रमि० व्याख्यातानि यथा लघुदार्व्विव्यादि (१) ग्रन्थिकीलरहिते लघुदारुमये भ्रमसिद्धे चक्रे आराः। किंविशिष्टाः। समप्रमाणाः समसुषिराः समतौल्याः समोन्तरा नेम्यां योज्याः। ताश्च नद्यावर्तवदेकत एव सर्वाः किञ्चिद्वक्रा योज्याः। ततस्तासामाराणां सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषिरार्धमेव पूर्ण्णं भवति। ततो मुद्रिताराग्रं तच्चक्रमयस्कारशाणवद्द्व्याधारस्थं स्वयं भ्रमति। अत्र युक्तिः। यन्त्रैकभागे रसो ह्यारामूलं प्रविशति। अन्यभागे त्वाराग्रं धावति। तेनाकृष्टं तत् स्वयं भ्रमतीति” प्रमि०। उत्कीर्य्येत्यादि “(२) यन्त्रनेमिं भ्रमयन्त्रेण समन्तादुत्कीर्य द्व्यङ्गुलमात्रं सुषिरस्य वेघो विस्तारश्च यथा भवति ततस्तस्यु सुषिरस्योपरि तालषत्रादिक मदनादिना संलग्नं कार्य्यम्। तदपि चक्रं द्व्याधाराक्षस्थितं कृत्वोपसि नेम्यां तालदलं बिद्ध्वा सुषिरे रलस्तावत् क्षेप्यो यावत् सुषिरस्याधोभागो रसेन मुद्रितः। पुनरेकपार्श्वे जलं प्रक्षिपेत्। तेन जलेन द्रवोऽपि रसो गुरुत्वात् परतः सारयितुं न शक्यते। अतो मुद्रितच्छिद्रं तच्चक्रं जलेनाकृष्टं खयं भ्रमतीति” प्रमि०। ताम्रादिमयस्येत्यादि (३) “ताम्रादिधातुमयस्याङ्कुशरूपस्य वक्रीकृतस्य नलस्य जलपूर्णस्यैकमग्रं जलभाण्डेऽन्यदग्रं बहिरधोमुखं चैकहेलया यदि विमुच्यते तदा भाण्डजलं सकलमपि नलेन बहिः क्षरति। तद्यथा छिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डे क्षिप्तस्य जलपूर्णसुषिरस्यैकमग्रं भाण्डाद्बहिरधोमुखं द्रुतं यदि ध्रियते तदा भाण्डजलं सकलमपि नलेन बहिर्याति। इदं कुक्कुटनाडीयन्त्रमिति शिल्पिनां हरमेखलिनां च प्रसिद्धम्। अनेन बहवश्चमत्काराः सिद्ध्यन्ति। अथ चक्रनेम्यां घटीर्बद्धा जलयन्त्रवत् द्व्याधाराक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलं तस्य घटीमुखे पतति। एवं पूर्णघटीभिराकृष्टं तद्भ्रमत् केन निवार्य्यते। अथ चक्रच्युतस्योदकस्याधःप्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैरपेक्षम्” प्रमि०। विष्णु पु० अन्यथा तन्निर्माणप्रकार उक्तो यथा “नाडिका तु प्रमाणेन कला दश च पञ्च च। उन्मानेनाम्भसः सा तु पलान्यर्द्धत्रयोदश। हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलेः। मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृतः” विष्णु० पु०।

“अम्भस उन्मानेन उन्मीयतेऽनेनेत्युन्मानं पात्रम्। अर्द्धेन योगे त्रयोदश सार्द्धद्वादशेत्यर्थः। उन्मानरूपेण घटितानि सार्द्धद्वादशपर्वाणि सा नाडिका सार्द्धद्वादशपलताम्रनिर्मितपात्रेण सा नाडिका ज्ञातव्येत्यर्थः। किं प्रमाणं तत् पात्रं कार्य्यं तदाह। सार्द्धद्वादशपलजलेन हि मागधदेशप्रस्थः पूर्यते तत्प्रमाणं पात्रं कार्य्यम् इत्यर्थात् सिद्धम्। ननु तथापि पात्रेण कथं नाडिकाज्ञानं क्रियापरिच्छेद्यत्वात् कालस्येत्याशङ्क्य क्रियासिद्धये प्रस्थादि विशिनष्टि हेमेति। माषः पञ्चगुञ्जः। हेम्नोमाषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैः कृतच्छिद्रा। एतदुक्तं भवति। सार्द्धद्वादशपलताम्रमयं मागधप्रस्थसंमितमूर्द्ध्वायतं पात्रं चतुर्माषचतु रङ्गुलहेमशलाकया कृताधश्छिद्रं जले स्थापितं तेन छिद्रेण यावता कालेन पूर्यते तावान् कालो नाडिवति। तथाच शुकः “द्वादशार्द्धपलोन्मानं चतुर्भिद्यतुरङ्गुलैः। स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतमिति”। श्रीधरव्याख्या। ६ त०। ङ्यपोः संज्ञायां ह्रस्वः। घटियन्त्रमप्यत्र “ततः संसारचक्रेऽस्मिन् भ्राम्यते घटियन्त्रवत्” मार्क० पु०। वट्या कूपात् उद्धारणार्थं यन्त्रम्। २ कूपात् कुम्भोद्धारणार्थे यन्त्रमेदे। घटीयुक्तं यन्त्रं घटीयन्त्रं तच्च घटीयुक्तजलोद्धारणयन्त्रं पश्चिमदेशे प्रसिद्धम्। (जलतोलार कल)। “कमलपत्रपुटघटितवटीयन्त्रकाणि” काद०।

घटोत्कच = पु० भीमेन हिडिम्बायामुत्पन्ने राक्षसभेदे तदुत्पत्तिकथा भा० आ० हिडिम्बवधप० १५५ अ० यथा “बिभ्रती परमं रूपं रनयामास पाण्डवम्। रमयन्ती तथा भीमं तत्र तत्र मनोजवा। प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम्। बिरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम्। भीमनार्द सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महारवम्। महेष्वासं महावीर्य्यं महासत्वं महाभुजम्। महाजवं महाकायं महामायमरिन्दमम्। दीर्घघाणं महोरस्कं विकटोद्वद्ध्वपिण्डिकम्। अमानुषं मानुषजं भीमवेगं महाबलम्। यः पिशाचानतीत्यान्यान् बभूवातीव राक्षसान्। वालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते!। सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली। सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च। कामरूपधराश्चैब भवन्ति बहुरूपिकाः। प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा। मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः। घटो हास्योत् कच इति माता तं प्रत्यभाषत। अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह। अनुरक्तश्च तानासीत् पाण्डवान् स घटोत्कचः। तेषाञ्च दयितो नित्यमात्मभूतो बभूव ह। संवाससमयो जीर्ण इत्याभाष्य ततस्तु तान्। हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत। कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः। आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चीत्तरां दिशम्। स हि सृष्टो मघवता शक्तिहेतोर्म्महात्मना। कर्णस्याप्रतिवीर्य्यस्य प्रतियोद्धा महारथः”। स च द्रोणप० घटोत्कचबधप० इन्द्रदत्तशक्त्या कर्णेन निहतः। तत्कथा तत्र १८० अ० दृश्या यथा “ततोऽब्रुवन् कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपाञ्च मायाम्। शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्त्तराष्ट्राः। करिष्यतः किञ्च नो भीमपार्थौ तपन्तमेनं जहि पापं निशीथे। यो नः संग्रामाद्घोररूपाद्विमुच्येत् स नः पार्थान् सबलान् योधयेत। तस्मादेनं राक्षसं घोररूपं जहि शक्त्या वै दत्तया वासवेन। मा कौरवाः सर्व्व एवेन्द्रकल्पा रात्रियुद्धे कर्ण! नेशुः सयोधाः। स बध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजं स्त्रास्यमानं वलञ्च। महच्च श्रुत्वा निनदं कौरवाणां मतिं दध्रे शक्तिमोक्षाय कर्णः। स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयत् प्रतिघातं रणे तम्। शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वर्ध चिकीर्षन्। यासौ राजन्! निहिता वर्षपूगान् बधायाजौ सत्कृता फाल्गुनस्य। यां वै प्रादान् सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निनाय। तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्यैव रात्रिम्। मृत्योः स्वसारं ज्वलितामिवोल्कां वैकर्त्तनः प्राहिणोद्राक्षसाय। तामुत्तमां परकायावहन्त्रीं दृष्ट्वा सौतेर्ब्बाहुसंस्थां ज्वलन्तीम्। भीतं रक्षो विप्रदुद्राव राजन्! कृत्वात्मानं विन्ध्यतुल्यप्रमाणम्। दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरीक्षे नरेन्द्र!। ववुर्वातास्तुमुलाश्चापि राजन्! सनिर्घाता चाशनिर्गां जगाम। सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य। ऊर्द्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविशन्ती। युद्ध्वा चित्रैर्विविधैः शस्त्रपूगैर्दिव्यैर्वीरो मानुषैराक्षसैश्च। नदन्नादान् विविधान् भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या। इदञ्चान्यज्ञित्रमाश्चर्य्यरूपं चकारासौ कर्म्म शत्रुक्षयाय। तस्विन् काले शक्तिनिर्भिन्नमर्म्मा बभौ राजन्! शैलमेघप्रकाशः। ततोऽन्तरीक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः। अवाक्शिरास्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम्। स तद्रूपं भैरवं भीमकर्म्मा भीमं कृत्वा भैमसेनिः पपात। हतोऽप्येवं तव सैन्यैकदेशमपोथयत् खेन देहेन राजन्!”।

घटोत्कचान्तक = पु० ६ त०। कर्णे त्रिका०। घटोत्कचारिप्रभृतयोप्यत्र।

घटोदर = पु० घट इव उदरमस्य। असुरभेदे। “घटोदरो महापार्श्वः प्रथनः पिठरस्तथा” हरिवं० २३२ अ०। हिरण्यकशिपुसेनापत्युक्तौ। स च वरुणसभ्यः यथाह भा० स० ९ अ०। घटोदर इत्यादि समानम्।

घट्ट = चालने भ्वा० आत्म० सक० सेट्। वट्टते अघट्टिष्ट। जवट्टे। घट्टितः घट्टनम्।

घट्ट = चालने चुरा० उभ० सक० सेट्। घट्टयति–ते अज- घट्टत्–त। घट्टित “विघट्टितानां सरलद्रुमाणाम्” कुमा०। “तदीयमातङ्गघटाविघट्टितैः” “त्रस्यन्ती चलशफरीविघट्टितघट्टनारुः” माघः। परिस्फुरन्मीनविघट्टितोरवः” किरा०। “रणद्भिराघट्टनया नभस्वतः माघः”।

घट्ट = पु० घट्यतेऽत्र घञ्। १ स्नानायावतरणस्याने (वाट) २ शुल्कग्रहणस्थाने (घाटि) “घट्टादिदेये शुल्कोऽस्त्री” अमरः। भावे घञ्। ३ चालने। अमरः।

घट्टकुटीप्रभात = न० घट्टस्था कुटी तत्र प्रभातमिव। न्यायभेदे शुक्लदानभिया विपथेन रात्रौ पलायमानस्य चौरबणिजः घट्टस्थकुटीसमीपे प्रभाते यथा अभीष्टसिद्ध्यभावः एवं विपथेन धावमानस्य तद्दोषतादवस्थ्यरूपो हि न्यायभेदस्तथाभूतः “तदिदं घट्टकुटीप्रभातवृत्तान्तमनुहरति”। खण्डनखण्डखाद्यम्।

घट्टगा = स्त्री नदीभेदे। राजनि०।

घट्टजीविन् = पु० घट्टं तरिकशुल्कस्थानं नद्यवतरणस्थाने देयं शुल्कं वा जीवति जीव–णिनि। (पाटुनि) नौकातारके वर्णसङ्करजातिभेदे स च “वैश्यायां रजकाज्जातः” विबादूभङ्गार्णवसेतुः

घट्टना = स्त्री चु० घट्ट–युच्। १ चालने “रणद्भिराघट्टनया नभस्वतः” माघः। २ वृत्तौ च हेमच०। भ्वा० घट्टल्युट्। ३ चालने न०। “वृहच्छिलानिष्ठुरकण्टघट्टनात्” माघः। “कम्पयन्तौ महावृक्षानुरुपादपघट्टनैः” हरिवं० ३७० अ०। “सुप्तसर्पैव दण्डघट्टनात्” रघुः।

घट्टित = त्रि० घट्ट–कर्मणि क्त १ निर्मिते, २ चालिते, चित्रपटादेरञ्जनार्थम् अन्नचूर्ण लिप्ते वसनादौ (कलप दिया घो~टा)। शब्दार्थचि०।

घण = दीप्तौ तना० उभ० अक० सेट्। घणोति घणुते। अघाणीत्–अघणीत् अघणिष्ट जघाण जघणे। उदित् घणित्वा–घण्ट्वा। क्त्वोवेट्कत्वात् निष्ठा त्वनिट् घण्टः।

घण्ट = त्रि० घण–क्त उदित्त्वेन नेट्। १ दीप्ते २ स्वनामख्याते व्यञ्जनभेदे पु०।

घण्टक = पु० वण्ट + संज्ञायां कन्। (घट्काण)क्षुपभेदे राजनि०

घण्टकर्ण = पु० घण्टोदीप्तः कर्ण्ण इव पत्रमस्य। (घट्काण्ण) क्षुपभेदे राजव०

घण्टा = स्त्री चु० घटि–शब्दकरणे अच्। कांस्यनिर्मिते वाद्यभेदे। “घण्टां वा परशुं वापि वामतः सन्निवेशयेत्” दुर्गाध्यानम्। तन्निर्माणप्रकारमाहात्म्ये स्कान्दे ब्रह्मनारदसंवादे “स्नानार्च्चनक्रियाकाले घण्टानादं करोति यः। पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु। वर्षकोटिसहंस्राणि वर्षकोटिशतानि च। वसते देवलोके तु अप्सरोगणसेवितः। सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया। वादनाल्लसते पुण्यं यज्ञकोटिसमुद्भवम्। वादित्रनिनदैस्तुर्य्यगीतमङ्गलनिस्वनैः। यः स्नापयति गोविन्दं जीवन्मुक्तो भवेद्धि सः। वादित्राणामभावे तु पूजाकाले हि० सर्वदा। घण्टाशब्दो नरैः कार्य्यः सर्ववाद्यमयी यतः। सर्ववाद्यमयी र्घण्टा देवदेवस्य वल्लभा। तस्मात् सर्वप्रयत्नेन घण्टानादन्तु कारयेत्। मन्वन्तरसहस्राणि मन्वन्तरशतानि च। घण्टानादेन देवेशः प्रीतो भवति केशवः”। विष्णुधर्म्मोत्तरे श्रीभगवत्प्रह्लादसंवादे “शृणु दैत्येन्द्र! वक्ष्यामि घण्टामाहात्म्यमुत्तमम्। प्रह्लाद! त्वत्समो नास्ति मद्भक्तो भुवनत्रये। मम नामाङ्किता घण्टा पुरतो मम तिष्ठति। अर्च्चिता वैष्णवगृहे तत्र मां विद्धि दैत्यज!। वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि। ममाग्रे स्थापयेद्यस्तु देहे तस्य वसाम्यहम्। यस्तु वादयते घण्टां वैनतेयेन चिह्निताम्। धूपे नीराजने स्नाने पूजाकाले विलेपने। ममाग्रे प्रत्यहं वत्स! प्रत्येकं लभते फलम्। मखायुतं गोऽयुतञ्च चान्द्रायणशतोद्भवम्। विधिना ह्यकृता पूजा सफला जायते नृणाम्। घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम्। नागारिचिह्निता घण्टा रथाङ्गेन समन्विता। वादनात् कुरुते नाशं जन्ममृत्युभयस्य च। गरुडेनाङ्कितां घण्टां दृष्ट्वाहं प्रत्यहं सदा। प्रीतिं करोमि दैत्येन्द्र! लक्ष्मीं प्राप्य यथाऽधनः। दृष्ट्वाऽमृतं यथा देवाः प्रीतिं कुर्व्वन्त्यहर्निशम्। सुपर्णे च तथा प्रीतिं घण्टाशिखरमास्थिते। स्वकरेण प्रकुर्व्वन्ति घण्टानादं सुमक्तितः। मदीयार्च्चनकाले तु फलं कौट्यैन्दवं कलौ”। अन्यत्र च “घण्टादण्डस्य शिखरे सचक्रं स्थापयेत्तुयः। गरुडं वै प्रियं विष्णोः स्थापितं भुयनत्रयम्। मचक्रघण्टानादन्तु मृत्युकाले शृणोति यः। पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः। सर्व्वे दोषाः प्रलीयन्ते घण्टानादे कृते, हरेः। दैवतानां मुनीन्द्राणां पितॄणामुत्सवोभवेत्। अभावे वैनतेयस्य चक्रस्यापि न संशयः। घण्टानादेन भक्तानां प्रसादं कुरुते हरिः। गृहे यस्य भवेन्नित्यं घण्टा नागारिसंयुता। न सर्पाणां तत्र भयं नाग्निविद्युत्समुद्भवम्। यस्य घण्टा गृहे नास्ति शङ्खश्च पुरतो हरेः। कथं भागवतं नाम गीयते तस्य देहिनः” “अतो भगवतः प्रीत्यै घण्टा श्रीगरुडान्विता। संग्राह्या वैष्णवै र्यत्नाच्चक्रेणोपरिमण्डिता। स्नाने शङ्खादिवाद्यन्तु नामसंकीर्त्तनं हरेः। गीतं नृत्यं पुराणादिपठनञ्च प्रशस्यते” हरिभक्तिविलासः। सर्ब्बदेवपूजने धूपदीपदानोत्तरं वामहस्तेन घण्टावादनं तन्त्रसारे उक्तं यथा “धूपभाजनमस्त्रेण (फट्) प्रोक्ष्याभ्यर्च्य हृदानुना (नमः)। अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुं दहेत्”। श्यामादौ तु तन्मन्त्रविशेषः तन्त्रसारे उक्तः “तथा जयध्वनिमन्त्रमातः स्वाहेत्युदीर्य्य च। अभ्यर्च्च्य वादयेद् घण्टामस्त्रेण धूपयेत्ततः” गौतमोये “उत्तोल्य दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम्। वादयन् वामहस्तेन दक्षहस्तेन चार्चयेत्”। एवं नीराजनेऽपि। २ घण्टापाटलिवृक्षे शब्दर०। ३ अतिबलायां ४ नागबलायां च राजनि०।

घण्टाक = पु० वण्टेव कायति फनेन कै–क। घण्टापाटलि वृक्षे शब्दर०।

घण्टाकर्ण्ण = पु० शिवानुचरभेदे (घे~टु) ख्याते “घण्टाकर्णोगणः श्रीमान् शिवस्यातीव बल्लभः” शिवपु०। मीनसंक्रान्तौ तस्य पूज्यतामाह कृत्यचिन्तामणौ “चैत्रे मासि च संपूज्यो घण्टाकर्णो घटात्मकः। आरोग्याय स्नुहीमूले संक्रान्त्यां तत्र कारयेत्”। पूजामन्त्रः। “घण्टाकर्ण! महावीर! सर्व्वव्याधिविनाशन!। विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल!” ति० त०। २ काशीस्थे ह्रदभेदे। “इयञ्च चित्रघण्टेशी घण्टाकर्णस्त्वयं ह्रदः” काशी० ३३ अ०।

घण्टाताड = पु० घण्टां कालज्ञापकघण्टां ताडयति ताडिअण् उप० स०। १ कालसूचकघण्टावादके (घण्टापा~डे) “मैत्रेयकन्तु वैदेहो माधुकं संप्रसूयते। नॄन् प्रशंसत्यज स्रं यो घण्टाताडोऽरुणादये” मनूक्ते २ सङ्कीर्णजातिभेदे च

घण्टानाद = पु० ६ त०। १ घण्टाशब्दे। घण्टाया नाद इव नादोऽस्य। २ कुवेरमन्त्रिभेदे शब्दार्थचि०।

घण्टापथ = पु० घण्टानां घण्टादिवाद्यानां घण्टायुक्तहस्त्यादीनां वा पन्थाः ६ त० अच् समा०। महति १ राजपथे “दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः” कौटिल्यः।

घण्टापाटलि = पु० हन्यते हन–कर्मणि ट टस्य नेत्त्वम् नि० घत्वं पट–गतौ घञ् पाटस्तं लाति ला–वा० डि कर्म०। (घण्टापाटलि) वृक्षभेदे अमरः।

घण्टारवा = स्त्री घण्टोवारौति आ + रु–अच्। (वनशण) वृक्षभेदे अमरः यस्य फलं पक्वं सत् घण्टेवारौति

घण्टाली = स्त्री घण्टां तच्छब्दमलति अल–अण् ङीप्। १ कोषातक्याम्। ६ त०। २ घण्टाश्रेणौ। राजनि०।

घण्टावीज = पु० घण्टेव वीजमस्य। जयपालवृक्षे। राजनि०

घण्टाशब्द = पु० घण्टायाः शब्दैव शब्दोयस्य। १ कांस्ये हेमच०। ६ त०। २ तच्छव्दे

घण्टिका = स्त्री क्षुद्रा घण्टा स्वल्पार्थे कन्। क्षुद्रघण्टायां तत्तुल्याकारत्वात् २ तालुस्थजिह्वायाञ्च (आलजिव) हेमच०।

घण्टिनीवीज = न० घण्टाऽस्त्यस्याःतदाकारफलत्वात् इनि ङीप् घण्टिन्याः घण्टायुक्ताया वीजम्। जयपाले राजनि०।

घण्टु = पु० घटि–उन्। १ गजघण्टायां २ प्रतापे च उणादिकोषः

घण्टेश्वर = पु० मङ्गलपुत्रे व्रणदातरि देवभेदे “मङ्गलस्य प्रिया मेधा तस्यां घण्टेश्वरोमहान्। व्रणदाता च तेजस्वी विष्णुतुल्यो वभूव ह” ब्रह्मवै०।

घण्ड = पु० घण–बा० ड तस्य नेत्त्वम्। भ्रमरे संक्षिप्तसारः।

घतन = त्रि० हन्ति हन–हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे” उणा० युन्। मारके उज्ज्वलद० तत्रार्थे घातनेति पाठोऽयुक्तः

घन = पु० हन–मूर्त्तौ अप् घनादेशश्च। १ मेघे २ मुस्तके ३ समूहे ४ दार्द्ये ५ विस्तारे च ६ लौहमुद्गरे मेदि० ७ शरीरे ८ कफे ९ अभ्रके राजनि०। “समत्रिघातश्च घनः प्रदिष्टः” इति १० सीलावत्युक्ते समाद्धत्रयबधे। ११ निविडे सान्द्रे त्रि० अमरः १२ वृढे त्रि० मेदि०। १३ पूर्णे १४ सस्पुटे त्रि० शब्दर०। १५ करतालादिकांस्यवाद्यमेदे १६ मध्यम नृत्ये च न० अमरः। १७ लौहे न० हेमच० १८ त्वचे न० राजनि०। तत्र मेघस्योत्पत्तिभेदादिकं पुराणमर्वस्वे ब्रह्माण्डपु० उक्तं यथा “सूर्य्यः किरणजालेन वायुयुक्तेन सर्व्वतः। जगतो जलमाटत्ते कृत्स्नस्य द्विजसत्तमाः!। आदित्यभूतं भूतेभ्यः सोमं संक्रमते जलम्। नाडीभिर्वायुयुक्ताभिर्लोकाधारः प्रवर्त्तते। यत् सोमाच्च्यवते सूक्ष्मं तदब्भ्रेष्ववतिष्ठते। मेघावाव्वभिवातेन विसृजन्ति जलं भुवि। एवं प्रकरणेनैव पतते चासकृज्जलम्। न नाशमुदकस्यास्ति तदेव परिवर्त्तते। मन्धारणार्थं भूतानां मायैषा विष्णुनिर्मिता। अनया मायया व्याप्तं त्रैलोक्यं सचराचरम्। विश्रशो लोककृद्देवः सहभ्रांशुः प्रजापतिः। धाता कृत्स्नस्य लोकस्य प्रभविष्णुर्दिवाकरः। सार्व्वलौकिकमम्भोय त्तत् सोमो नभसोरसः। एवं भूतं जगत् सर्व्वमेतत्तथ्यं प्रकीर्त्तितम्। सूर्य्यादुष्णं निस्रवति सोमाच्छीतं प्रवर्त्तते। शीतोष्णवीर्य्यौ द्वावेतौ युक्त्या पालयतो जगत्। सोमामृतोद्भवा गङ्गा पवित्रा विमलोदका। भद्रासोमपुरोगाश्च महानद्यो द्विजोत्तमाः!। सर्व्वभूतशरीरेषु यास्त्वापोऽपसृताभुवि। तेषु सन्दह्यमामेषु जङ्गमस्थावरेषु च। पूर्य्यन्ते सर्वभूतेभ्यो निष्क्रामन्तीह सर्वशः। तेन चाब्भ्राणि जायन्ते स्थानमब्भ्रमयं स्मृतम्। तेजोऽर्कः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम्। समुद्राद्वायुसंयोगाद्रश्मयः प्रवहन्त्यपः। ततस्त्वृतुगते काले परिवृत्तो दिवाकरः। नियच्छत्यपोमेघेभ्यः शुक्लकृष्णैर्गभस्तिभिः। अब्भ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः। सर्वभूतहितार्थाय रस्यभूताः समन्ततः। ततो वर्षति षण्मासान् सर्वभूत विवृद्धये। वायव्यं स्तनितञ्चैव विद्युदग्निसमुद्भर्वा। मेहनाच्च मिहेर्धातोर्मेघत्वं व्यञ्जयन्त्युत। न भ्रश्यन्ति यतश्चापस्तदभ्रं कवयो विदुः। मेघानां पुनरुत्पत्तौ त्रिविधा योनिरुच्यते। अग्निजा ब्रह्मजा चैव पक्षजा च पृथग्विधाः। त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामि सम्भवम्। आग्नेयाः सूक्ष्मजाः प्रोक्तास्तेषां धूमात् प्रवर्त्तनम्। शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः। महिपाश्च वराहाश्च मत्तमातङ्गरूपिणः। भूत्वा धरणि मभ्येत्य रमन्ति विचरन्ति च। जीमूता नाम ते मेघा ये तेभ्यो वीजसम्भवाः। विद्यद्गुणविहीनाश्च जलधारावलम्विनः। सका मेघा महाकाया आवहस्य वशानुगाः। क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः। पर्वताग्र नितत्वेषु वर्षन्ति गह्वरेषु च। वलाकागर्भदाश्चैव वालाका गर्भधारिणः। ब्रह्मजाश्चैव ये मेघा ब्रह्मनिश्वाससम्भवाः। ते ह विद्युद्गणापेताः स्तनयित्नुप्रियस्वनाः। तेषु शब्दप्रणादेन भूमेःस्वाङ्गरुहोद्भवैः। वायुवाह्याभिषिक्तेषु वायुर्यौवनमश्नुते। तेष्विय प्रावृडासक्ता भूतानां जीवितोद्भवा। जीमूता नाम ते मेघा ये तेभ्यो जीवसम्भवाः। द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः। इतो योजनमात्राच्च सार्द्धार्द्धादपि वा च ते। वृष्टिधर्मो द्वधा तेषां धाराऽऽसारः प्रकीर्त्तितः। पुष्करावर्त्तका नाम ये मेवाः पक्षमम्भताः। संयोगाद्वायुनोच्छिन्नाः पर्वतानां महौजसाम्। कामगानां च लोकानां सर्व्वेपां शितमिच्छताम्। पुस्करा नाम ते मेघा वृहत्तो {??}ःसमत्- सराः। पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः। नानारूपधरांश्चैव महाघोरस्वनाश्च ये। कल्पान्तवृष्टेः स्रष्टारः संवर्त्ताग्नेर्नियामकाः। वर्षन्ति ते युगान्तेषु तुतीयास्ते प्रकीर्त्तिताः। अनेकरूपसंस्थानाः पूरयन्तो महीतलम्। वायुं परिवहं ते स्युः श्रिताः कल्पान्तसाधकाः। योऽण्डस्य च विभिन्नस्य प्राकृतस्याभवत्तदा। यस्मात् ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयम्भुवः। तस्यैवाण्डकपालानि सर्वमेघाः प्रवर्त्तिताः। तेषामाप्यायनं धूमः सर्वेषामविशेषतः। तेषां श्रेष्ठस्तु पर्जन्य श्चत्त्वारश्चैव दिग्गजाः। गजानां पर्वतानाञ्च मेघानां भोगिभिः सह। कुलमेकं पृथक् भूतं योनिस्त्वेकं जलं स्मृतम्। पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवाः। तुषारवृष्टिं वर्षन्ति हिमं सस्यविवृद्धये”। वायुविशेषकृतएव घनभेदो भा० शा० ३३० अ० दर्शितो यथा “प्रेरयत्यभ्रसंघातान् धूमजांश्चोष्मजांश्च यः। प्रथमः प्रथमे मार्गे प्रवहो नाम योऽनिलः। अम्बरे स्नेहमभ्येत्य तडिद्भ्यश्चोतमद्युतिः। आवहो नाम संभाति द्वितीयः श्वसनोनदन्। उदयं ज्योतिषां शश्वत् सोमादोनां करोति यः। अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः। यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्। उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः। योऽद्भिः संयोज्य जीमूतान् पर्ज्जन्याय प्रयच्छति। उद्वहो नाम वंहिष्ठ स्तृतीयः स सदागतिः। समुह्यमाना बहुधा येन नीताः पृथग्घनाः। वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः। संहता येन चाविद्धा भवन्ति नदता नदाः। रक्षणार्थाय सम्भूताः मेघत्वमुपयान्ति च। योऽसौ वहति भूतानां विमानानि विहायसा। चतुर्थः संवहो नाम वायुः स गिरिमर्द्दनः। येन वेगवता रुगणा रूक्षेणारुजता नगान्। वायुना सहिता मेघा स्ते भवन्ति वलाहकाः। ष्टारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान्। पञ्चमः स महावेगो विवहो नाम मारुतः। यस्मिन् पारिप्लवा दिव्या वहन्त्यापोविहायसा। पुण्यञ्चाकाशगङ्गाया स्तोयं विष्टभ्य तिष्ठति”। समत्रिघातश्चेत्यादेरयमयः समसंख्यानां त्रयाणां घातः यद्यप्यत्र समयोर्द्वयोर्घातेन वर्गरूपेण तन्मूलस्य समत्वं नास्ति तथापि समशब्देन सदृशघातद्विथातत्वेन समत्वं तोध्यं यथा १ घनः?। द्वाभ्यो द्वयोर्गुणने ४ चत्वारः तेषां द्वाभ्यां गुणने ८। एवं त्रयाणां त्रिभिर्गुणने ९ नव तेषां पुनस्त्रिभिर्गुणने २७। एवं क्रमेण वारद्वयं समसमद्विघातरूपवर्गगुणनात् घनरूपत्वं जायते तत्रैकादीनां दशपर्य्युन्तानां घनसंख्याः सुवोधाय प्रदर्श्यन्ते यथा १। २। ३। ४। ५। ६। ७। ८। ९। १० १। ८। २७। ६४। १२५। २१६। ३४३। ५१२ ७२९। १००० अस्य प्रकारान्तरं स्थाप्योघनोत्यस्येत्यादि लीलावत्यां दृश्यं विस्तरभयान्नोक्तम्। “जटामुक्तां विपर्य्यस्य घनमाहुर्मनीषिणः” इत्युक्ते १९ वेदपाठभेदे ऋग्वेदशब्दे १४०९। ११। १२ पृ० विवृतिः तत्र सान्द्रे प्रचण्डघनगर्जितप्रतिरुतानुकारी (रवः) मुहुः” वेणी०। “जघनेन घनेन सा” “लौहोद्घनघनस्कन्धाः” भट्टिः। लौहमुद्गरे “प्रतिजघान घनैरिव मुष्टिभिः” किरा०। मेघे “प्रावृषमिव घनकेशजालाम्” काद०। “रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविह्वलाः” कुमा० “असम्भवद्घनरसा शतालीपरिषेविता” उद्भटः। घनश्यमः। मूर्त्तौ–काठिन्थे “द्वारं तमोघनप्रख्यम्” भट्टिः। “तमसोघनो मूर्त्तिः काठिन्यम् तेन मूर्त्तिमत्तमःसमम्” जयम०।

घनकफ = पु० घनस्य मघस्य कफ इव। मेघोपले करके। त्रिका०।

घनकाल = पु० घनप्रधानः कालः। वर्षर्त्तौ शब्दच०।

घनगोलक = पु० घनेन मूर्त्त्या गोल इव कायति कै–क। संश्लिष्टस्वर्ण्णरजते हेमच०।

घनच्छद = पु० घना निविडाश्छदा यस्य। शिग्रौ। शब्दार्थ चि०।

घनजम्वाल = पु० कर्म०। सान्द्रजम्बाले चुलुके (घनसेओयाला) त्रिका०।

घनज्वाला = स्त्री घनस्य ज्वालेव। १ वज्राग्नौ। ६ त०। २ मेघदीप्तौ च शब्दर०।

घनताल = पुंस्त्री० घनतायां निविडतायाम् अलति पर्य्याप्तोति अल्–अच्। १ सारङ्गखगे स्त्रियां जातित्वात् ङीष् कर्म्म०। २ वाद्यादितालभेदे।

घनतोल = पुंस्त्री० घनं मेघं तोलयति ऊर्द्धं नयति आह्वानेन तुल–उन्मितौ अण् उप० स०। चातके खगे तदारावेण हि मेथोत्थानमनुमीयते इति तस्य तथात्वम्। स्त्रियां जातित्वात् ङीष्।

घनत्वच = पु० घना निविडा त्वक् यस्य। शिग्रौ शब्दार्थचि०।

घनदुम = पु० कर्म०। विकण्टकवृक्षे राजनि०।

घननाभि = पु० घनस्य मेथस्य नाभिरिव योनित्वात्। धूमे शब्दर० धूमस्य मेघयोनित्वात् तथात्वम् मेघस्य धूमयोनित्वं च घनशब्दे २७८६ पृ० दर्शितम्।

घनपत्र = पु० थनानि पत्राण्यस्य। १ पुनर्णवायाम् राजनि०। २ घनच्छदे शिग्रौ च।

घनपदवी = स्त्री ६ त०। आकाशे शब्दार्थेचि०। तस्य मेघाधारतया तत्सञ्चारस्थानतया च तथात्वम्। “क्रामद्भिर्घनपदवीमतेकसंख्यैः” किरा०।

घनपल्लव = पु० घना निविडाः पल्लवा अस्य। शोभाञ्जने जटा०।

घनपाषण्ड = पुंस्त्री घनेन मेघध्वनिना पाषण्ड इव उन्मत्तत्वात्। मयूरे शब्दमा०। स्त्रियां जातित्वात् ङीष्।

घनफल = पु० घनानि निविडानि फलान्यस्य। विकङ्कटवृक्षे राजनि० तत्फलानां निविडतया जायमानत्वात्तथात्वम्।

घनमूल = न० घनस्य सनात्रघातस्य मूलमाद्यम्। यस्य समाङ्गत्रयघातस्य घनरूपता तादृशे अङ्के। एकाद्यङ्कानां घनमूलादि प्रदर्श्यन्ते १। ८। २७। ६४। १२५। २१६। ३४३। ५१२। ७२९। १००० १। २। ३। ४। ५। ६। ७। ८। ९। १० तस्य मूलानयनं लीला० उक्तं यथा “अथ घनमूले करणसूत्रं वृत्तद्वयम्। “आद्यं घनस्थान मथाघने द्वे पुनस्तथान्त्याद्घनतो विशोध्य। घनं पृथक्स्थं, पदमस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत् फलन्तु। पंक्त्यां न्यसेत्, तत्कृतिमन्त्यनिघ्नीं त्रिघ्नीं त्यजेत्तत्प्रथमात्, फलस्य। घनं तदाद्याद्घनमूलमेवं पङ्क्तिर्भवेदेवमतः पुनश्च” अस्यार्थः यस्य घनमूलं गृह्यते तस्याद्यंस्थानं घनस्थानं स्यात् घनशोधनस्थानमित्यथः। अथ द्वे स्थाने अघने तद्व्यतिरिक्ते तथा पुनः घनस्थानम् अघने द्वे इति पुनःपुनरित्यर्थः। अन्त्यात्घनतः स्थानात्घनं विशोध्य तस्य घनस्य पदं पृथक्स्थं स्थाप्यं तस्य पदस्य कृत्या त्रिघ्न्या तदाद्यम् अघनस्थानं विभजेत्। फलं तु पूर्ब्बमूलपङ्क्त्यां न्यसेत्। तस्य फलस्य कृतिम् अन्त्यनिघ्नीं पङ्क्तिस्थतद्व्यतिरिक्त पूर्वकृतिनिघ्नीमित्यर्थः। त्रिघ्नीञ्च तत्प्रथमादाद्यघनस्थानात् त्यजेत्। तदाद्यात्घनस्थानात्फलघनं त्यजेत्। एवं पुनः तद्यथा अस्य पङ्क्त्यात्मकपदस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत्। फलन्तु पङ्क्त्यां न्यसेत्। तत्कृतिम् अन्त्यनिघ्नीं त्रिघ्नीं तत्प्रथमात् त्यजेत्। तदाद्यात् फलस्य घनं त्यजेदिति। एवंकृते या पङ्क्तिर्भवेत् तद् घनमूलं भवति”। “अङ्कस्य वामागतिः” इत्युक्तेः वामस्यिताङ्कस्वान्त्यत्वं दक्षिणस्थस्य चाद्यत्वमिति सर्वत्र ज्ञेयम्। घनदमप्यत्र। “घनपदञ्च ततोऽपि घतात् सस्वे! यदि घनेऽस्ति घना भवतोमतिः” लोला०। घनं मूलमस्य। २ मोरटवृक्षे पु० राजनि०।

घनरस = पु० घनस्य मेघस्य मुस्तकस्य वा रसो निष्यन्दः। १ जले। २ कर्पूरे च कर्म०। ३ सान्द्ररसे। घनोरसोऽस्य। ४ पीलुपर्ण्टां ५ मोरटवृक्षे च मेदि०। ६ निविडरसके त्रि०। जले तु न० रत्नको०।

घनवर्त्मन् = न० ६ त०। आकाशे “घनवर्त्म सहस्रधेव कुर्वन्” किरा०।

घनवल्लिका = स्त्री घना निविडा वल्ली यस्याः कप् ह्रस्वः। १ अमृतस्नवालतायाम्। घनस्य वल्लीव २ विद्युति राजनि०

घनवल्ली = स्त्री घनस्य मेघस्य वल्लीव। १ विद्युति २ अमृतस्रवालतायाम् राजनि०।

घनवात = पु० घनो निविडोवातोऽत्र। १ नरकभेदे हेमच०। ६ त०। २ मेघवाते।

घनवास = पु० घनोवासो गन्धोऽस्य। कुष्माण्डे हारा०।

घनवाहन = पु० घन इव शुभ्रं वाहनमस्य। १ शिवे। घनोमेघो वाहनमस्य। २ इन्द्रे च हेमच०।

घनवीथि = स्त्री घनानां वीथिः। आकाशे। “घनवीथिवीथि मवतीर्णवतः” माघः।

घनश्याम = पु० घनः मेघैव श्यामः। निविडकृष्णवर्णे। “अये राम घनश्याम! चुम्बामि मुखपङ्कजम्। यदि जीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम्” महानाटकम्। “समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम्। हेमाम्बरं घनश्यामं श्रीवत्सं श्रीनिकेतनम्” भाग० श्रीकृष्णरूपोक्तौ।

घनसार = पु० घनस्य मुस्तकस्य सारः। १ कर्पूरमेदे १७२३ पृ० विवृतिः। “शरदिन्दुकुन्दघनसारनीहारहारेत्यादि” दशकुमा०। घनोनिविडः सारोऽस्य। २ दक्षिणावर्त्तपारदे मेदि०। ३ वृक्षभेदे ४ जले च घरणी। ६ त०। ५ श्रेष्ठ वारिदे।

घनस्कन्ध = पु० घनः स्कन्धो यस्य। कोशाम्रवृक्षे राजनि०।

घनस्वन = पु० ६ त०। १ मेथध्वमौ। घनेन तज्जलेन सुष्ठु अनिति अन–अच् ३ त०। २ तण्डुलीयशाके राजनि०।

घनहस्त = पु० घनः समत्रिघातमितोहस्तोऽत्र। दीर्घविस्तारोर्द्धेषु १ हस्तमाने २ मागधप्रस्यखारिकायां च “हस्तोन्मितैर्विस्तृतिदैर्घ्यपिण्डैर्यद्द्वादशास्रं घनहस्तसंज्ञम्। घान्यादिके तद्घनहस्तमातं शास्त्रोदिता मागधखारिका सा” लीला०।

घना = स्त्री घन + अस्त्यर्के अच्। १ माषपर्स्थां २ रुद्रजटायाञ्च राजनि० तयोर्निविडपत्रत्वात् तथत्विम्। ३ निविडायां स्त्रियाम्। “म्रदीयसीमपि घनाम्” (वाचम्) माथः।

घनाकर = पु० ६ त०। घनानामाकरः घनान् आकिरति आ + क–अच वा। वर्षाकाले शब्दरत्ना०।

घनागम = पु० आगम्यतेऽत्र आ + गम–आधारे घञ्। घनानां मेघानामागमः ६ त०। वर्षाकाले “घनागमे राजपथे हि पिच्छिले” नैष०। भावे घञ् ६ त०। २ मेघागमने च।

घनाघन = पु० हन–अच नि०। १ इन्द्रे २ वर्षुकमेघे मत्ते घातुके ३ गजे, अमरः ४ अन्योन्यघट्टने पु०। ५ निरन्तरघातुके त्रि० हेमच०। “ततोऽर्ज्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यवर्च्चसा” भा० क० १८ अ०। वर्षुकमेघश्च भा० शा० ३३० अ० दर्शितो यथा “समुह्यमाना बहुधा येन नीताः पृथक्घनाः। वर्षमोक्ष कृतारम्भास्ते भवन्ति घनाघनाः” “असज्जद्वायुनाक्षिप्ते यथा खस्थो घनाघनः” हरि० ८७। ७ काकमाच्यां स्त्री

घनात्यय = पु० थनानामत्ययोयत्र। शरत्काले हेमच०। “वातिकानां घनात्यये” सुश्रु०। ६ त०। २ घनातिक्रमे पु०। घनव्यवाथोऽप्यत्र। “घनव्यवायेन गभस्तिमानिव” रघुः

घनामय = पु० घनो दृढः आमयो यस्मात् ५ व०। खर्ज्जूरवृक्षे त्रिका०।

घनामल = पु० घनोऽमलः विशेषणस०। वास्तूकशाके त्रिका०

घनाश्रय = पु० ६ त०। आकाशे हेमच०।

घनोदधि = पु० घन उदधिरत्र। नरकभेदे हेमच०।

घनोपल = पु० ६ त०। करके (शिल) हेमच०।

घम्ब = गतौ भ्वा० पर० सक० सेट्। घम्बति अघम्बीत्। जघम्ब

घर = पु० हम्यते गम्यतेऽतिथिभिः हन– “हन्तेरन् घश्च” उणा० नलोपश्च। गृहे दशपादीवृत्तिः।

घरट्ट = पु० घृ–सेके विच् घरं सेकमट्टते अट्ट–अतिक्रमे अण् उप० स०। (या~ता) प्रसिद्धे सक्तुपेषण्याम् “प्रतिहट्टपथे घरट्टजात्” नैष०।

घर्घट = पु० घृ–विच् घरे सेकाय घटते घट अच्। (ट्याङ्गारा) मत्स्यभेदे शब्दर०।

घर्घर = पु० घर्घेत्यनुकरणशब्दं राति रा–क। १ घरट्टजादिध्वनिभेदे। २ घद्युक्ते त्रि० “कलहान्न घनान् यदुत्थितादधुनाप्युज्झति घर्घरस्वरः” नेष०। ३ पर्व्वतद्वारे ४ द्वारे ५ उलूके ६ नदभेदे च पु० मेदि०। ६ ध्वनिमात्ने ७ हास्ये हेमच०। घर्घरनदश्च अङ्गदेशान्तर्गतः विन्ध्याद्रेर्निर्गतः गङ्गायां सङ्गतः चम्पानगरीतोऽनतिदूरपूर्वस्थः। (घाघर) लोकप्रसिद्धः ८ क्षुद्रघण्ट्यां स्त्री। “घर्घरा क्षुद्रघण्टी स्यात्” मल्लि० घृतवाक्यम्। “चलावचूडाः कलघर्घरा- रवैः” माघः। घर्घरेति शब्दानुकरणम् तथा ध्वनिभेदः। तादृशध्वनिभेदएव घर्घरेति मल्लि०। ९ वीणाभेदे मेदि०। वर्घर + अस्त्यर्थे अच्। घर्घर नदसङ्गतायां १० गङ्गायां स्त्री वा गौरा० ङीष्। घर्घरस्वनाप्यत्र। “घृणावती घृणिनिधिर्घर्घरी घूकनादिनी। घूसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना” काशीख० २९ अ० गङ्गानामोक्तौ। स्वार्थे क नदभेदे पु०। “शोणे घर्घरके जलं तु रुचिदं सन्तापशोषापहम्। पथ्यं वह्निकरम् तथा तु बलदं क्षीणाङ्गवृद्धिप्रदम” राजनि०।

घर्घरिका = स्त्री घघरीऽस्त्यस्याः ठन्। १ क्षुद्रघण्टिकायां २ नदीभेदे ३ वादित्रभाण्डे ४ भ्रष्टधान्थे हेमच०। ५ वाद्यभेदे विश्वः।

घर्घरित = न० घर्घरं करोति णिच्–भावे क्त। शूकरजातीय घ्वनिभेदे। “निशम्यते घर्घरितं स्वस्वेदं क्षयिष्णु माया मयशूकरस्य” भाग० ३। १३। २५।

घर्घुर्घा = स्त्री घृ–विच् घुर–ध्वनौ क्विप् तौ हन्ति हन–ड नि० हस्य घः! (घुरघुरिया) कीटभेदे यमकीटे रत्नमा०

घर्ब = गतौ भ्वा० पर० सक० सेट्। घर्बति अघर्बीत्। जघर्ब

घर्म्म = पु० घरति अङ्गात् घृ–सेके (क्षरणे) कर्त्तरि मक् नि० गुणः। १ अङ्गनिष्यन्दे स्वेदे श्रमजवारिणि। घरत्यङ्गमनेन करणे मक। २ आतपे ३ ग्रीष्मकाले तयोः अङ्गस्वेद साधनत्वात्तथात्वम। ४ आतपयुक्ते दिवसे निघ०। घर्घश्च आतपादिव स्मरविकारसत्वादपि भवति यथाह सा० द० “विकाराः सत्वसम्भूता सात्विकाः परिकीर्त्तिताः। सत्वमात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः। स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः” इति विभज्य “वपुर्जलोद्गमः स्वेदो रतिघर्म्मश्रमादिभिरिति” सकारणं स्वेदोलक्षितः ५ यज्ञे निघ०। “पितृभिर्घर्म्मसद्भिः” ऋ० १०। १५। ९। “धर्मसद्भिः यज्ञसादिभिः” भा०। वै० वृ–दीप्तौ मक्। वैदिकप्रयोगे ६ दीप्ते त्रि० घर्मस्वरस्शब्दे उदा०। ७ रसे “मधुनः सारघस्य घर्मं पात वसवः” यजु० ३८। ६। “घर्मं रसम्” वेददी० ८ गवादि निष्यन्दे दुग्धे पु० तस्य गोःक्षरणात्तयात्वम्। “घर्माय दीष्व” यजू० ३८। २। हे वत्स! धर्माय धर्मार्थं दीष्य देहि पयः शेषय मा सर्व्वं पासीत्पर्थः” वेददी०। “रज्जुसंदानमादाय” कात्या० श्रौ० २६। ४। १। “सन्दानम् घर्मधुग्वन्धनार्थाय प्राशवती रज्जः कर्कः। “उपयमन्यामासिञ्चति घर्म्मम्” कात्या० श्रौ० २६। ६। १७। “घर्म्यं धर्मसंवन्धि तन्मध्यस्थितमाज्यमुपयमत्यां स्रुचि आसिञ्चति” कर्कः परीसाभ्यां घर्म्ममुत्पाद्य स्रुक्पुष्करस्योपर्य्यधोमुखं करोतीत्यर्थः” सं० व्या० घर्मसम्बन्धि घृतमुपयमन्यामासिञ्चति पूर्वं स्रुक्स्थम् नीतमधुना घर्मस्थं स्रुचि नयतीत्यर्थः” यजु० ३८। १६। वेददी०। तत्र निदाघकाले “निःश्वासहार्य्यंशुकमाजगाम घर्मः प्रियादेशमिवोपदेष्टुम्” रघुः। ऊष्मणि “स वमन् रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः” माघः।

घर्म्मचर्चिका = स्त्री घर्मकृता चर्चिकेव। (घामाचि) इति ख्याते घर्मविचर्चिकायाम्। “स्वेदवाहीनि दुष्यन्ति क्रोधशोकश्रमैस्तथा। ततः स्वेदः प्रवर्त्तेत दौर्गन्ध्यं घर्मचर्चिका। राजिकाकृतिरुष्णेत्था यतो घर्मविचर्चिका” इति प्रयोगामृतम्। घर्मविचर्चिकाप्यत्र।

घर्म्मदीधिति = पु० घर्म्मोदीधितौ यस्य। सूर्य्ये “यः ससोम इव घर्म्मदीधितिः” रघुः। घर्म्मद्युति घर्म्मभानु घर्म्मरश्मिप्रभृतयोऽप्यत्र “घर्म्मद्युतेरिह दुहः पटलेन धाम्नाम्” किरा०। “या घर्म्मभानोस्तनयापि शीतलैः” माघः। “लोकालोकव्याहतो घर्म्मरश्मिः” भावः।

घर्म्मदुह् = स्त्री घर्म्मं दुग्धं दोग्धि दुह–क्विप् ६ त०। दुग्धदुहायां धेन्वाम् “घर्म्मधुग्घ्वाले चादोहे च” कात्या० श्रौ० २५। ६। २। घर्म्मदुघाप्यत्र। “घर्म्मदुघाया दोहन प्रदेशे” तत्सूत्रे कर्कः।

घर्म्मपावन् = घर्म्ममूष्माणं पिबति पा–वनिप्। ऊष्मपाख्ये पितृगणभेदे। “स्वाहा पितृभ्य ऊर्द्ध्वबर्हिभ्यो घर्म्मपावभ्यः” यजु० ३८। १५।

घर्म्मसद् = पु० घर्म्म यज्ञे सोदति सद–क्विप्। यज्ञसादिषु पिपृषु। पूर्व्वैः पितृभिर्घर्म्मसद्भिः” ऋ० १०। १५। ९। १०। “घर्म्मसद्भिः यज्ञसादिभिः” भा०।

घर्म्मस्तुभ् = पु० घर्म्मं स्तुभ्राति स्तुभ–क्विप्। वायौ। प्रचारेण घर्म्मनाशात्तस्य तथात्वम्। “घर्मस्तुभे (मारुताय) दिव आ पृष्ठे यज्वते” ऋ० ५। ५४। १।

घर्म्मस्वरम् = पु० जिघर्त्ति वै० घृ–क्षरणं दीप्तौ मक् नि०। घर्म्माः दोप्ताः स्वृ–असुन् स्वरसोयेषाम्। दोप्तध्वनौ। “घर्म्मस्वरसोनद्यो अप व्रन्” ऋ० ४। ५५। ६ “घर्म्म स्वरसोदीप्तध्वनयः” भा०।

घर्म्मस्वेद = पु० घर्मोदोप्तः क्षरन् वा स्वेदो, घर्मे यज्ञे स्वेदो गतिर्वाऽस्य। १ दीप्तगमने २ क्षरत्स्वेदजले ३ यज्ञे गन्तरि च “ब्रह्मणस्पतिर्वृषेभिर्वराहैर्घर्मखेदेभिर्द्रविणं व्यानट्” ऋ० १०। ६७। ७। घर्मस्वेदेभिः दीप्तागमनैर्यद्वा क्षरदुदकैः अथवा घर्मो यज्ञः तं प्रति गन्तृभिः” भा०।

घर्म्मान्त = पु० घर्मस्य ऊष्मणोऽन्तोयत्र। वर्षाक्राले राजनि० “घर्मान्ते तोयदोर्म्मिभिः” हरिवं० १७७ अ०।

घर्म्मान्तकामुकी = स्त्री ७ त० वलाकायाम् राजनि०। वर्षा काले एव तस्याः कामयमानत्वात् तथात्वम्।

घर्षण = न० घृष–भाते ल्युट्। (घषा) व्यापारभेदे।

घर्षणाल = पु० घषर्णायालति अल + पर्य्याप्तौ अच्। शिलापुत्रे (लोटा) त्रिका०।

घर्षणी = स्त्री वृष्यतेऽसौ कर्मणि ल्युट् ङीप्। हरिद्रायां त्रिका०।

घल = न० घोल + पृपो०। तक्रो घोले शब्दच०।

घष(स) = क्षरणे भ्वा० आत्म० अक० सेट् इदित्। घंष(स)ते अघषि(सि)ष्ट। जघंषे(से)

घस = भक्षणे भ्वा० पर० सक० अनिट्। घसति। ऌदित् अघसत्। जघास जक्षतुः जघसिथ जघस्थ। घस्तः वेदे ग्धिः लोके, घस्तिः।

घसि = पु० घस–भावे इन्। भक्षणे हेमच०।

घस्मर = त्रि० घस–क्मरच्। भक्षणशीले। “सुराध्वरे घस्मरजित्वरेण” भट्टिः। “घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुमः” भा० क० ४० अ०। कौशिकपुत्राणां गर्गशिष्याणां गुरु गवीमांसभक्षणात् व्याधमृगादियोनिमाप्तानां सप्तानां मध्ये मृगमेदे “शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः। त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ। उन्मुखोनित्यवित्रस्तः स्तब्धक्रर्णो विलोचनः। पण्डितो घस्मरोनादी नामतस्तेऽभवन्मृगाः” हरिवं० २१ अ०।

घस्र = पु० घसत्यन्धकारं घस–रक्। १ दिवसे अमरः। २ हिंस्रे त्रि० मेदि० ३ कुङ्कुमे न त्रिका०।

***