ग्रहयुति = पु० ६ त०। ग्रहाणामेकराश्यादिस्थितिभेदेन भूतलस्थानं कल्पनीययोगभेदे तद्विशेषः सूर्य्यसि० उक्तो यथा “ताराग्रहाणामन्योन्यं स्यातां युद्धसमागस्मै। समागमः शशाङ्केन सूर्य्येणास्तममं सह” सू० सि० “ताराग्रहाणां भौमादिपञ्चग्रहाणां परस्परं योगे युद्ध समागमौ वक्ष्यमाणलक्षणभिन्नौ स्तः। चन्द्रेण सह पञ्चतारान्यतमस्य योगः समागमसञ्ज्ञः। सूर्य्येण सह पञ्चताराणामन्यतमस्य चन्द्रस्य वा योगस्तदस्तमनं पूर्णास्तङ्गतत्वम् न खस्तमात्रम् युन्यभावे प्रागपरकाले तस्य सत्त्वात्। अथ युतेर्गतैष्यत्वं सार्घश्लोकेनाह” रङ्गना० “शीघ्रे मन्दाधिकेऽतीतः संयोगो भवितान्यथा। द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात्। प्रागयायिन्य धिकेऽतीतो वक्रिण्येष्यः समागमः” सू० सि०। “ययार्ग्रहयोर्योगोऽभिमतस्तयोर्ग्रहयोर्मध्ये यः शीघ्रगतिर्ग्रहस्तस्मित् मन्दाधिकेमन्दगतिग्रहादधिके सति तयोः संयोगोयुतिसञ ज्ञोऽतीतः पूर्वं जात इत्यर्थः। अन्यथा मन्दगतिग्रहे शीघ्रगतिग्रहादधिके सतीत्यर्थः। तयोर्योगो भविता एष्यः। एवमुक्तं गतैष्यत्वम् द्वयोर्ग्रहयोः प्रागयायिनो पूर्ब्बगतिकयोर्भवति। वक्रिणोर्वक्रगतिग्रहयोर्व्विपर्य्ययादुक्तवैपरीत्यात्। तुकाराद्गतैष्यो योगो भवति। शीघ्रगतिग्रहे मन्दगतिग्रहादधिके एव्यः संयोगो, मन्दगतिग्रहे शीध्रगतिग्रहादधिके गतः संयोग इत्यर्थः। अथैकस्य वक्रत्वे आह। प्राग्यायिनीति। द्वयोर्मध्य एकतरस्मिन् वक्रिणि सति तदा वक्रगतिग्रहात् पूर्वगतिग्रहेऽधिके सति गतो यातः। यदा तु पूर्व्वगतिग्रहाद्वक्रगतिग्रहेऽधिके गति समागमो योगस्तदा एष्यः स्यात्। अत्रीपपत्तिः। पूर्वगत्योर्ग्रहयोर्मध्ये शीघ्रगस्याधिकत्वेऽग्रे योगासम्भवात् पूर्व्वं योगो जातः। मन्द गस्याधिकत्वे शीघ्रगस्य न्यूनत्वादग्रे योगो भविष्यति। वक्रिणोस्त शीघ्रगस्याधिकत्वेऽग्रे तन्न्यूनत्वेन योगसम्भ वादेष्यो योगो मन्दगस्याधिकत्वे शीघ्रगस्योत्तरोत्तरं न्थूनत्वसम्भवेनाग्रे योगासम्भवाद्गतो योगः। अथ वक्रवतिग्रहात् पूर्ब्बगतिग्रहेऽधिके उत्तरोत्तरं योगासम्भवाद्गतो योगः। पूर्वगतिग्रहाद्वक्रगतिग्रहेऽधिके वक्रगतिग्रहस्यन्यूनत्वेनाग्रे योगसम्भवादेष्यः मयोग इति। अथ युतिकाले तुल्यग्रहयोरानयनं युतिकालस्य गतैष्यदिनाद्यानयनं च सार्घश्लोकत्रयेणाह” रङ्गना०। “ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः। भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः। द्वयोर्वक्रिण्टथैकस्मिन् भुक्तियोगेन भाजयेत्। लब्धं लिप्तादिकं शोध्यं गते, देयं भविष्यति। विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ। समलिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ। विवरं तद्वदुद्धृत्य दिनादि फलमिष्यते” सू० सि०। “युतिसम्बन्धिनोर्ग्रहयोरभीष्टैककालिकयोरन्तरस्य कलाः पृथक् स्वस्वगतिकलाभिर्गुणिताः(कर्मभूताः)द्वयोर्ग्रहयोरनुलोमविलोमयोर्मार्गगयोर्वक्रगयोर्वेत्यर्थः। स्फुटगत्यन्तरेण गणको भजेत्। विशेषमाह। वक्रिणीति अथानन्तरं द्वयोर्मध्य एकतरे वक्रिणि सति तयोर्गतियोगेन भजेत्। फलं कलादि स्वं स्वं गते योगे सति ग्रहयोर्मार्गगयोः शोध्यं, भविष्यति–एव्ये योगे सति तयोर्देयं योज्यम्। द्वयोर्वक्रगत्योः स्वं स्वं फलं विपर्ययादुक्तवैपरीत्यत् कार्यम्। गते योगे योज्यम्। एव्ये योगे हीनमित्यर्थः। द्वयोर्मध्य एकतरे तुकाराद्वक्रिणि सति तयोर्ग्रहयोर्वक्रमार्गगयीः स्वस्वकलात्मकफलाङ्कौ धनव्ययौ युतहीनौ कार्यौ। तथाहि। गतपोगे मार्गगग्रहे स्वफलं हीनं, वक्रिणि ग्रहे योज्यम्। एष्ये योगे वक्रग्रहे शोध्यम्। मार्गागग्रहे योज्यमिति। एवं कृते तौ युतिसम्बन्धिनौ ग्रहौ भगणसंस्थौ भगणे राश्यधिष्ठितचक्रे संस्थितिर्ययोस्तौ राश्याद्यात्मकौ समलिप्तौ समकलौ स्तः। लिप्तापदस्य भगणावयवोपलक्षणत्वेन समौ स्त इत्यर्थः। अथ युतिकालज्ञानमाह विवरमिति। अभीष्टकालिकयोर्युतिसम्बन्धिनोर्ग्रहयोरन्तरं कलात्मकं तद्वत् समकलोपयुक्तफलज्ञानार्थं यथा गतिगुणितमन्तरं गतियोगेम गत्यन्तरेण भक्तं तथेत्यर्थः तेन हरेण भक्त्वा फलं दिनादिकं गतैष्ययुतिवशादभीष्टकालाद्गतैष्यमुच्यते। तत्समये तद्युतिकाले तौ ग्रहौ समौ स्त इत्यर्थः। अत्रोपपत्तिः। यदि गत्यन्तरेण गतिकलास्तदा ग्रहान्तरकलामिः का? इति फले गतयुतौ ग्रहयोः शोध्ये। एष्ययुतौ योज्ये। द्वयोर्वक्रत्वे गत्यन्तरभक्तफले गतयुतौ भ्रहयोर्योज्ये। एष्ययुतौ शोध्ये वक्रग्रहस्योत्तरोत्तरं न्यूनत्वात्। अथैको वक्री तदा तयोरन्तरं पत्यहं गतियो गेनोपचितम्। अतो गतियोगहरेणागतं फलं गतथोगे मार्गगग्रहे हीनं, पूर्वं तस्य न्यूनत्वात्। वक्रग्रहे योज्यम् पूर्वं तस्याधिकत्वात्। एप्ययोगे मार्गगग्रहे योज्यम् उत्तरोत्तरमधिकत्वात्। वक्रग्रहे शोध्यम् तस्याग्रे न्यूनत्वात्। यदि गतियोगेन गत्यन्तरेण वा दिनसेकं लभ्यते तदान्तरकलाभिः किम्? इत्यनुपातेन गतैष्यदिनाद्यवगमः” रङ्गना०

ग्रहयुद्ध = न० ६ त०। ग्रहाणामुपर्युपरिस्थितानां किरण संस्पर्शादिना युद्धमेदे तद्भेदादिक सू० सि० उक्तं यथा

“उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यते। युद्धमं शुविमर्दाख्यमंशुयोगे परस्परम्। अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुः। समागमोंऽशादधिके भवतश्चेद्बलान्वितौ” सू० सि०।

“भौमादिपञ्चताराणां मध्ये द्वयोर्युतौ तारकास्पर्शा द्विम्बनेम्योः स्पर्शमात्रादुल्लेखसञ्ज्ञं युद्धं वदन्ति युतिभेदज्ञाः। इदं तु द्वयोर्मानैक्यखण्डतुल्ययाम्योत्तरान्तरे। भेदे मण्डलभेदे भेदो भेदसञ्ज्ञो युद्धावान्तरभेदो युद्धभेदतत्त्वज्ञैः कथ्यते। अयं भेदो मानैक्यखण्डादूने द्वयोर्याम्योत्तरान्तरे। अत्र भास्कराचार्य्यैस्तु “मानैक्यार्धाद्द्युचरविवरेऽल्पे भवेद्भेदयोगः कार्यं सूर्यग्रहवदखिलं लम्बनाद्यं स्फुटार्थम्। कल्प्योऽधःस्थः सुधांशुस्तदुपरिग इनो लम्बनादिप्रसिद्ध्यै किं त्वर्कादेव लग्नं ग्रहयुतिसमये कल्पितार्कान्न साध्यम्। प्राग्वत् तल्लम्बनेन ग्रहयुतिसमयः संस्कृतः प्रस्फुटः स्यात्। खेटौ तौ दृष्टियोग्यौ ग्रहयुतिसमये कार्यमेवं तदैव। याम्योदक्स्थद्यु चरविवरं भेदयोगे स वाणा ज्ञेयः सूर्य्याद्भवति च यतः शीतगुः सा शराशा। मन्दाक्रान्तोऽनृजुरपि तदाधःस्थितः स्यात् तदैन्द्र्यां स्पर्शो मोक्षोऽपरदिशि तदा पारिलेख्येऽवगम्यः” इति विशेषोऽभिहितः। भगवता तु सूक्ष्मविम्बवोराकाशे दूरतो विविक्तदर्शनासम्भवाद्व्यर्थप्रयासादुपेक्षितमिति ध्येयम्। युतावन्योऽन्यं किरणयोगे सति अंशुमर्दाख्यं किरणसङ्घट्टनसञ्ज्ञं युद्धं स्यात्। द्वयोर्यास्यात्तरान्तरेंऽशात् षष्टिकलात्मकैकभागादूतेऽनधिके सत्यपसव्यसञ्ज्ञं युद्धं भबति। अत्र विशेषमाह। एक इति। अत्रापसव्ययुद्ध एकौ द्वयीरन्यतरोऽणुरणुबिम्बश्चत् तदापसव्यं युद्धं व्यकं स्यादन्यथा त्वव्यक्तं युद्धं स्यात्। एवां चतुर्णां फलम्। “अपसव्ये भयं ब्रूयात् सग्रामं रश्मिसङ्कुले। लेखनेऽमात्यपीडा स्याद्भेदने तु धनक्षय” इति भार्गवीयोक्तं ज्ञेयम्। युद्धभेदानुक्त्वा समागममाह समागम इति। द्वयोर्याम्योत्तरान्तरे षष्टिकलात्मकैकभागादभ्यधिके सति समागमो योगो भवति। अत्रापि तिशेषमाह भवत इति। युतिविषयकौ श्रहौ बलान्वितौ बलेन–“स्थानादिवलचिन्तात्र व्यर्था केनापि न स्मृता। प्रश्नत्रयेऽथपाप्यस्मिन् स्थौल्यसौक्ष्म्य बलं स्मृतम्” इति ब्रह्मसिद्धान्तवचनात् स्थूलमण्डलतयान्वितौ युक्तौ स्थूलविम्बौ समावित्यर्थः। चेत् स्तस्तदा समागमस्तयोर्व्यक्तः स्यात्। अन्यथा त्वव्यक्तः समागमः। “द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः। अत्रान्योऽन्यं प्रीतिविपरीतावात्मपक्षघ्नौ। युद्धं समागमो वा यद्यव्यक्तं तु लक्षणैर्भवतः। भुवि भूभृटामपि तथा फलमव्यक्तं विनिर्दिष्टम्” इत्युक्तेः। “भेदोल्लेखांशुसम्मर्दा अपसव्यस्तथापरः। ततो योगो भयेदेषामेकांशकसमापनात्” इति काश्यपोक्तेश्च सर्वं निरवद्यम्। अथ युद्धे पराजितस्य ग्रहस्य लक्षणमाह” रङ्गना० “अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तमान्। रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः” सू० सि०। “द्वयोर्मध्ये यस्तदितरेण विध्वस्तो हतः स विजितः पराजितो ज्ञेयः। हतस्य लक्षणमाह अपसव्य इति। अपसव्ये युद्धे यो जितो जयलक्षणैर्विवर्जितः। एतेनोल्लेखादित्रये सञ्ज्ञाफलं न पराजितस्य फलमिति सूचि तम्। पिहित आच्छादितोऽव्यक्त इति यावत्। अणु रितरग्रहविम्बादल्पबिम्बः। अदीप्तिमान् प्रभारहितः रूक्षोऽस्निग्धः विवर्णः वर्णेन स्ववर्णेन स्वाभाविकेन रहित इत्यर्थः। दक्षिणाश्रित इतरग्रहापेक्षया दक्षिणदिशि स्थितः। “श्यामो वा व्यपगतरश्मिवान् रश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा। आक्रान्तो विनिपतितः कृतापसव्यो विज्ञेयो हत इति सग्रहो ग्रहेण” इति भार्गवीयोक्तेः। अथ श्लोकोत्तरार्धेन जयिनो ग्रहस्यलक्षणमाह” रङ्गना० “उदक्स्थो दोप्तिमान् स्थूलोजयी याम्येऽपि यो वली” सृ० सि० “इतरग्रहापेक्षयोत्तरदिक्स्थः दीप्तिमान् प्रभायुक्तः स्थूल इतरग्रहविम्बापेक्षया पृथुबिम्बः। जयी जययुक्तः स्यात्। अथोत्तरदक्षिणदिक्स्थत्वक्रमेण जयपराजयौन स्त इत्याह याम्य इति। दक्षिणदिशि यो ग्रहो बली दीप्तिमान् पृथुबिम्बो भवति स लयी। अपिशब्द उत्तरदिशासमुच्चयार्थकः। तथा च जयपराजयलक्षणयो र्दिक्स्थानमनुपयुक्तमिति भावः। अथ युद्धे विशेषमाह रङ्ग०। “आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः। स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ” सू० सि०। “उभौ द्वौ आसन्नावेकभागान्तरगतान्तरितौ। अपिशब्दाद्युद्धलक्षणाक्राक्षौ। दीप्तौ प्रभायुक्तौ चेत् स्यातां तदा बलान्विता- “वति समागतलक्षणैकदेशसद्भावात् समागमाख्यं युद्धम्। द्वावपि ग्रहौ स्वल्पौ सूक्ष्मविम्बौ विध्वस्तौ द्वावपि पराजयलक्षणाक्राकौ स्यातां तदा क्रमेण कूटविग्रहसञ्ज्ञकौ युद्धभेदौ स्याताम्। अथोत्सर्गतः शुक्रस्य जयलक्षणाक्रान्तत्वमस्तीति वदन् समागमः शशाङ्केनेति प्राक् प्रतिज्ञातसमागमे उक्तपकारमतिदिशति” रङ्ग०। “उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी। शशाङ्केनैवमेतेषां कुर्यात् संयोगसाधनम्” सू० सि० “इतरग्रहापेक्षयोदक्स्थो दक्षिणदिक्स्थो वोभयदिशीत्यर्थः। शुक्रः प्रायश उत्सर्गतो जयलक्षणाक्रान्तत्वेन जयी। कदाचित् पराजयलक्षणाक्रान्तो भवतीति तात्पर्यार्थः। एतेषां भौमादिपञ्चताराणां चन्द्रेण सह संयोगसाधनं युतिसाधनमेषामुक्तरीत्या गणकः कुर्यात्। अत्र विशेषार्थकम्। “अवनत्या स्फुटो ज्ञेयो विक्षेपः शीतगोर्युतौ” इत्यर्थं क्वचित् पुस्तके दृश्यते न सर्वत्रेति क्षिप्तत्वात्तदुपेक्षितम् अधिकारस्यापर्ण्णश्लोकत्वापत्तेश्च। एतदुक्त्यन्ययोगे नतिसस्कारनिषेधस्य सिद्धस्तस्यायुक्तत्वमिति तदनुक्तौ सूर्य्यग्रहणोक्तरीत्या साधारण्येन सर्वत्र तद्विशेषोक्तेरर्थसिद्धेरिति ध्येयम्। नन्वेषां ग्रहाणां दूरान्तरेण सदोर्ध्वाधरान्तरसद्भावात् परस्परं योगासम्भवेन कथं युतिः सङ्गतेत्यत आह” रङ्ग०। “भावाभावाय लोकानां कल्पनेयं प्रदर्शिता। स्वमार्गगाः प्रयान्त्येते दूरमन्योन्यमाश्रिताः” सू० सि०। “एते ग्रहाः स्वमार्गगाः स्वस्वकक्षास्था अन्योन्यमाश्रिता यु तकालऊर्द्ध्वाधरन्तराभावेन संयुक्ताः सन्तः प्रयान्ति गच्छन्ति इति दूरं दूरान्तरेण दर्शनादियं ग्रहयुतिकल्पना कल्पनात्मिकाऽवास्तवा प्रदर्शिता पूर्वोक्तग्रन्थेन कथिता। नन्ववस्तुभूता किमर्थमुक्तेत्यतः प्रयीजनमाह भावाभावायेति। लोकानां भूस्थपाणिगां मावः शुभफलमभावोऽशुमफलं तस्मै शुभाशुभफलादेशायावस्तुभूतापि युतिरुक्तेति भावः” रङ्ग०। युद्धभेदास्तत्फकपिशेषाः समागमजयादिफलभेदाश्च वृ० सं १७ अ० उक्ता यथा

“युद्धं यथा यदा वा भविष्यदादिश्यने त्रिकालज्ञैः। तद्विज्ञाने करणं मया कृतं सूर्यसिद्धान्तात्। वियति चरतां ग्रहाणामुपर्य्युपर्यात्ममार्गसंस्थानाम्। अतिदूराद्डग्विपये समतामिव सम्प्रयातानाम्। आसन्नक्रमयोगाद्भेटोल्ले खांशुमदोपसव्यैः। युद्धं चतुःप्रकारं पराशराद्यैर्मुनिभिरुक्तम्। भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च। उल्लेखे शस्त्रमयं मन्त्रिविरोधः प्रियान्यत्वम्। अंगुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः। युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम्। रविराक्रन्दो मध्ये पौरः पूर्वेऽपदे स्थितो यायी। पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्द्रः। केतुकुजराहुशुक्रा यायिन एते हता ग्रहा हन्युः। आक्रन्दयायिपौरान् जयिनो जयदाः स्ववर्गस्य। पौरे पौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति। एवं याय्याक्रन्दौ नागरयायिग्रहाश्चैव। दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृद्धोऽणुः। अधिगूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः। उक्त विपरीतलक्षणसम्पन्नो जयगतो विनिर्दिष्टः। विपुल स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः। द्वावपि मयूखपृक्तौ विपुलौ स्निग्धौ समागमे भवतः। तत्रान्योऽन्यप्रीतिर्विपरीतावात्मपक्षघ्नौ। युद्धं समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवतः। भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम्”।कुजजयस्य “गुरुणा जितेऽवनिसुते वाह्लोका यायिनोऽग्निवार्त्ताश्च। शशिजेन शूरसेनाः कलिङ्गसाल्वाश्च पीड्यन्ते। सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति। कोष्ठागारम्लेच्छक्षत्रियतापाश्च शुक्रजिते”।बुधजयस्य “भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः। उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति। गुरुणा बुधे तु विजिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः। त्रैगर्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही। रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः। भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः”।जीवजयस्य “जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः। साल्वा वत्सा वङ्गा गावः सस्यानि नश्यन्ति। भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः। सौरेण चार्जुनायनवसातियौधेयशिविविप्राः। शशितनयेनापि जिते वृहस्पतौ म्लेच्छसत्यशस्त्रभृतः उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम्”।शुक्रजयस्य “शुक्रे वृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति। ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति। कोशलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयताः। महतीं व्रजन्ति पीडां सपुंमकाः शूरसे- नाश्च। कुजविजिते भृगुतनये बलमुख्यबधो नरेन्द्रसंग्रामाः। सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च। रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम्। जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत्”।शनिजयस्य “असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा। क्षितिजेन टङ्कणान्ध्रोड्रकाशिबाह्लीकदेशानाम्। सौम्येन पराभूते मन्देऽङ्गबणिग्विहङ्गपशुनागाः। सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च”। अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम्। फलं तु वाच्यं ग्रहभक्तितोऽन्यद यथा तथा घ्नन्ति हताः स्वभक्तीः”। “नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ व्रतविधौ स्मृतिकर्म्महीनः” ज्यो० त०। उपयमशब्दे तत्कालस्य वर्ज्यतोक्तिर्दृश्या। ग्रहविग्रहग्रहविमर्दादयोऽप्यत्र, तत्र च चन्द्रस्यान्य खेटैः समागमे विशेषः न युद्धम् इत्युक्तं वृ० सं० १८ अ० यथा “भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः। प्रदक्षिणं तच्छुभकृन्नराणां याम्येन यातो न शिवः शशाङ्कः। चन्द्रमा यदि कुजात् प्रयात्युदक् पार्वतीयबलशालिनां जयः। क्षत्रियाः प्रमुदिताः स्वयायिनो भूरिधान्यमुदिता वसुन्धरा। उत्तरतः स्वसुतस्य शशाङ्कः पौरजयाय सुभिक्षकरश्च। सस्यचयं कुरुते जयहार्द्दिं कोशचयं च नराधिपतीनाम्। वृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम्। धर्म्मस्य देवस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च। भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः। यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा। रविजस्य शशी प्रदक्षिणं कुर्याच्चेत्पुरभूभृतां जयः। शकबाह्लिकसिन्धु पह्लवा मुदपाप्ता यवनैः समन्विताः। येषामुदग्गच्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च। तद्द्रव्यपौरेतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि। शशिनि फलमुदक्स्थे यद्ग्रहस्योपदिदं भवति तदपसव्ये सर्वमेव प्रतीपम्। इति शशिसमवायाः कोर्त्तिता भग्रहाणां न खलु भवति युद्वं साकमिन्दोर्ग्रहर्क्षैः”।

ग्रहयुद्धभ = न० ग्रहयोयु सं यत्र तादृशं भम्। ग्रहयुद्धाधिकरणे नक्षत्र उपमयशब्दे उदा०।

ग्रहवर्षादिफल = न० ६ त०। १ सूर्यादिग्रहस्वामिकवर्षमास- फलभेदे। ७ ब०। २ तद्बोघकशास्त्रे च तच्च वृ० स० २० अध्यायात्मकं यथारवेः–“सर्वत्र भूर्विरलसस्ययुता वनानि दैवाद्बिभक्षयिषुदंष्ट्रिसमावृतानि। स्यन्दन्ति नैव च पयः प्रचुरं स्रवन्त्यो रुग्भेषजानि न तथातिबलान्वितानि। तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले नात्यम्बुदा जलमुचोऽचलसन्निकाशाः। नष्टप्रभर्क्षगणशीतकरं नभश्च सीदन्ति तापसकुलानि सगोकुलानि। हस्त्यश्वपत्तिमदसह्यबलैरुपेता वाणासनासिमुसलातिशयाश्चरन्ति। घ्नन्तो नृपा युधि नृपानुचरैश्च देशान् संवत्सरे दिनकरस्य दिनेऽथ मासे”।विधोः–“व्याप्तं नभः प्रचलिताचलसन्निकाशैर्व्यालाञ्जनालिगव लच्छविभिः पयोदैः। गां पूरयद्भिरखिलाममलाभिरद्भिरुत्कण्ठकेन गुरुणा ध्वनितेन चाशाः। तोयमन पद्मकुमुदोत्पलवन्त्यतीव फुल्लद्रुमाण्यु पवनान्यलिनादितानि। गावः प्रभूतपयसो नयनामिरामा रामा रतैरविरतं रमयन्ति रामान्। गोधूमशालियवधान्यवरेक्षुवाटा भूः पाल्यते नृपतिभिर्नगराकराढ्या। चित्यङ्किता क्रतुवरेष्टिविघुष्टनादा संवत्सरे शिशिरगोरभिसम्प्रवृत्ते”।कुजस्य–“वातोद्धतश्चरति वह्निरतिप्रचण्डो ग्रामान् वनानि नगराणि च सन्दिधक्षुः। हाहेति दस्युगणपातहता रटन्ति निःस्वीकृता विपशवो भुवि मर्त्यसङ्घाः। अभ्युन्नता वियति संहतमूर्तयोऽपि मुञ्चन्ति न क्वचिदपः प्रचुरं पयोदाः। सीम्नि प्रजातमपि शोषमुपैति शस्यं निष्पन्नमप्यविनयादपरे हरन्ति। भूपा न सम्यगाभपालनसक्तचित्ताः पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः। एवंविधैरुपहता भवति प्रजेयं संवत्सरेऽवनिसुतस्य विपन्नसस्या।बुधस्य–“मायेन्द्रजालकुहकाकरनागराणां गान्धर्वलेख्यगणितास्त्रविदां च वृद्विः। पिप्रीषया नृपतयोऽद्भुतदर्शनानि दित्सन्ति तुष्टिजननानि परस्परेभ्यः। वार्त्ता जगत्यवितथाऽविकला त्रयी च सम्यक् चरत्यपि मनोरिवं दण्डनीतिः। अध्यक्षरं स्वभिनिविष्टधियोऽत्र केचित् आन्वीक्षिकीषु च परं पदमीहमानाः। हास्यज्ञदूतकविवालनपुंसकाना युक्तिज्ञसेतुजलपर्वतवासिनां च। हार्दिं करोति मृगलाञ्छनजः खकेऽव्द मासेऽथ वा प्रचुरतां भुवि चौषधीनाम्”।गुरोः–“ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि मिन्दन्। विचरत्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम्। क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या। क्षितिपैरभिपालनप्रवृद्धा द्युचरस्पधिजना तदा विभाति। विविधैर्वियदुन्नतैः पयोदैर्वृतभूमिं पयसाभितर्पयद्भिः। सुरराजगुराः शुभेऽत्र वर्षे बहुसस्या क्षितिरुत्तमर्द्धियुक्ता”।भृशोः–“शालीक्षुमत्यपि धरा धरणीधराभधाराधरीज्झितपयःपरिपूर्णवप्रा। श्रीमत्सरोरुहतताम्बुतडागकीर्णा योषेव भात्यभिनवाभरणोज्ज्वलाङ्गी। क्षत्रं क्षितौ क्षपितमूरिबलारिपक्षम् उद्घुष्टनैकजयशब्दविराविताशम्। संहृष्टशिष्टजनदुष्टविनष्टवर्गां गां पालयन्त्यवनिपा नगराकराद्याम्। पेपीयते मधु मधौ सह कामिनीभिर्जेगीयते श्रवणहारि सवेणुवीणम्। बोभुज्यतेऽतिथिसुहृत्खजनैः सहान्नम् अव्दे सितस्य मदनस्य जयावघोषः”।शनेः–“उद्व, त्तदस्युगणभूरिरणाकुलानि राष्ट्राण्यनेकपशुवित्तविनाकृतानि। रोरूयमाणहतबन्धुजनैर्जनैश्च रोगोत्तमाकुलकुलानि बुभुक्षया च। वातोद्धताम्बुधरवर्जितमन्तरिक्षम् आरुगणनैकविटपं च धरातलं, द्यौः। नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा, तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः। जातानि कुत्रचिदतोयतया विनाशम् ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि। सस्यानि मन्दमभिवर्षति वृत्रशत्रौ वर्षे दिवाकरसुतस्य सदा प्रवृत्ते”।

अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः। यदशुभमशुभेऽवदे मासजं तस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योऽन्यतायाम्”।

ग्रहवह्नि = पु० ६ त०। ग्रहयज्ञे ग्रहोद्देशेन होमाऽधिकरणे वह्रिभेदे स च ग्रहयज्ञशब्दे २७६२ पृ० दर्शितः।

ग्रहविप्र = पु० ६ त०। ग्रहोद्देश्यकदानग्रहणेन पतिते विप्रभेदे (दैवज्ञ) “तस्य ग्रहदानोद्देश्यता च ग्रहयामले ६ पटले उक्ता यथा “तुलादानञ्च यो दद्याद् ग्रहविप्राय सुन्दरि। आपन्मुक्तो भवेत् सोऽपि भुविः संमोदते सुखम्। सुवर्णस्य तुलां दद्याद् ग्रहविप्राय यः प्रिये!। तस्य तुष्टः सुरगुरुरायुर्वृद्धिं करोति सः। यस्तु रौप्यतुलादानं दद्यात् ग्रहद्विजाय च। सन्तुष्टस्तस्य शुक्रः सन् स सृजेद्दीर्घजीवितम्। ग्रहद्विजाय यो दद्यात्तुलां ताम्रस्य पार्व्वति!। सन्तुष्टो मङलस्तस्य दीर्घायुष्यं करोति हि। योदद्याद् ग्रहबिप्राय पित्तलस्य तुलां प्रिये!। तस्य तुष्टो वुधः कुर्य्यादायुः- पुष्टिं सुगौरवम्। ग्रहबिप्राय लौहस्य तुलां यस्तु प्रयच्छति। प्रीतः शनैश्चरस्तस्य विपुलायुः प्रयच्छति। शीशकस्य तुलां दद्याद् ग्रहविप्राय यः प्रिये!। तस्याशु राहुः सुप्रीतः सौभाग्यायुःप्रयच्छति। यः स्वर्परतुलां दंद्याद् ग्रहविप्राय सुन्दरि! सन्तुष्टो भगवान् केतुस्तस्यायुर्व्वर्द्धयेत् सुखम्। तुलां ताम्रस्य यो दद्याद् ग्रहविप्राय सुन्दरि!। आदित्यस्तस्य स प्रीतो दीर्वायुः परियच्छति। ग्रहविप्राय यो दद्याद् तुलां कांस्यस्य सुन्दरि!। सन्तुष्टस्तस्य रात्रीशोविभूत्यायुःप्रयच्छति”।

ग्रहशृङ्गाटक = न० वृ० सं० २० अ० उक्ते ग्रहयोगभेदे यथा “यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे। भवति भयं दिशि तस्यामायुधकोपक्षुधातङ्कैः। चक्रधनुःशृङ्गाटकदण्डपुरप्रासवज्रसंस्थानाः। क्षुदवृष्टिकरा लोके समराय च मानवेन्द्राणाम्। यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते। तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान्। यस्मिन्नृक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः। अविभेदनाः परस्परममलमयूखाः शिवास्तेषाम्। ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः। कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलम्। एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च। संवर्तो नाम भवेच्छिखिराहुयुतः स सम्मोहः। पौरः पौरसमेतो यायी सह यायिना सभाजाख्यः। यमजीवसङ्गमेऽन्यो यद्यागच्छेत्तदा कोशः। उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः। अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः। समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम्। समाजसञ्ज्ञः सुसमः प्रदिष्टो वैरप्रकोपः खलु सन्निपाते”

ग्रहसमागम = पु० ६ त०। चन्द्रेण सह भौमादिपञ्चग्रहयोगभेदे। ग्रहयुतिशब्दे ग्रहशृङ्गाटकशब्दे च विवृतिः

ग्रहादि = पु० पा० उक्ते कर्त्तरि णिनिप्रत्ययनिमित्ते धातुगणभेदे स च गणः णिन्यन्तया पा० ग० सू० उक्तो यथा ग्राही उत्साही उद्दासी उद्भासी स्थायी मन्त्री संमर्द्दी (रक्षश्रुबपशां नौ) निरक्षी निश्रावी निवापी निशायी (याचृव्याहृव्रजवदवसां प्रतिषिद्धानाम्) अयाची अव्याहारी असंव्याहारी अव्राजी अवादी अवासी (अचाः अचित्तकर्त्तृकानाम्) अकारी अहारी अविनायी विशायी विषायी (अभिभावी भूते) अतराधी उपरोधी परिभवी भरिभावी इति ग्रहादिराकृतिनणः”

ग्रहाधार = पु० ६ त०। ध्रुवनक्षये। तस्य तथात्वञ्च खगोलशब्दे पृ० २४१९। २० दर्शितम् ग्रहाश्रयादयोऽप्यत्र।

ग्रहाधिकरण = न० ग्रहस्य पात्रविशेषस्यैकत्वाविवक्षायाज्ञापकमधिकरणम्। न्यायरूपे पञ्चाङ्गे अधिकरणभेदे तच्च जै० ३ अ० १ पादे दर्शितं संक्षेपतस्तत उद्धृत्य तत्त्वबोधिन्यामुक्तं यथा “सोमयागे श्रूयते “दशापवित्रेण ग्रहं संमार्ष्टीति” दशापवित्रं वासःखण्डं ग्रहः सोमरसादिहविःपात्र विशेषः तत्र एकस्यैव मार्ज्जनमुत एकत्वाविवक्षया सर्व्वेषामिति संशये “पशुना रुद्रं यजेत” इत्यत्रेव एकवचनादेकत्वविवक्षया एकस्यैव मार्ज्जनं न सर्व्वेषां तथा च सू० “एकत्वं युक्तमेकस्य श्रुतिसंयोगादिति, प्राप्ते ब्रूमः। ग्रहाणां यागोपकरणतया प्राप्तानामनेन मार्जन संस्कारोविधीयते तत्र ग्रहमिति द्वितीयया एकस्योद्देश्यत्वं फलवत्त्वञ्च बोध्यते प्रधानं ग्रहं प्रति मार्ज्जनं गुणः “प्रतिप्रधानं गुण आवर्त्तनीयः” इति न्यायेन सर्व्वेषां मार्जनं प्राप्तम् उद्देश्यगतमेकत्वमविवक्षितं न च ग्रहत्वजातिर्मार्ज्जनेन सस्कार्य्या इति तदाश्रयैकमार्जनेन सर्वे संस्कृता भवन्ति, जातेः सर्बवृत्तित्वादित्येकत्वविवक्षायामपि सर्वमार्ज्जनसिद्धिरिति बाच्यं जातेरभूर्त्तत्वात् अपूर्वासाधनत्वाच्च तल्लक्षितानां द्रव्याणामपूर्व्वसाधनतया संमार्गात् तदुक्तम् “उद्देश्य लक्षणं जातिर्यद्द्रव्यं लक्ष्यते तया। तस्याङ्गमेष सम्मार्गः सर्वस्येति विनिश्चयः”। नचैकत्वं नोद्देश्यगतम् अपि तु एकत्वं सर्मार्ज्जनञ्चोभयं विधेयमिति वाच्यं “ग्रहं संमृज्य त् सचैकः कार्य्य इति वाक्यभेदापत्तेः एकत्वस्य सर्वग्रहेषु सिद्धत्वेन विधानासम्मवात् स्वसमानाधिकरणकर्म्मतानिरूपकमार्ज्जनसजातीयकर्मतासमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वरूपविशिष्टमेकत्वं विधेयं तथा सति सर्वर्मार्जनासिद्धिः अतएव एकत्वविशिष्टग्रहस्य मार्जनं विधीयते एकत्वं ग्रहत्वञ्च सर्वेषु वर्त्तत इति एकत्वविवक्षायामपि सर्वमार्जनसिद्धिरित्यपि परास्तं तादृशैकत्वस्याव्यावर्त्तकत्वात् विशिष्टैकत्वविवक्षायाञ्च उक्तदोषादिति साम्प्रदायिकाः। अत्नेदमवधेयम् एकत्वविवक्षायामपि सर्वमार्जलसिद्धिः तथाहि एकत्वविवक्षायां प्रत्येकमेव मार्जनं न तु मिलितानामेकं मार्जनं तथात्वे साहित्ये बहुपचनं निर्द्दिस्येत। तस्मादेकवचननिर्द्देशात् प्रतिप्रधानं गुणावृत्तिन्यायात् प्रत्येकं सर्वेषां मार्जनमिति। इत्थञ्च स्वसमानाघिकरणकर्मतानिरूपकमार्जननिरूपितकर्मतासमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वरूपविशिष्टैकत्वमेव विवक्षितं स्यात्। अविवक्षितत्वसिद्धान्तस्तु एकस्यैव मार्जनं न सर्वेषामिति प्रापकस्य स्वसमानाधिकरणेत्यादिपूर्व्वपक्षोक्तस्य सामान्यती मार्जनघटितैकत्वस्य विवक्षामादाय। न चैवं ग्रहं संमार्ष्टीति वाक्यात् कथं सर्वेषां मार्जनबोधः ग्रहत्वेनोपस्थितस्यैव ग्रहस्य मार्जनबोधनादिति वाच्यम् उद्देश्यविधेयभेदेन भिन्नानामेव वाक्यानां तन्त्रेणोच्चारणात् प्रतिप्रधानं गुणावृत्तिन्यायात् सर्वमार्जनसिद्धौ वाक्यभेदकल्पनागौरवस्याप्रामाणिकत्वात् अतएव भावार्थदीपिकायां रुक्मिणीस्वयंवरीयषड्बधारणव्याख्याने “न चैवं वाक्यभेदः अनूद्यविधेयभेदेन विभिन्नानामेव वाक्यानां सहप्रयोगात् ग्रहं समार्ष्टीतिवदिति” दृष्टान्तीकृतं श्रीधरस्वामिचरणैः”।

ग्रहाधीश = पु० ६ त०। सूर्य्ये ग्रहाध्यक्षादयोऽप्यत्र।

ग्रहामय = पु० ग्रहकृत आमयः। ग्रहावेशे स्कन्दग्रहाद्या वेशे राजनि०।

ग्रहावमर्द्दन = पु० ग्रहौ चन्द्रसूर्य्यौ अवमृद्नाति अव + मृदल्यु। १ राहौ। चन्द्रसूर्य्यावमर्द्दनमिति तद्व्यानलिङ्गात्तस्य तथात्वम्। भावे ल्युट् ६ त०। २ ग्रहचोः परस्पर युद्धे च। “ग्रहावमर्द्दने चैव पुष्यस्नानं समाचरेत्” वृ० सं० ४८ अ०।

ग्रहाशिन् = पु० ग्रहं स्कन्दग्रहदोषमश्नाति नाशयति अव + अश–णिनि। ग्रहनाशकवृक्षे शब्दर०।

ग्रहाह्वय = पु० ग्रहं ग्रहदोषमाह्वयति नाशाय आकारयति आ + ह्वे–श। भूताङ्कुश वृक्षे राजनि०। तस्य ग्रहदोषनाशनेऽङ्कुशतुल्यत्वात्तथात्वम्।

ग्रहिल = त्रि० ग्रहोऽस्त्यस्य काशा० इलच्। निर्वन्धयुक्ते। निर्वन्धश्च कोपादनुरागातिशयाच्च भवति तत्र “कोपमूल निर्बन्धयुक्ते। “न निशाऽखिलयाऽपि वापिका प्रससाद ग्रहिलेव मानिनी” नैष०। अनुरागाधीननिर्बन्धयुक्ते “प्रसाधनग्रहिलैरस्माभिः रसादीनां व्यङ्ग्यत्वमुक्तम्” सा० द०।

ग्रहीतृ = त्रि० ग्रह–तृच् इटोदीर्षः। १ ग्रहणकर्त्तरि २ ऋणग्राहिणि च। “विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च” मनुः। “ग्रहीता याद नष्टः स्वात् कुटुम्बार्थ कृतोव्ययः” मनुः।

ग्रह्य = पु० ग्रहः हविःपात्रभेदएव स्वार्थे यत्। हविःपात्र रूपे यज्ञिये पात्रभेदे। “आस्माकोऽसि शुक्रस्ते ग्रह्यो विचितस्त्वा” यजु० ४। २४। “ग्रहएव ग्रह्यः शुक्रपदमैन्द्र वायवादिग्रहाणामुपलक्षणम्” वेददी०।

ग्राभ = पु० ग्रह–ण वेदे हस्य मः। ग्राहके। “आ तू न इन्द्र! क्षुमन्तं चित्रं ग्राभं संगृभाय” ऋ० ८। ८१। १। “ग्राभं ग्राहकम” भा०।

ग्राम = पु० ग्रस–मन् आदन्तादेशः। “विप्राश्च विप्रभृत्याश्च यत्र चेव वसन्ति हि। स तु ग्राम इति प्रोक्तः शूद्राणां वास एव वा इति” “तथा शूद्रजनप्रायाः सुसमृद्धकृषीवलाः। क्षेत्रोपयोगभूमध्ये वसतिर्ग्रामसंज्ञिका” इतिचोक्तलजणे विप्रादीनां १ बासस्थाने, “धनुः शत परिणाहोग्रामात् क्षेत्रान्तरं भवेत्” याज्ञ०। “ग्रामेष्वात्मविसृष्टेषु” रघुः। “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्” हितोप० “यथा कुटुम्बिनः सर्व्वेप्येकीभूता भवन्ति हि। तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते” इत्युक्ते २ स्वरसंघभेदे, “षड्जग्रामो भवेदादौ मव्यमग्रामएव च। गान्धारग्राम इत्येतत् ग्रामत्रयमुदाहृतम्” “नन्द्यावर्त्तोऽथ जीमूतः सुभदो ग्रामकास्त्रयः। षडजमध्यमगान्धरास्त्रयाणां जन्महेतवः” मल्लिनाथधृतवाक्यम् तेषाञ्च सप्तस्वरविशेषयोगात् एकविंशतिमूर्च्छनाहेतुत्वं यथोक्तं तत्रैव “क्रमात् खराणां सप्तानामारोहश्चावरोहणम्। सा मूर्च्छनोच्यते ग्रामस्था एताः सप्त सप्त च”। “ग्रामत्रयेऽपि प्रत्येकं सप्त सप्त मूर्च्छनाइत्येकविंशतिमूर्च्छना भवन्तीति” मल्लि०। अधिकं संगीतदामोदरे दृश्यम्। “स्फुटीभवद्ग्रामविशेषमूर्च्छनाम्” माघः। किञ्चिच्छब्दपूर्वकसः ३ तदर्थसंघाते च यथा शब्दग्रामः अर्थग्राम इत्यादि। “शब्दाकरकरग्रामः” कविकल्पद्रुमः। ४ जनपदे च “यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः” ऋ० १। १२। ७। “ग्रसन्तेऽत्र ग्रामाजनपदाः” भा०। स्वार्थे क तेष्बर्थे “दीयन्तां ग्रामकाः कचित्” भा० उद्यो० १४६६ श्लो०। स्वल्पार्थे टी ततः स्वार्थे क ग्रामटिका स्वल्पग्रामे स्त्री “स्वर्ग ग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” सा० द०। ५ गामवासि कषकादिजने ६ ग्रामसहशे संहते ग्रामस्येदमण्। ७ तत्सम्बन्धिनि ८ ग्राम्यधर्म्म च।

ग्रामकाम = त्रि० ग्राम स्वकायत्वेन कामयते कम–णिङ् अण् उप० स०। आत्मसम्बन्धितया ग्रामस्य कामुके। “यवाग्वा ग्रामकामः” कात्या० श्रौ०४। १५। २२। “उपहव्यो ग्रामकामस्य” २२। ८। ७। “दीर्घव्याधिग्रामकामप्रजाकामपशुकामानां वा” २२। ९। १७।

ग्रामकुक्कुट = पुंस्त्री ७ त०। ग्राम्ये कुक्कुटभेदे “कलविङ्गं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम्” “छत्राकं विड्वराहं च लसुनं ग्रामकुक्कुटम्। पलाण्डुं गृञ्जनं चैव मत्याजग्ध्वा पतेत् द्विजः” इति मनुना तन्मांसभक्षणं निषिद्धम् स्त्रियां जातित्वात् ङीष्।

ग्रामकुमार = त्रि० ग्रामेषु मध्ये कुमारः सुन्दरः। ग्रामसुन्दरे। तस्य भावः मनोज्ञा० वुञ्। ग्रामकुमारक तद्भावे न०।

ग्रामकुलाल = पु० ग्रामे कुलालः। ग्राम्ये कुलाले कुम्भकारे “ग्रामः शिल्यिनि” पा० अस्य वा प्रकृतिस्वरता ग्राम शब्दश्च आद्युदात्तः। एवं ग्रामनापितादिषु वा आद्युदात्तता। ततः मनोज्ञा० भावे वुञ्। ग्रामकुलालक तद्भावे न०

ग्रामकूट = पुंस्त्री ग्रामस्य कूट इष वञ्चनाप्रधानत्वात्। शूद्रे हारा० स्त्रियां जातित्वात् ङीष्।

ग्रामक्रोड = पुंस्त्री ग्रामे क्रोडः। ग्राम्यशूकरे स्त्रियां जातित्वात् ङीष्। “स दोग्ध्रीं धेनुमुत्सृज्य ग्रामक्रोडीं दुधुक्षति” काशीख० ३६ अ०। ग्रामशूकरादयोऽप्यत्र पुंस्त्री०।

ग्रामगृह्य = त्रि० ग्रह–बाह्यार्थे क्यप् ५ त०। १ ग्रामबाह्ये स्त्रियां टाप् सा च २ ग्रामवाह्यसेनायाम्।

ग्रामगेय = न० ग्रामे गेयम्। सामभेदे तस्य ग्रामे गेयत्वात् तथात्वम्।

ग्रामगोदुह् = पु० ७ त०। ग्राम्ये गोपे “ग्रामः शिल्पिनि” पा० वा अस्य प्रकृतिखरत्वे प्राप्ते युक्त्यारोह्या० आद्युदात्तता।

ग्रामघात = पु० ६ त०। ग्रामस्य द्रव्यहरणेन हननप्राये व्यापारे। “ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने। शक्तितोनाभिधावन्तो निर्वास्याः सपरिच्छदाः” मनुः। “ग्रामघाते ग्रामलुण्ठने” कुल्लू०। २ ग्रामवृत्तिजनहनने च। “मृगोऽसकृद्ग्रामघातमाचष्टे” वृ० सं० ३० अ०। “एकस्थाने रुवन्दीप्तः सप्ताहाद् ग्रामघातकृत” ८६ अ०।

ग्रामघातिन् = पुंस्त्री ग्रामार्थं तत्रस्थलोकभक्षणार्थं हन्ति पशून् हन–णिनि। ग्रामस्थबहुलोकपोपणार्थं पशुघातके। “ग्रामघाती च कौन्तेय! मांसस्य परिविक्रयी” भा० शा० ३४ अ० प्रायश्चित्तीयोपाख्याने।

ग्रामघोषिन् = पु० ग्रामे कृषके घोषोऽस्त्यस्य इनि। संक्रन्दने इन्द्रे। “संक्रन्दनः प्रवदोधृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी” अथ० ५। २०। ९। वृष्ट्यर्थं वृषकेण शब्दमानत्वात्तस्य तथात्वम्।

ग्रामचर्य्या = स्त्री ६ त०। ग्राम्यधर्म्मे स्त्रीसम्भोगे “सर्व्वशो वर्जयेद्ग्रामचर्य्याम्” आश्व० श्रौ० १२। ८। ३। सत्रिधर्म्मोक्तौ “ग्रामचर्य्या स्त्रीसम्भोगः” नारा० वृ०।

ग्रामज = त्रि० ग्रामे जायते जन–ड। ग्राम्ये धान्यादौ।

ग्रामजनिष्पावी = स्त्री कर्म्म०। नखनिष्पाव्यां धान्यभेदे राजनि०।

ग्रामजात = त्रि० ग्रामे जायते जन–कर्त्तरि क्त। ग्राम्ये धान्यादौ “न ग्रामजातान्यार्त्तोऽपि मूलानि च फलानि च” मनुः वानप्रस्थधर्म्मोक्तौ। “ग्रामजातानि अफाल कृष्टभूभागे जातान्यपि फलादीनि न भक्षयेत्” कुल्लू०।

ग्रामजाल = न०। ग्रामसमूहे चक्रशब्दार्थे त्रिका०।

ग्रामजित् = त्रि० ग्रामं संहतं जयति विश्लेषणेन, जिक्विप्। संघात्मकस्य बस्तुनः विश्लेषयितरि। “निथुत्वन्तो ग्रामजितो यथा नरः” ऋ० ५। ५४। ८।

ग्रामणी = त्रि० ग्रामं समूहं नयति प्रेरयति स्वस्वकार्य्योषु नी–क्विप् णत्वम्। १ प्रधाने २ ग्रामाध्यक्षे ३ नापिते पु० मेदि०। “ग्रामणीभ्योऽन्नं सुरां सुरापेभ्यः” कौषीत० व्रा०। ग्रामं ग्रामधर्म्मं नयति। ४ भोगिके हेम० ग्रामेण मैथुनव्यापारेण नयति कालम्। बहुजनभोग्यायां स्त्रियां ५ वेश्यायां ६ नीलिकायां च स्त्री हेमच०। ७ विष्णौ पु० “अग्रणीर्ग्रामणीः श्रीमान्” विष्णुस०। “भूतग्रामस्य नेतृत्वात् ग्रामणीः भा०। ग्रामण्यः इदम् तक्षशि० अण्। ग्रामण तत्सम्बन्धिनि त्रि०। ग्रामणीरिवाचरति क्यच् ग्रामणीयते। ततः कर्त्तरि अच् ग्रामणीय तत्तुल्ये त्रि० “सिन्धुकूलाश्रिताये च ग्रामणीयमहाबलाः” भा० स० ३१ अ०।

ग्रामणीथ्य = न० ग्रामण्यः भावः त्व वेदे पृषो०। आधिपत्ये। “एषोऽलं श्रियै धारणाय राज्यस्य वा ग्रामणीथ्याय” शत० व्रा० ८। ६। २। १।

ग्रामतक्ष = पु० ६ त० टच् समा०। वहूनां साधारणे काष्ठ तक्षितरि।

ग्रामता = स्त्री ग्रामाणां समूहः तल्। ग्रामसमूहें “तस्माद्धेदं प्राच्यो ग्रामता वहुविष्ठालाः” ऐत० ३। ४४।

ग्रामधर्म्म = पु० ग्रामे भवः अण् ग्रामो धर्म्मः। ग्राम्यधर्म्मे मैथुने शब्दार्थचि० तस्य स्त्रीपुंधर्म्मत्वात्तथात्वम्।

ग्रामपाल = पु० ग्रामं पालयति पालि–अण् उप० स०। ग्राम रक्षके १ सैन्यभेदे २ ग्रामाध्यक्षे च।

ग्रामपुत्र = पु० ग्रामस्य ग्रामस्थबहुजनस्य पुत्र इव पाल्यत्वात्। बहूनां पाल्यतया पुत्रतुल्ये। ततोमनोज्ञा० भावे वुञ्। ग्रामपुत्रक तद्भावे न०।

ग्रामप्रेष्य = पु० ६ त०। बहूनां प्रेष्ये। ततः मनोज्ञा० भावे वुञ्। ग्रामप्रेष्यक तद्भावे न० ग्रामप्रेष्यस्य श्राद्धेऽपात्र तोक्ता यथा “वृषलीपतिः पिशुनोनर्त्तनश्च ग्रामप्रेष्यो यश्च भवेत् विकर्म्मा” भा० शा० ६५ अ०। “प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः” मनुः।

ग्रामभृत = पु० ग्रामेण तत्रस्थसमूहे न भृतः प्रेष्यः। बहुजनभरणीये। स च अव्राह्मणः यथाह शाता० “अब्राह्मणास्तु षट् प्रोक्ता ऋषिणा तत्त्ववादिना। आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी। तृतीयो बहुयाज्यः स्यात् चतुर्थो ग्रामयाजकः। पञ्चमस्तु भृतस्तेषां ग्रामस्य नगरस्य च। अनागतां तु यः पूर्वां सादित्यां चैव पश्चिमाम्। नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः”।

ग्राममद्गुरिका = स्त्री ग्रामस्य प्रिया मद्गुरिका। ग्रामस्य मद्गुरिकेव वा (सिङी) १ मत्स्यभेदे २ ग्रामयुद्धे च मेदि०।

ग्राममुख = पु० ग्रामो ग्रामस्थजनो मुखमिवास्य। हट्टे त्रिका० तस्य ग्रामजननिष्पाद्यत्वात्तन्मुखत्वम्।

ग्राममृग = पु० ६ त०। कुक्कुरे हारा०। कुक्कुरस्य ग्रामे मृगतुल्यत्वात्तथात्वम् स्त्रियां जातित्वात् ङीष्।

ग्रामयाजक = पु० ६ त०। ग्रामस्य नानावर्णानां याजके अपकृष्टविप्रे। ग्रामभृतशब्दे दृश्यम्। “गुरौ चानृतके पापे कृतघ्ने ग्रामयाजके” भा० व० १९९ अ०। अपात्रोक्तौ।

ग्रामयाजिन् = पु० ग्रामान् ग्रामस्थनानावर्ण्णान् याजयति यज–णिच्–णिनि। ग्रामयाजके। “नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा” मनुः अभोज्यान्नोक्तौ।

ग्राम(मे)वास = पु० ७ त० वा अलुक्स०। ग्रामे स्यितौ

ग्राम(मे)वासिन् = त्रि० ग्रामे वसति वस–णिनि वा अलुक्स०। ग्रामे स्थायिनि स्त्रियां ङीप्।

ग्रामषण्ड = पु० ग्रामे ग्रामधर्मे षण्डः। ग्रास्यधर्मरहिते क्लीबे। ततः मनोज्ञा० भावे वुञ्। ग्रामषण्डक तद्भावे न०

ग्रामस्थ = त्रि० ग्रामे तिष्ठति स्था–क। ग्रामवासिनि

ग्रामहासक = पु० ग्रामं हासयति हस–णिच्–ण्वुल्। भगिनीपतौ शब्दच०

ग्रामाधान = न० ग्रामस्य ग्रामपोषणार्थमाधीयते आ + धा ल्युट्। मृगयायाम् हलायुधः।

ग्रामान्त = न० ६ त०। ग्रामसमीपे उपशल्ये “नाधीयीतश्मशनान्ते ग्रामान्ते गोव्रजेऽपि वा” “कृतवापनो निवसेत् ग्रामान्ते गोव्रजेऽपि वा” मनुः। ग्रामान्ते भवः वृद्धः त्वाच्छः। ग्रामान्तीय ग्रामसमीपभवे त्रि० “पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः” मनुः।

ग्रामिक = पु० ग्रामे तद्रक्षणे नियुक्तः ठञ्। ग्रामरक्षणाय नियुक्ते ग्रामाध्यक्षे “ग्रामे दोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम्। शंसेत् ग्रामदशेशाथ दशेशो विंशतीशिने” मनुः। “यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः। अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्” मनुना तद्वृत्तिरुक्ता। “ग्रामेयान् गुणदोषांश्च ग्रामिकः प्रतिभावयेत्” “यानि ग्रान्याणि भोज्यानि ग्रामिकस्तान्युपाश्नीयात्” भा० शा० ८७ अ०। तस्य भावः पुरोहि० यक्। ग्रामिक्य तद्भावे न०।

ग्रामिन् = त्रि० ग्रामः स्वामित्वेन आधारत्वेन वाऽस्त्यस्य इनि। १ ग्रामस्वामिनि २ ग्रामवासिनि च। ३ ग्राम्यधर्म युक्ते मैथुनयुक्ते च। आसुरी मेट्रमर्वाग्द्वार्व्यवाये ग्रामिणां रतिः” भाग० ४। २९। १४। स्त्रियां ङीप्। सा च ४ नीलीवृक्षे स्त्री जटा०।

ग्रामीण = पुंस्त्री ग्रामे भवः खञ्। १ कुक्कुरे, २ काके, मेदि० ३ ग्राम्यशूकरे च राजनि०। ४ ग्रामोद्भवे त्रि०। “ग्रामीणस्य प्रथमतः पश्यतोगबयादिकम्” भाषा०। ग्रामीणवध्वस्तमलक्षिता जनः” माघः। ५ गीलिकोषधौ, मेदि० ६ पालङ्क्यशाके च स्त्री राजनि०।

ग्रामेय = त्रि० ग्रामे भवः वा० ढक्। १ ग्रामभये “ग्रामेयान् गुणदोषांश्च” मनुः। २ वेश्यायां स्त्री

ग्रामेयक = त्रि० ग्रामे भवः कत्त्र्या० ढकञ्। ग्रामभषे। “ग्रामेयककुलानाञ्च समक्षं सीम्नि साक्षिणः” मनुः। अत्र गामयिकेति पाठः लिपिकरप्रमादात्।

ग्रामेश = पु० ६ त०। ग्रामपतौ ग्रामाध्यक्षे ग्रामेश्वरादयोऽप्यत्र।

ग्राम्य = त्रि० ग्राम–भवार्थे–वा यत्। १ ग्रामभवे कृषकादौ “अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति” वृ० र०। २ मूढे ३ प्राकृते। ४ मैथुने च “व्यवायो ग्राम्यधर्मश्च” अमरः। प्राकृते “ग्राम्यानपश्यत् कपिशं पिपासतः” माघः। मूढे “ग्राम्यभावमपहातुमिच्छवः” माघः। ५ स्वीकारे ६ रतवन्धे ७ भण्डादिवचने अश्लीले हालिकादिप्रसिद्धवाक्ये च न० शब्दार्थचि०। ८ काव्यदोषभेदे पु०। स च शब्दगतोऽर्थगतश्च तत्र शब्दगतः सा० द०। शब्ददोषविभागे “दुःश्रव्यत्रिविधाश्लीलानुचितार्थाप्रयुक्तताः। ग्राम्योऽप्रतीतसन्दिग्धनेयार्थनिहतार्थताः” इत्यादिना शब्ददोषान् विभज्य “कटिस्ते हरते मनः” इत्युदाहृतम् “अपुष्टदुष्क्रमग्राम्यव्याहताश्लीलकष्टताः” इत्यादिनाऽर्थदोषान् विभज्य च “स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय!” इत्यर्थस्य ग्राम्यत्वमुदाहृतम्। “ग्राम्या मिथुनतुलास्त्री चापालिघटा निशासु मेषवृषौ च” ज्यो० उक्तेषु ९ सदामिथुनादिराशिषु १० रात्रौ मेषवृषराश्योश्च पु०। ११ पशुभेदे पुंस्त्री०। यथाह पैठीनसिः “ग्राम्यारण्याश्चतुर्द्दश गौरविरजोऽश्वोऽश्वतरो गर्द्दभो मनुष्यश्चेति सप्त ग्राम्याः पशवः, महिषवानरऋक्षसरीसृपरुरुपृषतमृगाश्चेति सप्तारण्याः”। “अश्वाश्वतरगोस्वरोष्ट्रवस्तोरम्रमेदःपुच्छक प्रभृतयो ग्राम्याः इति सुश्रुतोक्ते १२ पशुभेदे पुंस्त्री० “ग्राम्या वातहराः सर्वे वृंहणाः कफपित्तलाः। मधुरा रसपाकाभ्यां दीपना बलवर्द्दनाः” सुश्रु०। १३ ओषधिभेदे स्त्री। “तिलमाषव्रीहियवाः प्रियङ्गवो गोधूमाश्चेति सप्त ग्राम्या ओषधयः” तैत्ति०। ओषधि शब्दे १५६४ पृ० दृश्यम्।

ग्राम्यकन्द = पु० कर्म्म०। कन्दभेदे (ग्रामेर ओल) रत्नमा०

ग्राम्यकर्कटी = स्त्री कर्म०। कुष्माण्डे त्रिका०।

ग्राम्यकर्म्मन् = न० ग्राम्यस्य प्राकृतस्य हालिकादेः कर्म। मैथुने व्यवाये। “ग्राम्यकर्म्मणैव विस्मृतकालाबधिः” भाग० ५। १४। ३।

ग्राम्यकुङ्कुम = न० कर्म०। कुसुम्भे त्रिका०।

ग्राम्यधर्म्म = पु० ग्राम्यस्य प्राकृतस्य हालिकादेः धर्मः। व्यवाये मैथुने अमरः। “प्रमत्तोग्राम्यधर्मेषु” भा० व० ४८ अ०। “प्रमत्तं ग्राम्यधर्मेषु” २८० अ०। स अस्त्यस्य इनि ग्राम्यधर्म्मिन् मैथुनरते त्रि०। “शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मिणः” भा० आनु० ४८ अ०।

ग्राम्यपशु = पु० कर्म्म०। पशुभेदेषु ते च पशवः ग्राम्यशब्दे दर्शिताः।

ग्राम्यमद्गुरिका = स्त्री कर्म०। शृङ्गीमत्स्ये हारा०।

ग्राम्यमृग = पुंस्त्री कुक्कुरे जटा० स्त्रियां ङीष्।

ग्राम्यवल्लभा = स्त्री ६ त०। १ पालङ्ग्यशाके (पालङ्ग) राजनि० हालिकादिग्राम्यप्रियत्वात्तस्य तथात्वम्। २ वेश्यायाञ्च

ग्राम्यवादिन् = त्रि० ग्राम्यं वदति णिनि। ग्राम्यशब्द वादके हालिकादौ। “यः परस्तात् ग्राम्यबादी तस्य गृहाद् व्रीहीनाहरेत्” तैत्ति० २। ३। १। ३।

ग्राम्यशूकर = पुंस्त्री कर्म्म०। विड्वराहे स्त्रियां ङीष्।

ग्राम्या = स्त्री ग्रामे भवा यत्। १ तुजस्यां शब्दार्थचि० २ नीलीवृक्षे ३ निष्पावीवृर्क्षें च राजनि०।

ग्राम्यायणि = पुंस्त्री० ग्राम्यस्यापत्यम् तिका० फिञ्। ग्राम्यस्य प्राकृतादेरपत्ये। स्त्रियां इदन्तत्वात् वां ङीप्।

ग्राम्याश्व = पु० कर्म०। गर्दभे त्रिका० स्त्रियां जातित्वेऽपि अजा० टाप्।

ग्रावग्राभ = पु० ग्रावाणमभिषवरणपाषाणं स्तुत्या गृह्णाति ग्रह–अण् हस्य भः उप० स०। ग्रावस्तुति ऋत्विग्भेदे। “अग्निमिन्धो ग्रावग्राभ उत शस्ता सुविप्रः” ऋ० १। १६२। ५। “ग्रावग्राभः ग्राष्णः स्तुत्या गृह्णातीति ग्रावस्तुत्” भा०।

ग्रावन् = पु० ग्रसते ग्रस–ड ग्रः आवनति वन–संभक्तौ विच् कर्म०। १ प्रस्तरे, २ पर्व्वते, अमरः ३ मेघे घिश्वः। ३ दृढे त्रि० शब्दर०। “श्रोता ग्रावाणोविदुषो न यज्ञम्” यजु० ६। २६। “मूर्द्ध्नि ग्राव्णां जर्जरा निर्झरौवाः” माघः। “ग्रावसु संमुखेष्वधिनिदधाति क्षत्रं वै सोमोविशोग्रावाणः” शत० व्रा० ३। ९। ३। ३।

ग्रावरोहक = पु० ग्रावणि रोहति रुह–ण्वुल् ७ त०। अश्वगन्धावृक्षे रत्नमा०।

ग्रावस्तुत् = पु० ग्रावाणं स्तौति स्तु–क्विप् ६ त०। होतुः सहाय ऋत्विग्भेदे अच्छावाकशब्दे ८५ पृ० विवृतिः। तृच्। ग्रावस्तोताप्यत्र। तस्येदम् घ ग्रावस्तोत्रिय अण् ग्रावस्तोत्र तत्सम्बन्धिनि त्रि० ग्रावस्तोत्राय हितम् छ। ग्रावस्तोत्रीय तस्यहिते त्रि० “प्रस्तोता व्राह्मणाच्छंसि ग्रावस्तोत्रीये” कात्या० श्रौ० २४। ५। ४५।

ग्रावहस्त = पु० ग्रावा अभिषवसाधनं पाषाणोहस्तेऽस्य। अभिषवसाधनपाषाणयुक्तहस्ते ग्रावस्तुति ऋत्विग्भेदे। “ग्रावहस्तासो अध्वरे” ऋ० १। १५। ७।

ग्रावायण = पु० प्रवरभेदे हेमा० व्र० ख० प्रवराध्याये दृश्यम्

ग्रास = पु० ग्रस्यते ग्रस–कर्मणि घञ्। मुखपूरणयोग्यान्नादौ तन्मानञ्च “कुक्कुटाण्डप्रमाणश्च यावान् वा प्रविशेनमुखम्। एतं ग्रासं विजानीयात् शुद्ध्यर्थं कायशोधनम्” पराशरः। “यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित्। तावतो ग्रसते प्रेत्य तीव्रशूलर्ष्ट्ययोगुडान्” “ग्रामादाहृत्य बाश्नीयादष्टौ ग्रासान् वने वसन्” “ऐकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्व्ववत्” इति च मनुः। “सायं द्वाविंशतिर्ग्रासाःप्रातः षड्विंशतिः स्मृताः। अया- चिते चतुविशः परञ्चानशनं स्मृतम” पराशरः। प्रायश्चित्ते ग्रासभोजनस्य परिसङ्ख्यारूपत्वमुक्त प्रा० त० “भोजनस्य रागप्राप्तत्वात् नापाप्तपापको विधिः। सचाहरहः सन्ध्यामुपासीत पव्येवं रूपः। नापि तद्भक्षणस्यानावश्यकत्वेन स्वायोगव्यवच्छेदमात्रफलको नियमविधिः। स च तत्ततिथौ तत्तदगासान् भुञ्जीतैवेत्येवं रूपः। तथा च “स्वरुच्या क्रियमाणे च यत्रावश्यं क्रिया क्वचित्। नोद्यते नियमः सोऽत्र ऋतावभिगमो यथा”। तथात्वे च पितृमरणादावपि भोजनं प्रसज्येत हविष्यान्नभोजनव्रतादावपि उपवासाभाव एव सम्पद्येत तद्भक्षणसमकालमेवान्यभक्षणेऽपि न दोषःस्यात्। तस्मादगत्या “श्रुतार्थस्य परित्यागादश्रुतार्थय्यकल्पनात्। प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका”। इत्युक्त स्वार्थहान्यर्यान्तरकल्पनरागप्राप्तबाधरूपदोषत्रयदूष्टापि अन्ययोगव्यवच्छेदफलिका परिसंख्यैव युक्ता, सा च सतिं भोजने तत्तत्तिथौ तत्तद् ग्रासानेव भुञ्जीत नान्यदित्येवं रूपा तस्मात्तदतिरिक्तभोजनाभावपरत्वेन उपवासेऽपि दोषाभावः। तदुक्तं भट्टपादैः “अन्यार्थ श्रूयमाणा च यान्यार्थपतिषेधिका। परिसंख्यां तु सा ज्ञेया यथा प्रोक्षितभोजनम्”। अन्यथा प्राजापत्य व्रतेऽपि “त्र्यहमद्यादयाचितमिति” “अयाचितन्तु मध्याह्ने चतुर्विंशन्तु शुद्धये” इति ब्रह्मपुराणोक्तस्यायाचितस्यालाभे व्रतलोपापत्तिः स्यात्”।। १ ग्रहणे छाद्यच्छादकयोः २ स्पर्शे। “छादकोभास्करस्येन्दुरधःस्थेवनवद् भवेत्। भूच्छायां प्राड्मुखश्चन्द्रो विशत्यस्य भवेदसौ” इत्युपक्रम्य “यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा। योगार्द्धादधिके न स्याच्छिक्षपे ग्राससम्भवः इति। “स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत्। स्थित्यर्द्धनाडिकाहीने ग्रासेमोक्षस्तु संयुने” सू० सि० “स्पष्टतिप्यन्तकाले तुकारात् तत्पूर्व्वापरकालनिरासः। मध्यग्रहणं ग्रासोपचयसमाप्तिं कथयेत्। मध्यग हणसम्बन्धेन मध्यसूर्य्यचन्द्रानीतमध्यतिथ्यन्ते तत्सम्भव इति कस्यचिद् भ्रमस्तद्वारणार्थम् स्फुटेति। स्थित्यर्द्ध घटिकाभिरूने तिथ्यन्त ग्रासः र्म्पर्शः। सयते स्थित्यर्धघटीभिर्युते तिथ्यन्ते काले मोक्षः। तुकारः स्पर्शमोक्षस्थित्यधाभ्यां स्पर्शमोक्षकालाविति विषयव्यवस्थार्थकः। अत्रोपपत्तिः। तिथ्यन्तकाले छाद्यच्छादकयोः पूर्ब्बापरान्तराभावाद्योगे मण्डलस्पर्शो यावान् भवति ततः पूर्व्वाग्रिमकालयोर्न्यून एवातोऽत्र मध्यग्रहणकालः” रङ्गना०।

ग्रासशल्य = न० ग्रासे शल्यम्। ग्रासस्थिते मत्स्यादिकण्टकरूपे शल्य तदुद्धारोपायः सुश्रुते दर्शितोयथा “ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनबरुद्धस्कन्धे मुष्टिनाभिहन्यात् स्नेहं मद्यं पानीयं वा पाययेत्”।

ग्राह = पु० ग्रह–जलचरे ण। (हा~गोर) ख्याते जलचरभेदे अमरः “सन्निमज्जज्जगदिदं गम्भीरे कालमागरे। जरामृत्युमहाग्राहे न कश्चिदवबुध्यते” भा० शा० २८ अ०। “जग्राहाजगरो ग्राहोभुजयोरुभयीर्बलात्” भा० व० १७८ अ० “कृच्छ्राद् ग्राहाद्विमुच्यते” मनुः। भावे घञ्। २ ज्ञाने ३ आग्रहे निर्बन्धेच। “मूढग्राहेणात्मनोयत् पीडया क्रियते तपः” गीता। “मूढग्राहेण अविवेककृतेन दुराग्राहेण” श्रीधरः। ४ आदाने हस्तव्यापारे ५ स्वीकारे जलचरभिन्नेऽपि कर्त्तरि वेदे ण। ६ ग्रहीतरि त्रि० “अध्वर्य्युं यजमानं वा ग्राहो विन्दति” शत० ब्रा० ३। ५। ३। २५। कस्मिंश्चित् कर्मणि उपपदे अण्। तत्तत्कर्म ग्राहके “पार्ष्णिग्राहस्तु पृष्ठतः” अमरः। “ऋक्थ ग्राह ऋणं दाय्यः” याज्ञ०।

ग्राहक = पु० ग्रह–ण्वुल्। १ श्येनपक्षिणि २ विषवैद्ये च। ३ ग्रहीतरि त्रि०। ग्रह–णिच्–ण्वुल्। ४ ज्ञापके लिङ्गेन्द्रियादौ “ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा” याज्ञ० “यथास्वं ग्राहकाण्येषां शब्दादीनामिमानि तु। इन्द्रियाणि सदा देही धारयन्निव तप्यते” भा० वन० २१० अ०। ५ सितावरशाके राजनि०।

ग्राहिन् = पु० ग्रह–णिनि। १ कपित्थे शब्दच०। २ मलबन्धकारके, (धारक) त्रि० वैद्यकम्। “कषायानुरसं ग्राहि स्निग्धं मेधाबलावहम्” भावप्र० दाडिमफलगुणोक्तौ। ३ ग्राहके, “व्यालग्राही यथा व्यालान् बलादुद्धरते बिलात्” काशीख०। “पल्लवग्राहि पाण्डित्यम्” उद्भट्टः। स्त्रियां ङीप्। सा च ४ प्रतिकूलायाम्। “मा स्म भूर्ग्राहिणी भीरु! “भट्टिः ग्राहिणी प्रतिकूला” जयम०। ५ क्षुद्रदुरालभायां स्त्री राजनि०। ६ ताम्रमूलावृक्षे (क्षीरै) रत्नमाला तयोर्मलबन्धकारित्वात्तथात्वम्।

ग्राहिफल = पु० ग्राहि मलबन्धकं फलं यस्य। कपित्थवृक्षे। राजनि०।

ग्राहुक = त्रि० ग्रह–बा० उकञ्। ग्रहणशीले “उद्रावर्त्तः प्रजा ग्राहुक्रः स्यात्” तैत्ति० ६। ४। १। ११

ग्राह्य = त्रि० ग्रह–ण्यत्। १ ग्रहीतुमुचिते, २ ग्रहणयोग्ये, ३ उपादेये, ४ स्वीकार्य्ये, ५ ज्ञेये च। “शस्त्रं द्विजातिभि र्ग्राह्यं धर्म्भो यत्रोपरुध्यते” मनुः। “अस्मिंस्तु किल संमर्दे ग्राह्यम् विविधमायुधम्” भा० द्रो० ११२ अ०। “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः” स्मृतिः “विषादप्यमृतं ग्राह्यम्” मनुः। “चक्षुर्ग्राह्यं भवेद्रूपम्” भाषा०। ६ प्रतिबध्यज्ञाने प्रकारीभूतधर्म्मे यथा ह्रदीवह्न्यभाववानिति ज्ञानस्य प्रतिवध्यं ह्रदो वह्निमानितिज्ञानं तत्र प्रकारीभूतो वह्निः।

ग्रीवा = स्त्री गिरत्यनया गॄ–वनिप् नि०। कन्धरायाम् “ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दचदृष्टिः” शकु०। तन्मानादिकमुक्तं सुश्रुते यथा “चतुरङ्गुलानि मेहनवदनान्तरनासाकर्ण्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि। द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि। चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवम्” सुश्रु०। “ग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः” माघः। “पादयोर्द्दाढिकायाञ्च ग्रीवायां वृषणेषु च” मनुः। “प्राग्ग्रीवमुत्तरलोस” आश्व० गृ० १। १४। ३। “इदमहं रक्षसां ग्रीवा अपि कृन्तामि” यजु० ५। २२। दशग्रीवः कम्बुश्रीवः इत्यादि।

ग्रीवाक्ष = पु० ऋषिभेदे तस्य गोत्रापत्यं शिवा० अण्। ग्रैवाक्ष तद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीष्।

ग्रीवाघण्टा = स्त्री ७ त०। ग्रीवास्थितघण्टायां त्रिका०।

ग्रीवाबिल = न० ६ त०। ग्रीवान्तर्गते गर्त्तभेदे त्रिका०।

ग्रीविन् = पुंस्त्री० दीर्घा ग्रीवाऽस्त्यस्य बा० इनि टिलोपः। १ उष्ट्रे जटाधरः स्त्रियां ङीष्। २ दीर्घग्रीवायुक्ते त्रि०।

ग्रीष्म = पु० ग्रसते रसान् ग्रस–मनिन्। ज्यैष्ठाषाढमासद्वयात्मके १ ऋतुभेदे। “ग्रीष्मे तीव्रकरोभानुर्न हेमन्ते तथाविधः” सूर्य्यसि०। “विहर्त्तुमिच्छोर्वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव” रघुः। “अनेन विधिना श्राद्धं त्रिरव्दस्येह निर्वपेत्। हेमन्तग्रीष्मवर्षासुपाञ्चयज्ञिकमन्वहम्” “ग्रीष्मे पञ्चतपास्तु स्यात् वर्षास्व नवकाशिकः” मनुः। स्वार्थे अण्। ग्रैष्म तत्रार्थे तस्येदमण्। तत्सम्बन्धिनि त्रि० “शुक्रश्च शुलिश्चग्रैष्मावृतू” यजु० १। ६। “ग्रैष्मौ ग्रैष्मसम्बन्धिनौ ऋतू ऋत्ववयवौ” वेददी०। ऋतोश्च यथा चान्द्रमासात्मकता तथर्त्तुशब्दे १४३७ पृ० दर्शिता। सौरत्वं तु ज्योतिर्शणनामात्रोपयोगित्वेन ज्योतिषे व्यवह्रियते तदपि तत्रैव शब्देदर्शितम्। सुश्रुतोक्तग्रीष्मगुणादिकं ऋतुशव्दे दतितम्। ग्रीष्मे सूर्य्यकिरणस्य तीव्रत्वे कारणम् सू० सि० उक्तं यथा “मेषादौ देवभागस्थे देवानां याति दर्शनम्। असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः” सू०। “जम्बुद्वीपलवणससुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्समसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्तमार्गे भ्रमति मेपस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरतः, मकरादिस्थानं विषुवद्वृत्ताच्चतुर्विशत्यंशान्तरे दक्षिणतः, तत् स्वस्थाने प्रवहवायुना भ्रमति। एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुना भ्रमन्ति। तत्र मेषादौ देवभागस्थः “जम्बुद्वीपं च देवानां देवासुरविभागकृदिति” पूर्वोक्तेः। तत्सम्बद्धा मेषादिकन्यान्ता राशय उत्तरगोलः। तत्रस्थः सूर्यो मेषादौ मेषादिपदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासागन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्बृत्तस्य तत्क्षितिजत्वात्। एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामित्यसुराणामित्युक्तेनैवोक्तम्। तद्भागसञ्चरो दैत्यभागे समुद्रादिदक्षिणविभागस्थस्तुलादिमीनान्ता राशयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशः सूर्यस्तुलादिप्रदेशे तुकराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपि विषुवद्वृत्तक्षितिजत्वात्। अथ प्रसङ्गाद्ग्रीष्मे तीव्रकरः इत्याद्यर्घोक्तप्रश्नस्योत्तरमाह” रङ्गना०। “अत्यासन्नतया तेन ग्रोष्मे तीव्रकरा रवेः। देवभागेऽसुराणां तु हेसन्ते मन्दताऽन्यथा” सू० सि०। “तेन–उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसञ्चाररूपकारणेनेत्यर्थः। देवभागे जम्बुद्वीपे अत्यासन्नतया सूर्य्यस्यात्यन्तनिकष्टस्यत्वेन ग्रीष्मे ग्रीष्मर्तौ सूर्यस्य तेजोगोलकस्य किरणास्तीक्ष्णा अन्युष्णाः, असुराणां देवभाग इत्यस्यासन्नतया भाग इत्यस्य समन्वयाद्दैत्यानां भागे समुद्रादिदक्षिणपदेशे हेमन्ते हेमन्तर्तौ तुकारात् अन्यथा सूर्यस्य दूरस्यत्वेन मन्दता किरणानामत्युष्णताभावः। देवभागे हेमन्तर्तौ कराणां मन्दता। अतएव तत्र शीताधिक्यं च। तथाच देवभागे दक्षिणगोले सूर्यस्य दूरस्थत्वमुत्तरभोले निकटस्थत्वं मध्याह्ने नतांशानां क्रमेणाधिकाल्पत्वादिति भावः” र० ना०। २ तत्कालभवे ऊष्मणि पु० ३ तद्वति त्रि० मेदि०

ग्रीष्मजा = स्त्री ग्रीष्मे जायते जन–ड। (लोणा आता) १ लवल्याम् २ नवमल्ल्याञ्च शब्दच०। ३ ग्रीष्मजातमात्रे त्रि०

ग्रीष्मधान्य = न० ग्रीष्मे जातं तत्कालभवं धान्यम्। धान्यभेदे (वोरो) “ग्रीष्मधान्यजननोऽत्र राक्षसः” वृ० स० ८ अ०। वर्षभेदफलोक्तौ

ग्रीष्मपुष्पी = स्त्री ग्रीष्मे पुष्पं यस्याः ङीप्। करुणपुष्पवृक्षे। राजनि०।

ग्रीष्मभवा = स्त्री ग्रीष्मे भवति भू–अच्। १ नवमल्लिकायाम् रत्नमाला। २ ग्रीष्मजातमात्रे त्रि०।

ग्रीष्मसुन्दर = पु० ७ त०। (गिमः) शाकभेदे। राजनि०। स्वार्थे क तत्रार्थे।

ग्रीष्महास = न० ग्रीष्मे हासोविकाशोऽस्य। इन्द्रतूले। (वुडिरसुता) तस्य वियति ग्रीष्मे उड्डीयमानत्वात् इन्द्रतूलतुल्यत्वात्तथात्वम्।

ग्रीष्मी = स्त्री ग्रीष्मः कालः कारणत्वेनास्त्यस्य अच् गौरा० ङीष्। नवमल्लिकायां राजनि०।

ग्रीष्मोद्भवा = स्त्री ग्रीष्मे काले उद्भवति उद + भू–अच्। १ नवमल्लिकायां राजनि० २ ग्रीष्मजातमात्रे त्रि०।

ग्रुच = चौर्य्ये गतौ च भ्वा० पर० सक० सेट्। ग्रोचति इरित् अग्रुचत् अग्रोचीत्। जुग्रोच। उदित् ग्रुचित्वाग्रक्त्वा। क्त्वो वेट्क्त्वात् निष्ठायां नेट् ग्रुक्तः।

ग्रैव = त्रि० ग्रीवायां भवः शरीरावयवत्वात् यति प्राप्ते “ग्रीवाभ्योऽण् च” पा० अण्। ग्रीवाभवे “नास्रसत् करिणां ग्रैवं त्रिपदीच्छेदिनामपि” रघुः।

ग्रैवेय = त्रि० ग्रीवायां भवः “ग्रीवाभ्योऽण च” पा० चात् ढञ्। ग्रीवाभवे “सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषाम्” रघुः।

ग्रैवेयक = न० ग्रीवायां बद्धः अलङ्कारः “कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु” पा० ढकञ्। ग्रीवाबद्धे अलङ्कारभेदे (कण्ठी) “अस्माकं सखि! वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलम्” सा० द०।

ग्रैव्य = त्रि० ग्रीवायां भवः वेदे ष्यञ्। ग्रीवाभवे। “सप्तचयाः सप्ततिः संयन्ति ग्रैव्या अभि” अथ० ६। २५। २।

ग्रैष्मी = स्त्री ग्रीष्मे ऋतौ भवः पक्षे ॠत्वण् ङीप्। १ नवमल्लिकायाम् त्रिका० २ ग्रीष्मर्षुसम्बन्धिनि त्रि० ग्रीष्म ऊष्मा तस्येदम् उत्सा० अण्। ३ ऊष्मसम्बन्धिनि त्रि० उभयतः स्त्रियां ङीप्।

ग्रैष्मक = त्रि० ग्रीष्मे ऋतौ भवः “ग्रीष्मवसन्ताभ्यामन्यतरस्यास” पा० पक्षे बुञ्। ग्रीष्मर्त्तुभवे “ग्रैष्मकधान्यं कुरुते समर्थमुभयोपयोग्यञ्च” वृ० स० ४ अ० “कुरुते पुष्णाति च ग्रैष्मकम्” ९ अ०। उभयत्र ग्रैष्मिकमित्यपपाठः भवार्थे ठञोऽविधानात् तदधीते वेदेत्यधिकारे एव वसन्ता० ठञो विधानात् भवार्थे वुञोविधानाच्च।

ग्रैष्मिक = त्रि० ग्रीष्मधर्म्मं वेद तत्प्रतिपादकग्रन्थमधीते वा वसन्ता० ठञ्। १ ग्रीष्मधर्म्मवेत्तरि २ तद्ग्रन्थाध्यायिनि च

ग्लपन = न० ग्लै–णिच् पुक् ह्रस्वः भावे ल्युट्। १ ग्लानि करणे “तद्वैशद्यलाघवग्लपनरूक्षणविचारणकरम्” सुश्रुतः। कर्त्तरि ल्यु। २ ग्लानिकारके त्रि०।

ग्लस = भक्षणे भ्वा० आत्म० सक० सेट्। ग्लसते अग्लसिष्ट। जग्लसे। उदित् ग्लसित्वा–ग्लस्त्वा। ग्लस्तः।

ग्लस्त = त्रि० ग्लस–क्त क्त्वोवेट्कत्वात् नेट्। भक्षिते अमरः

ग्लह = आदाने वा चुरा० उभ० पक्षे भ्वा० सक० वेट्। ग्लाह यति ते ग्लहति अजिग्लिहत् त अग्लहीत् अघ्लाक्षीत्। णिचोऽभावे घ्लाढा। घ्लाटः इत्यादि आदानं च द्यूतक्रीडार्थं पणादानम्। “तदेषां ग्लहमानानां ध्रुवौ जयपराजयौ” भा० क ८७ अ०। “दुर्य्योधनो ग्लहते पाण्डवेन” भा० व० ६१ अ० “शकुने! हन्त दिव्यामोग्लहमानाः परस्परम्” भा० स० ५९ अ०। सर्व्वत्र आर्षम् आत्मनेपदम्। “इमाञ्चेत् पूर्व्वं कितवोऽग्लहीष्यत्” भा० स० ६९ अ०।

ग्लह = पु० ग्रह–ग्लह–वा अक्षेषु ग्लहः” पा० कर्मणि नि०। देवनविषये पणरूपे ग्राह्ये वस्तुनि(हुड)(वाजि)ख्याते पदार्थे “व्यात्युक्षीमभिसरणग्लहामदीव्यन्” माघः। “अक्षग्लहः सोऽभिभवेत् परं नः” भा० स० ५८ अ०। “महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ!” ७४ अ० सभिकस्य द्यूतविषये ग्लहविभागभेदः याज्ञ० दर्शितो यथा “ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकम् शतम्। गृह्णीयात् धूर्त्तकितवादितरात् दशकं शतम्”।

ग्लान = त्रि० ग्लै–कर्त्तरि क्त। १ रोगादिना क्षीणदेहादौ दीने अमरः। भावे क्त। २ दैन्ये न०

ग्लानि = स्त्री ग्लै–भावे नि। १ दौर्बल्ये २ स्वकार्य्याक्षमतायाम् हेम०। “स्वकर्मभ्योनिवर्त्तन्ते मनश्च ग्लानिमृच्छति” मनुः “रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा। ग्लानिर्निष्प्राणता कम्पकार्श्यानुत्साहतादिकृत्” सा० द० उक्ते ३ व्यभिचारिगुणभेदे यथा “किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः। ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीपत्रगर्भम्” सा० द०।

ग्लाव = पु० दल्भमित्रयोरपत्ये द्व्यामुष्मायणे ऋषिभेदे। “अथातः शौब उद्गीथ स्तद्ध वकोदाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज” छा० उप०।

ग्लाविन् = त्रि० ग्लै बा० विनि। अहृष्टे “पश्चादोषाय ग्लाविनम्” यजु० ३०। १७। “ग्लाविनमहृष्टम्” वेददी०।

ग्लास्नु = त्रि० ग्लै–स्नु। ग्लानियुक्ते अमरः। “वसन् माल्यवति ग्लास्नूरामोजिष्णुरघृष्णुवत्” भट्टिः।

ग्लुच = चौर्य्ये गतौ च भ्वा० पर० सक० सेट्। ग्लोचति इरित् अग्लुचत्–अग्लोचीत्। जुग्लोच उदित् क्त्वा वेट्। ग्लुचित्वा ग्लुक्त्वा क्त्वो वेट्कत्वात् ग्लुक्तः। “बहूनामग्लुचत् प्राणानग्लोचीच्च रणे यशः” भट्टिः।

ग्लुचुक = पु० ऋषिभेदे तस्य गोत्रापत्यम् “प्राचामवृद्धात् फिन् बहुलम्” पा० फिन्। ग्लुचुकायनि तद्गोत्रापत्ये पुंस्त्री० स्त्रियां वा ङीप्। ग्लुचुकयनिर्भक्तिः सेव्योऽस्य “गोत्रक्षत्रियाभ्यो बहुलम्” पा० वुञ्। ग्लौचुकायनक तत्सेवके त्रि०।

ग्लुन्च = चौर्य्ये गतौ च भ्वा० पर० सक० सेट्। ग्लुञ्चति इरित् अग्लुचत् अग्लुञ्चीत् जुग्लुञ्च। जुग्लुच(ञ्च) तुः। उदित् ग्लुञ्चित्वा ग्लुक्त्वा। क्त्वो वेट्टकात् ग्लुक्तः।

ग्लेप = दैन्ये अक० गतौ चाले च सक० भ्रा० आ० सेट्। ग्लेपते अग्लेपिष्ट जिग्लेपे ऋदित् अजिग्लेपत् त।

ग्लेव = सेवने भ्वा० आ० सक० सेट्। ग्लेवते अग्लेविष्ट। जिग्लेवे ऋदित् अजिग्लेवत् त।

ग्लेष = अन्वेषणे भ्वा० आ० सक० सेट्। ग्लेषते अग्लेमिष्ट जिग्लेषे। ऋदित्। अजिग्लेषत्।

ग्लै = क्लमे हर्षक्षये च भ्वा० पर० अक० अनिट्। ग्लायति आग्लासीत्। जग्लौ जग्लिथ–जग्लाथ। ग्लानिः ग्लास्नुः। ग्लानः। ग्लेयम्। णिचि ग्लपयति ते अजिग्लपत् त। ग्लानिशब्दे उदा०। “मनो ग्लपयते तीव्रम् विषं गन्धेन सर्वशः” भा० आनु० ४६९४ श्ली०। “ग्लपयति यथा शशाङ्कम् न तथा हि कुमुद्वतीं दिवसः” शकु०। “पतङ्गैर्ग्लपितावयम्” भट्टिः। “बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः” कुमा०। “यत्त्वं वैराणि कोषञ्च सहदण्डमजिग्लपः” भट्टिः।

ग्लौ = पु० “ग्लानुभ्यां डौः” उणा० ग्लै–डौ। १ चन्द्रे तस्य प्रतिमासं कृष्णपक्षे हीयमानत्वात्तथात्वम् तन्नामनामके २ कर्पूरे च अमरः। “लग्नेट् कविर्ग्लौश्च रिपौ मृतौ ग्लौर्लग्नेट् सुराराश्च मदे च सर्व्वे” मूहु० चि०। ३ हृदयनाभ्याञ्च “ग्लौभिर्गुल्मान् हिराभि स्रवन्तीः” यजु० २५। ८। “ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः” वेददी०। इति वाचस्पत्ये गकारादि शब्दार्थनिरूपणम्।

***