ग्रहचिन्तक = पु० ग्रहान् शुभाशुभदायकतया चिन्तयति चिन्ति–ण्वुल् ६ त०। दैवज्ञे सांवत्सरिके। “वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाद् ग्रहचिन्तकेन” वृ० स० २४ अ०।

ग्रहण = न० ग्रह–भावे ल्युष्ट्। १ स्वीकारे २ ज्ञाने। ३ आदरे ४ उपरागे चन्द्रसूर्य्ययोः राहुणा ग्रसने करणे ल्युट्। ५ करे मेदि०। ६ इन्द्रिये राजनि०। ७ शब्दे जटा०। तत्र करस्य ग्रहणसाधनत्वात् इन्द्रियाण्यां शब्दस्य च ज्ञानसाधनत्वात् तथात्वम्। उपरागस्य यथा राहुकृतत्वं तथा उपरागशब्दे १३११ पृ० उक्तम्।

“चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते” संवत्सर प्रदीपः। तत्रातुरस्यापि स्नानमाह “आदित्यकिरणैः पूतं पुनः पूतञ्च वह्निना। जलं, व्याध्यातुरः स्नायात् ग्रहणेऽयुष्णवारिणा” व्यासः। तत्र सर्वजलस्य गाङ्गतुल्यतामाह व्यासः “सर्वं भूमिसमं दानं सर्वे व्याससमा द्विजाः। सर्वं गङ्गासमं तोयं ग्रहणे नात्र संशयः”। तत्र श्राद्धस्यावश्यकतामाह शाता०। “सर्वस्वेनापि कर्त्तव्यं श्राद्धं वै राहुदर्शने। अकुर्वाणस्तु तत् श्राद्धं पङ्के गौरिव सीदति”। तत्रामान्नेन श्राद्धमाह प्रचेताः “आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा। आम- श्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि”। आमश्राद्धेऽपि विशेषो योगिनीतन्त्रे “निरग्नेरामश्राद्धे तु अन्नं न क्षालयेत् क्वचित्। वृद्धौ तु क्षालयेदन्नं संक्रमे ग्रहणेषु च”। ग्रहणश्राद्धादिकं मलमासेऽपि कार्यं यथाह कालमा० स्मृतिः “चन्द्रसूर्य्यग्रहे स्नानं श्राद्धदानजपादिकम्। कार्य्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा”। तत्र दीक्षायां नैव कालादिशुद्ध्यपेक्षा “सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः। मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन् न शोधयेत्” सारसंग्रहः। तत्र वारभेदे गुणाधिक्यम् “चन्द्रग्रहश्चन्द्रवारे रवौ सूर्य्यग्रहस्तथा। चूडामणिरयं योगस्तत्रानन्तफलं स्मृतम्। अन्यस्माद्ग्रहणात् कोटिगुणमत्र फलं लभेत्” गरु० पु०। अत्र पुरश्चरणप्रकारः “अथ वान्यप्रकारेण पुरश्चरणमिष्यते। ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः। नद्यां समुद्रगामिण्यां नाभिमात्रोदके स्थितः। यद्वा पुण्योदके स्नात्वा शुचिः पूर्वसुपोषितः। ग्रहणादि विमोक्षान्तं जपेन्मन्त्रं समाहितः। अनन्तरं दशाशन क्रमाद्धोमादिकं चरेत्। तदन्ते महतीं पूजां कुर्य्याद्ब्राह्मणतर्पणम्। ततो मन्त्रप्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत्। एवञ्च मन्त्रसिद्धिः स्याद्देवता च प्रसीदति”। ति० त० पुरश्चरणच०। तत्र स्नानस्यावश्यकतामाह वृहद्वसिष्ठः “संक्रमे ग्रहणे चैव न स्नायाद्यस्तु मानवः। सप्तजन्मसु कुष्ठी स्याद्दुःखभागी च सर्वदा” अत्राशौचेऽपि साङ्गस्नानमात्रं कार्य्यं यथाह स्मृतिः। “सूतके मृतके चैव न दोषो राहुदर्शने। स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्जितम्”। अत्र क्षताशौचं नास्ति यथोक्तम् “चन्द्रसूर्य्यग्रहे चैव मृतानां पिण्डकर्मणि। महातीर्थे तु संप्राप्ते क्षतदोषोन विद्यते” भविष्यपु०। तत्र ज्ञाने “भार्य्यात्वसंपादकं ग्रहणं विवाहः” उद्वा० त० रघु०। “स्वतएव सतां परार्थता ग्रहणानां हि यथा यथार्थता” नैष०। आदाने “पाणिग्रहणिकाः मन्त्रा नियतं दारलक्षणम्” उ० त० स्मृतिः। “आचारधूमग्रहणात् वभूव” रघुः “स बाहुशतमुद्यम्य सर्व्वास्त्र ग्रहणं रणे” हरिवं० ४९ अ० अर्थवद्ग्रहणेनानर्थकस्य” “अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तावधि प्रयोजयन्ति” व्या० परिमाषा।

ग्रहणक = न० गृह्यतेऽनेन ग्रह–करणे ल्यट् ततः स्वर्थे क। ग्राहके शास्त्रे। “हकरादीनामपि ग्रहणकशास्त्रवलात् अच्त्वं स्यात्” सि० कौ०। शब्देन्द शेखरे तु ग्रहणर्केत्यत्र ग्राहकेति पाठः।

ग्रह(णि)णी = स्त्री गृह्णाति रोगिणोदेहम् ग्रह–अनि वा ङीप्। १ पित्तधराख्ये कलाभेदे २ तदाश्रिते रोगभेदे ग्रवाहिकायां च तद्रोगस्थाननिदानाद्युक्तं सुश्रुते यथा

“दुष्यति ग्रहणी जन्तोरग्निसादनहतुभिः। अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः। भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत्। तस्मात्कार्य्यः परीहारस्त्वतीसारे विरिक्तवत्। यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा। षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता। पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता। ग्रहण्यां बलमग्निर्हि स चापि ग्रहणीश्रितः। तस्मात्संदूषिते वह्नौ ग्रहणी सम्प्रदुष्यति। एकशः सर्वशश्चैव दोषैरत्यर्थमूर्च्छितैः। सा दुष्टा बहुशोभुक्तमाममेव विमुञ्चति। पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम्। ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः। तस्योत्पत्तौ विदाहान्नसदनालस्यतृट्क्लमाः। बलक्षयोऽरुचिः कासः कर्णक्ष्वेडान्त्रकूजनम्। अथ जाते भवेज्जन्तुः शूनपादकरः कृशः। पर्व्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहबान्। उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम्। प्रसेकमुखवैरस्यतमकारुचिपीडितः। वाताच्छूनाधिकैः पायुहृत्पार्श्वोदरमस्तकैः। पित्तात्सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः। दोषवर्ण्णनखैस्तद्वद्विण्मूत्रनयनाननैः। हृत्पाण्डूदरगुल्मा र्शःप्लीहाशङ्की च मानवः”। “नानाविधद्रव्यचौरो जायते ग्रहणीयुतः” शाता०। तस्याः कर्मभेदविपाकतोक्ता। तस्या महारोगत्वमदाह्यशब्दे उक्तम् “वृद्धस्य ग्रहणीरोगो नागृहीत्वा निवर्त्तते” वैद्य०।

ग्रहणीहर = न० ग्रहणीं हरति हृ–अच्। १ लवङ्गे शब्दच० २ ग्रहणीहारके औषधादौ त्रि०।

ग्रहदक्षिणा = पु० ग्रहाणां ग्रहोद्देशेन देया दक्षिणा। ग्रहाद्देशेन ग्रहयज्ञे देयधेन्वादिदक्षिणायाम् ग्रहयज्ञशब्दे विवृतिः।

ग्रहदान = पु० ६ त०। ग्रहोद्देशेन तदशुभशान्त्यै दानम्। ग्रहाशुभनिवारणार्थं देवे द्रव्यभेदे गोचरशब्दे ग्रहगोचरशब्दे ग्रहविप्रशब्दे च तद्विवृतिः।

ग्रहदृष्टि = स्त्री। ६ त०। ग्रहाणां स्वस्थानापेक्षया स्थानभेदषु दर्शनभेदे सा च वृहज्जातके तट्टीकायां चोक्ता यथा “त्रिदशत्रिकोणचतुरखसप्तमान्यवलोकयन्ति चरणामि- वृद्धितः। रविजामरेज्यरुधिराः परे च ये क्रमशो भवन्ति किल वीक्षणेऽधिकाः” वृहज्जा०। “यस्मिन स्थाने खेटाः स्थितास्तस्मात्त्रदशादीनि स्थानानि चरणाभिवृद्धितः पादवृद्ध्यावलोकयन्ति खेटो यस्मिन् राशौ व्यवस्थितः तस्माद्यस्तृतीयग खेटो दशमगतश्च तौ तृतीयदशमराशी च पादेन चतुभागदृष्ट्यावलोकयति एवं त्रिकोणस्थौ नवपञ्चमस्थानगतावर्द्धदृष्ट्या, चतुरस्रेऽष्टमचतुर्थे अष्टमचतुर्थस्थानस्थौ पादहीनदृष्ट्या सप्तमगे खेटं परिपूर्णदृष्ट्या। चरणाभिवृद्धित इत्यत्राभिशब्दो वीप्सां द्योतयति चरणचरणवृद्ध्या पादपादवृद्ध्येत्यर्थः। यावत्पाददृष्ट्या पश्यन्ति तावत् फलं प्रयच्छन्ति तथा च स्वल्पजातवे “दशमतृतीये नवमपञ्चमे चतुर्थाष्टमे कलत्रं च। पश्यन्ति पादवृद्ध्या फलानि चैवं प्रयच्छन्ति”। अर्थादेव खेटा उक्तस्थानानि पश्यन्तीति तथा च साराबल्याम् “सव्यं पश्यति सदा खगाश्चरणवृद्धितः सर्वे। त्रिदशत्रिकोणचतुरस्रसप्तमगतान् फलं क्रमेणैव। पूर्णं पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः। चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलत्रं च”। तथा यवनेश्वरः” द्वौ पश्चिमौ ११। १२। षष्ठमथ द्वितीयं संस्थानराशेः परिहृत्य राशिम्। शेषान् खगः पश्यति सर्वकालमिष्टेषु चैषां विहिता दृगिष्टा। जामित्रभे दृष्टिफलं समस्तें स्वपादहीनं चतुरस्रयोश्च। त्रिकोणयोर्दृष्टिफलार्द्धमाहुर्दुश्चिक्युसंज्ञे दशमे च पादम्”। रविजामरेज्यरुधिरा इति। किलेत्यागमसूचन चरणाभिवृद्धित इत्यनुवर्त्तते एते रविजादयश्चरणाभिवृद्धितः पादोपचयाद्वीक्षणे दर्शने क्रमशोऽधिकफलप्रदा भवन्ति रविजः सौरिः स दर्शने पादफलप्रदः, अमरेज्यो वृहस्पतिरर्द्धफलप्रदः रुधिरोऽङ्गारकः स पादहीनफलप्रदः। अपरेऽर्कचन्द्रबुधशुक्रास्ते वीक्षणे समस्तफलप्रदाः। एतन्नैसर्गिकं ग्रहाणां दृष्टिफलम्। स्थानवशादेतेषां यथास्वं दृष्टिफलमूह्यम् एवमेके व्याचक्षते। अपरे तु आहुः स्थानफलमेतत् तेन त्रिदशादिस्थानगतान् ग्रहराशीन् पश्यन्तो रविजादयो दर्शनेऽधिकफलप्रदा भवन्ति तद्यथा तृतीयदशमस्थान् ग्रहान्० राशीन् वा शनैश्चरः पश्यन्नन्येभ्यो राहेभ्योऽधिकफलप्रदो भवति परिपूर्णं पश्यतीत्यर्थः। एवं त्रिकोणस्थान् जीवः, चतुरस्रगान् भौमः, सप्तमस्थान् परे सूर्यचन्द्रबुधशुक्राः। एतच्च बहुतराचार्याणां मतम। तथा च भगवास गर्गः “दुश्चिक्य ३ दशमान् सौरिस्त्रिकोणस्थान् वृहस्पतिः। चतुर्थाष्टमगान् भौमः शेषाः सप्तमसंस्थितान्। भवन्ति वीक्षणे नित्यमुक्ताधिकफलाः खगाः”। भट्टो० वराहमते राहोर्ग्रहत्वाभावेन न तस्य दृष्टिस्तेनोक्ता। ज्यो० त० अन्यखेटदृष्टिः तद्दृष्टिश्चोक्तायथा “दशमे च तृतीये च पाददृष्टिरुदाहृता। अर्द्धदृष्टिश्र नवमे पञ्चमे पारकीर्त्तिता। चतुर्थे त्वष्टमे चैव पादोना परिकीर्त्तिता। सप्तमे परिपूर्णा च फलमेवं प्रकल्प्यते। तृतीयदशमावार्किः पश्यन पूर्णफलप्रदः। त्रिकोणगान् गुरुश्चैव चतुर्थाष्टमगान् कुजः। सुतमदननवान्त्ये पूर्णदृष्टिः ६० सुरारेर्युगलदशमराशौ दृष्टिपादत्रयार्हः ४५। सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः ३० स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः”।

सर्वकर्मोपयोगिनैसर्गिकग्रहदृष्टिचक्रम्। स्थान र च म वु वृ शु श रा १० ० ० ० ० ० ० ० ० ३ ० ० ० ० ० ० ० ४५ ३ १५ १५ १५ १५ १५ १५ ६० ३० ४ ४५ ४५ ६० ४५ ४५ ४५ ४५ ३० ५ ३० ३० ३० ३० ६० ३० ३० ६० ६ ० ० ० ० ० ० ० ३० ७ ६० ६० ६० ६० ६० ६० ६० ६० ८ ४५ ४५ ६० ४५ ४५ ४५ ४५ ३० ९ २० ३० ३० ३० ६० ३० ३० ६० १० १५ १५ १५ १५ १५ १५ ६० ४५ ११ ० ० ० ० ० ० ० ० १२ ० ० ० ० ० ० ० ६० तात्कालिकदृष्टिस्तु द्रष्टृदृश्यग्रहयोर्द्रष्टृखेटराश्योर्वा अनुपदं वक्तव्यताजतोक्तवत कल्पनीया इयांस्तु विशषः तत्र एकादिशेषे ये ध्रुवा उक्ता अत्र न तथा किन्तु दर्शितचक्रानुसारेण खगभेदे ध्रुवाः कल्पनीया इति। नैसर्गिकतात्कालिकमित्रादिकं तु अरिशब्दे ३३५ पृ० उक्तम्। तदनुसारेण मित्रादिदृष्टिरुह्या नीलकण्ठताजके तु वर्षप्रवेशफलोपयोगिनी अन्यविधैव दृष्टिरुक्ता यथा “दृष्टिः स्यान्नवपञ्चमे बलवती प्रत्यक्षतः स्नेहदा पादोना ४५ऽखिलकार्यसाधनकरी मेलापकाख्योच्यते। गुप्तस्नेहकरी तृतीयभवभे कार्यस्य संसिद्धिदात्र्यंशोना ४० कथिता त्रतीयभवने षड्भाग १० दृष्टिर्भवे ११ दृष्टिः पादमिता १५ चतुर्थदशमे गुप्तारिभावा स्मृताऽन्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैराऽखिला ६०। दृष्टं दृक्त्रितयं क्षुताह्वयमिदं कार्यस्य विध्वंसनं संग्रामादिकलिप्रदं दृश इमा~ स्युर्द्वादशांशान्तरे। वर्षप्रवेशोपयोगिग्रहदृष्टिचक्रम्। स्थान र च मं बु वृ शु श १ ६० ६० ६० ६० ६० ६० ६० प्रत्यक्षवैरा २ ० ० ० ० ० ० ० ३ ४० ४० ४० ४० ४० ४० ४० गुप्तस्नेहा ४ १५ १५ १५ १५ १५ १५ १५ गुप्तारिः ५ ४५ ४५ ४५ ४५ ४५ ४५ ४५ प्रत्यक्षमित्रा ६ ० ० ० ० ० ० ० ० ७ ६० ६० ६० ६० ६० ६० ६० प्रत्यक्षवैरा ८ ० ० ० ० ० ० ० ० ९ ४५ ४५ ४५ ४५ ४५ ४५ ४५ प्रत्यक्षस्नेहा १० १५ १५ १५ १५ १५ १५ १५ गुप्तारिः ११ १० १० १० १० १० १० १० गुप्तमित्रा १२ ० ० ० ० ० ० ० तात्कालिकस्फुट दृष्टिस्तु “अपास्य पश्यं निजदृश्यखेटादेकादिशेषे ध्रुवलिप्तिकाः स्युः। शून्यं स्ववेदास्तिथयोऽक्षवेदाःखं षष्टिरभ्रं शरवेदसंख्या। तिथ्यभ्रचन्द्रावियदभ्रतर्काः शेषांशयातैष्यविशेषघातात्। लब्धैः खराभैरधिकोगतैष्ये स्वर्णं ध्रुवैताः स्फुटदृष्टिलिप्ताः” नी० ता० उक्तया दिशा आनेया।

ग्रहदेवता = स्त्री ६ त०। सूर्य्यादिग्रहाणामधिष्ठातृरुद्रादिदेवभेदे सा च ग्रहयज्ञशब्दे दृश्या ग्रहाधिदेवतादयोऽप्यत्र।

ग्रहधूप = पु० ग्रहाणां ग्रहोद्देशेन धूपः। ग्रहयज्ञशब्दे वक्ष्यमाणे गुग्गुलुप्रभृतौ धूपे।

ग्रहनायक = पु० ६ त० १ सूर्ये ३ अर्कवृक्षे २ शनौ च शब्दरत्ना०

ग्रहनाश = पु० ग्रहं मलबन्धं नाशयति नश–णिचण् उप० स०। शाकवृक्षे (छातियान्) शब्दर०।

ग्रहनाशन = पु० ग्रहं मलबन्धं नाशयति नश–णिच्–ल्यु शाकवृक्षे रत्नमा०।

ग्रहनेमि = पु० ग्रहाणां ग्रहकक्षाणां नेमिरिव। चन्द्रे शब्दच० तस्य च ग्रहकक्षाधःस्थितत्वेन नेमितुल्यत्वात् तथात्वम्।

ग्रहपति = पु० ६ त०। १ सूर्य्ये २ अर्कवृक्षे अमरः। ३ चन्द्रे च। “तस्य विस्तीर्य्यते राज्यं ज्योत्स्नाः ग्रहपतेरिव” भा० शा० १६८ अ०।

ग्रहपुष = पु० ग्रहं पुष्णाति स्वकरैः पुष–क। सूर्य्ये हेम० तस्य च तथात्वं खगोलशब्दे पृ० दृश्यम्।

ग्रहप्रत्यधिदैवत = न० ६ त०। ग्रहाणां देवतानां देवतासु अग्न्यादिषु ग्रहयज्ञशब्दे २४३५ पृ० दृश्यम्।

ग्रहबल = न० ६ त०। ग्रहाणां बलभेदे तानि च वृहज्जातके तद्व्याख्याने भट्टोत्पलेन चोक्तानि यथा

“स्वोच्चसुहृत्स्वत्रिकोणनवांशैः स्थानबलं स्वगृहोपगते च। दिक्षु वुधाङ्गिरसौ रविभौमौ सूर्यसुतः सितशीतकरौ च। उदगयने रविशीतमयूखौ वक्रसमागमगाः परिशेषाः। विपुलकरा युधि चोत्तरसंस्थाश्चेष्टित वीर्ययुताः परिकल्प्याः। निशिशशिकुजसौराः सर्वदा ज्ञोऽह्रि चान्ये बहुलसितगताः स्युः क्रूरसौम्याः क्रमेण। द्व्ययनदिवसहोरामासपैः कालवीर्यं शकुबुगुशुचराद्यावृद्धितो वीर्यवन्तः” वृहज्जा०। “अत्र ग्रहाणां चतुर्विधं स्थानदिक्चेष्टाकालाख्यं बलम्। तत्र तावत् स्थानदिग्बलं दोधकेनाह “स्वोच्चसुहृदिति स्वग्रहणं प्रत्येकमभिसंबध्यते तत्र स्वोच्चे स्थितो गृहो बलवान् भवति, तात्कालिकस्य सुहृदो मित्रस्य क्षेत्रे स्थितो बलबानेव स्वत्रिकोणे आत्मीयमूलत्रिकोणे स्थितः, स्वनवांशे स्थितः, स्वगृहे स्वराशाबुपगतः प्राप्तो बलवानेव, एतेषामन्यतमे व्यवस्थितो ग्रहः स्थानबलयुक्तो भवति। तत्रार्कस्य सिंहः स्वत्रिकोणम् तदेव गृहं क्षेत्रम्। चन्द्रस्य दृष उच्चः स एव त्रिकोणम्, भौमस्य मेषः त्रिकोणम् तदैव स्वक्षेत्र, बुधस्य कन्या उच्चः सैव मूल त्रिकोणं स्वक्षेनं च। गुरोः धन्वी त्रिकोणं, तदेव स्वक्षेत्रम् सौरेः कुम्भस्त्रिकोणम् तदेव स्वक्षेत्रम्। शुक्रस्य तला त्रिकीणं तदेवं स्वक्षेत्रम् एतेषामाचार्य्येण विशेपोनोक्तः अस्मामिरन्यहोर शास्त्रादानीर्य शिष्यहितायेह लिख्यते तथा च साराबल्याम् “विशतिरंशाः सिंहे त्रिकोणमपरे स्वभवनमर्कस्य। उच्चं भागत्रितयं वृप इन्दोः स्यात्त्रिकोणमपरेऽंशाः। द्वादशभागा मेषे त्रिकोस्पमपरे स्वभन्तु भौमस्य। उच्चफलं कन्यायां बुधस्य तङ्गांशकैः सदा चिन्त्यम्। परतस्त्रिकोणजातः पञ्चभिरंशैः स्वराशिजं परतः। दशभागा जीवस्य त्रिकोणफलं स्वभं परं चापे। शुक्रस्य तु तिथयोऽंशास्त्रिकोणमपरे घटे स्वराशिश्च। कुम्भे त्रिकोणजनिते रविजस्य रवेर्यथा सिहे” एतदार्य्याचतुष्टयम्। दिक्षु बुधाङ्गिरसावित्यादि। प्राच्याद्यातु चतसृषु दिक्षुक्रमाद्बु धादयो वलिनो भवन्ति तत्र पूर्बस्यां बुधाङ्गिरसौ ज्ञजीवौ बलिनौ भवतः लग्नस्थावित्यर्थः दक्षिणस्यां रविभौमौ सूर्याङ्गारकौ दशमस्थावित्यर्थः पश्चिमायां सूर्य्यसुतः शनिः सप्तमस्थ इत्यर्थः। उत्तरस्यां सितशीतकरौ शुक्रचन्द्रौ चतुर्थस्थावित्यर्थः। यो ग्रहो यत्र बली स तस्मात्सप्तमस्था नस्थो विबलो भवति मध्येऽनुपात ऊह्य इति सर्वत्रेयं परिभाषा ग्रहाणामुच्चनीचप्रविभागे राशीनां दिग्बल प्रविभागेऽपि, तथा च यवनेश्वरः “गुर्वैन्दवौ पूर्वविल ग्नसंस्थौ नभस्तलस्थौ च दिवाकरारौ। सौरोऽस्तगः शुक्रनिशाकरौ तु तुर्य्ये स्थितौ तौ सवलौ भवेतामिति”। अन्यबले ग्रहाणाम् अन्तरेऽनुपात एव युक्तः। एतत्ग्रहाणां दिग्बलमुच्यते। अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादिराशिषट्कमुत्तरमयनं कर्कटादिराशिषट्कं दक्षिणमयनमिति उदगयने उत्तरायणे रविशीतमयूखौ सूर्यचन्द्रमसौ बलिनौ भवतः। परिशेषाः भौमबुधगुरुसितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथा समागमगाश्चन्द्रेण सहिताः वलिन एव चन्द्रेण संयोगो ग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयो भौमादीनां परस्परं युद्धम् उक्तञ्चाचार्य्यविष्णुचन्द्रेण “दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम्। कुसुतादीनां युद्धम् निगद्यतेऽ न्योन्ययुक्तानामिति” विपुलकरा इति विपुलाः करा येषां ते विपुलकराः विस्तीर्णरश्मयो वलिनो भवन्ति शीघ्रकेन्द्रे द्वितीयतृतीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः सम्भवति वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिन एव कुसुतादीनां युद्धमित्युक्तम्। तत्र यः उत्तरदिग्भागसंस्थितो जयी स च बलवान् उत्तरसंस्थत्वमत्रोपलक्षणार्थम्। यस्तेजस्वी स एव बलवान् तत्रैतज्जयलक्षणम् “दक्षिणदिक्स्थः परुषो बेपथुरप्राप्य सन्निकृष्टतनुः। अधिरूढो विकृतोनिःप्रभो विवर्णश्च यः। स जितः उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्दिष्टः। विपुलः स्निग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जय उक्तः” इति एतच्छुक्रंस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः “सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः” इति। एतच्चेष्टाबलम् एषामन्यतमेन संयुक्तश्चेष्टावलसंयुक्तो भवति। अधुना ग्रहाणां कालबलं नैसर्गिकबलं च मालिन्याह निशीति शशिकुजसौराश्चन्द्र भौमशनयः निशि रात्रौ वीर्य्यवन्तो बलिनः। ज्ञोबुधः सर्वदा सर्तस्मिन् काले निशि दिने च बली। अन्ये परे रविगुरुसिता अह्नि दिने बलिनः। क्रूराः पापाः प्रागुक्ताः बहुलपक्षे, कृष्णवक्षेऽपि कूरो बलबान् भवति यवनेश्वरः “मासे तु शुक्ले प्रतिपत्प्रवृत्ते पूर्वे शशीमध्यबलो दशाहे। श्रेष्ठो द्वितीयेऽल्पबलस्तृतीये सौम्यैस्तु दृष्टो बलवान् सदैवेति” सितगताः शुक्लपक्षे स्थिताः सौम्याः बलिनः। द्व्ययनेति द्वे अयने प्रमाणं यस्य द्व्ययनं तत्तु वर्षं स्ववर्षे आत्मीयवर्षे, यो ग्रहो यत्र वर्षेऽधिपतिः स तत्र बलवान् स्वदिवसे आत्मीयवासरे स्वहोरायां कालहोरायाम्। तथा स्वमासे यस्मिन् मासे योऽधिपतिः स तत्र बली द्व्ययनदिवसहोरामासानां ये अधिपतयस्तैर्ग्रहैः कालबलोपेतैरुपलक्षणीयम्। ते कालबलोपेता इत्यर्थः केचिद्द्व्ययनदिवसहोरामासपैरिति पठन्ति अन्ये स्वदिवससमहोरामासपैरिति पठन्ति य एषामपरः पाठः एतेषु कालेषु सर्वे एव बलिनो भवन्ति एतत् ग्रहाणां कालवीर्य्यम्। एतेषामन्यतमेन संयुक्तः कालबलसम्पन्नो भवति। शकुबुगुशुचराद्या इति शादयो वर्णाः आद्या येषाम् ते शकाराद्यः शनैश्चरः सर्वेभ्यो यलहीनः कुकाराद्यः कुजः भौमः शनैश्चराद्बलवान्। बुकाराद्यो बुधः स भौमाद्बलवान् गुकाराद्यो गुरुः सबुधाद्बली, शुकाराद्यः शुक्रः स जीवाद्बली चकाराद्यश्चन्द्रः स शुक्राद्बली रकाराद्यो रविः स चन्द्राद्बलीति। एतद्ग्रहाणां नैसर्गिकबलम्। यस्मादेवानेन स्वल्पजातके उक्तम् “मन्दारसौम्यवाक्पतिसितचन्द्रार्का यथोत्तरं बलिनः। नैसर्गिकबलमेतद्बलसाम्ये स्यादधिकचिन्तेति”। यदा ग्रहाणां ग्रहयोर्बा बलसाम्यं भवति तदा बलाधिक्यम् अधिकवीर्यवत्ता ज्ञयेति। अत्राचार्य्येण चतुःप्रकारस्य फल नोक्तं तच्चान्यशास्त्राल्लिख्यते तथा च साराबण्याम् “उच्चबलेन समेतः परां विभूतिं स्वगः प्रसाधयति। स्वत्रिकोणबलः पुंसां साचिव्यं बलपतित्वं वा। स्वर्क्षबलेन च सहितः प्रमुदितधनधान्यसंपदाक्रान्तम्। मित्रबलसंयुक्तो जनयति कीर्त्यान्वितं पुरुषम्। तेजस्विनमति सुखिनं सुस्थिरविभवं नृपाच्च लब्धधनम्। स्वनवांशकबलयुक्तः करोति पुरुषं प्रसिद्धं च”। सूक्ष्मजातकेचोक्तम् “बलबान्मित्रस्वग्र होच्च नवांशकेष्वीक्षितः शुभैश्चापि। चन्द्रसितौ स्त्रीक्षेत्रे पुरुषक्षेत्रोपगाः शेषाः” इति तत्र शुभवृष्ट्यादिफलं तावत् “शुभदर्शनबलसहितः पुरुषं कुर्याद्धनान्यितं ख्यातम। सुभगं प्रधानमखिलं सुरूपदेहं च सौम्यं च। पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुशलम्। पुरुषं प्रसन्नचित्तं कल्यं परलोकभीतञ्च” आशाबलसमवेतो नयति खदिशं नभश्चरः पुरुषम्। न त्या वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते। क्वचिद्राज्यं क्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः। ददाति विहगश्चित्रं चेष्टावीर्य्यसमन्वितः। वक्त्रिणस्तु महावीर्याः शुभा राज्यप्रदाःखगाः। पापा व्यसनदाः पुंसां कुर्वन्त च वृथाटनम्। स्वस्थं शरीरसमागमसुखमाहवजयबलेन विदधाति। शुभमतुलं विहगेन्द्रो राज्यं च विनिर्जितारातिम्। रात्रिदिवाबलपूर्णैर्मूगजलाभेन शौर्यपरिवृद्ध्या। मलिनयति शत्रुपक्षं भुञ्जति लक्ष्मीं नमश्चरैः पुरुषः। द्विगुणं द्विगुणं दद्युर्वर्षाधिपमासदिवसहोरेशाः। कुर्युर्वृद्ध्या सौख्यं स्वदशासु धनं च कीर्त्तिञ्च। पक्षबलाद्रिपुनाशं वराम्बरहस्तिसम्पदं दद्युः। स्त्रीकनकभूमिलाभं कीर्त्तिञ्च शशाङ्कधवलतराम्। सकलबलभारभरिता निर्मलकरजालभासुराः सततम्। राज्यं खगा विदध्युः सौख्यञ्च मनोरथातीतम्। आचारसौख्यशुभशौचयुताः सुरूपास्तेजस्विनः कृतविदो द्विजदेवभक्ताः। सद्वस्त्रमाल्यजनभूषणसंप्रियाश्च सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति। लुब्धाः कुकर्मनिरता निजकार्य्यनिष्ठाः पापान्विताः सकलहाश्च तमोऽभिभूताः। क्रूराः शठा बधरता मलिनाः कृतघ्नाः पापग्रहैर्बलयुतैः पिशुनाः कुरूपाः। पुंराशिषु ग्रहेन्द्रैर्वीराः संग्रामकाङ्क्षिणो बलिनः। निःस्नेहाः सुकठोराः क्रूरा मूर्खाश्च जायन्ते। युवतिभवनस्थितेषु च मृदवः संग्रामभीरवः पुरुषाः। जलकुसुमवस्त्रनिरताः सौम्याः कलहैः सुसंयुक्ताः इति” एतत्सर्वं सुगमम्” भट्टोत्पलः। ताजकोक्तखगवलं च पञ्चवर्गीशब्दे द्वादशद्वादशवर्गीशब्दे च वक्ष्यते।

ग्रहबलि = पु० चतुर्थ्यर्थे ६ त०। ग्रहयज्ञे वक्ष्यमाणे ग्रहोद्देशेन देये गुडोदनादौ द्रव्ये।

ग्रहभक्ति = स्त्री ६ त०। ग्रहाणां विभागरूपे देशपुरुषद्रव्यादि भेदे सा च वृ० स० १६ अ० उक्ता यथारवेः–“प्राङ्नर्मदार्धशोणोड्रवङ्गसुह्माः कलिङ्गवाह्लीकाः। शकयवनमगधशवरप्राग्ज्योतिषचीनकाम्बोजाः। मेकलकिराताटविका बहिरन्तःशैलजाः पुलिन्दाश्च। द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः। चम्पोदुम्बरकौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च। पुण्ड्रा गोलाङ्गूलश्रीपर्वतवर्द्धमानाश्च। इक्षुमतो त्वथ तस्करपारतकान्तारगोपबीजानाम्। तुषधान्यकटुकतरुकनकदहनविषसम- रशूराणाम्। भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम्। व्यालारण्ययशोयुततीक्ष्णानां भास्करः स्वामी”।विधोः–“गिरिसलिलदुर्गकोसलमरुकच्छसमुद्ररोमकतुषाराः। वनवासितङ्गणहलस्त्रोराज्यमहार्णवद्वीपाः। मधुरसकुसुमफलसलिललबणमणिशङ्खमौक्तिकाब्जानाम्। शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम्। सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम्। शृङ्गनिशाचरकर्षकयज्ञविदां चाधिपश्चन्द्रः”।कुजस्य–“शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्द्धस्थाः। निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा। मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः। उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः। द्रविडविदेहान्ध्राश्मकभासापुरकोङ्कणाः समं त्रिशिखाः। कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करजाः। नासिक्यगोवर्द्धनविराटविन्ध्याद्रिपार्श्वगा देशाः। ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम्। नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्त्तानाम्। आटबिकदुर्गकर्वटबधकनृशंसावलिप्तानाम्। नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातप्रशुपानाम्। रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम्। कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम्। शठदोर्घवैरबह्वाशिनां च वसुधासुतोऽधि पतिः”।बुधस्य–“लौहित्यः सिन्धुनदः सरयूर्गम्भीरिका रथाह्वा च। गङ्गाकोशिक्याद्याः सरितो वैदेहकाम्बोजाः। मथुरायाः पूर्वार्द्धं हिमवद्गोमन्तचित्रकूटस्थाः। सौराष्ट्र सेतुजलमार्गपपयबिलपर्वताश्रयिणः। उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः आलेख्यशब्दगणितप्रसाधकायुयशिल्पज्ञाः। चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः। दूतनपुंसकहास्यज्ञमूततन्त्रेन्द्रजालज्ञाः। आरक्षकनटनर्तकघृततैलस्नेहवीजतिक्तानि। व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य”गुरोः–“सिन्धनदपूर्बभागो मथुरापश्चार्द्धभरतसौवीराः। स्रुघ्णोदीचाविपाशासरिच्छतद्रूरमठसाल्वाः। त्रैगर्तपौरवाम्बष्ठपारतावाटधानयौधेयाः। सारस्वतार्जुनायनमत्स्यार्द्धग्रामराद्नाणि। हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौष्टिकासक्ताः। कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः पीरमहाधनशब्दार्थवेदविद्वदभिचारनीतिज्ञाः। मनु- जेश्वरोपकरणं छत्रध्वजचामराद्यं च। शैलेयकम सीतगरकुष्ठरससैन्धवानि वल्लीजम्। मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य”।भृगोः–“तक्षशिलामार्तिकावतबहुगिरिगान्धारपुष्कलावतकाः। प्रस्थलमालवकैकयदाशार्णोशीनराः शिवयः। ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च। रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः। सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः। वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभजः। उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः। विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रकलाः। कौशेयपट्टकम्बलपत्रौर्णिकरोध्रपत्रचोचानि। जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः”।शनेः–“आनर्त्तार्वुदपष्करसौराष्ट्राभीरशूद्ररैवतकाः। नष्टायस्मिन्देशे सरस्वती पश्चिमो देशः। कुरुभूमिजाः प्रभासं विदिशा वेदस्मृतीमहीतटजाः। खलमलिननीचतैलिकविहीनसत्त्वोपहतपुंस्त्वाः। बन्धनशाकुनिकाशुचिकैवर्त्तविरूपवृद्धसौकरिकाः। गणपूज्यस्खलितव्रतशवरपुलिन्दार्थपरिहीनाः। कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः। खरकरभचणकवातुलनिष्पावाश्चार्कपुत्रस्य”।राहोः–“गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः। गोमायुभक्षशूलिकवोक्काणा मुखविकलाङ्गाः। कुलपांसनहिंस्रकृतव्नचौरनिःसत्यशौचदानाश्च। खरचरनियुद्धवित्तीव्ररोषगर्भाशया नीचाः। उपहतदाम्भिकराक्षसनिद्रावहुलाश्च जन्तवः सर्वे। धर्मेण च सन्त्यक्ता माषतिलाश्चार्कशशिशत्रोः”।केतोः–“गिरिदुर्गपह्नवश्वेतहूणचोलावगाणमरुचीनाः। प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः। परदारविवादरताः पररन्ध्रकतूहला मदोत्सिक्ताः। मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः”। “उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः। स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः स भवति शिवस्तेषां येषां प्रभुः परिकीर्त्तितः। अभिहितविपरीतलक्षणैः क्षयमुपगच्छति तत्परिग्रहः। डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः। यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा। भवति जनपदस्य चाप्यदृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु”।

ग्रहभीतिजित् = पु० ग्रहभीतिं जयति जि–क्विप् ६ त०। (चिडानाम) गन्धद्रव्ये राजनि०।

ग्रहभोजन = न० ६ त०। ग्रहाणां देवे बलिरूपे गुडौदनादि द्रव्ये ग्रहयज्ञशब्दे विवृतिः।

ग्रहमण्डल = न० ६ त०। १ ग्रहसमूहे। ग्रहोद्देशेन पूजा मण्डलम्। तत्पूजार्थे अष्टपद्माकारे २ स्थानभेदे च ग्रहयज्ञशब्दे विवृतिः।

ग्रहमैत्र = न० ग्रहयोर्दम्पतिचन्द्राधिष्ठितराशिपयोर्मैत्रम्। विवाहे विचारणीये दम्पतिराशिपग्रहयोर्मैत्रे। उपयमशब्दे विवृतिः।

ग्रहयज्ञ = पु० ग्रहाणां तदुद्देशेन यज्ञः। शान्तिपृष्ठ्याद्यर्थं ग्रहोद्देशेन क्रियमाणे यज्ञभेदे तदारम्भकालादिकम् संस्का० त० उक्तं यथा दीपिकायाम् “शुभग्रहार्कवारेषु मृदुक्षिप्रध्रुवेषु च। शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम्”। मृदुगणः चित्रानुराधामृगशिरोरेवत्यः। क्षिप्रगणोलघुगणः पुष्याश्विहस्ताः। ध्रुवगणोरोहिण्युत्तरात्रयम्। “गोचरे बा विलग्ने वा ये ग्रहारिष्टसूचकाः। पूजयेत्तान् प्रयत्रेन पूजिताः स्युः शुभावहाः” गोचरे स्वराश्यपेक्षया यदा कदापि। विलग्ने जन्मलग्ने सूचका न तु रिष्टका रकाः। तेन दुष्टग्रहसूचनीयदोषोपशमनं फलम्। मत्स्यपुराणे “उत्सवानन्दसन्तानयज्ञोद्वाहादिमङ्गले। मातरः प्रथमं पूज्याः पितरस्तदनन्तरम्। ततो मातामहाद्याश्च विश्वेदेवास्तथैव च”। नान्दीमुखे वारादिदोषोनास्ति। “नान्दीमुखे पितृश्राद्धे संक्रान्त्यां ग्रहणद्वये”। अत्र शूद्रस्याप्यधिकारः “स्मार्त्तं शूद्रः समाचरेदिति” वचनात् अस्य स्मार्घत्वेन प्रतिनिधिनाप्यारम्भः कर्त्तव्यः “श्रौतं कर्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत्। अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः” इति शातातपीयात्। अन्तत उपक्रमात् परतः। तत्प्रकारः मत्स्य पु० ९२ अ० उक्तो यथा “श्रीकामः शान्तिकामोवा ग्रहयज्ञं समारभेत्। वृद्ध्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः। येन व्रह्मन्। विधानेन तन्मे निगदतः शृणु। सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम्। ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिनोदिताम्। पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्। ग्रहान् ग्रहादिदेवांश्च स्थाप्य होमं समारभेत्। ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः। प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम्। तृतीयः कोटिहामस्तु सर्वकामफलप्रदः। अयुतेनाहुतीनाञ्च नवग्रहमखः स्मृतः। तस्य तापद्विधिं वक्ष्ये पुराणश्रुति भाषितम्।ग्रहवेदिः–“गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम्। वप्रद्वयावृतां वेदि” वितस्त्युच्छ्रयसम्मिताम्। संस्थापनाय देवानाञ्चतुरस्रामुदङमुखाम्। अग्निप्रणयनं कृत्वा तस्यामावाहयेत् सुरान्। देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ३२। सूर्थः सोमस्तथा भौमो बुधजीवसितार्कजाः। राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः”।भण्डलेस्थानम्–“मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु। उत्तरेण गुरुं विद्याद्बुधं पूर्वोत्तरेण तु। पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके। पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे। पश्चिमोत्तरतः केतु” स्थापयेच्छुक्लतण्डुलैः”।अधिदेवता–“भास्करस्येश्वरं पिद्यादुमाञ्च शशिनस्तथा। स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम्। व्रह्माणञ्च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम्। शनैश्चरस्य तु यमं राहोः कालं तथैव च। केतार्वै चित्रगुप्तञ्च सर्वेषामनिदेवताः”।प्रत्यधिदेवता–“अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री च देवताः। प्रजापतिश्च सर्पाश्च व्रह्मा प्रत्यधिदेवताः”।पञ्चलोकपालाः–“विनायकं तथा दुर्गां वायुमाकाशमेव च। आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ”।ग्रहवर्णः–“संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम्। सोमशुक्रौ तथा श्वेतौ बुधजीवौ च पिङ्गलौ (पीतौ)। मन्दरांहू तथा कृष्णौ धूम्रं(चित्रम्)केतुगणं विदुः”।

ग्रहवर्णानि देयानि वासांसि कुसुमानि च। धूपामोदोऽत्र सुरभिरुपरिष्टाद्वितानकम्। शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम्।ग्रहबलिः–गुडीदनं रवेर्दद्यात्सोमाय घृतपायसम्। अङ्गारकाय संयावं बुधाय क्षीरषष्टिकम्। दध्योदनञ्च जीवाय, शुक्राय च घृतौदनम्। शनैश्चराय कृसरमाजमांसञ्च राहवे। चित्रौदनञ्च केतुभ्यः सर्वैर्भक्ष्यैरथार्चयेत्”। “प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम्। चूतपल्लवसंछन्नं फलवस्त्रयुगान्वितम्। पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम्। स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत्। गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च। गजाश्वरथ्यावल्माकसङ्गमाद्ध्रदगोकुलात्। मृदमानीय विप्रेन्द्र! सैवोषधिजलान्वितम्। स्नानार्थं विन्वसेत्तत्र यजमानस्य धर्म्म वित्। सर्वे समुद्राः सरितः सरांसि च नदास्तथा। आयान्तु यजमानस्य दुरितक्षयकारकाः। एवमावाहयेदेतानमरान् मुनिसत्तम!। होमं समारभेत् सर्पिर्यवव्रीहितिलादिना”।ग्रहसमित्–“अर्कः पलाशखदिरावपामार्गोऽथ पिप्पलः। औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्”।

एकैकस्याष्टकशतभष्टाविंशतिरेव वा। होतव्या मधुसर्पिभ्यां दध्ना चैव समन्विताः। प्रादेशमात्रा सशिखाः सबल्काः सुपलाशिनीः। समिधः कल्पयेत् प्राज्ञः सर्वकर्म्मसु सर्वदा। देवानामपि सर्वेषामुपांशु परमार्थवित्। स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक्। होतव्यं च घृताभ्यक्तं चरुभक्ष्यादिकं पुनः। मन्त्रैर्दशाहुतीर्हुत्वा हीमं(अयुतम्)व्याहृतिभिस्ततः। उदङ्मखाः प्राङ्मुखा वा कुर्युर्व्राह्मणपुङ्गवाः। मन्त्रवन्तश्च कर्त्तव्याश्चरवः प्रतिदैवतम्। हुत्वा च तांश्चरून् सम्यक् ततो होमं समाचरेत्”।ग्रहादिमन्त्राः–“आ कृष्णेनेति सूर्य्याय होमः कार्यो द्विजन्मना। आप्यायस्वेति सोमाय मन्त्रेण जुहुयात् पुनः। अग्निर्मूर्द्धा दिवो मन्त्र इति भौमाय कीर्तयेत्। अग्ने! विवस्वदुषस इति सोमसुताय वै। वृहस्पते! परिदीया रथेवेति गुरोर्मतः। शुक्रन्ते अन्यदिति च शुक्रस्यापि निगद्यते। शनैश्चरायेति पुनः शन्नो देवीति होमयेत्। कया नश्चित्र आभुव इति राहोरुदाहृतः। केतुं कृण्वन्नपि ब्रूयात् केतूनामपि शान्तये”।अधिदेवतामन्त्राः–“आ वो राजेति रुद्रस्य बलिहोमं समाचरेत्। आपोहिष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा। विष्णोरिदं विष्णु रिति तमीशेति स्वयम्भुवः। इन्द्रमिद्देवतातये इन्द्राय जुहुयात्ततः। तथा यमस्य चायं मौरिति होमः प्रकीर्त्तितः। कालस्य ब्रह्मजज्ञानमिति मन्त्रः प्रशस्यते। चित्रगुप्तस्य चाज्ञातमिति मन्त्रविदो विदुः”।प्रत्यधिदेवतामन्त्राः–“अग्निं दूतं वृणीमह इति वह्नेरुदा हृतः। उदुत्तमं वरुणमित्यपां मन्त्रः प्रकीर्तितः। भूमेः पृथिव्यन्तरिक्षमिति वेदेषु पठ्यते। सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः। इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते। उत्तानपर्णे सुभगे इति देव्याः समाचरेत्। प्रजापतेः पुनर्होमः प्रजापते इति स्मृतः। नमोऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते। एष ब्रह्मा य ऋत्विज इति ब्रह्मपयुदाहृतः”।लोकपालंमन्त्राः–“विनायकस्य चातू न इति मन्त्रो बुधैः स्मृतः। जातवेदसे सुनवामेति दुर्गामन्त्र उच्यते। आदित्प्रत्नस्य रेतस आकाशस्य उदाहृतः। प्रा(क्रा)णाशिशुर्महीनाञ्च वायोर्मन्त्रः प्रकीर्त्तितः। एषो उषा अपूर्व्येति अश्विनोर्मन्त्र उच्यते”।

पूर्णाहुतिश्च मूर्द्धानं दिव इत्यभिपातयेत्। “अथाभिषेकमन्त्रेण वाद्यमङ्गुलगीतकैः। पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम्। अव्यङ्गावयवैर्ब्रह्मन्! हेमस्रग्दामभूषितैः। यजमानस्य कर्त्तव्यं चतुर्भिः स्नपनं द्विजैः।अभिषेकमन्त्रः–“सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः। वासुदेवो जगन्नाथस्तथा सङ्कर्षणा विभुः। प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते। आखण्डलोऽग्निर्भगवान् यमो वै निरृति स्तथा। वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः। व्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते। कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः। बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः। एतास्त्वामभिषिञ्चन्तु धर्म्मपत्न्यः समागताः। आदित्यश्चन्द्रमा भौमो बुवजीवौ सितोऽर्कजः। ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः। देवदानवगन्धर्वा यक्षराक्षसपन्नगाः। ऋषयोमुनयो गावो देवमातर एव च। देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः। अस्त्राणि सर्वशस्त्राणिं राजानो वाहनानि च। औषधानि च रत्नानि कालस्यावयवाश्च ये। सरितः सागराः शैलास्तीर्थानि जलदा नदाः। एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये”। ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः। सर्वौषधैः सर्बगन्धैः स्नापितो द्विजपुङ्गवैः। यजमानः सपत्नीकः ऋत्विजः सुसमाहितान्। दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः”।ग्रहदक्षिणाः–“सूर्य्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे। रक्तं धुरन्धरं दद्याद्भौमाय च ककुद्मिनम्। बुधाय जातरूपन्तु गुरवे पीतवाससी। श्वेताश्वन्दैत्यगुरवे कृष्णाङ्गामर्कसूनवे। आयसं राहवे दद्यात् केतुभ्यश्छागमुत्तमम्। सुवर्णेन समा कार्य्या यजमानेन दक्षिणा। सर्वेषामथ वा गावो दातव्या हेमभूषिताः। सुवर्णमथ वा दद्याद्गुरुर्वा येन तुष्यति। स्वमन्त्रेणैव दातव्याः सर्वाः सर्वत्र दक्षिणाः”।द्रव्यदानमन्त्राः तत्र कपिलायाः–“कपिले! सर्वभूतानां पूजनीयासि रोहिणी!। सर्वदेवमयी यस्मादतः शान्तिं प्रयच्छ मे”।शङ्खस्य–“पुण्यस्त्वं शङ्ख! पुण्यानां मङ्गलानाञ्च मङ्गलम्। विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे।वृषस्य–“धर्म्मस्त्वं वृषरूपेण जगदानन्दकारक!। अष्टमूर्त्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे”।हेम्नः–“हिरण्यगर्भगर्भस्त्वं हेम! वीजं विभावसोः। अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे”।पीतवस्त्रस्य–“पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम्। पदानात्तस्य मे विष्णो! ह्यतः शान्तिं प्रयच्छ मे”।अश्वस्य–“विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः। चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे”।धेनोः–“यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा। सर्वर्पापहरा नित्यमतः शान्तिं प्रयच्छ मे”।अयसः–“यस्मादायसकर्म्माणि तवाधीनानि सर्वदा। लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छमे”।छागस्य–“यस्मात्त्वं सर्वयज्ञानामङ्गत्वेन व्यवस्थितः। यानं विभोवसोर्नित्यमतः शान्तिं प्रयच्छ मे”।गोः–गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश। यस्मात्तस्माच्छ्रिये मे स्यादिह लोके परत्र च”।शय्यायाः–“यस्मादशून्यं शयनं केशवस्य च सर्वदा। शय्या ममाप्यशून्याऽस्तु दत्ता जन्मनि जन्मनि”।रत्नानाम्–“यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः। तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः”।भूमेः–“यथा भूमिप्रदानस्य कलान्नार्हन्ति षोडशीम्। दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह”।

“एवं संपूजयेद्भक्त्या वित्तशाठ्येन वर्जितः। रत्नकाञ्चनवस्त्रोघैर्धूपमाल्यानुलेपनैः। अनेन विधिना यस्तु ग्रहपूजां समाचरेत्। सर्वान् कामानवाप्नोति प्रेत्य स्वर्गे महीयते। यस्तु पीडाकरो नित्यमल्पवित्तस्य वा ग्रहः। तञ्च यत्नेन संपूज्य शेषानप्यर्चयेद् बुधः। ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः। पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः। यथा वाणप्रहाराणां कवचं वारणं भवेत्। तद्वद्दैवोपघातानां शान्तिर्भवति वारणम्। तस्मान्न दक्षिणाहीनं कर्त्तव्यं भूतिमिच्छता। संपूर्णया दक्षिणया यस्माद्देवोऽपि तुष्यति। सदैवायुतहोमोऽयं नवग्रहमखे स्थितः। विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्म्मसु। निर्विन्घार्थं मुनिश्रेष्ठ! तथोद्वेगाद्भुतेषु च। कथितोऽयुतहोमोऽयं लक्षहोममतः शृणु”।लक्षहोमः–“सर्वकामाप्तये यखाल्लक्षहोमं विदुर्बुधाः। पितॄणां बल्लभं साक्षाद्भुक्तिमुक्तिफलप्रदम्। ग्रहताराबलं दृष्ट्वा कृत्वा ब्राह्मणवाचनम्”।मण्डपः–“गृहस्योत्तरपूर्वेण मण्डपं कारयेद् बुधः। रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम्। दशहस्तमथाष्टौ वा हस्तान्। कुर्य्याद्विधानतः। प्रागुदक्प्लवनाम्भूमिं कारयेद् यत्नतो बुधः। प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु। शोभनं कारयेत् कुण्डं यथावल्लक्षणान्वितम्। चतुरस्रं समन्तात् सयोनिवक्त्रं समखलम्। चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता। प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता। शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः। मानहीनाधिकं कुण्डमनेकभयदायकम्। यस्मात्तस्मात् सुसम्पूर्णं शान्तिकुण्डं विधीयते। विस्तरभयात् कोटिहोमोनोक्तः तत्रैवाध्यायशेषे दृश्यः। अत्र याज्ञवल्क्येन ग्रहाणां मन्त्रान्तरमुक्तं यथा “आ कृष्णेन, इमन्देवा, अग्निर्मूर्द्धा दिबः ककुत्। उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्त्तिताः। वृहस्पतेः अतिदर्य, स्तथैवान्नात्परिस्रुतः। शन्नोदेवीस्तथा, काण्डात्केतुङ्कृण्वन्निमास्तथा”। विधानपा० विष्णुधर्म्योत्तरवाक्यादन्ये मन्त्रा उक्ताः हेमाद्रिशान्तिकाण्डे विधानमालादौ चापरे मन्त्रा उक्ता एवं विप्रतिपत्तौ शाखिभेदाद्व्यवस्था। शाखिभेदान्मन्त्रभेदाश्च मत्कृततुलादानादिपद्धतौ दृश्याः। तत्प्रतीकानि च विवरणपत्रे वक्तव्यानि तानि च तत्र दृश्यानि क्वचित् मत्स्यपुराणवाक्यान्मन्त्रभेदस्तु शाखिभेदात् व्यवस्थाप्यः।

तत्र ग्रहयज्ञे ग्रहाणां पूजनाय स्फटिकादिमूर्त्तिकरणं तदभावे पटेःलेखनं तदभावे मण्डले वर्त्तुलाद्याकारलेखनं वा कृत्वा पूजादिकं कार्यं यथाह याज्ञ० १ अ०

“सूर्यः सोमो महीपुत्रः सोमपुत्रो वृहस्पतिः। शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः” याज्ञ०। “एते सूर्य्यादयो नव ग्रहाः पूज्या इत्युक्तं किं कृत्येत्याह” मिता० “ताम्रकात् स्फाटिकाद्रक्तचन्दनात् स्वर्णकादुभौ। रजतादयसः सीसात्कांस्यात् कार्या ग्रहाः क्रमात्। स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा” याज्ञ०। “सूर्य्यादीनां मूर्त्तयस्ताम्रादिभिर्यथाक्रमङ्कार्यास्तदलाभे स्ववर्णकैः पटे लेख्या मण्डलेषु वा गन्धैरक्तचन्दनादिभिर्यथावर्णं लेख्या इत्यन्वयः। द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्यः तद्यथा “पद्मासनः पद्मकरः पद्मगर्भ समद्युतिः। सप्ताश्वरथसंस्थोऽपि द्विभुजः स्यात् सदा रविः। श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः। गदापाणिर्द्विवाहुश्च कर्त्तव्यो वरदः शशी। रक्तमाल्पाम्बरधरः शक्तिशूलगदाधरः। चतुर्भुजो मेषगमो वरदः स्याद्धरासुतः। पीतमाल्याम्बरधरः कर्णि कारसमद्युतिः। खड्गचर्मगदापाणिः सिंहस्थोवरदो वुधः। देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ। दण्डिनौ वरदौ कार्य्यौ साक्षसूत्रकमण्डलू। इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः। वाणवाणासनधरः कर्त्तव्योऽर्कसुतः सदा। करालवदनः खड्गचर्मशूली वरप्रदः। नीलः सिंहासनस्थश्च राहुरत्र प्रशस्यते। धूम्रा द्विवाहवः सर्वे गदिनो विकृताननाः। गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः। सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः। स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदेति”।

“यथावर्ण्णं प्रदेयानि वासांसि कुसुमानि च। गन्धाश्च बलयश्चैव धूपोदेयश्च गुग्गुलुः। कर्त्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम्” याज्ञ०। “यथावर्णं यस्य ग्रहस्य योवर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि” मिता०। मण्डले ग्रहलेखनाकारस्तु “वर्त्तुलो भास्करः कार्योह्यर्द्धचन्द्रो निशाकरः। अङ्गारकस्त्रिकोणस्तु बुधश्चापाकृतिस्तथा। पद्माकृतिः गुरुः कार्यश्चतुःकोणस्तु भार्गवः। सर्पाकृतिः शनिः कार्यो राहुस्तु मकराकृतिः। खङ्गाकृतिस्तथा केतुः कार्य्यो मण्डलपूजने” शान्तिदीपिकोक्तः।ग्रहध्यानं मत्स्यपुराणोक्तमपि ग्रहयागतत्त्वीक्तं मण्डले मानभेदगोत्रजन्मभूम्याद्यनुगुणं ध्यानं प्रदर्शयते।सूर्य्यस्य “क्षत्रियं काश्यपं रक्तं कालिङ्गं द्वादशाङ्गुलम्। पद्महस्तद्वयं पूर्वाननं सप्ताश्ववाहनम्। शिवाधिदैवतं सूर्यं वह्निप्रत्यधिदैवतम्”।सोमस्य “सामुद्रं वैश्यमात्रेयं हस्तगात्रं सिताम्बरम्। श्वेतं द्विवाहुं वरदं दक्षिणं सयदेतरम्। दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम्। जलप्रत्यधिदैवञ्च सूर्यास्यमाह्वयेत् तथा”।मङ्गलस्य “आवन्त्यं क्षत्रियं रक्तं मेषस्थं चतुरङ्गुलम्। आरक्तमाल्यवसनं भारद्वाजं चतुर्भुजम्। दक्षिणोर्द्धक्रमाच्छक्तिवराभयगदाकरम्। आदित्याभिमुखं देवं तद्वदेव समाह्वयेत्। स्कन्दाधिदैवतं ध्यायेत् क्षितिप्रत्यधिदैवतम्”।बुधस्य “मागधं द्व्यङ्गुलात्रेयं वैश्यं पीतं चतुर्भुजम्। वामोर्द्धक्रमतश्चर्मगदावरदखङ्गिनम्। सूर्यास्यं सिंहगं सौम्यं पीतवस्त्रं तथाह्वयेत्। नारायणाधिदैवञ्च विष्णु प्रत्यधिदैवतम्”।वृहस्पतेः “द्विजमाङ्गिरसं पीतं सैन्धवञ्च षडङ्गुलम्। ध्यात्वा पीताम्बरं जीवं सुपद्मस्थं चतुर्भुजम्। दक्षोर्द्धादक्षवरदकरकादण्डमाह्वयेत्। ब्रह्माधिदैवं सूर्य्यास्यमिन्द्रपत्यधिदैवतम्”।शुक्रस्य “शुक्रं मोजकटं विप्रं भार्गवञ्च नवाङ्गुलम्। पद्मस्थमाह्वयेत् सूर्यमुखं श्वेत्रं चतुर्भुजम्। सदाक्षवरकरकादण्डहस्तं सिताम्बरम्। शक्राधिदैवतं ध्यायेत् शचीप्रत्यधिदैवतम्”।शनेः “सौराष्ट्रं काश्यपं शूद्रं सूर्यास्यं चतुरङ्गुलम्! कृष्ण कृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम्। तद्वद्वाण वरशूलधनुर्हस्तं समाह्वयेत्। यमाधिदैवतं प्रजाप्रति प्रत्यधिदैवतम्”।राहोः “राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम्। कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत्। चतुर्बाहुं खङ्गवरशूलचर्मकरन्तथा। कालाधिदैवं सूर्यास्यं सर्पप्रत्यधिदैवतम्”।केतूनाम् “कौशद्वीपं केतुगणं जैमिनीयं षडङ्गुलम्। धूम्रं गृध्रगतं शूद्रमाह्वयेद्विकृताननम्। सूर्यास्यं धूम्रवसन वरदं गदिनं तथा। चित्रगुप्ताधिदैवञ्च ब्रह्मप्रत्यधिदैवतम्”। अत्र चन्द्रस्य सामुद्रत्वं राहोर्मलयजत्वं केतोः कौशद्वीपत्वमुक्तं पुराणान्तरानुसारेण वक्ष्यमाणजन्मभूम्यादिबोधकवचनेन विरोधभिया विकल्प आश्रयणीयः स चाचारभेदात् “व्यवस्थित इति वोध्यम्। एवं वाहनेऽपि विकल्पः। मत्कृततुलादानादिपद्धतौ एतेषां मध्ये केषाञ्चिदन्यवाहनत्वस्य दर्शितत्वात्”। अधिदेवादीनां ध्यानमुक्तं विष्णुधर्मोत्तरे।शिवस्य “पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनः। कपालशूलखट्टाङ्गी चन्द्रमौलिः सदाशिवः”।उमायाः “अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम्। उमा बिभर्त्ति हस्तेषु पूजिता त्रिदशैरपि”।स्कन्दस्य “कुमारः षण्मुखः कार्य्यः शिखण्डकविभूषणः। रम्यरक्ताम्बरोदेवो मयूरवरवाहनः। कुक्कुटश्च तथा घण्टां तस्य दक्षिणहस्तयोः। पताका वैजयन्त्याख्या शक्तिः कार्य्या च वामयोः”।विष्णोः “विष्णुः कौमोदकीपद्मशङ्खचक्रधरः क्रमात्। प्रदक्षिणं दक्षिणाधःकरादारभ्य नित्यशः”।ब्रह्मणः “पद्मासनस्थो जटिलो ब्रह्मा कार्य्यश्चतुर्भुजः। अक्षमालां स्रुवं विभ्रत् पुस्तकं च कमण्डलुम्। वासः कृष्णाजिनं तस्य पार्श्वे हंसस्तथैव च”।शक्रस्य “चतुर्दन्तगजारूढो वज्री कुलिशभृत्करः। शचीपतिः प्रकर्त्तव्यो नानाभरणभूषितः”।यमस्य “ईशन्नीलोयमः कार्य्योदण्डहस्तोविजानता। रक्त दृक् पाशहस्तश्च महामहिषवाहनः”।कालस्य “कालः करालवदनो नीलाङ्गश्च विभीषणः। पाशहस्तोदण्डहस्तः कार्य्यो वृश्चिकरोमवान्”।चित्रगुप्तस्य “अपीच्यवेशः स्वाकारः द्विभुजः सौम्यदर्शनः। दक्षिणे लेखनीं चित्रगुप्तो वामेऽस्य पत्रकम्। पिङ्गलश्मश्रुकेशान्तः पीनाङ्गजठरोऽरुणः”। “पिङ्गाक्षत्रितयोऽरुणः” इति वा पाठः।प्रत्यधिदेवानां तत्राग्नेः “छागस्थः साक्षसूत्रोऽग्निः सप्तार्चिः शक्तिधारकः। चिह्नितं चमरेणास्य करमन्यं प्रकल्पयेत्”।जलस्य “आपः स्त्रीरूपधारिण्यः श्वेता मकरवाहनाः। दधानाः पाशकलसौ मुक्ताभरणभूषिताः”।क्षितैः “शुक्लवर्णा मही कार्या दिव्याभरणभूषिताः। चतुर्भुजा सौम्यवपुश्चण्डांशुसदृशाम्बरा। रत्नपात्रं सस्यपात्रं पात्रमौषधिसंयुतम्। पद्मं करे च कर्त्तव्यं भुवो यादवनन्दन!। दिग्गजानां चतुर्णां सा कार्य्या पृष्ठगता तथा”। विष्णोरिन्द्रस्य च लक्षणमुक्तम्।शच्याः “वामे शच्याः करे कार्य्या सौम्यसन्तानमञ्जरी। वरदा मण्डिता कार्य्या द्विभुजा च तथा शची”।प्रजापतेः “यज्ञोपवीती हंसस्थ एकवक्त्रश्चतुर्भुजः। अक्षं स्रुचं स्रुवं बिभ्रत् कुण्डिकाञ्च प्रजापतिः”। अक्षं अक्षमालाम्। कुण्डिकां कमण्डलुम्।सर्पाणाम् “अक्षसूत्रधराः सर्पाः कुण्डिकापुच्छभूषणाः। एकभोगास्त्रिभोगा वा सर्वे कार्य्याश्च भीषणाः”। ब्रह्मलक्षणं प्रागुक्तम्। अथ विनायकादिपञ्चलोकपाललक्षणानि विष्णुधर्मोत्तरंविनायकस्य “चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्र गजाननः। नागयज्ञोपवीतश्च शशाङ्ककृतशेस्यरः। दण्डं दक्षकरे दद्याद् द्वितीये चाक्षसूत्रकम्। तृतीये परशुं दद्याच्चतुर्थे मोदकं तथा”।दुर्गायाः “शक्तिं वाणं तथा शूलं खड्गं चक्रं च दक्षिणं। चन्द्रविम्बमधो वामे खेटमूर्द्ध्वे कपांलकम्। शुकं टङ्कं च बिभ्राणा सिंहारूढोरुदिग्भुजा। एषा देवी समुद्दिंष्टा दुर्गा दुर्गार्त्तिहारिणी”वायोः “धाबद्धरिणपृष्ठस्थो ध्वजधारी समीरणः। वरदानकरो धूभ्रवर्णः कार्यो विजानता”।आकाशस्य “नीलोत्पलाभं गगनं तद्बर्णाम्बरधारि च। चन्द्रार्कहस्तं कर्त्तव्यं द्विभुजं सौम्यखण्डवत्”।अश्विनोः “पीतपद्मसवर्णामौ पद्मपत्रसमाम्बरौ। द्विभुजौ देवभिषजौ कर्त्तव्यौ रूपसंयुतौ। तयोरोषधयः कार्य्या दिव्या दक्षिणहस्तयोः। वामयोः पुस्तके कार्य्ये दर्शनीया स्तथाद्विजाः (खगाः)। एकस्य दक्षिणे पार्श्वे वामे चान्यस्य यादव!। नारीयुगं प्रकर्त्तव्यं सुरूपं चारुदर्शनम्” ग्रहाणां वर्णगोत्रादिसूचकध्यानानि यागतत्त्वोक्तानि पूर्वदर्शितान्येव

विनायकादीनां मण्डले स्थापनस्थानमुक्तं रुद्रकल्पे विष्णुध० यथा “राहुमन्ददिनेशानामुत्तरस्यां यथाक्रमम्। गणेशदुर्गा वायुश्च, राहुकेत्वोश्च दक्षिणे। आकाशमश्विनौ चेति पञ्च तान् स्थापयेत् द्विजः”। धूपादौ विशेषः हेमाद्रौ स्क० पु० “रवेः कुन्दुरकं धूपं शशिनस्तु वृताक्षतम्। भौमे सर्जरसं चैव अगुरुञ्च बुधे तथा। सिन्धुजं गुरवे दद्यात् शुक्रे विल्वागुरु स्मृतम्। गुग्गुलुर्मन्दचारे तु लाक्षा राहोश्च केतवे”। कुन्दुरकं शल्वकीनिर्यासः विल्वागुरु विल्वफलनिर्याससहितमगुरु। गन्धभेदस्तत्रैव “दिवाकरकुजाभ्यां तु दापयेद्रक्तचन्दनम्। चन्द्रे गन्धं भार्गवे च सितचूर्णं प्रदापयेत्। कुङ्कुमेन च संयुक्तं चन्दनं जीवसौम्ययोः। अगुरु चापि कस्तूरी राहुकेत्वर्कजेषु च”। विधानमालादौ अन्यविधा गन्धधूपाः पुष्पभेदाश्चोक्तास्ते च विवरणपत्रे द्रष्टव्याः तत्र जीवस्य चतुःसमगन्ध उक्तः स च “कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य तु। कुङ्कुमस्य त्रयश्चैव शशिनश्च चतुःसमम्” इत्युक्तः गुरोर्दशाङ्गधूपस्तत्रोक्तः स च “हेमाद्रौ व्रतखण्डे” षडभागकुष्ठं द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्य भागाः हरीतकी सर्जरसः समांसी भागैकमेकं त्रिलवं शिलाजम्। घनस्य चत्वारि पुरस्य चैकोधूपोदशाङ्गःकथितो मुनीन्द्रैः” रत्नानि तु ग्रहशब्दे शारदा० ६ प० उक्तानि द्रष्टव्यानि। “अभावे सितपुष्पाणि चन्दनं च विलेपनम्। एतेषां गुग्गुलुर्धूपो नैवेद्यं घृतपायसम्”।ग्रहमण्डललेखनप्रकारः–उभयतो हस्तमिते ग्रहवेदिमध्यस्थले पूर्वपश्चिमाग्राश्चतस्रो दक्षिणोत्तराग्राश्च चतुस्रोरेखाः कुर्यात् तथा करणे अष्टाङ्गुलदीर्घविस्ताराणि समान्तरालानि नव खण्डानि सम्पद्यन्ते तत्र विवरणपत्रे वक्ष्यमाणमानकं सूर्य्यादीनां वर्त्तुलाद्याकारं कुर्यात्। स्वस्वमण्डले च स्व स्व स्थापनम् स्वस्ववामेऽधिदेवानां स्वस्वदक्षिणे प्रत्यधिदेवानां सूर्याभिमुखतया सर्वेषां स्थापनम् विनायकादिस्थापनञ्च प्रागक्त स्थानेष्विति विवेकः। होमे समिद्भेदलक्षणादिकं विधानपारि० स्कन्दपु० “प्रादेशमात्रा अर्कस्य समिधश्चार्कसम्भवाः। दधिमध्वाज्यसंयक्ताः प्रतिदेवञ्च होमयेत्। पालाशीश्चैव सीमाय। खादिरीर्लोहिताय च। आपामार्गीर्बुधायेति आश्वत्थीश्च वृहस्पतेः। औदुम्बरीश्च शुक्राय मन्दाय च शमीमयीः। दौर्वीराहोः कुशान् कोतोर्होममन्त्रास्ततः परम्”। समिल्लक्षणं चिन्तामणौ “समिधां लक्षणं वक्ष्ये संख्या तासां तथैव च। विशीर्णा विदला ह्रस्वा वक्राः सशुषिरा कृशाः। अतिस्थूलातिदीर्घाश्च समिधः कार्य्यनाशिकाः। विशीर्णाऽऽयुःक्षयकरी विदला पुत्रनाशिनी। शुषिरा व्याधिजननी कृशा च रिपुवर्द्धिनी। दीर्घा विदेशगमनी स्थूला चात्मविनाशिनी। अकृशा सुममाऽस्थूला सार्द्रा च सुपलाशिनी। प्रादेशान्नाधिका न्यूना समित् स्यात् सर्व्वकर्म्मणि”। अथार्कादीनां फलं होमसंख्या च तत्रैव दर्शितं यथा “अर्को नाशयति व्याधिं पलाशः सर्व्वकामदः। खदिरश्चार्थलाभाय अपामार्गः सुदर्शनः। अश्वत्थः सर्वकामाय भाग्यायौदुम्बरस्तथा। शमी शमयते पापं दूर्व्वाऽऽयुष्यविवर्द्धिनी। कुशान् धर्म्मार्थकामानां रक्षणं रक्षसां विदुः। अष्टो- त्तरन्तु साहस्रं शतमष्टाधिकं तु वा। अष्टाविंशतिमष्टौ वा एकैकस्य तु होमयेत्। देवानामपि सर्व्वेषामुपांशु परमार्थवित्। खेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक्। होतव्यं च घृताद्यक्तं चरुभक्तादिकं पुनः। मन्त्रैर्द्दशाहुतीर्द्दद्याद्धोमोव्याहृतिभिस्ततः” अयुतादिहोम प्रक्रमात् व्याहृतिभिरयुतादिहोमः। ग्रहाणां जन्मभूम्यादिज्ञानावश्यकतामाह स्कन्दपु० “जन्मभूर्गोत्रमग्निश्च वर्णस्थाने मुखानि च। योऽज्ञात्वा कुरुते शान्तिं ग्रहास्ते नावमानिताः” अतः शान्तिकाले तेषां जन्मभूम्यादिज्ञानमपेक्षितं तच्च विशेषणेन ध्याने दर्शितमपि प्रपञ्चार्थमिहोच्यते। तत्र रव्यादीनां जन्मभूम्यादयो यथा तत्रैवजन्मभूः–“उत्पन्नोऽर्कः कलिङ्गेषु यमुनायाञ्च चन्द्रमाः। अङ्गारकस्त्ववन्त्यां वै मगधेषु हिमांशुजः। सैन्धवेषु गुरुर्जातः शुक्रो भोजकटे तथा। शनैश्चरश्च सौराष्ट्रे राहुर्वर्वरके पुरे। अन्तर्व्वेद्यां तथा केतुरित्येता ग्रहभूमयः। यस्य यस्य च यद्गोत्रं तत्ते वक्ष्याम्यतः परम्”।ग्रहगोत्रम्–“आदित्यः काश्यपे गोत्रे आत्रेयश्चन्द्रमा भवेत्। भारद्वाजो भवेद्भौमस्तथात्रेयश्च सोमजः। शक्रपूज्योऽङ्गिरोगोत्रः शुक्रोवै भार्गवस्तथा। शनिः काश्यप एवायं राहुः पैठिनसिस्तथा। केतवो जैमिनीयाश्च ग्रहाग्निस्तदनन्तरम्”।ग्रहवह्निः–“आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते। धूमकेतुस्तथा भौमे जाठरोऽग्निर्बुधे स्मृतः। गुरौ चैव शिखी नाम शुक्रे भवति हाटकः। शनैश्चरे महातेजा राहुकेत्वोर्हुताशनः” इति। इत्थमेव होमकाले तत्तदग्निनाम कृत्वा जुहुयात्।

अथैषां वर्णः म च द्विधा विप्रादिजातिरूपभेदात् तत्र रूपे तत्रैव “भास्कराङ्गारकौ रक्तौ शुक्लौ शुक्रनिशाकरौ। सोमपुत्रो गुरुश्चैव ताबुभौ पीतकौ स्मृतौ। कृष्णः शनैश्चरस्तद्वत् राहुश्चित्राश्च केतवः”। विप्रादिवर्णस्तु। “ब्राह्मणौ शुक्रवागीशौ क्षत्रियौ भौमभास्करौ। चन्द्रो वैश्यो बुधः, शूद्रामन्दोराहुश्च केतवः”। स्थानं तत्रैव “मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे। दक्षिणे लोहितं विद्याद् बुधं पूर्व्वोत्तरेण तु। उत्तरे तु गुरुं विद्यात् पूर्ब्बतो भार्गवं न्यसेत्। पश्चिमेन शनिं विद्याद्राहुं दक्षिणपश्चिमे। पश्चिमोत्तरतः केतुः स्थाप्या वै शुक्लतण्डुलैः इति”। मुखं स्कान्दे “शुक्रार्कौ प्राङ्मुखौ ज्ञेयौ गुरुज्ञौ तावुदङ्मुखौ। प्रत्यङ्मुखः शनिः सोमः शेषा दक्षिणतोमुखाः”। अत्र प्राङ्मुखौ ऊर्द्ध्वदृष्टी, उदङ्मुखौ वामदृष्टी, प्रत्यङ् मुखोऽधोदृष्टिः, दक्षिणतोमुखा दक्षिणदृष्टय इति व्याख्येयम् “आदित्याभिमुखाः सर्व्वे इत्यनेन सर्व्वेषां सूर्य्याभिमुखत्वोक्तेः इति विधानपारिजातादयः। “वर्ण- रूपगुणेर्युक्तान् व्याहृत्यावाहयेत्तु तानिति” स्कान्दोक्तेरावाहनसमयेऽपि वर्णभूम्यादिकीर्त्तनपूर्ब्बकमावाहनं कार्य्यमेवमग्रेऽपि होमकाले तथास्मरणमिति बोध्यम् “चित्रान्नं च “अजाक्षीरेण संस्विन्ना यवाश्च तिलतण्डुलाः। अजाकर्णस्य रक्तन रक्ताश्चित्रान्नसंज्ञिताः” दीपिकोक्तम् प्रयोगो मत्कृततुलादानादिपद्धतौ दृश्यः।सूर्य्यादिग्रहाणां जन्मनूम्यादिसूचकविवरणपत्रम्। जन्मभूम्यादि सूर्प्यस्य चन्द्रस्य भौमस्य बुधस्य जीवस्य शुक्रस्य शनेः राहोः केतोः जन्मभूमिः कलिङ्गः यमुना अवन्तिः मगधः सैन्धवः भोजकटः सौराष्ट्रः वर्वरकः अन्तर्वेदी गोत्रम् कश्यपः अत्रिः भरद्वाजः अत्रिः अङ्गिराः भृगुः कश्यपः पैठिनसिः जैमिनिः अग्निः कपिलः पिङ्गलः धूमकेतुः जाठरः शिखी हाटः महातेजाः हुताशनः हुताशनः विप्रादिवर्णः क्षत्रियः वैश्यः क्षत्रियः वैश्यः विप्रः विप्रः शूद्रः शूद्रः शूद्रः रूपात्मकवर्णः रक्तः शुक्लः रक्तः पीतः पीतः शुक्लः कृष्णः कृष्णः चित्रम् मण्डलेस्थानम् मध्यम् पूर्बदक्षिणः दक्षिणः पूर्वोत्तरः उत्तरः पूर्वः पश्चिमः दक्षिणपश्चिमः पश्चिमात्तरः मुखम् (सर्वे सूर्याभिंमुखाः) ऊर्द्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः वामदृष्टिः वामदृष्टिः ऊर्द्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः दक्षिणदृष्टिः मण्डले आकारः वर्त्तुलः अर्द्धचन्द्रः त्रिकोणः चापः पद्मम् चतुष्कोणः सर्पः मकरः खङ्गः उभयताष्टाङ्गुल ४। व्या० ८ व्या० ४। व्या० २। ४ व्या० ३ व्या० ४ व्या० ६ व्या० नवकोष्ठेषु तन्मानम् १२ प० २४ प० १२ प० ६ प० १२ प० ९ प० १२ प० १२ प० १८ प० वाहनम् सप्ताश्वरथः दशाश्वरथः मेषः सिंहः हस्ती हयः गृध्रः सिंहः गृध्रः मूर्त्तिद्रव्यर ताम्रम् स्फटिकम् श्वेतचन्दनम् स्वर्णम् स्वर्णम् रजतम् लौहम् सीसम् कांस्यम् गन्धभेदोद्विधा रक्तच–न्दनम् श्वेतच–न्दनम् रक्तच–न्दनम् कुङ्कुमम् कुङ्कुमम् श्वेतच–न्दनम् कस्तूरी कस्तूरी कस्तूरी मतान्तरे तत् तत् तत् तत् चतुःसमम् तत् सा कुलागुरु सा पुष्पभेदाः करवीरम् कुमुदं जवा चम्पकम् पद्मम् जातिः मल्लिका कुन्दम् मल्लिका ध्पभेदाः गुग्गुलुः घृताक्तयक्षधूपः सर्जरसाः क्तसिह्लकम् पीतागुरु- सिह्लकम् दशा- ङ्गम् साज्यपि- ल्वागुरु पद्मकाष्ठम् यक्षधूपः मधुमिश्र- गुडत्वचमृ मतान्तरे कुन्दरकम् घृताक्षतम् सर्जरसः पीतागुरु सिन्धुजम् विल्वागुरु गुग्गुलुः लाक्षा लाक्षा फलम् द्राक्षा इक्षुः पूगम् नागरङ्गम् जम्बीरम् वीजपूरम् जातिफलम् नारिकेलम् दाडिमत् वस्त्रम् रक्तम् श्वेतम् रक्तम् प्रीतम् पीतम् श्वेतम् कृष्णम् कृष्णम् चित्रम् रत्नानि माणिक्यम् मुक्ता प्रबालम् गारुत्मतम् पुष्परागम् हीरकम् नीलकम् गोमेदकम् वैदूर्य्यम् बलिभेदाः गुडीदनः घृतपायसम् यावकम् क्षीरयष्टिकम् दध्योदनः घृतौदनः कृसरम् आजमांसम् चित्रान्नम् समिधः अर्कः पलाशः खदिरः अपामार्गः अश्वत्यः उडुम्बरः शमी दूर्वात्रयम् कुशत्रयम् दक्षिणा कपिलाधेनुः शङ्खः रक्तवृषः स्वर्णम् पीतवस्त्रे श्वेताश्वः क्वष्णाधेनुः खङ्गः छागः जपसङ्ख्या ६००० १०००० ७००० १७००० १६००० २०००० १९००० १८००० ७००० अधिदेवता शिवः ममा स्कन्दः नारायणः व्रह्मा शक्रः यमः कालः चित्रगुप्तः प्रत्यतिदेवता अग्निः जलम् क्षितिः विष्णुः इन्द्रः शची प्रजापतिः सर्पः तह्मावैदभेदे ग्रहादीनां मन्त्रभेदा हेमाद्र्याद्युक्ताः प्रतीकतो दर्श्यन्ते ग्रहादीनाम् ऋग्वेदिनः यजुर्वेदिनः सामवेदिनः अथर्ववेदिनः रवेः आ कृष्णेन रजसा आ कृष्णेन रजसा उदु त्यं जातबेदसम् विषासहिं सहमानम् चन्द्रस्य आप्यायस्व समेतु इमं देवा असपत्नम् सन्ते पयांसि समुयन्तु शकधूमं नक्षत्राणि भौमस्य अग्निर्मूर्द्ध्वा दिवः अग्निर्मूर्द्ध्वा दिवः अग्निर्मूर्द्ध्वा दिवः त्वया मन्यो! सरथम् बुधस्य अग्ने! विवस्वद् उद्बुध्यस्याग्ने! अग्ने! वितस्वत् यद्राजानी विभजन्तः गुरोः वृहस्पते! परिदीया वृहस्पते! अतियदर्य्य वृहस्पते! परिदीया वृहस्पतिर्नः परिपातु शुक्रस्य शुक्रं ते अन्यत् अन्नात्परिस्नुतः शुक्रं ते अन्यत् हिरण्यवर्णाः शुचयः शनेः समग्निरग्निभिः शन्नोदेवीरभीष्टये शन्नोदेवीरभीष्टये सहस्रबाहुः–पुरुषः राहोः कया नश्चित्रः काण्डात् काण्डात् कया नश्चित्रः दिव्यं चित्रमृतुधाः केतोः केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे यस्ते पृथुःस्तनयित्नुः सूर्याधिदेववह्नेः आ वोराजानम् त्रियम्बकम् आ वोराजानम् मानोविदन् विव्याधिनः चन्द्राधिदेवोमायाः गौरीर्मिमाय श्रीश्च ते लक्ष्मीश्च आपोहि ष्ठा आपोहि ष्ठा कुजाधिदेवस्कन्दस्य कुमारं माता यदक्रन्दः प्रथमम् स्योना पृथिवि! अग्निरिव मन्यो! त्विषितः बुधाधिदेवविष्णोः इदं विष्णुर्विचक्रमे विष्णोरराटमसि इदं विष्णुर्विचक्रमे प्र तद्विष्णुः स्तवते जीवाधिदेवब्रह्मणः त्वमित् सप्रथाः आ ब्रह्मन् ब्राह्मणः त्वमित् सप्रथाः ब्रह्म जज्ञानम् शुक्राधिदेवेन्द्रस्य इन्द्रं वो विश्वतः सजोषा इन्द्र! इन्द्रमित् देवतातये इन्द्रेमं प्रतरम् शन्यधिदेवयमस्य यमाय सोमं सुनुत यमाय त्वाङ्गिरस्वते आयं गौः पृश्निः यः प्रथमं प्रवतमाससाद राह्वधिदेवकालस्य ब्रह्म जज्ञानम् कार्षिरसि समुद्रस्य ब्रह्म जज्ञानम् रोहितः कालो अभयत् केत्वधिदेवचित्रगुप्तस्य उषोवाजं हि चित्रावसो! स्वस्ति चित्र इच्छिशोः आज्ञातं यदनाज्ञातम् सूर्यप्रत्यधिदेवाग्नेः अग्निं दूतं वृणीमहे अग्निं दूतं पुरोदधे अग्निं दूतं वृणीमहे समास्त्वाग्ने। ऋतवः। चन्द्रप्रत्यधिदेवजलस्य अप्सु मे सोमः आपोहि ष्ठा उदुत्तमं वरुण! शन्नोदेवीरभीष्टये भामप्रत्यधिदेवक्षितेः स्योना पृथिवि! स्योना पृथिवि! पृथिव्यन्तरिक्षम् भूमे! मातर्निधेहि बुधप्रत्याधदेवहरेः सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमे सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमे जीवप्रत्यधिदेवन्द्रस्य इन्द्रायेन्दो! मरुत्वते इन्द्र आसां नेता इन्द्रायेन्दो! इन्द्र! जुषस्व प्रवहा शुक्रप्रत्यधिदेवशच्याः उत्तानपर्णे! सुगगे! अदित्यै रास्नासि एकाष्टका तपमे प्रेतं पादौ प्रस्फुरतम् शनिप्रत्यधिदेवप्रजापतेः प्रजापते! न त्वद् प्रजापते! न त्वद् प्रजापते! न त्वद् नक्तं जातास्योषधे! राहुप्रत्यधिदेवसर्पाणाम् आयं गौःप्रश्निः नमोऽस्तु सर्पेभ्यः तवेदिन्द्रा वयम् शेरभक शेरभ! केतुप्रत्यधिदेवब्रह्मणः ब्रह्म जज्ञानम् ब्रह्म जज्ञानम् एष ब्रह्मा य ऋत्विजः ये दिशामन्तर्देशेभ्यः विनायकस्य आ तू न इन्द्र! गणानां त्वा गणपतिम् आ तू न इन्द्र! निलक्ष्मां ललामाम् दुर्गायाः जातवेदसे सुनवाम अम्बे! अम्बिके! इमं स्तोममर्हते पृतनाजितं सहमानम् बायोः क्राणाशिशुर्महीनाम् वायो! ये ते सहस्रिण क्राणा शिशुर्महीनाम् अन्तरीक्षे वायवे आकाशस्य आदित पत्नस्य घृतं घृतपावानः आदित् प्रत्नस्य श्राम्यतः पचता विद्धि अश्विनोः एषो उषा अपर्व्या या वां कशा एषो उषा अपूर्व्या सं चेन्नय थौ अश्विना एते च मन्त्रा ऋग्वदस्य यादृश एते च मन्त्राः शुक्लयजु- एते च मन्त्राः माम- एते च मन्त्राः अथर्ववेदे स्थानस्थास्तच्चिह्नसहित तुला- र्वेदे यादृशस्थानस्थास्तच्चि- वेदस्य यादृशस्थानस्था- यादृशस्थानस्थास्तच्चिदानादिपद्धतो ७५–७९ पत्रेषु ह्नसहितं तुलादानादि–स्तच्चिह्नानसारेण तुलादा–ह्नानुसारेण तुलादानास्वरूपतो दशितास्ततएवावसेयाः। पद्धतौ १०६–११० पत्रेषु नादि पद्धता १२७–१३०५ दिपद्धतौ १४८–१५२ प्रत्रेस्वरूपपतोदर्शिताः। त्रेषु स्वरूपतोदर्शिताः। षुस्वरूपतोदर्शिताः।

***