गौर = पु० गुङ्–गतौ र नि० वृद्धिः गुर–घञ् प्रज्ञाद्यण् वा। १ चन्द्रे २ श्वेतसर्षपे मेदि० ३ धववृक्षे राजनि० ४ पीतवर्णे ५ श्वेतवर्णे ६ अरुणवर्णे च पु० ७ तद्विशिष्टे त्रि० स्त्रियां गौरा० ङीष्। ८ श्रीचैतन्यदेवे महाप्रभौ अनन्तमहिता। ९ पद्मकेशरे न० मेदि० १० स्वर्णे ११ कुङ्कुमे च न० राजनि०। तत्र श्वेतवर्णयुक्ते “कैलासगौरं वृषमारुरुक्षोः” रघुः पीतवर्ण्णाद्ये “गोरोचनोपनितान्त गौरे” कुमा० अरुणवर्ण्णाद्ये “कीर्णैः पिष्टातकोघैः कृत दिवसमुखैः कुङ्कुमक्षोदगौरः” रत्नाव० “तरुणादित्यगौरैश्च शरगौरैश्च वानरैः” रामा० कि० ३०१ स०। “नितान्तगौर्य्यो हृतकुङ्कमेष्वलम्” किरा० १२ परिमाणमेदे यथोक्तं याज्ञ०” जालसूर्य्यमरीचिस्थं त्रसरेणुरजः स्मृतम्। तेऽष्टौ लिक्षा च तास्तिस्रो राजसर्षप उच्यते। गौरस्तु ते त्रयः षट् च यवोमध्यस्तु ते त्रयः” इति। १३ मृगभेदे पु० स्त्री “गौरजो महिषः कृष्णः शूकरो गवयो रुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम!। खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा। एते चैकशफाः क्षत्तः!” भाग० ३। १०। २२। अ०। “महोरगाश्च भयतो विद्रवन्ति सगौरकृष्णाः शरभाश्चमर्यः” भाग० ८। २। १६ अ०। १४ विशुद्धे त्रि० मेदि०। “कडारा० कर्मधारयेऽस्य वा पूर्वनिपातः गौरपटः पटगौरः।

गौरक्ष्य = न० गोरक्षस्य भावः कर्म्म वा ष्यञ्। वैश्यकर्म्मभेदे पाशुपाल्ये। “कृषिगौरक्ष्यबाणिज्यं वैश्यकर्म्म स्वभावजम्” गीता।

गौरग्रीव = पु० गौरी ग्रीवात्र। १ देशभेदे २ तद्देशवासिनि च तस्यापत्यम् तस्येदं वा रैवतका० छ गौरग्रीवय। ३ तदपत्ये पुंस्त्री ४ तत्सम्बन्धिनि त्रि० गौरग्रीवदेशश्च वृ० स०१४ अ० कूर्मविभागे मध्यभागे उक्तः। “गौरग्रीवोद्देहिकगुडाश्वत्थ पाञ्चालाः”।

गौरचन्द्र = पु० चैतन्यदेवे महाप्रभौ “कृष्णश्चैतन्यो गौराङ्गो गौरचन्द्रः शचीसुतः। प्रभुर्गौरो र्गौरहरि र्नामानि भक्तिदानि मे” अनन्तसंहिता एतस्य दृढतरप्रमाणत्वं संप्रदायविदो न मन्यन्ते।

गौरजीरक = पु० कर्म०। श्वेतजीरके। राजनि०।

गौरतित्तिरि = पुंस्त्री श्वेततित्तिरिभेदे। “तित्तिरिः सर्व्वदोषघ्नो ग्राही वर्ण्णप्रसादनः। हिक्काश्वासानिलहरो विशेषात् गौरतित्तिरिः” सुश्रुते तन्मांसगुणोक्तिः

गौरत्वच् = पु० गौरी त्वक् यस्य। इङ्गुदीवृक्षे (जियापु~ति) राजनि०।

गौरपृष्ठ = पु० यमसभासदनृपभेदे। “इन्द्रद्युम्नो भीमजानु र्गौरपृष्ठो नलोगयः” भा० स० अ० मयसभावर्णने।

गौरमुख = पु० गौरं विशुद्धं मुखमस्य। शमीकर्षेः शिष्ये १ मुनिभेदे तेन हि शिष्येण स्वपुत्रशृङ्गिशापवृत्तान्तं शमीकर्षिः परिक्षिते न्यवेदयत् तत्कथा भा० आ० ४२ अ०। “एवमादिश्य शिष्यं स प्रेषयामासु सुव्रतः। परिक्षिते नृपतये दयापन्नो महातपाः। संदिश्य कुशलप्रश्नं कार्य्यवृत्तान्तमेव च। शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्। सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्द्धनम्। विवेश भवनं राज्ञः पूर्व्वं द्वाःस्थैर्निवेदितः। पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा। आचख्यौ च परिश्रान्तो राज्ञे सर्व्वमशेषतः। शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ। गौरमुख उवाच। शमीकोनाम राजेन्द्र! विषये वर्त्तते तव। ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः” “तस्य त्वया नरव्याघ्र! सर्पः प्राणैर्वियोजितः। अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च। क्षान्तवां स्तव तत्कर्म पुत्रस्तस्य न चक्षमे। तेन शप्तोऽसि राजेन्द्र! पितुरज्ञातमद्य वै। तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति। तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्। तदन्यथा न शक्यञ्च कर्त्तुं केनचिदप्युत। न हि शक्नोमि तं यन्तुं पुत्रं कोपसमन्वितम्। ततोऽहं प्रेषितस्तेन तव राजन्! हितार्थिना”। गौरं शुक्लं मुखमस्य। श्वेतमुखाढ्ये त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष्।

गौरमृग = पु० स्त्री नित्यकर्म०। गौरवर्णे मृगभेदे स्त्रियां ङीष्। “क्रोष्टा मायोरिन्द्रस्य गौरमृगः” यजु० २४। ३।

गौरव = न० गुरोर्भावः कर्म्म वा पृथ्वा० वा अण्। १ गुरुत्वे २ तत्कर्म्मणि च। “तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरबम्” माघः। “तामगौरवभेदेन” “प्रायश्चलं गौरवमाश्रितेषु” कुमा०। “सहस्रं तु पितॄन् माता गौरवे णातिरिच्यते” मनुः। गौरवं साधनतयास्त्यत्र अच्। ३ गौरवहेतुके अभ्युत्थाने हेम०। गुरोरिदम् अण्। ४ गुरुसम्बन्धिनित्रि०। “मध्यगत्या भगोगेन गुरोर्गौरववत्सराः” वसिष्ठसिद्धान्तः।

गौरवाहन = पु० श्वेतवाहने नृपभेदे। कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः” भा० स० ३३ अ०।

गौरवित = त्रि० गौरवं जातमस्य तार० इतच्। पूज्ये। “गौरवितक्रियाहेतुर्भक्तिः” शब्दचि० मथुरानाथः।

गौरशाक = पु० गौरः शाकोऽस्य। मधुकभेदे जटा०।

गौरशिरस् = त्रि० गौरं शिरोऽस्य अतिवृद्धत्वात्। १ शुक्लवर्णकेशयुक्ते २ मुनिभेदे पु०। “शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः” भा० स० ७ अ० इन्द्रसभ्योक्तौ। स च राजनीतिशास्त्रप्रणेता यथाह” भा० शा० ५८ अ०। “विशालाक्षश्च भगवान् काव्यश्चैव महातपाः। सह० स्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः। भारद्वाजश्च भगवांस्तथा गौरशिरा मुनिः। राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः”

गौरसर्षप = पु० कर्म्म०। १ श्वेतसर्षपे (सितिसरिषा) रत्रमाला। तद्गुणा भावप्र० उक्ता यथा “गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते। सर्षपस्तु रसे पाके कटुःस्निग्धः सतिक्तकः। तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निबर्द्धनः। रक्षोहरोजयेत् कण्डू कुष्ठकीष्ठकृमिग्रहान्। यथारक्तस्तथा गौरः किन्तु गौरोवरोमतः”। स च क्षौमशोधकः यथाह मनुः “श्रीफलैरं शुपट्टानां क्षौमाणां गौरसर्षपैः” द्रव्यशुद्धौ। “सगौरसर्षपैः क्षौमम्” गौरसर्षपकल्केन साज्येन साधितस्य च” याज्ञ०। २ राजसर्षपत्रयमिते परिमाणे च। “त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः। ता राजसर्षपास्तिस्रस्ते त्रयो गौरसर्षपः” मनुः।

गौरसुवर्ण्ण = पु० गौरः श्वेतः सुष्ठुवर्णोऽस्य। चित्रकूटप्रसिद्धे पत्रशाकभेदे “गौरसुवर्णं शिशिरं कफपित्तज्वरप्रणुत्। दाहारुचिभ्रान्तिरक्तश्रमहृत् पथ्यमेव च” राजनि० तद्गुणा उक्ताः।

गौरा = स्त्री गौर + गौरादिगणे वर्णवाचिनएव गौरशब्दस्य ग्रहणात् विसुद्धार्थपरत्वे टाप्। विशुद्धायाम् स्त्रियाम् द्विरूपकोषः। तदर्थपरतायामेब टाबन्तता वर्णवरत्वे तु ङीषिन्ततेत्याकारे स्थितम्।

गौराङ्ग = पु० गौरं श्वेतं पीतं वाऽङ्गमस्य। १ विष्णौ “श्वेतोरक्तस्तथा पीत इदानीं कृष्णतां गतः” भाग०१० स्क० तस्य युगावतारे श्वेताङ्गत्वात् पीताङ्गत्वाच्च तथात्वम्। गौरं विशुद्धमङ्गमस्य। विशुद्धकान्तियुक्ते नन्दनन्दनै २ श्री कृष्णे च “गौराङ्गं गौरदीप्ताङ्गं पठेत् स्तोत्रं कृताञ्जलिः। नन्दगोपसतं चैव नमस्यामि गदाग्रजम्” ब्रह्म यामलम्। “गौराङ्गो नादगम्भीरः स्वनामामृतलालसः” कृष्णयामलम्। ३ नवद्वीपस्थशचीपुत्रे इति वैष्णवाः। ते हि तत् परतयैव यामलवाक्यद्वयं व्याचक्षुः ४ गौरवर्णदेहके त्रि० स्त्रियां ङीष्। गौराङ्गताहेतुरौषधमुक्तं गरु० पु० १९४ अ० यथा “कुष्माण्डनालक्षारस्तु सगोभूत्रश्च तत्त्वचः। जलपिष्टा हरिद्रा च सिद्वा मन्दनिलेन हि। माहिषेण पुरीषेण वेष्टिता वृष- भध्वज!। अस्या उद्वर्त्तनं कुर्य्यादङ्गगौरत्वसाधनम्”।

गौराजाजी = स्त्री कर्म्म०। श्वेतजीरके राजनि०।

गौरादि = पु० “षिद्गौरादिभ्यश्च” पा० उक्ते ङीष्निमित्ते शब्दगणभेदे स च गणः पा० ग० सू० उक्तोयथा “गौर मत्स्य मनुष्य शृङ्ग पिङ्गल हय गबय मुकय ऋष्य पुट तूण द्रुण द्रोण हरिण काकण पटर उणक आमलक कुवल विम्ब वदर कर्कर तर्कार शर्कार पुष्कर शिखण्ड सलद शष्कण्ड सनन्द सुषम सुषम अलिन्द गडुल पापडश आढक आनन्द आश्वत्यं सृपाट आपच्चिक शष्कुल सूर्म शूर्प सूच यूष यूथ सूप मेथ वल्लक धातक सल्लक मालक मालत माल्वक वेतस वृष अतस उभय भृङ्ग मह मठ छेद पेश मेद श्वन् तक्षन् अनडुह अनड्वाह एषण (करणे) देह देहल काकादन गवादन तेजन रजन लवण औद्गाहमानि गौतम पारक अयस्थूण भौरिकि भौलिकि भौलिङ्गि यान मेघ आलग्वि आलजि आलब्धि आलक्षि केवाल आपक आरट नट टोट नोट मूलाट शातन पोतन पातन पानठ आस्तरण अधिकरण अधिकार आग्रहायण प्रत्यवरोहिन् सेचन सुमङ्गल (संज्ञायाम्) अण्डर सुन्दर मण्डल मन्थर मङ्गल पट पिण्ड षण्ड उर्द गुर्द शम सूद आर्द ह्रद पाण्ड भाण्ड लोहाण्ड कदर कन्दर कदल तरुण तलुन कल्माष वृहत् महत् सोम सौधर्म रोहिणी (नक्षत्रे) रेबती (नक्षत्रे) विकल निष्कल पुष्कल कटी (श्रोणिवचने)। पिप्पल्यादयश्च। पिप्पली हरितकी कोशातकी शमी बरी शरी पृथिवी कोष्ट्री मातामही पितामही आकृतिगणः”। गौरशब्दस्य तोपधभिन्नवर्णवाचित्वेऽपि प्रातिपदिकस्वरेणोत्सर्गतः कृष्णेतिवदन्तोदात्ततया अन्यतो ङीषित्यस्याप्रवृत्तेर्गणे पाठः। “उपाद् द्व्यजजिनमगौरादयः” पा० उपात् परस्य द्व्यजन्तादेरन्तोदात्ततायां पर्युदस्ते शब्दगणे स च गणः पा० ग० उक्तो यथा “गौर तैष तैल लेट लोट दिहवा कृष्ण कन्या गृध कल्पपाद।” उपगौरः

गौरार्द्रक = न० नित्यकर्म्म०। स्थावरविषभेदे हेमच०।

गौरावस्कन्दिन् = पु० गुरोरिदं गौरवं गुरुपत्नीरूपं कलत्रं तदास्कन्दति आ + स्कन्द–णिनि वेदे पृषो० वर्णविपर्ययः। अहल्याजारे शक्रे इन्द्रागच्छेत्युपक्रमे “गौरवास्कन्दिन्नहल्यायै जारेति” शत० व्रा० ३। ३। ४। १८।

गौराश्व = पु० गौरोऽश्वोऽस्य। १ नृपभेदे। “अलर्कः कक्षसेनश्च गयो गौराश्व एव च” भा० स० ८ अ०। यमसभ्योक्तौ २ श्वेतवाहने श्वेताश्वे अर्जुने च।

गौरास्य = पुंस्त्री गौरमास्यं यस्य। गौरमुखे कृष्णदेहे बानरभेदे राजनि०। स्त्रियां जातित्वेऽपि योपधत्वात् न ङीष् किन्तु टाप्।

गौराहिक = पुंस्त्री गौरः शुभ्रः अहिः कर्म० संज्ञायां कन्। सुश्रुतोक्ते निर्विषे सर्पभेदे “गौराहिकवृक्षेशय” इति सुश्रु० अहिशब्दे दृश्यम्।

गौरि = पु० गौरस्यापत्यम् इञ्। आङ्गिरसे ऋषिभेदे “गौरेराङ्गिरसस्य साम” श्रुतिः।

गौरिक = त्रि० गौरवर्णोऽस्त्यस्य ठन्। १ श्वेतवर्णयुक्ते २ श्वेतसर्षपे पु० “यवाह्वगौरिकोन्मिश्रैः पादलेपः प्रशस्यते” सुश्रुतः।

गौरिमत् = त्रि० गौरीं मन्यते मन + क्विप् ६ त० ङ्यापोरिति संज्ञायां ह्रस्वः। १ गौरीनामयुक्ते गौरीतीर्थे तत्रस्थे २ नदीभदे स्त्री शार्ङ्गर० ङीन्। (भोगवत् गौरीमत्) संज्ञायाम्” तद्गणसूत्रोक्तेः संज्ञायामेव ङीन् अन्यत्र ङीप्।

गौरिल = पु० गौरवर्णोऽस्त्यस्य बा० इलच्। १ सिद्धार्थे श्वेतसर्षपे २ लौहचूर्णे च मेदि०।

गौरिवीति = पु० गौर्य्या वेदवाचि वीतिः विशेषगतिरस्य “ङ्यापोरिति” संज्ञायां ह्रस्वः। शक्तिमुनिपुत्रे ऋषिभेदे। “गोरवीतिः शाक्त्यः क्षत्रमिवाह” शत० ब्रा० १२। ८। ३। ७। “स्तोमसामा गौरबीतेरवर्द्धनः” ऋ०५। २९। ११। गौरिवीते रेतन्नामकस्य मन्त्रद्रष्टुः” मा०। गौरिवीतिना दृष्टं साम अण्। गौरिवीत तद्दृष्टे सामभेदे “तृतीयसवनाच्चिद्विष्णोः शिपिविष्टवतीषु गौरिवीतेन” कात्या० श्रौ० २५। १३। ६। “गौरिवीतं नाम सामभेदस्तेन स्तुवीरन्” कर्कः।

गौरिषक्य = गु० गौर्य्या इव सकिख अस्य षच् समा० ह्रस्वः सुषामा० षत्वम्। गौरीतुल्यसक्थियुक्ते।

गौरी = स्त्री गौर + गौरा० ङीष्। १ गौरवर्णायां स्त्रियाम् “कपोलभित्तीरिव लोध्रगौरीः” माघः। २ हिमालयसुतायां कालीनाम्न्यां मेनकाकन्यायां तस्याः प्राक् कृष्णवर्णत्वेन जातत्वेऽपि पश्चात् पीताङ्गत्वात् तथात्वं कालिकापुराणशब्दे २०१५ पृ० ४५ अ० तन्मूलं दृश्यम्। पुराणान्तरे “योगाग्निदग्धदेहा सा पुनर्जाता हिमालये। शङ्खेन्दु कुन्दधवला ततो गौरीति सा स्मृताः” इत्युक्तम तच्च कल्पान्तरविषयम्। “अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी” स्मृत्युक्तायां ३ अष्टवर्षायां स्त्रियाम्। ४ हरिद्रायां ५ दारुहरिद्रायाम् ६ गोरोचनायां ७ वरुणपत्न्याञ्च। ८ प्रियङ्गुवृक्षे ९ पृथिव्यां १० नदीभेदे च मेदि० “लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम्। अभिशस्ता तु सा भर्त्त्रा नदी वै बाहुदाऽभवत्” हरिवं० १२ अ० ११ उक्तयां सूर्य्यवंश्यप्रसेनजिद्भा र्य्यायाम् तस्याएव बाहुदानदीरूपत्वोक्तेः नदीविशेषः बाहुदानदीपर इति बोध्यम्। १३ बुद्धशक्तिभेदे हेम०। १३ मञ्जिष्ठायां १४ श्वेतदूर्वायां १५ मल्लिकायां १६ तुलस्यां १७ सुवर्णकदल्याम् १८ आकाशमांस्याञ्च राजनि०। सर्व्वासाञ्चासां शुभ्रपीतरक्तविशुद्धपत्रपुष्पादियुक्तत्वात्तथात्वम् १९ रागिणीभेदे संगीतदामो०। २० वाचि निघण्टुः। “गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्” ऋ०१। १६४। ४०। “गौरी र्गरणशीला शब्दब्रह्मात्मिका च वाक् मिमाय। मिमतिः प्रतिष्ठार्थे धातुः। प्रतिष्ठितानि घट्वादिद्रव्याणि तक्षती तत्तद्वाचकत्वेन निष्पादयन्ती। एकपदी अव्याकृतत्वेनैकप्रतिष्ठानैकरूपावात्मना। द्विपदी सुपतिङ् भेदेन पदद्वयवती। चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन। अष्टापदी आमन्त्रितसहितसुब्विभक्तिभिरष्टभेदेनाष्टापदी। नवपदी नवसु पदेषु भवन्ती बभूवुषी पश्चाद्बहुविधाभिव्यक्तिमुपेयुषी परमे व्योमन् उत्कृष्टे हृदयाकाशे मूलाधारे सहस्राक्षरानेकाकारेण व्याप्ताऽनेकध्वनिप्रकारा भवतीत्यर्थः” भा०। निरु०११। ४। व्याख्यान्तरं दृश्यम। गौरीरिति सुलोपाभावःच्छान्दसः। “सोमो गौरी अधिश्रितः” ऋ० ९। १। १२। ३। गौरी गौर्य्याम् मध्यमायां वाचि” भा० “सुपां सुलुक्” पा० सप्तम्या लुक्। “ईदूतौ च सप्तम्यर्थे” पा० तस्य प्रगृह्यसंज्ञत्वात् न यणादेशः, भा० २१ दीप्तिमत्यां स्त्रियां निरु०। “गौरी रोचते ज्वलतिकर्म्मणः। अथ पीतोवा गौरोवर्णः एतस्मादव प्रशस्तो भवति तस्या एषा भवति” “गौरीमिमाय सलिलानि” श्रुति मधिकृत्य उक्तनिरुक्तिः। पार्वतीरूपा गौरी च माघशुक्लचतुर्थ्यां पूज्या यथाह ति० भविष्योत्त० पु० माघशुक्लमधिकृत्य “चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता। सौभाग्यमतुलं कुर्यात्”

गौरीकान्त = पु० ६ त० महादेवे गौरीनायादयोऽप्यत्र।

गौरीगुरु = पु० ६ त०। पार्वतीपितरि हिमालये “गौरीगुरोर्ग- ह्वरमाविवेश” रघुः “अखिलमिदममुष्य गौरीगुरोः” किरा० गौरीपित्रादयोऽप्यत्र।

गौरीज = न० गौर्यारजसो जायते जन–ड। १ अभ्रके राजनि० अभ्रकशब्दे ३१५ पृ० दृश्यम्। २ कार्त्तिकेये पु०।

गौरीतक्रम् = न० गौर्या निर्मितं तक्रम्। “लबणं मरिचं विश्वं जीरं नारङ्गजं त्वचम्। एलाचूर्णान्वितं तक्रं धूपयेत् घृतहिङ्गुना। गौर्येदं विहितं तक्रं सर्वदोषनिवर्हणम्” शब्दार्थचि० उक्ते तक्रभेदे

गौरीपट्ट = पु० गौर्याः पटृमिव स्थानम्। शिवलिङ्गस्थे गौर्य्याः पूजास्थाने शिवलिङ्गशब्दे विवृति०

गौरीपुत्र = पु० ६ त०। कार्त्तिके गौरीतनय दयोऽप्यत्र

गौरीपुष्प = पु० गौरी हरिद्रेव पीतं पुष्पमस्य। प्रियङ्गुदृक्षे राजनि०

गौरीमन्त्र = पु० तन्त्रसारोक्ते गोर्य्या मन्त्रभेदे तस्योद्धारश्च “ह्रीं गौरि! रुद्रदयिते! योगेश्वरि! सवर्म (हु~) फट्। द्विठान्तः षोडशवर्णोऽयं मन्त्रः सद्भिरुदीरितः”

गौरीललित = न० गौरी हरिद्रेव ललितम् पीतवर्णत्वात्। हरिताले राजनि०।

गौरीशिखर = न० गौर्य्यास्तपःस्थानं शिखरम्। स्वनामख्याते पर्वतभेदशृङ्गरूपे तीर्थभेदे “प्रजासु पश्चात् प्रथित तदाख्यया जगाम गौरी शिखरं शिखण्डिमत्” कुमा०

गौरीसुत = पु० ६ त०। १ अष्टवर्षोढाजतनये शब्दार्थचि०। २ कार्त्तिकेये च।

गौरुतल्पिक = पु० गुरुतल्पं गुरुपत्नीं गच्छति परदारा० ठक्। गुरुपत्नीगामिनि।

गौलक्षणिक = त्रि० गौर्लक्षणं वेत्ति तद्ग्रन्थमधीते वा “विद्यालक्षणकल्पान्ताच्च” वार्त्ति० ठक्। १ गोलक्षणवेत्तरि २ तद्ग्रन्थाध्येतरि च।

गौलन्द्य = पुंस्त्री गौलन्दगोत्रापत्यं गर्गा० यञ्। गोलन्दर्षिगोत्रापत्ये स्त्रियां जातित्वात् ङीष् यलोपः। गोलन्दी तदपत्यस्त्रियाम्। गौलन्द्यस्य छात्राः कण्वा० अण् यलोपः। गौलन्दास्तच्छात्रेषु।

गौलाङ्कायन = पुंस्त्री गौलाङ्कस्य गोत्रापत्यम् अश्वा० फञ्। गोलाङ्कर्षेर्गोत्रापत्ये स्त्रियां जातित्वात् ङीष्।

गौलिक = पु० गुडे साधु ठक् डस्य लः। मुष्ककवृक्षे राजनि०

गौलोमन = त्रि० गोलोमेव शर्करा० अण्। गोलोमसदृशे स्त्रियां ङीप्।

गौल्मिक = पु० गुल्मे रक्षणार्थस्थानभेदे नियुक्तः ठक्। गुल्मरूपरक्षणार्थस्थाननियुक्ते यामिके सेनाभेदे “तथैव गुल्मे संप्रेक्ष्य शयानान् मध्यगौल्मिकान्” “त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मानि गौल्मिकाः” भा० शा० ८ अ

गौल्य = न० गुडस्य भावः ष्यञ् डस्यलः। माधुर्ये मधुररसे राजनि०।

गौशतिक = त्रि० गोशतमस्यास्ति “एकगोपूर्वात्” पा० शतसहस्रादित्यपकृष्य ठञ्। गोशतस्वामिनि स्त्रियां ङाप्।

गौष्ठ = त्रि० गोष्ठ्यां भवः पलद्या० अण्। गोष्ठ भवे स्त्रियां ङीप्। स्वार्थे अण् ङीप् गौष्ठीत्यषि गोष्ठ्याम्। तच्छब्दस्यैव पलद्यादिषु पाठ इत्यन्ये।

गौष्ठीन = न० पूर्बं भूतं गोष्ठं खञ्। भूतपूर्वगोष्ठे। “तासु वाच स गौष्ठीने वने स्त्रीपुंसभीषणे” भट्टिः

गौसहस्रिक = त्रि० गोसहस्रमस्त्यस्य गौशतिकवत् ठञ्। गोसहस्रस्वामिनि।

गौहलव्य = पुंस्त्री गुहलोरृषेर्गोत्रापत्यम् गर्गा० यञ्। गुहलुगोत्रापत्ये स्त्रियां ङीप् लोहिता० स्वार्थे ष्फः गौहलव्यायनी।

ग्धि = स्त्री अद–क्तिन् वेदे घसादेशः उपधालोपश्च तस जशविधौ न स्थानिवत्त्वम्। भक्षणे। “सग्धिश्च मे” सि० कौ० धृता श्रुतिः।

ग्ना = स्त्री गम–बा० ना डिच्च। स्त्रीमात्रे “ग्नास्त्वा कृन्तन्नपसोऽतन्वत वयित्र्यो वयन्” ता० व्रा० १। ८। ९। “गच्छन्ति पुंमासएना इति ग्नाः स्त्रियः” भा० “मेना ग्ना इति स्त्रीणां स्त्रियस्त्यायतेरपत्रपणकर्म्मणः। मेना मानयत्येनाम्। ग्ना गच्छन्त्येनाः” निरु०। २ देवपत्न्याम्। “आ ग्ना अग्न इहावसे होत्राम्” ऋ० १। २२। १०। ग्ना देवपत्नी भा०। ग्ना अस्त्यस्य मतुप् मस्य वः। ग्नावत् सपत्नीके। “अभि यज्ञं गृणीहि नो ग्नावो नेष्टः” ऋ० १। १५। ३। “मतुवसोरुः” संवुद्धौ विसर्गः भा०। ३ वाचि निघ०। “तव ग्नावो मित्रमहः सजात्यम्” ऋ० २। १। ५। ग्ना स्तुतिवाचस्ताः सन्तीति मतुप्। “छन्दांसि वै ग्नाः इति श्रुतेः ४ वेदे च वेदस्य वाग्विशेषत्वात्तथात्वम्। “नराशंसो ग्नास्पतिर्नो अव्याः” ऋ० २ ३८। १० ग्नास्पतिर्देवपत्नीनां पतिश्छन्दसां पतिर्वा” भा० “ग्नास्पतिरित्यत्र बा० सुट्। सान्तं वा शब्दान्तरम् अतएव निघण्टौ ग्नाः इति विसर्गान्तं पठितम्।

ग्मा = स्त्री गम्यतेऽत्र गम–बा० ङा। पृथिव्या निघ०।

ग्रथ = कुटिलीकरणे आत्म० इदित् सक० सेट्। ग्रन्थते अग्रन्थिष्ट जग्रन्थे।

ग्रथन = न० ग्रन्थ–बा० क्यु नलोपः। (गा~था)। ग्रन्थने “दोषस्थिरत्वात् ग्रथनाच्च” सुश्रुतः। “ग्रयनञ्च विदर्भश्च संपुटोरोधनं तथा। योगः पल्लव इत्येते विन्यासाः षट्सु कर्म्मसु”। “मन्त्रेणान्तरितान् कृत्वा साध्यवर्ण्णान् यथावधि। ग्रथनं तद्विजानीयात् प्रशस्तं शान्तिकर्म्मणि” २ तन्त्रसारोक्ते “मन्त्रेणान्तिरितसाध्यवर्ण्णविन्यासभेदे च।

ग्रथित = त्रि० ग्रन्थ–संदर्भे क्त नलोपः। सूत्रादिना कृतसन्दर्भे माल्यादौ “पर्य्यायग्रथिताक्षसूत्रवलयाः” पबो०। “अथास्य रत्नग्रथितोत्तरीयम्” “कुसुमैर्ग्रथितामपार्थिवैः” (स्रजम्) रघुः। “तच्छोककूटमद्यापि ग्रथितं सुदृढं मुने” भा० आ० १ अ०। “वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव” माघः। २ क्रान्ते ३ हिसिते च मेदि०।

ग्रथिन् = त्रि० ग्रन्थ–बा० इनि किच्च नलोपः। जल्पके। “न्यक्रतून् ग्रथिनो मृध्रवाचः” ऋ० ७। ६। ३। “ग्रथिनो जल्पकान्” भा०।

ग्रथ्न = पु० ग्रन्थ–बा० नङ्। स्तवके। “शलाटु नीलमित्युक्तं ग्रथ्नः स्तवक उच्यते। कपुष्टिकाभितः केशाः मूर्द्ध्नि पश्चात् कपुष्टिका” भट्टनारायणधृतवाक्यम् “पश्चात् पतिरवस्थाय युग्मन्तमौडुम्बरं शलाटुग्रथ्नमाबध्नाति” गोभिलगृह्यम्।

ग्रन्थ = संदर्भे वा चु० उभ० पक्षे क्य्रा० प० सक० सेट्। ग्रन्थयतिते ग्रथ्नाति अजग्रन्थत् अग्रन्थीत्। ग्रन्थयामास वभूव चकार चक्रे। जग्रन्थ जग्रथतुः–जग्रन्थतुः। जग्रन्थिथ जग्रथिथ इत्येके। अस्य कविकल्पद्रुमे पा० गणे च परस्मैपदिष्वेव क्रैयादिकस्य पाठः। णिचि तु उभयपदिता। भारद्वाजीयास्तु पठन्ति “णिश्रन्थिग्रन्थिव्रूञात्मनेपदाकर्मकाणामात्मनेपदेषूपसंख्यानम्” श्रन्थि ग्रन्थ्योराधृषीयत्वात् णिजभावपक्षे ग्रहणम्। ग्रन्थति ग्रन्थम्। श्रन्थति मेखलान्देवदत्तः। ग्रन्थते ग्रन्थः। अग्रन्थिष्ट। श्रन्थते। अश्रन्थिष्ट। इति भारद्वाजीय मते आत्म०। तेनोभयपदता। सि० कौ० पक्षे भ्वा० दित्वमपि तेन ग्रन्थति इत्याद्वि क्रैयादिकयोस्तु श्रथ्नीते। ग्रथ्नीते सि० कौ०। एतच्च कर्म कर्त्तरि न तु कर्त्तरि इत्यन्ये उद् + उत्तोल्य ग्रथने। “केशपक्षान् उदग्रथ्येतरान्” आश्व० श्रौ०१०। ८। ८ “लताप्रतानोद्ग्रथितैः स केशैः” रघुः। “माल्यानि तस्योद्ग्रथितानि पट्टैः” भा० व० ११२ अ० “कर्म्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः” भाग० ४। २२। ३७।

ग्रन्थ = पु० ग्रन्थ–सन्दर्भे भावे घञ्। १ गुम्फने। कर्म्मणि घञ्। २ शास्त्रे “ग्रन्थग्रन्थिरिह क्वचित् क्वचिदपि न्यासि प्रयत्नान्मया” नैष०। “ग्रन्थग्रन्थि तदा चित्रं मुनिर्गूढं कुतूहलात्” भा० आ० १ अ०। ३ धने ४ द्वात्रिंशवद्वर्णमितानुष्टुप् छन्दस्के श्लोके हेम०।

ग्रन्थकार = स्त्री ग्रन्थं करोति अण् उप० स०। ग्रन्थकारके (शाकल्यम्) “तञ्चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यति” भा० आनु० ३८४ अ०। कृ–क्विप् ६ त०। ग्रन्थकृदप्यत्र। “ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः” भा० आनु० १४ अ०। “ग्रन्थारम्भे विघ्नविघाताय समुचितेष्ट देवतां ग्रन्थकृत् परामृशति” काव्यप्र०। तृच्। ग्रन्थकर्त्तृ ण्वुल् ग्रन्थकारक अत्रार्थे त्रि०। तृचि स्त्रियां ङीप्।

ग्रन्थकुटी = स्त्री ग्रन्थस्य कुटीव। लेख्यस्थाने त्रिका०।

ग्रन्थन = न० ग्रन्थ–भावे ल्युट्। (गा~था) सन्दर्भे गुम्फने हेमच०। चु० ग्रन्थ–युच्। ग्रन्थनाऽप्यत्र स्त्री।

ग्रन्थसन्धि = पु० ६ त०। ग्रन्थस्थे सन्धौ। तन्नामानि च कतिचित् त्रिका० पठितानि। “सर्गो वर्गः परिच्छोदोद्घाताध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम्। स्थानं प्रकरणं पर्व्वाह्निकञ्च ग्रन्थसन्धयः”। उपक्रमे गुत्सादीत्युक्तेः अन्यदपि ग्रन्थसन्धिनाम भवतीति सूचितम्। तेन कुसुमाञ्जलौ स्तवकः, काव्यप्र० उल्लासः,। वेदे प्रपाठकब्राह्मणानुवाकादयः।

ग्रन्थि = पु० ग्रन्थ–संदर्भे भावे करणादौ वा यथायथं सर्व्वधातुभ्य, इन् नित्स्वरः, “खनिकृष्यज्यसीत्यादिना इर्वा स्वरे भेदः। १ वंशादिपर्व्वणि (गा~ट) अमरः। २ काण्डसन्धो ३ भद्रमुस्तायाम् ४ हितावल्यां ५ पिण्डालौ राजनि०। ६ बन्धने ७ रोगभेदे मेदि०। ८ मायापाशे “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः” तैत्ति० उप०। ग्रथिकौठिल्ये भावे इन्। ९ कौटिल्ये। कर्त्तरि इन्। १० ग्रन्थिपर्ण्णवृक्षे मेदि०। रोगभेद निदानादि सुश्रुते दर्शितं यथा “अथातो ग्रन्थ्यपच्यर्बुदगलगण्डानां निदानं व्याख्यास्यामः। वातादयो मांसमसृक्प्रदुष्टाः सन्दूष्य मदश्च कफानुविद्धम्। वृत्तोन्नतं विग्रथितन्तु शोफं कुर्व्वन्त्यतोग्रन्थिरिति प्रदिष्टः। आयम्यते व्यथ्यत एति तोदं प्रत्यस्यते कृत्यत एति भेदम्। कृष्णोऽमृदुर्व्वस्तिरिवाततश्च भिन्नः स्रवच्चानिलजोऽस्रमच्छम। दन्दह्यते धूप्यति चातिमात्रं पापच्यते प्रज्वलतीव चापि। रक्तः सपीतोऽप्यथ वापि पित्ताद्भिन्नः स्रवेदुष्णगतीव चास्रम्। शीतो विवर्णोऽल्परुजोऽतिकण्डुः पाषाणवत्संहननोपपन्नः। विराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनञ्च पूयम्। शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धोमहानल्परुजोऽतिकण्डुः। मेदःकृतो गच्छति चातिभिन्ने पिण्याकसर्पिःप्रतिमन्तु मेदः। व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि शिराप्रतानम्। संपीड्य सङ्कोच्य विशोष्य वापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम्। ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च। अरुक् सएवाप्यचलोमहांश्च मर्म्मोत्थितश्चापि विवर्जनीयः”

ग्रन्थिक = न० ग्रन्थिरिव + कायति–कै–क ग्रन्थ + अस्त्यर्थे ठन् वा। १ पिप्पलीमूले २ ग्रन्थिपर्णे ३ गुग्गुलौ ४ करीरे वंशे ५ दैवज्ञे ६ सहदेवाख्ये पाण्डवे च पु० मेदि०।

ग्रन्थित = त्रि० ग्रथि–क्त। गुम्फिते अमरः।

ग्रन्थिदला = स्त्री ग्रन्थिर्दलेऽस्याः। मालाकन्दे राजनि०।

ग्रन्थिदूर्वा = स्त्री ग्रन्थिप्रधाना दूर्व्वा शा० त०। (गा~टदूर्वा) दूर्व्वाभेदे राजनि०।

ग्रन्थिन् = त्रि० ग्रन्थस्तदर्थो वा ज्ञेयतयाऽस्त्यस्य १ ग्रन्थणिनि वा ग्रन्थार्थवेत्तरि २ ग्रन्थयुक्ते तद्विशिष्टे ३ ग्रन्थनकर्त्तरि च। अज्ञेभ्योग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः मनुः। “ग्रन्थी भवति पण्डितः” सर्वत्र स्त्रियां ङीप्। “सुम्न आपिर्ह्रदे चक्षुर्न ग्रन्थिनी चरण्युः” ऋ०१०। ९५। ६। ग्रन्थिनी ग्रन्थवती संदर्भवती” भा०।

ग्रन्थिपत्र = पु० ग्रन्थिप्रधानं पत्रमस्य। चोरकनाम गन्धद्रव्ये राजनि०।

ग्रन्थिपर्ण = न० ग्रन्थौ पर्णान्यस्य ग्रन्थीनि ग्रन्थयुतानि वा पर्णान्यस्य। (गाठिबाला) १ वृक्षभेदे अमरः। “ग्रन्थिपर्णं तिक्ततीक्ष्णं कदूष्णं दीपनं लघु। कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम्” भावप्र०। २ चोरनामगन्धद्रव्ये राजनि० ३ जतुकालताया स्त्री राजनि० ४ गण्डदूर्वायां स्त्री राजनि० गोरा० ङीष्।

ग्रन्थिफल = पु० ग्रन्थि ग्रन्थियुक्तं फलमस्य। १ कपित्थवृक्षे २ मदनवृक्षे ३ शाकरुण्डवृक्षे च राजनि०।

ग्रन्थिबन्धन = न० ६ त०। (गाटबा~धा) पुस्तकादौ १ दृढवन्धनार्थे बन्धनभेदे २ जन्मतिथौ गोरोचनायुतसूत्रबन्धने च। “गुडदुग्धतिलानद्यात् जन्मग्रन्थेश्च बन्धनम्। गुग्गुलुनिम्बसिद्धार्थदूर्वागोरोचनायुतम्” कृत्यचि०।

ग्रन्थिब(व)र्हिन् = पु० ग्रन्थिं बर्हति बर्ह–स्तृतौ ग्रन्थिं वर्हति वर्ह–बधे णिनि। ग्रन्थिपर्णवृक्षे शब्दर०

ग्रन्थिभद = पु० ग्रन्थिं वस्त्रादिग्रन्थिं भिनत्ति भिद–अण् उप० स०। (गाटकाटा) चौरभेदे “अङ्गुलिं ग्रन्थिभेदस्य० छेदयेत् प्रथमे ग्रहे। द्वितीये हस्तचरणी तृतीये बध मर्हति” मनुः “उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ। कार्यौ द्वितीयापराधे करपादैकहीनकौ” याज्ञ०

ग्रन्थिमत् = त्रि० ग्रन्थिरस्त्यत्र मतुप्। १ ग्रन्थियुक्ते (गांटयुक्ते) स्त्रियां ङीप् “कृष्णत्वचं ग्रन्थिमतीं दधाना” कुमा० (हाडयोडा) २ अस्थिसंहारिवृक्षे पु० भावप्र०

ग्रन्थिमत्फल = पु० ग्रन्थिमत् फलमस्य। नकुचवृक्षे (मान्दार) इति ख्याते वृक्षे राजनि०।

ग्रन्थिमूल = न० ग्रन्थि गुम्फनवत् मूलं यस्य। १ गृञ्जने राजनि० २ मालादूर्वायां स्त्री टाप् राजनि०।

ग्रन्थिल = त्रि० ग्रन्थिर्विद्यतेऽस्य सिध्मा० लच्। ग्रन्थियुक्ते मेदि० २ पिप्पलीमूले न० राजनि०। ३ आर्द्रके न० शब्दच० ४ विकङ्कतवृक्षे (वैचि) ५ करीरवृक्षे च अमरः। ६ तण्डुलीयशाके ७ हितावल्यां ८ पिण्डालौ ९ चोरनामगन्धद्रव्ये १० विकङ्कटवृक्षे च राजनि०। भद्रमुस्तायां ११ मालादूर्वायां १२ गण्डदुर्वायाञ्च स्त्री राजनि०।

ग्रन्थिहर = पु० ग्रन्थिं हरति हर–अच्। अमात्ये मन्त्रिणि त्रिका०

ग्रन्थीक = न० ग्रन्थिक + पृषो०। पिप्पलीमूले द्वि० को०

ग्र(ग्ल)प्स = पु० ग्रथ्न + पृषो० द्विधारूपम्। स्तवके। “अथास्यै दुग्धेन शालाटुग्र(ग्ल)प्सेन, सीमन्तं व्यू हति” आश्व० गृ० १। १४। ४। ग्र(ग्ल)प्सः स्तवक उच्यते” नारा०।

ग्रस = भक्षणे भ्वा० आत्म० सक० सेट्। ग्रसते अग्रसिष्ट जग्रसे। उदित् ग्रसित्वा ग्रस्त्वा। ग्रस्तः। “हिमांशुमाशु ग्रसते तन्मृदिम्नः स्फुटं फलम्” माघः “सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया” भा० शा० १७९ अ०। “य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः” भा० व० २६ श्लो०। “राहुग्रस्ते निशाकरे” भा० व० २६६७ श्लो०। ग्रासः। ग्रसनम्। क्विप् धातुत्वान्न दीर्घः ग्रत् ग्रसौ ग्रस इति।

ग्रस = भक्षणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। ग्रास यति–ते ग्रसति अजिग्रसत्–त अग्रासीत् अग्रसीत्। ग्रासयाम् बभूव आस चकार चक्र। ग्रसितः। “न च प्रापितमन्येन ग्रसेदर्थं कथञ्चन” मनुः।

ग्रसन = न० ग्रस–भाव ल्युट्। १ भक्षणे “ग्रसनादजगरः शरीरप्राणहरी न विषात्” सुश्रु०। २ राहुणा चन्द्रसूर्ययोरुपरागे च। वृ० स० ५ अ० उक्ते त्र्यंशादि ३ ग्रासे च। उपरागशब्दे विवृतिः। ४ असुरभेदे पु० “दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्ग्रसनोऽसुरः”। “तमप्रत्यर्क्यं जगतान्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे”। “द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभि” इति च मत्स्यपु०।

ग्रसिष्ठ = त्रि० अतिशयेन ग्रसिता ग्रसितृ + इष्ठन् तृचोलोपे इटोऽसिद्धिः। ग्रसिवृतमे “भोगमानलादिद् ग्रसिष्ठ ओ षधीरजीगः” ऋ० १। १६३। ७। “ग्रसिष्ठः ग्रसितृतमः” भा०

ग्रसिष्णु = त्रि० ग्रस–इष्णुच्। १ ग्रसनशीले “अत्ता चराचर ग्रहणात्” शा० सू० न्यायात् २ परब्रह्मणि च। “भूतभर्त्तृ च तजज्ञेयं ग्रसिष्णु प्रभविष्णु च” गीता।

ग्रस्त = त्रि० ग्रस–कर्मणि क्त उदित्त्वात् क्त्वोवेट्कत्वेन इडभावः। १ भक्षिते लुप्तवर्णपदे २ असंपूर्णोच्चारितशब्दे न० अमरः।

ग्रस्तृ = त्रि० ग्रस + तृच् आर्षे इडभावः। भक्षके। सिंहिकासुषुवे राहुम्” “ग्रस्तारं चैव चन्द्रस्य सूर्य्यस्य च महाप्रभम्” हरिवं० २२६ अ०।

ग्रस्तास्त = पु० ग्रस्त एवास्तः। अदृष्टमोक्षे ग्रासोत्तरमस्तगते सूर्य्ये चन्द्रे च। उपरागशब्दे १३१५ पृ० विवृतिः।

ग्रस्तोदय = पु० ग्रस्तस्य उदयः। ग्रासोत्तरं रविचन्द्रयोरुदये “ग्रस्तास्तादौ विशेषमाह गुरुः “ग्रस्तास्ते त्रिदिनं पूर्वं पश्चात् ग्रस्तोदयें तथा। खण्डग्रासे च त्रिदिनं निःशेषे सप्त सप्त चेति”। कश्यपस्तु “ग्रस्तोदये परे दोषो ग्रस्तास्तेऽर्वाक् शशीनयोः। द्युनिशार्द्धेतूभयं तत् खण्डाखण्डव्यवस्थया” इत्याह।

ग्रस्य = त्रि० ग्रस–कर्मणि बा० यत्। अदनीये “यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं प्ररिणमेच्च यत्” भा० उ० ३३ अ०। ण्यत्। ग्रास्य तत्रार्थे त्रि०।

ग्रह = हस्तव्यापारभेदे स्वीकारे ज्ञाने च क्र्या० उभ० सक० सेट्। गृह्णाति गृह्णीते। गृह्णीयात् गृह्णीत। गृह्णातु गृहाण। अगृह्णात् अगृह्णीत। अग्रहीत् अलिटि इटो दीर्घः। अग्रहीष्टाम्। अग्रहीष्ट। जग्राह जगृहतुः जग्रहिथ जगृहिव। जगृहे जगृहिषे। ग्रहीता गृह्यात् ग्रहीषीष्ट ग्रहीष्यति ते। ग्रहीतव्यः ग्रहणीयम् ग्राह्यम् पदास्वैरिपक्ष्येषु गृह्यम्। छन्दसि प्रतिगृह्यमपिगृह्यं लोके तु प्रतिग्राह्यम् अपिग्राह्यम्। जलचरेणग्राहः। ज्योतिषि अच् ग्रहः। गृहीतः गृहीतिः। ग्रहणम् अप् ग्रहः। उद्ग्राहः मुष्टौ संग्राहः सञ्चये संग्रहः। ग्रहीतुर। गृहीत्वा प्रतिगृह्य। ज्ञाने “हंसं तनौ सन्निहितं चरन्तं मुनेर्जनोवृत्तिरिव स्विकायाम्। ग्रहीतुकामादरिणाशयेन” नैष०। “गृह्णाति चक्षुः सम्बन्धादालोकोद्भूतरूपयोः” भाषा०। हस्तव्यापारे “गृहाण शस्त्रं यदि सर्ग एष ते” “तौ जगृहतुः पादान् राजा राज्ञी च मागधी” रघुः। “दश गृहान् गृह्णाति” श्रुतिः स्वीकारश्च स्वत्वापदनव्यापारः सेवनादिना आयत्तीकरणञ्च तत्राद्ये “तत्र किञ्चिन्न गृह्णीयात् प्राणैः कण्ठगतैरपि” प्रा० त० गङ्गामा० द्वितीय “शरद्रौदं न गृह्णीयात् गृह्णीयात् मार्गपौषयोः” नीतिः कर्मणि गृह्यते अग्राहि अग्राहिषाताम् अग्रहीषाताम्। अग्राहिष्यते अग्रहीष्यते। णिच् ग्राहयति ते अजीग्रहत् त। सन् जिवृक्षति ते। यङ् जरीगृह्यते। यङ्लुक् जरी(रि)गृहीति जर्गृहीति जरी(रि)गडिर्ढ जर्गडिर्ढ मुग्ध०” सि० कौ० जाग्रहीति जाग्राढि। ज्ञानसामान्थार्थत्वे णिचि प्रयोज्यस्य कर्मत्वं “शिष्यं वेदं ग्राहयतीति। गुहणमात्रार्थकत्वेऽपि कर्मत्वम् मुग्धवो० “अजीग्रहत्त” जनको धनुस्तत्” भट्टिः। “अयाचितारं न हि देबदेवमद्रिः सुतां ग्राहयितुं शशाक” कुमा० अन्यमते भञ्जनीयत्वेन विवाह्यत्वेन च बोधयामासेत्यर्थकत्वात् नानुपपत्तिः। मुगधबो० द्विकर्मकमध्ये पाठात् “जग्राह यज्वनोभोज्यम्” उदा० पा० मते न द्विकर्मकतेति भेदः। वेदे हस्य भकारः। “इमामगृभ्णन् रसनामृतस्य” श्रुतिः। आर्षेऽपि क्वचित् हस्य भः गृभीतशब्दे उदा०।अति + अतिक्रम्य वर्तने “अतिग्रहाव्यथनक्षेपष्वकर्त्तरि तृतीयायाः” पा० “अतिक्रम्य ग्रहोऽतिग्रहः चारित्र्यतोऽतिगृह्यते चारित्र्येणान्यानतिक्रन्य वर्त्तते इत्यर्थः” सि० कौ० “तएतानतिग्राह्यान् ददृशुस्तानत्यगृहणत” शत० ब्रा० ४। ५। ४। २अनु + आनुकूल्यकरणे “वयमप्यनुगृह्णीमोद्विधा कृत्वा वरूथिनीम्” भा० वि० ९९६ श्लो०।सम् + अनु + बन्धनादिना आनुकूल्ये “अवमुच्य किरीटं स केशान् समनुगृह्य च। उदतिष्ठज्जरासन्धः” भा० स० ८९५ श्लो०।अप + सन्ततधारातोविच्छिद्य पृथक्कृत्य ग्रहणे “अपगृह्य पुनरिन्द्रवायू” कात्या० श्रौ० ९। ६। ३ “अपगृह्य सन्ततधारातोविच्छिद्य पृथक्कृत्वा पुनस्तस्या एव धाराया गृह्णाति” कर्कः अपसारणे च “अथैकं तृणमपगृह्णाति” शत० ब्रा० १। ८। ३। १६। “उभौ तृणे अपगृह्योपासाते” २। ५। २। ४२ रोधने च। “स (च्यवनः) ते विप्रः सह वज्रेण बाहुमपगृह्णात्तपसा जातमन्युः” मा० आश्व० ९ अ०प्रपि + पिधाने “यत्रैतत् कर्णावपिगृह्य निनदमिव” छा० उ० “अपिगृह्य पिधाय” भा० “तस्मात् कर्णं पितृदैवतं हि तदपिगृह्यम्” शत० ब्रा० ३। ८। १। १५। आच्छादने च “तस्मात् कल्पगन्धानपि गृह्णीत” शत० ब्रा० ४। १। ३। ८अभि + आभिमुख्येन ग्रहणे “अम्बालिका च बलवदभिगृह्य चण्डवर्मणा परिणेतुमात्मनोभवनमानीता” दशकु०अव + प्रतिरोधे नियमे च “मन्दोऽपि नाम न महानवगृह्यसाध्यः” मावः “देवनीयं शंसति पदावग्रहम्” तैत्ति० “वृष्टिर्वर्षं तद्विघातेऽवग्रहावग्रहौ समौ” अमरः “रावणावग्रहक्लान्तमिति वागमृतेन सः”। “वृष्टिर्भवति शस्यानामवग्रहविशोषिणाम्” रघुः।वि + अव + अवनतौ अक०। “तत्रैव कपालम् व्यवगृहीतान्तमिब भवति व्यवगृहीतान्तेव हि द्यौः” शत० ब्रा० ७। ५। १। २ “व्यवगृहीतान्तं विविधमवगृहीतोऽवनतः अन्तोयस्य” भा०आ + आभिमुख्येनाकर्षणे “आ त एता वचोयुजा हरीं गृभाण सुमद्रथा” ऋ० ८। ४५। ३९ “आगृभाण अस्मदभिमुखं यातुं हस्ताभ्यासाकर्षयेत्यर्थः” भा०। निर्बन्धे “चलेऽपि काकस्य पदार्पणाग्रहः” नैष०।आ + सम् + आभिमुख्येन संग्रहे “आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं संगृभाय” ऋ० ८। ८१। १। आसंगृभाय आभिमुख्येन संगृहाण” भा०उद् + ऊर्द्ध्वं विगृज्य दाने “वाजस्य मा प्रसव उद्ग्राभेणोद ग्रभीत्” यजु०१७। ६३। ऊर्द्धं विगृज्य दामम् उद्ग्रहः” वेददी० “उद्गृह्णते स्वाहोद्गृहीताय स्वाहा” २२। २६। उद्धृत्य उत्तोल्य ग्रहणे “शक्तिं योऽग्र्यामुदग्रहीत्” भट्टिः।उद + ग्रह + णिच्। उद्ग्राहि–उपन्यासे “उद्ग्राहितमुपन्यस्तम्” वैजयन्ती “विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते मया” माघः। “मोज्जिग्रहः सुनीतानि” भट्टिःउप + उद् + ज्ञाने। “तस्य हि मुखमुपोद्गृह्णन्नुवाच” छा० उ० “मुखं द्वारं विद्यायादाने तीर्थमुपोद्गृह्णन् जाननित्यर्थः” भा०उप + सामीप्येन ग्रहणे “दशापवित्रमुपगृह्य हिंकरोति” शत० ब्रा० ४। २। २। १४ अवष्टम्भे च “तेजो वा अद्भ्यो- भूयस्तद्वा एतद्वायुमुपगृह्याकाशमभितपति” छा० उ० “तद्वा एतत्तेजो वायुमुपगृह्यावष्टभ्य स्वात्मना निश्चलीकृत्य वायुमाकाशमभिव्याप्नुवत्तपति” भा०नि + बलेन निरोधे प्रातिकूल्यकरणेन नियमने च। “र वे प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा। निगृहीतो बलाद् द्वारि सोऽवातिष्ठत पार्थिवः” भा० व० १३६ अ०। “निगृहीतः कन्धरायां शिशुना दृढमष्टिना” हरिव० २० अ०। “तस्मात् यस्य महावाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता” गीता “अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” याज्ञ०प्रति + नि + प्रतिरूपतया ग्रहणे “आदित्यपात्रेण द्रोणकलसात् प्रतिनिगृह्णीते” शत० ब्रा० ४। ३। ५। ६वि + नि + विशेषेण निग्रहे “शिरःसु विनिगृह्यैतान् योधया मास पाण्डवः” भा० आ० १२८ अ०निस् + निःशेषोण ग्रहणे निग्रहे च “शक्रस्त्वमिति यो दैत्यैर्निर्गृहीतः किलाभवत्” भा० आनु० १९९८ श्लो०परि + परितोग्रहणे “बाहुन। परिजग्राह दक्षिणेन शिरोधराम्” भा० आ० ६३२ श्लो०। “ज्ञानेन परिगृह्य तान्” मनुः। स्वीकारे च “कस्य गुप्तः परिग्रहः” भा० आ० गन्धर्व्वं प्रति अर्जुनोक्तिःप्र + प्रकर्षेण ग्रहणे। “प्रगृहीतश्च योऽमात्योनिगृहीतश्च कारणैः” भा० वि० १२ श्लो०। सन्धिकार्यनिषेधाय विशिष्य ग्रहणे “प्रगृह्यं पदम्” प्रा० प्रगृह्यशब्दे दृश्यम्।प्रति + दत्तवस्तुनोग्रहणे “सप्त वित्तागमाः धर्म्यादायोलाभ क्रयो जयः। विभागः संप्रयोगश्च सत्प्रतिग्रह एव च” स्मृतिः “याजनाध्यापनप्रतिग्रहैर्व्राह्मणो धनमर्ज्जथेत्” श्रुतिः अदृष्टार्थत्यक्तद्रव्यस्वीकार एव प्रतिग्रहो मुख्यः अन्यत्र भाक्तः। “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः” “तत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि” प्रा० त० गङ्गामा०। “प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित्” प्रा० त० “अभिपद्यच बाहुभ्यां प्रत्यगृह्णादमर्षितः गा० व० ४४१ श्लो०। प्रतिरूपतया शस्तादिग्रहणे च “तर्थव पाण्डवो भीष्मे दिव्यमस्त्रमुदीरयन्। प्रत्यगृह्णादयेमात्मा” भा० वि० ६० अ०। स्वीकारमात्रे “प्रतिग्रहीतुं प्रणयिप्रियत्वात्” कुमा० “अमोघाः प्रतिगृह्णन्तावर्घानुपदमाशिषः” रघुः।वि + विरोधे रोधने। “सन्दधीत न चानार्यं विगृह्णीयान्न बन्धुभिः” भा० शा० ७० अ० “विगृह्य शत्रून् कौन्तेय! जेयः क्षितिपतिस्तदा” भा० आश्र०६ अ०। विशेषेण ज्ञाने “न बिग हणाति वैषम्यम्” भाग० ३। ३२। २। ४ श्लो०। “अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः” हरिः विशेषणग्रहः अवयवीभावः। विग्रहो देहः। “रक्तप्रसाधितभुवः क्षतविग्रहाश्च” वेणी पञ्चविधवृत्तिस्फुटीकरणवचनभेदे “वृत्त्यर्थविवरणं विग्रहः” सि० कौ० “सप्तम्या विग्रहस्थया” शब्दश० प्र०।सम् + सञ्चये नानास्थानपठितस्य एकत्र समावेशार्थे संदर्भभेदे “संग्रहेऽस्तमुपागते” वाक्यपदीयम्। सङ्कोचने “संगृह्णती कौशिकमुत्तरीयम्” भा० व० १५६०२ श्लो० एकत्रीकरणे “संगृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्” ८५५९ श्लो० सम्यक्ग्रहणे “औषधानि च सर्वाणि मूलानि च फलानि च। चतुर्विधांश्च वैद्यान् वै संगृह्णीयाद्विशेषतः” भा० शा० २६५४ श्लो०। मुष्टौ संग्राहः सञ्चये द्रव्यसंग्रहः” सि० कौ०

ग्रह = आदाने वा चुरा० उभ० पक्षे भ्वा० पर० सक० वेट्। ग्राहयति ते ग्रहति। अजिग्रहत्-त अग्रहीत् अघ्राक्षीत्।

ग्रह = पु० ग्रह–अच्। १ नवसु सूर्य्यादिषु। २ बालारिष्टकारेषु स्कन्दग्रहादिषु भावे अप्। ३ अनुग्रहे, ४ निर्बन्धे, “अवश्यभव्येष्वनवग्रहग्रहा” नैष० ५ आदाने ग्रहणे, ६ रणोद्यमे, ७ मलबन्धे, ८ चन्द्रसूर्ययोर्ग्रासे च “तदा सम्भाव्यते ग्रहः इति ज्योतिषम् “एकरात्रं परित्यज्य कुर्यात् पाणिग्रहं ग्रहे” ज्योति० सूर्यादयश्च “सूर्यश्चन्द्रोमङ्गलश्च बुधश्चापि वृहस्पतिः। शुक्रः शनैश्चरो राहुः केतुश्चेति नव ग्रहाः”। एषां गतिभेदाः खगगतिशब्दे २४१३ पृ० दर्शिताः। राहुकेत्वोर्यथा ग्रहत्वंपी० धा० व्यवस्थापितं तच्च केतुशब्दे २२३४ पृ० उक्तम्। शा० ति० १ पटले “लोकानद्रीन् स्वरान् धातून् मुनीन् द्वीपान् ग्रहानपि। समिधः सप्तसंख्याताः सप्त जिह्वा हविर्भुजः” इत्यनेन ग्रहाणां यत् सप्तत्वमुक्तं तत् वराहमताभिप्रायेण। तच्च १३११ पृ० उपरागशब्दे अमृतास्वादविशेषादित्याद्युक्तम्। अन्यमताभिप्रायेण ग्रहाणां नवत्वं ६ पटले शा० ति० उक्तं यथा “नव वर्गाः समुत्पन्ना नवरत्नेश्वरा ग्रहाः। अर्केन्दुरक्तज्ञगुरुभृगुमन्दाहिकेतवः। माणिक्य मौक्तिक चारु विद्रुमं गारुडं पुनः। पुष्परागं लसद्वज्रं नीलं गोमेदकं शुभम्। वैदूर्य्यं नव रत्नानि”। स्कन्दग्रहादीनां नवानां लक्षणविभागः सुश्रुते उक्तोयथा “अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः।। बालग्रहाणां विज्ञानं साधनञ्चाप्यनन्तरम्। उत्पत्तिं कारणञ्चैव सुश्रुतैकमनाः शृणु।। स्कन्दग्रह १ स्तु प्रथमः स्कन्दापस्मार २ एव च। शकुनी ३ रेवती ४ चैव पूतना ५ चान्धपूतना ६।। पूतना शीतनामा ७ च तथैव मुखमण्डिका ८। नवमो नैगमेयश्च ९ यः पितृग्रहसंज्ञितः।। घात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्। त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान् वा पूजाहेतोर्हिंस्युरेते कुभारान्।। ऐश्वर्य्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैर्विश्वरूपाः। आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति।। शूनाक्षः क्षतजसगन्धिकः स्तनद्विट्वक्रास्यो हतचलितैकपक्ष्मनेत्रः। उद्विग्नः सुललितचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्च्चाः १।। निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धः करचरणैश्च नृत्यतीव। विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनञ्च प्रसृजति तत्सखाभिपन्नः २।। स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात्। स्फोटैश्च प्रतततनुः सदाहपाकैर्व्विज्ञेयो भवति शिशुः क्षतः शकुन्या ३।। रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्त्तः। रेवत्या व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः ४।। स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड्भिन्नं सृजति च काकतुल्यगन्धिः। छर्द्यार्त्तो हृषिततनूरूहः कुमार स्तृष्णालुर्भवति च पूतनागृहीतः ५।। यो द्वेष्टि स्तनमतिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः। दुर्व्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्वरभिषजोऽन्धपूतनार्त्तम् ६।। उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः। विस्राङ्गो भृशमतिसार्य्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्त्तम् ७।। म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो वह्वाशी कलुषसिरावृतोदरो यः। सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः ८।। यः फेनं वमति विनम्यते च मध्ये सोद्वेगं बिलपति चोर्द्धमीक्षमाणः। ज्वर्य्येत प्रततमथो वसासगन्धिर्न्निःसज्ञो भवति हि नैगमेयजुष्टः ९।। प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः। तं बालं नचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः। विपरीतमतःसाध्यं चिकित्सेदचिरार्दितम्। गृहे पुरा- णहविषाभ्यज्य बालं शुचौ शुचिः।। सर्षपान् प्रकिरेत्तेषां तैलैर्दीपञ्च कारयेत्। सदासन्निहितञ्चापि जुहुयाद्धव्यवाहनम्।। सर्वगन्धौषघीवीजैर्गन्धमाल्यैरलङ्कृतम्। अग्नपे कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्मरन्।। नमः स्कन्दाय देवाय ग्रहाधिपतये नमः। शिरसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम्।। निरुजो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम्”। सोत्पत्तिकमन्यग्रहभेदा भा० व० २२९ अ० उक्ताः यथा

“यावत् षोडश वर्षाणि भवन्ति तरुणाः प्रजाः। प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः। अहञ्च वः प्रदास्यामि रौद्रमात्मानमव्ययम्। परमं तेन सहिताः सुखं वत्स्यथ पूजिताः। मार्कण्डेय उवाच। ततः शरीरात् स्कन्दस्य पुरुषः पावकप्रभः। भोक्तुं प्रजाः स मर्त्त्यानां निष्पपात महाबलः। अपतत् सहसा भूमौ विसङ्गोऽथ क्षुधार्द्दितः। स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः। स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः।। विनता तु महारौद्रः कथ्यते शकुनीग्रहः। पूतनां राक्षसीं प्राहुस्तं विद्यात् पूतनाग्रहम्। कष्टा दारुणरूपेण घोररूपा निशाचरी। पिशाची दारुणाकारा कथ्यते शीतपूतना। गर्भान् सा मानुषीणान्तु हरते घोरदर्शना। अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः। सोऽपि बालान्महाघोरो बाधते वै महाग्रहः। दैत्यानां या दितिर्माता तामाहुर्मुखमुण्डिकाम्। अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा। कुमाराश्च कुमार्य्यश्च ये प्रोक्ताः स्कन्दसम्भवाः। तेऽपि गर्भभुजः सर्वे कौरव्य! सुमहाग्रहाः। तासामेव तु पत्नीनां पतयस्ते प्रकीर्त्तिताः। अज्ञायमाना गृह्णन्ति बालकान् रौद्रकर्म्मिणः। गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप!। शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून् भुवि। सरमा नाम या माता शुनां देवी जनाधिप!। सापि गर्भान् समादत्ते मानुषीणां सदैव हि। पादपानाञ्च या माता करञ्जनिलया हि सा। वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी। करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनो नराः। इमेःत्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः। द्विपञ्चरात्रं(१०)तिष्ठन्ति सततं सूतिकागृहे। कद्रुः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ। भुङ्क्ते सा तत्र तं गर्भं सा तु नामं प्रसूथते। गन्धर्वाणाञ्च या माता सा गभं गृह्य गच्छति। ततो विलीनगर्भा सा मानुषी भुवि दृश्यते। या जनित्री त्वपसरसां गर्भमास्ते प्रगृह्य सा। उपविष्टं ततो गर्भं कथयन्ति मनीषिणः। लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता। लोहितायनिरित्येवं कदम्बे सा हि पूज्यते। पुरुषषु यथा रुद्रस्तथार्य्या प्रमदास्वपि। आर्य्या माता कुमारस्य पृथक्कामार्थमिज्यते। एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः। यावत् षोडशं वर्षाणि ह्यशिवास्ते शिवास्ततः। ये च मावृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः। सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः। तेषां प्रशमनं कार्य्यं स्नानं धूपमथाञ्जनम्। बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः। एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्। आयुर्वीर्य्यञ्च राजेन्द्र! सम्यक्पूजानमस्कृताः। ऊर्द्धन्तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम्। तानहं संप्रवक्ष्यामि नमस्कृत्य भहेश्वरम्। यः पश्यति नरो देवान् जाग्रद्वा शयितोऽपि वा। उन्माद्यति स तु क्षिप्रं तन्तु देवग्रहं विदुः। आसीनश्च शयानश्च यः पश्यति नरः पितॄन्। उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः। अवमन्यति यः सिद्धान् क्रुद्धाश्चापि शपन्ति यम्। उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः। उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसग्रहः। गन्धर्वाश्चापि यं विद्याः संविशन्ति नरं भुवि। उन्माद्यति स तु क्षिपं ग्रहो गान्धर्व एव सः। अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति। उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः। आविशन्ति च यं यक्षाः पुरुष कालपर्य्यये। उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः। यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः। उन्माद्यति स तु क्षिप्रंसाधनं तस्य शास्त्रतः। वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्। उन्माद्यति स तु क्षिप्रं सान्त्व तस्य तु साधनम्। कश्चित् क्रीडितुकामो वै भोक्त कामस्तथाऽपरः। अभिकामस्तथेवान्यैत्येष त्रिविधो ग्रहः। यावत् सप्ततिवर्षाणि भवन्त्येते ग्रह। नृणाम्। अतःपरं देहिनान्तु ग्रहतुल्यो भवेज्ज्वरः। अप्रकीर्णोन्द्रय दान्तं शुचिं नित्यमतन्द्रितम्। आस्तिकं शुद्धचारञ्च वर्ज्जयन्ति सदा ग्रहाः। इत्येषते ग्रहोद्देशो मानुषाणां प्रकीर्त्तितः। न स्पृशन्तिग्रहा भक्तान्नरान्देवे महेश्वरे”। नवग्रहध्यानादिकं ग्रहयज्ञशब्दे वक्ष्यते। ग्रहकक्षादिमानं तद्भगगदिकञ्च तत्तद्घशब्दे उक्तं वक्ष्यमाणञ्च दृश्यम्। “उञ्चस्थे ग्रहपञ्चके” ति० त० श्रीरामजन्मदिने “ग्रहैततः पञ्चभरुच्चसंस्थितैः” रघुः। गृह्यतेऽनेन करणे अप्। ९ सोमा दग्रहणपात्रे “दश ग्रहान् गृह्णाति” “गृहं समाष्टि” श्रुतिः सोमादिग्रहणसाधनपात्रनातानि च यागभेदेन भिन्नानि तानि “दश सोमग्रहान् गृह्णाति” इत्यादौ शत० ब्रा० दर्शितानि। एवं यागभेदे ग्रहभेदाः तत्रोक्ता दृश्याः। गृह्यतेऽनेन करणेऽप्। १० घ्राणाद्यष्टके घ्राणादीनां ग्रहत्वम् वृ० उ० उक्तं यथा “याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहाः? इति अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रडाः कतमेते? इति। पाणो १ वै ग्रहः सोऽपानेनातिप्राहेण गृहीतोऽपानेन हि गन्धं जिघ्रति। वाग् २ वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्य भवदति। जिह्वा ३ वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति। चक्षु ४ वै ग्रहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति। श्रोत्रं ५ वै ग्रहः स शब्देनातिग्राहेण गृहीतः। श्रोत्रेण हि शब्दाञ्छृणीति। मनो ६ वै ग्रहः स कामेनातिग्राहेण गृहीतो मनसा हि कामान् कामयते। हस्तौ ७ वै ग्रहः स कर्म्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म्म करोनि। त्वग्८ वै ग्रहः स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः” वृ० उ०। “ये तेऽष्टौ ग्रहा अभिहिताः कतमे ते नियमैन ग्रहीतव्या इति तत्राह। प्राणो वै ग्रहः प्राण इति घ्राणमुच्यते। प्रकरणाद्वायुसहितः सोऽपानेनेति गन्धेनोयेतदपानसचिवत्वादपानो गन्ध उच्यते। अपानोपहृतं हि गन्धम् घ्राणेन सर्षोलोको जिघ्रति। तदेतदुच्यते अपानेन हि गन्धान् जिघ्रतीति। वाग्वै ग्रहो बाचा ह्यध्यात्मपरिच्छिन्नया आसङ्गविषयास्पदया सत्याऽनृताऽसभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकोऽपहृतः तेन वाक् ग्रहः स नाम्नातिग्राहेण गृहीतः स वागाख्यो ग्रहो नाम्ना वक्तव्येन षिपयेणातिग्राहेणातिग्राहेणेति दैर्घ्यं छान्दसं, नाम बक्तव्यार्था हि वाक्। तेन व्यक्तव्येनार्थेन प्रयुक्ता वाक् तेन वशीकृता तेन तत्कार्य्यमकृत्वा नैव तस्या मोक्षः। अतो नाम्नातिग्रहेण गृहीता वानित्युचर्त वक्तव्यासङ्गेन हि प्रवृत्ता सर्वानर्थेर्युज्यते। समानमन्य दत्यते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्य्यन्ताश्च एतेऽष्टावतिग्रहा इति” भा०।

ग्रहकल्लाल = पु० ग्रहेषु कल्लोल इव। राहौ त्रिका०।

ग्रहकुष्माण्ड = पु० गृह्णाति ग्रह–अच् कुप्राण्डमादा कारोऽस्त्यस्य अच् कर्म्म०। नराणामुपद्रावके कुमाण्डाकारे सत्वभेदे। “डाकिनी शाकिनी भूतप्रेता वेताल राक्षसाः। ग्रहकष्माण्डखेटाङ्गा कालकर्णीशिशुग्रहाः। सर्व्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्” का० ख० ३३ अ०। अत्र ग्रह इति भिन्नं पदमित्यन्ये

ग्रहगणित = न० ग्रहाणां तद्गत्यादीनां गणितं गणनं यत्र। त्रिस्कन्धज्यौतिषान्तर्गते तन्न मके स्वान्धभेदे “ज्योतिः शास्त्रमनेकभेदविषयं स्कन्धत्रवाधिष्ठितम्” इत्युपक्रमे “स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानं त्वसौ” वृ० स० १ अ०। “ग्रहगणितहोरासंहिताहोरा ग्रन्थार्थवेत्ता। तत्र ग्रहगणिते पौलिशरोमकबासिष्ठ सौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु” इत्यनेन तत्रैव तद्भेदा उक्ताः। तत्पाद्यविषयाश्च गणकशब्दे दर्शिततद्वाक्ये उक्तप्रायाः। सौरागमप्रतिपाद्यविषयाश्च सि० शि० सम्मता यथा। मध्यमाधिकारः कालज्ञानम् भगोलः ग्रहस्कुटीकरणम्। ग्रहकक्षा प्रत्यब्दशुद्धः अधिमासादि स्फुटीकरणम्। त्रिप्रश्नाधिकारः। पर्व्वसम्भवः चन्द्र ग्रहणम् सूर्य्यग्रहणम् ग्रहणच्छाया ग्रहोदयास्तनिर्ण्णयः। शृङ्गेन्नतिः ग्रहयुतिः भग्रहयुतिः पाताधिकारः। एनेषां च विशेषस्तत्तच्छब्दे उक्तोवक्ष्यते च।

ग्रहगति = स्त्री ६ त०। ग्रहाणां प्रत्यहं भांशगमनभेदे। तत्र खगगति शब्दे २४१४ पृ० ग्रहग्रतिभेदास्तत् कारणादिकं च दर्शितम्। तत्र ग्रहाणां सावनदिनगतिमानं सि० शि० उक्तं तच्च खगोलशब्दे २४३२ पृ० उक्तायमपि विशेषोऽत्रोच्यते। तत्र ग्रहाणा दिनगतिसाधनं सि० शि० उक्तं यथा “महीमितादहर्गणात् फलानि यानि तत्कलाः। भवन्ति मध्यमाः क्रमान्नभासदां द्युभुक्तयः। समा गतिस्तु योजनैर्नभःमदां सदा भवेत्। कलादिकल्पनायशान्मृदुद्रुता च सा स्मृता” सि० शि०। “अत्रोपपत्तिस्त्रैराशिकेन। पूर्वं गतिर्योजनात्मिका ग्रहाणां तुल्यैबोक्ता। इदानीमतुल्या। सा कलादिकल्पनावशात्। इदानीमतुल्यत्वे कारणमाह” प्रमिता० “कक्षाः सर्वा अपि दिविषदां चक्रलिप्ताङ्कितास्ता वृत्ते लब्ध्यो लघुनि महति स्युर्महत्यश्च लिप्ताः। तस्मादेते शशिजभृगुजादित्यभौमेज्यमन्दा मन्दाक्रान्ता इव शशधराद्भान्ति यान्तः क्रमेण” सि० शि०। “यतः सर्वा अपि कक्षाश्चक्र २१६००। लिप्ताभिरेवाङ्किताः अतो महति वृत्ते महत्यो लिप्ताः स्युः। लघुनि लघ्व्यः। तद्यथा चन्द्रकक्षा सर्वाधःस्था लघुः। तस्यामेका कला पञ्चदशभिर्योजनैर्भवति। शनेः कक्षा सर्पोपरिस्था सा महती। तस्यामेका कला योजनानां षड्भिः सहस्रैरेकसप्तत्योनै ५९२९ र्भवति। योजनं चतुःक्रोशमेव। अतश्चन्द्रात् सकाशादूर्ध्वोर्ध्वस्था बुधशुक्रादयः क्रमेण मन्दाक्राता मन्दगतय इव भान्ति। मन्दाक्रान्ताछन्दोऽपि सूचितम्” प्रमिता०। स्फुटगतिमाह “दितान्तरस्पष्टखगान्तरं स्याद् ग तः स्फुटा तत्समयान्तराले। कोटी फलघ्नी मृदुकेन्द्रभुक्तिस्त्रिज्योद्धृता कर्किमृगादिकेन्द्रे। तया युतोना ग्रहमध्यभुक्तिस्तात्कालिकी केन्द्रपरिस्फुटा स्वात्। समीपतिथ्यन्तसम्प्रीपचालनं विधोस्तु तत्कालजयैव युज्यते। सुदूरसंचालनमाद्यया यतः प्रतिक्षण सा न समा महत्त्वतः” सि० शि०

अद्यतनश्वस्तनस्फुटग्रहयोरौदयिकयोर्दिनार्द्धजयोर्वास्त कालिकयोर्वा यदत्तरं कलांदिकं सा स्फुटा गतिः। अद्यतनात् श्वस्तने न्यूने वक्रा गतिर्ज्ञेया। तत्समयान्तराल इति। तस्य कालस्य मध्येऽनया गत्या ग्रहश्चालयितुं युज्यत इति। इयं किल स्थूला गतिः। अथ सूक्ष्मा तात्कालिकी कथ्यते। तुङ्गगत्यूना चन्द्रगतिः। अन्येषां ग्रहाणां गृहगतिरेव केन्द्रगतिः। मृदुकेन्द्रकोटिफलं कृत्वा तेन केन्द्रगतिर्गुण्या त्रिज्यया भाज्या लब्धेन कर्क्यादिकेन्द्रे ग्रहगतिर्युक्ता कार्या। मृगादौ तु रहिता कार्या। एवं तात्कालिकी मन्दपरिस्फुटा स्यात्। तात्कालक्या भुक्त्या चन्द्रस्य विशिष्टं प्रयोजनम् तदाह। समीपतिथ्यन्तसमीपचालनमिति। यत्कलिकश्चन्द्रस्तस्मात् कालाद्गतो वा गम्यो वा यदासन्नस्तिथ्यन्तस्तदां तात्कालिक्या गत्या तिथिसाधनं कर्तुं युज्यते। तथा समीपचालनं च। यदा तु दूरतरस्तिथ्यन्तो दूरचालनं वा चन्द्रस्य तदाद्यया स्थूलया कर्तुं युज्यते स्थूलकालत्वात्। यतश्चन्द्रगतिर्महत्त्वात् प्रतिक्षणं समा न भवति। अतस्तदर्थमयं विशेषोऽभिहितः। अथ गतिफलवासना। अद्यतनश्वस्तनग्रहयोरन्तरं गतिः। अत एव ग्रहफलयोरन्तरं गतिफलं भवितुमर्हति। अथ तत्साधनम्। अद्यतनश्वस्तनकेन्द्रयोरन्तरं केन्द्रगतिः। भुजज्याकरणे यद्भोग्यखण्डं तेन सा गुण्या शरद्विदस्रैः २२५ भाज्या। तत्र तावत् तात्कालिकभोग्यखण्ड- करणायानुपातः। यदि त्रिज्यातुल्यया कोटिज्ययाद्यं भोग्यखण्डं शरद्विदस्रतुल्यं लभ्यते तदेष्टया किमित्यत्र कोटिज्यायाः शरद्विदस्रा २२५ गुणस्त्रिज्या हरः। फलं तात्कालिकं स्फुटभोग्यखण्डं तेन केन्द्रगतिर्गुणनीया शरद्विदस्रैर्भाज्या। अत्र शरद्विदस्रमितयोर्गुणकभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः कोटिज्या गुणस्त्रिज्या हरः स्यात्। फलमद्यतनकेन्द्रदोर्ज्ययोरन्तरं भवति। तत्फलकरणार्थं स्वपरिधिना गुण्यं भांशै ३६० र्भाज्यम्। पूर्ब्बं किल गुणकः कोटिज्या सा यावत् परिधिना गुण्यते भांशै ३६० र्ह्रियते तावत् कोटिफलं जायत इत्युपपन्नं कोटी फलघ्नी मृदुकेन्द्रभुक्तिरित्यादि। एवमद्यतनश्वस्तनग्रहफलयोरन्तरं तद्गतेः फलं कर्क्यादिकेन्द्रे ग्रहर्णफलस्यापचीयमानत्वात् तुलादौ धनफलस्योपचीयमानत्वाद्धनम्। मकरादौ तु धनफलस्यापचीयमानत्वान्मेषादावृणफलस्योपत्तीयमानत्वादृणमित्युपपन्नम्” प्रमिता०।

ग्रहगन्ध = पु० ६ त०। ग्रहयज्ञशब्दे वक्ष्यमाणे सूर्य्याद्युद्देशेन देये रक्तचन्दनादौ।

ग्रहगोचर = पु० ६ त०। ग्रहाणां जन्मराशितःस्थानभेदेन शुभाशुभसूचके गतिभेदे। गोचरशब्दे उक्तप्रायोऽपि विशेषोऽत्राभिधीयते यथा वृ० सं० १०४ अ०। तत्र ये श्लोकायच्छन्दस्कास्तन्नामापि तत्र भङ्ग्योक्तं द्रष्टव्यम् “प्रायेण गोचरो व्यवहार्य्योऽतस्तत्फलानि वक्ष्यामि। नानावृत्तैस्तन्नो मुखचपलत्वं क्षमत्वार्याः। माण्डव्य गिरं श्रुत्वा न मदीया रोचतेऽथवा नैवम्। साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला। सूर्यः षट्त्रिदशस्थितस्यिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्तनवद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ। सौम्यः पड्द्विचतुर्दशाष्टमगतः सर्वेऽप्युपान्त्ये शुमाः शुक्रः सप्वमषड्दशर्क्षसहितः शार्दूलवत्त्रासकृत्।रचेः–जन्मत्यायासदोऽकेः क्षप्रयति विभवान् कोष्ठरोगाध्वदाता वित्तभ्रंशं द्वितीये दिशति च न सुखं पञ्चनां दृग्रुजं च। स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता रोगीन्धते चतुर्थ जनयति च मुहुः स्रग्धरा भोगविघ्नम्। पोडाः स्युः पञ्चमस्थे सवितरि बहुशा रंगारिजनिताः षष्ठेऽर्का हन्ति रोगात् क्षपयति च रिपूञ्छ कांश्च नुदति। अध्वानं सप्तवस्थो जठरगदभय दैन्यं च कुरुते रुक्क सौ चाष्टमस्थे भवति सुवदना न स्वापि वनिता। रवावापद्दैन्य रुगित० नवमे चित्तचष्टाबिरोधो जयं प्राप्तोत्युत्यं द्रशमाटहगे कर्मसिद्धिं क्रमेण। जयं स्थानं मानं विगवमपि चैकादशे रोगनाशं, सुवृतातां चेष्टा भवति सफला द्वादशे नेतरेषाम्।विघोः–णथी जन्मन्यन्नपवरगयनाच्छादनकरो द्वितीये मानार्धौ ग्लायति सविघ्नश्च भयति। त्रतीये वस्त्रस्त्रोधननिचयसौख्यानि लभते चतुर्थेऽविश्वासः शिखरिणिभुदङ्गेन सदृशः। दैत्यं व्याधिं शुचमपि शरी पञ्चमे माग विध्नं षष्ठे वित्तं जनयति सुखं शतुरोगक्षयं च। यानं मानं शयनमशनं सप्रने वित्तलाभं मन्दाक्रान्ते फणिनि हिगगौ चाष्टसे भीर्न कस्य। नवभगृहगो बन्धोद्वेगश्रमादररोगकृद्दशपभवते चाज्ञाकन सिद्धिकरः शशी। उपचयसुहृत्संयोगार्य मोदषुपात्यगो वृषभचरितान्दषानन्त्ये करोति हि सव्ययान्।कुजस्य–कजेऽभव तः प्रथमे, द्वितीये नरेन्द्रपीडा कलहारिदोपैः। भृणं च पित्तानलरोगचौरैरुपेन्द्रवज्रप्रतिमोऽपि यः स्यात्। तृतीयगङ्गौरकुमारकेस्यो भौमः सकाशात् फलमाटधाति। प्रदाप्तिमाज्ञां धनमौर्णिकानि धात्वा कराख्यनि किलापराण। भवति धरणिजे चतुर्थगे ज्वरजठरगदसृपुद्भत्रः। कुपुरुषजनिताच्च सङ्गमात् प्रसभमपि करोति चाशुभम्। रिपुगदकोपभयानि पञ्चने तनयकृताश्च शुचो महीसुते। द्युतिरपि नास्य चिरं भवेत् स्थिरा शिरसि कपेरिव मालती कृता। रिपुभयकलहैर्बवजिंतः स कनकविद्रुमतामकागमः। रिपुभवनगते महीसुते किमपरवक्त्रविकारमीक्षते। फलत्रकलहाक्षिरुग्जठररोगकृत् सप्तनो क्षरत्क्षतजरू क्षतः क्षयितवित्तमानोऽष्टभे। कजे नवमसंस्थिते परिभवार्थनाणादि भर्विलम्बितगतिर्भवत्यबलदेहधातुकुमैः। दशमगृहगते सदा महोजे पिविधवनाप्तिरुपान्त्यगे जयश्च। जनपदमुपरिस्थितश्च भुङ्क्ते वनमिव षट्चरणः सुपु- ष्पिताग्रम्। नानाव्ययैर्द्वादशगे महीसुते मस्ताप्यतेऽनर्थशतैश्च मानवः। स्त्रीकोपपितैश्च स नेत्रयेदनैर्योऽपीन्द्रवंशामिजनेन गर्वितः।बुधस्य–दुष्टवाक्यविशुनाहितभेदैर्वन्धनैः सकलहैश्च हृबस्वः। जन्मगे शशिसुते पथि गच्छन् स्वःगतेऽप्रि कुशल’ न शृणोति। परिभवो धनगते धनस्तब्धिः सहजगे शशिसुते सुहृदाप्तिः। नृपतिशत्रुभयशङ्कितचित्तो द्रुतपदं व्रजति दुश्च रतैः स्वैः। चतुर्थपे स्वजनकटुष्ववृद्धषौ धनागभो भवति च शीतरश्मिजे। सुतस्थिते तनयकलत्रविग्रहो निषेवते न च रुचिरामपि स्त्रियम्। सौमाग्यं विजयमथोन्नतिं च षष्ठे वैवर्ग्य कलहमतोव सप्तमे ज्ञः। मृत्युस्थे सुतजयवस्त्रवित्तलाभा नैपुपय भवति भतिप्रहर्षणीयम्। विव्नकरो नवमः शणित्रः कर्मगतो रिपुहा धनदर्ब। मामदं शयनं च विधत्ते तद्गृहदोऽथ कुथास्तरणं च। धनसुखबुतयोषिन्मित्रवाहाप्तितुष्टिस्तु हिनकिरणपुत्रे लाप्रगे मृष्टवाक्यः। रिपुपरिभवरोगैः पीडितो द्वादशस्थे न सहति परिभोक्तु मालिनीयोगसौख्यम्।गुरोः–जीवे जत्मन्यपगतवनधोः स्थानम्रष्टो वहुकलहयुतः। प्राप्यार्थऽर्थान् व्यरिरपि कुरुते क न्तास्याब्जे भ्रमरविलसितम्। स्थानभ्रंशात् कार्यविघाताच्च तृतीयेऽनेकैः क्लेशेबन्धुजनोत्थैश्च चतुर्थे। जीवे शान्तिं पीडितचित्तश्च स विन्देन्नैव ग्रामे नापि वने मत्तमयूरे। जनयति च तनयमवनरपगतः परिजनशुभसुतकरितुरगवृपान्। सकनकपुरगृहयुवतिगसनकृ। मणिगुणनिकरकृदपि विवुधगुरुः। न सखीवदनं निलकोज्ज्वल न भवनं शिखिकोकिलनादितम्। हरिण प्लुतशावविचित्रितं रिपुगते मनःमुखदं गुरौ। त्रिदशगुरुः शयनं रतिप्रोगं धनमशनं कुसुलान्युपवाह्यम्। जनयति सप्तमराशिमुपेतो ललितपदां च गिरं धिपणां च। बन्ध व्याधिं चाष्टमे शोकमुग्रं मार्गक्लशं मृत्युतुल्यांश्च रागान्। नैपुण्याज्ञा पुत्रकर्मार्यसिद्धिं धर्मे जीवः शालिनीनां च लाभम्। स्थानकल्यधनहा दशर्क्षगस्तत्प्रदो गवति लाभगा गुरुः। द्वःदशेऽध्वनि बिलोमठःखमाग् याति यद्यपि नरो रथोद्धतः।भृगोः–प्रथमगृहोपगो भृगुसुतः स्मरोपकरणैः सुरभिमनोज्ञगन्धकसुभाम्बरैरुपचयम्। शयनगृहासनाशनयुतस्य चानुकुरूते समदविलासिनीमुस्वसरोजषट चरणतोभ्। शके द्वितीयग्रहगे प्रसवार्थधात्यभूपालसन्नतिकुटुम्बहितान्यवाप्य। संसवते कुतुमरत्नविभूषितश्च कामं वसन्ततिलकद्युतमूर्धजाऽपि। आज्ञाथमानास्पदभूतिव स्त्रशत्रुक्षयान् दैत्यगुरुस्तृताये। धत्त चतुर्थश्च सुहृत्समाजं रुद्रेन्द्रवज्रपतिमां च शक्तिम्। जंनयति शुक्रः पञ्चमसस्थो गुरुपरितोषं बन्धुजनाप्तिम्। सुतधनलब्धि मित्रसहायान् अनवसतत्वं चारिबलेषु। षष्ठो भृगुः परिभवरोगमापदः स्त्रीहेतुकं जनयति सप्तमोऽशुभम्। यातोऽष्टमं भवन परिच्छदप्रदो लक्ष्मीवतीमुपनयति स्त्रियं च सः। नयमे तु धर्मवनितासुखमाग् भृगुजेर्थवस्त्रनिचयश्च भवेत्। दशमेऽवमानकलहान्नियमात् प्रमिताक्षराण्यपि षदन् लभते। उपान्त्यगो भृगः सुतः सुहृद्धनान्नगन्धदः। धनाम्बरागमोऽन्त्यगे स्थिरस्तु नाम्बरागमः।शनेः–प्रथमे रविजे विषवह्निहतः स्वजनेर्विधुतः कृतबन्धबधः। परेदेशमुर्पत्यसुहृद्भवनो पिमुखार्थसुतोऽटकदीनमुखः चारवशाद्द्वितीयगृहगे दिनकरतनये रूपसुखापवर्जिततनुर्विगतमदवलः। अन्यगुणैः कृतं वसुचयं तदपि खलु भववृम्ब्विव वंशपत्रपतित न बहु न व चिरम्। सूर्यसुगे ततीपगृहगे धनानि लभते दासपरिच्छदीष्ट्रमहिषाश्वकुञ्जरखारान्। सद्मविभूतिसौख्यम मतं गदव्युपरमं भीरुरपि प्रशास्त्यधि रिपूंश्च वीरनलितैः। चतुयं गृह सूर्यपुत्रेऽभ्युपेते सुहृद्वित्तमार्यादभिर्विप्रयुक्तः। भवत्यम्य सर्वत्र चासाधुकष्टं भुजङ्गप्रयातानुकारं च चित्तम्। सुतधनपरिहीणः पञ्चमस्थे प्रचुरकलहयुक्तश्चार्कपुत्रे। विनिहतरिपुरोगः षष्ठयाते पिबति च वनितास्यं श्रीपुटोष्ठम्। गच्छत्यध्वानं सप्तमे चाष्टमे च हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः। तद्वधर्मस्थे वैरहृद्रोगवन्धैर्धर्मोऽव्युच्छिद्येद्वैश्वदेवीक्रियाद्यः। कर्मप्राप्तिर्दशमेऽर्थक्षयश्च विद्याकीर्त्योः परिहाणिश्च सौरे०। तेक्षुण्यं लाभे परयोषार्थलाभा अन्त्ये प्राप्नोत्यपि शोकोर्मिमालाम्। अपि कालमपेक्ष्य च पात्रं शुभकृ द्वदधात्यमुरूषम। न मधो बहु कं कुडवे च विसृजत्यपि मेघपितानः। रक्तैः पुष्पैर्ग न्धैताम्रः कन{??}कुलकुसुमैर्दिवाकरभूसुतौ भक्त्या पूज्याविन्दुर्धेन्वा सितकुमुमरजतमधुरैः सितश्च मदप्रदैः। कृष्णद्रव्यैः सौरिः सौम्यो मणरजततिलककमुमैर्गुरुः परिपीतकैः प्रीतैः पीडा न स्यादुच्चाद्यदि पतति वि- शति यदि वा भुजङ्गविजृम्भितम्। शमयेद्गतामशुभदृष्टिमपि विबुधविप्रपूजया। शान्तिजपनियमदानदमैः सुजनाभिमाषणसमागमेस्तथा। रविभौमौ पूर्वार्द्ध्वे शशिसौरा कययतोऽन्त्यगौ राशेः। सदसल्लक्षण मार्यागात्यु गोत्योर्यथासंख्यम्। आदौ यादृक् सौम्यः पश्चादपि तादृशो भवति। उपगीतेर्मात्राणां गणवत्सत्सम्प्रयोगो वा। आर्याणामपि कुरुते विनाशमन्तर्गुरुर्विषमसंस्थः। गण इव षष्ठे दृष्टश्च सर्वलघुतां गतो नयति। अशुभनिरीक्षितः शुभफलो बलिना बलवान् अशुभफलपदव शुनदृग्विषयोपगतः। अशुसशुभावपि स्वफलयोर्व्रजतः समताम् इदमपि गीतकं च खलु नर्दटकं च यथा। नीचेऽरिभेऽस्ते चारिदृष्टस्य र्सां वृथा यत्परिकीर्त्तितम्। पुरतोऽन्धस्येव भामित्याः सविलासकटाक्षनिरीक्षणम्। सूर्यसुतोऽर्कफलसमश्चन्द्रसुतश्छन्दतः समनुयाति। यथास्कन्धकमार्यागीतिर्वैतालीयं च मागधी गाथार्याम्। सौरोऽर्करश्मिरागात् सविकारो लब्धवृद्धिरधिकतरम्। पित्तादाचरति नृणां पथ्यकृतां न तु तथार्योणाम्। यादृशेन ग्रहणेन्दुर्युक्तस्तादृग्भवेत्सोऽपि। मनो{??}मायोगा {??}कार इव वक्त्रस्य। पञ्चमं सर्वपादेषु सप्तमं द्विचतुर्थयोः। यद्वच्छ्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः। प्रकृत्यपि लघुर्यश्च वृत्तबाह्ये व्यवस्थितः। स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः। प्रारब्धातुस्थिनैर्गहेवत् कर्मात्मविवृद्धयेऽवुधैः। विनिहन्ति तदेव कर्म तान् वैतालीयमिवायथाकृतम्। सौस्थित्यमवेक्ष्य यो ग्रहभ्यः काले प्रक्रमणं करोति राजा। अणुनापि स पौरुषेण वृत्तस्योपच्छन्दसिकस्य याति पारम्”। अत्र ग्रहगोचरफलमर्ध्ये राहुत्वोः फलानुत्कीर्त्तनं ग्रहसप्तकाभिप्रायेणेति बोध्यम्। अत्र विशेषः ज्यो० त० उक्तो यथा “गोचरपीडायामपि राशिवलिभिः शुभग्रहैर्दृष्टः। पीडां न करोति तथा पापैरेवं विपर्य्यासः। गोचरापवादः। “दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययातौ। रविसुतशशिनौ विनिर्गमस्थौ शशितनयः फलदस्तु सर्व्वकालम्”। राशित्रिभागफलम्। “सप्तमोपचवाद्यस्थश्चन्द्रः मर्तत्र शोभमः। शुकृपक्ष। द्वितीयस्तु पञ्चमोनवमस्तथा। सितशनिकुजजीवार्कास्तदिन्दर्नराणां व्ययसुखनवमस्थोऽपीष्टदाताऽथतेषाम्। खसुतनिधनगश्चेत् मृत्युपत्रार्थगोऽपि प्रचुरशुभफलः स्यात् वामषेधेन शुद्धः”। वामवेधश्च द्यूनजन्मेति एवमत्रेति वक्ष्यमाणवचनाभ्यामेकार्थत्वाद्बोद्धव्यम्। “उपचयकरयुक्तः सव्यगः शुक्लपक्षे शुभमभिलषमाणः सौम्यमध्यस्थितोवा। सखिवशिगृहयुक्तः कारकर्क्षेऽपि चेन्दुर्जयधनसुखबाता तत्प्रहर्त्तान्यथा तु”। सव्यग उत्तरायणचारी। उपचयकरस्य पश्चाद्वर्त्ती वा अतएयोक्तम्। “भानां यथा सम्भवमुत्तरेण पश्चाद्ग्रहाणां यदि वा शशाङ्कः। शुभप्रदानां शुभदः प्रयाणे याम्येन यातोन शुभः शशाङ्कः। योयस्य दशमगृहगः स तस्य वश्योभवति नियमेन। स्वर्क्षतुङ्गमूलत्रिकोणगाः कण्टकेषु यावन्त आस्थिताः। जन्मकालवशगास्ते तु कारकाः कर्म्मगास्तु तेषां विशेषतः। सितपक्षादौ चन्द्रे शुभे शुभं पक्ष मशुभमशुभे च। कृष्णे गोचरशुभदोन शुभः पक्षः शुभोऽतोऽन्यः”। भीमपराक्रमे। “शुक्लेपक्षे प्रतिपदि चन्द्रे शिवे शिवं पक्षम्। कृष्णे प्रतिपदि ताराशुद्धौ शुभं विदुः पक्षम्”। सर्षापवादस्तत्रैव “मार्कण्डेय पुराणम् “द्रव्ये गेष्ठेषु भृत्येषु सुहृत्सु तनयेषु च। भार्य्यायाञ्च ग्रहे दुष्टेभयं पुण्यवतां नृणाम्। आत्मन्यथाल्पपुपयानां सर्वत्रैवातिपापिनाम्। न कुत्रापिह्यपापानां नराणां जायते भयम्”।

***