गृहाक्ष = पु० गृहस्याक्षीव षच् समा०। गवाक्षे वातायने त्रिका०।

गृहागत = पु० गृहमागतः आ + गम–क्त २ त०। १ आगन्तुके, अतिथौ। २ गृहागतमात्रे त्रि०।

गृहाधिप = पु० ६ त०। १ गृहस्थे हलायु०। २ गृहस्वामिनि त्रि० २ राशीश्वरे च गृहपत्यादयोऽप्यत्र।

गृहाम्ल = न० गृहस्थितमम्लम्। काञ्जिके (आमानि) त्रिका०

गृहायनिक = पु० गृहरूपमयनं विद्यतेऽस्य ठन्। गृहस्थे शब्दर०।

गृहाराम = पु० गृहे गृहसमीपे आरामः। गृहसमीपस्थे उपवने अमरः।

गृहार्थ = पु० गृहे तत्र निष्पाद्योऽर्थः तत्रत्यकृत्यम्। गृहकृत्ये “पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिष्क्रिया” मनुः।

गृहालिका = स्त्री गृहे आलिरिव कायति कै–क। गृहगोधिकायां (टिकटिकि) हारा०।

गृहावग्रहणी = स्त्री गृहमवगृह्यते अनेन अव + ग्रह–करणे ल्युट् ङीप्। देहल्याम् अमरः (देओयाल)।

गृहाशया = स्त्री गृहे इव छायायुक्तस्यागे आशेते आ + शी- अच्। ताम्बूल्यां नागवल्ल्यां राजनि०। तस्या गृहाकार स्थाने (वरज) इति ख्याते उत्पन्नत्यात् तथात्वम्।

गृहाश्मन् = पु० गृहस्थितोऽश्मा। पेषण्यां (शिल) त्रिका०।

गृहाश्रम = पु० न० आश्रम्यतेऽत्र आ + श्रम–आधारे घञ् अवृद्धिः गृहमेवाश्रमः। १ गृहरूपे आश्रमे “एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः” मनुः “स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद् गृहाश्रमं प्रत्यपद्यत” भा० आ० ३ अ०। २ गृहस्थधर्मभेदे च ततोऽस्त्यर्थे इनि। गृहाश्रमिन् गृहस्थे।

गृहासक्त = त्रि० गृहे आसक्तः। गृहस्थिते पक्षिमृगादौ। अमरः

गृहिन् = पु० गृहं भार्य्या विद्यतेऽस्य इनि। गृहस्थाश्रमिणि अमरः। “तस्मात् श्रेष्ठाश्रमी गृही” परा० “त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही” ममुः। गृहं गृहकृत्यं साध्यतयाऽस्त्यस्याः इनि ङीप् गृहिणी। २ भार्यायाम् स्त्री हेमच०। गृहिणीकर्त्तव्यकर्माणि शुक्रनीतिशास्त्रे ३ अ० उक्तानि यथा “न विद्यते पृथक् स्त्रीणां त्रिवर्गविधिसाधनम्। पत्युः पूर्वं समुत्थ्याय देहशुद्धिं विधाय च। उत्थाप्य शयनी यानि कृत्वा वेश्मविशोधनम्। मार्जनैर्लेपनैः प्राप्य सानलं यवसां गणम्। शोधयेद्यज्ञकाष्ठानि स्निग्धान्युष्णेन वारिणा। प्रोक्षणीयेरितान्येव यथा स्थानं प्रकल्पयेत्। शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत्। महानसस्य पात्राणि बहिः प्रक्षाल्य सर्वदा। मृद्भिस्तु शोधयेच्चूल्लीं तत्राग्निं सेन्धनं न्यसेत्। स्नात्वा नियोग पात्राणि रसान्नद्रवणानि च। कृतपूर्वाह्णकार्येयं श्वशुरावभिवादयेत्। ताभ्यां भर्त्त्रापितृभ्यां वा भ्रातृमातुल बान्धवैः। वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत्। मनोवाक्कर्मभिः शुद्धा पतिदेशानुवर्त्तिनी। छायेवानुगता स्वच्छा सखीव हितकर्मसु। दासीव दिष्ट कार्येषु भार्य्या भर्त्तुः सदा भवेत्। ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य सा। वैश्वदेवोद्धृतैरन्नैर्भोजनीयांश्च भोजयेत्। पतिं च तदनुज्ञाता शिष्टमन्नाद्यमात्मना। भुक्त्वा नयेदहःशेषं सदसद्व्ययचिन्तया। पुनः सायं यथा प्रातर्गृहशुद्धिं विधाय च। कृतान्नसाधना साध्वी सभृत्यं भोजयेत् पतिम्। नातितृप्ता स्वयं भुक्त्वा गृहनीतिं विधाय सा। आस्तृत्य साधु शयनं ततः परि चरेत् पतिम्। सुप्ते पत्यौ तदध्यास्य स्वयं तद्गतमानसा। अनम्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया। नोच्चै- र्वदेन्न परुषं न बहु पतिमप्रियम्। न केनचिच्च विवदेदप्रलापविवादिनी। न चार्थव्ययशीला स्यान्न धर्मार्थ विरोधिनी। प्रमादोन्मादरोषेर्ष्यावचनान्यतिनिन्दितम्। पैशुन्यहिंसाविद्वेषमोहाहङ्कारधूर्त्तताम्। नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्जयेत्। एवं परिचरन्ती या पतिं परमदैवतम्। यशस्यमिह यात्येव परत्र च सलोकताम्। योषितो नित्यकर्मोक्तं नैमित्तिकमथोच्यते। रजसो दर्शनादेषा सर्वमेव परित्यजेत्। सर्वैरपीक्षिता शीघ्रं लज्जितात्तर्गृहे वसेत्। एकाम्बरा कृशा दीना स्नानालङ्कारवर्जिता। स्वपेद्भूमावप्रमत्ता क्षपेदेवमहत्रयम्। स्नायीत सा त्रिरात्रान्त सचेलाऽभ्युदिते रवौ। विलोक्य भर्तृवदनं शुद्धा भवति धर्मतः। कृतशौचा पुनःकर्म पूर्ववच्च समा चरेत्। द्विजस्त्रीणामयं धर्मः प्रायोऽन्यासामपीष्यते। कृषिपण्यादि पुंकृत्ये भवेयुस्ताः प्रसाधिताः। सङ्गीनैर्मधुरापैः स्वायत्तस्तु पतिर्यथा। भवेत्तथा चरेयुर्वै मायाभिः कामकेलिभिः। मृते भर्त्तरि सङ्गच्छेत् भर्त्त्रा वा पालयेद्व्रतम्।” भा० व० “द्रौपदी सत्यभामासंवादे” २३२ अ० इतिवृत्तच्छलेन तस्याः पतिवशीकरणकर्मोक्तं यथा “केन द्रौपदि! वृत्तेन पाण्डवानधितिष्ठसि?। लोकपालोपमान् वीरान् यूनः परमसंमतान्। कथञ्च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे!। तव वश्या हि यनतं पाण्डवाः प्रियदर्शने!। मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे। व्रतचर्य्या तपोवास्ति स्नानमन्त्रौषधानि वा। विद्यावीर्य्यं मूलवीर्य्यं जपहोमागदास्तथा। ममाद्याचक्ष्व पाञ्चालि! यशस्यं भगदैवतम्। येन कृष्णे! भवेन्नित्यं मम कृष्णो वशानुगः?। एवमुक्त्वा सत्यभामा विरराम यशस्विनी। पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्। असत्स्त्रीणां समाचारं सत्ये! मामनुपृच्छसि। असदाचरिते मार्गे कथं स्यादनुकीर्त्तनम्। अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते। तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया। यदैव मर्त्ता जानीयान्मन्त्रमूलपरां स्त्रियम्। उद्विजेत तदैवाल्याः सर्पाद्वेश्मगतादिव। उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्। न जातु वशगो भर्त्ता स्त्रियाः स्यान्मन्त्रकर्मणा। अमित्रप्रहितांश्चापि गदान् परमदारुणान्। मूलप्रवादैर्हि विषं प्रयच्छन्ति जिवांसवः। जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते। तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्। जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा। अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा। पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत। न जातु विप्रियं भर्त्तुः स्त्रिया कार्य्यं कथञ्चन। वर्त्ताम्यहन्तु यां वृत्तिं पाण्डवेषु महात्मसु। तां सर्वां शृणु मे सत्यां सत्यभामे! यशस्विनि!। अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा। सदारान् पाण्डवान्नित्यं प्रयतोपचराम्यहम्। प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि। सुश्रूषुर्निरभीमाना पतीनां चित्तरञ्जिनी। दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात्। दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि। सूर्य्यवैश्वानरसमान् सोमकल्पान्महारथान्। सेवे चक्षुर्हणः पार्थानुग्रवीर्य्यप्रतापिनः। देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः। द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः। नाभुक्तवति नास्नाते नासंविष्टे च भर्त्तरि। न संविशामि नाश्नामि सदा कर्मकरेष्वपि। क्षेत्राद्वनाद्वा ग्रामाद्वा भर्त्तारं गृहमागतम्। प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च। प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी। संयता गुप्तधान्या च सुसंमृष्टनिवेशना। अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती। अनुकूलवती नित्यं भवाम्यनलसा सदा। अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः। अवस्करे चिरं स्थानं निष्कुटेषु च वर्जये। अतिहासातिरोषौ च क्रोधस्थानञ्च वर्जये। निरताहं सदा सत्ये! भर्त्तॄणामुपसेवने। सर्वथा भर्त्तुरहितं न ममेष्टं कथञ्चन। यदा प्रवसते भर्त्ता कुटुम्बार्थेन केनचित्। सुमनोवर्णकापेता भवामि व्रतचारिणी। यच्च भर्त्ता न पिबति यच्च भर्त्ता न सेवते। यच्च नाश्नाति मे भर्त्ता सर्वन्तद्वर्जयाम्यहम्। यथोपदेश निरता वर्त्तमाना वराङ्गने!। स्वलङ्कृता सुप्रयता भर्त्तुः प्रियहिते रता। ये च धर्माः कुटुम्येषु श्वश्र्वा मे कथिताः पुरा। भिक्षा बलिः श्राद्धमिति स्थालीपाकाश्च पर्वसु। माम्यानां मानसत्कारा ये चान्ये विदिता मम्। तान् सर्वाननुवर्त्तामि दिवारात्रमतन्त्रिता। विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता। मृदून् सतः सत्यशीलान् सत्यधर्मानुसालिनः। आशीविषानिव क्रुद्धान् पतीन् परिचराम्यहम्। पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः। स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्। अहं पतीन्नातिशये नात्यश्ने नातिभूषये। नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता। अवधानेन सुभगे! नित्योत्थिततयैव च। भर्त्तारो वशगा षह्यं गुरुशुश्रूषयैव च। नित्यमार्य्यामहं कुन्तीं वीरसूं सत्यवादिनीम्। स्वयं परिचराम्येतां पानाच्छादनभोजनैः। नैतामतिशये जातु वस्त्रभूषणभोजनैः। नाहं परिवदे वाचं तां पृथां पृथिवीसमाम्। अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा। भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने। अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान् बिभर्त्ति युधिष्ठिरः। दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम्। ह्रियते रुक्मपात्रीभिर्यतीनामूर्द्धृवरेतसाम्। तान् सर्वानग्रहारेण ब्राह्मणान् ब्रह्मवादिनः। यथार्हं पूजयामि स्म पानाच्छादनभोजनैः। शतं दासीसहस्राणि कौन्तेयस्य महात्मनः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः। महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः। मणीन् हेम च बिभ्रत्यो नृत्यगीतविशारदाः। तासां नाम च रूपञ्च भोजनाच्छादनानि च। सर्वासामेव वेदाहं कर्म चैव कृताकृतम्। शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः। पात्रीहस्ता दिवारात्रमतिथीन् भोजयन्त्युत। शतमश्वसहस्राणि दश नागायुतानि च। युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः। एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत्। येषां संख्यां विधिञ्चैव प्रदिशामि शृणोमि च। अन्तःपुराणां स र्वेषां भृत्यानाञ्चैव सर्वशः। आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्। सर्वं राज्ञः समुदयमायञ्च व्ययमेव च। एकाहं वेद्मि कल्याणि! पाण्डवानां यशस्विनि!। मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः। उपासनारताः सर्वे घटन्ति स्म वरानने!। तमहं भारमासक्तमप्रधृष्यं दुरात्मभिः। सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै। अधृष्यं वरुणस्यैव निधिपूर्णमिवोदधिम्। एकाहं वेद्मि कोषं वै पतीनां धर्मचारिणाम्। अनिशायां निशायाञ्च सहायाः क्षुत्पिपासयोः। आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे। प्रथमं प्रतिबुध्यामि चरमं संविशामि च। नित्यकालमहं सत्ये! एतत् संव शनं मम। एतज्जानाम्यहं कर्त्तुं भर्त्तुः संवशनं महत्। असत्स्त्रीणां समाचारं नाहं कुर्यान्न कामये। तच्छुत्वा धर्मसहितं व्याहृतं कृष्णया तदा। उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्। अभि- पन्नासि पाञ्चालि! याज्ञसेनि! क्षमस्व मे। कामकारः सखीनां हि सोपहासं प्रभाषितम्” २३२ अ०। “द्रौपद्युवाच। इमन्तु ते मार्गमपेतमोहं वक्ष्यामि चित्तग्रहणाय भर्त्तुः। अस्मिन् यथावत् सखि। वर्त्तमाना भर्त्तारमाच्छेत्स्यसि कामिनीभ्यः। नैतादृशं दैवतमस्ति सत्ये! सर्वेषु लोकेषु सदेवकेषु। यथा पतिस्तस्य हि सर्वकामा लभ्याः प्रसादात् कुपितश्च हन्यात्। तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्युत्तमदर्शनानि। वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला च कीर्त्तिः। सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि। सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च। तथाऽऽसनैश्चारुभिरग्र्यमाल्यैर्दाक्षिण्ययोगैर्विविधैश्च गन्धैः। अस्याः प्रियोऽस्मीति यथा विदित्वा त्वामेव संश्लिष्यति तद्विधत्स्व। श्रुत्वा स्वरं द्वारगतस्य भर्त्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये। दृष्ट्वा प्रविष्टं त्वरितासनेन पाद्येन चैनं प्रतिपूजयस्व। संप्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कार्य्यम्। जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये!। त्वत्सन्निधौ यत् कथयेत् पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम्। काचित् सपत्नी तव वासुदेवं प्रत्यादिशेत्ते न भवेद्विरागः। प्रियांश्च रक्तांश्च हितांश्च भर्त्तुस्तान् भोजयेथा विविधैरुपायैः। द्वेष्यैरपक्षैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्यतैश्च। मदं प्रमादं पुरुषेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम्। प्रद्युम्नशाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित्। महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु। चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वर्ज्ज्याः। एतद्यशस्यं भगदैवतञ्च स्वर्ग्यं तथा शत्रुनिवर्हणञ्च। महार्हमाल्याभरणाङ्गरागा भर्त्तारमाराधय पुण्यगन्धा” २३३ अ०। “गृहिणी खविवो रहः सखी प्रियशिष्या ललिते कलाविधौ” रघुः “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते” उ० त० स्मृतिः “प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः” कुमा० “शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्त्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः। भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः” शकु० “ज्वालागताभ्योऽधिगृहं गृहिण्यः” माघः।

गृहीत = त्रि० ग्रह–कर्मणि क्त। १ स्वीकृते, २ ज्ञाते, ३ ग्रप्ते ४ धृते च। “गृहीतपत्युद्गमनीयवेशा” कुमा०। “गृहीत इव केशेषु मृत्युना धर्ममाचरेत्” नीतिशा० “पत्नी गृहीतव्रता” वेणी० भावे क्त। ५ ग्रहणादौ न० ततः तत्कृतमनेन इष्ट्यादि० इनि। गृहीतिन् कृतग्रहणे त्रि० स्त्रियां ङीप्।

गृहीतगर्भा = स्त्री गृहीतो गर्भो यया। गर्भवत्यां तल्लक्षणादि गर्भवतीशब्दे २५५५ पृ० उक्तम्।

गृहीतदिक् = त्रि० गृहीता दिक् येन। १ पलायिते २ तिरोहिते च हेमच०।

गृहु = त्रि० ग्रह–कु। ग्रहीतरि “इद् भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय” ऋ० १०। ११७। ३

गृहेरुह = पु० गृहे रोहति रुह–क–अलुक् ७ त०। गृहजातवृक्षे स चाप्रशस्तः यथाह भा० आनु० १२७ अ० “भिन्नभाण्डञ्च खट्टाञ्च कुक्कुटं शुनकं तथा। अपशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः”

गृहेनर्द्दिन् = पु० गृहे एव नर्द्दति न युद्धे नर्द–इनि पात्रेसमितादिस०। कापुरुषे रणभीरौ गृहे आस्फालयितरि।

गृहेश = पु० ६ त०। १ गृहस्वामिनि गृहेश्वरादयोऽप्यत्र “अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा” वृहत्सं० ५३ अ०। २ राशीश्वरे च।

गृहोलिका = स्त्री गृहे वलते वल–चलने क्वुन् वा० सम्प्र०। ज्येष्ठ्यां गृहगोधिकायाम् हेमच०।

गृह्य = पु० ग्रह–पदास्वैरीत्यादिना क्यप्। गृहासक्ते १ खगे २ मृगे च पञ्जरादिबन्धनेन परतन्त्रीकृतत्वात् तेषां तथात्वम्। ३ गुह्ये मलद्वारे, न० ४ अस्वैरिणि ५ आयत्ते, ६ स्वपक्षीये पक्ष्ये च त्रि० मेदि०। “गृणगृह्यावचने विपश्चितः” किरा० “अगृह्यां वीतकामत्वाद्देवगृह्यामनिन्दिताम्” भट्टिः। गृहे भवः यत् ७ गृहभवे, वस्तुनि त्रि०। ८ गृहनिमित्तेऽग्नौ ९ तत्रत्यकर्मणि च “उक्तानि वैतानिकानि गृह्याणि वक्ष्यामः” आश्व० गृ० १। १२१ गृहनिमित्तोऽग्निः गृह्यः। तत्र भवानि कर्माण्यपि लक्षणया गृह्याणीत्युच्यन्ते। गृहशब्दो भार्यायां शालायाञ्च वर्त्तते। यथा “सगृहो गृहमागतः” इत्यत्र हि पूर्वो गृहशब्दो भार्यावचनः उत्तरस्तु शालावचनः येषाञ्च भार्यासंयोगादुत्पन्नाग्नौ इमानि कर्माणि प्रवर्त्तन्ते तेषामयं गृह्यशब्दो भार्यावचनः। येषान्तु दायविभागकालेऽग्निरुत् पद्यते तेषां शालावचनः। “भार्यादिरग्निर्दायादिर्वा तस्मिन् गृह्याणि” इति गौतमस्मृतेः” नारा० “तेऽस्य गृह्याणि कर्माणि कुर्युवैतानिकानि च।” वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्। अग्निहोत्रं समादाय गृह्यञ्चाग्निपरिच्छदम्” इति च मनुः। तदस्त्यस्य साध्यतया अच्। १० वेदोदितकर्मप्रयोगज्ञापके गोभिलसूत्रादौ ग्रन्थभेदे च। गृह्यमग्निमधिकृत्य च शाखिभेदेन गृह्यकाराश्च गोभिलाश्वलायनकात्यायनादयोऽतिविख्याताः। ११ नगरवाह्यस्थे ग्रामे स्त्री टाप् मेदिनिः स्वार्थे क। गृह्यक तत्रैवार्थे। संज्ञायां कन्। गृहासक्ते पक्षिमृगादौ अमरः।

गॄ = विज्ञापने चुरा० आत्म० सक० सेट्। गारयते अजीगरत्।

गॄ = शब्दे क्र्यादि० पर० प्वादि० सक० सेट्। गृणाति अगारीत जगार जगरतुः। गीर्य्यते गीर्णः। गीः।अनु + शंसनविषयहर्षानुकूलव्यापाररूपप्रोत्साहने तद्योगे पूर्वव्यापारणस्य कर्त्ता संप्रदानसंज्ञो भवति यथा अधर्य्युः होत्रे अनुगृणाति होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः सि० कौ०प्रति + अनुगृणातिवत् अर्थादि अस्यावपूर्वप्रयोगो नास्ति इति “अवाद्ग्रः” पा० सूत्रे भाष्यकार आह स्म

गॄ = निगरणे तु० पर० सक० सेट्। अस्य वा रस्य लत्वम् गिरति–गिलति अगारीत् अगालीत् जगार (ल)। जगरतुः। गीर्यते गीर्णः गीर्णिः गिरः गिरिःअव + नीचैःकथने आत्म० अवगिरते नीचैः कथयतीत्यर्थः।उद् + वमने। “रोमन्थः उद्गीर्य चर्वणम्” सि० कौ० “अनुद्गीर्णसुरायुधम्” कुमा०।सम् + प्रतिज्ञायाम् आत्म०। संगिरते प्रतिजानीते इत्यर्थः। “बसूनि देशांश्च निवर्त्तयिष्यन् रामं नृपः संगिरमाण एव” भट्टिः।

गेद = गतौ भ्वा० आत्म० सक० सेट्। गेदते अगेदिष्ट ऋदित्। अजिगेदत। जिगेदे। उदित्। गेदित्वा गेत्त्वा।

गेन्दु(ण्डु)क = पु० गच्छतीति गम–ड गः इन्दुरिव इवार्थे कन्। कन्दुके वस्त्रनिमिते गोलाकारे क्रीडनके। पृषो० वा डत्वे गेण्डुकश्च तत्रार्थे। पृषो० गेन्दू(ण्डू) कोऽपि दीर्घमध्यः। तत्रार्थे जटाघरः।

गेय = त्रि० गै–कर्त्तरि नि० यत्। १ गायके “गेयो माणवकः साम्नाम्” सि० कौ० कर्मणि यत्। २ गातव्ये त्रि० “अरण्ये गेयं साम” भावे यत्। ३ गीतौ न० “गेये केन विनीतं वाम्” रघुः। “वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव। अनन्ता वाङ्पयस्येह गेयस्येव विचित्रता” माघः

गेव = सेवने भ्वा० आ० सक० सेट्। गेवते अगेविष्ट। ऋदित् अजिगेवत। जिगेवे।

गेष = अन्वेषणे भ्वा० आत्म० सक० सेट्। गेषते अगेषिष्ठ। जिगेषे ऋदित् अजिगेषत्। गेष्णः।

गेष्ण = पु० गेष–बा० न। १ पर्वणि ग्रन्थौ (गा~टि) २ अवयवभेदे “तस्यर्क् च साम च गेष्णौ” छा० उ० “तस्य ऋक् च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी” भा० “तस्य यदूपममुष्य तद्रूपं यौ गेष्णौ तावस्य गेष्णौ” छा० उ०

गेष्णु = त्रि० गै–इष्णुच्। गायने सि० कौ०

गेह = न० गो गणेशो गन्धर्वो वा ईहः ईप्सितो यत्र। गृहे। “जामयोयानि गेहानि” “एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन” मनुः। “त्यक्त्वा गेहं झटिति यमुना मञ्जुकञ्जं जगाम” पदाङ्कदू० “गेहदाहेऽग्नये” क्षामवते पुरोडाशः” कात्या० श्रौ० २५। ४। ३६। “यजमानस्य निवासगृहदाहेऽग्निगृहदाहे वा क्षामवन्नामाग्निमुद्दिश्य पुरोडाशः निर्वाप्य इत्यर्थः” कर्कः।

स्वामिभेदादिना गेहानां नामभेदा हेमचन्द्रेण दर्शिता यथा “प्रासादो देवभूपानां हर्म्यन्तु धनिनां गृहम्। मठाव सथ्यावसथाः स्युश्छात्रप्रतिवेश्मनि। पर्णशालोटजश्चैव विहारो जिनसद्मनि। गर्भागारे प्रवरको वासौकः शयनास्पदम्। माण्डागारं तु कोषः स्याच्चन्द्रशाला शिरो गृहम्। कुप्यशाला तु सन्धानी कायमानो तृणौकसि। होत्रीयन्तु हविर्गेहं प्राग्वंशः प्राग् हविर्गृहात्। आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम्। तैलिशाला यन्त्रगृहमरिष्टं सूतिकागृहम्। सूदशाला रसवती पाकस्थानं महानसम्। हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा। सन्दानिनी तु गोशाला चित्रशाला तु जालिनी। कुम्भशाला पाकपुटी तन्तुशाला तु गर्त्तिका। नापितशाला वपनी शिल्पा स्वरकुटीच सा। आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रेयः। आश्रमस्तु मुनिस्थानमुपघ्नंस्त्वन्तिकाश्रयः। प्रपा पानीयशाला स्याद्गञ्जा तु मदिरागृहम्। पक्वणः शवरावासो धोषस्त्वाभीरपल्लिका। पण्यशाला निषद्याट्टो हट्टा विपणि रापणः। वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः”। ततोऽस्त्यर्थे इनि। गेहिन् मतुप मस्य वः। गेहवत् गृहस्वामिनि स्त्रियां ङीप्। गेहं गेहकृत्यं साध्यतयाऽस्त्यस्याः इनि ङीप्। भार्यायाम् “मद्गेहिन्याः प्रिय इति सस्ये! चेतसा कातरेण” मेघ०।

गेहेक्ष्वेडिन् = त्रि० गेहे एव क्ष्वेडते क्ष्वेड–इनि पात्रे० स०। गृहासक्ते युद्धादावनासक्ते कापुरुषे। युक्तारोह्यादित्वात् अस्य आद्युदात्तता।

गेहेदाहिन् = त्रि० गेहे दहति दह–इनि पात्रे० स०। कापुरुषे एवं गेहेविजितिन् गेहेव्याड गेहेमेहिन् गेहेदृप्त गेहेधृष्ट इत्येतेऽपि पात्रे० स०। कापुरुषे आद्युदात्तता च

गेहेशूर = पु० गृहएव शूरः पात्रेसमितादि स०। कापुरुषे युक्तारोह्या० आद्युदात्तता

गेहोपवन = न० गेहसमीपस्थमुपवनम्। गृहसन्निकृष्टोपवने अमरः।

गेह्य = त्रि० गेहे भवः गेहाय हितं वा यत्। १ गेहभवे २ गेह हिते च। “यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यम्” ऋ० ३। ३०। ७

गै = गाने भ्वा० पर० सक० अनिट्। गायति। अगासीत्। जगौ जगतुः। गीयते गेयं गानं गीता गीतः गीतिः। गायकः गायनः गाथा गातुम्। गापयति जिगीषति। “यशोऽपि तावत् प्रभवामि गातुम्” नैष० “गेये केन विनीतं वाम्”? रघुः। “तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना” भा० व० १७८३ “गीतज्ञो यदि गीतेन नाप्नोति परमं पदम्” याज्ञ० “जयोदारणं बाह्वोर्गापयामास किन्निरान्” रघुः।अनु + पश्चाद्गाने। अनुगायति “काचिदञ्चितपञ्चमरागम्”अभि + आभिमुख्येन समन्ताच्च गाने “राजधानीषु राज्ञां च समाजेष्वभ्यगायताम्” रामा० आ०अव + निन्दने अवगीतम्।उत् + उच्चैर्गाने। “उद्गास्यतामिच्छति किन्नराणाम्” कुमा०। “उद्गीयमानं वनदेवताभिः” रघुः।उप + समीपगाने। “शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्मण्डनमिश्रधाम” शङ्करदिग्विजयः। आधिक्येन गाने च “निवृत्ततर्षैरुपगीयमानात्” भाग०नि + निश्चयेन गाने। “तथा च श्रुतयो बह्व्योनिगीताश्चा गमेष्वपि” मनुः।परि + समन्ततो गाने। “तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः” भाग० १। १। १७ “ऋषिभिः परिगीतानि छन्दीभिश्च पृथक् पृथक्” गीताप्र + प्रकर्षेण। “यावत् कीर्त्तिर्मनुष्यस्य पृथक् लोके प्रगीयते” न उद्यो० ११८४वि + निन्दने। नृगया न विगीयते नृपैः” विगीयसे (केतक!) मन्मथदेहद हना” नैष० विविधगाने च।सम् + सम्यगगाये “सङ्गीयमानसत्कीर्त्तिः सस्त्रीभिः सुरगायकैः।

गैर = त्रि० गिरौ भवः अण्। १ पर्वतभगे स्त्रियां ङीप्। सा च (विषलाङ्गला) २ लाङ्गलीवृक्षे रत्नमा० (गेरिमाठि) ३ उपधातुभेदे न० शब्दार्थचि०।

गैरकंवूल = न० नीलकण्ठताजकोक्ते वर्षलग्नकालिक ग्रहयोगभेदे तल्लक्षणादि तत्रोक्तं यथा

“यस्याधिकारः स्वर्क्षादि शुभोऽवाऽप्यशुभोऽपि वा। केनापि दृश्यमूर्त्तिश्च स शून्याध्वग इष्यते। लग्नकार्य्येशयोरित्थशाले शून्याध्वगः शशी। उच्चादिपदशुन्यत्वा न्नेत्थशालोऽस्ति केनचित्। यद्यन्यर्क्षं प्रविश्यैषः खभोच्चस्थेत्थशालवान्। गैरकंवूलमेतत्तु पदोनेनाशुभंस्मृतम्। उदा०। लिप्से सुखमिति प्रश्ने सिंहलग्नं रविः क्रिये। अष्टांशैः, सुखपः कुम्भे भौमोऽंशैः रविमिस्तयोः। इत्थशालोऽस्ति तत्रेन्दुः कन्यायां चरमेऽंशके। स्वर्क्षादिपदहीनस्य नेत्थशालोऽस्ति केनचित्। स्वर्क्षोच्चगेन शशिनाऽन्यर्क्षस्थेनेत्थशालकृत्। गैरकंबूल मन्येन सहायाल्लाभदायकम्”। पृषो० गैरकंवूलमप्यत्र

गैरायण = पुंस्त्री गिरेर्गोत्रापत्यम् अश्वा० फञ्। गिरिगोत्रापत्ये।

गैरिक = न० गिरौ भवम् ठञ्। (गेरिमाटि) उपधातुभेदे तद्गुणादि भावप्र० उक्तं यथा। “गैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा। सुवर्णगैरिकं त्वन्यत् ततो रक्ततरं हि तत्। गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम्। चक्षुव्यं दाहपित्तास्रकफहिक्काविषापहम्”

गैरिकाक्ष = पु० गैरिकमिवाक्षि पुष्पमस्य। जलमधुके वृक्षे। राजनि०।

गैरेय = न० गिरौ भवम् ढक्। शिलाजतुनि अमरः। (गेरिमाटी) ख्याते उपधातुभेदे भावप्र०।

गो = पुंस्त्री गच्छत्यनेन गम–करणे डो। १ स्वनामख्याते पशुभेदे वृषस्य यानसाधनत्वात् स्त्रीगव्याश्च दानद्वारा स्वर्गगतिसाधनत्वाच्च तथात्वम्। गतिसाधनतया तस्य तथार्थत्वयोगेन यौगिकत्वेऽपि योगरूढत्वम्। एतेन दर्षणकृता “व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे गौः शेते इत्यत्रापि लक्षणा स्यात् “गमेर्डोः” इति व्युत्पादितस्य गोशब्दस्य शयनकालेऽपि प्रयोगात्” इति यदुक्तं तत् ग्रामादिकमेव गमेर्डोः इत्यूणादिप्रत्ययस्य कर्त्तृवाचकत्वानियमात् “ताभ्यामन्यत्रोणादयः पा० सूत्रे ऊणादीनां अपादानसंप्रदानभिन्नार्थत्वनियमात् अत्र करणार्थकडोप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकालेऽपि गतिसाधनस्वरूपयोग्यवाचकत्वात् फलोपधायकत्वनियमे याना- सनशयनादीनामपि गतिशयनादिविगमकाले तच्छब्दवाच्यतानुपपत्तेः। गम्यते ज्ञायते अनेन करणे, शीघ्रं गच्छति कर्त्तरि वा डो। २ रश्मौ किरणे तस्य शीघ्र गामित्वात् चाक्षुषज्ञानहेतुत्वाच्च तथात्वम् सूर्यादिकिरण संपर्कं विना चाक्षुषज्ञानासम्भवात् रश्मेर्ज्ञानसाधनत्वात् तथात्वम्। ३ वज्रे ४ हीरके तस्यापि कठिनद्रव्येऽपि गतिमत्त्वात् तथात्वम्। कर्मणि डो। ५ स्वर्गे कर्मिभि र्गम्यमानत्वात् तस्य तथात्वम् मेदि०। ६ चन्द्रे विश्वः कर्मिभिस्तल्लोकगमनात्तस्य तथात्वम् ७ सूर्ये ८ गोमेधयज्ञे भानुदीक्षितः। सूर्यस्य शीघ्रगतिकत्वात् अर्चिरादिष्वधिष्ठातृतया आतिवाहिकत्वात् तथात्वम्। “संवत्सरादादित्यमादित्याच्चन्द्रमसम्” छा० उ०। आतिवाहिकशब्दे ६५१ पृ० दृश्यम् ९ ऋषभनामौषधे राजनि०। तस्य गोनामकत्वात् तथात्वम्। करणे डो। १० बेत्रे स्त्री तस्य चाक्षुषज्ञानसाधनत्वात् तथात्वम्। कर्त्तरि डो। ११ वाणे स्त्री तस्य शीघ्रग्तिकत्वात् तथात्वम्। कर्मणि डो। १२ दिशि स्त्री दिशां पलायनकाले गम्यमानत्वात्तयात्वम्। १३ वाचि स्त्री तस्याः ज्ञानहेतुत्वात् तथात्वम्। आधारेडो। १४ भुवि स्त्री तस्याः गमनाधारत्वात् तथात्वम् १५ जले च स्त्रीब० व० केचित् तस्य निम्नगतित्वात् १६ पशुमात्रे अमरः १७ मातरि १८ लोमनि भानुदीक्षितः। १९ वृषराशौ २० नवसंख्यायाम् गोर्भूमेर्नवखण्डात्मकत्वात् आकाशे सदागतिमद्ग्रहाणां नवत्वाद्वा तत्संख्यासाम्यात् तथात्वम्। २१ पुलस्त्यभार्यायां गविजातशब्दे २५६६ पृ० दृश्यम्। ज्ञानहेतुत्वात् २२ इन्द्रिये गोचरः। पदान्तस्थितस्योपसर्जनस्य समा० ह्रस्वः शीतगुः सहस्रगुः। अस्य उत्तरपदस्थत्वे तत्पुरुषे षच् समा०। पुंसि परमगवः स्त्रियां षित्त्वात् ङीष् दुग्धगवी गोः पुरीषं मयट्। गोमय (गोवर) ख्याते पदार्थे न० गौर्विद्यतेऽस्य मिनि गोमिन्। मतुप्। गोमत् गोविशिष्टे गोस्वामिनि च त्रि० स्त्रियां ङीप्। गोःस्थाने गोष्ठच् गोगोष्ठ गोस्थाने न० गोमांसगुणा भावप्र० उक्ता यथा “गोमांसं तु गुरु स्निग्धं पित्तश्लेष्मविवर्द्धनम्। वृंहणं वातहृत् बल्यमपथ्यं पीनसप्रणुत्। गोरिदं यत् “आन्तोयि प्रत्यये” पा० अवादेशः। गव्य गोदुग्धादौ भावप्र० तद्गुणाद्युक्तं यथा “गव्यं दुग्धं विशेषेण मधुरं रसपाकयोः। शीतलं स्तन्यपृत् स्निग्धं वातपित्तास्रनाशनम्। दोषधातुबल- स्रोतःकिञ्चित्क्लेदकरं गुरु। जरासमस्तरोगाणां शान्तिकृत् सेविनां सदा”। क्षीरवर्गशब्दे २३७७ पृ० विवृतिः। गव्यदधिगुणाः भावप्र० उक्ता यथा “गव्यं दवि विशेषेण स्वाद्वम्लञ्च रुचिप्रदम्। पबित्रं दीपनं हृद्यं पुष्टिकृत् पवनापहम्। उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम्” “तन्नवनीतगुणाः” तत्रोक्ता यथा “नवनीतं क्षितं गव्यं वृष्यं वर्णबलाग्निकृत्। संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासहृत्। तद्धितं वालके वृद्धे विशेषादमृतं शिशोः” तद्घृतगुणाः भावप्र० उक्ता यथा “गव्यं घृतं विशेषेण चक्षुष्यं वृष्यमग्निकृत्। स्वादुपाककरं शीतं वातपित्तकफापहम्। मेधालावण्यकान्त्योजस्तेजोवृद्धिकरं परम्। अलक्ष्मीपापरक्षोघ्नं वयसः स्थापकं गुरु। बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम्। सुगन्धं रोचनं चारु सर्वाज्येषु गुणाधिकम्”। तन्मूत्रगुणा भावप्र० उक्ता यथा “गोमूत्रं कटु तीक्ष्णोष्णं क्षारं तिक्तं कषायकम्। लघ्वग्निदीपनं मेध्यं पित्तकृत्कफवातहृत्। शूलगुल्मोदरानाह कण्ड्वक्षिमुखरोगजित्। किलासगदवातामवस्तिरुक् कुष्ठनाशनम्। कासश्वासापहं शोथकामलापाण्डुरोगहृत्। कण्डूकिलासगदशूलमुखाक्षिरोगान् गुल्मातिसारमरुदामयमूत्ररोधान्। कासं सकुष्ठजठर क्रिमिपाण्डुरोगान् गोमुत्रमेकमपि पीतमपाकरोति। सर्वेष्वपि च मूत्रेषु गोमूत्रं गुणतोऽधिकम्। अतोऽविशेषात् कथने मूत्रं गोमूत्रमुच्यते। प्लीहोदरश्वास कासशोथवर्चाग्रहापहम्। शूलगुल्मरुजानाहकामंलापाण्डुरोगहृत्। कषायं तिक्ततीक्ष्णञ्च पूरणात् कर्णशूलनुत्”। तत्र सौरभ्याम् “पङ्के गौरिव सीदति” भा० वि० १९१। “यथा गौर्गवि चाफला” मनुः “गोघ्नवत् विहितः कल्पः” प्रा० त० विश्वा०। वाचि “पन्नगगवीगुम्फेषु चाजागरीत्” मल्लि० “प्रेयोदूतपतङ्गपुङ्गवगबीहैयङ्गवीनं रसात्” नैष० नेत्रादिषु “गोमध्यमध्ये! मृगगोधरे! हे सहस्रगोभूषणकिङ्कराणाम्। नादेन गोभृच्छिखरेषु मत्ता नृत्यन्ति गोकर्णशरीरभक्षाः” चौरः। “गामात्तसारां रघुरप्यवेक्ष्य” रघुः “क्षिप्तावरोधाङ्गनमुत्पथेन गाम्” माघः। हितादौ यत्। गव्य गौहितौदौ भुवि पदान्ते गोशब्दस्य अतिपरे पररूपं गोऽग्रं प्रकृतिवद्भावश्च गो अग्रं अचिपरे वा अवङ गवाग्रम्। अश्वशब्दे परे गवाश्वादि० द्वन्द्व एकवद्भावः। गवाश्वम्।

गोकण्ट = पु० गोः पृथिव्याः कण्ट इव। (गोखुरी) क्षुपभेदे वैद्यक०

गोकण्टक = पु० न० गोः भूमेः कण्टक इव। १ विकङ्कतवृक्षे (वैचि) राजनि०। २ गोः क्षुरे च मेदि० ३ तत्रस्थे स्थपुटे ४ विषमोन्नते हेमच०।

गोकर्ण = पु० गौर्नेत्रं कर्णो यस्य। १ सर्पे, “नृत्यन्ति गोकर्णशरीरभक्षाः” इति चौरः। गोरिव कर्णावस्य। २ अश्वतरे, ३ मृगभेदे, ४ गणदेवताभेदे, ५ अनामिकायुतविस्तृताङ्गुष्ठमाने, शैवे ६ तीर्थभेदे च मेदि०। ७ रुद्रभेदे। “गजेन्द्रकर्ण! गोकर्ण पाणिकर्ण! नमोऽस्तुते” भा० शा० २८६ अ० “महाबलश्च गोकर्णे” आगमः “गोकर्णे भद्रकर्णी स्यात्” देवीगीता “ततोऽभिव्रज्य भगवान् केवलांस्तु त्रिगर्त्तकान्। गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः”। भाग०। ८ काशीस्थे शिवलिङ्गभेदे च “गोकर्णभारभूतेशौ तत्कर्णौ परिकीर्त्तितौ” काशीख० ३३ अ०।

गोकर्णी = स्त्री गोः कर्ण इव पत्रमस्याः गौरा० ङीष्। मूर्वालतायाम् अमरः।

गोका = स्त्री गौरेव स्यार्थे क। “केऽणः” पा० सूत्रे पूर्वणकारेण अणोग्रहणात् न ह्रस्वः। गवादौ

गोकामुख = पु० भारतवर्षस्थे पर्वतभेदे “भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति वहवः। मलयमङ्गलप्रस्थ इत्युपक्रमे “नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चान्येच शतसहस्रशः शैलाः” भाग० ५। १९। १५। १७ श्लो०

गोकिराटिका = स्त्री गां वाचं किरति कृ–क तथा सती अटति अट–ण्वुल्। सारिकायाम् खगभेदे हेमच०।

गोकिराटा = स्त्री गोकिरा वाणीकिरा सती अटति अट अच् गौरा० ङीष्। सारिकाखगे राजनि०।

गोकि(कील) = पु० गोः पृथिव्याः कील इव। १ मूसले २ हले च हारा०। पृषो० ह्रस्वमध्यः तत्रार्थे हेमच०।

गोकुल = न० ६ त०। १ गोसमूहे। “ग्रामान् वा बहुगोकुलान्” भा० व० १७१। ७९। गवां कुलमत्र। २ गोष्ठे “गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः। अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च” ति० त० शाता०। मथुरापुर्य्याः पूर्वदक्षिणस्थे यमुनापारवर्त्तिनि व्रजाख्ये ३ नन्दगोप वासस्थाने च “कालेन व्रजता तात! गोकुले रामकेशवौ” जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः” भाग० १० स्क०। सोऽभिजनोऽस्य अण् तस्य बहुत्वे लुक्। पित्रा- दिक्रमेण तद्वासिजनेषु आर्षे प्रयोगे क्वचित् एकार्थेऽपि लुक्। “लोकं विकुण्ठमुपनेव्यति गोकुलं म्म” भा० २। ८। ३२ “गोकुलं गोकुलवासिजनम्” श्रीधरः

गोकुलिक = त्रि० गोर्नेत्रस्य कुलः संस्त्यानमत्र। १ केकरे। गवि पङ्कस्थगव्यां कुलिकः जडैव। २ पङ्कस्थगव्युपेक्षके च मेदि०।

गोकृत = न० ३ त०। १ गोमये २ गवा चरिते त्रि०।

गोक्षोडक = पुंस्त्री गवि क्ष्वोड इव कायति कै–क। सुश्रुतोक्ते प्रतुदस्वनभेदे कपोतादिगणे “कुलिङ्गगोक्षोडकेत्याद्युक्त्वा “प्रतुदाः” इत्युक्तं सुश्रुतेन।

गोखा = स्त्री गां भूमिं खनत्यनया खन–ङा। नखे पाठान्तरे क्रोडादिषु पाठात् स्वाङ्गत्वेऽप्युपसर्जने न ङीष्

गोखु(क्षु)र = पु० गोः पृथिव्याः खु(क्षु)र इव। स्वनामख्याते क्षुपभेदे। तत्पर्यायगुणाद्युक्तं भावप्र० “गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादुकण्टकः। गोकण्टको गीक्षुरको वनशृङ्गाट इत्यपि। शूलं कषाश्व दंष्ट्रा च तथा स्यादिक्षुगन्धिका। गोक्षुरः शीतलः स्यादुर्बलकृद् वस्तिशोधनः। मधुरो दीपनो वृष्यः पृष्टिदश्चाश्मरीहरः। प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोग वातनुत्”। स च लघुपञ्च मूलान्तर्गतोदशमूलान्तर्गतश्च यथाह तत्रैव “शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका। गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम्। पञ्चमूलं लघु स्वादु बल्यम्पित्तानिलापहम्। नात्युष्णं वृंहणं ग्राहि ज्वर श्वासाश्मरीप्रणुत्” “उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदा हृतम्। दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः। तन्द्राशोथज्वरानाहपार्श्वपीडाऽरुचीर्हरेत्।” गोखुरिः इकारान्तोऽपि तत्रार्थे शब्दर० पृषो० साधु।

गोगोयुग = न० गवोर्द्वित्वम् गो + द्वित्वे गोयुगच्। गवोर्द्वित्वे।

गोगोष्ठ = न० गोः स्थानम् गो + स्थाने गोष्ठच्। गवां स्थाने।

गोगृष्टि = स्त्री गौर्गृष्टिः जात्या समासे परनिपातः। सकृत्प्रसूतायां गवि सि० कौ०।

गोग्रन्थि = पु० गोर्जातो ग्रन्थिः। १ करीषे। गोर्ग्रन्थिर्यत्र। २ गोष्ठस्थाने। ३ गोर्ग्रन्थिरिव। गोजिह्विकोषधौ मेदि०।

गोघ्न = त्रि० गां हन्ति हन–क ६ त०। गोहन्तरि। तद्व्रतं मनुना दर्शितं यथा “उपपातकसंयुक्तोगोघ्नोमासं यवान् पिबेत्। कृतवापोवसेद्गोष्ठे चर्मणा तेन संवृतः। चतुर्थकालमश्नीयाद- क्षारलवणं मितम्। गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः। दिवानुगच्छेत्तागास्तु तिष्ठन्नूर्द्ध्वं रजः पिवेत्। शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत्। तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत्। आसीनासु तथासीनोनियतोवीतमत्सरः। आतुरामभिशस्तां च चौरव्याघ्रादिभिर्मयैः। पतितां पङ्कमग्नां वा सर्वप्राणैर्विमोचयेत्। उष्णे वर्षति शीते वा मारुते वाति वा भृशम्। न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः। आत्मनो यदि वान्येषां गृहे क्षेत्रे स्थलेऽथवा। भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम्। अनेन विधिना यस्तु गोघ्नोगामनुगच्छति। स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति। वृषभैकादशा गाश्च दद्यात् सुचरितव्रतः। अविद्यमाने सर्वस्वं वेदविद्भ्योनिवेदयेत्। “गोघ्नवत् विहितः कल्पश्चान्द्रायणमथापि वा” प्रा० त० स्मृतिः। गौर्हन्यतेऽस्मै सम्प्रादाने क। २ अतिथिभेदे तस्यागमने हि मधुपर्कार्थं गोहननं विहितम् “महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्” इति स्मृतेः कलौ तु तन्निषेधः “मधुपर्के पशोर्बधः” इत्यादित्यपुराणे कलिवर्ज्येषु तस्योक्तेः।

गोघृत = न० गोः पृथिव्या घृतमिव शस्य पोषकत्वात्। १ वृष्टिजले त्रिका०। ६ त०। २ गव्ये घृते च

गोचन्दन = न० गोशीर्षाख्यं चन्दनम् शा० त०। गोशीर्षाख्ये चन्दने “गोचन्दनामोहनिकामधुकमाक्षिकंमधु। सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता” सुश्रुतः

गोचर = पु० गावः इन्द्रियाणि चरन्त्यस्मिन् नि० अच्। १ इन्द्रियवेद्ये रूपरसादौ विषये। एकैकेन्द्रियविषयाश्च शब्दादयस्तत्र श्रोत्रस्य शब्दो विषयः, एवं त्वचः स्पर्शः, नेत्रस्य रूपम्, जिह्वाया रसः, घ्राणस्य गन्धः। २ ज्ञानमात्रविषयेऽपि “सदसत्संशयगोचरोदरी” नैष० “अवाङ्मनसगोचरम्” वेदा० सा० गोचरत्वं ज्ञाननिरूपिता विषयता सा च स्वरूपसम्बन्धविशेषः। कर्त्तरि अच्। ३ भूमिचरे त्रि०। गावश्चरन्त्यस्मिन् अच्। ४ गवां प्रचारवनादौ, “उपारताः पश्चिमरात्रगोचरात्” किरा० ५ गन्तव्यदेशे “इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्” कठोप० ६ देशमात्रे, “ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे” देवीमा०। ७ गवां व्योमगतिमतां ग्रहाणां चरः भावे अच्। गतिभेदे च “गोचरे वा विलग्नेवा ये ग्रहारिष्टसूचकाः” ज्यो० सनिमिचतयाऽस्त्यस्य अच्। ज्योतिषोक्ते जन्मराश्यवधिकेषु तत्तत् स्थानेषु ८ सूर्यादिग्रहगमननिमित्तशुभाशुभनिरूपणे। ज्योतिषोक्त गोचरशुद्ध्यशुद्वी वामवेध दक्षिणवेधादिकं च मु० चि० पी० धा० उक्तम् यथा

“सूर्यो रसान्त्ये खयुगेऽग्निनन्दे शिवाक्षयोर्मौमशनी तमश्च। रसाङ्कयोर्लाभशरे गुणान्त्ये, चन्द्रोऽम्बराब्धौ गुणनन्दयोश्च (१)। लाभाष्टमे चाद्यशरे रसान्त्ये नगद्वये, ज्ञोद्विशरेऽब्धिरामे। रसाङ्कयोर्नागविधौ खनागे लाभव्यये, देवगुरुः शराब्धौ (२)। द्व्यन्त्ये नवाशे द्विगुणे शिवाग्नौ, शुक्रः कुनागे द्विनगेऽग्निरूपे। वेदाम्बरे पञ्चनिधौ गजेषौ नन्देशयोर्भानुरसे शिवाग्नौ (३)। क्रमाच्छुभो विद्ध इति ग्रहैः स्यात्पितुः सुतस्यात्र न वेधमाहुः। दुष्टोऽपि खेटो विपरीतवेधाच्छुभो द्विकोणे शुभदः सितेऽब्जः (४)। स्वजन्मराशेरिह वेधमाहुरन्ये ग्रहाधिष्ठितराशितः सः। हिमाद्रिविन्ध्यान्तर एव वेधो न सर्वदेशेष्यिति काश्यपोक्तिः (५)। जन्मर्क्षे निधनं ग्रहे जनिभतो घातः, क्षितिः श्रीर्व्यथा चिन्ता सौख्यकलत्रदौस्थ्यमृतयः स्युर्माननाशः सुखम्। लाभोपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगोदानं शान्तिरथोग्रहं त्वशुभदं नो वोक्ष्यमाहुः परे (६)। पापान्तःपापयुक् द्यूने पापाच्चन्द्रः शुभोऽप्यसत्। शुभांशे चाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सत् (७)। सितासितादौ सद्दृष्टे चन्द्रे पक्षौ शुभावुभौ। व्यत्यासे चाशुभौ प्रोक्तौ सङ्कटेऽब्जबलं त्विदम् (८)। वज्रं शुक्रे,ऽब्जे सुमुक्ता, प्रबालं भौमे,ऽगौ गोमेदमार्कौ सुनीलम्। केतौ वैदूर्यं, गुरौ पुष्पकं ज्ञे पाचिः, प्राङ्माणिक्यमर्के तु मध्ये (९)। माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं पुष्पकवज्रनीलम्। गोमेदवैदूर्यकमर्कतः स्यूरत्नान्यथोज्ञस्य मुदे सुवर्णम् (१०)। धार्यं राजावर्त्तकं राहुकेत्वोरौप्यं शुक्रेन्घोश्च, मुक्ता गुरोस्तु। लोहं मन्दस्यारभान्वोः प्रबालं ताराजन्मर्क्षात्त्रिरावृत्तितः स्यात्” (११)। मूहू० चि०।

“अथ गोचरप्रकरणं व्याख्यायते तत्र जन्मराशितः प्रोक्तनिषिद्धस्थानस्थितेदानीन्तनग्रहवशेन शुभाशुभनिरूपणं गोचर इत्युच्यते तत्र ग्रहाणां गोचरफलं शुभाशुभरूपमुपजातिकाद्वयेनेन्द्रवज्रया चोपजातिका पूर्बार्द्धेन चाह सूर्यो रसान्त्ये इत्यादौ सर्वोद्वन्द्वोविभाषयैकवद्भवतीति समाहारद्बन्द्व एकवचनान्तः। शिवाक्षयो- रित्यादावितरेतरयोगद्वन्द्वः अम्बराब्धावित्यादिषु त्वनित्यमागमशासनमिति नुमभावोध्येयः एवं सर्वत्र व्याख्येयम्। अत्र चतुर्थश्लोकेनान्वयः स्वजन्मराशेरिति पञ्चमश्लोकस्य पदमत्राध्याहार्यम्। तत्र सूर्योग्रहः स्वजन्मराशेः रसान्त्ये क्रमाच्छुभो विद्धश्च स्यात्। सूर्यः स्वजन्मराशेः सकाशाद्यदि षष्ठस्थाने तदा शुभम् अतः जन्मराशेर्द्वादशस्थानस्थिताश्चेदन्ये ग्रहाः स्युस्तदा विद्धः शुभोऽप्यशुभफलदाता अत्र शनैश्चरस्य सूर्यपुत्रत्वात्तद्वेधोनाङ्गीकार्यः यतः पितुर्जनकस्य सुतसम्बन्धिनं वेधं नाहुः सुतस्यापि पितृसम्बन्धिवेधं नाहुः। तथा स्वयुगे जन्मराशेर्दशमे सूर्यः शुभश्चतुर्थस्थान स्थताश्चेदन्ये ग्रहाः शनिवर्जिताश्च स्युःतदा विद्ध इत्येवं श्लोकत्रयं सम्यग्व्याख्येयम्। तथा अग्निनन्दे तृतीयनवमयोः शिवाक्षयोरेकादशपञ्चमयोः सूर्यः क्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्च नारदेन “शुभोऽर्को जन्मतस्त्यायदशषष्ठस्तु विध्यते। जन्मतो नवपञ्चाम्बुव्ययगैर्व्यार्किभिस्तदा”। अथ भौमेति। भौमशनी तमो राहुश्चैते ग्रहाः स्वजन्मराशितः रसाङ्कयोः षण्णवस्थानयोः क्रमाच्छुभा विद्धाश्चेत्यर्थः परन्तु शनेः सूर्यवेधी नास्तीत्युक्तमेवेति। यदाह वसिष्ठः “त्रिषडेकादशसहितो धरासुतो रिष्फधर्मसुतसं स्थैः। दिनकरतनयोऽपि शुभो न विद्यते स्वेचरैर्विनोष्णकरमिति”। “शनिवद्राहुर्ज्ञेय” इति वचनाद्राहोरप्येवमेवैष विचारः। राहीरुपलक्षणत्वात्केतोरपि उक्तञ्च शार्ङ्गधरेण “राहुकेतुफलं सर्वं मन्दवत्कथितं बुधैः। वेधोऽपि तद्वदेवो क्तोवामवेधस्तथैव च।” अथ चन्द्र इति जन्मराशितः अम्बराब्धौ दशमचतुर्थयोः, गुणनन्द्रयोस्तृतीयनवकयोः (१) लाभाष्टमे एकादशाष्टमयोः, आद्यशरे प्रथमपञ्चमयोः, रसान्त्ये षष्ठद्वादशस्थानयोः नगद्वये सप्तमद्वितीययोः स्थानयोश्चन्द्रः क्रमात्शुद्धः विद्धश्च ज्ञेयः चन्द्रस्य बुधवेधो नास्ति। उक्तञ्च नारदेन “विध्यते जन्मतोनेन्दुर्द्यूनाद्यायारिखत्रिषु। स्वेष्वष्टान्त्याम्बुधर्मस्थैर्विबुधैर्जन्मतः शुभः” इति। अथ ज्ञ इति जन्मराशेः द्विशरे द्विपञ्चमयोः अब्धिरामे चतुर्थतृतीययोः, रसाङ्कयोः षष्ठनवमयोः, नागविधौ अष्टमप्रथमयोः, खनागे दशमाष्ट्रमनोः, लाभव्यये एकादशद्वादशयोः स्थानयोर्ज्ञो बुधः क्रमाच्छुभो विद्वश्च ज्ञेयः। परं त्वत्र चन्द्रवेधो नास्ति यदाह नारदः “ज्ञः स्वाब्ध्यर्यष्टखायेषु जन्मतश्चेन्न विध्यते। सुतत्र्यङ्काद्याष्टमान्त्यसंस्थितैरिन्दुजः शुभः” इति अथ देवगुरु- रिति जन्मराशितः शराब्धौ पञ्चमचतुर्थयोः, (२) द्व्यन्त्ये द्वितीयद्वादशस्थानयोः, नवाशे नवमदशमयोः स्थानयोः द्विगुणे द्वितीयतृतीययोः शिवाग्नौ एकादशतृतीययोः। देवगुरुर्बृहस्पतिः क्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्च नारदेन “जन्मतः स्वायगोब्ध्यद्रिष्वन्त्याष्टखजलत्रिगैः जन्मराशेर्गुरुः श्रेष्ठो ग्रहैर्यदि न विध्यते” इति। अथ शुक्र इति जन्मराशेः कुनागे प्रथमाष्टमयोः, द्विनगे द्विसप्तमयोः, अग्निरूपे तृतीयप्रथमयोः, वेदाम्बरे चतुर्थदशमयोः, पञ्चनिधौ पञ्चमनवमयोः, गजेषौ अष्टमपञ्चमयोः, नन्देशयोर्नवमदशमयोः, भानुरसे द्वादंशषष्ठयोः, शिवाग्नौ एकादशतृतीययोः स्थानयोः, (३) शुक्रः क्रमाच्छुभो विद्धश्च ज्ञेयः यदाह नारदः “जन्मभादासुताष्टाङ्कान्त्यायेष्विष्टो न विध्यते। भार्गवो मृत्युसप्ताद्यस्वाङ्केशायारिपुत्रगैरिति” आसुतेत्यभिविधावाङः सहतेनान्त्याभिविधिरिति तेन प्रथमद्वितीयतृतीयचतुर्थपञ्चमानां ग्रहाणामित्यर्थः। इदमत्राकूतं यो यो ग्रहः रसन्त्यैत्यादौ प्राक्पठितेषु स्थानेषु विद्यमानः स स ग्रहः शुभदः शुभस्थानव्यतिरिक्ताखिलस्थानेषु विद्यमानः स स ग्रहो,ऽशुभफलदाता अतएवाह श्रीपतिः “सर्वे लाभगृहस्थिताश्च खरिपुष्वर्कः कुजार्की त्रिषट्। प्राप्तौ साद्यखमन्मथारिषु शशी खास्तारिवर्जं भृगुः। धीधर्मास्तधनेषु वाक्पतिरिति स्वाष्टाम्बुखस्थो बुधः श्रेष्ठो जन्मगृहाद्धि गोचरविधौ विद्धो न चेत् स्याद्ग्रहैरिति”। अर्थादेवानुक्तस्थानेष्वशुभः स स ग्रहः। अत्र ग्रहाणां विहितनिषिद्ध स्थानफलानि विधिरत्ने। तत्ररवेः। “स्थानं जन्मनि नाशयेद्दिनकरः कुर्य्यात्, द्वितीये भयं, दुश्चिक्ये ३ श्रियमातनोति हिबुके ४ मानक्षयं यच्छति। दैन्यं पञ्चमगः करोति रिपुहा षष्ठेऽर्थहा सप्तमे पीडामष्टमगः करोति परुषां कान्तिक्षयं धर्म ९ गः। कर्मसिद्धिजनकस्तु कर्म १० गोवित्तलाभकृदथाय ११ संस्थितः। द्रव्यनाशजनितां महापदं यच्छति व्यय १२ गतो दिवाकरः”चन्द्रस्य–जन्मन्यन्नन्दिशतिं हिमगु, र्वित्तनाशं द्वितीये दद्यात् द्रव्यं सहज ३ भवने कुक्षिरोगं चतुर्थे। कार्ये नाशं तनय ५ गृहगोवित्तलाभं च षष्ठेद्यूने ७ द्रव्यं युवतिसहितं मृत्यु ८ संस्थोऽपमृत्युम्। नृपभयं कुरुते नबमः शशी दशमधामगतस्तु महत् सुखम्। विविधमाय ११ गतः कुरुते धनं व्यय १२ गतस्तु रुजं धनसंक्षयम्”कुजस्य–“प्रथमगृहगः क्षौणीसूनुः करोत्यरिजं भयं क्षपयति धनं वित्त २ स्थाने तृतीयगतोऽर्थदः। अरिभयमतः पाताले ४ऽर्थान् क्षिणोति हि पञ्चमो रिपु ६ गृहगतः कुर्य्या द्वत्तं रुजं मदन ७ स्थितः। जननितो निधन ८ स्थः शत्रुबाधां धराजो दिशति नवमसस्थः कायपीडामतीव। शुभमपि दशमस्थो लाभ ११ गो भूरिलाभं १२ व्ययभवनगतोऽसौ व्याध्यनर्थार्थनाशान्”बुधस्य–“बुधः प्रथमगोमयं दिशति बन्धमर्थे धने २ धनं रिपुभयान्वितं सहज ३ गश्चतुर्थेऽर्थदः। अनिर्वृतिकरो भवेत्तनय ५ गोऽरि ६ गः स्थानदः करोति मदन ७ स्थितोबहुविधां शरीरव्यथाम्। अष्टमे शशिसुते धनवृद्धिर्धर्म९ गस्तु महतीं तनुपीडाम्। कर्म १० गः सुखमथाय ११ गतोऽर्थं द्वादशे भवति वित्तविनाशः।गुरोः–“भयं जन्मन्यार्योजनयति धन २ स्थोऽर्थमतुलं तृतीयेऽङ्गक्लेशं दिशति च चतुर्थेऽर्थविलयम्। सुखं पुत्र५ स्थाने रुजमपि च कुर्यादरि ६ गृहे गुरुर्द्यूने ७ पूजां धननिचयनाशं च निधने ८। धर्म ९ गतो धनवृद्धिकरः स्यात्प्रीतिहरो दशमेऽमरपूज्यः। स्थानधनानि ददाति स चाये ११ द्वादशगस्तनुमानसपीडाम्”भृगोः। “जन्मन्यतिक्षयकरो भृगुजोऽर्थदोऽर्थे २ दुश्चिक्य ३ गः सुखकरोधनदश्चतुर्थे। स्यात्पुत्रदस्तनय ५ गोऽरि ६ गतोऽरिवृद्धिं शोकप्रदो मदन ७ गोनिधने ८ऽर्थदायी। जनयति विविधाम्बराणि धर्मे ९ न सुखकरो दशमस्थितस्तु शुक्रः। धननिचयकरः स लाभ ११ संस्थो व्यय १२ भवनेऽपि धनागमं करोति”शनेः। “वित्तभ्रंशं रुगाप्तिं दिनकरतनयो जन्मराशिं प्रपन्नो वित्तक्लेशं द्द्वितीये धनहरणकृतं वित्तलाभं तृतीये। पाताले ४ शत्रुवृद्धिं सुतभवन ५ गतः पुत्रभृत्यार्थनाशं षष्ठेस्थानेऽर्थलाभं जनयति मदने ७ दोषसंघातमार्किः। शरीरपीडां निधने ८ च धर्मे ९ धनक्षयं कर्मणि १० दौर्मनस्यम्। उपान्त्य २१ गो वित्तमनर्थमन्त्ये १२ शनिर्ददातीत्यवदद्वसिष्ठः”राहोः केतोश्च–“राहुर्जन्मगतो भयं च कलहं सौभाग्यमानक्षयं वित्तभ्रंशमहासुखं नृपभयं चार्थक्षयं यच्छति। सन्तापं कलहं च वित्तमधिकं शीघ्रं विनाशं नृणां केतुस्तत्फलमेव राशिषु वदेच्छंसन्ति गर्गादयः”।

एतच्छुभाशुभरूपाग्रहा ऋक्षसन्धिगतास्तथा राशिसन्धिगता एष्यराशेः फलं ददति वक्रिणस्तु प्राग्राशेरित्याह कमलासनः “ऋक्षसन्धिगताः खेटाः राशिसन्धिगता ग्रहाः। एष्यराशेः फलं दद्युर्वक्री तद्विपरीतगमिति” राशिग्रहणं नक्षत्रस्याप्युपलक्षणम्। वसिष्ठोऽपि “भवनान्त्यगताधिष्ण्यन्तगताश्च गगनचराः। दद्युः परभवनफलं प्राग्भवनफलं च वक्रिता यत्र” इति। अस्यार्थः ऋक्षं नक्षत्रं तस्य सन्धिः एकस्मान्निर्गत्यापरत्र संक्रमणं सन्धिरेवं राशिसन्धिश्च। तत्र सन्धिज्ञानम्। “देवद्व्यङ्कर्त्तवोऽष्टाष्टौ नाड्योऽङ्काः खनृपाः क्रमात्। वर्ज्याः संक्रमणेऽर्कादेः प्रायोऽर्कस्यातिनिन्दिताः” इति विवाहप्रकरणे वक्ष्यति ग्रन्यकृत्। संक्रमणकाल एव सन्धिकालः सर्वेषां ग्रहाणाम् “षष्टिघ्नविम्बं ग्रहभुक्तिभक्त” मित्यादिना भास्करेणोक्तत्वात्। तदेतदस्माभिः संक्रान्तिप्रकरणे सप्रपञ्चं निरूपितं तत एवावधार्यम्। तत्र सूर्यादिग्रहाः देवद्व्यङ्केतिपद्योक्त घटिकोपलक्षिते नक्षत्रान्ते राश्यन्ते वा स्थिता जिगमिषितस्य नक्षत्रस्य राशेर्वा फलं प्रयच्छन्ति वक्रिणस्तु पूर्वोक्तलक्षणोपलक्षिते नक्षत्रादौ राश्यादौ वा स्थिता भुक्तस्य नक्षत्रस्य राशेर्वा फलं ददति। तत्र भौभाद्याः ग्रहाः वक्रातिचारयोः प्राग्राशिफलं कियन्ति दिनानि प्रयच्छन्तोत्याह वसिष्ठः “दशदिवसं पञ्चदिनं त्रिपक्षमतिचारवक्रयोर्दद्युः। भौमाद्याः पञ्चदिनं प्राग्राशिफलं च पञ्च मासांश्चेति” भौमाद्याः स्वगत्यायावता कालेन राशिं जहति ततोऽल्पेन न्यूनाधिकभावेन स चारः यदा चारसमये राशिं जहति सोऽतिचारः, वक्रं प्रसिद्धमेव। अथ वामवेधं शुक्लपक्षे चन्द्रबलं चोपजात्युत्तरार्द्धेनाह। दुष्टोऽपि स्वजन्मराशेः सकाशादनिष्टस्थानस्थितोऽपि स्वेटो विपरीतवेधात् वामवेधाच्छुभः शुभफलदाता। अयमर्थः येषु षष्ठदशमतृतीयैकादशेषु स्थितः सूर्यः शुभफलदाता तद्भिन्नान्यष्टौ स्थानान्यशुभान्येव तत्र द्वादशचतुर्थनवमपञ्चमाख्येष्वनिष्टस्थानेषु स्थितः सूर्यस्तदैवानिष्टफलदः स्याद्यदा प्राक् पठितैः क्रमेण षष्ठादिस्थानस्थितैः शनिवर्जितैः ग्रहैर्नविद्धः यदा तु विद्धस्तदा शुभफलदोऽपि षष्ठादिस्थाने शुभदो नैव स्यात्। अन्येषु स्थानेषु प्रथमद्वितीयसप्ताष्टमेषु स्थितः सूर्योऽनिष्टफलद एव। एवं चन्द्रबुधयोः षडेव विरुद्धस्थानानीतिक्रमवेधवामवेधौ स्याताम्। भौमस्य तु त्रीण्येव शुभानीतराण्यशुद्धान्येव तत्र नवपञ्चमद्वादशस्थानस्थितभौमस्याशुभस्य क्रमेण षष्ठैकादशतृवीयस्थानस्थैर्ग्रहैर्वामबेधेन शुभत्वमेव। अन्येष्वशुभस्थान- स्थितेष्वशुभएव भौमः। एवं शनिराहुकेतवोध्येयाः गुरोरप्येवमेव। तत्र तु प्रथमषष्ठस्थानस्थो गुरुरशुभ एव। शुक्रस्य तु नवस्थानानां शुभत्वात्तद्व्यतिरिक्तानि त्रीणि षष्ठसप्तमदशमस्थानान्यशुभानि तेषामेव क्रमेण द्वादशद्वितीयचतुर्थस्थानस्थग्रहजनितवामवेधेन शुभत्वमेव। अन्येषां तूत्तरपठितत्वात् स्थानानां शुभत्वादेव न वामवेधविचारार्हत्वमिति परिच्छिन्नोऽर्थः यदाह कश्यपः “अपि विद्धो ग्रहः कश्चिन्न ददाति शुभं फलम्। वामवेधविधानेन त्वशुभोऽपि शुभप्रदः। अतस्तद्द्विविधं मूलं बिचार्यासत् फलं वदेत्” इति। वसिष्ठोऽपि “वेधसमन्वित खचराणां प्रदिशन्त्यसत्फलं किञ्चित्। खव्यत्ययवेधविधानादपि शुभास्ते शुभप्रदाः सततमिति” व्यत्ययवेधो वामवेधः। द्विकोण इति। सिते शुक्लपक्षेऽब्जश्चन्द्रो द्विकोणे द्वितीयनवमपञ्चमस्थानेषु स्थियः शुभदः अत्रापि क्रमेण षष्ठाष्टमचतुर्थस्थानस्थितैर्बुधवर्जितैर्ग्रहैर्नाविद्धः इत्यपि ध्येयं उक्तं च नारदेन “शुक्लपक्षे शुभश्चन्द्रो द्वितीयनवपञ्चगैः। रिपुमृत्यम्बुसंस्थैर्न विद्धो हि गगनेचरैरिति” यदि विध्यते तदाऽशुभफलद एव (४) अथ द्विविधवेधे मतद्वयमुपजात्याह स्वजन्मेति। इह द्विविधवेधविधावन्ये नारदादयः। स्वजन्मराशेः सकाशाद्द्विविधं वेधं क्रामिकं वामिकं चाहुः। तथा चोभयत्रापि नारदेन जन्मत इत्युक्तम्। अथ कश्यपादिमतमुच्यते। स पुनर्द्विविधोऽपि वेधोग्रहाधिष्ठितराशितोज्ञेयः यथा सूर्यो जन्मराशेः सकाशात् पष्ठस्थितः शुभः स सूर्यःस्वाक्रान्तराशितो द्वादशस्थानस्थितैः शनिवर्जितैर्ग्रहैर्न विद्धः तथा सूर्यो जन्मराशिद्वादशस्थोऽपि नेष्टः सः सूर्यःस्वाक्रान्तराशिषष्ठस्थितैः शनिवर्जितैर्ग्रहैर्विद्धश्चेत्तदा शुभफलद इत्यर्थः। अथैतस्यैव द्विविधवेधस्य देशविशेषविषयत्वमुच्यते। हिमाद्रिविन्ध्यनामानौ पर्वतौ प्रदे शविशेषावस्थित्या प्रसिद्धौ तयोरन्तरालवर्त्तिन्येव देशे स द्विविधोऽपि वेधोज्ञेयः न सर्वदेशेषु हिमाद्रिविन्ध्यान्तराल बहिर्भूतसर्वदेशेषु द्विविधोऽपि वेधदोषो नास्तीति कश्यपस्य मुनेरुक्तिर्वचनम्। जन्मनक्षत्रादौ स्थानभेदे ग्रहणफलमाह जन्मार्क्ष इत्यादि। “यन्नक्षत्रगतो राहुर्ग्रसते चन्द्रभास्करौ। तज्जातानां भवेत्पीडा ये नराः शान्तिवर्जिताः।” भार्गवीये विशेषोऽपि “यस्य राज्यस्य नक्षत्रे स्वर्भागुरुपरज्यते। राज्यभङ्गं सुहृन्नाशं मरणं चात्र निर्द्दिशेदिति” राज्यस्य नक्षत्रे अभिषेकनक्षत्रे यदा कदाचिद्राहुभुज्यमाननक्षत्रमुपरागनक्षत्रेणैकमेव तदायं सन्दिग्धफलनिर्देशः यदा तु नक्षत्रभेदस्तदोपरज्यमाननक्षत्रेऽप्येव फलनिर्देशः एवं राशिभेदेषूपरज्यमानराशिभेदेष्वप्येवम्। यतोऽस्मन्मते राहो र्दिग्देशकालावरणादिभेदात् ग्रहणत्वमेव नास्ति। तदुक्तं सिद्धान्तशिरोमणौ “दिग्देशकालावरणादिभेदान्न च्छादिकोराहुरिति ब्रुवन्ति”। एतदुपपत्तिर्भास्करेण स्वपद्यैरेव निरूपिता पितृचरणैश्च तोडरानन्दे राहुचारविलासे प्रपञ्चिता परन्तु राहुसाहित्यं विना ग्रहणानयनस्य शरसंस्कृतिमाश्रित्य खण्डानयनविशिष्टस्यासुकरत्वादिति साहित्यविवक्षयैव राहोरुपरक्तत्वमुच्यते। अतएवोक्तं वराहेण “तणिल् काले सान्निध्यमस्य तेनोपचर्यते राहुः। याम्योत्तरा शशिगतिर्गणिते ह्युपचर्यते तेनेति” ५। अथ जन्मादिराशिफलमुच्यते जनिभत इति। पञ्चम्यास्तसिल् जन्मराशेरारभ्य द्वादशसु राशिषु ग्रहणे सति क्रमादनुक्रमेण घातादिफलं भवति यथा जन्मराशौ ग्रहणे सति घातः शरीरपीडा, द्वितीयराशौ क्षतिः द्रव्यनाशः, तृतीयराशौ श्रीर्लक्ष्मीः, चतुर्थराशौ शरीरपीडा, पञ्चमराशौ चिन्ता पुत्रादीनां, षष्ठे राशौ सौख्यं, सप्तमराशौ कलत्रदौस्थ्यं स्त्रीमरणं, अष्टमराशौ मृत्युर्मरणं, नवमराशौ माननाशः, दशमराशौ सुखम्, एकादशराशौ लाभः, द्वादशराशौ मृत्युः आत्मन इति केचित् द्रव्यस्येत्यपरे, इदं च फलं षण्मासपर्यन्तमनुक्तमपि ध्येयं तदुत्तरं हि ग्रहणान्तरसम्भावनात् यथोक्तं दैवज्ञमनोहरे “घातं हानिमथ श्रियं जननिभाद्ध्वंसं च चिन्तां क्रमात् सौख्यं दारवियोजनं च कुरुते व्याधिं च मानक्षयम्। सिद्धिं लाभमपायमर्कशशिनोः षणमासमध्ये ग्रहः इति” क्वचित्तु “स्थानान्त्य एवं शुभमध्यमाधमाः” इत्युक्तम्। दैवज्ञमनोहरे “ग्रा त्ततीयोऽष्टसगश्चतुर्थस्तथायसंस्थः शुभदः स्वराशिः। सप्तमगश्च विद्भिः पूज्यो द्विषट्को दशमाद्यसंस्थः” इति अत्र वाक्ये ग्रासराशितोगणनोक्ता “त्रिषड्दशायोपगतं नराणां शुभप्रदं स्याद्ग्रहण रवीन्द्वोः। द्विसप्तनन्देषु च मध्यमं स्याच्छेषेष्वनिष्टं मुनयो वदन्तीति” अत्रावध्यपेक्षायां स्वजन्मराशेरित्याव्याहार्यमेव। अथाशुभसूचकग्रहणप्रतीकारमाह तदशुभेति तत्र सूर्यचन्द्रयोर्ग्रहणस्य सम्बन्धि यदशुभं दुष्टफलन्तस्य ध्वस्त्थै नाशाय जपः स्वर्णगो- दानं जपो गायत्र्यादीनां मन्त्राणां स्वर्णं प्रसिद्धं गौःप्रसिद्धा भूमिर्वा उपलक्षणत्वादन्येषां रूप्यादीनां यथा शक्त्या दानं कार्यमिति शेषः उक्तं च दैवज्ञमनोहरे “सुवर्णनिर्मितं नागं सतिलं ताम्रभाजनम्। सदक्षिणं सवस्त्रं च श्रोत्रियाय निवेदयेत्। सौवर्णं राजतं वापि बिम्बं कृत्वा स्वशक्तितः। भवेदपगतक्लेशः छिद्रे विप्राय कल्पयेत्। दानमन्त्रश्च। तमोमय! महाभीम! सोमसूर्यविमर्दन!। हेमनाग! प्रदानेन मम शान्तिप्रदो भव”। स्कन्दपुराणे मोदानं भूमिदानं च स्वर्णदानं विशेषतः। ग्रहणे क्लेशनाशाय दैवज्ञाय निवेदयेत्”। किंचात्र देशविशेषः पात्रविशेषो द्रव्यविशेषश्च नापेक्ष्य इत्याह व्यासः “सर्वं गङ्गासम तोयं सर्वे ब्रह्मसमा द्विजाः। सर्वभूमिः कुरुक्षेत्रं ग्रहणे चन्द्रसूर्ययोरिति”। तत्र स्नानदानादिकं कस्मिन् काले कर्त्तव्यमित्याह “ग्रस्यमाने भवेत् स्नानं ग्रस्ते होमो विधीयते। मुच्यमाने भवेद्दानं मुक्ते स्नानं विधीयत” इति तस्मिन् काले जपादिकमपि विधेयम् “सूर्येन्दुग्रहणं यावत्तावत् कुर्याज्जपादिकमिति” शिबरहस्योक्तेः आदिशब्दात् सुरार्चनमपि अत्र जन्मनक्षत्रजन्मराश्योर्ग्रहणशान्तिमाह वशिष्ठः “यस्यैव जन्मनक्षत्रे ग्रस्येते शशिभास्करौ तस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः। द्रव्यमन्त्रविधानेन तस्य दोषापनुत्तये। उपरागस्नानविधिं सम्यग्व क्ष्ये समासतः। मण्डलं चतुरस्रं तु गोमयेन विलेपयेत्। गृहस्येशानदिग्भागे वर्णकैः समलङ्कृते। स्थापयेच्चतुरः कुम्भांस्तत्र तान् सागरात्मकान्। सर्ववेदात्मकान् स्मृत्वा सर्वतीर्थात्मकान् शुभान्। पल्लवोशीरसायुज्यसर्वौषधिसमन्वितान्। मृत्तिकाहेमरत्नेन दग्धगुग्गुलचन्दनैः। पञ्चगव्यामृतभ्राजिस्फटिकैः सर्वपावनैः”। इत्युपक्रमे “तिलहोमं च्याहृतिभिः सहस्रमष्टसंयुतम्। एवं कृत्वा प्रयत्नेन स्नानकर्म समाचरेत्। आमन्त्र्य नवभिर्मन्त्रैः कुम्भान् संकल्पपूर्वकान्। एतानेव ततो मन्त्रान् वर्णयेच्चैव सलिखेत्। कर्तुः शिरसि तं वद्ध्वा वार्त्तिकैर्वेदमन्त्रकैः। सुमन्त्रितैः कुम्भजलैः स्नाप्यं नीराजयेत्ततः। दध्याज्यमग्रे विप्रेभ्यः शुक्लमाल्याम्बरः शुचिः। ऋत्विग्भ्यो दक्षिणां दद्याच्छिष्टेभ्यश्च स्वशक्तितः। योऽसौ वज्रधरो देव आदि त्यानां प्रभुर्भतः। सहस्रनयनश्चन्द्रग्रहपीडां व्यपोहतु १। यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः। यमश्चन्द्रोपरागस्य ग्रहपीडां व्यपोहतु २। रक्षोगणाधिपः साक्षात् प्रलयानलसन्निभः। चन्द्रस्य ग्रासे कायस्य रक्षःपीडां व्यपोहतु ३। नागपाशधरो देवः सदा मकरवाहनः। वरुणोऽम्बुपतिश्चान्द्रग्रहपीडां व्यपोहतु ४। प्राणरूपो हि लोकानां वायुः कृच्छ्रमृगप्रियः। वायुश्चन्द्रोपरागस्य पीडनं मे व्यपोहतु ५। योऽसौ निधिपतिर्देवः खड्गशूलगदाधरः। चन्द्रोपरागकलुषां पीडां चापि व्यपोहतु ६। योऽसाविन्दुधरो रुद्रःपिनाकी वृषवाहनः। चन्द्रोपरागपीडाञ्च नाशयेत् सङ्कटं तथा। ७ त्रैलोक्ये यानि भूतानि चराणि स्थावराणि च। ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु मे ८। आमन्त्रणोल्लेखनोक्तास्त्वेत एव च मन्त्रकाः। अर्चयित्वा पितॄन् देवान् गोभूस्वर्णाम्बरादिभिः। अनेन विधिना यस्तु ग्रहस्नानं समाचरेत्। तन्नास्य ग्रहपीडा स्याद्यानबन्धुधनक्षयः। परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभम्। सूर्यग्रहेऽप्येवमेव सूर्यनाम्ना विधीयते।” अत्र यद्यपि जन्मराशौ धनक्षय इत्युक्तं तत्र च दोषाल्पत्वात् प्रतिमादानशान्त्यकर्त्तव्यता प्रतीयते तथापि प्राग्विलिखितबहुवचःसु विरुद्धफलाभिधाना देवास्य जन्मराशावपि ग्रहणे शान्तिर्विधेया। उभयाभिधानेन शान्त्यभिधानात् उक्तं च मत्स्यपुराणे “यस्य राशिं समासाद्य भवेद्ग्रहणसम्भवः। तस्य शान्तिं प्रवक्ष्यामि मन्त्रौषधिविधानतः”। इति अतो जन्मनक्षत्र जन्मराशिव्यतिरिक्ते विरुद्धे ग्रहणे शान्तिर्न विधेया वचनाभावात् किन्तु स्वविभवरूपं दानादिरूपं विधेयमिति तात्पर्यार्थः। सूर्यग्रहेऽप्येवमेवेति योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः। सहस्रनयनः सूर्य्यग्रहपीडां व्यपोहतु” इत्युक्तदिशा चन्द्रपदस्थाने सूर्यपदं पूर्वमन्त्रश्लोकेषु प्रयोज्यमित्यर्थः। अथेदं ग्रहणं स्थानविशेषेणारिष्टजनकमित्युक्तं तच्च ग्रहणं न द्रष्टव्यमित्याह नो वीक्ष्यमिति उक्तं च “जन्मसप्ताष्टरिप्फाङ्कदशमस्थेनिशाकरे। दृष्टोऽरिष्टप्रदो राहुर्जन्मर्क्षे निधनेऽपि चेति” जन्मर्क्षं जन्मनक्षत्रं निधनं बधतारा सप्तमी। अत्र दृष्ट इति पदश्रवणात् दुष्टस्थानावस्थितो राहुर्दृष्टः पुंसोरिष्टजनकः यदा तु मेघाद्यावरणेन गृहमध्यावस्थित्या वा चक्षुष्मतोऽपि पुंसो राहुदर्शनाभावस्तदाऽरिष्टं नास्ति एवं चान्धस्य यत्र कुत्राप्यवस्थितस्य गृहाद्बहिर्गन्तुम शक्रुवतो वृद्धातुरादेः सर्वारिष्ट स्नानादि वा नास्ति इति तेषामाशयः। अत्रेद चिन्त्यते किमिदं ग्रहणं दृष्टमेव स्नानाद्यधिकारसम्पादकम्? उत मेषाद्यावरणे नादृष्टमपि? कुतः सन्देहः? उभयथा वचनोपलब्धेस्तथा हि वृद्धवसिष्ठः “सर्वेषामेव वर्णानां सूतकं राहुदर्शने। सचेलं तु भवेत् स्नानं सूतकान्नं विवर्जयेदिति”। षट्त्रिंशन्मते “सर्वेषामेव वर्णानां सूतकं राहुदर्शने। स्नात्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेदिति”। शृतं पक्वं शृतं पाके” पा० इति निपातनात् यद्यपि तस्मिन् सूत्रे “क्षीरहविषोरेवेति” महाभाष्यकृतोक्त तथापि महामुनिप्रयोगादन्य स्मिन्नपि द्रव्ये ओदनादौ पाकसामान्याद्वृत्तिः। विष्णुः “राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकमिति”। शातातपः “स्नानं दानतपः श्राद्धमनन्तं राहुदर्शने” इति एवमादीनि वचांसि दर्शनपदसहितान्युपलभ्यन्ते अन्यथापि वसिष्ठः “ग्रहणे संक्रमे वापि न स्नायाद्यदि मानवः। सप्तजन्मनि कुष्ठी स्याद्दुःखभागी च जायते” इति लिङ्गपुराणेऽपि “चन्द्रसूर्यग्रहे स्नायात् सूतके मृतकेऽपि च। अस्नायी मृत्युमाप्नोति स्नायी पापं न विन्दतीति” एवमादीनि दर्शनपदानाक्रान्तानि वचांस्युपलभ्यन्ते। तत्र दर्शनवादिन आहुः दर्शनपदानाक्रान्तेषु वचःसु ग्रहणस्य निमित्तत्वं प्रतिपाद्यते। “ग्रहणे संक्रमे वापीति” निमित्तसप्तम्युपलम्भात्। ज्ञातमेव च ग्रहणं स्नानदानादिकं प्रति निमित्तं भवति तज्ज्ञानापेक्षायां च राहुदर्शनपदोपेतवचनालोचनेन चाक्षुषज्ञानस्यैव निमित्तत्वं यतश्चाक्षुष एव ज्ञाने दर्शनमुख्यत्वं ज्योतिःशास्त्रीयज्ञाने तु लक्षणाप्रसक्तिः। एवं सति मेघाच्छन्नग्रहणदिवसजातचन्द्रग्रहणं रात्रिभवेषु सूर्यग्रहणेषु न स्नानदानादावधिकारः तस्माद्ग्रहणं दृष्ट्वा स्नानदानादिकं विधेयमित्यर्थः सम्पन्नो भवति, नैतत्सहृदयह्दङ्गमं यतो वचनेषु राहुदर्शनग्रहणपदयोः समानार्थकता नास्ति कथम् “अदृश्यरूपाः कालस्य मूर्त्तयो भगणाश्रिताः। शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः।” इति सूर्यसिद्धान्ते चन्द्रादिग्रहपातानामदृश्यतोक्ता पातो राहुश्च पर्यायः। उक्तञ्च तत्रैव “दक्षिणोत्तरयोरेव पातो राहुःस रंहसा। विक्षिपत्येष विक्षेपश्चन्द्रादोनामपक्रमादिति” केशवार्केणाप्युक्तम् “पर्य्यायेण तु राहुपातयोर्नामनी विदधुरेव तान्त्रिकाः इति। अतो राहुदर्शनमेव गगनकुसुमायमानम्। ननु ग्रहणे सूर्यचन्द्रयोश्छादको राहुर्दृश्यत एव अतएव “राहुग्रस्ते निशाकरे” इत्यादि पुराणोक्तिः साधीयसीति चेन्न “भानोर्भार्द्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा। शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके” इत्युपक्रम्य “छादको भास्करस्येन्दुरधःस्थो घनवद्भवेत्। भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसाविति”। अतो भूच्छायाऽस्य चन्द्रस्य छादको भवेदित्यर्थः इति सूर्यसिद्धान्ते स्पष्ट एव छाद्यच्छादकभावोऽभिहितः पुराणेन सह विरोध परिहारस्तु “दिग्देशकालावरणादिभेदान्न छादको राहुरिति ब्रुवन्ति। यन्मानिनः केवलगोलविद्यां स्वसंहितावेदपुराणवाक्यमिति” पूर्वपक्षं विधाय “राहुः कुभामण्डलगः शशाङ्कं शशाङ्कगश्छादयतिनबिम्बम्। तमोमयः शम्भुवरप्रदानात् सर्वागमानामविरुद्धमेतदिति” भास्कराचार्यैरेवोक्तः “तस्मिन् काले सान्निध्यमस्य तेनोपचर्यते राहुरिति” वराहेण उक्तम् तस्माद्राहुदर्शनं तु नास्त्येव भवन्मते दर्शनं चाक्षुषमेवोच्यते नान्यत् एव सति राहोर्दर्शनं राहुदर्शनमिति तत्पुरुषोऽनुपपन्नः। यदि तु समीपलक्षकदर्शनशब्दमङ्गीकृत्य तदर्थः क्रियते। तदापि यस्य स्वरूपमेवानुपपन्नं तस्य समीपे तु सुतरामिति बालैरप्येतद्बुध्यते। तस्माद्दर्शनशब्देनोपरागो लक्ष्यते राहुदर्शनं राहूपरागस्तस्मिन् राहुदर्शने इति। अयमर्थः। राहुर्नाम पातः तस्य सम्बन्धेन दर्शनमुपराग इति। न च राहुरेव लक्षणयोपरागपरस्तस्य दर्शनमिति पूर्वपक्षाभिमतार्थसिद्धिरिति वाच्यं लक्षणा त्वर्थान्तरान्तरा सम्भवे सति वक्तव्या। “अत्यन्तादर्शनं राहोस्तथा चात्यन्तदर्शने। प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैरिति” विष्णुधर्मोत्तरादिवाक्येषु पदान्तरासन्निधानाद्राहुदर्शनेनोपरागो लक्ष्यते। इदं च राहोः पातनामकग्रहणं प्रति हेत्वर्थान्तरमस्तीत्यतो राहुदर्शनग्रहणयोः समानार्थ कता नास्तीत्येवं सिद्धमिति। प्रागुक्तानां सर्ववचसां ग्रहणे स्नायादित्येव वाक्यार्थः फलितो भवति। किञ्च ग्रहणे चाक्षुषमेव दर्शनं निमित्तं विवक्षितं चेत्तदा “नेक्षेतोद्य न्तमादित्यं नास्तं यान्तं कथञ्चन। नोपरक्तं न वारिस्थं न मध्ये नभसोगतम्” इत्युक्तोपरक्तसूर्यदर्शननिषेधो नोपपद्येत नन्वयं निषेधः सूर्योपरागदर्शन एव न चन्द्रोपराग इति चेन्न “नाशुची राहुतारकाम्” इत्यत्र राहुमात्रग्रहणाद्रविचन्द्रोपरागद्वयविषयकोपसंहारस्य युक्तत्वात् अशुचे रजस्वलापतितादेर्ग्रहणं तु दोषाधिक्यसूचनार्थं यथा श्राद्धे कुलीनानां ब्राह्मणानामा मन्त्रणे उक्ते अन्येषां निषिद्धत्वादेव कुण्डगोलक ब्राह्मणा नामनामन्त्रणे सिद्धे पुनर्निषेधो दोषाधिक्यार्थमेव। “भास्करालोकनाश्लीलपरिवादादि वर्जयेदिति” स्मृतिवाक्यस्य तूद्यदस्तगाम्यादित्यदर्शनपरतया व्याख्यानस्य युक्तत्वात्। केचित्तु दर्शनादर्शनविषयकयोर्विध्योस्तुल्य बलत्वात्सकृद्दृष्ट्वा स्नायादिति व्याचख्युः तच्चिन्त्यं “जन्मसप्ताष्टरिफाङ्केत्यदिना सामान्यतो निषिद्धस्योपरक्तदर्शनस्य पुनर्निषेधात् प्रागुक्त्वदिशा राहुदर्शनपदस्य राहूपरागलक्षकत्वेन तुल्यबलत्वाभावाच्च तस्मादुपरक्तयोः सूर्यचन्द्रमसोर्यस्य कस्यापि दर्शननिषेधसत्त्वात् ग्रहणे स्नानदानाद्युक्तेस्तज्ज्ञानं च ज्योतिःशास्त्रैकदेशगणितग्रन्येभ्यो बुद्ध्वा तस्मिन् काले स्नानदानादि विधेयमिति सिद्धान्तः। अतएव मेघाद्यावृतेऽप्युपरागे स्नानादिकं विधेयमेव ननु गणितग्रन्थाधीनमुपरागज्ञान मेव चेत् स्नानादिप्रयोजकं तदा रात्रौ सूर्यग्रहणस्य जायमानत्वात्तदापि स्नानादिकं स्यात्। सत्यमेवैतत् वचनात्तथा न क्रियते। तदुक्तं निगमे “सूर्यग्रहो यदा रात्रौ दिवा चन्द्रग्रहो यदि। तत्र स्नानं न कुर्वीत दद्याद्दानं न च क्वचिदिति”। अतएव तादृशे ग्रहणे दुष्टेऽपि दौष्ट्यं नास्तीत्यपि सूच्यते। न चैतद्भागे प्रतिषेधादित्यधिकरणेन पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीत्युदाहृतबाक्यवन्नित्यानुवाद इति वाच्यं विधिशेषत्वाभावात् यथा पृथिव्यामग्निर्नचेतव्य इति न निषेध विधिरस्ति तत्र नान्तरिक्षे न दिवीति दृष्टान्तो निषेध विधेः शेषस्तथात्र सूर्यग्रहो यदा रात्रावित्येतद्वाक्यस्य विधेः शेष इति। किञ्चैवं ब्रुवतस्तव मतेऽनर्थकमेव वाक्यं स्यान्नचैतद्युक्तम् अतएवाह जावालिः “संक्रान्तेः पुण्यकालस्तु षोडशोभयतः कलाः। चन्द्रसूर्योप्ररागे तु यावद्दर्शनगोचरः” इति। ग्रस्तस्यास्तमनपर्यन्तं दर्शनगोचरत्वात्तावान् कालः पुण्यकालो भवतीति माधवो व्याचख्यौ तदुक्तं विश्वरूपनिर्णये “दिवा चन्द्रग्रहो रात्रौ सूर्य्यपर्व न पुण्यदम्। सन्धिस्थं पुण्यवत्ज्ञेयं यावद्दर्शनगोचरः” इति। अन्ये तु मेघावृते तदनावृते चोपरागे गणितागतस्थितिघटिकाः पुण्यकाल इत्याहुः। दर्शने त्वेवंविधे निर्णये भुजवृत्तादुपरिस्थितत्वमेव विवक्षितं तदाह वसिष्ठः स्वसिद्धान्ते “सूर्यस्यादर्शनं रात्रिर्दिनं तद्दर्शनात्मकम्। भुजवृत्तादुपरि च स्थितोऽर्को दर्शनं स्मृतमिति” अर्क इत्युपलक्षणं चन्द्रादिग्रहनक्षत्राणाम्। आकाशप्रदेशःसमन्ताद्भूसंल्लग्न इव यत्र भाति स प्रदेशो भुजशब्द- पाच्यः अतएव विष्णुधर्मोत्तरे “अहोरात्रं न भोक्तव्यं सूर्यचन्द्रग्रहो यदा। मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततः परमिति।” ग्रस्तास्ते भृगुः “ग्रस्तगौ वास्तमनं तु रवीन्दू प्राप्नुतो यदि। तयोः परेद्युरुदये स्नात्वाभ्यवहरेन्नरः” इत्यनयोर्वाक्ययोर्दर्शनोदयशब्दौ भुजवृत्तोपरिस्थितत्वोपलक्षकौ अन्यथा मेघाद्यावरणेन परदिवसेऽपि दर्शनाभावे उपवासः प्रसज्येत तथा यत्र स्पर्शकाले ग्रहणं दृष्ट्वा स्नानं विहितं तत्रान्तरा मेघावरणात् सूर्यचन्द्रयोर्दर्शनाभावो दिवसद्वयं त्रयं वा स्यात्तत्राप्युपवासप्रसङ्गः। न च सर्वे शिष्टास्तथाऽऽचरन्ति। तस्माद्दर्शनार्थमभ्युपेत्य शास्त्रीयज्ञानपरतैव व्याख्या कर्त्तव्या। तस्यां च सत्यां पूर्वोक्तरीत्या च मेघानावृतेप्युपरागे तमदृष्ट्वैव प्रशस्तचक्षुषा अन्धेन च गन्तुमशक्नुवद्भिर्वृद्धातुरैश्च स्नानदानादिकं विधेयमिति फलितोऽर्थः। अतएव भागवते रविग्रहे कुरुक्षेत्रे स्नानाद्यर्थं मिलितानां पाण्डवीयलोकानां मध्ये धृतराष्ट्रोऽपि परिगणित इति विशिष्टाचारोऽप्यस्ति। एवं च सत्यरिष्टजनकत्वाभावेऽपि ग्रहणदर्शननिषेधः किं पुनररिष्टजनकत्वे। तस्माज्जन्म सप्ताङ्केत्यादिपद्यं निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यं प्रत्यक्षोपलभ्यमानवसिष्ठमत्स्यपुराणादिवाक्येषु दर्शनपदा भावाच्च। अतएव मूले परे इति पदं प्रयुक्तम्। शान्तिस्तु दर्शनाभावेऽपि विधातुमुचिता यतोऽरिष्टयोगानां स्वरूपसतामेवारिष्टजनकत्वमस्ति अन्यथा ग्रहवेधस्योत्पातादिसूचितारिष्टनिवृत्तिहेतुः शान्तिर्दर्शनाभावे न विधीयेत इत्यलमतिप्रसक्तानुप्रसङ्गेन (६)। पी० धा०। अधिकमुपरागशब्दे १२८५ पृ० दृश्यम्। “अथ चन्द्रबले विशेषमनुष्टुभाह पापान्तः इति शुभोऽपि शुभफलदोऽपि चन्द्रः पापान्तःपापयुग् द्यूने पापद्वयमध्यवतीं पापग्रहयुक्तः पापद्यूने सप्तमस्थाने वर्त्तमानश्चेत् स्यात्तदा असन् अशुभ एव यदात्वशुभोऽप्यशुभफलदातापि चन्द्रः शुभांशे सौम्यग्रहनवांशे स्यादथवाऽधिमित्रस्य नवांशे स्यात्तथा गुरुणा वृहस्पतिना दृष्टः सन् शुभफ लदाता भवेत् यदाह राजमार्त्तण्डः “पापग्रहेण संयुक्तः पापजामित्रसंस्थितः। पापद्वयमध्यगतः शुभोऽप्यशुभदः शशी। अनिष्टस्थानसंस्थोऽपि भवेच्छुभकरः शशी। सौम्यभागाधिमित्रांशे गुरुणा वापि वीक्षित” इति (७)। अथ चन्द्रबलस्य विधानान्तरमनुष्टुभाह। सितेति सितादौ शुकपक्षप्रतिपदि सभीचीने चन्द्रे सति सम्पूर्णः शुक्ल- पक्षः शुभः असितादौ कृष्णपक्षप्रतिपदि दुष्टे चन्द्रे सति सम्पूर्णः कृष्णपक्षः शुभः व्यत्यासे च पूर्वोक्तादर्था द्वैपरीत्ये द्वावपि पक्षावनिष्टौ यदा शुक्लपक्षप्रतिपदि चन्द्रोदुष्टश्चेत्तदा सकलशुक्लपक्षोऽनिष्टः। यदा कृष्णपक्षप्रतिपदि चन्द्रः शुभश्चेत्तदा सम्पूर्णः कृष्णपक्षोऽनिष्टः इति उक्तञ्च रत्नमालायां “वलक्षपक्षादिगते हिमांशौ शुभे शुभं पक्षमुदाहरन्ति। सितेतरादावशुभे च पक्षाविन्दावनिष्टौ भवतोऽन्यथा तौ” कश्यपोऽपि शुल्कादीन्दुः शुभो यस्य तत्पक्षस्तस्य शोभनः। कृष्णादीन्दौ त्वशुभदे शुभस्तद्व्यत्ययेऽन्यथेति” इदमेतादृशमब्जबलं चन्द्रबलं तु सङ्कटे विवाहयात्रावश्यकर्त्तव्ये तात्कालिचन्द्रवलाभावे ग्राह्यं नान्यथेत्यर्थः (८)। अथ ग्रहाणां दौष्ट्यपरिहारपूर्वकं तुष्टिसम्पादनार्थं नवरत्नसमुदायधारणं शालिन्याह वज्रं शुक्रे इति। अत्रैकां सुवर्णमुद्रिकां कृत्वा तत्र दशधाभागे वर्तुलाकारे नवधा विभक्ते प्रागादिक्रसेण नवरत्नानि दृढं निधेयानि तत्र प्रागिति पञ्चम्यन्तमव्ययं पञ्चमी चेयं ल्यब्लोपे अतः प्रागादिदिक्षु इत्ययमर्थो जातः तत्र शुक्रप्रीतये पूर्वस्यां दिशि वज्रकं हीरकं निधेयम्। एवं चन्द्र प्रीत्यर्थं शोभनमुक्ताफलमाग्नेय्यां, भौमप्रीत्यर्थं प्रवालं दक्षिणस्याम् अगौ राहुप्रीत्यर्थं गोमेदं नैरृत्याम्। आर्कौ शनिप्रीतये शोभननीलं पश्चिमायाम्। केतुप्रीतये वैदूर्यं वायव्याम्। गुरुप्रीतये पुष्पकं पुष्परागम् उत्तरस्याम्। बुधप्रीतये पाचिः गारुत्मतम् ईशान्यां सूर्यप्रीतये माणिक्यं मध्यमकोष्टे इति (९)। अथ सति द्रव्यसामर्थ्ये नवरत्नसमुदायधारणस्य शक्यत्वात्तदुक्त्वेदानीमसति द्रव्यसामर्थ्ये यद्ग्रहकृतं दौष्ट्यं तद्ग्रहरत्नधारणमिन्द्रवज्रयाह माणिक्येति। सूर्यप्रीत्यर्थं माणिक्यं धार्यम्। एवं चन्द्रस्य मुक्ताफलम्। भौमस्य विद्रुमम्। बुधस्य गारुत्मतं गारुडे पाचिः। गुरोः पुष्पकं पुष्परागः। शुक्रस्य वज्रम्। शनेर्नीलं राहोर्गोमेदं (लसु निया इति) कान्यकुब्जभाषयाहुः केतोर्वैदूर्यमित्येवमर्कतोऽर्कादीनां ग्रहाणां रत्नानि धार्याणि स्युः। तत्र यद्ग्रहकृतं दौष्ट्यं तस्य ग्रहस्य तुष्ट्यै तद्रत्नं धार्यमित्यर्थः यदाह कश्यप्रः सूर्यादीनां च संतुष्ट्ये माणिक्यं मौक्तिकं तथा। सुविद्रुमं मरकतं पुष्परागं च वज्रकम्। नीलगोमेदवैदूर्यं धार्यं स्वस्वदृढक्रमात्”। अथोज्ञस्य मुदे सुवर्णमित्यग्रिमश्लोकेन सम्बन्धः (१०) अथ महामूल्यरत्नधारणे यस्य सामर्थ्याभावस्तदर्थमल्प- मूल्यानि रत्नानि ताराबलं च शालिन्याह धार्यमिति। अथो ज्ञस्य बुधस्य मुदे सन्तोषार्थं सुवर्णं यथाशक्ति धार्यम्। राहुकेत्वोः प्रीत्यै राजावर्त्तकं मणिविशेषोधार्यः एवं शुक्रेन्द्वोस्तुष्ट्यै रौप्यं, गुरोस्तुष्ट्यै मुक्ता। मन्दस्य शनेस्तुष्ट्यै लोहम्। आरभान्वोर्मङ्गलसूर्ययोः प्रीत्यैप्रबालं धार्यम्। उक्तं च श्रीपतिना “धार्यं तुष्ट्यै विद्रुमं भौमभान्वोरूप्यं शुक्रेन्द्वोश्च हेमेन्दुजस्य। मुक्तासूरेर्लौहमर्कात्मजस्य राजावर्त्तः कीर्त्तितः शेषयोश्चेति” सूरेः सुरगुरोः। शेषयोः राहुकेत्वोः। दीपिकाकारस्तु औषधीमूलानि धार्याणीत्याह “मूलं धार्यं त्रिशूल्याः सवितरि विगुणे, क्षीरिकामूलमिन्दौ, जिह्वाहेर्भूमिपुत्रे, रजनिकरसुते वृद्धदारोच्चमूलम्। भार्गी जीवेऽथ शुक्रे भवति शुभकरं सिंहपुच्छस्य मूलं, विच्छोलं चार्कपुत्रे, तमसि मलयजं, केतुदोषेऽश्वगन्धमिति” त्रिशूली बिल्वः क्षीरिका क्षिरिणी जिह्वाहिर्नागजिह्वा वृद्धदारुर्विदारी। भार्गी प्रसिद्धा। सिंहपुच्छं (वाघोट चरिवारेति) मध्यदेशभाषया प्रसिद्धम्। मलयजं चन्दनम्। अश्वगन्धं प्रसिद्धम्। एतदोषधीमूलधारणं सर्वथा रत्नधारणाशक्तौ वेदितव्यम्” पी० धा० गोचरप्रसङ्गात् तारावलादिकमाह तस्मैव तारेति। यद्दिने ताराबलमस्ति वा नवेति विचारश्चिकीर्षितस्तद्दिने या तारा सा जन्मर्क्षात् जन्मनक्षत्रात् त्रिरावृत्तितः पुनरावृत्तित्रयेण गणनीया स्यात्। त्रिरिति “द्वित्रिचतुर्भ्यः सुजिति” पा० सुजन्तमव्ययम्। स्वजन्मनक्षत्राद्दिननक्षत्रे गणिते नवभिर्भक्ते तिस्र आवृत्तयोभवन्त्यवशिष्टतारायाः शुभमशुभं वाच्यमिति फलितोऽर्थः ११।

“जन्माख्यसम्पद्विपदः क्षेमप्रत्यरिसाधकाः। बधमैत्राति मैत्राःस्युस्तारा नामसदृक्फलाः १२।। मृत्यौ स्वर्णतिलान् विपद्यपि गुडं, शाकं त्रिजन्मस्वथो दद्यात्प्रत्यरितारकासु लवणं, सर्वोविपत्प्रत्यरिः। मृत्युश्चादिमपर्यये न शुभदोऽथैषां द्वितीयेंशका नादिप्रान्त्यतृतीयका अथ शुभाः सर्वे तृतीये स्मृताः १३।। षष्टि ६० घ्नं गतभम्भुक्तघटीयुक्तं युगा ४ हतम्। शराब्धि ४५ हृल्लब्धतोऽर्क १२ शेषेऽवस्थाः क्रियाद्विधोः १४।। प्रवासनाशौ मरणञ्जयश्च हास्यारतिक्रीडितसुप्तभुक्ताः। ज्वराख्यकम्पस्थिरता अवस्था मेषात् क्रमान्नामसदृक्फलाः स्युः १५। लाजाकुष्ठबलाप्रियङ्गुधनसिद्धार्थैर्निशादारुभिः पुङ्खालोध्रयुतैर्जलैर्निगदितं स्नानं ग्रहोत्थाघहृत्। धेनुः कम्ब्वरुणो वृषश्च कनकम्पीताम्बरङ्घोटकः श्वेतो, गौरसिता, महासिरज इत्येता रवेर्दक्षिणाः १६। सूर्यारसौम्यास्फुजितोऽक्षनागसप्ताद्रिघस्रान्विघुरग्निनाडीः। तमोयमेज्यास्त्रिरसाश्विमातान् गन्तव्यराशेः फलदाः पुरस्तात् १७। दुष्टे योगे हेम, चन्द्रे च शङ्खं, धान्यं तिथ्यर्धे, तिथौ तण्डुलांश्च। वारे रत्नं भे च गां, हेम नाड्यां, दद्यात्सिन्धूत्थञ्च तारासु राजा १८। राश्यादिगौ रविकुजौ फलदौ, सितेज्यौ मध्ये, सदा शशिसुत, श्चरमेऽब्जमन्दौ। अध्वान्न वह्निभयसन्मतिवस्त्रसौख्यदुःखानि मासि जनिभे रविवासरादौ” १९ मू० चि०। अथ शेषक्रमेण सकलास्तारासंज्ञा अनुष्टुभाह। जन्माख्येति। स्पष्टार्थमिदम्पद्यम्। यदाह नारदः “जन्म सम्पद्विपत् क्षेमं प्रत्यरिः साधको बधः। मित्रम्परममित्रन्तु जन्मभाच्च पुनः पुनरिति”। एवं तारा गणनीया इति शेषः। तत्र तृतीयापञ्चमीसप्तम्यस्तारा निषिद्धाः अनिष्ट फलश्रवणात्। अर्थादन्याः समीचीनाः समीचीन फलश्रवणात्। उक्तञ्च “जन्मतारा द्वितीया च षष्ठी चैव चतुर्थिका। अष्टमी नवमी चैव षट्च ताराः शुभावहाः” इति। जन्मनक्षत्रन्तु कार्यविशेषे गृहीतं प्रतिषित्तञ्च तच्चाग्रे निर्णेष्यते। तदिदन्ताराबलं कृष्णपक्षविषयं न तूभयपक्षसाधारणम्। तदाह नारदः “कृष्णे बलवती तारा शुक्लपक्षे बली शशीति”। युक्तञ्चैतत् यतोऽत्रार्थवादो रत्नमालायाम् “न खलु बहुलपक्षे शीतरश्मेः प्रभावः, कथितमिह हि तारावीर्यमार्यैः प्रधानम्। अतिविकलशरीरे प्रेयसि प्रोषिते वा प्रभवति खलु कर्तुं सर्वकार्याणि योषा। शुक्ले पक्षे शीतरश्मिर्बलीयान्न–प्राधान्यं तारकायास्तु तत्र। शक्त्या युक्ते विद्यमानेऽपि कान्ते न स्वातन्त्र्यं योषितः क्कापि दृष्टमिति” १२ अथावश्यककृत्ये दुष्टताराणाम्प्रकारद्वयेन परिहारं शार्दूलबिक्रीडितेनाह “मृत्यौ स्वर्णतिलानिति। मृत्यौ सप्तम्यां बधतारायां स्वर्णतिलान् यथाशक्ति सुवर्णयुक्तां स्तिलान् ब्राह्मणाय दद्यात्। विपद्यपि विपत्संज्ञायां तृतीयतारायाङ्गुडमिक्षुविकारन्दद्यात्। त्रिजन्मसु तिसृषु जन्मतारासु शाकम्प्रसिद्धं वृन्ताकादि दद्यात्। अथो प्रत्यरितारकासु पञ्चम्यान्तारायां लवणन्दद्यात्। तदाह नारदः “जन्मत्रिपञ्चसप्ताख्या ताराऽनिष्टफलप्रदा। अनिष्टपरिहाराय दद्याद्दानन्द्विजातये। शाकं गुडञ्च लवणं सतिलं काञ्चनं क्रमादिति” अत्र सतिलमिति विशेषणं काञ्चनपदस्य न लवणपदस्य तेन बधतारायां सतिलं काञ्चनन्देयम्। उक्तञ्च दीपिकायाम् “प्रत्यरौ लबणन्दद्याञ्छाकन्दद्यान्त्रिजन्मसु। विपत्तारे गुडन्दद्यान्निधने तिलकाञ्चनमिति” अथ द्वियीयः परिहार उच्यते। तत्रादिमपर्यये प्रथमावृत्तौ विपत्प्रत्यरिर्मृत्युश्च तृतीयापञ्चमीसप्तम्यस्ताराः सर्वा अपि सामान्यतः षष्टिघटिकात्मिका अपि न शुभदाः स्युः अथ द्वितीये पर्य्याये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूनामादिप्रान्त्यतृतीयका अंशा न शुभदाः विपत्तारायां प्रथमविंशतिघटिकास्त्याज्याः। इतरा श्चत्वारिंशच्छुभाः। प्रत्यरितारायां मध्यमा विंशतिघटिकास्त्याज्यास्तदुभयतो विंशतिर्विंशतिर्घटिकाः शुभाः। बधनारायामहिमा विंशतिर्घटिकास्त्याज्या आद्याश्चत्वारिंशच्छुभा इति नवीना व्याकुर्वते। जीर्णास्त्वंशशब्देन नक्षत्रचतुर्थांशमाहुः। तथासति आदिप्रान्त्यतृतीयकाश्चरणाः क्रमेण निषिद्धाः इतरे शुभाः। अथ ततोये पर्याये तृतीयावृत्तौ विपत्प्रत्यरिमृत्यवश्चैते सर्वे षष्टिघटिकात्मका अपि शुभाः शोभनफलदाः स्मृताः। तथा च जगन्मोहने गुरुरित्युक्त्या पठितं “पर्याये प्रथमे वर्ज्याविपत्प्रत्यरिनैधनाः। द्वितीये त्वंशका वर्ज्यास्तृतीये त्वखिलाः शुभाः” द्वितीये पर्याये अंशकानाह सएव। “अद्यांशोविपदि त्याज्यः प्रत्यरौ चरमोऽशुभः। वधे त्याज्यस्तृतीयोंऽशः शेषा अंशास्तु शोभनाः” इति। अत्रांशो नक्षत्रचतुर्थांश उच्यते। किमत्र प्रमाणमितिचेत् उच्यते। “जन्मर्क्षाद्दशमङ्कर्म सङ्घातर्क्षन्तु षोडशम्। अष्टादशं सामुदायं त्रयोविंशं विनाशनम्। मानसं पञ्चविंशर्क्षं नाचरेञ्छुभमेषु तु” इति नारदोक्तैर्वैनाशिकाख्यत्रयोविंशभस्य दुष्टत्वम्। तदपवादमाह च्यवनः “वैनाशिकाख्ये नक्षत्रे अष्टाशीत्यंशकं विना। शेषांशाः शुभदा ज्ञेयाजन्मनीन्दुगतांशकाः।” इति। अत्र वैनाशिकं प्रत्यरिसंज्ञन्तस्य चरमांशस्यानिष्टता प्राप्ता साष्टाशीत्यं शकं बिनेत्यनेन व्याध्यते इत्यत एकत्र दृष्टः शास्त्रार्थोऽपरत्रापि विनियुज्यत इति न्यायादत्राप्रि मैव व्याख्येति न नवीनमतञ्ज्यायोऽप्रमाणकत्वात् १३। अथ चन्द्रावस्थावक्ष्यति तद्गणनोपायमनुष्टुभाह षष्टिघ्नमिति। अत्र चन्द्रस्य राशौ राशौ द्वादश अथस्थाः सन्ति यदाह नारदः “चन्द्रस्य द्वादशावस्था राशौ राशौ यथा- क्रमात्। यात्रोद्वाहादिके कार्ये संज्ञा तुल्यफलप्रदा” तत्राश्विनीमारम्य गतभानि षष्ट्या गुण्यानि वर्तमान्

नक्षत्रभुक्तघटीयुक्तानि कार्याणि। तानि पुनर्युगैश्चतुर्भिराहतानि शराब्धि ४५ हृत् पञ्चचत्वारिंशता भाज्यानि। यल्लब्धमागतं गतावस्थास्ताः शेषं वर्त्तमानावस्था तत्र लब्धाङ्कस्यापि द्वादशाधिक्ये द्वादशभिर्भागे प्रवासाद्यवस्था चन्द्रस्य गताः स्युः। ता अवस्था मेषराशेः पुंसः प्रवासादिसंज्ञा वृषराशिस्थे चन्द्रे नष्टादिसंज्ञाः स्युः। एवं मिथुनादिदशराशिषु मृतादिसंज्ञाह्यवस्थाः क्रमेण भवन्तीत्यर्थः। यदाह नारदः “षष्टिघ्नं चन्द्रनक्षत्रं तत्कालघटिकान्वितम्। वेदघ्नमिषु ४५ वेदाप्त मवस्था भानु १२ गाजिताः।” इति। अत्रोपपत्तिः एकैकस्मिन् राशौ द्वादशद्वादशावस्थाः सन्ति, सामान्यतो नक्षत्रभोगः षष्टि घटिकात्मक इत्येवं सति राशिभोगघटिकाः पञ्चत्रिंशदधिकशतं भवन्ति। तत्र त्रैराशिकं यद्येताभि १३५ र्घटीभिर्द्वादशावस्था लभ्यन्ते तदेष्टघटीभिः किमिति तत्रैकः कल्प्यः गुणनायां विकारानापत्तेर्द्वादशानामयमङ्को १३५ भाजको जाता १२ अत्रानयोर्गुणकभाजकयोस्त्रिभिरपवर्त्ते गुणकश्चत्वारः ४ भाजकः पञ्चचत्वारिंशत् ४५ तत्कालघटीयोगस्तु न्यायप्राप्त एव। तथा द्वादशभागोऽपि तदाधिक्यस्य निष्प्रयोजनत्वात् अत्रेदमवधार्यम् यद्यपि नक्षत्राणां घटीन्यूनाधिकभावः सम्भवति तथापि षष्टिघटिकात्मकेन व्यवहारः कार्यः। विद्यमाननक्षत्र भुक्तं तु स्वभोगं ज्ञात्वा षष्टिघटिकात्मकं कृत्वा तत्र योज्यम्। यथा यदि स्वभोगेन षष्टिघटिका लभ्यन्ते तदेष्टघटीभिः किमिति त्रैराशिकेनेष्टघटीनां षष्टिर्गुणक्तो नक्षत्रभोगो भाजक इति १४। अथ द्वादशवस्थानामानि सफलान्युपजात्याह पवासनाशाविति। स्पष्टार्थमिदं पद्यम्। उक्तञ्च कश्यपेनं “प्रवासनष्टा च मृता जया हास्या रतिर्मुदा। सुप्ता भुक्ता ज्वरा कम्पा सुस्थितिर्नामसन्निभा” इति। मुदा। “षिद्भिदादिभ्योऽङ्” पा० अङ् ततष्टाप् १५। अथ ग्रहाणां वैकृतपरिहारार्थं सौषधजलस्नानं दक्षिणाश्च शार्दूलविक्रीडितेनाह। लाजाकुष्ठमिति। लाजा भ्रष्टशालयः इति केचित् वस्तुतस्तु ओषधीसाहचर्याल्लाजाशब्देन लज्जावती गृह्यते। कुष्ठं प्रसिद्धम्। बला “वरि याग इति” कान्यकुब्जभाषायामाहुः। प्रियङ्गुः रालः। घनो मुस्ता, सिद्धार्थाः सर्षपाः (शिरसा) इति महाराष्ट्राः (सरिषा) इति कान्यकुब्जाः। निशे हरिद्राद्वयं दारु देवदारुः पुङ्खा शरपुङ्खा। लोध्रं प्रसिद्धं एतैरौषधैर्युतानि गङ्गादिजलानि तैः कृत्वा स्नानं दुष्टग्रहसूचितारिष्टनाशकं स्यात्। उक्तञ्च दीपिकायाम् “सिद्धार्थलोध्ररजनीद्वयमुस्तधान्यं लामज्जकं सफलिनी सवचा च मांसी। स्नानं कुरु ग्रहगणप्रशमाय नित्यं सर्वे रविप्रभृतयः सुमुखीभवन्ति।” दैवज्ञमनीहरेऽपि “सप्रियङ्गुरजनीद्वयमांसी कुष्ठलाजसितसर्षपखण्डैः। वारिभिः सहवचैः सहलोध्रैः स्नानमत्ति निखिलग्रहपीडामिति” वारिभिस्तीर्थोदकैः रत्नमालायां तु प्रत्येकं ग्रहाणामौषधमेदस्नानमुक्तं यथा।रवेः–“मनःशिलैलासुरदारुकुङ्कुमैरुशीरयष्टीमधुपद्मकान्वितैः। सताम्रपुष्पैर्विषमे स्थिते रवौ शुभावहं स्नानमुदाहृतं बुधैः”।चन्द्रस्य–“पञ्चगव्यगजदानविमिश्रैः शङ्खशुक्तिकुमुदस्फटिकैश्च। शीतरश्मिकृतवैकृतहन्तृ स्नानमेतदुदितं नृपतीनाम्”।कुजस्य–“बिल्वचन्दनबलारुणपुष्पैर्हिङ्गुकल्कफलिनीबकुलैश्च। स्नानमद्भिरिह मांसियुताभिर्भौमदौस्थ्यविनिवारणमाहुः”।बुधस्य–“गोमयाक्षतफलैः ससरोजैः क्षौद्रशुक्तिनवमूलहेमभिः। स्नानमुक्तमिदमत्र भूभृतां बोधनाशुभविनाशनं बुधैः”।गुरोः–“मालतीकुसुमयुक्तसर्षपैः पल्लवैश्च मदयन्तिकोद्भवैः। क्षिप्रमम्बु मधुकेन च स्फुटं वैकृतं गुरुकृतं विनिहन्ति”।शुक्रस्य–“एलया च शिलया समन्वितैर्वारिभिः सफलमूलकुङ्कुमैः। स्नानतो मृगुसुतोपपादितं दुःखमेति विलयं न संशयः”।शनेः–“असिततिलाञ्जनलोध्रबलाभिः शतकुसुमाघनलाजयुताभिः। रवितनये कथितं विषमस्थे दुरितहृदाप्लवनं मुनिमुख्यैः”।राहुकेत्वोः–“लोध्रगर्भतिलपत्रकमुक्ताहस्तिदानमृगनाभिपयोभिः। स्नानमार्त्तिमिह कृन्तति राहोः साजमूत्रमिदमेव च केतोः”। राहुकथितद्रव्यमजमूत्रसहितंकेत्वर्थं स्यात्। अतएवोक्तं दीपिकायाम् “प्रयोज्यमौषधस्नानं ग्रहविप्रसुरार्चनम्। ग्रहानुद्दिश्य होमो वा ग्रहाणां प्रीतिमिच्छता” तत्र ग्रहपूजाहोमौ वशिष्ठसंहितायां महता प्रबन्धेनोक्तौ तौ तत एवावगन्तव्यौ इत्यलमतिविस्तरेण। अथ रवेरिति। रविमारभ्य दक्षिणा उच्यन्ते। तत्र सूर्य्यप्रीत्यर्थं धेनुर्गौः। चन्द्रप्रीत्यर्थं कम्बु शङ्खः। कम्बु इति नपुंसकलिङ्गम् पृथक्पदम् “शङ्खः स्यात्कम्बुरस्त्रियाम्” इत्यमरोक्तेः। मङ्गलप्रीत्यर्थमरुण आरक्तो वृषः। बुधप्रीत्यर्थं कनकं सुवर्णम्। गुरुप्रीत्यर्थं पीताम्बरं तच्च यथाविभवं कार्पासं कोषजं च। शुक्रप्रीत्यर्थं श्वेतो घोटकः। शनिप्रीत्यर्थमसिता श्यामवर्णा गौः। राहुप्रीत्यर्थं महाऽसिबहुमौल्यखड्गः। केतुप्रीत्यर्थमजः छागो दक्षिणेत्यर्थः। यदाह वसिष्ठः “धेनुं शङ्खं रक्तवृषं हेम पीताम्बरद्वयम्। श्वेताश्वं कृष्णधेनुञ्च कृष्णलोहमजं क्रमात्। स्वर्णेन वा समीकृत्य दातव्या दक्षिणा ततः। आचार्य्याय जापकेभ्योब्राह्मणेभ्योऽथ शक्तितः” इति। अत्र प्रत्येकं दानमन्त्रास्तत्रैवोक्ताः ग्रन्थभूयस्त्वभयान्न लिख्यन्ते। “एवं यः कुरुते सम्यक् ग्रहयज्ञं नृपोत्तमः। सर्वान् कामानवाप्नोति शुभस्थानफलं लमेत्” नृपोत्तम इत्युपलक्षणम्। तेन यः कश्चिद्ग्रहस्थोपि कुर्य्यात् तत्र स्व विभबानुरूपाणि ग्रहदानानि प्रोक्तानि कैश्चित् यथा।रवेः–“कौसुम्भवस्त्रं गुडहेमताम्रमाणिक्यगोधूमसुवर्णवस्त्रम्। सवत्सगोदानमतिप्रणीतं दुष्टाय सूर्य्याय मसूरिकाश्च”।चन्द्रस्य–“घृतकलसं सितवस्त्रं दधिशङ्खे चैव भौक्तिकसुवर्णे। रजतञ्च सम्प्रदद्याच्चन्द्रारिष्टोपशमनाय”।कुजस्य–“प्रबालगोधूममसूरिकाश्च वृषश्च ताम्रः करवीरपुष्पम्। आरक्तवस्त्रं गुडहेमताम्रं दुष्टाय भौमाय सचन्दनं हि”।बुधस्य–“नीलं वस्त्रं मुद्गदानं बुधाय रत्नं पाची दासिका हेमसर्पिः। कांस्यं दन्तः कुञ्जरश्चाथ मेषो रौप्यं सर्वं पुष्पजात्यादिकञ्च।गुरोः–“अश्वः सुवर्णं शुकपीतवस्त्रं सपीतधान्यं लवणं सपुष्पम्। सशर्करं तद्रजनीप्रयुक्तं दुष्टाय शान्त्यै गुरवे प्रदेयम्” रजनी हरिद्रा।शुक्रस्य–“चित्रवस्त्रमपि दानवार्चिते दुष्टगे मुनिवरैः परिगीतम्। तण्डुलं घृतसुवर्णरूप्यकं वज्रकं परिमलो धवलोऽश्वः”।शनेः–“नीलकं महिषं कृष्णं वस्त्रं लोहं सदक्षिणम्। दद्याच्च दक्षिणायुक्तं शनिदौष्ट्याप्रशान्तये”।राहोः–“राहोर्दानं बुधैर्मेषो गोमेदं लोहकम्बलौ। सुवर्णं नागरूप्यञ्च सतिलं ताम्रभाजनम्”केतोः–“केतौ वैदूर्यममलं तैलं मृगमदस्तथा। ऊर्णातिलाश्च संयुक्ता दद्यात् क्लेशापनुत्तये”। अन्यच्च संहिताप्रदीपे “भानुस्ताम्बूलदानादपहरति नृणां वैकृतं वासरोत्थ” सोमः श्रीखण्डदानादबनिसूतवरो भोजनात् पुष्पदानात्। सौम्यः शक्रस्य मन्त्री हरिहर नमनात् भार्गवः शुभ्रवस्त्रैस्तैलस्नानात् प्रभाते दिनकरतनयौ ब्रह्मनत्या परौ चेति”। ब्रह्मा ब्राह्मणः। परौ राहुकेतू १६। अथ सूर्यादयो ग्रहा गन्तव्यराशेः प्राक् कियद्भिर्दिनैः फलं दद्युरित्येतदुपजात्याह सूर्यारसौम्येति। सूर्यादयो ग्रहा गन्तव्यराशेर्जिगमिषितराशेः पुरस्तात् पूर्वमेवैतत्संख्यकदिवसघटीमासान् अत्र “कालाध्वनोरत्यन्तसंयोगे” इति पा० द्वितीया ततो नैरन्तर्येण तावन्तं कालं फलदाः स्युः तद्यथा। सूर्यो गन्वव्यराशेः प्राक् अक्षवस्रान् पञ्च दिवसान् फलदः। एवमारो भौमोऽष्ट दिवसान् पूर्वं फलदः, बुधः सप्त दिवसान्, शुक्रोऽपि सप्त दिवसान्, विधुश्चन्द्रः अग्निनाडीर्घटिकात्रयमेव प्राक् फलदः, राहुर्गन्तव्यराशेः प्राक् त्रिमासं फलदः एवं शनिः षण्मासान्। गुरुर्द्विमासान् पूर्वं फलद इत्यर्थः। उक्तञ्च “सूर्यः पञ्चदिनं शशी त्रिघष्ठिकं भौमोऽष्ट वै वासरान् सप्ताहानि भृगुः ससोमतनयो, मासद्वयं वै गुरुः। षण्मासान् पुरतोऽपि सूर्यतनयो राहुश्च मासत्रयं, केतुश्चैव ददाति भावि सकलं गन्तव्यराशेः फलमिति”। जगन्मोहने त्वेव मुक्तम् “आदित्यादिग्रहा दद्युर्लग्ने वा गोचरेऽपि वा। सप्तविंशति २७ भागोर्द्ध्वं परराशिफलं खल्विति १७। अथ प्रसङ्गादावश्यकमङ्गलयात्राकर्त्तव्येषु सत्सु तिथ्यादिविषयकदुष्टयोगसद्भावे तद्दोषनिवारणार्थं दानं शालिन्याह। दुष्टे इति। दुष्टे व्यतीपातादिरूपे योगे सति हेम सुवर्णं यथाशक्ति राजा दद्यात्। च पुनश्चन्द्रे दुष्टे विहितान्यस्थानस्थिते शङ्खं दद्यात्। तिथ्यर्द्धे करणे भद्राख्ये दुष्टे धान्यं दद्यात्। तिथौ दुष्टे चतुर्थ्यादिरूपे तण्डुलान् दद्यात्। वारे दुष्टेऽनुपचयरूपे रत्नं प्रबालमुक्तादि दद्यात्। भे राशौ दुष्टे क्रूरग्रहाधिष्ठितत्वादिदोषसहिते सति गां दद्यात्। नाड्यां घटिकायां दुर्मूहूर्त्तादिना दुष्टायां सत्यां हेम सुवर्णं दद्यात् च पुनस्तारासु दुष्टासु विपत्प्रत्यरिवधरूपासु सिन्धूत्थं लवणं दद्यात्। पूर्वं दुष्टतारासु प्रत्येकं विशिष्य दानमुक्तमिदानीं तदशक्तौ लवणमेव देयमिति पुनरुक्तिपरिहारः। उक्तञ्च दीपिकायाम् “योगस्य हेम, करणस्य च धान्यमिन्दोः शङ्खञ्च, तण्डुलमणी तिथिवारयोश्च। ताराबलाय लवणान्यथ गां च राशेर्दद्याद्घिजाय कनकं शुचि नाडिकायामिति” १८ अथात्र गोचरप्रसङ्गात् सूर्यादयो ग्रहाः राश्यन्तरगताः सन्तः कदा शुभाशुभफलदातारो भवन्ति तथा चान्द्रमासाधिकरणकरविवासरादौ स्वजन्मनक्षत्रप्रवेशे सति फलविशेषं च वसन्ततिलकावृत्तेनाह राश्यादिगाविति। रविकुजौ सूर्यमङ्गलौ राश्यादिगौ राशि प्रथमदशांशमध्यस्थितौ सन्तौ फलदौ निखिलफलदातारौ। अवशिष्टांशेष्वीषदीषत् फलदौ। एवं सितेज्यौ शुक्रबृहस्पती मध्ये मध्यगतांशदशके निखिलफलदातारावन्यत्रेषदीषत्। शशिसुतो बुधः सदा त्रिंशदंशेषु निखिलफलदाता। अब्जमन्दौ चन्द्रशनैश्चरौ चरमदशके निखिलफलदातारावन्यत्रेषदीषत्। उक्तञ्च वसिष्ठेन “भवनादिगतौ फलदौ रविभौमौ मध्यगौ च गुरुशुक्रौ। अन्त्यगतौ शशिरविजौ सदैव फलदः शशाङ्कसुतः”। वराहेणापि “दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययातौ। रविसुतशशिनौ विनिर्गमस्थौ शशितनयः फलदस्तु सर्वकालमिति” रुधिरो भौमः। अध्वेति। यस्मिन् मासे स्वीयजन्मनक्षत्रप्रवेशे सूर्यादिवाराश्चेत् स्युः तदा तस्मिन् मासेऽध्वादीनि फलानि वाच्यानि तद्यथा। रविवारे जन्मनक्षत्रप्रवेशे सति तस्मिन् मासे अध्वा मार्गोऽटनमिति यावत्, फलं तस्य पुंसो भबेत्। एवं चन्द्रवारे जन्मनक्षत्रप्रवेशे अन्नं भक्ष्यं तत्प्राप्तिः स्यादित्यर्थः। एवं भौमवारे वह्निभयं भवेत्। बुधवारे सन्मतिः। सती समीचीना धर्मयुक्ता बुद्धिर्भवेत्। गुरुवारे वस्त्रप्राप्तिर्भवेत्। भृगुवारे सौख्यं भवेत्। शनिवारे दुःखप्राप्तिः स्यादित्यर्थः। उक्तञ्च ज्योतिषरत्नसंग्रहे वामनेन “अध्वा भोजनमग्निभीः सुमतिता वस्त्रं सुखं चासुखं मासे मासि फलं भवेज्जननभे सूर्यादिवारे स्थिते” इति अत्र “मासास्तथा च तिथयस्तुहिनांशुमानादिति” भास्कराचार्यवाक्याच्चान्द्रः शुक्लप्रतिपदादि दर्शान्तो मासो गृह्यत इति शिवम्” १९ पी० धा०। अष्टवर्गशुभालाभ एव गोचरशुद्धेर्गाह्यता तन्मानम् अष्टवर्गशब्दे ५२२ पृ० उक्तम्

गोचर्म्मन् = न० ६ त०। १ गवां चर्मणि, गोचर्म च स्तम्भने आसनतया विहितम् यथाह समयाचारतन्त्रे २ पटले “मेषासनं तु वश्यार्थमाकृष्टौ व्याघ्रचर्म च। शान्तौ मृगाजिनं शस्तं मोक्षार्णं व्याघ्रचर्म च। गोचर्म स्तम्भने देवि! मोहने वाजिचर्म च”। “सप्तहस्तेन दण्डेन त्रिंशद्दण्डैर्निवर्त्तनम्। दश तान्येव गोचर्म ब्राह्मणेभ्यो ददाति यः” इति २ वृहस्पत्युक्ते “दशहस्तेन वंशेन दशवंशान् समन्ततः। पञ्च चाभ्यधिकान् दद्यादेतद्गीचर्म चोच्यते” इति ३ वशिष्ठोक्ते च भूमानभेदे “अपि गोचर्म्ममात्रेण भूमिदानेन पूयते” भा० आनु० ६२ अ०।

गोचर्मवसन = पु० गोचर्म वसनमस्य। महादेवे “गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः” भा० आनु० १७ अ० शिवसहस्रनामोक्तौ।

गोचारक = त्रि० गां चारयति घासादौ चर–णिच्ण्वुल्। गोरक्षके (राखाल)

गोचारिन् = त्रि० गौरिव चरति चर–णिनि। तपस्विभेदे “गोचारिणोऽथाश्मकुट्टादन्तोलूखलिकास्तथा। मरीचि पाः फेनपाश्च तथैव मृगचारिणः” भा० आनु० १४ अ०

गोची = स्त्री गामञ्चति अन्च–क्विप् ङीप् नलोपे अल्लोपः। गवाचीशब्दार्थे १ मत्स्यभेदे। गाः शिवस्तुतिरूपाः वाचः अञ्चति अन्च + क्विप् ङीप्। २ हिमालयपत्न्यां शब्दार्थचि०

गोच्छाल = पु० गां भूमिमाच्छादयति छद–णिच्–अण् पृषो०। भूकदम्बे (चाकुलिया)। रत्नमाला

गोज = पु० “नृपायां नृपसंसर्गात् प्रमादाद्गूढजातकः। सोऽपि क्षत्रिय एव स्यादमिषेके च वर्जितः। अभिषेकं विना चायं गोज इत्यभिधीयते। सर्वं च राजवत्तस्य गम्यते पदवन्दनम्” इत्युशनसोक्ते सङ्कीर्णजातिभेदे अस्य राजशब्देन समासे राजदन्तादित्वात् पूर्वनिपातः द्वन्द्वे एकवद्भावश्च। “गोदुग्धप्रभवं किं वा छागदुग्धसमुद्भवम्। भवेत् गोजं त्रिदोषघ्नं रोचनं बलवर्द्धनम्। वह्निवृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु। अतीसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते”। भावप्र० उक्त लक्षणके २ गोछागदुग्धविकारभेदे न०। ३ गोजातमात्रे त्रि०। गोलोमिकादृक्षे स्त्री राजनि०।

गोजर = पु० गोषु मध्ये जरः जीर्णः। वृद्धवलीवर्द्धे “नाद्रियन्ते यथापूर्वं कीनाशा इव गोजरम्” भाग० ३। ३०। १४। “गोजरं वृद्धवलीवर्द्धम्” श्रीधरः।

गोजल = न० गवि जातं जलम्। गोमूत्रे राजनि०।

गोजा = त्रि० गवि पृथिव्यां ब्रीह्यादिरूपेण जायते विट् आत्त्वम्। ब्रीह्यादिषु। ऋ० ४। ४०। ५। उदा०। २ गोलोमिकावृक्षे राजनि०। ३ सुरभ्यां जाते च

गोजागरिक = न० गवि स्वर्गे जागर। अप्रमत्तताऽस्त्यस्य ठन्। १ मङ्गले मङ्गलस्य स्वर्गसाधनाय सदीद्यततया तथात्वम्। गवि भूमौ जागरिकः प्रहरीव अस्त्ररूपकण्टकधारित्वात्। २ कण्टकारवृक्षे। गोषु ब्रीह्मादिषु जागरोऽस्त्यस्य ठन्। ३ भक्ष्यकारके त्रि० शब्दार्थचि०

गोजात = पु० गवि जातः। १ गोनाभकपुलस्त्यपत्नीजाते २ सुरभीजाते घृतादौ ३ स्वर्गजाते त्रि० “शूण्वन्तु नोदिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः”। ऋ० ७। ३५। १५

गोजापर्णी = स्त्री गोजाः दुग्धफेन इव शुभ्रत्वात् पर्णमस्य गौरा० ङीष्। दुग्धफेनावृक्षे राजनि०।

गोजित् = पु० गां भूमिं जयति जि–क्विप्। नृपे बलेन पृथिवीजयित्वात्तस्य तथात्वम्। ऋ० १। १०६। १। ९। ५९। १०

गोजिह्वा = स्त्री गोर्जिह्वेव। (गोजिवा) लताभेदे। स्वार्थे क। तत्रैवार्थे अमरः। “गोजिह्वा गोजिका गोजी दार्विका खरपर्णिनी। गोजिह्वा वातला शीता ग्राहिणी कफपित्तनुत्। हृद्या प्रमेहकासास्रव्रणज्वरहरी लघुः। कोमला तुवरी तिक्ता स्वादुपाकरसा स्मृता” भावप्र० तद्गुणा उक्ताः।

गोजि(जी) = स्त्री गोजिह्वा पृषो०। गोजिह्वाख्येलताभेदे भावप्र० वा ङीष्। “गोजी च पिष्टा सह तालपत्र्या” “समुद्रफेनशाकगोजीकाकौडुम्बरिकाः” इति च सुश्रुतः

गोजिरा = स्त्री गौर्भूमिः तज्जशस्यादि जीर्य्यतेऽनया जॄ–क ६ त०। शस्यादिजारिकायाम् “गोजिरया रंहमाणः पुरन्ध्र्या” ऋ० ९। ११०। ३

***