गर्ग = पु० गृ–ग तस्य नेत्त्वम्। आङ्गिरसे मुनिभेदे। “वृहस्पतेरङ्गिरसः पुत्रो राजन्! महामुनिः। संक्रामितो भरद्वाजः” इत्युपक्रमे “वितथञ्चाभिषिच्याथ भरद्वाजो वनं ययौ। स चापि वितथः पुत्रान् जनयामास पञ्च वै। सुहोत्रञ्च सुहोतारं गयं गर्गं तथैव च। कपिलञ्च महात्मानम्” हरिवं ३२ अध्या०। तस्य च शिवतोषात् चतुःषष्ट्यङ्गज्योतिषज्ञानं यथाह भा० आनु० १८ अ०। “गर्ग उवाच चतुःषष्ट्यङ्गमददत् कालज्ञानं ममा- द्भुतम्। सरस्वत्यास्तटे तुष्टो(शिवः)मनोयज्ञेन पाण्डव!” कलाज्ञानमित्यपपाठः। तस्य च कालज्ञानप्रकारः भा० व० २८ अ० उक्तः। तच्च वाक्यं गर्गस्रोतस्शब्दे दृश्यम्। तत्कृता ज्योतिषसंहिता गर्गसंहितेति प्रसिद्धम्। “तल्लक्षणानि सुनिर्मलानि निवद्धानि तानि दृष्ट्वेदम्। क्रियते गर्गपराशरकाश्यपवात्स्यरचितानि” “गर्गादीनां मतं वीक्ष्य” इति च वृ० सं० २१ अ०। स च भरद्वाजगोत्रान्तर्गतः आर्षशब्दे ८१७ पृ० दृश्यम्। तस्य गोत्रापत्यं गर्गा० यत्। गार्ग्य तद्गोत्रापत्ये पुंस्त्री। यून्यपत्ये फक्। गार्ग्यायण यूनि तद्गोत्रापत्ये पुंस्त्री। बहुषु यञोलुक् अस्त्रियाम्। “गर्गाः शतं भोज्यन्ताम्” महाभा० “गर्गाणामाङ्गिरसवार्हस्पत्यभारद्वाजशैन्यगार्ग्यश्चेति पञ्च” आश्व० श्रौ० १०। १२। १२। स्त्रियन्तु ङीप् यलोपश्च गार्गी इत्येव “गार्गी वाचक्नवी” आश्व० गृ० ३। ४। ४। गार्ग्यश्च गार्ग्यायणश्च इत्येकशेषे “वृद्धो यूना” पा० वृद्धशेषे गार्ग्यौ। कुणिरोगाक्रान्ते २ मुनिभेदे। “ऋषिरासीत् महाबीर्य्यः कुणिर्गर्गो महायशाः” भा० ग० ५३ अ०। तत्कथा वृद्धकन्याशब्दे दृश्या। गयाक्षेत्रे यज्ञार्थं सृष्टे ब्रह्मणो ३ गानसपुत्रभेदे। “ब्रह्मा सम्भृतसंभारो मानसानृत्विजोऽसृजत्” इत्युपक्रमे “गर्गं कौशिकवासिष्ठौ वायु० गयामा० २ अ०। ४ वृषे ५ किञ्चुलुके शब्दार्थचि०। “चतुर्द्रुतविरामान्तस्तालोऽयं गर्गसंज्ञितः” संगीतदामोदरोक्ते ६ तालभेदे पु०।

गर्गत्रिरात्र = पु० त्रिसृभिः रात्रिभिः साध्यः अण् द्विगोर्लुक् लुकि व्यक्तिवचनता गर्गकृतस्त्रिरात्रः। त्रिसुत्यके त्रिदिनसाध्ये यागभेदे। “त्र्यहाः पञ्च गर्गवैदछन्दोमान्तर्वसुपराकाः” कात्या० श्रौ० २३२। ८। “त्र्यहाः (त्र्यह साध्याः”) पञ्च अहीनाः। “द्विगौ क्रतौ” पा० पूर्वपदमन्तोदात्तम्। युक्तारोह्या० आद्युदात्तञ्च

गर्गर = पुं स्त्री गर्गेति शब्दं राति रा–क गृ–बा० गरन् वा। “यः पीतवर्णोऽपि च पिच्छिलाङ्गः पृष्ठेषु रेखाबहुलः सशल्कः। स गर्गरो वर्वरनादरूक्षो जडश्च शीतः कफवातकारी” राजनि० उक्ताकारगुणे मत्स्यभेदे स्त्रियां जातित्वात् ङीष्। २ तरुणपशौ ३ दधिमन्थनभाण्डे च शब्दार्थचि० “गर्गरोद्गारनिस्वनम्” हरिवं० ६१ अ०। “नैषां ब्रह्म च नोतपुत्रा न गर्गरो मथ्यते नो यजन्ते” भा० शा० ७० अ०। “न वृषाः संप्रवर्त्तेरन्नमथ्येरंश्च गर्गराः” भा० शा० ६८ अ०। ४ कलसे अल्पार्थे ङीप्। ५ स्वल्पघटे स्त्री “मेषादौ सक्तवो देया वारिपूर्ण्णा तु गर्गरी” ति० त०। गर्गरस्येदम् कुर्वा० ण्य। गार्गर्य्य तत्सम्बन्धिनि त्रि०।

गर्गशिरस् = पु० दैत्यभेदे। “इरा गर्गशिरायश्च” हरिवं० ३ अ०।

गर्गसंहिता = स्त्री गर्गेण कृता कालज्ञानस्य संहिता। गर्गकृते ज्योतिषग्रन्थभेदे।

गर्गस्रोतस् = न० भा० व० प्रसिद्धे सरस्वतीर्थस्थेतीर्थभेदे “तस्माद्गान्धर्वतीर्थाच्च महाबाहुररिन्दमः। गर्गस्रोतो महातीर्थमाजगामैककुण्डली (बलभद्रः)। यत्र गर्गेण वृद्धेन तपसा भावितात्मना। कालज्ञानगतिश्चैव ज्योतिषाञ्च व्यतिक्रमः। उत्पाता दारुणाश्चैव शुभाश्च जनमेजय!। सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना। तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्। तत्र गर्ग” महाभागमृषयः सुव्रता नृप!। उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो!” भा० श० ३८ अ०

गर्गाट = पुंस्त्री गर्गेति शब्दायाटति अट–अच्। मत्स्यभेदे हारा०।

गर्गादि = पु० गोत्रे यञ्प्रत्ययनिमित्ते शब्दगणे सच गणः गर्ग वत्स (राजा से) संकृति अज व्याघ्रपात् विदभूत् प्राचीनयोग अगस्ति पुलस्ति चमस रेभ अग्निवेश शङ्ख शट शक एक धूम अवट मनस् धनञ्जय वृक्ष विश्वावसु जरमाण लोहित संशित बभ्रु बल्गु मण्डु गण्डु शङ्कु लिगु गुहलु मन्तु मङ्क्षु अलिगु जिगीषु मनु तन्तु मनायी सूनु कथक कन्थक ऋक्ष वृक्ष तनु तरुक्ष तलुक्ष तण्ड वतण्ड कपि कत कुरुकत अनडुह् कण्व शकल गोकक्ष अगस्त्य कुण्डिनी यज्ञवलक पर्णवल्क अभयजात विरोहित वृपगण बहुगण शण्डिल चणक चुलुक मुद्गल मुसल जमदग्नि परांशर जातूकर्ण महित सन्त्रित अश्मरथ शर्कराक्ष पूतिमाष स्थूरा अररक एलाक पिङ्गल कृष्ण गोलन्द उलूक तितिक्ष भिषज् भिष्णज भडित भण्डित दल्भ चेकित चिकित्सित देवहू इन्द्रहू एकलू पिप्पलू वृहदग्नि सुलोहिन् सुलाभिन् उक्थ कुटीगु।

गर्ज्ज = ऊर्ज्जाहेतुकशब्दे भ्वा० षर० अक० सेट्। गर्ज्जति। अगर्जीत् जगर्ज। गर्जितम्। गर्जनं गर्जः। गर्जन्। गर्ज्जा। “गर्ज गर्जक्षणं मूढेति” देवीमाहात्म्यम्। “शरदि गर्जति, न वर्षति, वर्षति वर्षासु निःस्वनो मेघः” उद्भटः। “कुम्भकर्ण स्ततोऽगर्जीत्” “गर्ज्जन् हरिः साम्भसि शैलकुञ्जे” भट्टिः। “योधानां चैव गर्जताम्” भा० भी० ६७८ श्लो०। “नाम संश्रावयामास जगर्ज च ननाद च” रामा० सु० ८९। शीलार्थे चानश्। गर्जमानः। “तथात्र गर्जमाने तु मेघदुन्दुभिनिस्वनम्” भा० आ० २० अ०। “सन्ध्ययां गर्जिते मेघे शास्त्रचिन्तां करोति यः। चत्वारि तस्य नश्यन्ति आयुर्विद्यायशोबलम्” स्मृतिः। “माधादिचतुरो मासान् गर्जमात्रं विवर्जयेत्” स्मृतिः।अनु + गर्गनप्रतिरूपगर्जने। “अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वना” कुमा०। अनुरूपगर्जने च। “सोऽनुगर्जन् धनुष्पाणिः” भा० द्रो० ४० अ०।अभि + अभिलक्ष्य गर्जने सक०। “दुःशासनस्तामभिगर्जमानः” भा० स० ६५ अ०। ताच्छील्ये चानश्। “शार्दूलाविव चानन्योन्यमामिषार्थेऽभ्यगर्जताम्” भा० द्रो० १३३ अ०। सम्यग्गर्जने अक०। “शूराणाञ्चाभिगर्जताम्” भा० क० २१ अ०प्रति + प्रतिरूपगर्जने अक०। “वलवच्चापि संक्रुद्धावन्योन्यं प्रतिगर्जताम्” भा० वि० २२ अ०। आर्षः पदव्यत्ययः। “प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः” भा० उ० ५० अ० “सुहृदयोहृदयः प्रतिगर्जताम्” रघुः। प्रतिलक्ष्यीकृत्य गर्जने सक०। “ऋषीणां कदनं कृत्वा नामपि प्रतिगर्जति” हरिवं ४९ अ०।

गर्ज्ज = रवे चुरा० उभ० अक० सेट्। गर्ज्जयति ते अजगर्जत्–त! गर्जयां बभूब आस–चकार चक्रे। गर्जयत् गर्जयमानः।

गर्ज = पु० गर्ज–भावे घञ्। १ हस्तिशब्दे २ मेघादिशब्दे च गुरुमत्त्वात् सेट्क्तत्वाच्च भावे अ स्त्रियाम्। गर्जा। ३ मेघारिध्वनौ स्त्री “गण्डूषगर्जजागरभुजकीलज्वालवर्त्तकव्रीडाः। उत्कण्ठसठबराटकरभसाः स्त्रीत्वे तु टाबन्ताः” त्रिका०।

गर्ज्जक = पु० गर्ज–ण्वुल्। (शाल) मत्स्यभेदे शब्दर०।

गर्ज्जन = न० गर्ज–भावे ल्युट्। १ शब्दे करणे ल्युट्। २ कोषेमेदि०।

गर्ज्जर = न० गर्ज–बा० अरच्। १ गृञ्जने (गाजर) ख्याते मूलप्रधाने दृक्षे भावप्र०। “गर्जरं गृञ्जनं प्रोक्तं तथां सारङ्गवर्णकम्। गर्जरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु। संग्राहि रक्तपित्तार्शोग्रहणीकफबातजित्”।

गर्जाफल = पु० गर्जया फलति फल–अच् ३ त०। विकङ्कटवृक्षे राजनि०।

गर्जि = पु० गर्ज–भावे इन्। १ मेघशब्दे हेम०।

गर्जित = न० गर्ज–भावे क्त। १ मेघादिध्वनौ कर्त्तरि क्तः। २ मत्तगजे अमरः। ३ गर्जनकर्त्तरि मेघादौ त्रि० “सन्ध्यायां गर्जिते मेघे शास्त्रचिन्तां करोति यः” स्मृतिः। गर्जो जातोऽस्य तार०–इतच्। ४ जातगर्जने त्रि०।

गर्ज्य = न० गर्ज–ण्यत् “न क्वादेः” पा० न कुत्वम्। गर्जनीये।

गर्त्त = पु० गॄ–तन्। १ भूमिछिद्रे १ त्रिगर्त्तदेशे ३ स्त्रीनितम्बस्थ ककुन्दरे च विश्वः। ४ रोगभेदे शब्दर०। ५ गृहे निघ०। ६ रथे ७ सभास्थाणौ च निरु०। “अभ्वातेव पुंस एति प्रतीची गर्त्ता रुगिव सनये धमानाम्” ऋचो निरुक्तौ गर्त्तः सभास्थाणुर्गृणातेः सत्यसङ्गरो भवति रथोऽपि गर्त्त उच्यते गृणातेः स्तुतिकर्म्मणः स्तुततभं यानम्” इति ३। ५। “वरुण! मित्र। गर्त्तमचक्षाथे” ऋ० ५। ६२। ८। “गर्त्त रथम्” भा० “नमस्वन्ता धृतदक्षाधिगर्त्ते” २५। ६। ५। “गर्त्ते रथे” भा०। ८ खातभेदे “धनुःसहस्याण्थष्टौ च गतिर्यासां न विद्यते। न ता नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिता” ति० त०। “स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवनेषु च” मनुः। ९ खातेन कृतबिलमात्रदेशे च “अशुचिस्थानम् उच्छिष्टक्षेपणस्थान गर्त्तादिकम्” मिता०। “न ससत्येषु गर्त्तेषु न गच्छन्नापि च स्थितः” (मूत्रं कुर्य्यात्) भनुः। “गर्त्तेष्वव–काशीपालमित्यवधापयेत्” आश्व० गृ० २। ८। १४। “सर्वासां स्थूणानां गत्तेषु” नारा० “वर्षाभ्यस्तत्र गर्त्तेऽवदध्युः” ४। ५। ५। “स्थाणुं वर्च्छत् गर्त्ते वा पात्यते” ऋ० भा० श्रुतिः। गर्त्तस्यादूरभवो देशः सुवास्त्वा० अण्। गार्त्त गर्त्तसन्निकृष्टदेशादौ त्रि०। ततः चतुरर्थ्याम् प्रेक्षा० इनि। गर्त्तिन् गर्त्तसन्निकृष्टादौ त्रि० स्त्रियां ङीप्। गर्त्ते भवः धूमा० वुञ्। गार्त्तक गर्त्तभवे त्रि०। उत्करा० चतुरर्थ्यां छ। गर्त्तीय गर्त्तयुक्तदेशादौ त्रि०। कुमुदा० चतुरर्थ्या ठल्। गर्त्तिक गर्त्तसन्निकृष्टदेशादौ। गर्त्तं तत्पतनमर्हति “छन्दसि च” पा० यत्। गर्त्त्य गर्त्तपतनमर्हति त्रि० छन्दसीत्युक्तेः वेद एवास्य प्रयोगः।

गर्त्तिका = स्त्री गर्त्तोऽस्त्यस्याः ठन्। १ तन्त्रवपनशालायां (ता~तघर)। हेमच०। २ गर्त्तवति त्रि०।

गर्द्द = रवे वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट्। गर्द्दयति–ते गर्दति अजगर्दत्–त अगर्दीत्। गर्द्दयाम् बभूव आस चकार चक्रोजक्रे जगर्द्द।

गर्द्दभ = पुंस्त्री० गर्द–अभच् (गाधा) १ जन्तुभेदे। स्त्रियां जातित्वात् ङीष्। “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” “अविश्राम वहेद्भारं शीतोष्णञ्च न विन्दनि। ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभा चाणक०। “दीपनं गार्दमं मूत्रं कृमि–वातकफापहः। शोफकुष्ठोदरोन्मादमारुतकृमिनाशनम्” सुश्रु० तत्र पुंसामेव मूत्रं ग्राह्यं यथाह भावप्र० “खरोष्ट्रेभतराश्वानां पुंसा मूत्रं हितं स्मृतम्”। तस्योत्पत्तिः “अथ यासां पांसवः पर्य्यशिष्यन्त ततो गर्दभः समभबत् तस्माद्यत्र पांसुलं भवति गर्दभस्थानमिव तत्रेत्याहुः” शत० ब्रा० ४। ५। १। ९। तस्थ पांसुषु उत्पन्नत्वात् पांसुलस्थानप्रियता। “चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः। अपात्रास्ते च कर्त्तव्या धनमेषां श्व गर्दभम्” मनुना तस्य श्वपचादिधनत्वमुक्तम्। २ गन्धे हेमच०। ३ श्वेतकुसुदे ४ विडङ्गे च न० रत्नमा०।

गर्द्दभगद = पु० जालगर्दभाख्ये रोगभेदे राजनि०। जालगर्दभशब्दे लक्षणादि।

गर्द्दभयाग = पु० गर्दभेन यागः। अवकीर्ण्णिनः पापक्षयार्थे नैरृतदेवताककाणगर्दभपश्वालम्भनेन कर्त्तव्ये यागभेदे।। तद्विधिर्मनुनोक्तो यथा

“अवकीर्णी तु काणेन गर्दभेन चतुष्पथे। पाकयज्ञविधानेन यजेत निरृतिन्निशि। हुत्वाग्नौ विधिबद्धोमानन्ततर्श्च समेत्यृ चा। वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाऽऽहुतीः। कामतो रेलसः सेकं व्रतस्थस्य द्विजन्मनः। अतिक्रमं व्रतस्याहुर्द्धर्मज्ञा ब्रह्मवादिनः। मारुतं पुरुहूतञ्च गुरुं पावकमेव च। चतुरो व्रतिनोऽप्येति ब्राह्मन्ते जोऽवकीर्णिनः”। गर्दभयज्ञ गर्दभेज्यादयोऽप्यत्र। तत्र विशेषः कात्या० श्रौ० सूत्रे उक्तो यथा।

“वाऽवकोर्णिनो गर्दभेज्या” सू० १। १। १३ “यो ब्रह्मचारी सन् स्त्रियं गच्छति सोऽवकीर्णी तस्यावकीर्णिनः स्खलितब्रह्मचर्यस्य गर्दभेज्या गर्दभेनेज्या यागो गर्दभेज्या प्रायश्चित्तार्था भवति। वाशब्दो विकल्पार्थः तेन गृह्योक्तमपि प्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विकल्पेन भवति “अथापरमाज्याहुती जहोति कामावकीर्णोऽस्मीत्यादिना” (पारस्कर)। शाखान्तरे उभयस्य विकल्पेन श्रुतत्वात् अत्रैतद्विचार्य्यते किं स्थपतीष्टिरवकीर्णिपशुश्च तदुभयसाधनसंस्कृतेष्वाहवनीयादिषु भवति उत लौकिके इति। तत्र प्रकृतित आहवनीवादिप्राप्रेराहवनीयादीनां चाधाननिष्पाद्यत्वात् स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपि इष्टिपशू आधानं प्रयोजतः अत एतदर्थमेवाधानेनाऽऽ- हवनीयादीनुत्पाद्य तेष्वेतदुभयं कर्त्तध्यमिति प्राप्ते आह” कर्कः। “लौकिके” १४ सू०। “एतौ स्थपतीष्ट्यवकीर्णिपशू लौकिकेऽग्नौ भवतः न हीमाविष्टिपशू आधानं प्रयोजयतः आभ्यां हि तदेव गृह्यते यद्दर्शपूर्ण्णमासाङ्गं भवति। न चाधानं दर्शपूर्णमासाङ्गम् स्वकाले हि पुरुषसंस्कारकत्वेन तद्विहितमिति। अतो लौकिकाग्नावेवैतावनुष्ठेयौ लौकिकमेव गार्हपत्यस्थाने स्थापयित्वा तत आहवनीयादिस्थानेषु विहृत्य स्थपतीष्ट्यवकीर्णिपशू दशपूर्णमासपशुवत् कर्त्तव्यौ। अत्र विशेषविधानार्थमाह” कर्कः। “भूमौ पशुपुरोडाशश्रपणम्” १५ सू०। “अत्रावकीर्णिनो गर्दभपशुयागे पशुपुरोडाशस्य श्रपणं भूमावेव कर्त्तव्यम् न तु कपालेलु” कर्कः। “अप्स्ववदानहोमः” १६ सू०। “अवदानानां हृदयजिह्वाक्रोडादीनां होमोऽप्सु उदकेषु भवति नाग्नौ वचनात्। अवदानग्रहणाटन्यदाघाराज्यभागहोमादिकमग्नावेव कार्य्यम्” कर्कः। “शिश्नात् प्राशित्रावदानम्” १७ सू०। “गर्दभस्य शिश्नात् प्राशित्रावदानं कार्य्यम् वचनात्” कर्कः।

गर्दभशाक = पु० गर्दभोगन्धो शाकेऽस्य। ब्रह्मयष्टिवृक्षे (वामनहाटि) जटा०। २ तत्रैवार्थे स्त्री गौरा० ङीष् रत्नमा०।

गर्दभशाखी = स्त्री गर्दभो गन्धः शाखायां यस्याः गौरा० ङीष्। १ भार्ग्याम् राजनि०।

गर्दभाण्ड = पु० गर्दभं गन्धममति अम–गतौ ड। पत्रकाण्डफलादिभिरश्वत्थाकारे १ प्लक्षवृक्षे (पाकुड) अमरः। (पिप्पली) ख्याते २ वृक्षे सारसुन्दरी।

गर्दभाह्वय = न० गर्दभेति आह्वयो यस्य। १ कुमुदे हेमच०।

गर्दभिका = स्त्री “मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकावृतम्। रुजाकारीं गर्दभिकाम् तां विद्यात् वातपित्तजाम्” माधवकरोक्ते रोगभेदे।

गर्दभो = स्त्री गर्द–अभच् गौरा० ङीष्। अग्निप्रकृतिके १ कीटभेदे सुश्रु० कीटशब्दे २०४८ पृ० विवृतिः। स्वार्थे क। २ गर्दभिकारोगे संज्ञायां कन्। ३ अपराजितायाम् ४ श्वेतकण्टकार्य्यां ५ कटभ्याञ्च राजनि०। गर्द्दभ + जातौ स्त्रियां ङीष्। ६ गर्दभजातिस्त्रियाञ्च तत्क्षीरादिगुणाः “बल्यं वातश्वासहरं मधुराम्लं च गार्दभम्। पयो रूक्षं दीपनञ्च सुपथ्यं परिकीर्त्तितम्। गार्दभं दधि रूक्षोष्णं लघु दीपननुच्यते। पाचनं मधुराम्लञ्च रुचिकृत् वातदोषहृत्। गार्दभं नवनीतं च कषायं कफवातहृत्। बल्यञ्च दीपनं पाके लघूष्णं मूत्रदोषकृत्” राजनि०।

गर्द्ध = लिप्साया चुरा० उभ० सक० सेट्। गर्द्धयति त अजग- र्द्धत् त। गर्द्धयाम् बभूव आस चकार चक्रे। गर्द्धः गर्द्धा। गर्द्धनः।

गर्द्ध = पु० गृध–घञ् अच् वा। १ अतिशयस्पृहायां, हेमच०। २ गर्द्धभाण्डद्र मे च शब्दच०।

गर्द्धन = त्रि० गृध–युच्। लुब्धे अमरः।

गर्ब = गतौ भ्वा० पर० सक० सेट्। गर्बति अगर्बीत् जगर्ब।

गर्ब = दर्पे अद० चुरा० आत्म० अक० सेट्। गर्बयते अजगर्बत। गर्बः। गर्बितः। “तदग्रसारगर्बितकृष्णसारम्” रघुः।

गर्ब = पु० गर्ब–दर्पे भावे अच्। अहङ्कारे अमरः।

गर्भ(र्ब्भ) = पु० गृ–भन् वा द्वित्वे भस्य बः। भ्रूणे देहजन्मकारके शुक्रशोणितानुबन्धजन्ये १ मांसपिण्डे, २ शिशौ, ३ कुक्षौ, ४ नाटकसन्धिभेदे, ५ पनसकण्टके मेदि० ६ अपवरके, हेमच० “भाद्रकृष्णचतुर्दश्यां यावदाप्लवते जलम्। तावद् गर्भं विजानीयात्” प्रा० त० उक्ते भाद्रकृष्णचर्दश्यां, गङ्गाजलाप्लावनस्थाने, ७ अन्ने, ८ अग्नौ, ९ पुत्रे च शब्दार्थचि०। गर्भस्य देहहेतुता कायशब्दे १९०८ पृ० दर्शिता कश्चिदत्र विशेषोऽभिधीयते। तत्र भावप०

“कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः। गर्भः सञ्जायते नार्य्याः स जातो वाल उच्यते। गर्भः शुद्धोऽशुद्धश्च अशुद्धस्तु गर्भोऽशुद्धशुक्रशोणितयोरपि दम्पत्योर्भवति यत आह “दम्पत्योः कुष्ठबाहुल्यात् दुष्टशोणित शुक्रयोः। यदपत्यन्तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति”। कुष्ठं सञ्जातं यस्य तत् कुष्ठितम्, अत्र तारकादित्वादितच् प्रत्ययः। यत्तु, “वातादिदुष्टरेतसः प्रजोत्पादने न समर्थाः” इति सुश्रुतः। तत्र शुद्धप्रजोत्पादने न समर्था इति बोद्धव्यम्। रोगादिनाऽशुद्धास्तु वातादिदुष्टशुक्रा अपि प्रजा जनयन्ति जन्मान्धवधिरपङ्ग्वादिसम्भवात्। ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवगतः। मेढ्रयोन्यभिसङ्घर्षाच्छरोराष्माऽनिलाहतः। पुंसः सर्वशरीरस्थं रेतो द्रावयतेऽथ तत्। वायुर्मेहनमार्गेण पातयत्यङ्गनाभगे। तत् संस्रुत्य व्यात्तमुखं याति गर्भाशयं प्रति। तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत्। गर्भाशयस्य स्वरूपमाह शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता। तस्यास्तृतीये त्वावर्त्ते गर्भ शय्या प्रतिष्ठिता। यथा रोहितमत्स्यस्य मुखं भवति रूपतः। तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः। अयमर्थः गर्भशय्याया मुखं रोहित मत्स्यस्येव भवति यथा च रोहितमत्स्यस्य स्थितिर्जले भवति तथा पित्ताशयपक्वाशयमध्ये गर्भशव्यायाः स्थितिर्भवति रूपमपि तस्येव भवति यथा रोहितस्य मुखं स्वल्पमाशयस्तु महानित्यर्थः। शुक्रार्त्तवसमाश्लेषोयदैव खलु जायते। जीवस्तदैव विशति युक्त शुक्रार्त्तवान्तरः। सूर्य्यांशोः सूर्य्यमणितोऽनुभयस्माद्युताद्यथा। वह्निः सञ्जायते जीवस्तथा शुक्रार्त्तवाद्युतात्। आत्माऽनादिरनन्तश्चाऽव्यक्तो वक्तुं न शक्यते। चिदानन्दैकरूपोऽयं मनसापि न गम्यते। एवं भूनोऽपि जगतो भाविन्या बलवत्तया। अविद्यया कृत कर्मवशो गर्भं विशत्यसौ। गर्भं चतुर्विंशतितत्त्वमयम्। स एव वेत्ता रसनो द्रष्टा घ्राता स्पृशत्यसौ। श्रोता वक्ता च कर्त्ता च गन्ता रन्तोत्सृजत्यपि। दिने व्यतीते नियतं सङ्कुचत्यम्बुजं यथा। ऋतौ व्यतीते नार्य्यास्तु योनिः संव्रियते तथा। ऋतौ रजोदर्शनात् षोडशनिशात्मके काले योनिरत्र भगद्वारम्।

“वीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ। यमावित्यभिधीयेते धर्मेतरपुरःसरौ। धर्मस्तदितरोऽधर्मस्तौ पुरःसरौ ययोः तेन यमौ धर्माधर्माभ्यां भवत इत्यर्थः। आधिक्ये रेतसः पुत्रः कन्या स्यादार्त्तवेऽधिके। नपुंसकं तयोः साम्ये यथेच्छा पारमेश्वरी। नन्वेवं सति कथं पुत्रोत्पत्तिः सदैवार्त्तवस्यैव वाहुल्यात् यत उक्तम् “आर्त्तवं चतुरञ्जलिप्रमाणं शुक्रं प्रसृतिमात्रमिति” वाग्मटेऽप्युक्तमात्रेयादिभिः “मज्जा मेदोवसा मूत्रपित्तश्लेष्मशकृदसृक्। रसो जलं च देहेऽस्मिंस्त्वेकैकाञ्जलिवर्द्धितम्। पृथक् च प्रसृतं प्रोक्तमोजोमस्तिष्करेतसाम्। द्वावञ्जली तु दुग्धस्य चत्वारो रजसस्तु ते। समधातोरिदं मानं विद्यात् वृद्धिक्षयावतः” इति। मैवं, यतो गर्भाशयस्थमेव शुक्रमार्त्तवं च गर्भोत्पत्तिहेतुः शुक्रं कदाचिदत्यन्तहर्षवशाद्दुग्धादिशुक्रलद्रव्यसेवनात् शुक्रबाहुल्यात् गर्भाशये बहु स्रवति कदाचिद्वैमनस्यादिना शुक्राल्पत्वादल्पमिति एवमार्त्तवमपीति न दोषः। सुश्रुतः पुनराह “वैलक्षण्याच्छरीराणामस्यायित्वात् तथैव च। दोषधातुमलानां तु परिमाणं न विद्यते”। वैलक्षण्यात् दीर्घह्रस्वकृशादिभेदेन सादृश्याभावात् अस्थायित्वात् वयोहर्निशर्त्तुभुक्तेष्वेकमात्रानवस्थानात्। एवं तामभिसङ्गम्य पुनर्मासाद् भजेदसौ” मासादूर्द्धमिति शेषः। अर्वाग्गमनेन गर्भद्वारविवट्टनात् गर्भच्युतिप्रसङ्गः स्यात्। केचित्तु, पुनः पुष्पदर्शनेन गर्भालाभनिश्चये मासात् पूर्वं गच्छेत् लब्धगर्भां तु नोपगच्छेदिति वदन्ति। तत्र परिहार्य्यपरिहारार्थं सद्योगृहीतगर्भाया लक्षणमाह शुक्रशोणितयोर्योतेरास्रावोऽथ श्रमोद्भवः। सक्थि सादः पिपासा च ग्लानिः स्फूर्त्तिर्भगे भवेत्। अथ तस्या एवोत्तरकालीनं लक्षणमाह स्तनयोर्मुखकार्ष्ण्यं स्याद्रोमराज्युद्गमस्तथा। अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः”।

“छर्दयेत् पथ्यभुक् चापि गन्धादुद्विजते शुभात्। प्रसेकः सदनं चैव गर्भिण्या लिङ्गमुच्यते। तत्र पुत्रगर्भवत्या लक्षणमाह पुत्रगर्भयुतायास्तु नार्य्या मासि द्वितीयके। गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृण। पिण्डो वर्त्तुलाकृतिः मासि द्वितीयक इत्यस्य गर्भः पिण्डाकारो लक्ष्यः इत्यनेनैवान्वयो न त्वग्रिमश्लोकेऽपि। दक्षिणाक्षिमहत्त्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने। दक्षिणोरुः सुपुष्टः स्यात् प्रसन्नमुखवर्णतः। पुन्नामधेय द्रव्येषु स्वप्नेष्वपि मनोरथः। आम्रादिफलमाप्नोति स्वप्नेषु कमलादि च। कन्यागर्भवतीगर्भः पेशी मासि द्वितीयके। पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते। पेशी दीर्घाकृतिः। नपुंसकं यदा गर्भे भवेद्गर्भोऽर्बुदा कृतिः। उन्नते भवतः पार्श्वे पुरस्तादुदरं महत्। अर्बुदं वर्त्तुलं फलार्द्धतुल्यम्।

“अपरा अपि गर्भप्रकृतीराह यदा नार्य्यावुपेयातां वृषस्यन्त्यौ कथञ्चन। मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थि स्तत्र जायते। अनस्थिः अत्रेषदर्थे नञ् तेनाल्पको मलास्थिरित्यर्थः। ऋतुस्नाता तु या नारी स्वप्ने मैथुन माचरेत्। आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि। मासि मासि प्रवर्द्धेत स गर्भो गर्भलक्षणः। कललं जायते तस्य वर्जितं पैतृकैर्गुणैः। गर्भलक्षणः प्रकृतगर्भलक्षणः। पैतृकैर्गुणेः केशश्मश्रुलोमनखदन्तशिरास्नायुधमनीरेतःप्रभृतिभिः। सर्पवृश्चिककुस्माण्डाकृतयो विकृताश्च ये। गर्भास्ते योपितस्ताश्च ज्ञेयाः पापकृतो भृशम्। गर्भो वातप्रकोपेण दोहदे चापमानिते। भवेत् कुब्जः कुणिः पङ्गुर्मूकोमिन्मिन एव च। पुत्राणामाहारचारचेष्टाभेदस्य हेतुमाह आहाराचारचेष्टाभिर्य्यादृशीभिः समन्वितौ। स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः। समुपेयातां संयोगं गच्छेताम्। अथ गर्भलक्षणमाह। गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकम्। प्रकृतिः सविकारा च तत्सर्वं गर्भसंज्ञितम्। कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः। भवेत्तदा स मुनिभिः शरीरीति निगद्यते। अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङः। तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः। मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः। आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः। तस्यान्तर्मस्तु लुङ्गं च ललाटं भ्रूयुगन्तथा। नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके। दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनी। पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वथम्। पालिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता। ओष्ठाधरौ च सृक्किण्यौ मुखं तालुहनुद्वयम्। दन्ताश्च दन्तवेष्टश्च रसना चिवुकङ्गलः। द्वितीयमङ्गं ग्रीवा तु यन्या मूर्द्धा विधार्य्यते। तृतीथं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे। तत्रोपरिगतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः। कफोणियुगं तदधः प्रकोष्ठयुगलन्तथा। मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश। नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः। चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे। स्तनौ पुंसस्तथा नार्य्या विशेष उभयोरयम्। यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ। गर्भवत्याः प्रसूतायास्तावेव क्षीरपूरितौ। हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम्। जाग्रतस्तद्विकसति स्वपतस्तु निमीलति। आशयस्तत्तु जीवस्य चेतनास्थानसुत्तमम्। अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि। चेतनास्थानमुत्तममिति अयमभिप्रायः। चेतनानामधिष्ठानं मनोदेहश्च सेन्द्रियः। केशलोमनखाग्रं च मलं द्रव्यगुणं विना” इत्युक्तवता चरकेण सकलं शरीरं चेतनास्थानमुक्तम्। तदयेक्षया हृदयं विशेषतश्चेतनास्थानमिति। कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते। कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ। उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम्। सपृष्ठवंशं पृष्ठं तु समस्तं सप्तमं स्मृतम्। उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः। शोणिताज्जायते प्लीहा बामतो हृदयादधः। रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः। हृदयाद्वामतोऽधश्च फुस्फुसो रक्तफेनजः। अथो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः। तत्तुरञ्जकपित्तस्य स्थानं शोणितजं मतम्। अधस्तु दक्षिणे भागे हृदयात् क्लोग तिष्ठति। जलवाहिशिरामूलं तृष्णाच्छादनकृन्मतम्। क्लोम तिलकम्। एतत्तु वातरक्तजम। अत्र वृद्ववाग्भटः “रक्तादनिलसंयुक्तात्कालीय- कसमुद्भव इति। मेदः शोणितश्रोः साराद्वुक्कयोर्युगलं भवेत्। तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः। उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः। अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्द्दिशेत्। उण्डुकश्च कटी चापि त्रिकं बस्तिश्च वङ्क्षणौ। कण्डराणां प्ररोहः स्यात् स्थानं तद् वीर्य्यमूत्रयाः। न एव गर्भस्याधानं कुर्य्याद्गर्भाशये स्त्रियाः। शङ्खनाभ्याकृतिर्य्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता। यस्यास्तृतीये त्त्वावर्त्ते गर्भशय्या प्रतिष्ठिता। वृषणा मवतः सारात्कफासृग्भ्यां च मेदसाम्। वीर्थ्यवाहिशिराधारौ तौ मतौ पौरुषावहौ। मुदम्य मानं सर्वस्य सार्द्धे स्याच्चतुरङ्गलम्। तत्र स्युर्वलयस्तिस्रः शङ्खावर्त्तनिभास्तु ताः प्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता। उत्सर्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता। तस्याधः सञ्चरणी स्यादेकाङ्गुलसमा मता। अर्द्धाङ्गलप्रमाणं तु बुधै र्गुदमुखं मतम्। मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः। पुंसः प्रोथौ स्मृतौ यौ तु तां नितम्बौ च योषितः। तयोः ककुन्दरे स्यातां सक्थिनी त्वङ्गमष्टमम्। तदुपाङ्गानि च ब्रूमो जानुनी पिण्डिकाद्वयम्। जङ्घे द्वे घण्टिके पार्ष्णी तले च प्रपदे तथा। पादावङ्गुलयस्तत्र दश तासां नखा दश”। अथेदं शरीरमपरेणापि येन येन समवाथिकारणेनोत्षद्यते तानि सर्वाण्याह अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम्। आहारादेर्गतिस्तस्य परिणामश्च वक्ष्यते। आर्त्तवं चाथ धातूनां मलास्तदपधातवः। आशयाश्च कलाश्चापि वमाण्यथ च सन्धयः। शिराश्च स्नायवश्चापि धमन्यःकण्डरास्तथा। रन्ध्राणि भूरिस्रोतांसि जालैः कूर्च्चाश्च रज्जवः। सेवन्यश्चाथ सङ्घाताः सीमन्ताश्च तथा त्वचः। लोमानि लोमकूपाश्च देह एतन्मयो मतः”।

१० मेघस्य जलवर्षणयोग्यतासम्पादके निमित्तभेदे स च वृ० सं० २१ अ० उक्तो यथा

“दैवविदवहितचित्तो द्युनिशं यो गर्भलक्षणे भवति। तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देशे। किं वाऽतः परमन्यच्छास्त्रं ज्यायीऽस्ति यद्विदित्वैव। प्रध्यंसिन्यपि काले त्रिकालदर्शी कलौ भवति। केचिद्वदन्ति कार्त्ति कशुक्लान्तमतीत्य गर्भदिवसाः स्यु। न तु तन्मतं बहूनां, गर्गादीनां गतं वक्ष्ये। मार्गशिरःशुक्लपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम्। पूर्वां बा समुपगते गर्भाणां लक्षणं ज्ञेयम्। यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात्। पञ्चनवते दिनशते १९५ तत्रैव प्रसवमायाति। सितपक्षभवाः कृष्णे, शुक्ले कार्ष्णाद्युसम्भवा रात्रौ। नक्तं प्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् १ मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च। पौषस्य कृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम्। माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति। माघस्य कृष्णपक्षेण निर्दिशेद्भाद्रपदशुक्लम्। फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः। तस्यैव कृष्णपक्षोद्भवास्त ये तेऽश्वयुक्शुक्ले। चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदागर्भाः। चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति। पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः। शेषाखपि दिक्ष्वेवं विपर्ययो भवति वायोश्च। ह्लादिमृदूदक्छिवशक्रदिग्भवो मारुतो वियद्विमलम्। स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ। पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम्। काकाण्ड मेचकाभं वियद्विशुद्धेन्दुनक्षत्रम्। सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यकाः शुभा सन्ध्या। शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसङ्घाः। विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः। तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः। गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः। स्वर्तुस्वभावजनितो गर्भविवृद्धौ तमभिधास्ये। पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः। माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ। अतिशीतं सवनस्य च भानोरस्तोदयौ धन्यौ। फाल्गुनभासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः। परियेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः। प्रवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः। घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे। मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः। जलचरसत्वाकारा गर्भेषु घनाः प्रभूतजलाः। तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः। रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले। गर्भोपघातलिङ्गान्युल्काशनिपांसुपातदिग्दाहाः। क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्वाताः। रुधिरादिवृष्टिवकृतपरिघेन्द्रधनूंषि दर्शनं राहोः। इत्युत्पातैरेभिस्त्रिविधैश्चान्यैर्हतो गर्भः। खर्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः। गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति। भाद्रपदाद्वयविश्वाम्बुदैवपैतामहेष्वथर्क्षेषु। सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति। शतभिषगश्लेषार्द्राखातिमघासंयुत शुभो गर्भः। पुष्णाति बहून्दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः। मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतुर्युक्ता। विंशतिरथ दिवसत्रयमेकतमर्क्षेण पञ्चभ्यः। क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः। शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः। गर्भसमयेऽतिवृष्टिर्गर्भाभावाय दुर्निमित्तकृता। द्रोणाष्टांशेऽभ्यधिके वृष्टं गर्भः स्रुतो भवति। गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः। आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः। काठिन्यं याति यथा चिरकालधृतं पय। पयस्विन्याः। कालातीतं तद्वत सलिलं काठिन्यमुपयाति। पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्यातः। वर्षति पञ्च समन्ताद्रूपेणैकेन यो गर्भः। द्रोणः पञ्चनिमित्ते गर्भे त्रीण्याढकानि पवनेन। षड् विद्युता नवाभ्रैः स्तनितैन द्वादश प्रसवे। पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः स भवति वहुतोयः पञ्चरूपाभ्युपेतः। विसृजति यदि तोयं गर्भकालेऽऽतिभूरि प्रसवसमयमित्वा शीकराम्भः करोति”। “गर्भोऽभवत् भूधरराजपत्न्याः” कुमा०। “नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी” रघुः। “गर्भोजरायुणावृत उण्वणं जहाति जन्मना” यजु० १९। ७६। “यथोल्वेणावृतो गर्भस्तथा तेनेदमावृतम्” गीता। कुक्षिश्च गर्भशायस्थानम्। तत्र “गर्भे यदि विपत्तिः स्यात् दशाह सूतकी भवेत्” शु० त० “कुन्त्थ गर्भेण धारितः” भा० व० १३७ अ०। “देहादुत्क्रमणं चास्मात् पुनर्गर्भं च सम्भवम्” मनुः। आधारे अभन्। ११ गर्भारम्भकाले “गर्भाष्टमेऽष्टमे वावदे ब्राह्मणस्योपनायनम्” मनुः। “तस्मात् गर्भान्विते युग्मे पतिसौभाग्यवर्द्धैनी” उ० त०। १२ अभ्यन्तरे “तासां सुखैरासवगन्धगर्मैः” स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्द्दति चातकोऽपि” “आविर्बभूव कुशगर्भमुखं मृगाणाम्” “निधानगर्भामिव सागराम्बराम्” रघुः। “भर्त्सनाश्च मधुरस्मितगर्भाः” सा० द०। “नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः” भा० श० ४८ अ०। जलोत्पादकगर्भे “अष्टमासधृतं गर्भं भास्करस्य गभस्तिभिः। रसं सर्वं समुद्राणां द्यौः प्रसूते रसायनम्” रामा० कि० २७ अ०। तस्याष्टमासधृतत्वञ्च मनुनोक्त यथा “अष्टौ मासान् यथादित्यस्तोयं हरति नित्यशः” मनुः। गर्भोत्पन्ने पुत्रे “अस्यास्त्वमष्टमो गर्भो हन्ता, यां वहसेऽबुध!” भाग० १०। १। २४। “देवक्या जठरे गर्भं शेषाख्यं धाम मामकम्” भाग० १०। ४। ७। नाटकसन्धिभेदश्च सा० द० उक्तो यथा “अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति” सन्धिं लक्षयित्वा “मुखं प्रतिमुखं गर्भो विमर्ष उपसंहृतिः। इति पञ्चास्य भेदाः स्युः” इति तं पञ्चधा विभज्य “फलप्रधानोपायस्य प्रागुद्भिन्नस्य किञ्चन। गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान् मुहुः” तल्लक्षणमुक्त्वा तस्य गर्भशब्दार्थत्वे युक्तिप्रदर्शन मुखेन उदाहृतं यथा

“फलस्य गर्भीकरणाद्गर्भः। यथा रत्नावल्यां द्वितीयेऽङ्के “सुसङ्गता सहि अदक्खिणा दानिं सि तुमं, जा एवं भट्टिणा हत्थेन गहिदावि कोबं ण मुञ्चसीत्यादौ समुद्भेदः। पुनर्वासवदत्ताप्रवेशे ह्रासः। तृतीयेऽङ्के “तद्वार्त्तान्वेषणाय गतः कथञ्चिरयति वसन्तकः” इत्यन्वेषणम्। “विदू। ही ही भो भो कोसम्बीरज्जलम्भेणाबि ण तारिशो पिअबअस्सस्स परितोसो जादिसो मम सआसादो पिअवअणं सुणिअ भविस्सदि” इत्यादौ उद्भेदः। पुनरपि वासवदत्ताप्रत्यभिज्ञानात् ह्रासः। पुनः सानरिकायाः सङ्केतस्थानगमने अन्व षणम्। पुनर्लतापाशकरणे उद्भेदः। “यत्र मुख्यश्च नोपाय उद्भिन्नोगर्भतोऽधिकः” सा० द०। गर्भो जातोऽस्य तारका० इतच्। गर्भित जातगर्भे काव्यदोषभेदे च। दोषशब्दे दृश्यम्। सगर्भ्यः।

गर्भक = पु० गर्भे केशमध्ये कायति कै–क। १ केशमध्यस्थे माल्ये अमरः। गर्भ + संज्ञायां कन्। २ रात्रिद्वये न० हेमच०।

गर्भकर = पु० गर्भं करोति गिष्पादयति सेवनेन कृ–ट। १ पुत्रजीववृक्षे भावप्र०। २ गर्भकारके त्रि०।

गर्भकार = पु० गर्भं करोति कृ–ण्वुल्। १ गर्भाधानकारके पत्यादौ। गर्भे मध्ये कारः स्तवनकर्मणि वैराजस्य यत्र। रथन्तरस्तोमयोर्मध्ये वैराजपाठरूपे २ स्तोमभेदे न०। “गर्भकारञ्चेत् स्तुवीरंस्तथैव स्तोत्रियानुरूपान्” आश्व० श्रौ० ९। ५। “शंसेदिति शेषः। रथन्तरेणाग्रे ततो वैराजेन ततो रथन्तरेण। अनेन गर्भकारस्वरूपमुच्यते” नारा० वृ०। “वृद्धवैराजाभ्यां वैवम्” ६ सू०। “एवमेव गर्भकारमेवेत्यर्थः” नारा० वृ०।

गर्भकोष = पु० गर्भस्य कोष आधार इव। गर्भाशये। गर्भकोषसमासङ्गोमक्कल्लो योनिसंवृतिः। हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः” सुश्रुतः।

गर्भगृह = न० गर्भैव मध्यस्थं गृहम्। गृहमध्यभागे। “वातागनविमानेषु तथा गर्भगृहेषु च” मा० उ० ११७ अ०। “कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या बहिः सख्या” सा० द०। गर्भभवनादयोऽप्यत्र। “निर्गत्य गर्भभवनात्” मालतीमा०।

गर्भघातिनी = स्त्री गर्भं हन्ति हन–णिनि। लाङ्गलिकावृक्षे रत्नमा०।

गर्भच्युति = स्त्री ६ त०। गर्भस्रावे तत्कारणादि सुश्रुते उक्तं यथा “ग्राम्यधर्म्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्षकटुतिक्तभोजनशाकातिक्षारसेवनातिसारवमनविरेचसप्रेङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्ब्बन्धनान्मुच्यते गर्भः फममिव वृन्तबन्धनादभिघातविशेषैः। स विमुक्तबन्धनो गर्भाशयमतिक्रम्य यकृत्प्लीहान्त्रविवरैरबस्रंस मानः कोष्ठसङ्क्षोभमापादयात तस्या जठरसङ्क्षोभाद्वायुरपानोमूढः पार्श्ववस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गानामन्यतममापाद्य गर्भं व्यापादयति तरुणं शोणितस्रावेण, तमेव कदाचिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानमपानवैगुण्यसंमोहितं गर्भं मूढगर्भमित्याचक्षते। ततः स कीलः प्रतिखुरो वीजकः परिघ इति। तत्र ऊर्द्ध्ववाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव स कीलः। निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः। यस्तु निर्गच्छत्येकशिरोभुजः स वीजकः। परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघ इति चतुर्व्विधो भवतीत्येके भाषन्ते तत्तु न सम्यक् कस्मात् स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधा प्रतिपद्यते तदा सङ्ख्या हीयते। तत्र कश्चित् द्वाभ्यां सक्थिभ्यां योनिमुख प्रतिपद्यते कश्चिदाभुग्नैकसक्थिरेकेन, कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्य्यगागतः। कश्चिदुरःपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते। अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना। कश्चिदाभुग्नशिरा बाहुद्वयेन। कश्चिदाभुग्नमध्योहस्तपादशिरोभिः। कश्चिदेकेन सक्थ्ना योनिमुखमभिप्रतिपद्यतेऽपरेण पायुमित्यष्टबिधा मूढगर्भगतिरुद्दिष्टाः समासेन। तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ शेषानपि विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंससंवरणमक्कल्ल- श्वासकासभ्रमनिपीडितान् परिहरेत्। भवन्ति चात्र। कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम्। प्रवर्त्तते स्वभावेन नान्यथा पतितुं फलम्। एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात्। गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते। कृमिवाताभिघातैस्त तदेवोपद्रुतं फलम। पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः। आ चतुर्थात्ततो मासात्प्रस्रवेद्गर्भविच्युतिः। ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः। प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा। नीलोद्धतसिरा हन्ति सा गर्भं सच तां तथा। गर्भास्पन्दनमावीनां (गर्भवतीनाम्) प्रणाशः श्यावपाण्डुता। भबत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ। मानसागन्तुभिर्म्मातुरुपतापैः प्रपीडितः। गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः। वस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि। तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक्।” गर्भविच्युति गर्भपतनादयोऽप्यत्र।

गर्भण्ड = पु० गर्भस्याण्ड इव शक०। नाभिगुडके (नाभिरगा~ड) त्रिका०।

गर्भद = पु० गर्भं ददाति सेवनेन दा–क। १ पुत्रजीववृक्षे राजनि०। २ गर्भसम्पादके औषधभेदे च।

गर्भदात्री = स्त्री गर्भं ददाति दा–तृच् ङीप्। तापसवृक्षसमागपत्रायामपत्यदायामोषधिभेदे राजनि०। “अपत्यदा तु मधुरा शीतला पित्तदाहनुत्। नारीपुष्पादिदोषहारिणी श्रमनाशिनी। गर्भसम्भवदात्री च सेवनात् परिकीर्त्तिता” राजनि०।

गर्भदास = पु० गर्भात् गर्भमारभ्य दासः। गृहजातदास्यामुत्पन्ने दासभेदे। “शूद्रस्य दानं वा दर्शनाविरोधाभ्याम्” कात्या० श्रौ० २२। १। ११। सू० व्याख्यायां “शूद्रस्य दानं भवति दृश्यते हि दानं पुरुषमेषे। “सपुरुषं प्राचीदिग् घोतुः” शत० ब्रा० १३। ६। २। ११। “न च विरोधो गर्भदासस्य” कर्कः।

गर्भध = न० गर्भं दधाति धा–क। रेतसि। “आऽहमजानि गर्भधमा त्वमजासि गर्भधम्” यजु० २३। १९। “गर्भधं गर्भधारकं रेतः” वेददी०।

गर्भधारण = न० ६ त०। अपत्योत्पादनार्थं शुक्रशोणितानुबन्धरूपगर्भग्रहणे। तद्धारणलिङ्गञ्च मिताक्षारायां दर्शितं यथा “गर्भधारणञ्च श्रमादिभिर्लिङ्गरवगन्तव्यं तथाच श्रुतिः “सद्योगृहीतगर्भायाः श्रमो ग्लानिः पिपासा अशक्त्या निषदनं शुक्रशोणितयोरनुबन्धः स्फुरणञ्च योन्याः” गर्भशब्ददर्शिते भावप्र० वाक्ये विवृतिः तद्धारणाय विधिः आ० त० दर्शितो यथा “पुत्रानुत्पत्तौ पारस्करः “सा यदि गर्भं नादधीत निदिग्धिकायाः सिंह्याः श्वेतपुष्पायाः उपोष्य पुष्येण मूलमुद्धृत्य चतुर्थेऽहनि स्नातायां निशायामुदकेन पिष्ट्वा दक्षिणस्यां नासिकायामासिञ्चतीति “इयमौषधी त्रायमाणा सहमाना सरस्वती। अस्या अहं पुत्रः पितुरिव नाम जनयत्यभित इति” “सा परिणीता ऋतुकाले कृताभिगमना यदि गर्भं न धारयति तदा उपोष्य पुष्ये नक्षत्रे श्वेतकण्ठकारिकाया मूलमुत्थाप्य चतुर्थेऽहनि ऋतुस्नातायाः पत्न्या रात्रावुदकेन दक्षिणनासापुटे पतिरियमीषधी त्रायमाणा, इति मन्त्रेण सिञ्चति नस्यं दधाति दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां गृहीत्वा प्राक्शिरःसंविष्टायाः इति। आयुर्वेदोयेऽपि। “पिप्पल्या शृङ्गवेरञ्च मरिचं नागकेशरम्। आज्येन सह भुञ्जीत अपि बन्ध्या प्रसूयते”। “गर्भधारणजं वाऽपि न खेदं समवाप्स्यसि” भा० व० १२६ अ०।

गर्भनुद् = पु० गर्भं नुदति नुद–क्विप्। कलिकार्य्यां वृक्षे (विषलाङ्गला) भावप्र०।

गर्भपाकिन् = पु० गर्भस्य पाको पुष्टिः साध्यत्वेनास्त्यस्य इनि। षष्टिधान्ये (षेटेरा धान) हेमच०। यथा च तस्य गर्भपोषकत्वम् तथा गर्मपोषणशब्दे वक्ष्यते।

गर्भपात = पु० ६ त०। गर्भस्रावे स तु पञ्चमादिमासस्यैव कठिनशरीरस्य भवति तत्प्रमाणं गर्भच्युतिशब्दे दृश्यम्।

गर्भपातक = पु० गर्भं पातयति सेवनात् पत–णिच्–ण्वुल्। रक्तशोभाञ्जने जटा०।

गर्भपातन = पु० गर्भं पातयति पाति–ल्यु। १ रीठावृक्षे भावप्र० गौरा० ङीष्। २ कलिकारीवृक्षे स्त्री राजनि०।

गर्भपातिनी = स्त्री गर्भं पातयति–पत–णिच्–णिनि ङीप्। विशल्यावृक्षे जटाधरः।

गर्भपोषण = न० ६ त०। गर्भस्य पुष्टिसम्पादके विधौ स च सुश्रुते दर्शितः यथा “गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताव्राह्मणगुरुपरा च भवेन्मलिनविकृतहीनगात्राणि न स्पृशेद्दुर्गन्धदुर्दर्शनानि परिहरेदुद्वेजनीयाश्च कथाः, शुष्कं पर्य्युषित कुथितं क्लिन्नं चान्नं नोपभुञ्जीत बहिर्निष्क्रमण शून्यागारचैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश्च भारानुच्चैर्भाष्यादिकं परिहरेद्यानि च गभं व्यापादयन्ति चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत नचायासयेच्छरीरं पूर्वोक्तानि च परिहरेत्। शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसंबाधं विदध्यात्। हृद्यं द्रवं मधुप्रायं स्निग्धं दोपनीयसंस्कृतञ्च भोजनं भोजयेत् सामान्यमेतादा प्रसवात्। विशेषतस्तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत। विशेषतस्तु तृतीवे षष्टिकौदनं पयसा भोजयेच्चतुर्थे दध्ना पञ्चमे पयसा षष्ठे सर्पिषा चेत्येके। चतुर्थे पयोनवनीतसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं भोजयेत्। पञ्चमे क्षीरसर्पिःसंसृष्टं षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषोमात्रां पाययेद्यवागूंवा। सप्तमे सर्पिः पृश्निपर्ण्यादिसिद्धम् एवमाप्याय्यते गर्भः। अष्टमे वदरोदकेन वलातिबलाशतपुष्पपललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणाप्याययेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थञ्च वायोः। ततः पयोमधुरकषायसिद्धेन तैलेनानुबासयेदनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति। अत ऊर्द्ध्वंस्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसवकालादेवमुपक्रान्ता स्निग्धा बलयती सुखमनुपद्रवा प्रसूयते” विधानपारि० तत्पोषणविधिर्मन्त्रभेदपूर्वको दर्शितो विस्तरभयान्नोक्तस्तत्रैवावसेयः।

गर्भप्रसव = पु० ६ त०। गर्भस्य तत्स्थशिशोः प्रथमप्रकाशनरूपे दर्शनयोग्यतापादनरूपकर्मभेदे तत्र कालश्च “नवमे दशमे मासि प्रबलैः सूतिमारुतैः। निःसार्य्यते वाण इव जन्तुश्छिद्रेण सज्वरः” याज्ञ० उक्तः। तद्विधानं सुश्रुते दर्शितं यथा।

“नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु विल्वन्यग्रोधतिन्तुकभल्लातकनिर्म्मितं सर्वागारं यथासङ्ख्यं तन्मयपर्य्यङ्कमुपलिप्तभित्ति सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं बाष्टहस्तायतञ्चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम्। जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने। सशूले जघने नारी ज्ञेया सा तु प्रजायिनी। तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखात् श्लेष्मा च। प्रजनयिष्यमाणां कृतमङ्गलामुष्णोदकपरिषिक्तामथैनां कुम्नारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां दम्भ तां यवापजा कण्ठात् पाययेत्। ततः कृतोपधाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसकथीमुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणवयसः प्रजननकुशलाः कर्त्तितनखाः परिचरेयुरिति अथास्या विशिखान्तरमनुलोममनुमुखमभ्यज्याद्ब्रूयाच्चैनामेका सुभगे!” प्रवाहयस्वेति न चाप्राप्तावीं (अप्राप्तप्रसववेदनाम्) प्रवाहयस्व ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षणवस्तिशिरःसु प्रवाहयेथाः शनैः शनैः। ततो गर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्ने गाढतरमा विशल्यभावात्। अकालप्रवाहणाद्बधिं मूकं व्यस्तहनुंमूर्द्धाभिघातिनं कासश्वासशोथोपट्टुतं वुब्जं विकटं वा जनयति। तत्र प्रतिलोममनुलोमयेत्। गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्षनिर्मोकेण पिण्डीतकेन वा। बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयोर्द्धारयेत् सुवर्च्चलां विशल्यां का। अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्य धृताक्तं मूर्द्ध्नि पिचु दद्यात्ततो नाभिनाडीमष्टाङ्गुलायामसूत्रेण बद्ध्वा छेदये त्तत्सुत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग्बध्नीयात् अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्म्मणि कृते मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्ण्णचूर्णमङ्गुल्यानाभिकया लेहयेत्ततोवलातैलेनाभ्यज्य क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्रकषायेण वा कोष्णेन यथाकायं यथादोषं यथाविभवञ्च। धमनीनां हृदिस्थानां विवृतत्वादनन्तरम्। चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्त्तते। तस्मात्प्रथमेऽह्नि मधुसर्पिरनन्तामिश्रं मन्त्रपूतं त्रिकालं पाययेद्द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च। ततः प्राङ्निवारित स्तन्यं मधुसर्पिः स्वपाणितलसम्मितं द्विकालं कालयेत्”।

गर्भभर्म्मन् = न० गर्भस्य शिशोः भर्म्म भरणं भृ–भावे मनिन्। कुमारभृत्याकर्मणि तद्विधानादि सुश्रुतोक्तं कुमारभृत्याशब्दे दर्शितम्। “कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्म्मणि” रघुः।

गर्भमास = पु० गर्भस्य तदारम्भस्य मासः तत्सहितो मासः। १ गर्भारम्भमासे २ गर्भसहिते मासे च “यदि नाधीयात् तृतीये गर्भमासे” आश्व० गृ० १। १३। २। “गर्भसहितो मासः गर्भमास” इति नारा०। ३ गर्भमाससंख्यमासे च गर्भस्रावशब्दे दृश्यम्।

गर्भयोषा = स्त्री गर्भार्था योषा। गर्भस्थानीयायां स्त्रियाम् “दृयं गङ्गेति “गयतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भ योषा” भारते आनुशासनिकपर्वणि २ अध्याये।

गर्भलक्षण = न० गर्भो लक्ष्यतेऽनेन लक्ष–करणे ल्युट्। गर्भ सूचकचिह्नभेदे भावप्रकाशोक्तं गर्भशब्दे तल्लक्षणसुक्तम्

गर्भलम्भन = न० गर्भोऽमोघवीर्य्यतया लभ्यतेऽनेन लभ–ल्युट् मुम् च। निषिक्तवीर्य्यस्यामोघतासम्पादनार्थे क्रियाभेदे “उपनिषदि गर्भलम्भनं पुंसवनमनवलोभनञ्च” आश्व० गृ० १। १३। १। “आम्नातमिति शेषः गर्भो लभ्यते येन कर्म्मणा निषिक्तं वीर्य्यममोघं भवति” नारा०।

गर्भवती = स्त्री गर्भो विद्यतेऽस्या मतुप् मस्य वः। आपन्नगर्पायां स्त्रियाम् शब्दरत्ना० तस्या लक्षणं तत्परिहार्य्यञ्च कायशब्दोक्तसुश्रुतवाक्ये १९२१ पृ० दृश्यम्। लब्धगर्भाया गर्भस्थैर्यकारिविधिभेदः सुश्रुतं उक्तो यथा

“लब्धगर्भायाश्चैतेष्वहःसु लक्षणावटशुङ्गासहदेवाविश्वदेवानामन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरो वा विन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै नच तान्निष्ठीवेत्। ध्रुवञ्चतुर्णां सान्निध्याद्गर्म। स्याद्विधिपूर्वकः। ऋतुक्षत्राम्बुवीजानां सामग्र्यादङ्कुरो यथा। एवं जाता रूपबन्तो महासत्वाश्चिरायुषः। भवन्त्थृणस्य मोक्तारः सत्पुत्त्राः पुत्त्रिणे हिताः”। शिशौ वर्णभेदहेतुरपि तत्रोक्तः तत्र तेजोधातुः सर्ववर्णानां प्रभवः स यदा गर्भोत्पत्तावब्धातुप्रायो भयति तदा गर्भं गौरं करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाशप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गोरश्यामम्। यादृग्वर्णमाहारमुपर्सवते गर्भिणी तादृग्वर्णप्रसवा भवतीत्येके भाषन्ते। तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति। तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगत शुक्लाक्षं, वातानुगतं विकृताक्षमिति” “दशैव मासान् विभ्रति गर्भ वत्यः” भा० व० १३४ अ०।

गर्भवसति = स्त्री गर्भः कुक्षिरेव वसतिः। कुक्षिरूपे स्थाने “स तत्र गर्भवसतौ वमत्यात्मेच्छया हरिः” हरिवं० ६० अ०।

गर्भवास = पु० वसत्यस्मिन् वासः वासस्थानं गर्भ एव वासः। १ कुक्षिरूपस्थाने “असकृत् गर्भवासेषु वासं जन्म च दारुणम्” मनुः। वस–भावे घञ् ७ त०। २ कुक्षौ वासे च।

गर्भव्यूह = पु० गर्भ इव गूढो व्यूहः। व्यूहभेदे युद्ध्यर्थसैन्यनिवेशनभेदे। “पश्चाद्वै तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः। सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः” भा० द्रो० २७ अ०। स च पद्माकारः।

गर्भशय्या = स्त्री गर्मस्य शय्येव स्थानम्। “शङ्खनास्याकृति- र्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता। तस्यास्तृतीये त्वाबत्त गर्भशय्या प्रतिष्ठिता” भावप्र० उक्ते गर्भोत्पत्तिस्थाने। “शिशुरधिकवया गर्भशय्यां गतो वा” इति वेणीसंहारः।

गर्भसंक्रमण = न० गर्भे संक्रमणं अन्यदेहपरित्यागेन देहान्तरोपादनार्थं प्रवेशनम्। देहाद्देहान्तरग्रहणाय कुक्षिप्रवेशनरूपे जन्मनि। “गर्भसंक्रमणे चापि कर्मणामभिसर्पणे। तादृशीमेव लभते वेदनां मानवः पुनः” भा० आश्व० १७ अ०

गर्भसमय = पु० ६ त०। गर्भकाले स च ऋतुस्नानोत्तरपुंयोगकालः वृष्ट्युद्भवाय मेघगर्भकालश्च। स च गर्भशब्दे वृ० सं० वाक्येन दर्शितः “गर्भसमयेऽतिवृष्टिर्गर्भाभावायदुर्निमित्तकृता” वृ० सं०।

गर्भस्राव = पु० स्रु–घञ् ६ त०। प्रसूतिकालात् पूर्वं रोगादिना गर्भस्य पतने। गर्भच्युतिशब्दे विवृतिः। तत्राशौचनिर्णयः “रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति” मनुः। कूर्मपुराणम् “अर्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भसंस्रवः। तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते। अत ऊर्द्धन्तु पतने स्त्रीणां स्याद्दशरात्रकम्। सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः। गर्भच्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे। यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः”। दशरात्रकमिति स्वस्वजात्युक्ताशौचकालपरम्। तथा चादित्यपुराणम् “षण्मासाभ्यन्तरं यावत् गर्भ स्रावो भवेद् यदि। तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते। अत ऊर्द्धं स्वजात्युक्तमशौचं तासु विद्यते”। गर्भस्रावाच्च वा तत इति तच्छब्देन सन्निधानादत ऊर्द्धमित्युक्तषण्मासोत्तरकालः परामृश्यते। षण्मासोपरि सगुणानां सद्यः, निर्गुणानामेकाहः, अत्यन्तनिर्गुणयथेष्टाचरणज्ञातीनां त्रिरात्रम्” शु० त०। अशौचव्यवस्था अशौचशब्दे ४८६ पृ० उक्ता

गर्भस्राविन् = पु० गर्भं स्राबयति स्रु–णिच्–णिनि। हि न्तालवृक्षे। राजनि०।

***