गम = गतौ भ्वा० पर० अनिट्। गच्छति ऌदित् अगमत् जगाम जग्मतुः। गन्ता गम्यात् गमिष्यति। गन्ता गमी गम्यः गन्तव्यः गमनीयः गच्छन् गतं गतः गतिः गन्तुम् गत्वा आगत्य। हृदयङ्गमः। जग्मिवान्। कर्मणि गम्यते अगमि गम्यमानः। णिच्। गमयति ते अजीगमत् ते। सन् जिगमिषति संजिगांसते। यङ् जङ्गम्यते। यङ्लुक् जङ्गमीति–जङ्गन्ति। जङ्गमम्। “क्षीदीयानपि गच्छति” माघः “गच्छति पुरः शरीरम्” शकु० “तेन गच्छन् न रिष्यति” मनुः। “न गणस्याग्रतो गच्छेत्” हितो०। “जगाम गहनं वनम्” देवीमा०। “तत्र निश्चित्य कन्दर्पमगमत् पाकशासनः” कुमा०। “गतं तिरश्चीनमनूरुसारथेः” माघः। “क्रोशार्द्धं प्रकृतिपुरःसरेण गत्वा” रघुः। “अगम्यां च स्त्रियं गत्वा” स्मृतिः।अच्छ + आभिमुख्ये गच्छगत्य अभिमुखं गत्वा।अति + अतिक्रम्य उत्कृष्य वा गमने। “ततो दशाहेऽतिगते कृतशौचो नृपात्मजः” रामा० अयो० ७७। १। “चिन्तामतिजगाम ह” भा० शल्य० ४७ अ०। अतिक्रमार्थे नास्य गतित्वम् अतिगत्वा।वि + अति + विशेषेणातिक्रम्य गतौ “कथमर्ज्जुन! कालोयम् स्वर्गे व्यतिगमस्तव” भा० व० १६७ अ०।अधि + प्राप्तौ। “अधिगत्य जगत्यधीश्वरात्” नैष०। यथा “खनन् खनित्रेण नरो वार्य्यधिगच्छति” मनुः। “विशेषं नाधिगच्छामि निर्द्धनस्यावरस्य च” भा० शा० २२६ श्लो०। “वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च” याज्ञ०।सम् + अधि + सम्यक् प्राप्तौ। “यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्” मनुः।अनु + प्राप्तौ पश्चाद्वमने अनुकरणे च। “तत् पापं शतधा भूत्वा तद्वक्तृननुगच्छति” स्मृतिः “श्रुतेरिवार्थं स्मृतिरन्वगच्छत्” रघुः। “अनुगतनयमार्गामर्गलां दुर्नयस्य” माघः।अन्तर् + व्यबधाने गतौ मध्यगतौ च। “भानौ यज्ञादन्तर्गतः” शत० ब्रा० १। ६। १। १। “अन्तर्गता मदनवह्निशिखावली या” उद्भटः।अप + अपाये विश्लेषजनकक्रियायाम्। “सा कन्यापजगामाथ समीपात्तस्य धीमतः” भा० द्रो० ५४ अ०।अपि + स्वकारणादौ प्रवेशे “असुंवागपिगच्छतु” अथ० २। १२। ८।अभि + आमिमुख्येन गतौ। “अनुरागाद्वने रामं दिष्ट्या त्वमभिगच्छसि” रामा० अयो० २ अ०। सम्यग्गतौ च “अभिगन्तास्मि भगिनीं मातरं च तवेति च” याज्ञ०।अव + बोधे, “यदावगच्छेदायत्यामनिष्टं ध्रुवमात्मनः” मनुः। प्राप्तौ च “कुतो युद्धं जातु नरोऽवगच्छेत्” भा० उ० ७४० श्लो०।आ + पश्चाद्देशविभागपूर्वकगतौ। “आगत्य विल्वशाखायां चण्डिके! कुरु सन्निधिम्” दुर्गावाहनमन्त्रः। “धनुषोऽभ्यासमागत्य” भा० आ० १८७ अ०। “आगता वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः। बोधे “आगमो निष्फलस्तत्र भुक्तिस्तोकापि यत्र नो”। आ + गमणिच्। क्षमायां प्रतीक्षायाञ्च आत्म० “यावदागमयतेऽथ नरेन्द्रान्” नैष०। आगमयते कालम्। “कर्म्मादिषु सर्वेषु अध्यर्य्युः संप्रेषमागमयेत” लाट्या० श्रौ ४। ९। ८।अधि + आ + प्राप्तौ “नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः” भा० आ० ९९ अ०।अनु + आ + अनुकृतौ सम्यग्गतौ पश्चाद्गतौ प्रत्यागतौ च “अन्वागतो यज्ञपतिर्वो अभ्रमत” यजु० १८। ५९। “अन्वागतो कर्म्मसमाप्तौ भवतः प्रत्यागमिष्यति” वेददी०। सम्बन्धे च। “किञ्चित् पश्यत्यनन्वागतः” शत० ब्रा० १४। ६। १। १७। “अनन्वागतः अननुबद्धः” भा०।अभि + आ + आभिमुख्येनागतौ “सर्वत्राभ्यागतो गुरुः” मनुः सम्यगागतौ “क्रमादभ्यागत द्रव्यम्” याज्ञ०। प्राप्तौ चउप + आ + समीपागतौ “वनादारादुपागतः” रामा०। “तपोनिधिं वेत्सि न मामुपगातम्” शकु०। उपस्थितौ अक०। “कथमापदुपागता” भा० स० २६०९ अ०।प्रति + आ + परावृत्यागमने (यतो गतिस्तत्र पुनरागतौ) “र- णात् प्रत्यागतं शूरं भार्य्याञ्च गतयौवनाम्” चाण०। “प्रत्यागतश्चेव पुनस्तथैव” प्रा० त०।उद् + ऊर्द्धगतौ उत्थाने अक०। “इत्युद्गताः पौरबधूमुखेभ्यः शृण्वन् कथाः” रघुः। उद्गमः। उत्क्रम्य गतौ च “ऊर्द्ध्वं प्राणा ह्युद्गच्छन्ति यूनः स्थविर आयति” मनुः।अभि + आ + आभिमुख्येनागमने। “अभ्युद्गतास्त्वा वयमद्य सर्वे” भा० आ० ८८ अ०।प्रति + उद् + प्रतिलक्ष्यीकृत्य उत्थाने अक०। “तमागतभभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः” भा० आ० १६९ अ०। (आगवाडा) गतिभेदे सक०। “प्रत्युज्जगामातिथिमातिथेयः”। “प्रत्युद्गतमिवामुष्णैः” “प्रत्युद्गता पार्थिवधर्मपत्न्या” रघुः “प्रत्युज्जगामागमनप्रतीतः” कुमा०।उप + समीपगमने। “ग्रहास्तमुपच्छन्ति सारमेया इवामिषम्” “सदनमुपगतोऽहं पूर्वमम्भोजयोनेः” प्रबोधच०। “सुप्तां मत्तां प्रमत्तां वा रहोयत्रोपगच्छति” मनुः। प्रतिज्ञायाम् उपगमः।अभि + उप + प्रतिज्ञायाम् स्वीकारे च। “वयमभ्युपगच्छाम कृष्णेण त्वां प्रधर्षितम्” हरिवं० ३ अ०। अभ्युपगमः। आभिमुख्येन समीपगतौ च “गरूमभ्युपगच्छन्ति यशसेऽर्थाय भाविनि!” भा० १२४ अ०।नि + नियमेन प्राप्तौ। “हिते मित्रे निगतान् हन्ति वीरान्” ऋ० १०। १३२। ५। “निगतान् हननाय नियमेन प्राप्तान्” भा०। णिच्। निश्चयेन बोधेने च निगमो वेदः। निगमकल्पतरोर्गलितं फलम्” भाग० १। १। ३। उक्तस्यार्थस्योपसहारे च निगमनशब्द विवृतिः।निर् + निष्क्रमणे। “अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात्” मनुः। विशेषेण प्राप्तौ च। “पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः” भा० व० २५८ अ०।पर + परावृत्य गमने परिगतौ च। “यद्वै मनः परागतं यद्बद्धमिह वेह वा” अथ० ७। १२। ४। “विद्यया तत्रारोहन्ति यत्र कामाः परागताः” शत० ब्रा० १०। ५। ४। १६। व्याप्तौ च। “स्फुटपरागपरागतपङ्कजम्” माघ।परि + परितो गतौ “यथा हि मेरुर्भगवता (सूर्य्येण)नित्यशः परिगम्यते” भा० व० २०४ अ०। वेष्टने च “अथ स वल्कदुकूलकुथादिभिः परिगतोज्ज्वलदुद्धतबालधिः” भट्टिः।प्रति + वैपरीत्येन गतौ (यत आगतिस्तत्रैव गमने) “भवतु प्रतिगमिष्यामस्तावत्” शकु० “अधीतां योगहीनस्य विद्यां प्रतिगतामिव” रामा० सुन्द० १८ अ०।वि + विशेषेण गतौ विच्छेदे विगमे च। “अवनितलविगतैश्च भूतसंघैः” भा० द्रो० ३७ अ०। “ततो निशा साव्यगमन्महात्मनाम्” भा० आश्व० ६४ अ०। “श्रद्धा च नो माविगमत्” मनुः। “रुचिभर्त्तुरस्य विरहाधिगमादिति सन्ध्ययापि सपदि व्यगमि” माघः।सम् + सङ्गे अक० आ०। “यत्र देवाः समगच्छन्त विश्वे” ऋ० ३०। ८२। ६। “मङ्गच्छस्व मया सार्द्धमेकेनैकनराशन!” भा० अयो० १५३ अ०। “जले स्थले चान्तरीक्षे गङ्गासागरसङ्गमे” प्रा० त०। “परमं भगवन्नेवं संगमिष्ये त्वया सह” भा० व० ३०६ अ०। “दिष्ट्या मे सङ्गतं यथा” भा० सम्यग्गतौ पर० सक०। “सङ्गच्छ पोंस्नि! स्तैणं माम्” भट्टिः। गमेः कर्म्मविशेषे उपपदे कर्त्तरि ख। तुरङ्गमः हृदयङ्गमः भुजङ्गमः इत्यादि। उरआदिषु उपपदेषु ड। उरगः भुजगः तुरगः हृद्गः अन्तग इत्यादि।

गम = पु० गम–यथायथं भावादौ अप्। १ जिगोषोर्यात्रायाम्, २ पथि, अमरः ३ द्यूतभेदे, ४ गमने, च। ५ अपर्य्यालोचिते अध्वनि मेदि०। ६ सदृक्पाठे हेम०। गम्यते कर्ण्णणि अप् न वृद्धिः। ७ गम्यमाने मार्गादौ। “अश्वस्यैकाहगमः” पा० तत्र गमने “वृषसिंहवृश्चिकवटैर्विद्धि स्थानं गमागमौ नस्तः” षट्पञ्चाशिका।

गमक = त्रि० गमयति गम–णिच्–ण्वुल्। १ गमयितरि २ बोधके च “सापेक्षत्वेऽपि गमकत्वात् समासः” महाभा० “यत् प्रौढत्वमुदारता च वचसां यच्चार्थतोगौरवम् तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः” मालतीमा०। ३ स्वरभेदे। “गमकः स्वश्रुतिस्थानस्थानां श्रुत्यन्तराश्रयात्। स्वरो यो मूर्च्छनामेति गमकः स इहोच्यते। कम्पितः स्फुरितो लीनो भिन्नः स्थविर एव च। आहतान्दोलितौ चेति गमकाः सप्त कीर्त्तिताः। साघपोषनिशायान्तु शेषप्रहरमात्रके। साधकः सलिले स्थित्वा गमकान् सप्त साधयेत्। दाक्षिणात्या हरिप्रीत्यै गायन्ति गमकानिमान्” सङ्गी० दा०

गमथ = पु० गम–अथच्। पथिके उज्ज्वद०।

गमन = न० गम–भावे ल्युट्। स्वाश्रयसंयोगविभागासमवायिकारणे १ क्रियाभेदे “प्रसारणञ्च गमनं कर्म्मान्येतानि पञ्च च” “भ्रमणं रेचनं स्यन्दनोर्द्धज्ज्वलनमेव च। तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते” भाषा०। उत्क्षेपणशब्दे १०८६ पृ० विवृतिः। २ जिगीषोः प्रयाणे च अमरः।

गमिन् = त्रि० “भविष्यति गम्यादयः” पा० गम–भव्ये इनि। भाविगमनके स्त्रियां ङीप्। “गम्यादीनामुपसंख्यानम्” वार्त्तिकोक्तेः ग्रामगमीत्यादौ द्वितीयात० समा०। कृदन्तत्वेऽपि तद्योगे कर्म्मणि न षष्ठी ग्रामं गमी।

गमिष्ठ = त्रि० अतिशयेन गन्ता–गन्तृ–अतिशायने इष्ठन्। गन्तृतमे। “किमङ्ग वा प्रत्यवर्त्ति गमिष्ठः” ऋ० १। ११८। ३।

गम्ब(न्ब) = गतौ भ्वा० पर० सक० सेट्। गम्बति अगम्बीत् जगम्ब। नोपधत्वे क्विपि गनौ गनः। मोपधत्वे गमौ गम इति भेदः।

गम्भन् = त्रि० गम–बा० अन् भुगागमश्च। गम्भीरे “अपा गम्भनत्सोद महत्वा” यजु० १३। ३०। “गम्भन् गम्भनि गभीरे” वेददी०। वेदे सप्तमीलोपः।

गम्भर = न० गम–विच् गमं निम्नगतिं विमर्त्ति भृ–अच् ६ त०। उदके निघण्टुः। “वृहन्तेव गम्भरेषु प्रतिष्ठाम्” ऋ० १०। १०६। ९। “नम्भरेषु गहनेषु जलेषु” भा०।

गम्भारिका = स्त्री गम–विच् गमं निम्नगतिं बिमर्त्तिभृ–ण्वुल् कापि अत इत्त्वम् (गाम्भार) वृक्षभेदे राजनि०।

गम्भारी = स्त्री गमं गतिभेदं बिभर्त्ति अण्, कं जलं बिभर्त्ति पृषो० कस्य ग इत्यन्ये उप० स० गौरा० ङीष्। (गाम्भार) वृक्षभेदे अमरः। गम्भार्य्याः फलं पुष्पं वा अण् तस्य लुपि प्रकृतिवल्लिङ्गता। गम्भारीतत्फले पुष्पे च स्त्री। “गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका। काश्मीरी कश्मरी हीरा काश्मर्य्यः पीतरोहिणी। कृष्णवृन्ता मधुरसा महाकुमुदिकापि च। काश्मरी तुवरा तिक्ता वीर्य्योष्णा मधुरागुरुः। दीपनी पाचनी मेध्या भेदनी श्रमशोथजित्। दोषतृष्णामशूलार्शोविषदाहज्वरापहा। तत्फलं वृंहणं वृष्यं गुरु केश्यं रसायनम्। वातपित्ततृषारक्तक्षयमूत्रविबन्धहृत्। स्वादु पाके हिमं स्निग्धं तुवराम्लं विबन्धकृत्। हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान्” भावप्र०

गम्भिष्ठ = त्रि० गम्भत् + अतिशायने इष्ठन् टिलोपः। गम्भीरतमे। “अपा गम्भन्त् सीदेति एतद्ध्वापां गम्भिष्ठं यत्रैष एतत्तपति” शत० ब्रा० ७। ५। १। ८।

गम्भीर = त्रि० गच्छति जलमत्र गम–ईरन् नि० भुगागमः। १ निम्नस्थाने अगाधे, अमरः। “धृतगम्भीरखनीखनी निम” नैष०। २ मन्द्रे शब्दे “स्निग्धगम्भीरनिर्घोषमेकस्यन्दनमास्थितौ” रघुः। ३ गभीरार्थे च उणादि०। ४ जम्बीरे, ५ पद्मे, ६ ऋग्मन्त्रभेदे च पु०। “स्वरे सत्वे च नाभौ च त्रिषु गम्भीरता शुभा।

गम्भीरवेदिन् = पु० गम्भीरं गहनं यथातथा वेत्ति विद–णिनि। “चिरकालेन यो वेत्ति शिक्षां परिचितामपि। गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः” राजपुत्रीयोक्त चिह्ने, १ गजे। “अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः” रघुः। गम्भीरवेदिनः पुरः कबलं करीन्द्रे” माघः। तृच्। गम्भीरवेत्तृ “त्वग्भेदात् शेणितस्रावात् मांसस्य क्रथनादपि। आत्मानं यो न जानाति स स्यात् गम्भीरवेदिता” सृगचर्म्भीयोक्तचिह्ने गजे।

गम्भीरिका = स्त्री गम्भीर–स्वार्थे क संज्ञायां कन् वा कापि अत इत्त्वम्। १ गम्भीरायां नद्यां २ नदोभेदे च। “लौहित्यः सिन्धुनदः सरयूर्गम्भीरिका रथाह्वा च। गङ्गाकौशिक्याद्याः सरितो विदेहकाम्बोजाः” वृह० सं० १६ अ०। ३ नाडीभेदे “नाड्यो गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च” सुश्रुतः। ४ दृष्टिरेगभेदे “हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या” सुश्रुतः। तल्लक्षणं तत्रैव उक्तं यथा “दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति। रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः”।

गम्य = त्रि० गम–पवर्गानत्वात् कर्मादौ यत्। १ गमनाय २ प्राप्ये च। अर्हार्थे यत्। गमनयोग्ये। “गम्यान्यपि तीर्थानि कीर्त्तिनान्यमगमानि च” भा० व० ८५। “अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः” भा० आ० ८३ अ०। “गम्यं त्वभावे दातॄणां कन्या कुर्य्यात् स्वयं वरम्” याज्ञ० “समानश्च खेदविगमो गम्यायामगम्ययाञ्च तत्र नियमः क्रियते इयं गम्या इयमगम्येति” महाभाष्यम् “खेदयतीति खेदो रोगः इन्द्रियनियमासामर्थ्यं वा” इति कैयटः तथा च अगम्यानिषेधस्य इतराभ्यनुज्ञाफलकतया स्वदारगमने दोषाभावः” विवरणम्।

गम्यमान = त्रि० गम–कर्म्मणि शानच्। १ वर्त्तमानगतिकर्मणि। २ बुध्यमाने च “गम्यभानाऽपि क्रिया विभक्तौ प्रयोजिका” व्या०न्यायः। “गम्यमानेऽर्थे” सि० कौ० भूरिप्रयोगः।

गम्यादि = न० “भविष्यति गम्यादयः” पा० उक्ते भविष्यदर्थें इनिप्रत्ययान्तशब्दसमूहे ते च “गमी आगमी भावी प्रस्थायी प्रतिरोधी प्रतियोधी प्रतिबोधो प्रति यायो प्रतिषेधी इत्येते” पा० ग०। “गम्यादोनामुपसंख्यानम्” वार्त्ति० तद्योगे द्वितीयातत्पुरुषः। ग्रामगमी।

गय = पु० रामायणप्रसिद्धे १ वानरभेदे। “कोटीशतवृतो वापि गयो गवय एव च। वानरेन्द्र हौमवीर्य्यौ पृथक् पृथगदृश्यताम्” भा० व० २८२ अ०। २ हविर्धानराजपुत्रभेदे, तत्कथा “हविर्धानाद्धविर्धानी विदूरासूत षट् सुतान्। वर्हिषदङ्गयं शुक्लं कृष्णं सत्यजितं व्रतम्” भाग० ५। १५ अ०। प्रियव्रतवंशोद्भवे ३ राजभेदे तत्कथा यथा “नक्तादृतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत। साक्षाद्भगवतो विष्णोर्जगद्रिरक्षया गृहीतसत्वस्य कला आत्मवत्त्वादिलक्षणेन नहापुरुषतां प्राप्तः। स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितविशुद्धमतिरुपरतानात्म्ये आत्मनि स्वयमुपलभ्यमान ब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत। तस्येभां गाथां पाण्डवेय! पुराविद उपगायन्ति। गयं नृपं कः प्रतियाति कर्मभिर्यज्ञाभिमानी बहुविद्धर्भगोप्ता। समागतश्रीः सदसस्पतिः सतां सत्से बकोऽन्यो भगवत् कलामृते। यमभ्यषिञ्चन् परया मुदा सतीः (सत्यः) सत्याशिषो दक्षकन्याः सरिद्भिः। यस्य प्रजा नां दुदुहे धराऽऽशिषो निराशिषो गुणवत्सस्नुतोधाः। छन्दांस्यकामस्य च यस्य कामान् दुदुहुराजह्रुरथोबलिं नृपाः। प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठमंशं परेभ्यः। यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे। श्रद्धाविशुद्धाचलभक्तियोगसमर्पितेज्याफलमाजहार। यत्प्रोणनाद्बर्हिषि देवतिर्य्यङ्मनुष्यवीरुत्तृणमाविरिञ्च्यात्। प्रीयेत सद्यः सह विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य। गयाद्गायन्त्यां चित्ररथः सुमतिररिरोधन इति त्रयः पुत्रा बभूवुः” भाग० ५। १५। अमूर्त्तरयसः पुत्रे प्रधानषोडशराजान्तर्गते ४ राजर्षिभेदे तत्कथा।

“गयञ्चामूर्त्तरयसं मृतं सृञ्जय! शुश्रुम। यो वै वर्षशतं राजा हुतशिष्टाशनोऽभवत्। तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः। तपसा ब्रह्मचर्य्येण व्रतेन नियमेन च। गुरूणाञ्च प्रसादेन वेदानिच्छामि वेदितुम्। स्वधर्मेणाविहिंस्यान्यान् धनमिच्छामि चाक्षयम्। विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः। अनन्यासु सवर्णासु पुत्रजन्म च मे भवेत्। अन्नं मे ददतः श्रद्धा धर्म्मेमं रमतां मनः। अविथं चास्तु मे नित्यं धर्मकार्य्येषु, पावकः। तथा भविष्यतीत्युक्त्वा तत्रैवान्तर- धीयत। गयो ह्यवाप्य तत्सर्वं धर्मेणारीनजीजयत्। स दर्शपौर्णमासाभ्यां कालेष्वाग्रयणेषु च। चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः। अयजच्छ्रद्धया राजा परिसंवत्सरान् शतम्। गवां शतसहस्राणि शतमश्वशतानि च। शतं निष्कसहस्राणि गवाञ्चाप्ययुतानि षट्। उत्थायोत्थाय संप्रादात् परिसंवत्सरान् शतम्। नक्षत्रेषु च सर्वेषु ददान्नक्षत्रदक्षिणाः। ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरास्तथा। सौवर्णों पृथिवीं कृत्वा य इमां मणिशर्कराम्। विप्रेभ्यः प्राददद्राजा अश्वमेधे महामखे। जाम्बुनदमया यूपाः सर्वे रत्नपरिच्छदाः। गयस्यासन् समृद्धास्तु सर्वभूतमनोहसाः। सर्वकामसमृद्धांश्च प्रादात्तांश्च गयस्तथा। ब्राह्मणेभ्यः प्रकृष्टेभ्यः सर्वभूतेभ्य एव च। ससमुद्रवनद्वीपनदीनदवनेषु च। नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन्। भूतग्रामाश्च विविधाः संतृप्ता यज्ञसम्पदा। गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन्। षड्विंशयोजनायामा त्रिंशद्योजनमायता। पश्चात् पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी। गयस्य यजमानस्य मुक्तावज्रमणिस्तृता। प्रादात् स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च। यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणाः। यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः। कुल्याः सुकृतवाहिन्यो रसानामभवंस्तदा। वस्त्राभरणगन्धानां राशयश्च पृथग्विधाः। यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः। वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः” भा० द्रो० ६६ अ०। ५ धने ६ अपत्ये ६ गृहे च निघण्टुः। “इन्द्रो वसुभिः परिपातु नो गयम्” ऋ० १०। ६६। ३। “गयं गृहनामैतत्। प्राप्तव्यं गीयते शब्द्यतेऽत्रेति वा गयं गृहम्” भा०। “अरक्षद्दाशुषे गयम्” ऋ० १। ७४। २। “गयं धनम्” भा०। “परि पाहि नो गयम्” ऋ० ६। ७१। ३। “गयं गृहं धनं वा” भा०। ८ अन्तरीक्षे च। “गयमस्माकं शर्म वनवत्स्वावसुः” ऋ० ५। ४४। ७। “गयं गृहमन्वरिक्षं वा” भा०। ९ गृहगते प्राणिनि च। “या नो गयमाविवेश” ऋ० ६। ७४। २। “गयं गृह गतं प्राणिजातम्” भा०। १० स्वस्थाने। “हित्पो गयमारे अवद्य आगात्” ऋ० १०। ९९। ५। “गयं स्वस्थानम्” भा०। ११ प्राणेषु बहुव०। “सा हैषा गयांस्तत्रे प्राणा वै गयास्तत् प्राणांस्तत्रे तद्यद्गयांस्तत्र तस्माद्गायत्री नाम” शत० ब्रा० १४। ८। १५। ७। गयाऽस्त्यत्र अच्। १२ गयाप्रदेशे बहुव०। “गयस्य यजभानस्य गयेष्वेव महाक्रतुम्। आहूता सरितां श्रेष्ठे गययज्ञे सरस्वती” भा० शल्य० ३९ अ० “गयेन यजमानेन गयेष्वेव पितॄन् प्रति” रामा० अयो० १७७। १। तेन तद्यागस्थानत्वेन च गयेति प्रसिद्धिः १३ असुरभेदे। तत्कथा वायुपु० गयामाहात्म्ये २ अ० यथा।

“गयासुरोऽसुराणाञ्च महाबलपराक्रमः। योजनानां सपादञ्च शतं तस्योच्छ्रयः स्मृतः। स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णबः स्मृतः। कोलाहले गिरिवरे तपस्तेपे सुदारुणम्। बहुवर्षसहस्राणि निरुच्छ्वासं स्थितोऽभवत्। तत्तपस्तापिता देवाः संक्षोभं परमं ययुः। ब्रह्मलोकं गता देवाः प्रोचुस्ते प्रपितामहम्।”

ततस्तत्कृतस्तवादिकमुपवर्ण्य तद्वरकथा तत्रैव यथा

“यदि तुष्टास्तु मे देवा ब्रह्मविष्णुमहेश्वराः। सर्वदेव द्विजातिभ्यो यज्ञतीर्थशिलोच्चयात्। देवेभ्योऽतिपवित्रोऽ हमृषिभ्योऽपि शिवाव्ययात्। मन्त्रेभ्यो देवदेवीभ्यो योगिभ्यश्चापि सर्वशः। न्यासिभ्यश्चापि कर्मिभ्यो धर्मिभ्यश्चतथा पुनः। ज्ञातिभ्योऽतिपवित्रोऽहं पवित्रः स्यां सदासुराः!। पवित्रतास्तु तं देवाः सत्यमुक्त्वा दिवं ययुः। दृष्ट्वादैत्यं, तथा स्पृष्ट्वा सर्वे हरिपुरं ययुः। शून्ये लोकत्रयेयाते शून्या यमपुरी ह्यभूत्। यम इन्द्रादिभिः सार्द्धं ब्रह्मलोकं ततोऽगमत्। ब्रह्माणमूचिरे देवा गयासुरविलोपिताः। त्वया दत्ताधिकारांस्त्वं तान् गृहाण पितामह!। ब्रह्माब्रवीत्ततो देवान् व्रजामो विष्णुमव्ययम्। ब्रह्मादयोऽब्रुवन् विष्णुं त्वया दत्तवरोऽसुरः। तद्दर्शनाद्ययुः स्वर्गं शून्यं लोकत्रयं ह्यभूत्। देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत्। गयासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम्। विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यद् गयासुरम्। गयासुरोऽब्रवीत् दृष्ट्वा ब्रह्माणं त्रिदशैःसह। संपूज्योत्थाय विधिवत् प्रणतः श्रद्धयान्वितः। गयासुर उवाच। अद्य मे सफलं जन्म अद्य मे सफलं तपः। यदागतोऽतिथिर्व्रह्मा मर्वं प्राप्तं मयाद्यवै। योगिन्! योगाङ्गवित् सर्वलोकस्वामिन्! पितर्गुरो!। यदर्थमागतो ब्रह्मन् तत्कार्य्यं करवाण्यहम्। ब्रह्मोवाच। पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया। यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः। त्वया देहे पवित्रत्वं प्राप्तं विष्णुप्रसादतः। अतः पवित्रं देहं त्वं यज्ञार्थं देहि मेऽसुर!। गयासुर उवाच। धन्योऽहं देवदेवेश! मद्देहं प्रार्थ्यते त्वया। पितृवंशे कृतार्थोऽहं मातृवंशे तथैव च। त्वयैवोत्पादितो देहः पवित्रस्तु त्वया कृतः। सर्वेषामुपकाराय यागोऽ वश्यं भविष्यति। इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः। नैरृतं दिशमाश्रित्य तदा कोलाहले गिरौ। शिरः कृत्वोतरे दैत्यः पादौ कृत्वा तु दक्षिणे ब्रह्मा संभृतसम्भारो मानसानृत्विजोऽसृजत्” इत्युपक्रम्य कतिचित्तत्कल्पितर्षीनुक्त्वा “एतानन्यांश्च विप्रेन्द्रान् वेधा लोकपितामहः। परिकल्प्याकरोद्यागं गयासुरशरीरके। अग्निशर्मापि पञ्चाग्नीन् मुखादेतानवासृजत्। दक्षिणाग्निं गार्हपत्याहवनीयौ तपोऽव्ययः। सभ्यावसय्यौ देवर्षिर्येषु यज्ञाः प्रतिष्ठिताः। यज्ञस्य च प्रतिष्ठार्थं विप्रेभ्यो दक्षिणां ददौ। हुत्वा पूर्णाहुतिं ब्रह्मा स्नात्वा चावभृथे सुरैः। यज्ञयूपं सुरैः सार्द्धं समानीय व्यरोपयत्। ब्रह्मणः सरसां श्रेष्ठे सरस्येवोच्छ्रितं शुभम्। यज्ञवाटे सुरैःसार्द्धं गयासुरमपश्यत। चलितं चकितो ब्रह्मा धर्म्मराजमभाषत। या सा गृहे तव शिला समानीयाविचारयन्। दैत्यस्य शीघ्रं शिरसि तां धारय ममाज्ञया। विश्चलार्थं, यमः श्रुत्वाऽ धारयन्मस्तके शिलाम्। शिलायां धारितायान्तु सशिलश्चासुरोऽचलत्। देवानूचेऽथ रुद्रादीन् शिलायां निश्चलाः किल। तिष्ठध्वं देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः। देवाः पादैर्ल्लक्षयित्वा तथापि चलितोऽसुरः। ब्रह्माथ व्याकुलो विष्णुंगतः क्षीराब्धिशायिनम्। तुष्टाव प्रणतो भूत्वांनत्वा चादृत्य तं प्रभुम्। व्रह्माण्डस्य पते! नाथ! नमामि जगतां पतिम्। गतिं कीर्त्तिमतां नॄणां भुक्तिमुक्तिप्रदायकम्। विश्वक्सेनोऽब्रवीत् विष्णुं देव! त्वां स्तौति पद्मजः। हरिराहानयस्व त्वं विष्णूक्तः स तमानयत्। अजमूचे हरिः कस्मादागतोऽसि वदस्व तत्। ब्रह्मोवाच। देवदेव! कृते यागे प्रचचाल गयासुरः। शिलायां देवरूपिण्यां न्यस्तायां तस्य मस्तके। रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत्। इदानीं निश्चलार्थं हि प्रसादं कुरु माधव!। ब्रह्मणोवचनं श्रुत्वा ह्याकृष्य स्वशरीरतः। मूर्त्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान् हरिः। आनीय मूर्त्तिं ब्रह्मापि शिलायां समधारयत्। तथापि चलितं वीक्ष्य पुनर्द्देव मथागमत्। आगत्य विष्णुः क्षीराब्धः शिलायां संस्थितोऽभवत्। जनार्द्दनाभिधानेन पुण्डरीकेति नामतः। शिलायां निश्चलार्थं हि स्वयमादिगदाधरः। निश्चलार्थं पञ्चधासीत् शिलायां प्रपितामहः। पितामहोऽथ फल्ग्वीशः केदारः कनकेश्वरः। ब्रह्मा स्थितः स्वयं तत्र गजरूपी विनायकः। गयादित्यश्चोत्तरार्को दक्षिणार्क स्त्रिधा रविः। लक्ष्मीः सीताभिधानेन, गौरी वै मङ्गलाह्वया। गायत्री चैव सावित्री त्रिसन्ध्येयं सरस्वती। इन्द्रो वृहस्पतिः पूषा वसवोऽष्टौ महाबलाः। विश्वे देवाश्चाश्विनेयौ मरुतो विश्वनायकाः। सयक्षोरगगन्धर्व्वास्तस्थुर्देवाः स्वशक्तिभिः। आदितो गदया चासौ यस्माद्दैत्यः स्थिरीकृतः। स्थित इत्येव हरिणा तस्मादादिगदाधरः। ऊचे गयासुरो देवान् किमर्थं वञ्चितोह्यहम्। यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया। विष्णोर्व्वचनमात्रेण किं न स्यां निश्चलोह्यहम्। यत्सुरैः पीडितोऽत्यर्थं गदया हरिणा तथा। पीडितो यद्यहं देवाः प्रसन्नाः सन्तु सर्व्वदा। गदाधरादयस्तुष्टाः प्रोचुर्द्दैत्यं गयासुरम्। वरं ब्रूहि प्रसन्नाः स्मो देवानूचे गयासुरः। यावत् पृथ्वी पर्व्वताश्च यावच्चन्द्रार्कतारकाः। तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः। अन्याश्च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै। पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः। तन्मध्ये सर्व्वतीर्थानि प्रयच्छन्तु हितं नृणाम्। स्नानादितपणं कृत्वा पिण्डदानात् फलादिकम्। सहात्मनि सहस्रञ्च कुलानाञ्चोद्धरेन्नरः। व्यक्ताव्यक्तस्वरूपेण यूयं तिष्ठन्तु सर्वदा। गदाधराद्यस्य लोकात् भूयात् सर्व्वाघनाशनात्। श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते। ब्रह्महत्यादिकं पापं विनश्यतु च सेविनाम्। नैमिषं पुष्करं गङ्गा प्रयागं चाविमुक्तकम्। एतान्यन्यानि तीर्थानि दिवि भुव्यन्तरीक्षतः। समायान्तु सदा नॄणां प्रयच्छन्तु हितं सुराः!। ते देवास्तानि तीर्थानि प्रयच्छन्तु हितं नॄणाम्। पितॄणां ब्रह्मलोकञ्च भुक्तिमुक्तिफलं तथा। एको विष्णु स्त्रिधामूर्त्तिर्यावत् संकीर्त्त्यते बुधैः। तावद्गयासुरक्षेत्रं ख्यातिमेतु सदा भुवि। ब्रह्महत्यादिकं पापं विनाशयतु सेविनाम्। किं बहूक्त्या सुरेशाना! युष्मास्वेकापि देवता। चेन्न तिष्ठेदहं चापि, समयः प्रतिपाल्यताम्। गयासुरवचः श्रुत्वा प्रोचुर्व्विष्ण्वादयः सुराः त्वया यत् प्रार्थितं सर्वं तद्भविष्यत्यसंशयम्। पितॄणां वै कुलशतमात्मानं पिण्डदानतः। श्राद्धादिना नयिष्यन्ति ब्रह्मलोकमनामयम्। अस्मत्पादानर्च्चयित्वा या- स्यन्ति परमां गतिम्। सनत्कुमार उवाच। देवैर्दत्तवरो दैत्यो हर्षितो मिथ्यलोऽभवत्।” ४ अङ्गिरसे मुनिभेदे गर्गशब्दे दृश्यम् अस्य वृषा० आद्युदात्तता।

गयस्फान = पु० स्फायी–वृद्धौ अन्तर्भूतण्यर्थात् ल्युट् नि० यलोपः गयस्य धनस्य स्फानः। धनवर्द्धके। “गयस्फानो अमीवहा वसुवित् पुष्टिवर्द्धनः” ऋ० १०। ९१। ८२। “गयस्फानः धनस्य वर्द्धयिता” भा०। “एधि गयस्फानो गोभिरश्वेभिरिन्द्र!” ऋ० ७। ५४। २।

गया = स्त्री गयो गयासुरः गयनृपो वा कारणत्वेनास्त्यस्य अच्। तीर्थभेदे गयशब्दे तत्कथा उक्ता। वायुपु० गयामा० १ अ० तन्माहात्म्यं यथा

“वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्व्वतारकम्। गयातीर्थं सर्व्वदेशे तीर्थेभ्योऽप्यधिकं शृणु। गयासुर स्तपस्तेपे ब्रह्मणा क्रतवेऽर्थितः। प्राप्तस्य तस्य शिरसि शिलां धर्म्मोह्यधारयत्। तत्र ब्रह्माकरोद्यागं स्थितश्चादिगदाधरः। फल्गुतीर्थादिरूपेण निश्चलार्थमहर्निशम्। गयासुरस्य विप्रेन्द्र! ब्रह्माद्यैर्दैवतैः सह। कृतयज्ञो ददौ ब्रह्मा ब्राह्मणेभ्यो गृहादिकम्। श्वेतकल्पे तु वाराहे गयोयागमकारयत्। गयनाम्ना गयाख्याता क्षेत्रं ब्रह्माभिकाङ्क्षितम्। काङ्क्षन्ति पितरः पुत्रान्नरकाद्भयभीरवः। गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति। गयाप्राप्तं सुतं दृष्ट्वां पितॄणामुत्सवो भवेत्। पद्भ्यामपि जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति?। गयां गत्वान्नदाता यः पितरस्तेन पुत्रिणः। पक्षत्रय निवासी च पुनात्यासप्तमं कुलम्। न चेत् षञ्चदशाहं वा सप्तरात्रं त्रिरात्रकम्। महाकल्पकृतं पापं गयां प्राप्य विनश्यति। पिण्डं दत्त्वा च पित्रादेरात्मनोऽपि तिलैर्विना। ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः। पापं तत्सङ्गजं सर्व्वं गयाश्राद्धाद्विनश्यति। आत्मजोऽप्यन्यजोवापि गयाभूमौ यदा तदा। यन्नाम्ना पातयेत् पिण्डं तन्नयेत् ब्रह्म शाश्वतम्। नामगोत्रे समुच्चार्य्य पिण्डपातनमीक्षते। येन केनापि कस्मैचित् स याति परमां गतिम्। ब्रह्मज्ञानं गयाश्राद्धं गोगृहेमरणं तथा। वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्व्विधा। ब्रह्मज्ञानेन किं साध्यं गोगृहे मरणेन किम्। वासेन किं कुरुक्षेत्रे यदि पुत्रोगयां व्रजेत्। गयायां पर्व्वकालेषु पिण्डं दद्याद्विचक्षणः। अधिमासे जन्मदिने चास्तेऽपि गुरुशुक्रयोः। न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि वृहस्पतौ। तथा दैवप्रमादेन प्रवहत्सु व्रणेषु च। पूबः कर्म्माधिकारी च श्राङ्गकृद्व्रह्मलोकभाक्। प्रीत्या श्राद्धन्तु कर्त्तव्यं सर्वेषां वर्णलिङ्गिनाम्। एवं कुर्व्वन् नरः सम्यक् महतीं श्रियमाप्नुयात्। सकृद् गयाभिगमनं सकृत्पिण्डस्य पातनम्। दुर्ल्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितः। प्रमादान्म्रियते क्षेत्रे ब्रह्माद्यैर्सुक्तिदायके। ब्रह्मज्ञानाद्यथा मुक्तिर्लम्यते नात्र संशयः। कीकटादिमृतानाञ्च पितॄणां तारणाय च। तस्मात् सर्वयत्नेन वस्तव्यं सुविचक्षणैः। ब्रह्मप्रकल्पितान् विप्रान् हव्यकव्यादिनार्च्चयेत्। तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सहदेवताः। मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः। वर्ज्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम्। दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः। दण्डं न्यस्य विष्णुपदे पितृभिः सह मुच्यते। न दण्डी किल्विषं धत्ते पुण्यं वा परमार्थतः। अतः सर्व्वक्रियां त्यक्त्वा विष्णुं ध्यायति भावुकः। संन्यसेत् सर्व्वकर्म्माणि वेदमेकं न संत्यजेत्। मुण्डपृष्ठाच्च पूर्व्वस्मित् पश्चिमे दक्षिणोत्तरे। सार्द्धं क्रोशद्वयं मानं गयेति ब्रह्मणेरितम्। पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः। तन्मध्ये सर्व्वतीर्थानि त्रैलोक्ये यानि सन्ति वै। श्राद्धकृद् यो गयाक्षत्रे पितॄणामनृणोहि सः। शिरसि श्राद्धकृद् यस्तु कुलानां शतमुद्धरेत्। गृहाच्चलित मात्रेण गयाया गमनं प्रति। स्वर्गारोहणसोपानं पितृणाञ्च पदे पदे। पदेपदेऽश्वमेधस्य यत्फलं गच्छतो गयाम्। तत्फलञ्च भवेन्नॄणां समग्रं नात्र संशयः। पायसेनाथ चरुणा सक्तुना पिष्टकेन वा। तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम्। तिलाज्यदधिमध्वादिपिण्डद्रव्येषु योजयेत्। मुष्टिमात्रप्रमणेन आर्द्रामलकमात्रतः। शमीपत्र प्रमाणेन पिण्डं दद्याद्गयाशिरे। उद्धरेत् सप्त गोत्राणि कुलमेकोत्तरं शतम्। तिलकल्केन खण्डेन गुडेन सघृतेन वा। केवलेनैव दध्ना वा दुग्धेन मधुनाथ वा। पिन्याकं सवृतं खण्डं पितृभ्योऽक्षयमित्युत। इष्यतेऽवाप्तितो भोज्यं हविष्यं मनुरब्रवीत्। एकतः सर्व्ववस्तूनि रसवन्ति मधूनि हि। स्मृत्वा गदाधराङ्घ्राब्जंफल्गुतीयाम्बु चैकतः। पिण्डासनं। पण्डदानं पुनः प्रत्यवने जनम। दक्षिणा चान्नसंकल्पस्तीर्थश्राद्धेष्वयं विधिः। गावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः। सकारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः। अन्यत्रावाहिताः काले पितरोयान्त्यमुं प्रति। तीर्थे सदा वसन्त्येते तस्मादावाहनं न हि। तीर्थश्राद्धं प्रयच्छद्भिः पुरुषैः फलकाङ्क्षिभिः। कामं क्रोधं तथा लोभं त्यक्त्वा कार्य्याक्रियाऽनिशम्। ब्रह्मचार्य्येकभोजी च भूशायी सत्यवाक् शुचिः। सर्वभूतहिते रक्तः स तीर्थफलमश्नुते। तीर्थान्थनुसरन् घीरः पाषण्डं दूरतस्त्यजेत्। पाषण्डं तच्च विज्ञेयं यद्भवेत् कामकारतः। तीर्थेषु ये नराधीराः कर्म कुर्वन्धि सद्गताः। यथा ब्रह्मचिदो वेद्यं वस्तुचानन्यचेतसः। प्रविशन्वि परेशाख्यं ब्रह्म ब्रह्मपरायणाः। याऽऽस्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता। सावतीणां गयाक्षत्रे पितॄणां तारणाय वै। स्नातो गोदो वैतरण्यां त्रिःसप्तः कुलमुद्धरेत्। तथाक्षयवटं गत्वा विप्रान् सन्तोषयिष्यति। ब्रह्मप्रकल्पितान् विप्रान् हव्यकव्यादिनार्च्चयेत्। तैस्तुष्टैस्तोषिताः सर्वाः पितृभिः सहदेवताः। गयायां नहि तत्स्थानं यत्र बीर्थं न विद्यते। सान्निध्यं सर्वतीर्थानां गयातीर्थं ततो वरम्। मीनमेषे स्थिते सूर्य्ये कन्यायां कार्मुके घटं। दुर्ल्लभं त्रिषु लोकेषु गयायां पिण्डपातनम्। मकरे वर्त्तमानेऽर्के ग्रहणे चन्द्रसूर्य्ययोः। दुर्ल्लभं त्रिषु लोकेषु गयाश्राद्धं सुदुर्लभम्। गयायां पिण्डदानेन यत् फलं लभते बरः। न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि”। तद्यात्राविधिश्च तत्रैव ६ अ०। “सनत्कुमार उवाच। गयायात्रां प्रवक्ष्यामि शृणु नारद! मुक्तिदाम्। निष्कृतिः पिण्डकर्त्तृणां ब्रह्मणा गीयते पुरा। उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कर्पटिवेशं कृत्वा ग्रामं प्रदक्षिणम्। ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्। ततः प्रतिदिनं गच्छेत् प्रतिग्रह विवर्ज्जितः। प्रतिग्रहादपावृत्तः सन्तुष्टो नियतः शुचिः। अहङ्कारविमुक्तो यः स तीर्थफलमश्रुते। यस्य हस्तौ च पादौ च मनश्चापि सुसंयतः। विद्या तपश्च कीर्त्तिश्च स तीर्थकलमश्रुते। ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी। तत्र तोयं समुत्पाद्य स्नातव्यं निर्मले जले। देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा यथाविधि। स्वस्ववेदशाखोदितमर्ध्यावाहनवर्जितम्। अपरेद्युः शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वतै। ब्रह्रकुण्डे ततः स्नात्वा देवादींस्तर्पयेत् सुधीः। कुर्य्यात् श्राद्धं सपिण्डानां प्रयतः प्रेतपर्वते। प्राचीनावीतिनाभ्यर्च्च्य दक्षिणाभिमुखः स्मरन्। “कव्यवालोनलः सोमो यमश्चैवार्य्यमा तथा। अग्निष्माश्चा बर्हिषदः सोमपाः पिवृदेवताः। आगच्छन्तु महाभागा युष्माभी रक्षिताख्विह”। “मदीयाः पितरोये च कुलेजाताः कुलाह्वयाः। तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम्। ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम्”। आचम्योक्त्वा च पञ्चाङ्गं प्राणायामं प्रयत्नतः। पुनरावृत्तिरहितः ब्रह्मलोकाप्तिहेतवे। एवञ्च विधिवत् श्राद्धं कृत्वा पूर्वं यथाक्रमम्। पितॄनावाह्य चाभ्यर्च्च्य मन्त्रैः पिण्डप्रदोभवेत्। तीर्थ प्रेतशिलादौ च चरुणा सवृतेन वा। प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक् पृथक्। मन्त्रै स्तैरथ संपूज्य पञ्चगव्यैश्च देवताम्। यावत्तिला मनुष्यैश्च गृहीताः पितृकर्म्मसु। गच्छन्ति तावदन्नुराः सिंहत्रस्ता यथा मृगाः। श्रष्टकासु च वृद्धौ च गयायां चाक्षयेऽहनि। मातुः श्राद्धं पृथक् कुर्य्यादन्यत्र पतिना सह। वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्। गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन तत्त्वतः। सक्तुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम्। आव्रह्मस्तम्भपर्य्यन्तं देवर्षिपितृमानवाः। तृप्यन्तु पितरः सर्वे मातृमातामहादयः। अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम्। आ ब्रह्मभुवनात् लोकादिदमस्तु तिलोदकम्। पिता पितामहश्चैव तथैव प्रपितामहः। माता पितामही चैव तथैव प्रपितामही। मातामहस्तत्पिता च प्रमातामहकादयः। तेषां पिण्डो मया दत्तोह्यक्षय्यमुपतिष्ठताम्। मुष्टिमात्रप्रमाणञ्च आर्द्रामलकमात्रकम्। शमीपत्रप्रमाण वा पिण्डं दद्याद्गयाशिरे। उद्धरेत् सप्तगोत्राणां कुलानि शतमुद्धरेत्। पितुर्मातुश्च भार्य्याया भगिन्या दुहितुस्तथा। पितृष्वसुर्मातृष्वसुः सप्त गोत्राः प्रकीर्त्तिताः। विंशतिर्विंशतिरिन्द्राः १४ षोडश द्वादशैव हि। रुद्राश्च ११ वसव ८ श्चैव कुलान्येकोत्तरं शतम्। नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः। सकारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः। पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम्। दक्षिणा चान्नसंकल्पस्तीर्थश्राद्धेष्वयं विधिः”। अधिकं मदीयगयाश्राद्धादिपद्धतौ दृश्यम्। गयाश्राद्धस्य कलादेराधारादिकं गयाश्राद्धादिपद्धतौ अस्माभिर्न्यरूपि यथा “गयाश्राद्धफलं किंनिष्ठमिति, विविच्यते। “यन्नाम्ना पातयेत् पिण्डम्” इत्यादिवचनजातात् पुत्त्रादिकृतश्राद्धात् तदुद्देश्यपित्रादिगतं नरकनिवृत्तिब्रह्मलोकावाप्त्यादिफलमवगम्यते तच्च नोपपद्यते। तथा हि सर्व्वो हि लोकः स्वेष्टसाधने कर्मणि प्रवर्त्तते तत्प्रवृत्त्या च तत्तदिष्टसाधनं वस्तु साधयति इत्येवं नियमे स्थिते वैदिककर्म्मण्यपि तथैव स्वाभीष्टफलवत्येव प्रवृत्तिरुचिता नान्यगामिफले। एवं शास्त्रदेशितं फलमनुष्ठातर्य्येव कर्म्मभिर्ज्जन्यते “शास्त्रीयं फलं प्रयोक्तरि तल्लक्षणत्वादिति” जैमिनीयन्यायात्। अन्यकर्त्तृकक्रिययाऽन्यदीयफलस्य जननेऽतिप्रसङ्गः स्यात्। ततश्च पुत्त्रादिकृतश्राद्धात् कथं पित्रादेरुद्धारादिसम्भवः तस्य श्राद्धाद्यकर्त्तृत्वात् इत्येवं प्राप्ते उच्यते “यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव सः” इत्यादिवेदवचनात् जैमिनीयन्यायस्य जातेष्ट्यादिभिन्नविषयत्वं कल्प्यते। तथा च पित्त्रादिकृतजातेष्ट्यादिद्वारा अन्नाशनादिसंस्कारद्वारा च यथा तत्राऽकर्त्तर्य्यपि पुत्त्रे फलमुत्पद्यते एवं गयादिश्राद्धकर्त्तुरुद्देश्यस्याकर्त्तुरपि उद्धारादिफलसम्बन्धः नानापुराणवचनबलादपि सम्भवति “फलसंयोगस्त्वनोदिते न स्यादशेषभूतत्वादिति” जैमिनीयन्यायान्तरेण विधिविशेषेणैव फलविशेषसम्बन्ध इत्युक्तत्वात्। तथा च प्रागुक्तातिप्रसङ्गस्य शास्त्रातिरिक्तविषयत्वमिति कल्प्यते “नास्ति वचनस्यातिभारः” इति न्यायात् “वाचनिकेऽर्थे न्यायानवतारात्” इति न्यायाच्च। तत्र वचनाच्चोभयगतफलसाधनताऽवगता जातेष्ट्यादिवत्। तच्च फलं पुण्यविशेषस्तज्जन्यनरकाद्युद्धारो वेत्यन्यदेतत्। मीमांसादावेवैतद्विवेचितमित्युपरम्यते। काश्यादिमृतपितृककृतगयाश्राद्धस्य तु कर्त्तर्य्येवाकरणनिबन्धनप्रत्यवायपरिह्रारमात्रं, सति कामे विशिष्टसन्तानश्च फलम् “गयायां पिण्डदानेन पितॄणामनृणो भवेत्” इत्यादिवचने पितॄणापाकरणस्यावश्यकतया तदकरणे प्रत्यवायबोधनात् “गयाभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति। शोचन्ति पितरस्तस्य वृथा तस्य परिश्रमः” इति कूर्मपुराणीयेन समर्थस्य गयाश्राद्धाऽकरणे वृथाजन्मतोक्तेः “जीवतोर्वाक्यकरणात् प्रत्यव्दं भूरिभोजनात्। गयायां पिण्डदानाच्च त्रिभिः पुत्त्रस्य पुत्त्रता” इत्यादिवचने गयाश्राद्धादिकरणेनैव पुत्त्रकार्य्यकारितया पुत्त्रत्वसिद्ध्युक्तेश्च। तेन गयाश्राद्धं नित्यमत एव यथाशक्ति अनुष्ठेयं “नित्ये यथा शक्रुयादिति” न्यायात्। तथापि सकृत्करणमेव नित्यं तावतैव शास्त्रार्थसिद्धेः “सकृत्कृते कृतः शास्त्रार्थ इति” न्यायात् आवृत्तिबोधकवीप्साद्यभावाच्च जन्मतिथ्यादिकृत्यवन्न पुनःपुनः करणावश्यकता। पुनःकरणे तु फला धिक्यम् “यो भूय आरभते तस्य फले विशेषः” इति न्यायात् “सकृद्गयाभिगमनं सकृत्पिण्डप्रपातनम्” इत्यादिवाक्यमप्याद्यस्यैवाबश्यकत्वार्थं न तु द्वितीयादेर्निरासार्थमपि, परिसंख्यापत्तेः। तत्रापि प्रथमयात्रायां येषां प्रेतत्वनिवारणार्थं प्रेतशिलायां पिण्डदानभाण्डस्फोटने कृते तत्र द्वितीययात्रायां तेषां ते न कार्य्ये इत्येव विशेषैः। प्रथमयात्रानन्तरमृतानान्तु द्वितीययात्रायां ते अपि कार्य्ये। अन्यत् सर्व्वं सर्व्वास्वपि यात्रासु समानम्। तस्मादमुक्ते पित्रादौ नरकोद्धारादि यथायथं फलं मुक्ते तु तस्मिन् पुत्त्रादेः प्रत्यवायाभावः सत्याञ्च कामनायां विशिष्टसन्तानादि पुत्त्रादिगतं फलं भवतीति सिद्धम्। अत्रेदं विविच्यते प्रागुक्तपुराणादिबचनेषु गयाश्राद्धस्य पित्राद्युद्धारः प्रत्यवायपरिहारः पुत्त्रावाप्तिश्च फलत्वेन श्रूयते तत्र गयाश्राद्धप्रवृत्तौ किं प्रयोजकं किमेकैकमुभयं वा त्रितयं वेति सन्देहे त्रितयस्यैवप्रयोजकता तत्र कामनाभेदादेकस्य मुख्यफलताऽपरयोर्द्वारता प्रासङ्गिकता वा तथा च यदा पित्राद्युद्धरार्थिना गयाश्राद्धं क्रियते तदा तदेव मुख्यं फलं तत्प्रवृत्तौ प्रयोजकं, प्रत्यवायपरिहारः पुत्त्रोत्पत्तिश्च तत्र प्रासङ्गिकौ अन्थार्थदीपस्यानुद्देश्यप्रकाशनवत्। यदा तु पुत्रार्थिना तदनुष्टीयते तदा पुत्त्रोत्प्रत्तिरेव मुख्यं फलं पित्राद्युद्धारस्तु तत्र द्वारमित्येव सिद्धान्तः। एवं पित्राद्युद्धारस्य फलत्वे स्थितेऽधुना तत्रेदं विचार्य्यते। उद्धारो नाम स्वापेक्षयोत्कृष्टस्थानादिनयनं तच्च प्रकृते नारकीयदेहविगमानन्तरं देवाददेहप्रापिणरूपं तच्च न सम्भवति नारकीयादिदेहादेः स्वस्वकर्म्मणारब्धतया कारणसत्त्वे विगमासम्भवात् तत्कर्म्मणां च भोगेनैव नाश्यत्वात् “नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपीति” आगमात्। ततश्च तद्देहनाशः स्वारम्भककर्म्मनाश एव नान्यथा। तथा च गयाश्राद्धादिना कथमुद्धारसम्भवः। प्रारब्धकर्म्मणाञ्च भोगादेव क्षये सति गयाश्राद्धेनोद्धारो जननीय इति कल्पनापि न युक्ता भोगादेव कर्म्मक्षये कल्प्ये गयाश्राद्धवैफल्यापत्तेः। इत्येवं स्थिते उच्यते कर्म्मविपाकोक्तदानादिना प्रारब्धकर्म्मक्षयद्वारा यथा रोगनाशकल्पना तथा प्रकृतेऽपि गयाश्राद्धादिना प्रारब्ध- क्षयनाशद्वारैव उद्धारकल्पना “नाभुक्तं क्षीयते” इत्यादिवाक्यस्य तु बलवद्वाक्यस्यैव प्रतिबन्धकस्य सत्त्वेनाप्रवृत्तेः “न हि वचनस्यातिभारः इति” न्यायात् तथा च गयाश्राद्धस्यैव प्रारब्धक्षयजनकपुण्यविशेषजनकता कर्म्मविपाकोक्तदानादिवदेव कल्प्यते इति न कश्चिद्विरोधः। किञ्च भोगादेव प्रारब्धकर्म्म क्षयादनन्तरमुद्धारकल्पनेऽपि न गयाश्राद्धवैफल्यं पापविशेषैरेकैकयोनिष्वनेकावृत्तिश्रवणात् फलोन्मुखानामितरेषामनारब्धफलार्ना कर्म्मणाञ्च गयाश्राद्धनाश्यता भविष्यतोति। असति च नारकीयाङ्गाद्यारम्भके पापे उद्धारस्य ब्रह्मलाकावाप्तिरूपतैव। स्वकर्म्मानुसारेण तल्लोकप्राप्तेरपि पूर्ब्बं वृत्तत्वे तु पुत्त्रनिष्ठः प्रत्यवायपरिहार एव फलं मुक्तपित्रादौ तथाकल्पनस्य पूर्व्वमुक्तत्वात् तथैवात्र कल्पनौचित्यात्।

अथ गयाश्राद्धाधिकारिणः। तत्र पुत्त्रपौत्त्रप्रपौत्त्रा एव प्रधानाधिकारिणः। तद्भिन्नाः सर्वेऽपि गौणाधिकारिणः। तथा “पुत्त्रेषु विद्यमानेषु नान्यो वै कारयेत् स्वधाम्” इत्यादिवचनेन पुत्रसत्त्वेऽन्यकर्त्तृकश्राद्धस्य निषेधेऽपि गयायां तस्य प्रतिप्रसवः, “आत्मजो वाऽन्यजो वापि गयाकूपे यदा तदा। यन्नाम्ना पातयेत् पिण्डं तं नयेद् ब्रह्म शाश्वतम्” इति वायवीयवचनात् “सवर्णा ज्ञातयो मित्रवान्धवाः सुहृदस्तथा। तेऽपि भूयो गयां गत्वा पिण्डं दद्युर्विधानतः” इति स्मृतिरत्नावलीधृतवाक्याच्च। तथा चात्र सम्बन्धिमात्राणामधिकारः। यो यदीयधनं यथा कथञ्चिद्गृह्लाति सोऽसवर्णोऽपि तदीयगयाश्राद्धेऽधिकारी, “प्रेतं किञ्चिद्विशुद्ध्यर्थम्” इत्यादि वायवीयवचनेऽसवर्णवणिग्दत्तपिण्डेन प्रेतोद्धारस्य कीर्त्तनात् पुत्रो वा बन्धुपुत्त्रों वा मित्रं वा स्वजनोऽपि वा। ऋणिको वाथवा दद्याद् द्वयोः स्वर्गस्तदा तयोरिति” वह्निपुराणीयाच्च। तथान्यत्र कर्त्तृविशेषविषयनिषेधोऽपि गयायां न प्रवर्त्तते “न पुत्त्रेभ्यः पिता दद्यान्नानुजेभ्यस्तदाग्रजः। न पत्न्यै तु वतिर्द्दद्द्यात् बुद्धिमान् सुसमाहितः” इति च सामान्यतो निषिध्य “तेऽपि यान्ति दिवं सर्वे पिण्डे दत्ते इति श्रुतिः। अतस्तेभ्योऽत्र यत्नेन पिण्डं दद्यात् समाहितः” इति स्मृतिरत्नाबल्यां गयायां प्रतिप्रसवात् बौधायनेनापि “पित्रा श्राद्धं न कर्त्तव्यं पुत्त्राणान्तु कदाचन। भ्रात्राग्रजेन वा कार्य्यं भ्रातॄणां न कनीयसाम्। अतिस्नेहेन कार्य्यऽवा सपिण्डीकरणं विना। गयायामविशेषेण ज्यायानपि समा- चरेदिति सामान्यतो निषिध्य गयायां प्रतिप्रसवाच्च। पूर्ब्बवचने अत्रेति गयायामित्यर्थः।

अथ गयाश्राद्धानधिकारिणः। जीवत्पितृको जीवन्मातृकश्च गयाश्राद्धे सर्वथानधिकारी। जीवत्पितृको मृतमातृकस्तु यदि प्रसङ्गेन गयां प्राप्नोति तदा अन्वष्टकाश्राद्धमिव मातृपार्वणमेव कुर्य्यात् “आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च क्षयाहनि। मातुः श्राद्धं सुतः कुर्य्यात् पितर्य्यपि च जीवति” इति मैत्रायणीयपरिशिष्टवाक्यात्। अत्र प्राप्तावित्युक्त्या प्रासङ्गिकगमनं सूचितम् “गयां प्रसङ्गतो गत्वा मातृश्राद्धं समाचरेदिति त्रिस्थलीसेतुधृतवचने प्रसङ्गत इति पदस्य स्पष्टोपादानस्वरसात्। तेन जीवत्पितृकस्य गयामुद्दिश्य गमने न मातृश्राद्धकरणम्। मातृश्राद्धञ्चान्वष्टकाश्राद्धसाहचर्य्यात् पार्वणमेव कार्यमिति त्रिस्थलीसेतुप्रभृतयः। अन्ये तु जीवन्मातृको मृतमातृको वा जीवत्पितृकोऽपि पार्व्वणविधिना पितामहादीनां गयाश्राद्धं कुर्य्यात् जीवे पितरि वै पुत्रः श्राद्धकार्य्यं विवर्ज्जयेत्। येषां वापि पिता दद्यात्तेषामेके प्रचक्षते” इति हारीतवनोत्तरार्द्धेन जीवत्पितृकपार्वणस्य विधानेन गयायामपि तत्प्रवृत्तेरित्याहुः। आचार एवात्रान्यतरपक्षग्रहणे शरणम्।

संन्यासिनस्तु सर्वकर्मपरित्यागितया गयाश्राद्धेऽनधिकारिणः। तथापि तत्र विष्णुपदादिश्राद्धस्थानेषु दण्डमात्रस्पर्शनं प्रणवोपासनादिवत् तैराचरणीयं न तु श्राद्धतर्पणादि “दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः। दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते” इति वायवीयात् स्पृष्ट्वा स्पर्शयित्वेत्यर्थः। पुत्त्रवत्याः स्त्रिया नाधिकार इति गौडैकदेशिनामाचारः स तु मूलाभावान्नादरणीयः।

अथ गयाश्राद्धकालः। न तत्र कालशुद्ध्यपेक्षा “गयायां सर्वकालेषु पिण्डं दद्यात् विचक्षणः। अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः। न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च वृहस्पताविति” वायवीयात्। अत्र सर्वकालेष्वित्युपक्रमात् अस्ते इत्याद्युक्तिस्तु सर्वसमयाशुद्धिप्रयोजकनिमित्तमात्रोपलक्षणार्था न तु रात्र्याद्रिपर्य्युदस्तकालग्रहणार्थेति बोध्यं सर्वत्र तीर्थादौ रात्र्यादिकालस्य पर्य्युदस्ततया रघुनन्दनादिभिः स्वीकारात्। संक्रान्त्यादो तु फलातिशत्यः “गयाश्राद्धं प्रकुर्वीत संक्रान्त्यादौ विशेषतः। काले वाऽपरपक्षे वा चतुर्थ्यादितिथिष्वपीति” वह्निपुराणीयात् “मकरे वर्त्तमानेऽर्के ग्रहणे चन्द्रसूर्य्ययोः। दुर्ल्लभं त्रिषु लोकेषु गयायां पिण्डपातनमिति” वायुपुराणवाक्याच्च। तथान्येऽपि निषिद्धकाला गयायां प्रतिप्रसूताः। यथा “विवाहव्रतचूडासु वर्षमर्द्धं तदर्द्धकम्। पिण्डदानं मृदा स्नानं न कुर्य्यात्तिलतर्पणमिति” कार्ष्णाजिनिवचनेन, “वृद्धिमात्रे तथान्यत्र पिण्डदाननिराक्रिया। कृता गर्गादिभिर्मुख्यैर्म्मासमेकन्तु कर्मिणामिति” स्मृतिसंग्रहवाक्येन च विवाहादेरूर्द्धं वर्षादिकालपर्य्यन्तं पिण्डदानस्य निषेधेऽपि “महालये गयाश्राद्धे मातापित्रोर्मृताहनि। कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः” इति, “पित्रोः क्षयाहे यज्ञे च पितृयज्ञे महालये। गयायां पिण्डदानस्य न कदाचिन्निराक्रियेति” च त्रिस्थलीसेतुधृतस्मृति संग्रहवाक्याच्च तत्प्रतिप्रसवः। तथा तत्र तिलतर्पणनिषेधाभावोऽपि “उपरागे व्यतीपाते गयायामथ पर्वणि। आदित्यादिनिषेधेऽपि कर्त्तव्यं तिलतर्पणमिति” स्मृतिदर्पणधृतसंग्रहवाक्यात्।

अथ गयाश्राद्धे निषिद्धकालः। “तीर्थश्राद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम्। अवदमध्ये न कुर्वीत महागुरुनिपातने” इति गारुडात् प्रमीतमहागुरुकस्य वर्षमात्रं गयाश्राद्धं निषिद्धम्। तत्रायं विशेषः वृद्ध्यादिनिमित्तकसपिण्डीकरणे तु कर्तुं शक्यत एव “अस्थिक्षेपं गयाश्राद्धं श्राद्धञ्चापरपक्षिकम्। अव्दमध्ये न कुर्व्वीत सपिण्डीकरणं विना” इति गारुडवाक्यान्तरात्। अत्राप्यपरोविशेषः यदि पितृभक्तिमान् तदाव्दमध्येऽपि गयाश्राद्धं कर्त्तुं शक्नोति “अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपक्षिकम्। प्रथमाव्देऽपि कुर्वीत यदि स्याद्भक्तिमान् सुतः”। इति त्रिस्थलीसेतुधृतवचनात्। अत्र भक्तिः प्रीतिरिति बहवः। अन्ये तु अव्दमध्ये प्रेतस्य देवतात्वयोग्यतासिद्धये देवतासंस्कारकमेकं पार्वणं कर्त्तव्यं तदेव भक्तिपदाभिधेयं तच्च कृत्वा गयाश्राद्धं कुर्य्यादित्याहुः। भक्त्या वर्षमध्ये गयाश्राद्धकरणे तु वृद्धाबिव मासिकादीन्यपकृष्य कार्य्याणीति बोध्यम्। अत्रेयं सम्प्रदायानुसारिणी व्यवस्था अकृतसपिण्डनस्य प्रथमाव्दे गयाश्राद्धं नैव कार्य्यं कृतसपिण्डनस्यापि सति सम्भवे प्रथममाव्दे नैव कार्य्यमित्येव मुख्यः पक्षः प्रसङ्गतो गयाप्राप्तौ पुनरागमनाद्यसम्भावनायान्तु भक्त्या, मतान्तरोक्तं श्राद्धं कृत्वा वा। प्रथमाव्देऽपि तत् कार्य्यं नित्य- त्वादिति। महापातकिनामपि वर्षमात्रं गयाश्राद्धं न कार्य्यम् “क्रियते पतितानां च गते संवत्सरे क्वचित्। देशधर्मप्रमाणत्वाद्गयाकूपे स्वबन्धुभिरिति” ब्राह्मात् कूपग्रहणं गयास्थतीर्थमात्रोपलक्षणम्। पतितानामिति यावद्दुर्मरणमृतानासुपलक्षणार्थं ते च विस्तरभया न्नात्र लिखिताः। पुक्तञ्चैतत् मिताक्षरायां यावद्दुर्निनित्तमृतानां संवत्सरादूर्द्धमेव नारायणबलिविधानपूर्ब्बकं श्राद्धकरणस्योक्तत्रया गयाश्राद्धस्यापि तत्स्त्यानीयत्वेन तत्काले एव करणौचित्यम्। अतएव तद्धृतषट्त्रिंशन्मतीयवाक्यम् “गोब्राह्मणमृतानाञ्च पतितानां तथैव च। ऊर्द्ध्वं संवत्सरात् कार्य्यं सर्वमेबौर्द्धदेहिकमिति”। अत्र सर्वमिति सर्वशब्दस्वरसात् नारायणबलेरिव गयाश्राद्धादेरपि वर्षोत्तरमेव कर्त्तव्यता नार्वानिति प्रतीयते। अतएव तद्वचनव्याख्यायां मिताक्षराकृता नारायणबलिं कृत्वौर्द्धदेहिकं कार्य्यनित्युक्तम्। एबञ्चात्मघातिनाम् “नास्ति किञ्चिद्गयां विना” इत्युक्तिरपि वर्षोत्तरमेव तत्कर्त्तव्यतार्थैवेति बोध्यम्। अथ कर्त्तृविशेषे गयाश्राद्धविशेषः। तत्र “पितॄणां दत्तगक्षयमिति”, “पिण्डं दद्याच्च पित्रादेरिति” च वायबीयात् पित्रादित्रयाणामुद्देश्यता। “पितरो यत्र पूज्यन्ते तत्र मातामहादयः” इत्युक्तेः, गयासुपक्रम्यं “मातामहानामप्येवं श्रुतिरेषा सनातनीति” पाद्मसृष्टिखण्डवचनाच्च, मातामहादीनामप्युद्देश्यतेत्येवं षड्दैवतं पार्व्वणमिति गौडीयाः। “अत्वष्टकायां वृद्धौ च गयायाञ्च मृताहनि। अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह” इति वाय्वग्निपुराणोक्तेः “नान्दीमुखेऽन्वष्टकायां गयायाञ्च मृताहनि। पितामह्यादिभिः सार्द्धं मातुः श्राद्धं समाचरेत्” इति शातातपोक्तेश्च मात्रादीनामप्युद्देश्यता तेन नवदैवत्यम्। तत्राप्ययं विशेषः। नान्दीमुखे असामवेदिनामेव नवदैवतपार्वणस्य विधानेन तत्साहचर्य्यात् तद्वेदिनामेव नवदैवत्यमिति। “पित्रादि नवदैवं वा तथा द्वादशदेवतम्” वह्निपुराणीयात् मातामह्यादित्रिकसहितं नवदैवतमिति द्वादशदैवतं वा। तत्र वाशब्दश्रवणात् विकल्प एव गम्यते स च देशभेदादिना व्यवस्थितः। पितृव्यादीनान्तु एकोद्दिष्टमेव तदशक्तौ पिण्डदानमात्रं कार्य्यम्। तत्पत्नीनामपि पृथगेकैकोद्दिष्टादि कार्य्यम् “न योषिद्भ्यः पृथग्दद्यात्” इत्यादिना पृथग्दाननिषेधेऽपि “स्वगोत्रे परगोत्रे वा दम्पत्योः पिण्डपातनम्। अपृथक् निष्फलं श्राद्धं पिण्डञ्चोदक- तर्पणम्” इति वायवीये गयामुपक्रम्य सहदाननिषेधेन तत्प्रतिप्रसवात्।” गयाकूप गयास्थकूपभेदे पुं० गयाक्षेत्र न० गयारूपे क्षेत्रभेदे गयातीर्थ तद्रूपे तीर्थे न०। गयादित्य पु० तत्रत्यादित्यभेदे गयाशिरस् न० गयास्थे गयशिरसि। “सर्वे सान्ता अदन्ताश्च” इत्युक्तेः गयाशिरमप्यत्र न० “पिण्डं दद्यात् गयाशिरे” वायुपु०। गयाशीर्षगयाशेखरादयोऽप्यत्र। ६ गन्तव्ये। “स्वरोऽसि गयोऽसि” ता० ब्रा०। “गयः फलाकाङ्क्षिमिर्गन्तव्यः” भा०।

गर = त्रि० गीर्य्यते गॄ–कर्म्मादौ पचादि० अच्। तत्र गणे गरट् इति पाठात् टित्त्वात् स्त्रियां ङीप्। १ गीर्य्यमाणे २ उपविषे ३ रोगे ४ विषे च पु० हेमच०। “गरो गिरः पल्लननार्थलाथवे मितञ्च सारञ्च वचो हि वाग्मिता” नैष०। “स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः। यस्मै प्रयच्छन्त्यरयो गरांश्च” सुश्रुतः। “विषनिमित्तस्तु गरोपयोगाद्दुष्टतोयसवनात्” सुश्रुतः विषभक्षणजातश्वयथुकरणोक्तौ “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः” स्मृतिः। ५ विषभेदे न० हेमच० “तस्मादिदं गरं भुञ्जे” भाग० ८। ७। ३३ श्लो०। ६ वत्सनाभाख्ये विषे राजनि० बवादिषु पञ्चमे तिथ्यर्द्धरूपे ७ करणं न० मेदि०। करणशब्दे विवृतिः। “गरोदूष्ये” पा० गणसूत्रोक्ते ८ दुष्ये च तस्य उञ्छादि० अन्तोदात्तता। भावे अप्। ९ निगरणे पु०। ततः तार० इतच्। गरित सञ्जातगरणे। गीर्य्यते कर्म्मणि अप्। १० भक्ष्ये चूर्णभेदे “शृणु मन्दविषेषु” इत्युपक्रमे “योगैर्नानाविधैर्येषां चूर्णानि गरमादिशेत्” सुश्रुतः। करणशब्दे अनुक्तत्वात् प्रसङ्गात् करणाधीशाः कृत्यभेदे तेषां ग्रहणादिकं च वृ० ह्व० ९९ अ० उक्तं प्रदर्श्यते यथा।

“ववबालवकौलवतैतिलाख्यगरबणिग्विष्टिसञ्ज्ञानाम्। पतयः स्युरिन्द्रकमलजमित्रयमभूश्रियः सयमाः। कृष्णवतुर्द्दश्यर्धाद्ध्रुवाणि शकुनिश्चतुष्पदं नागम्। किन्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः। कुर्याद्ववे शुभचरस्थिरपौष्टिकानि, धर्मक्रिया द्विजहितानि च सालवाख्ये। सम्प्रीतिमित्रकरणानि च कौलवे स्युः सौभाग्यसंग्रहगृहाणि च तैतिलाख्ये। कृषिवीजगृहाश्रयजानिं गरें बणिजि ध्रुवकार्य्ययणिग्युतयः। नहि विष्टिकृतं विदधाति शुभं षरघात विषादिषु सिद्धीकरणम्। कार्य्यं पौष्टिकमौषधादि शकुनौ गूढानि मन्त्रास्तथा। गोकार्यादि चतुष्पदे द्विजपितॄनुद्दिश्यः राज्यानि च। नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्म्माण्यतः। किन्तुघ्ने शुभमिष्टकृत्यकरणं मङ्गल्यसिद्धिक्रियाः।”

गरघ्न = पु० गरं हन्ति हन–टक्। १ कृष्णार्जके २ वर्वरे च राजनि०। (गरुइ) ३ मत्स्यभेदे स्त्री ङीप्। भावप्र० तद्गुणा उक्ता यथा “गरघ्नी मधुरा तिक्ता तुवरा वातपित्तनुत्। कफघ्नी रुचिकृद्रुग्घ्नी दीपनो वलवीर्य्यकृत्”।

गरण = न० गृ–सेचने गॄ–निगरणे वा भावे ल्युट्। १ सेचने २ भक्षणे च। “गरुत्मान् गरणवान्” निरुक्तौ ६। १८। ३ विषे शब्दचि०।

गरद = न० गरेण सेचनेन दीयते खण्ड्यते दो–खण्डने कर्मणि वञर्थे क। १ विषे हेम० दा–क ६ त०। २ विषदातरि त्रि० “अग्निदो गरदश्चैव” स्मृतिः।

गरभ = पु० गॄ–बा० अभच्। गर्भे हेमच०।

गरल = न० गिरति जीवनम् गॄ–अलच् गरं सेचनं लाति प्रतीकाराय ला–क वा। १ विषे अमरः। “स्मरगरलखण्डनं मम शिरसि मण्डनम्”। “गरलमिव कलयति मलयसमीरम्” गीतगो० “संछादितं गरलमिवाशनेन” भा० व० ६७ अ०। २ तृणपुले (घासेर आटि) ३ सर्पविषे ४ मानभेदे च हेमच०।

गरलारि = पु० ६ त०। मरकतमणौ राजनि०।

गरव्रत = पुंस्त्री गरः विषवद्सर्पभोजनं व्रतमस्य। मयूरे शब्दरत्ना०।

गरस् = न० गॄ–बा० असुन्। १ भक्षणे। “सगरा असि बुध्न्यः” ता० ब्रा०। “गरसा मक्षणेन सह वर्त्तमानः” भा०।

गरहन् = पु० गरं हन्ति हन्–विच्। १ कृष्णार्जके २ वर्वरे च त्रिका०।

गरा = स्त्री गृ–गॄ–वा अच् अजादेराकृतिगणत्वात् टाप्। १ देवतालीवृक्षे राजनि०। भावे–अ। २ भक्षणे धरणी।

गरागरी = स्त्री गरं मूषिकविषमागिरति गॄ–अच् गौरा० ङीष्। देवतालीवृक्षे अमरः।

गरात्मक = न० गरस्य विषस्येवात्मा यस्य। शिग्रुवीजे शब्दच०।

गराथिका = स्त्री गरे गरप्रतीकारेऽधिका श्रेष्ठा। लाक्षयाम् रत्नमा०। गरायिकेति पाठान्तरे गर इवाचरति क्यच्ण्वुल्। तत्रार्थे।

गरि = (गिरुं करोतीत्यर्थे णिच्गुरोर्गरादेशः) गुरुकरणे अक० उभ० मेट् गरयति अजगरत् त।

गरिमन् = पु० गुरोर्भावः इमनिच् गरादेशः। अधःपतनसाधने ऊर्द्धस्थितिविरोधिनि गुरुत्वरूपे गुणे। “पादाहतं यत् सदृशं गरिम्णः”। “इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुताम्” माघः। “प्रोद्यद्राजफलो गृहीतगरिमा विष्वग्वृतोभोगिभिः” सा० द०।

गरिष्ठ = त्रि० अतिशयेन गुरुः गुरु + इष्ठन् गरादेशः। १ अतिगुरौ। २ राजभेदे पु० “हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः” भा० स० ७ अ० शक्रसभ्योक्तौ। ३ दैत्यभेदे पु०। “हविष्यश्च गरिष्ठश्च प्रलयो नरकः पृथुः” हरिवं० २६३ अ० दैत्योक्तौ।

गरी = स्त्री गॄ–गचाद्यच् तत्र गणे गरट् इति पाठात् ङीप्। देवतालीवृक्षे अमरः गरागरीत्यत्र पदद्वयमित्यन्यमतात्।

गरीयस् = त्रि० अतिशयेन गुरुः गुरु + ईयसुन् गरादेशः। अतिगुरौ “सखा गरीयान् शत्रुश्च” “वाक्यस्यार्थगरीयसः” माघः। स्त्रियां ङीप्। “तथापि शुश्रूषुरहं गरीयसीः” माघः।

गरुड = पु० गरुद्भां डयते डी–ड पृषो० तलोपः। कश्यपान्मजे विनतागर्भजाते १ पक्षिराजे अमरः। “विनतापि सुसिद्धार्था वभूव मुदिता तदा। जनयामास पुत्रौ {??}रुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः। पतत्त्रिणान्तु गरुड इन्द्रत्वेनाभ्यषिच्यत” भा० आ० ३१ अ०। विंशतिविधप्रासादमध्ये २ प्रासादभेदे। “गरुडाकृतिश्च गरुडो नन्दीति षट्चतुष्कविस्तीर्णः। कार्य्यश्च सप्तभौमो विभूषितोऽण्डैश्च विंशत्या” वृ० स० ५६ अ० ३ सैन्यनिवेशनभेदरूपे व्यूहभेदे। दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा। वराहमकराभ्यां वा सूच्या वा गरुडेन वा” मनुः। “सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः एष एव पृथुतरमध्यो गरुडव्यूहः ताभ्यां पार्श्वयोर्भये सति व्रजेत्” कुल्लू०।

गरुडध्वज = पु० गरुडो ध्वजोऽस्य। १ विष्णो अमरः। यथा च तस्य तत्केतनत्वं तथा खगासनशब्दे पृ० २४१६ दृश्यम्। गरुडकेतनादयोऽप्यत्र। “पयांसि भक्त्या गरुडध्वजंस्य” माघः। “महाक्षो गरुडध्वजः” विष्णुसं०।

गरुडपुराण = न० गरुडायोक्तं विष्णुना पुराणम्। अष्टादशमहापुराणान्तर्गते सप्तदशे महापुराणभेदे। गरुडस्येदम् उद्देश्यतया अण् गारुणमप्यत्र। तत्संख्याप्रतिपाद्यविषयाश्च उत्तरख० १०८ अ० नारदीयपुराणोक्ताः यथा

“ब्रह्मोवाच। मरीचे! शृणु वच्म्यद्य पुराणं गारुडं शुभम्। गरुडायाव्रवीत् पृष्टो भगबान् गरुडा- सनः। एकोनविंशसाहस्रं तार्क्ष्यकल्पकथाचितम्”। तत्र पूर्वखण्डे। “पुराणोपक्रमो यत्र सर्गः सङ्क्षेपत स्ततः। सूर्य्यादिपूजनविधिर्दीक्षाविधिरतः परम्। श्र्यादिपूजा ततः पश्चान्नवव्यूहार्च्चनं द्विज!। पूजाविधानञ्च वैष्णवं तथा पञ्जरं ततः। योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्त्तनम्। ध्यानं विष्णोस्ततः सूर्य्यपूजा मृत्युञ्जयार्च्चनम्। मालामन्त्राः शिवार्च्चाऽथ गणपूजा ततः परम्। गोपालपूजा त्रैलोक्यमोहनं श्रीधरार्च्चनम्। विष्ण्वर्च्चा पञ्चतत्त्वार्च्चा चक्रार्च्चा देवपूजनम्। न्यासादिसन्ध्योपास्तिश्च दुर्गार्च्चाऽथ सुरार्च्चनम्। पूजा माहेश्वरी चातः पवित्रारोहणार्च्चनम्। मूर्त्तिध्यानं वास्तुमानं प्रासादानाञ्च लक्षणम्। प्रतिष्ठा सर्वदेवानां पृथक् पूजा विधानतः। योगोऽष्टाङ्गो दानधर्मः प्रायश्चित्तविधिक्रिया। द्वीपेशनरकाख्यानं सूर्य्यव्यूहश्च ज्यौतिषम्। सामुद्रिकं स्वरज्ञानं नवरत्न परीक्षणम्। माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम्। ततो मन्वन्तराख्यानं पृथक् पृथग् विभागशः। पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम्। श्राद्धं विनायकस्यार्च्चा ग्रहयज्ञस्तथाऽऽश्रमाः। मलहाख्या प्रेता शौचं नीतिसारो व्रतोक्तयः। सूर्य्यवंशः सोमवंशोऽवतारकथनं हरेः। रामायणं हरिवंशो भारता ख्यानकन्ततः। आयुर्वेदे निदानं प्राक्चिकित्सा द्रव्यजा गुणाः। रोगघ्नं कवचं विष्णोर्गारुडस्त्रैपुरो मनुः। प्रश्नचूडामणिश्चान्ते हयायुर्वेदकीर्त्तनम्। ओषधीनामकथनं ततोव्याकरणोहनम्। छन्दःशास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः। तर्पणं वैश्वदेवञ्च सन्ध्या पार्वणकर्म च। नित्यश्राद्धं सपिण्डाख्यं धर्मसारोऽघ निष्कृतिः। प्रतिसंक्रम उक्तोऽस्माद्युगधर्माः कृतेः फलम्। योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः। माहात्म्यं वैष्णवञ्चाथ नारसिंहस्तवोत्तमम्। ज्ञानामृतं गुह्याष्टकं स्तोत्रं विष्ण्वर्च्चनाह्वयम्। वेदान्तसाङ्ख्यसिद्धान्तं ब्रह्मज्ञानात्मकं तथा। गीतासारः फलोत्कीर्त्तिः पूर्वखण्डोऽयमीरितः”। उत्तरखण्डे प्रेतकल्पे। “अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः। यत्र तार्क्ष्येण संपृष्टो भगवानाह वाडव!। धर्मप्रकटनं पूर्वयोनीनां गतिकारणम्। दानादिकं फलञ्चापि प्रोक्त मत्रौर्द्ध्वदहिकम्। यमलोकस्य मार्गस्य वर्णनञ्च ततः परम्। षोडशश्राद्धफलकं वृत्तानाञ्चात्र वर्णितम्। निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम्। प्रेतपीडाविनिर्द्देशः प्रेतचिह्ननिरूपणम्। प्रेतानां चरिताख्यानं कारणम् प्रेततां प्रति। प्रेतकृत्यविचारश्च सपिण्डी करणोक्त यः। प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये। आवश्यकोत्तनं दानं प्रेतसौख्यकरं हितम्। शारीरकविनिर्द्देशो यमलोकस्य वर्णनम्। प्रेतत्वोद्धारकथनं कर्म कर्त्तृविनिर्णयः। मृत्योः पूर्वक्रियाख्यानं पश्चात् कर्म निरूपणम्। मध्यं षोडशकं श्राद्धं स्वर्गप्राप्तिक्रियोहनम्। सूतकस्याथ सङ्ख्यानं नारायणबलिक्रिया। वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम्। अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम्। कृत्या कृत्यविचारश्च विष्णुध्यानं विमुक्तये। स्वर्गतौ विहिताख्यानम् स्वर्गसौख्यनिरूपणम्। भूर्लोकवर्णनञ्चैव सप्तधा लोकवर्णनम्। पञ्चोर्द्धलोककथनं ब्रह्माण्डस्थितिकीर्त्तनम्। ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम्। आत्यन्तिकलयाख्यानं फलस्तुतिनिरूपणम्। इत्ये तद्गारुडं नाम पुराणं भुक्तिमुक्तिदम्”। तत्फलश्रुतिः। “कीर्त्तितं पापशमनं पठतां शृण्वतां नृणाम्। लिखित्वैतत्पुराणन्तु विषुवे यः प्रयच्छति। सौवर्णं हंसयुग्माढ्यं विप्राय स दिवं व्रजेत्”।

गरुडमन्त्र = पु० ६ त०। “संवर्त्तको नेत्रयुतः पार्श्वस्तारोऽग्निसुन्दरी। (क्षिप ओ~ स्वाहा)। गारुडो मनुराख्यातो विषद्वयविनाशनः। स्मरन् गरुडमात्मानं मन्त्रमेनं जपेन्नरः। विषमालोचनेनैव हन्यान्नागभयं कुतः” तन्त्रसारे निबन्धोक्ते विषहारके मन्त्रभेदे।

गरुडमुद्रा = स्त्री “हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठके। मिथस्तर्जनिके श्लिष्टे श्लिंष्टावङ्गुष्ठकौ तथा। मध्यमानामिकाग्रे तु द्वौ पक्षाविव चालयेत्। एषा गरुडमुद्रा स्याद्विष्णोः सन्तोषवर्द्धिनी” तन्त्रसारोक्ते विष्णुपूजाङ्गे मुद्राभेदे।

गरुडरुत = न० “गरुडरुतं नजौ भजतगा यदा स्युस्तदा” छन्दो० उक्तलक्षणे षोडशाक्षरपादके छन्दोभेदे ६ त०। गरुडस्य २ रवे च “अमरमयूरमानसमुदे गरुडरुतं सुरारिभुजगेन्द्रसन्त्रासने” छन्दोम०।

गरुडवेगा = स्त्री गरुडस्य वेग इव वेगो गमने यस्या। शीघ्रोत्पद्यमानलताभेदे। “वीरुधयो वाराही ज्योतिष्मती च गरुडवेगा” वृ० सं० ५४ अ०।

गरुडव्यूह = पु० गरुड इवाकृत्या व्यूहः। सैन्यनिषेशन- विशेषंण गरुडाकृतौ व्यूहभेदे गरुडशब्दे दृश्यम्।

गरुडाग्रज = पु० ६ त०। विनतायाः ज्येष्ठपुत्रे सूर्य्यसारथौ १ अरुणे। अमरः। तस्य गरुडाग्रजत्वकथा गरुडशब्दे दृश्या। “विभिन्नवर्ण्णा गरुडाग्रजेन” माघः।

गरुडाङ्कित = न० गरुड इवाङ्कितं तुल्यवर्ण्णत्वात्। १ मरकतमणौ शब्दरत्ना०। गरुडाङ्कादयोऽप्यत्र।

गरुडाश्मन् = पु० गरुड इवाश्मा समानवर्ण्णत्वात्। मरकतमणौ जटाधरः।

गरुडासन = न० “गरुडासनमावक्ष्ये येन ध्यानस्थिरो भुवि। सर्वदोषाद्विनिर्मुक्तो भवतीह महाबली। एकपादमूरौ बद्ध्वा एकपादे च दण्डवत्। जङ्घापादसन्धिदेशे जान्वोरग्रं व्यवस्थितम्। एतदासनमाकृत्य पृष्ठे संहारमुद्रया। आधार्य्य योगनाथञ्च स दास ईश्वरस्य च” रुद्रयामलोक्ते आसनभेदे।

गरुडोत्तीर्ण्ण = पु० गरुडो वर्ण्णेनोत्तीर्णः अतिक्रान्तो येन। मरकतमणौ राजनि०।

गरुडोपनिषद् = स्त्री अथर्ववेदान्तर्गते गारुडाख्योपनिषद्भेदे। उपनिषच्छब्दे दृश्यम्।

गरुत् = पु० गृ–गॄ–वा उति। स्वगानां नभोगतिहेतौ पक्षे (पाखा) अमरः। २ गरणे गरुत्मच्छब्दे उदा०। ३ भक्षणे च।

गरुत्मन् = पु० प्रशस्तौ गरुतौ स्तोऽस्य मतुप् यवादि० मस्य न वः। १ गरुडे अमरः। “सुपर्ण्णोऽसि गरुत्मान्” यजु० १२। ४। “अङ्ग सवितुर्गरुत्मान् पूर्व्वो जातः” ऋ० १०। १४९। ३। २ हविर्भक्षणवति वह्नौ च। “सुपर्ण्णोऽसि गरुत्मान् पृष्ठे” यजु० १७। ७२। “अग्ने! त्वं सुपर्ण्णोऽसि सुपर्ण्णपक्ष्याकारो गरुड इवासि। गरुत्मान् गरुत् गरणं गिलनं भक्षणमस्यास्तीति गरुत्मान् अशनायावानित्यर्थः” वेददी०। ३ पक्षिमात्रे च।

गरुद्योधिन् = पुंस्त्री गरुता युध्यति युध–णिनि ३ त०। भारतीखगे (भारुइ) त्रिका०।

गरुल = पु० गरुड + डस्य वा लः। गरुडे हेमच०।

***