गन्ध = अर्द्दने (हिंसायाम्) गत्यां भूषणे च चुरा० आ० सक० सेट्। गन्धयते अजिगन्धत। गन्धनम् “गन्धनक्षेपणसेवन साहसिक्यप्रतियत्नकथनोपयोगेषु कृञः” पा० “गन्धगं हिंसनम्, गन्धनाङ्गे उपयमे तु” इति च सि० कौ०। “गन्धनाङ्गे सूचनार्थे इत्यर्थः। तेन सूचनार्थेऽपि।

गन्ध = पु० गन्ध–पचाद्यच्। व्राणेन्द्रियग्राह्ये पृथिवीवृत्तौ विशेषगुणभेदे अमरः। २ प्रतिवेशिनि त्रि० २ लेशे ४ सम्बन्धे ५ गन्धके च मेदि० ६ गर्व हेमच०। ७ शोभाञ्जने शब्दरत्ना०। “घृष्टो मलयजो गन्धः” इति स्मृत्युक्ते ८ घृष्टचन्दने च। गन्धश्च पृथिवीमात्रस्य गुणः। “रूपगन्धस्पर्शवती पृथिवी” कणा० सू०। न च पाषाणादौ गन्धरसयोरनुपलम्भात् तत्राव्यापकमिति वाच्यम्। तत्रापाततो गन्धरसयोरनुपलम्भेऽपि तदीयभस्मसु तदुपलंम्भस्य सत्त्वात् य एवावयवाः पाषाणारम्भकास्त एव तद्भस्मारम्भका अपि “यत् द्रव्यं तद्द्रव्यध्वंसजन्यं तत्तदुपानोपादेयमिति” व्याप्तेरतो नाव्याप्तिः। गन्धवत्त्वमुत्पत्तिकाले घटादाव्याप्तमतो गन्धसमानाधिकरद्रव्यत्वव्याप्यजातिमत्त्वं पृथिवीत्वलक्षणम्। मुक्ताबल्याञ्च “तत्र क्षितिर्गन्धहेतुरिति” का० व्याख्यायाम् तथैवोक्तं यथा “गन्धहेतुरिति गन्धसमवायिकारणमित्यर्थः। यद्यपि गन्धवत्त्वमात्रं लक्षणमुचितं तथापि पृथिवीत्वजातौ प्रमाणोपन्यासाय कारणत्वमुपन्यस्तम्। तथाहि पृथिवीत्वं हि गन्धसमवायिकारणतावच्छेदकतया सिध्यति अन्यथा गन्धत्वावच्छिन्नस्याकस्मिकत्वापत्तेः। न च पाषाणदौ गन्धाभावाद्गन्धवत्त्वमव्याप्तमिति वाच्यं तत्रापि गन्धसत्त्वात् अनुपलब्धिस्तु अनुत्कटत्वेनाप्युपपद्यते कथमन्यथा तद्भस्मनि गन्ध उपलम्यते? भस्मनो हि पाषाणध्वंसजन्यत्वात् पाषाणोपादानोपांदेयत्वं सिध्यति, “यद् द्रव्यं यद्द्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तेः दृष्टञ्चैतत् खण्डपटे महापटध्वंसजन्ये। इत्थञ्च पाषाणपरमाणोः पृथिवीत्वात् तज्जन्यस्य पाषाणस्यापि पृथिवीत्वं तथा च तस्यापि गन्धवत्त्वे बाधकाभावः”। गुणग्रन्थे च तस्य घ्राणग्राह्यत्वंद्वैविध्यञ्चोक्तं यथा “घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः। सौरभञ्चासौरभञ्च स द्विधा परिकीर्त्तितः” गन्धस्य पृथिव्यां स्वाभाविकत्वमौपाघिकत्वं वेति सन्दिह्य स्वाभाविस्यैव तल्लक्षणत्वं कणा० सू० वृत्त्योः सनर्थितं यथा “पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्राद्र्भावो वस्त्रे गन्धानावलिङ्गम् व्यवस्थितः पृथिव्यां गन्धः।” सू० “इदानीं भूतानां लक्षणानि गन्धादीनि परीचिक्षिषु र्गन्धादीनां स्वाभाविकत्वमौपाधिकत्वञ्च व्यवस्थापयन्नाह। रूपरसगन्धस्पर्शा यत्र कारणगुणप्रक्रमेणोत्पद्यन्ते तत्र म्प्राभाविकाः सन्तो लक्षणवामुपयन्ति नान्यथा नहि समीरणे उषलभ्यमानं सौरभं शिलातले उपलभ्यमानं शैत्यं जले उपलभ्यमानमौष्ण्यं वा लक्षणं भवति तदेतदाह पुष्पवस्त्रयोरिति नहि कनककेतकीकुसुम सन्निकृष्टे वाससि कनककेतकीसौरभमुपलभ्यमानं वाससः। नहि वाससः कारणगुणप्रक्रमेण तदुत्पन्नम्, किन्तर्हि कनककेतकीसन्निधानादौपाधिकं नहि वस्त्रे गन्धाभावे केतकीगन्धाभावो लिङ्गम्। किं लिङ्गमत उक्तं गुणान्तराप्रादुर्भाव इति गुणान्तरात् कारणगुणात् अप्रादुर्भावोऽनुत्पत्तिः यदि हि वस्त्रे यो गन्ध उपलम्यते म तस्य खाभाविकः स्यात्तदा तदवयवेषु तन्तुषु केतकीसन्निकर्षात् पूर्व्वं तत्र वस्त्रे चोपलभ्येत न चैवमित्यर्थः। तथा च विवादाध्यासितो गन्धो न वस्त्रसमवेतः तदवयवगुणाजन्यविशेषगुणत्वात् शीतोष्णस्पर्शवत्। खाभाविकं गन्धं पृथिव्या लक्षणमाह पृथिव्यां व्यवस्थितो-ऽयोगान्यायेगाभ्यां परिच्छिन्नः समानासमानजातीयव्यावर्त्तकतया गन्धोलक्षणमित्यर्थः भवति हि पृथिवी गन्धवत्येव, पृथिव्येव गन्धवतीति, तदेवं समानजातीयंभ्यो जलाद्यष्टभ्योऽसमानजातीयेभ्यो गुणादिभ्यश्च व्यावर्त्तकः स्वाभाविकः पृथिव्यां गन्ध इति व्यवस्थितम्” वृत्तिः। तत्र पृथिव्या उक्तार्थकगन्धवत्त्वलक्षणं यदुक्तं तस्य कथङ्कारं लक्षणता स्यादित्याशङ्कापूर्वकं कणादसू० उप० वृत्तौ समर्थितं यथा

“ननु लक्षणमिदं व्यतिरेकिलिङ्गमितरभेदसाधकं व्यवहारसाधकं वा तत्र पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् यन्नेतरभिन्नं तन्न गन्धवत् यथा जलादि इतरभेदाभावव्यापकाभावप्रतियोगिगन्धवती चेयं तस्मादितरभिन्ना। तत्रेतरभेदस्य साध्यस्य प्रसिद्धौ ततोहेतोर्व्यतिरेके सपक्षविपक्षव्यावृत्ततयाऽसाधारण्यम्। अव्यतिरेके चान्वयित्वम्। अप्रसिद्धौ च अप्रसिद्धविशेषणः पक्षः। तथाच तत्र न सन्देहो न वा सिषाधयिषा न वा तद्विशिष्टज्ञानरूपानुमितिः। किञ्च हेतुसाध्यव्यतिरेकयोर्व्याप्तिस्तथाच न व्याप्तस्य पक्षधर्मत्वं पक्षधर्मस्य न व्याप्तत्वमिति वैषम्यम्, अत एवोपनयवैयर्थ्यमपि व्याख्यायते नत्वगृहीतव्याप्तिकमिति तदुक्तम्, “साध्याप्रसिद्धिर्वैषस्यं व्यर्थतोपनयस्य च। अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूषणम्” इति। एवं व्यवहारसाध्यकेऽपि, तत्र यद्यपि व्यवहारः पृथिवीपदवाच्यत्वं तच्च पृथिवीत्वजातावप्यस्ति तत्र च पृथिवीत्वं हेतुर्नास्तीत्यसाधारण्यं तथापि पृथिवीत्वप्रवृत्तिनिमित्तकपृथिवीपदवाच्यत्वं साध्यमिति नासाधारण्यं यद्वा पृथिवीत्वं क्वाचित्कपदप्रवृत्तिनिमित्तं जातित्वात् घटत्ववदिति सामान्यतः सिद्धौ पृथिवीपदं पृथिवीत्वप्रवृत्तिनिमित्तकम् इतराप्रवृत्ति निमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति साध्यम्। तथा चात्रापि साध्याप्रसिद्धिरेवेति चेत् मैवम्, इतरेषां जलादीनाम् भेदस्य घट एव प्रसिद्धेः। वाय्वादेरतीन्द्रियस्यापि भेदस्य अन्योन्याभावस्य घटादौ प्रत्यक्षत एव सिद्धत्वात् अन्योन्याभावग्रहे अधिकरणयोग्यतामात्रस्य तन्त्रत्वात् स्तम्भः पिशाचो न मवतीत्यादौ तथाद र्शमात्, नचैवं धट एव तर्हि दृष्टान्तोऽस्तु किं व्यतिरेकिणा “ऋजुमार्गेण सिद्ध्यन्तं कोहि वक्रेण साधयेत्” इति वाच्यम् अव्यतिरेकिलिङ्ग चेदनाभासं, तदाऽयमपि मार्गो वक्ररुचिं प्रत्यप्रतिहत एव साध्याप्रसिद्धेर्निरासे तन्मूल- कदोषाणां निरस्तत्वात्। व्यतिरेकसहचारेण अन्वयव्याप्तेरेव ग्रहात् व्यतिरेकव्याप्त्याऽन्वयव्याप्तेरनुमानाद्वा न वैषम्यम्। नचोपनयवैयर्थ्यम्, गृहीतव्याप्रेरेव हेतोः पक्षे उपसंहारात् तदुक्तम्, “नियम्यत्वनियन्तृत्वे भावयोर्यादृशी मते। त एव विपरीते तु विज्ञेये तदभावयोः”। इति व्यवहारस्तु गन्धवती पृथिवीत्युपदेशादेव यथा कम्बुग्रीवादिमान् घटपदवाच्य इति। तथा कुत्रचिदेव घृतादौ मृदादौ च गन्धवत्त्वेनोपलक्षणेन पृथिवीत्वे पृथिवीपदप्रवृत्तिनिसित्तत्वं येनोपदेशाद् गृहीतम्, गन्धवत् सर्व्वं पृथिवीत्वेन प्रवृत्तिनिमित्तेनपृथिवीपदवाच्यं गन्धवत्त्वात् यन्नैवं तन्नैवमिति व्यतिरेकी तस्याप्यवतरत्येव। ननु भेदसाधकव्यतिरेकिणि भेदो वैधर्म्म्यं खरूपभेदो वा अन्योन्याभावो वा न तावदाद्यौ प्रत्यक्षत एव तदवगमात् न तृतीयः अभावभेदस्यापि साध्यत्वेन तदन्योन्याभावस्य तत्राभावात् तेन सह स्वरूपभेदे साध्ये साध्याननुगमादितिचेन्न अभावप्रतियोगिकान्योन्याभावस्यापि साध्यत्वात् स यद्यतिरिक्तस्तदाऽस्त्येव न चेत् स्वरूपमादाय तत्पर्य्यवसानात् वस्तुतोभिन्नएव तद्वैधर्म्म्यस्य तदन्योन्याभावव्याप्यत्वात्, नचानवस्था यावत्येवानुभवस्तावत्येऽविश्रामात् अन्यत्र त्वननुभवेनैव विश्रामात् यत्तु त्रयोदशान्योन्यामावास्त्रयोदशसु प्रसिद्धाः मिलिताः पृथिव्यां साध्यन्ते इति तत्तुच्छं प्रव्येकं प्रसिद्धेरतन्त्रत्वात् मिलितप्रसिद्धेरभावात् किन्तु निर्गन्धत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः साध्येत प्रतियोगितावच्छेदकभेदेनाभावभेदस्यावश्यकत्वात् स च घटादावेव प्रत्यक्षसिद्ध इत्युक्तत्वात्”। (जलाद्यष्टद्रव्याणि गुणादिभावपञ्चकञ्चेति त्रयोदश) तस्य चाश्रयनाशादेव नाशादनित्यत्वं यथाह कणादसू०।

“पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च” सू० “पृथिव्यादीनां वाय्वन्तानामवयविनां रूपादयश्चत्वारोगुणा अनित्याः। यद्यप्यन्येऽपि गुणा अवयविषु वर्त्तमाना अनित्या एव, तथापि तेषामन्यतोऽपि विनाशः, रूपादयश्चत्वारोगुणा आश्रयनाशादेव नश्यन्ति न तु विरोघिगुणान्तरात्, द्रव्यानित्यत्वादिति द्रव्यस्याश्रयभूतस्यानित्यत्वादाश्रितानामनित्यत्वमित्यर्थः।” उप० वृ० “रूपादीनामनित्यत्वे यद्याश्रयानित्यत्वं तन्त्रं तदा नित्याश्रयवृत्तीनां गित्यत्वमित्याक्षेपबललभ्यमित्याह”। “एतेन निव्येषु नित्यत्वमुक्तम्।” सू० “रूपादीनामेव चतुर्णां नित्येष्वाश्रयेषु वर्त्तमानानां नित्यत्वमुक्तम् एतेनेति एतं नेति आश्रयानित्यत्वेनानित्यत्वाभिधानेनेत्यर्थः” उप० वृ०। एतेन मुक्तावल्यां सर्वगन्धोऽनित्य इत्युक्तिश्चिन्त्या। तस्य पाकजत्वमपि कणादसू० वृत्तौ उक्तं यथा “कारणगुणपूर्वकाः पृथिव्यां पाकजाः” सू० “पाकजा रूपरसगन्धस्पर्शा इत्यर्थः कारणगुणपूर्वका इति रूपाश्रयस्य घटादेर्यत् समवायिकारणं कपालादि तद्गुणपूर्वकाः तथा च कपालरूपकारणैकार्थसमवायप्रत्यासत्त्या घटरूपाद्यसमवायिकारणम्, एवं रसादापाप”। रूपादीनां पाकप्रकारः पाकजशब्दे वक्ष्यते। गुणगुणिनोरभेद इति वेदान्तिनो मन्यन्ते कणादसूत्रवृत्तौ तन्निरासितं यथा।

“ननु नीलपीतादयोगुणा द्रव्याभिन्ना एव धर्मधर्भिणोरभेदादितिचेन्न रूपं घटः स्पर्शोघट इत्यादिव्यवहारप्रसङ्गात्, ननु नेदमनिष्टं यतो भवत्येव शुक्लः पटो नीलः पट इत्यादिप्रतीतिरितिचेन्न मतुब्लोपादभेदोपचाराद्वा प्रतीत्युपपत्तेः। भेदे प्रमाणे सति कल्पनेयं यथाकथञ्चि दुपपद्ध्यते इति चेन्न चन्दनस्य रूपं चन्दनस्य गन्ध इत्यादिव्यपदेशबलाद्भेदसिद्धेः पटस्य रूपाभेदे पटवद्रूपमपि त्वगिन्द्रियेण गृह्य त पटमानयेत्युक्ते यत्किञ्चिद्रूपमानयेत् रूपमानयेत्युक्ते यत्किञ्चिद्द्रव्यमानयेत्। अस्तुतर्हि भेदाभेदः अत्यन्तभेदेऽत्यन्ताभेदे च सामानाधिकरण्यानुप पत्तेरितिचेन्न अवच्छेदभेदं विना विरुद्धयोर्भेदाभेदयोरेक त्रासम्भवात्, अन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति नित्याभाववृत्तिधर्मत्वादत्यन्ताभावत्ववदितिचेन्न एकत्र संयोगतदत्यन्ताभावयोः प्रतीतिबलादत्यन्तभावस्याव्याप्यवृत्तित्वाभ्युपगमात् अन्योन्याभावे तु तथाप्रतीतेरभावात्।”

वेदान्तिमते तु तत्सत्त्वनियतसत्ताकत्वरूपतादात्म्यस्यैवाभेदत्वस्वीकारात् न तद्दोषावतारः। अतएवोक्तं “सत्यैक्ये मिथोभेदस्तादात्म्यमिति”। ऐक्ये तत्सत्त्वनियतसत्ताकत्वे सति मिथः परम्परं भेदः इति तैरभ्युपगमान्न किञ्चिद्दूषणमवहतीति।

“रूपरसगन्धपर्शाः रूपत्वादिगुणत्वसाक्षाद्व्याप्यजातिमन्तः।” इत्युपक्रम्य उप० वृत्तौ तल्लक्षणमुक्तं यथा “घ्राणमात्रग्राह्यो गुणो गन्धः घ्राणमात्रग्राह्यगुणत्वव्याप्यजातिमत्त्वं गन्धत्वं स च मरभिरसरभिश्चेति द्विविधः यद्वा पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वं गन्धत्वम्।

सचायं गन्धः द्विविधः सुरभिसुरभिश्च। भा० आश्व० ५० अ० अस्य दशविधतोक्ता यथा। शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः!। पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः। तस्य गन्धस्य वक्ष्यामि विस्तरेण बहूत् गुणान् (भेदान्)। इष्टश्चानिष्ट गन्धश्च मधुरोऽम्लः कटुस्तथा। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।

दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत”। तत्रेष्टः १ कस्तूरिकादौ, अनिष्टः ३ विष्ठादौ, मधुरः ३ मधुपुष्पादौ, कटुः ४ मरिचादौ, निर्हारी ५ हिङ्गादौ। संहतश्चित्रगन्धः ६ अनेककल्कद्रव्यादौ, स्निग्धः ७ सद्यस्तप्तवृतादौ। रूक्षः ८ सार्षपतैलादौ। विशदः ९ शाल्यादौ, अम्लः १० तिन्तिड्यादौ। तस्योत्कटानुकटत्वादिकः अवान्तरधर्म्मः उद्भूतशब्दे ११८१ पृ० विवृतः। तत्र सुरभिगन्धः पञ्चविधुः पूजाङ्गम् यथाह कालि० पु०। “गन्धञ्च सम्यक् शृणुतं पुत्रौ! वेतालभैरवौ!। चूर्ण्णीकृतो १ वा घृष्टो २ वा दाहकर्षित ३ एव वा। रसः सम्मर्दजो ४ वापि प्राण्यङ्गोद्भव ५ एव वा। गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः। गन्धचूर्णं गन्धपत्रचूर्णं सुमनसां तथा। प्रशस्तगन्धबुक्तानां पत्रचूर्ण्णानि यानि च! तानि गन्धाह्वायानि स्युः स गन्धः प्रथमः १ स्मृतः। घृष्टो मलयजो गन्धः सरलश्च नमेरुणा। अगरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते। घृष्ट्वा, स वृष्टो गन्धोऽयं द्वितीयः परिकीर्त्तितः २। देवदार्वगुरुब्रह्मसालसारान्तचन्दनाः। पियादीनाञ्च यो दग्ध्वा गृह्यते दाहजो रसः। स दाहा कर्षितो गन्धस्तृतोयः परिकीर्त्तितः ३। स गन्धः करवीविल्वगन्धिनीतिलकं तथा। प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते। स सम्मर्दाद्गतो गन्धः सम्मर्द्दज इतीर्य्यते ४। मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा। गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम् ५। कर्पूरगन्धसाराद्याः क्षोदे वृष्टे च संस्थिताः। चन्द्रभागादयश्चापि रमे पङ्के च सङ्गताः। गन्धसारस्तु सर्वत्र ससर्गादौ प्रयुज्यते। मृगनाभिर्भवेद्घृष्टश्चूर्णोऽप्यन्यस्य योगतः। एवं सर्तस्तु सर्वत्र गन्धो भवति पञ्चधा। घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरः परः। गन्धस्य विस्तरो भेदः प्रोक्तः कालीयकादयः। मर्वः पञ्चविधेस्त्रेव प्रविष्टो भवति क्षणात्। गन्धो मलयजो यस्तु दैवे पैत्रे च सम्मतः। तत्पङ्को वा रसो वापि चूर्णो वा विष्णुतुष्टिदः। सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः। तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा। कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः। वैष्णवप्रीतिदो गन्धः कामाख्यायाश्च भैरवौ!। कुङ्कुमागुरुकस्तूरीचन्द्रभागैः ममीकृतैः। त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शम्भुना। दैवतोद्देशपूर्वेण गन्धान् सम्पूज्य साधकः। देवायेज्याय बितरेत् सर्वसाध्येषु पूजकः। गन्धेन लभते कामं गन्धो धर्म्मप्रदः सदा। अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः। अयं वै कथितो गन्धः पुत्रौ वेतालभैरवौ” कालि० पु० ६८ अ०। ३ कृष्णागुरुणि न० शब्दार्थचि० “नवपरिमलगन्धः केन शक्योवरीतुम्” सा० द०। “गन्धवद विरन्दनोक्षिता” रघुः। “वर्ज्जयेन्मधुमासं च गन्धं माल्यं रसान् स्त्रियः” मनुः। ४ गन्धवति त्रि०। उद् + पूति + सु + सुरभि + शब्दात् परस्य गन्धस्य वहु० टच् समा०। उत्कटो गन्धोऽस्य उद्गन्धिः एवं पूतिगन्धिः सुगन्धिः सुरभिगन्धिः। “गन्धस्येत्त्वे तदेकान्तग्रहणम्” वार्त्ति० “एकान्त एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः यथा सुगन्धि पुष्पम् सलिलं वा सुगन्धिर्वायुरिति” च सि० कौ०। अत्र औपाधिकगन्धवस्वात् तथात्वम् शोभना गन्धा गन्धयुक्ताः पदार्थाः सन्त्यस्य सुगन्ध आपण इत्यादौ न” सि० कौ०। “कण्डूयतः कटभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य” “सुगन्धितामप्रतियत्नपूर्वाम्” माघः। “आघ्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च” भट्टिः। “अरविन्दव्यतिषङ्गवत्त्वात् गन्धस्येत्त्वं न भवति विभागेन लक्ष्यत्वादिति जयम०। एवं उपमानपूर्वकस्य तस्येत् समा० पद्मगन्धिः। “प्रस्थं हिमाद्रेर्मृगनाभिगन्धि” कुमा० लेशवाचकत्वेऽपि इत् समा०। “सूपगन्धि घृतगन्धि भोजनम्” सि० कौ०। देवादौ गन्धदानेऽङ्गुलिविशेषनियमः तन्त्रसारे उक्तो यथा “मध्यमानामिकाङ्गुष्ठैरङ्गुल्यग्रेण पार्वति!। दद्याच्च विमलं गन्धं मलमन्त्रेण साधकः”। तत्र देयगन्धस्तु चन्दनकर्पूरकालागुर्वात्मकः यथाह तन्त्रसा० निबन्धे “गन्धश्चन्दनकर्पूरकालागुरुभिरीरितः” तद्यीजनप्रकारो गन्धयुक्तिशब्दे दृश्यः।

गन्धक = पु० गन्धाऽस्त्यस्य अर्श० अच् स्वार्थे क। १ शिग्रुवृक्षे (सजना) शब्दर०। २ स्वनामख्याते उपधातुभेदे तस्योत्पत्तिगुणभेदशोधनादिकं भावप्र० उक्तं यथा

“श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाप्लुतम्। दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ। प्रसृतं यद्रज स्तस्माद्गन्धकः समजायत”। तस्य भेदाः “चतुर्द्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः। रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने। व्रणादिलेपने श्वेतः कृष्णः श्रेष्ठः स दुर्लभः। श्रेष्ठो हेमक्रियादिषु सर्वत्रप्रशस्यतर इत्यर्थः। अस्य गुणाः। गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः। पित्तलः कटुकः पाके कण्डूविसर्पजन्तुजित्। हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः। अशोधितो गन्धक एष कुष्ठं करोति तापं विषमं शरीरे। सौख्यञ्च रूपञ्च बलं तथौजः शुक्रं निहन्त्येव करोति चार्द्रम्। शोधितो यस्तु गन्धः स्यात् जरामृत्युज्वरापहः। अग्निसन्दीपनः श्रेष्ठो वीर्यवृद्धिकरोऽस्थिकृत्। शोधनविधिस्तु। लोहपात्रे बिनिःक्षिप्य घृतमग्नौ प्रतापयेत्। तप्ते घृते तत् समानं क्षिपेदगन्धकजं रजः। विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिःक्षिपेत्। तथा वस्त्राद्विनिःसार्य्य दुग्धमध्येऽस्विलं क्षिपेत्। एवं स गन्धकः शुध्येत् सर्वकर्मोचितो भवेत्।” गन्धेन कायति कै–क। इति व्युत्पत्तिरित्यन्ये।

गन्धकचूर्ण = पु० गन्धकप्रधानश्चूर्णः। (वारुद) इति ख्याते पदार्थे शब्दार्थचि०।

गन्धकन्द = पु० गन्धप्रधानः कन्दोऽस्य। कसेरुवृक्षे वैद्य०।

गन्धकारिका = स्त्री गन्धं गन्धप्रधानं वेशादिकं करोति कृ–ण्वुल् कापि अत इत्त्वम्। परवेश्मस्थायां स्ववशायां वशादिकारिकायाम् १ सैरन्ध्र्यां हला०।

गन्धकाली = स्त्री प्रशस्तः गन्धस्तस्मै अलति पर्य्याप्नोति अल–अच् गोरा० ङीष्। सत्यवत्यां व्यासमातरि। “भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत् यामाहुर्गन्धकालीमिति तस्यां पूर्वं कानीनो गर्भः पराशरात् द्वैपायनोऽभवत्। तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः विचित्रवीर्य्यश्चित्राङ्गदश्च” भा० आ० ९१५ अ०। “अद्य त्वं जननीं भीष्म! गन्धकालीं यशस्विनीम्” भा० हरि० २० अ०। गन्धवतीशब्दे दृश्यम्। स्वार्थे क। गन्धकालिकाऽप्यत्र हेमच०।

गन्धकाष्ठ = न० गन्धयुक्तं काष्ठमस्य। १ अकुरुचन्दने त्रिका०। २ शम्बरचन्दने राजनि०।

गन्धकुटी = स्त्री गन्धस्य कुटीवाधारः। १ मुरानामगन्धद्रव्ये। अमरः।

गन्धकुसुमा = स्त्री गन्धयुक्तं कुसुमं यस्याः। (गणियारी) गणिकारीवृक्षे राजनि०।

गन्धकेलिका = स्त्री गन्धं केलति गच्छति केल–ण्वुल् कापि अत इत्त्वम्। १ कुस्तूर्य्यां मृगमदे राजनि०। गन्धप्रधानत्वात्तस्यास्तथात्वम्।

गन्धकोकिला = स्त्री गन्धप्रधाना कोकिलेव कृष्णत्वात्। “तीक्ष्णोष्णा कफहृत् तिक्ता सुगन्धा गन्धकोकिला” भावप्र० उक्तगुणके लतौषधिभेदे।

गन्धखेड(ल)(क) = न० गन्धस्य खेला यत्र वा कप् डलयोरेकत्वात्। (वेणा) गन्धवति १ भूतृणे रत्नमा०। कबन्तः तत्रार्थे न० शब्दरत्नावली।

गन्धचेलिका = स्त्री गन्धं चेलति गच्छति चेल–ण्वुल् कापि अत इत्त्वम्। १ कुस्तूर्य्यां मृगमदे त्रिका०।

गन्धजटिला = स्त्री गन्धेन जटिला। १ वचायां(वच)रत्नमा०।

गन्धजल = न० गन्धाढ्यद्रव्यवासितं जलं शा० त०। गन्धाढ्य कुसुमादिपुष्पवासितजले “सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः” भाग० १। १। २। १३।

गन्धजात = न० गन्धो व्यञ्जनादौ जातो यस्मात् निष्ठान्तान्तत्वात् परनि०। (तेजपात) १ तेजपत्रे शब्दरत्ना०। ६ त०। २ गन्धद्रव्यसंघे न०।

गन्धज्ञा = स्त्री गन्धं जानाति रसज्ञेत्यत्रेव करणस्य कर्त्तृत्वोपचारात् ज्ञा–कर्त्तरि क। १ नासिकायाम् हेमच०।

गन्धतण्डुल = पु० गन्धप्रधानं तण्डुलमस्य। (वासमति) १ शालिभेदे राजनि०।

गन्धतन्मात्र = न० सांख्यमतप्रसिद्धे शान्तघोरादिविशेषशून्यगन्धमात्रगुणके स्थूलपृथिव्यारम्भके सूक्ष्मपार्थिवांशे यथाह “स्थूलात् पञ्चतन्मात्रस्य” सा० प्र० सूत्रभाष्ये

“तन्मात्राणि च यज्जातीयेषु शान्तादिविशेषत्रयं न तिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधारभूतानि सूक्ष्मद्रव्याणि स्थूलानां हेतवोऽविशेषाः “तस्मिंस्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता। न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः” इति विष्णुपुरादिभ्यः। अस्यायमर्थः तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्तीति कृत्वा धर्मधर्म्यभेदाद्द्रव्याणामपि तन्मात्रता स्मृता। ते च पदार्थाः शान्तघोरमूढाख्यैः स्थूलशब्दादिगतविशेषैः शून्या एकरूपत्वात्। तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः। अतोऽविशेषिणोऽविशेषसंज्ञिता इति शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं मोहात्मकम्। तन्मात्राणि च देवादिमात्रभोग्यानि केवलं सुखाधिक्यादिति”

गन्धतूर्य्य = न० गन्धे हिंसास्थाने रणे तूर्य्यम्। १ रणवाद्यभेदे शब्दर०।

गन्धतृण = न० गन्धप्रधानं तृणं शा० त०। सुगन्धयुक्ते भूतृणे सुरसे मुखरागे तृणभेदे (वेणा) राजनि०। “ईषत्तिक्तं गन्धतृणं स्निग्धं चैव रसायनम्। सुगन्धि मधुरं शीतं कफपित्तश्रमापहम्” इति तत्र तद्गुणा उक्ताः।

गन्धतैल = न० गन्धयुक्तस्य चन्दनस्याग्निसंयोगेन जनितं तैलम् शा० त०। यन्त्रपाकेण जनिते तैलभेदे। (चन्दनीआतर) १ प्रभृतौ। “प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः” भा० भी० ९८ अ०। सुश्रुतोक्ते २ पक्वतैलभेदे च तत्पाकप्रकारस्तत्रोक्तो यथा

“रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले। दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत्। त्रिरात्रं सप्तरात्रं वा भावयेन्मधुकाम्बुना। ततः क्षीरे पुनः पीतान्सुशुष्कांश्चूर्णयेद्भिषक्। काकल्यादिं सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा। कुष्ठं सर्ज्जरसं मांसीं सुरदारु सचन्दनम्। शतपुष्पाञ्च सञ्चूर्ण्य तिलचूर्णेन योजयेत्। पीडनार्थञ्च कर्त्तव्यं सर्वगन्धशृतं पयः। चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक्। एलामंशुमतीं पत्रं जीरकं तगरं। लोध्रं प्रपौण्डरीकञ्च तथा कालानुसारिणम्। सौरेयकं क्षीरशुक्लामनन्तां समधूलिकाम्। पिष्ट्वा शृङ्गाटकञ्चैव पूर्ब्बोक्तान्यौषधानि च। एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाग्निना। एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्म्मसु। आक्षेपके पक्षघाते तालुशोषे तथाऽर्द्दिते। मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे। बाधिर्य्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः। पथ्यं पाने तथाभ्यङ्गे नस्ये वस्तिषु भोजने। ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते। मुखञ्च पद्मप्रतिभं सुसुगन्धिसमीरणम्। गन्धतैलमिदं नाम्ना सर्ववातविकारनुत्। राजार्हमेतत्कर्त्तव्यं राज्ञामेव विचक्षणैः।”

गन्धत्वच = न० गन्धप्रधाना त्वक् यस्य। १ एलवालुके राजनि०

गन्धदला = स्त्री गन्धयुक्तं दलं यस्याः। १ अजमोदायाम् राजनि०

गन्धदारु = न० गन्धप्रधानं दारु। चन्दने मलयजे हेमच०। तस्य दारुण्येव गन्धसत्त्वात्तथात्वम्।

गन्धद्रव्य = न० गन्धप्रधानं द्रव्यम। १ नागकेशरे त्रिका०। २ गन्धाढ्यद्रव्यमात्रे च

गन्धद्विप = पु० गन्धप्रधानो मदगन्धाढ्यः द्विपः। मदगन्धाढ्यं हस्तिनि गन्धद्विपे वन्य इव द्विरेफाः” “रणो गन्ध- द्विपस्येव गन्धभिन्नान्यदन्तिनः” रघुः। “गन्धद्विपस्येव मतङ्गजौघः” किरा०। गन्धगजादयोऽप्यत्र।

गन्धधारिन् = त्रि० गन्धं गन्धयुक्तं द्रव्यं धारयति धारिणिनि। १ गन्धद्रव्यधारिणि स्त्रियां ङीप्। २ महादेवे पु०। “अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि” भा० अनु० १७ अ०। शिवनामोक्तौ।

गन्धधूमज = पु० गन्धस्य गन्धाट्यस्य धूमात् जायते जन–ड। स्वादुनामगन्धद्रव्ये राजनि०।

गन्धधूलि = स्त्री गन्धाय धूलिश्चूर्ण्णोऽस्याः। कस्तूर्य्यां हेमच०।

गन्धन = न० गन्ध–अर्द्दने भावकरणादौ ल्युट्। १ उत्माहे २ प्रकाशने ३ हिंसायाम् ४ सूचने च मेदि०। ५ तृणभेदे (गन्धतृणे) शब्दार्थचि०। “गन्धनावक्षेपणेत्यादि” पा०। “वा गतिगन्धनयोरिति धातुः”। वातपदव्युत्पत्तौ सुश्रुतः “गन्धनाङ्गे” सि० कौ०।

गन्धनकुल = पु० गन्धेन लेशेन नकुलतुल्याकृतित्वात्, दुर्गगन्धप्रधानो वा नकुलः। (छुचो) छुछुन्दर्य्यां जन्तुभेदे हारा०।

गन्धनाकुली = स्त्री गन्धान्विता नाकुली रास्ना। रास्नाभेदे अमरः। “नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली। नकुलेष्टा भुजाङ्गाक्षी सर्पाङ्गी विषनाशिनी। नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत्। भोगिलूतावृश्चि काखुविषज्वरक्रिमिव्रणान्” भावप्र०।

गन्धनामन् = पु० गन्धेति पदयुक्तं नामास्य। १ रक्ततुलस्याम् रत्नमा० २ रोगभेदे स्त्रा ङीप्। तल्लक्षणमुक्तं भावप्र० यथा “बाहुकक्षांसपार्श्वेषु कृष्णस्फोटां सवेदनाम्। पित्तप्रकोपसम्भूतां कक्षामिति विनिर्दिशेत्। एतान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम्। त्वग्जातां पित्तकोपेन गन्धनाम्नीं प्रचक्षते। तादृशीं बाह्वादिषु कृष्णां सवेदनाञ्च”

गन्धनाली = स्ती गन्धस्य गन्धज्ञानस्य नालीव। नामिकायाम् त्रिका०। स्वार्थे क ह्रस्वः। गन्धनालिका तत्रार्थे।

गन्धनिलया = स्त्री गन्धस्य निलयो वासो यत्र। नवमाल्लकायाम् शब्दच०।

गन्धनिशा = स्त्री० गन्धेन निशा हरिद्रेव। गन्धपत्रायां शठीभेदे राजनि०।

गन्धप = पु० गन्धं पिबति गन्धेनैव तृप्यति पा–क। १ देवभेदे आभासुरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः” भा० अनु० १८ अ० नानादेवानां शिवरूपतोक्तौ।

गन्धपत्र = पु० गन्धयुक्तं पत्रमस्य। १ श्वततुलस्यां रत्नमा०। २ मरुवके ३ वर्वरे ४ नागरङ्गे ५ विल्वे च राजनि०। ५ शटीभेदे स्त्री टाप् “गन्धपत्रा कटुः स्वादुस्तीक्ष्णोष्णा कफ- पातहृत्। कासच्छर्दिज्वरान् हन्ति पित्तकोपकरी तथा” राजनि०। गौरा० ङीष्। ६ अश्वगन्धायाम् ७ अम्बष्ठायाम् ८ अजमोदायाञ्च राजनि०। ततः स्वार्थे क। गन्धपत्रिका अश्वगन्धादिषु राजनि०।

गन्धपलाशिका = स्त्री गन्धयुतं पलाशमस्याः कप् अत इत्त्वम्। हरिद्रायां हारा०।

गन्धपलाशी = स्त्री गन्धयुक्तं पलाशं यस्या ङीप्। शठ्याम् भावप्र०।

गन्धपाषाण = पु० गन्धयुक्तः पाषाण इव कठिनत्वान्। गन्धके उपधातुभेदे जटाटरः।

गन्धपिशाचिका = स्त्री गन्धेन पिशाच इव ऊर्द्ध्वगतित्वात्। धूपे हेमच०।

गन्धपीता = स्त्री गन्धयुक्तं पीतं पत्रं यस्याः। १ शटीभेदे गन्धपत्रायाम् राजगि०।

गन्धपुष्प = पु० गन्धयुक्तं पुष्पमस्य। १ वेतसवृक्षे शब्दच०। २ अङ्कोटकवृक्षे जटाध० ३ बहुवारवृक्षे राजनि०। ४ नील्यां ५ केतकीवृक्षे ६ गणिकारीवृक्षे च स्त्री टाप् राजनि०। ७ पुष्पवति गन्धयुक्तवृक्षमात्रे त्रि०। गन्धसहितं पुष्पम् शा० त०। ८ गन्धसहितपुष्पे न० “गन्धपुष्पैरलङ्कृतम्” रामा० २१ अ०। द्वन्द्वः। ९ गन्धपुष्पयोः द्विव०। “अभावे गन्धपुष्पाभ्यां केवलेन जलेन वा” आ० त०।

गन्धफणिज्झक = पु० गन्धपधानः फणिज्झकः। रक्ततुलसी वृक्षे रत्नमा०।

गन्धफल = पु० गन्धयुक्तं फलं यस्य। १ कपित्थे २ विल्वे ३ तेज फलवृक्षे राजनि०। ४ प्रियङ्गुवृक्षे स्त्री टाप् शब्दरत्ना०। ५ मेथिकायां ६ विदार्य्यां ७ शल्लक्याञ्च स्त्री टाप् राजनि०। ८ चम्पककलिकायां ९ प्रियङ्गुवृक्षे च स्त्री अमरः गौरा० ङीष्। ९ आमोदयुक्तफलवति वृक्षमात्रे त्रि०।

गन्धबणिज् = पु० गन्धस्य आमोदिद्रव्यस्य बणिक्। (गन्धवेणे) सङ्कोर्णजातिभेदे “अम्बष्ठात् राजपुत्र्याञ्च जाक्ते गन्धबणिक् स्मृतः” ब्रह्मवै०। नवशाखशब्दे विवृतिः। णिक्शब्दस्य वर्ग्यादित्वात् शब्दकल्पद्रुमे तन्मूलतया ब्दस्तोमे च अयथास्थाने लिखनं प्रामादिकभ्।

गन्धबन्धु = पु० गन्धं बध्नाति बन्ध–उण्। पाम्रवृक्ष शब्दर०

गन्धबहुला = स्त्री गन्धोबहुलोऽत्र। १ गोरक्षोवृक्षे राजनि०।

गन्धभद्रा = स्त्री गन्धेन लेशमात्रसेवनेन भद्रं पस्याः ५ ब०। (गन्धभादाल) लताभेदे शब्दच०।

गन्धभाण्ड = पु० गन्धस्य भाण्ड इव। (गन्धभादाल) लताभेदे शब्दर०।

गन्धमांसी = स्त्री गन्धप्रधाना मांसी। जटामांसीभदे राजनि०

गन्धमातृ = स्त्री गन्धस्य मातेव उत्पादकत्वात्। क्षितौ हेमच० “तत्र क्षितिर्गन्धहेतुः” इत्य क्तेस्तस्य दुत् दकत्वम्।

गन्धमाद = पु० १ रामसैन्यस्थवानरभेदे। “सुग्रीवलक्ष्मणमरुत्सुतगन्धप्तादनीलर्क्षपाङ्गदनलादिभिरन्वितोऽगात्” भाग० ९। १०। १९। “गान्धिन्यास्तु शफल्कतः” अक्रूरप्रमुखा आसन्” इत्युपक्रमे “शत्रुघ्नो गन्धमादश्चेति” भाग० ९। १४। ९०। उक्ते २ अक्रूरभ्रातरि च।

गन्धमादन = पुंन० गन्धन मादयति मादि–ल्यु। १ पर्वतभेदे स च पर्वतः रोमकपत्तनात् उदक्, नीलनिषधपर्य्यन्तदीर्घः तस्य जलधेश्च मध्ये केतुमासं वर्षम्। एवं निषधनीलमाल्यवद्गन्धमादनैरावृतमिलावृतं नवमं वर्षम् मूलवाक्यमिलावृतशब्दे ९८५ पृ० दृश्यम्। “गन्धमादनशृङ्गेषु पुरुथः सह राक्षसैः”। “गन्धमादनपार्श्वे तु परेत्वपरगण्डिकाः” भा० भी० ६ अ०। “ततः किंपुरुषावासं सिद्धचारणसेवितम्। ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम्” भा० व० १५८ अ०। “तथैवापरेण पूर्वेण च माल्यवद्गन्धमादनौ नीलनिषध यतौ” भाग० ५। १६। १०२। एवं सर्वत्र पुंस्त्वम् क्वचित् क्लीवत्वमपि। “यस्य चोपवनं बाह्यं गन्धवत् गन्धमादनम्” कुमा०। “अत्र गन्धवत्गन्धमादनम्” इति आगन्तुकः पाठः। प्राचीनपाठस्तु “सुगन्धिर्गन्धमादनः” इति पुंलिङ्गान्तः। अतएव क्षीरस्वामिना “गन्धमादनमन्ये चेत्यत्र गन्धेत मादयतोति गन्धमादनः” इति व्याख्याय प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं “सुगन्धिर्गन्धमादन इति” कालिदासः इति” मल्लिना०। स च मेरोर्दक्षिणस्थविष्कम्भरूपः यथाह विष्णुपु० “इलावृतमनुक्रम्य “चत्वार उपपर्वताः”। “विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः। पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः। विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्मृतः”। तत्र च केतुवृक्षो जम्बुः। यथाह तत्रैव “कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च” तत्र वनं नन्दनं, चैत्ररथं, गन्धमादनाख्यं, वा कल्पभेदात् व्यवस्थितं तत्र विष्णुपु०० “वतं चैत्ररथं पूर्वं दक्षिणे गन्धमादनम्। वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्” इत्युक्तेः गन्धमादनाख्यवनवत्त्वं तस्य। “तान् विष्कम्भान् गिरीचुपक्रम्य” भाग० ५। १६। देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वेभ्राजकं सर्वतोभद्रमिति”। चैत्ररथनवक्तोक्ता। सि० शि० “वनं तथा चैत्ररथं विचित्रं तेप्वप्सरीनन्दननन्दनञ्च। धृत्याह्वयं यद्धृतिकृत् सुराणां भ्राजष्णुवैभ्राजमिति प्रसिद्धम्” इत्युक्तेर्नन्दनवनवत्त्वम्। “अरुणोदं महाभद्रं ससितोदं समानसम्। सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा” विष्णुपु० उक्तेस्तत्र महाभद्रं सरः। “सरांस्यथैतेष्वरुणञ्च मानसम् महाह्रदं श्वेतजलं यथाक्रममिति” सि० शि० उक्तेस्तत्र मानसं सरः। सरसां कल्पभेदान्नामभेदः। २ तद्वासिनि रामसैन्यस्थवानरभेदे च “गन्धमादनवासी च प्रथितो गन्धमादनः। कोटीशतसहस्राणि हरीणां समकर्षत” भा० व० २८ अ०। तत्पर्वतस्थे ३ वनभेदे न० उदाहृतविष्णुपु० वाक्ये दृश्यम्।

गन्धमादनी = स्त्री गन्धेन माद्यतेऽनया मादि + करणे ल्युट् ङीप्। १ मदिरायां त्रिका० २ वन्दारौ ३ चीडानामद्रव्ये च राजनि०।

गन्धमादिनी = स्त्री गन्धेन मादयति मादि–णिनि ङीप्। १ लाक्षायां २ मुरानामगन्धद्रव्यो च राजनि०।

गन्धमार्ज्जार = पु० गन्धप्रधानः मार्ज्जारः। खट्टासजन्तौ जटाधरः।

गन्धमालती = स्त्री गन्धेन मालतीव। गन्धकोकिलातुल्यगुणायां लतायाम् भावप्र०।

गन्धमालिनी = स्त्री गन्धमालाऽस्त्यस्या इनि ङीप् मलसंश्लेषे णिनि वा ६ त०। १ मुरानामगन्धद्रव्ये जटाधरः।

गन्धमुखा = स्त्री गन्धो मुखेऽस्याः। १ छुछुन्दर्य्याम् (छु~चा)। शब्दार्थचि०। २ आमोदिमुखवति त्रि०। स्त्रियां स्वाङ्गत्वात् ङीप्।

गन्धमुण्ड = पु० गन्धं मुण्डयति मुण्ड + तत्कारोति णिच्–अण्। (गन्धभादाल) लताभेदे वैद्यकम्।

गन्धमूल = पु० गन्धप्रधानं मूलं यस्य। १ कुलञ्जनवृक्षे २ शल्लक्यां ३ शट्याञ्च स्त्री टाप् राजनि०। ४ शट्यां स्त्री अमरः जातित्वात् ङीष्। वा कप् कापि अत इत्त्वम्। गन्धमूलिका १ माकन्द्यां २ शट्याञ्च राजनि०।

गन्धमूषिक = पुंस्त्री० गन्धप्रधानः मूषिकः। छुछुन्दर्य्याम् राजनि०।

गन्धमूषी = स्त्री स्वल्पः मूषः मूषी गन्धप्रधाना मूषी। छुछुन्दर्य्यां हेमच०।

गन्धमृग = पु० गन्धप्रधानो मृगः। १ गन्धयोनौ कस्तूरीमृगे। २ खट्वासे च शब्दमा०।

गन्धमैथुन = पु० गन्धेन गन्धघ्राणेन मैथुनं मैथुनारम्भो यस्य। वृषे जटाधरः।

गन्धमोदन = पु० गन्धेन मोदयति मुद–णिच्–ल्यु। गन्धके राजनि०।

गन्धमोहिनी = स्त्री गन्धेन मोहयति मुह–णिच्–णिनि ङीप्। चम्पककलिकायां राजनि०।

गन्धयुक्ति = स्त्री गन्धानां गन्धद्रव्याणां युक्तिर्योजनविशेषः। व० स० उक्ते गन्धद्रव्ययोजनप्रकारभेदे। गन्धयुक्तिश्च सप्रयोजनभेदसहिता तत्र ७७ अ० दर्शिता यथा

“स्रग्गन्धधूपाम्बग्भूषणाद्यं न शोभते शुक्लशिरोरुहस्य। यस्मादतो मूर्धजरागसेवां कुर्यात्तथैवाञ्जनभूषणानाम्। लौहे पात्रे तण्डुलान् कोद्रवाणां शुक्ले पक्वा~ल्लोहचूर्णेन साकम्। पिष्टान् सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे दत्त्वा तिष्ठेद्वेष्टयित्वार्कपत्रैः। याते द्वितीये प्रहरे विहाय दद्याच्छिरस्यामलकप्रलेपम्। सञ्छाद्य पत्रैः प्रहरद्वयेन प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम्। पश्चा च्छिरःस्नानसुगन्धितैलैर्लोहाम्लगन्धं शिरसोऽपनीय। हृद्यैश्च गन्धैर्विविधैश्च धूपैरन्तःपुरे राजसुखं निषेवेत्। त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः। केसरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम्। मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः। तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धि तैलम्। तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः सव्यामो बकुलोऽयमेव कटुकाहिङ्गुप्रधूपान्वितः। कुष्ठेनोत्पलगन्धिकः समलयोमूर्वा भवेच्चम्पको जातीत्वक्सहितोऽतिमुक्तकैति ज्ञेयः स कुस्तुम्बुरुः। शतपुष्पाकुन्दुरुकौ पादेनार्धेन नखतुरुष्कौ च। मलयप्रियङ्गुभागौ गन्धोधूप्यो गुडनखेन। गुग्गुलुबालकलाक्षामुस्तानखशर्कराः क्रमाद्धूपः। अन्यो मांसीबालकतुरुष्कनखचन्दनैः पिण्डः। हरीतकीशङ्खघनद्रवाम्बुभिर्गुडोत्पलैः शैलकमुस्तकान्वितैः। नवान्तपादादिविवर्धितैः क्रमाद् भवन्ति धूपा बहवो मनोहराः। भागैश्चतुर्भिः सितशैलमुस्ताः श्रीसर्जभागौ नखगुग्गुलू च। कर्पूरबोधो मधुपिण्डितोऽयं कोपच्छदो नाम नरेन्द्रधूपः। त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः। पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन। घनबालकशैलेयककर्पूरोशीरनागपुष्पाणि। व्याघ्रनखस्पृक्कागुरुदमनकनखतगरधान्यानि। कर्पूरचोरमलयैः स्वेच्छापरिवर्तितैश्चतुर्भिरतः। एकद्वित्रिचतुर्भिर्भागैर्गन्धार्णवो भवति। अत्युल्बणगन्धत्वाद् एकांशो नित्यमेव धान्यानाम्। कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौं। श्रीसर्जगुडनखैस्ते धूपयितव्याः क्रमान्न पिण्डस्थैः। बोधः कस्तूरिकया देयः कर्पूरसंयुतया। अत्र सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि। लक्षं शतानि सप्त विंशतियुक्तानि गन्धानाम्। एकैकमेकभागं द्वित्रिचतुर्भागिकैर्युतं द्रव्यैः। षड्गन्धकरं तद्वद् द्वित्रिचतुर्भागिकं कुरुते। द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्यथैकस्य। एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र। षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानाम्। अष्टादश जायन्ते शतानि सहितानि विशत्या। षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतस्तस्मात्। षण्णवतिगुणः कार्यः सा सङ्ख्या भवति गन्धानाम्। पूर्वेण पूर्वेण गतेन युक्तं स्थानं विनान्त्यं प्रबदन्ति सङ्ख्याम्। इच्छाबिकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः। द्वित्रीन्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ। विषयाष्टपक्षदहनाः प्रियङ्गुमुस्तारसाः केशः। स्पृक्कात्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः। सप्तर्तुवेदचन्द्रैर्मलयनखश्रीककुन्दुरुकाः। षोडशके कच्छपुटे यथा तथा मिश्रितैश्चतुर्द्रव्यैः। येऽत्राष्टादशभागास्तेऽस्मिन् गन्धादयो योगाः। नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतोद्बोधाः। गुडगखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः। जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः। बहवोऽत्र परिजाताश्चतुर्भिरिच्छापरिगृहीतैः। सर्जरसश्रीवासकसमन्विता येऽत्र धूपयोगास्तैः। श्रीसर्जरसवियुक्तैः स्नानानि सबालकत्वग्भिः। लोध्रोशीरलतागुरुमुस्ताप्रियङ्गुवनपथ्याः। नवकोष्ठोत्कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य। चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा। कटु हिङ्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः। सप्ताह गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा। गग्धोदके च भूयो विनिःक्षिपेद्दन्तकाष्ठानि। एलात्वक्पत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठैश्च। गन्धाम्भः कर्तव्य कञ्चित्कालं स्थितान्यस्मिन्। जातीफलपत्रैलाकर्पूरैः कृतयमैकशिस्विभागैः। अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि। वर्णप्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां च। संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसमुद्भवानाम्। कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च। ऊर्जं करोति कफजांश्च निहन्ति रोगांस्ताम्बूलमेवमपरांश्च गुणान् करोति। युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम्। चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम्। पत्राधिकं निशि हितं सफलं दिवा च प्रोक्तान्यथाकरणमस्य विडम्बनैव। कक्वोलपूगलवलोफलपारिजातैरामोदितं मदमुदामुदितं करोति” “लेख्यमणिरागगन्धयुक्तिविदः” वृ० स०।

गन्धरस = पु० गन्धयुक्तो रसोऽस्य। १ वोले। (फुलसत्त्व) ख्याते उपधातुभेदे। गन्धश्च रसश्च द्व०। २ आमोदरसयोः द्विव०। “श्रद्धापूतं गन्धरसोपपन्नम् (अन्नम्)” भ० उ० २६ अ० “शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च” भा० भी० १२३ अ०।

गन्धरसाङ्गक = पु० गन्धरसौ अङ्गे यस्य कप्। श्रीवेष्टनाख्यगन्धद्रव्ये राजनि०।

गन्धराज = पु० गन्धानां गन्धयुक्तानां राजा टच् समा०। १ स्वनामख्याते पुष्पप्रधाने वृक्षे २ मद्गरवृक्षे ३ कणगुग्गुलौ च राजनि०। गन्धेन राजते राज–अच्। ४ जबादिनामगन्धद्रव्ये पु० ५ गन्धद्रव्यश्रेष्ठे त्रि० ६ चन्दने न० राजनि०। ७ नखीनामगन्धद्रव्ये स्त्री ङीप् शब्दचन्द्रिका।

गन्धर्व्व = पु० गन्धमामोदमर्वति अर्व–अच् ६ त० शक०, गाः स्तुतिरूपा गीतिरूपा वा वाचः रश्मीन् वा धारयति धृ–व गोर्गमादेशो वा। १ घोटके २ मृगभेदे कस्तूरीमृगे ३ अन्तराभवसत्त्वे च अमरः। अन्तराभवसत्वस्तु जन्ममरणयोर्मध्यभवः यातनाशरीरवान्, गुप्तप्राणी वा। “गन्धर्वाः पतयोमम” भा० वि० १० अ०। सैरिन्ध्रीरूपद्रौपदीवाक्यम्। अन्तराभवसत्तः सत्वान्तरमध्ये आवेशकारी सत्वभेद इत्येव युक्तम्। स च सुश्रुते दर्शितो यथा “अथातोऽमानुषप्रतिषेधीयं व्याख्यास्यामः” इत्युपक्रमे “देवास्तथा शत्रुगणाश्च तेषां, गन्धर्वयक्षाः पितरो भुजङ्गाः। रक्षांसि या चापि पिशाचजातिरेषोऽष्टधा देवगणो ग्रहाख्यः” इत्यष्टधा विभज्य। “हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः। नृत्यन् वा प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः” इति तद्ग्रहाविष्टलक्षणमुक्तम्। “ते पतञ्जलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता” शत० ब्रा० १४। ६। ३। १। “गन्धर्वेणामानुषेण गृहीतां आविष्टा” भा०। ४ एरण्डे भावप्र० “गन्धर्वतैलसिद्धां हरितकीं गोऽम्बुना पिबेत्” अस्य व्याख्यायां “गन्धर्वतैलमेरण्डतैलम्” तदुक्तेः तस्य च गन्धर्वरूपमृगभेदपादतुल्यपत्नकत्वात्तथात्वम्। ५ गायनमात्रे त्रि० मेदि०। ६ देवगायने देवयोनिभेदे पु० अमरः। तत्राश्वे “रथं संयोजयामासुर्गन्धर्वैर्हेममालिभिः” भा० व० १६१ अ०। “गावः रश्मयः वृष्ट्युदकानि वा धारयति गवि उपपदे धृ–व गेर्गमादेशः इति ता० ब्रा० भाष्ये माधोवोक्तेः ७ रश्मिधारके सोमादित्यादौ। “गन्धर्वोऽस्य रसनामगृभ्नात्” ऋ० १, १६३, २, “गन्धर्वः सोमः” भा०। “ऊर्द्ध्वे गन्धर्वो अधिनाके अस्थात्” ऋ० ९, ८५, १२। “गन्धर्वो रश्मीनां धारकः” भा०। “गन्धर्व इत्था पदमस्य रक्षति” ९, ८३, ४। “गन्धर्वः उदकानां स्तुतीनां वा धारक आदित्यः” भा० “शतक्रतुरत्सरत् गन्धर्वमस्तुतम्” ऋ० ८, १, ११। “गन्धर्वः गवां रश्मीनां धर्त्तारं सूर्य्यम्” भा० “दिव्यो गन्धर्वः केतपूः” यजु० ११, ७, “गां वाचं स्तुतिरूपाम् धारयतीति गन्धर्वः सविता” वेददी०। गायने। “विश्वावसुरसि तन्नोगृणातु दिव्यो गन्धर्वः” ऋ० १०, १३९, ५ दिव्य इति विशेषणात् गायन मात्रपरत्वम्। अत एव शब्दार्थचि० “अस्मिन् कल्पे मनुष्यः सन् पुण्यपाकविशेषतः। गन्धर्वत्वं समापन्नो मर्त्यगन्धर्व उच्यते। पूर्वकल्पकृतात् पुण्यात् कल्पादावस्य चेद्भवेत्। गन्धर्वत्वं, तादृशोऽत्र दिव्यगन्धर्व उच्यते” इति गायनरूपगन्धर्वाभिप्रायेण द्वैविध्यमुक्तम् देवयोनि गन्धर्वाश्च वह्निपुराणे एकादशविधा उक्ता यथा “अभ्राजोऽङ्घारिवम्भारी सूर्य्यवर्चास्तथा कृधुः। हस्तः सुहस्तः स्वाम्येव मूर्द्धवांश्च महामनाः। विश्वावसुः कृशानुश्च गन्धर्वैकादशोगणः”। जटाधरेण तन्नामान्यन्यथोक्तानि यथा “हाहा हूहूश्चित्ररथो हंसो विश्वावसुस्तथा। गोमायुस्तुम्बुरुर्नन्दिरेवमाद्याश्चते स्मृताः”। देवगन्धर्व्वाश्च द्विविधाः केचित् मौनेयाः केचित् प्राधेयाश्च तत्र मौनेयाः कश्यपपत्न्यां दक्षसुतायां मुनिनामिकायां जाताः षोडश, प्राधेयाश्च प्राधायां तत्पत्न्यां जाता दश इत्येवं भा० आ० ६५ अ० उक्ता यथा “भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा। गोपतिर्धृतराष्ट्रश्च सूर्य्यवर्च्चाश्च सप्तमः। सत्यवागर्कपर्णश्च प्रयुतश्चाभिविश्रुतः। भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी। तथा शालिशिरा राजन् पर्जन्यश्च चतुर्दशः। कलिः पञ्चादशस्तेषां नारदश्चैव षोडशः। इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः। अथ प्रभूतान्यन्यानि कीर्त्तमिष्यामि भारत!। अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्। अनूपां सुभगां भासीमिति प्राधा व्यजायत। सिद्धः पूर्णश्च वर्ही च पूर्णायुश्च महायशाः। ब्रह्मचारी रतिगुणः सुपर्णश्चैव सत्तमः। विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा। इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्त्तिताः” स्वारोचिषमन्वन्तरे तु गब्धर्वा अरिष्ठायाः पुत्राः यथा हरिवं० ३ अ०। “अरिष्टा तु महासत्वान् गन्धर्वानमितौजसः” इत्युक्त्वा “एष मन्वन्तरे तात! सर्गः स्वारोचिषे स्मृतः”। जातिपरत्वे स्त्रियां ङीप्। “नैव देवी न गन्धर्वी न यक्षी न च किन्नरी” रामा० आर० ८३ अ०। पत्न्यामपि ङीष् “गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च वे। तथैवाप्सरसः सर्वा राक्षसेषूत्तमा गतिः”। “दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्” मनुः। ८ द्वीपभेदे पु० “भारतस्यास्य वर्षस्य नव भेदान्निशामय। इन्द्रद्वीपकशेरुमा~स्ताम्रवर्णो गभस्त्रिमान्। नागद्वीपस्तथा सौम्यः गन्धर्वस्त्वथ वारुणः। अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः”। गन्धर्वो देवताऽस्य अण्। गान्धर्व अस्त्रभेदे “संमोहनं नाम सखे! ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम्। गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते” रघुः। विवाहभेदे च “गान्धर्वः समयान्मिथः” मनुः।

गन्धर्वनगर = न० अनिष्टसूचके आकाशोत्थिते वृ० सं० उक्ते १ खपुरे खपुरशब्दे विवृतिः तस्य कालभेदे विपाकः वृ० स० ९७ अ० उक्तो यथा। “गन्धर्वपुरं मासात् रसवैकृत्यं हिरण्यविकृतिश्च”। ६ त०। २ गन्धर्वाणां नगरे च। “सरोमानसमासाद्य हाटकानभितः प्रभुः। गन्धर्वरक्षितं देशमजयत् पाण्डवस्ततः। तत्र तित्तिरिकुल्माषान् मण्डूकाख्यान्। हयोत्तमान् लेभे स करमत्यन्तं गन्धर्वनगरात्तदा” भा० स० १७ अ०। अर्जुनोत्तरदिग्विजयोक्तौ। गन्धर्वपुरादयो०प्यत्र।

गन्धर्वबधू = स्त्री गन्धर्वस्य बधूरिव प्रियत्वात्। १ शठ्यां २ चीडानामगन्धद्रव्ये च राजनि०।

गन्धर्वलोक = पु० ६ त०। गुह्यकलोकोपरिस्थे विद्याधरलोकस्याधानिविष्टे स्थाने। तत्स्थानकथा तत्प्राप्तिपुण्यानि च गुह्यकलोकोक्त्यनन्तरं काशीख० दर्शितानि यथा।

“गान्धर्व्वस्त्वेष लोकोऽमी गन्धर्वाश्च शुभप्रदाः। देवानां गायनाह्येते चारणाः स्तुतिपाठकाः। गीतज्ञा अभिगीतेन तोषयन्ति नराधिपान्। स्तुवन्ति च धनाद्यांश्च धनलोभेन माहिताः। राज्ञां प्रसादलब्ध्वानि सुवासांसि धनान्यपि। द्रव्याण्यपि सुगन्धीनि कर्पूरादीन्यनेकशः। व्राह्मणेभ्यः प्रयच्छन्ति गीतिं गायन्त्यहर्निशम्। स्तुतावेव मनस्तेषां नाट्यशास्त्रे कृतश्रमाः। तेन पुण्येन गन्धर्वलोकस्तेषा विशिष्यते। ब्राह्मणास्तोषिता यद्वै गीतिविद्यार्जितैर्धनैः। गीत विद्याप्रभावेन देवर्षिर्नारदो महान्। मान्यो वैष्णव लोके वै श्रीशम्भोश्चातिवल्लभः। तुम्बुरुनारदश्चीभौ देवानामपि दुर्ल्लभौ। नादरूपी शिवः साक्षान्नादविद्याविदां हितः। यदि गीतं क्वचिद्गातं श्रीमद्धरिहरात्मकम्। मोक्षन्तु तत्फलं प्राहुः सान्निध्यमथ वा तयोः। गीतज्ञो यदि गीतेन नाप्नोति परमं पदम्। रुद्रस्यानुच रोभूत्वा तेनैव सह मोदते। अस्मिल्लो~के सदा कालं स्मृतिरेषा प्रगीयते। तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा। इति शृण्वन् क्षणात् प्राप पुरमन्यन्मनोहरम्। शिवशर्माथ पप्रच्छ किंसंज्ञं नगरन्त्विदम्। गणाबूचतुः। असौ विद्याधरो लोको नानाविद्याविशारदाः।”

गन्धर्वविद्या = स्त्री ६ त०। सङ्गीतविद्यायाम्।

गन्धर्ववेद = पु० ६ त०। सामवेदस्योपवेदे सङ्गीतमूलग्रन्थे उपवेदशब्दे दृश्यः।

गन्धर्वहस्त = पु० गन्धर्वस्य मृगभेदस्य हस्तः पाद इव पत्रमस्य। एरण्डवृक्ष हारा०। कप्। तत्रार्थे अमरः। सुश्रुतेन तत्पत्राल्लवणात्पत्तिरमिहिता यथा “गन्धर्वहस्तकमुष्ककनक्तमालाटरूषकपूतीकारग्बधचित्रपदीनां पत्राण्यार्द्राणि लवणेन सहोदूखलेऽनुवद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्द्दाहयेदेतत्पत्रलवणमुपदिशन्ति वातरोगेषु”।

गन्धलता = स्त्री गन्धान्विता लता। प्रियङ्गौ शब्दार्थचि०।

गन्धलोलुप = त्रि० ७ त०। गन्धलोभातिशयवत्यां मधुमक्षिकायां शब्दर०।

गन्धवत् = त्रि० गन्धो विद्यतेऽस्य मतुप् मस्य वः। १ गन्धयुक्ते “गन्धवद्रुधिरचन्दनोक्षिता” रघुः। स्त्रियां ङीप्। सा च २ पृथिव्याम् मत्स्यगन्धायां सत्यवत्याम् ३ व्यासमातरि तस्यास्तन्नामत्वप्राप्तिः भा० भी० ६२ अ० उक्ता यथा

“एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्। सचास्यै भगवान् प्रादान् मनसः काङ्क्षितं भुवि। ततोलब्धवरा प्रीता स्त्रीभावगुणभूषिता। जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा। तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि। तस्यास्तु योजनाद्गन्धमाजिघ्रन् यन्नरा भुवि। तस्या योजनगन्धेति ततो नामापरं स्मृतम्। इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्। पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा। जज्ञे च यमुनाद्वीसे पाराशर्य्यः स वीर्य्यवान्।” ४ सुरायां मेदि० ५ नवमल्लिकायां रत्नमा० ६ मुरानामगन्धद्रव्ये जटा०। ७ वायुपुर्य्याञ्च यथाह मृगेन्द्रसंहिता यथा “वायोर्गन्धवतीं तुङ्गश्वेतपीतध्वजां शृणु। बलवद् भूतसंजुष्टां सर्वरत्नविनिर्मिताम्”। काशीख० १३ अ०। “इमां गन्धवतीं रम्यां पुरीं वायोर्विलोकय। वारुण्या उत्तरे भागे महाभाग्यनिधे! द्विज।” इति गन्धवतीपुर्य्याः स्वरूपं ते निरूपितम्। तस्याः प्राच्यां कुवेरस्य भ्राजथ्येषालका पुरी”। तदुत्तराध्याये। मेदिनिकोषे “अथ गन्धवती पृथ्वी पुरीभिद्व्यासमातरीति” पुरीभेदार्थकतामात्रोक्तेः शब्दकल्पद्रुमे तन्मूलकशब्दस्तोमे च वरुण पुरीपरत्वकथनं प्रामादिकमेव। वरुणपुर्य्यास्तु निम्नोचनीति नाम यथोक्तं भाग० ५। २०। १०। यथा “तस्मिन्नैन्द्रीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम”

गन्धवल्कल = न० गन्धो वल्कलेऽस्य। (दारचिनि) त्वचे। राजनि०।

गन्धवल्लरी = स्त्री गन्धान्विता वल्लरी। सहदेवीलतायाम् गन्धबल्लीत्यप्यत्र राजनि०।

गन्धवह = पु० गन्धं वहति वह–अच् ६ त०। १ वायौ अमरः “आघ्रायि वान् गन्धवहः सुगन्धः” भट्टिः “दिग्दक्षिणा गन्धवहं मुखेन” कुमा०। २ गन्धयुक्ते नायकभेदे पु०। “नबालता गन्धवहेन चुम्बिता” नैष०। अत्र नायिकापक्षे गन्धवहशब्दस्य नायकभेदपरत्वम्। ३ गन्धधारिमात्रे त्रि०। “आकाशात्तु विकुर्वाणात् सर्वगन्धवहः शुचिः। वलवान् जायते वायुः स वै स्पर्शगुणो मतः” मनुः। “वायुर्गन्धबहः” भाग० २। १०। २०। ४ नासिकायां स्त्री अमरः।

गन्धवहल = गन्धं वहति वह–बा० अलच् गन्धो वहलोऽस्य वा। १ सितार्जकवृक्षे २ श्वेततुलस्याञ्च राजनि०।

गन्धवारि = न० गन्धद्रव्यवासितं वारि। सुगन्धिद्रव्यवासिते जले।

गन्धवाह = पु० गन्ध वहति वह–अण् उप० स०। १ वायौ। अमरः। “प्रसरदसमवाणप्राणवद्गन्धवाहः” गीतगो०। २ कस्तूरीभृगे हेमच०। ३ नासिकायां स्त्री ङीप् हेमच०

गन्धविह्वल = पु० गन्धेन विह्वलयति वि + ह्वल–णिच्–अच्। गोघूमे शब्दच०।

गन्धवीजा = स्त्री स्त्री गन्धो वीजे यस्याः। मेथिकायाम् राजनि०

गन्धवृक्षक = पु० गन्धप्रधानो वृक्षः संज्ञायां कन्। १ सालवृक्षं राजनि०।

गन्धव्याकुल = पुंन० गन्धेन व्याकुलयति वि + आ + कुल–णिच् अच्। १ कक्कोले। शब्दच०

गन्धशटी = स्त्री गन्धप्रधाना शटी शा० त०। शठ्याम् शब्दच०

गन्धशाक = न० गन्धप्रधानं शाकम् शा० त०। गौरसुवर्णशाके राजनि०।

गन्धशालि = पु० गन्धप्रघानः शालिः। आमोदवति घान्यभेदे (वासमती) प्रसिद्धे सुगन्धके शालौ। “गन्धशालिः सुमधुरो वृष्यः पित्तश्रमप्रणुत् स्नायुविदाहशमन स्तन्यगर्भस्थिरत्वकृत्। ईषद्वातप्रशमनः स्वल्पकफबल- प्रदः” राजनिघण्टौ तद्गुणाः सभासेन दर्शिताः।

गन्धशुण्डिनी = स्त्री गन्धयुक्तः शुण्डो मुखमस्त्यस्याः इनि ङीप्! छुछुन्दर्य्यां राजनि०।

गन्धशेखर = पु० गन्धः शेखरेऽस्य। कस्तूर्य्यां मृगमदे हारा०।

गन्धसार = पु० गन्धयुक्तः सारो यस्य। चन्दनवृक्षे अमरः। गन्धशब्दे उदा०।

गन्धसारण = पु० गन्धं सारयति सृ–णिच्–ल्यु। १ वृहन्नखीनामगन्धद्रव्ये रत्नमा०। २ मुद्गरवृक्षे राजनि०।

गन्धसोम = न० गन्धार्थं सोमो विधुर्यस्य। १ कुमुदे हारा० चन्द्रोदये हि तस्य गन्धः।

गन्धहारिका = स्त्री गन्धं हरति हृ–ण्वुल् टाप् कापि अत इत्त्वम्। परगृहस्थायां गन्धाढ्यवेशकारिकायां स्त्रियाम् शब्दमाला।

गन्धा = स्त्री गन्ध–णिच् अच्, गन्ध + अस्त्यस्य अच् वा। आमोदहेतौ चम्पककलिकायाम् शब्दरत्ना०। २ शट्याम् राजनि० ३ शालपर्ण्यां भरतः। ४ आमोदयुक्तायां स्त्रियाञ्च।

गन्धाखु = स्त्री गन्धयुक्त आखुः। छुछुन्दर्य्याम् (छुचा)। हारा०।

गन्धाजीव = पु० गन्धेन गन्धद्रव्येणाजीवति आ + जीव–अच्। (गन्धवेणे) गन्धबणिजि जटाधरः।

गन्धाढ्य = न० गन्धेनाढ्यः। १ जवादिनामगन्धद्रव्ये २ चन्दने च राजनि० ३ नारङ्गवृक्षे पु० राजनि०। ४ गन्धपत्रायां (गन्धभादाल) ५ स्वर्णयूथ्यां ६ तरुण्याम् ७ आरामशीतलायाञ्च स्त्री राजनि० ८ गन्धोल्याञ्च स्त्री शब्दच०। ९ गन्धयुक्ते त्रि०। “वनस्पतिरसो दिव्यो गन्धाद्यः सुमनोहरः” धूपदानमन्त्रः।

गन्धाधिक = न० गन्धोऽधिकोऽत्र। तृणकुङ्कुमे राजनि०

गन्धाम्ला = स्त्री गन्धयुक्तः अम्लो रसो यस्याः। वनवीजपूरके राजनि०

गन्धार = पु० ब० व० गन्धमृच्छन्ति ऋ–अण् उप० स० १ देशभेदे “कश्मीराः सिन्धुसौबीरा गन्धारादर्शकास्तथा” भा० भी० ९ अ० नानाजनपदोक्तौ। “पण्डितो मेधावी गन्धारानेवोपसम्पद्यते” छा० उप०। “गन्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा” भा० आ० ६३०। २ तन्नृपेषु ब० व०। ततो भवार्थादौ कच्छादि० अण्। गान्धार तद्देशभवे त्रि० स्त्रियां ङीप्। गान्धारी सा च शकुनिदुर्य्योधनमातरि। गन्धाराः अभिजनोऽस्य सिन्ध्वा० गन्धार–अण्। गान्धारपित्रादिक्रमेण गन्धारदेशवासिनि त्रि०।

गन्धारि = पु० गन्धम् ऋच्छति ऋ–इन् ६ त०। गन्धारदेशे। “मर्वाहमत्यबोध्य गान्धारीणामिवाविका” ऋ० १। १२६। गन्धं लेशरूपं गर्भमृच्छति अण् गौरा० ङीष्। १ गन्धारी गर्भवत्याञ्च उक्तमन्त्रभाष्ये माधव आहस्म “रोमशत्वे दृष्टान्तः गन्धारीणामविकेव। गन्धारा देशाः। तेषां सम्बन्धिन्य विजातिरिव तद्देशस्था अवयो मेषा यथा रोमशाः तथाहमस्मि। यद्वा गन्धारीणां गर्भधारिणीनां स्त्रीणामविकात्यर्थं तर्पयन्ती योनिरिव। तासामाप्रसवं रोमादिविकर्त्तनस्य शास्त्रे निषिद्धत्वाद्योनी रोमशा भवति अतः सोपमीयते”

गन्धाला = स्त्री गन्धायालति पर्य्याप्नोति अल–अच्। (जियति) लतायां शब्दच०।

गन्धाली = स्त्री गन्धमलति पर्य्याप्नोति अल–अण् गौरा० ङीष्। (गन्धभादाल) लताभेदे अमरः। ६ त०। गन्धश्रेणौ च।

गन्धालीगर्भ = स्त्री गन्धाली नन्धश्रेणी गर्भे यस्याः। सूक्ष्मैलायाम् राजनि०।

गन्धाश्मन् = पु० गन्धयुक्तोऽश्मा शा० त०। गन्धके अमरः।

गन्धाष्टक = न० गन्धानां गन्धद्रव्याणामष्टकम्। चन्दनाद्यष्टसु आमोदाढ्यद्रव्येषु। देवताभेदेन देयाष्टप्रकारगन्धद्रव्यभेदा यथा “चन्दनागुरुकर्पूरचोरकुङ्कुमरोचनाः। जटामांसी कपियुता शक्ते र्गन्धाष्टकं विदुः। चन्दनागुरुह्रीवेरकुष्ठकुङ्कुमसेव्यकाः। जटामांसीमुरमिति विष्णोर्गन्धाष्टकं विदुः। चन्दना गुरुकर्पूरतमालदलकुङ्कुमम्। कुसीदं कुष्ठसंयुक्तं शैवं गन्धाष्टकं शुभम्। स्वरूपं चन्दनं चोररोचनागुरुरेव च। मदं मृगद्वयोद्भूतं कस्तूरीचन्द्रसंयुतम्। गन्धाष्टकं विनिर्द्दिष्टं गणेशस्य महेशितुः” शारदा० ति०। “चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम्। रक्तचन्दनह्रीवेरं गाणपत्यमुदाहृतम्। जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः। ऊशोरागुरुकर्पूरैः सौरं गन्धाष्टकं विदुः” मेरुतन्त्रम्।

गन्धाह्वा = स्त्री गन्धेनाह्वयति आ + ह्वे–क। रक्ततुलस्याम्। “मालती कटुतुम्बी गन्धाह्वा मूलकं तथा” सुश्रुतः।

गन्धि = न० गन्ध–इन्। तृणकुङ्कुमे राजनि०।

गन्धिक = पु० गन्धोऽस्त्यस्य ठन्। १ गन्धके गन्धो गन्धद्रव्य पण्यत्वेनास्त्यस्य ठन्। २ गन्धबणिजि।

गन्धिन् = त्रि० प्रशस्तः गन्धोऽस्त्यस्य इनि। प्रशस्तामोदयुक्ते “अनोकहाकम्पितपुष्पगन्धी” “हविः शमीलाजगन्धि” “शालनिर्यासगन्धिभिः” धूमैराहुतिगन्धिभिः” रघुः। “यन्नैव गन्धि नो रस्य नो रूपि त च शब्दवत्। मन्यन्ते मुनयो बुद्ध्या तत् प्रधानं प्रचक्षते” भा० आश्व० ५२ अ०। स्त्रियां ङीप्। “गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः” भा० आनु० ७८ अ०। सा च २ मुरानामगन्धद्रव्ये अमरः।

गन्धिपर्ण्ण = पु० गन्धि गन्धयुक्तं पर्ण्णमस्य। सप्तच्छदे राजनि०। गन्धिपत्रादयोऽप्यत्र।

गन्धेन्द्रिय = न० गन्धग्राहकमिन्द्रियम् शा० त०। घ्राणेन्द्रिये तच पृथिव्यंशोत्पन्नम् “पार्थिवो गन्धो गन्धेन्द्रियं सर्वमूर्त्तिसमूहो गुरुता चेति” सुश्रुतः। तस्य यथा पार्थिवता तथा मुक्तावल्यां ममर्थितं यथा

“घ्राणेन्द्रियं पार्थिवं रूपादिषु मध्ये गन्धस्थैव व्यञ्जकत्वात् कुङ्कुमगन्धव्यञ्जकघृतवत् न च दृष्टान्ते स्वकीयरूपादिव्यञ्जकत्वादसिद्धिरिति वाच्यं परकोयरूपाद्यव्यञ्जकत्वस्व तदर्थत्वाद् न च नवशरावगन्धव्यञ्जकजलेनानैकान्तमिति वाच्यं तस्थ सक्तु रमाभिव्यञ्जकत्वात् यद्वा परकीयेति न देयं वायूपनीतसुरभिभागस्य दृष्टान्तत्वसम्भवात् नच घ्राणेन्द्रियसन्निकर्षस्य गन्धमात्रव्यञ्जकत्वात् तत्र व्यसिचार इति वाच्यं द्रव्यत्वे सति इति विशेषणात्।” अधिकमिन्द्रियशब्दे उक्तम्।

गन्धो(न्धौ)तु = पु० गन्धप्रधान ओतुः वा वृद्धिः। खट्टासे जन्तुभेदे त्रिका०।

गन्धोत्कटा = स्त्री गन्धेन उत्कटा उग्रा। दमनकवृक्षे राजनि०

गन्धोत्तमा = स्त्री गन्धेन उत्तमा उत्कृष्टा। मदिरायाम् अमरः

गन्धोद = न० गन्धवासितमुदकं शा० त० वा उदादेशः। गन्धद्रव्यवासितजले “आसिक्तमार्गं गन्धोदैः” भाग० ९। ११। १८। उदादेशाभावे गन्धोदकमप्यत्र गन्धयुक्तिशब्दे उदा०।

गन्धोपजीविन् = पु० गन्धं गन्धद्रव्यमुपजीवति उप + जीवणिनि। गन्धबणिजि। “दन्तकाराः सूपकारा ये च गन्धोपजीविनः” रामा० अयो० ८३। १ अ०।

गन्धोलि(ली) = स्त्री गन्ध–ओलि–वा ङीप्। शठ्याम्। ङीबन्तः। २ भद्रमुस्तायाम् मेदि०।

गन्धोली = स्त्री गन्ध–अर्द्दने बा० ओलच् गौरा० ङीष्। वरटायां (वोलता) अमरः।

गभ = न० भग + पृषो० वर्णविपर्य्ययः। भगे। “आहन्ति गभे पसो निगल्लीति घाका” यजु० २३। २२ “गभे भगे वर्णविपर्ययः” वेददी० “गमे मुष्टिमतंसयत्” २३। ४। २४ “आहन्ति गभे पसो निगल्लीति धाके” शत० व्रा० १३। २। ९। ६।

गभस्ति = पु० गम्यते ज्ञायते नम–ड गः विषयस्तं बभस्ति भासयात भस–क्तिच्। १ किरणे, २ सूर्य्ये च। ३ स्वाहायां वह्निपत्न्यां स्त्री मेदि० वा ङीप्। “यथा राजन्! कृतीः सर्वाः सूर्य्यः पाति गभस्तिभिः” भा व० १३३ अ०। “निजवदनमलिनमयगभस्तिभिः सुधयति” भाग० ५। ८। २७। “गभस्तिधाराभिरिव द्रुतानि तेजांसि मानोः” भट्टिः। ४ अङ्गुलीषु व० व० ५ बाहौ द्विव० निघण्टुः। “पृथू करस्रा बहुला गभस्ती” ऋ० ६। १९। ३। “भगस्ती बाहू” भा०। “आ रश्मयोः गमस्त्योः स्थूरयोः” २९। २। “गभस्त्योः बाह्वोः” भा० ६ पाणौ च “पाणी वै गभस्ती पाणिभ्यां ह्येनं पावयति” गभस्तिपूतनिरुक्तौ शत० ब्रा० ४। १। १। ९। “कृष्णोऽंशुभ्यां गभस्तिपूतः” यजु० ७। १। “गभस्तिभ्यां पाणिभ्यां पूतः” वेददी०।

गभस्तिनेमि = पु० गभस्तय एव चक्रं तस्य नेमिरिव। गभस्तिरूपचक्रमध्यस्थस्य सूर्य्यात्मनो नेमितुल्ये परमेश्वरे। “गभस्तिनेमिः सत्वस्थः” विष्णुस०। “गभस्तिनेमिः श्रीपद्मः” भा० शा० १३ अ० विष्णुस्तुतिः।

गभस्तिपाणि = पु० गभस्तिः पाणिरिवास्य रसाकर्षणाय। सूर्य्ये हेमच०। गभस्तिकरादयोऽप्यत्र। गभस्तिहस्तशब्दे दृश्यम्।

गभस्तिमत् = पु० गभस्तयोभूम्ना सन्त्यस्य मतुप्। सूर्य्ये शब्दरत्ना०। तस्य सहस्रकिरणत्वात्तथात्वम्। “घनव्यपायेन गभस्तिमानिव” रघुः गभस्तयोनित्यं सन्त्यत्र नित्ययोगे मतुप्। २ पातालभेदे न० शब्दर०। “आह्लादकारिणः शुभ्राः मणयो यत्र सुप्रभाः। दिवार्करश्मयो यत प्रभां तन्वन्ति नातपम्। शशिनश्च न शीताय निशि द्योताय केवलम्” विष्णुपुराणोक्तेः तस्य सर्वदा मण्यादिदीप्तिमत्त्वात् तथात्वम् ३ द्वीपभेदे पु० गन्धर्वशब्दे दृश्यम्।

गभस्तिहस्त = पु० गभस्तयो हस्ता इव जलाकर्षणाय यस्य। सूर्य्ये त्रिका०। “सूर्य्यः किरणजालेन वायुयुक्तेन सर्वतः। जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तम!” विष्णुपु० उक्तेस्तस्य किरणद्वारा जलाकर्षकत्वात् तत्किरणानां तस्य हस्ततुल्यत्वम्।

गभस्तीश = पु० काशीस्थे लिङ्गभेदे “गभस्तीशो महालिङ्गमेतद्दिव्यमहःप्रदम्” काशीख०।

गभि = त्रि० गच्छति नीरमत्र गम–आधारे इन् भश्चान्तादेशः। गभीरे। “गभौ सञ्जते सन्ज–क्विप् गभिषज् गमीरस्थायिनि। “तेषां हि धाम गभिषक् समुद्रियम्” अथ० ७। ७। १।

गभीका = स्त्री गभीरे कायति कै–क पृषो० रलोपः। (गाम्भार) वृक्षभेदे तस्याः फलम् अण् हरितक्या० तस्य लुप् तद्धित लुपि प्रकृतिलिङ्गता। गभीका तत्फले स्त्री।

गभीर = त्रि० गच्छति जलमत्र गम–ईरन् भान्तादेशश्च। १ निम्नस्थाने, २ अतलस्पर्शे, ३ मन्द्रे ध्वनौ च अमरः। ४ गहने, ५ दुष्प्रवेशे, ६ दुर्बोधे च उणादिकोषः। “जीर्ष्णा तरिः सरिदतीव गभीरनीरा” उद्भटः “न त्वां गभीरं गुरुहन्तः! सिन्धुः” ऋ० ३। ३२। १६। “न तं गूहन्ति स्रवतो गभीराः” ऋ० १०। १०८। ४।। ७ वाचि स्त्री निघण्टुः। ८ द्यावापृथिव्योः रोदस्योः स्त्री द्विव० निघण्टुः।

गभीरात्मन् = पु० गभीरः दुर्लक्ष्य आत्मा स्वरूपमस्य। परमेश्वरे। “चतुरस्रो गभीरात्मा” विष्णुस०। आत्मास्वरूपं चित्तं वा गभीरं परिच्छेतुमशक्यमस्य गभीरात्मा” भा०।

गभीरिका = स्त्री गभीरा मन्द्रध्वनियुक्ता संज्ञायां कन्। बृहड्ढक्कायाम् शब्दरत्ना०।

गभोलिक = पु० अव्युत्पन्नप्रातिपदिकम्। मसूरे हारा०।

***