गण्ड = पु० गडि + वदनैकदेशे अच्। १ कपोले(गाल) २ हस्तिकपोले च अमरः। ३ गण्डके पुंस्त्री० ४ वीथ्यङ्गे ५ पिटके ६ चिह्ने ७ वीरे ८ हयभूषणे ९ बुद्वुदे च मेदि०। १० स्फोटके ११ ग्रन्थौ रमानाथः। विष्कुम्भादिषु १२ दशमे योगे। १३ अश्विन्यादिनक्षत्राणां दण्डभेदे। गण्डमाह ज्ये० त० “अश्विनी मथमूलानां तिस्रो गण्डाद्यनाडिकाः। अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव जवना जगुः। मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः। सन्ध्याद्वये तथा ज्ञेयो रेवतीतुरगर्क्षयोः। तत्र जातस्य दोषा यथा। सन्ध्यारात्रि दिवाभागे गण्डयोगोद्भवः शिशुः। आत्मानं मातरं तातं विनिहन्ति यथाक्रमम्” “मूलयाः प्रथमे पादे पितुर्वपुर्विनश्यति। द्वितीये नियतां पीडां मातुः कुर्य्यात् पितुस्तथा। तृतीये धननाशञ्च चतुर्थे सर्वसम्पदः। व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ववत्।” “दिवा जाता तु या कन्या निशि जातस्तु यः पुमान्। नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पार्वतीम्।” विस्तरस्तु मुहूर्त्तचिन्तामणौ पीयूषधारायाञ्चोक्तो यथा। “अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठान्त्यमूलादिभवं हि नारदः। वसिष्ठ एकद्विघटीमितं जगौ वृहस्पतिस्त्वेकघटीप्रमाणकम्। अथोचुरन्ये प्रथमाष्टघट्योमूलस्य शाक्रान्तिमपञ्चनाड्यः। जातं शिशुं तत्र परित्यजेद्वा सुखं पिताऽस्याष्टसमा न पश्येत्”। “आद्ये पिता नाशमुपैति मूलपादे, द्वितीये जननी तृतीये। घनं चतुर्थोऽस्य शुभोऽथ शान्त्या सर्वत्र सत् स्यादहिभे विलोमम्। स्वर्गे शुचिप्रोष्ठपदेषमाघे भूमौ नभःकार्त्तिकचैत्रपौषे। मूलं ह्यधस्तात्तुतपस्यमार्गबैशाखशुक्रेष्वशुभं च तत्र। गण्डान्तेन्द्रभशूलपातपरिघव्याघातगण्डावमे संक्रान्ति व्यतिपातवैधृतिसिनीबालीकुहूदर्शके। वज्रे कृष्णचतुर्द्दशीषु यमघण्टे दग्धयोगे मृतौ विष्टौ सोदरभे जनिर्न पितृभे शस्ता शुभा शान्तितः” मु० चि०। एतद्व्याख्या पी० धा०

“अत्राभुक्तमूलस्यानेके भेदाः तत्रैकस्तावदयं भेदः ज्येष्ठानक्षत्रान्तेभवं ज्येष्ठान्त्यं मूलादौ भवं मूलादिभवं ज्येष्ठान्त्यजातं घटीचतुष्टयं मूलादिजातं घटीचतुष्टयं मिलित्वाष्टौ घटिकाः प्रहर इति यावत्ताबान् कालोऽभुक्तमूलाख्यः (गण्डाख्यः) इति नारद आह (उपलक्षणत्वादश्लेषान्तिमघटीचतुष्टयं मघादिमघटीचतुष्टयं चाभुक्तमूलाख्यः कालः यदाह नारदः “यो ज्येष्ठामूलयोरन्तरालप्रहरजः शिशुः। अभुक्तमूलजः सार्पमघानक्षत्रयोरपीति”। तथापरोभेदः एकेति ज्येष्ठान्ते एकघटीमितं मूलादौ घटीद्वयमितमेवं मिलित्वा त्रिघटिकमभुक्तमूलं स्वादिति वसिष्ठमुनिर्जगौ यदाह वसिष्ठः “ज्येष्ठान्त्यपादघटिकामितमेव केचिन् मूलं ह्यभुक्तमपरे पुनरामनन्ति। मूलाद्यपादघटिकाद्वितयेन सार्द्धमष्टौ समाःपरिहरेदिह जन्मभाजमिति” समा वर्षाणि। अथान्योभेदः एकेति ज्येष्ठान्त्यार्द्धघटिका मूलाद्यार्द्ध घटिका मिलित्वा एकघटी प्रमाणमस्य तदेकघटीप्रमाणकं “शेषाद्विभाषा” इति पा० कप् तादृशमभुक्तमूलं स्यादिति वृहस्पतिर्जगौ तदाह गुरुः “ज्येष्ठान्त्यघटिकार्द्धञ्चमूलादौ घटिकार्द्धकम्। तयोरन्तर्गता नाडी ह्यभुक्तमूलमुच्यत” इति अथेतरो भेदः अथेति अथशब्दः पादपूरणे मूलनक्षत्रस्य प्रथमा आदिमा अष्ट घटिकाः शाक्रस्य ज्येष्ठायाः अन्तिमाः षञ्च नाड्यः पञ्च घटिकाः। एवमुभयोर्ज्येष्ठा मूलयोरन्तरालवर्त्तिन्यस्त्रयोदशघटिका अभुक्तमूलमिति लोका ऊचुः। “ज्येष्ठान्त्यघटिकाः पञ्च मूलाद्या वसुनाडिकाः। अभुक्तमूलमित्युक्तं तत्र जातं शिशुं त्यजेदिति” स्मरणात्। एवमभुक्तमूलस्यानेकभेदसम्भवे कः साधीयान् पक्ष इति चेत् उच्यते नारदोक्तः पक्ष एव साधीयान् किमत्र प्रमाणमिति चेत् शृणु बहुमुनिसंवाद एवात्र प्रमाणं तदाह कश्यपः न्येष्ठान्त्यमूलयोरन्तरालयामोद्भवः शिशुः। अभुक्तमूलजः सोऽप्यश्लेषापितृभयोरपीति”। वसिष्ठोऽपि “भुजङ्गपौर- न्दरपौष्णभानां तदग्रभानाञ्च यदन्तरालम् अभुक्तमूलं प्रहरप्रमाणं त्यजेत् सुतं तत्र भवां सुताञ्चेति”। अतएव पूर्वमुक्ते वसिष्ठवाक्ये केचिदित्यन्यमताभिप्रायेण यतस्तद्वाक्ये केचिदिति अपरे इति चेत्युक्तिरस्ति यद्येवं षटीन्यूनाधिकभावाभिधायिनां प्रागुक्तवाक्यानां का गतिरिति चत्। उच्यते दोषस्याधिक्याल्पत्वसूचनमेव गतिः। अथाभुक्तमूलसंज्ञाकथनस्य प्रयोजनमाह जातमिति। तत्राभुक्तमूलाख्ये काले जातं शिशुं वालकम् उपलक्षणत्वात्तत्र जातां कन्यां वा पिता परित्यजेन्निष्कासयेत् “त्यजेत् सुतं तत्रभवां सुताञ्चेति” वसिष्ठोक्तेः। यद्यशक्यं निष्कासनं स्यात्तदा किं कार्य्यमित्यत आहवेति वा अथ वा पूर्वपक्षकर्त्तव्यताशक्तौ पिताऽस्य शिशोः कन्याया वा मुखमष्ट समाः अष्टौ वर्षाणि “संवत्सरो वत्सरोऽव्दो हायनोऽस्त्री शरत्समा” इत्यमरः तावत् कालं न पश्येत् यदाह नारदः “अभुक्तमूलजं पुत्रं पुत्रीमपि परित्यजेत्। अथवाव्दाष्टकं तातस्तन्मुखं न विलोकयेदिति”। च्यवनोऽपि “अभुक्तमूलभेभवं परित्यजेच्च बालकम्। समाष्टकं पिताऽथ वा न तन्मुखं विलोकयेत्” इति गण्डान्तदोषस्तु विवाहप्रकरणे वक्ष्यत इति कृत्वाऽत्र नोक्तः (तच्चोपयमशब्दे १२५८ पृ० दर्शितम्)। अथ प्रसङ्गान् मूलाश्लेषा जातस्य बालस्य चरणवशेनशुभाशुभफलमुपजात्याह आद्ये इति मूलनक्षत्रस्याद्ये पादे प्रथमे चरणे चतुर्थांशे इति यावत् तत्र जातस्य शिशोः कन्याया वा पिता नाशं मरणमुपैति प्राप्नोति तथा मूलद्वितीयपादे जननी माता नाशमुपैति। तथा तृतीयमूलपादे धनं द्रव्यं नाशमुपैति चतुर्थो मूलपादोऽस्य शिशोः शुभः शुभफलदः। उक्तञ्च व्रह्मपुराणे “मूलाद्येंऽशे पितुर्नाशो द्वितीये मातुरेव च। तृतीये धनधान्यादिनाशस्तुर्य्ये धनागमः” इति। तुर्य्ये चतुर्थे रत्नमालायाम् “तदाद्यपादके पिता विपद्यते जनन्यथ। तृतीयके घनक्षयश्चतुर्थकः शुभावहः” इति। अत्र पितुर्बहु स्त्रीकत्वेऽपि स्वमातुरेव नाशो वाच्यो न सापत्नमातुः यदाह कश्यपः “मूलाद्यपादजो हन्ति पितरन्तु द्वितीयजः। मातरं स्वां तृतीयोऽर्थान् सुहृदश्च तुरीयजः” इति। यतो मातृशब्दः सापत्नमातुरपि वाचकः। यदाह गौतमः “पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तदपत्यानि मातुलेयानीति। अतः स्पष्टार्थमेव कश्यपवाक्ये स्वामिति पदोपादानम्। अत्र विशेषो वसिष्ठसंहितायां “मूलाद्यपादो दिवसे यदि स्यात्तज्जः पितुर्नाशनकारणं स्यात्। द्वितीयपादो यदि रात्रिभागे तदुद्भवो मातृविनाशकःस्यात्। मूलाद्यपादो यदि रात्रिभागे तदात्मनो नास्ति पुनर्विनाशः। द्वितीयपादो दिनगो यदि स्यान्न मातुरल्पोऽपि तदास्ति दोषः” इति। नारदसंहितायाञ्च “दिवाजातस्तु पितरं रात्रौ तु जननीं तथा। आत्मानं सन्ध्ययोर्हन्ति नान्यगण्डं विवर्जयेदिति”। एतदेव मातापितृगण्डमिति जीर्णा व्यवहरन्ति। अथ दोषसत्त्वे किं कार्य्यमत आह अथेति। अथानन्तरं शान्त्या मूलाश्लेषाशान्त्यास्वनुष्ठितया सर्वत्र चरणचतुष्टयेऽपि शुभमनिष्टफलनाशकं कल्याणं स्यात् उक्तञ्च वसिष्ठेन “नैरृत्यभौजङ्गमगण्डदोषनिवारणायाभ्युदयाय नूनम्। पितामहोक्तां रुचिरां च शान्तिं प्रवच्मि लोकस्य हिताय सम्यक्। शास्त्रोक्तरीत्या खलु सूतकान्ते मासे तृतीयेऽप्यथ वत्सरान्ते” इति। नैरृत्यं मूलं तद्दीषः। भौजङ्गमश्लेषा तद्दोषः गण्डो वक्ष्यमाणस्तद्दोषश्च द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत इति न्यायात् अतस्तद्दोषाणां निवारणं तदर्थम् अतएव कश्यपेन “तद्दोषशमनार्थे हि शान्तिं कुर्य्यात् प्रयत्नतः” इति सामान्यत उक्तम्। अत्र वसिष्ठवाक्ये कालत्रयकथनं सामर्थ्यासामर्थ्यकृतं ध्येयं तथा हि यदि मातुः शीतोदकस्नाने सामर्थ्यं स्यात् तदा सूतकान्त एव शान्तिस्तत्राप्यशक्तौ तृतीये मासि शान्तिः दीर्घरोगादिना तदाप्यशक्तिश्चेत्तर्हि वर्षसमाप्तिदिवसे शान्तिः। मातृगण्डे तु विशेषस्तेनैवोक्तः “मातृगण्डे सुते जाते सूतकान्ते विचक्षणः। कुर्य्याच्छान्तिं तदृक्षे वा तद्दोषस्यापनुत्तये इति” शिष्टास्तु सर्वत्र यस्मिन्नक्षत्रे जन्म तन्नक्षत्र एव शान्तिरिति व्यवहरन्ति। ननु मूलपादचतुष्टयेऽपि शान्तिः कर्त्तव्येत्युक्तं तत्र चतुर्थचरणस्य शुभफलत्वात् शान्तिरयुक्तेति प्रतिभाति “अनिमित्तकृता शान्तिर्निमित्तायोपजायते” स्मरणात्। उच्यते यद्यपि चतुर्थचरणे धनागमरूपं शुभफलमभिहितं तथापि कश्यपेन “सुहृदश्चतुरीयजः” इति सुहृन्नाशरूपस्य फलस्यानिष्टस्योक्ते स्त्रदपाकरणार्थमवश्यं कर्त्तव्या शान्तिः। न हि कस्यचिद्वैरिनाशवन्मातुलाद्यनेकसुहृन्नाश इष्टः मूलवृक्षपादे पुरुषकन्ययोरशुभफलकथनाच्च। मूलवृक्षस्तु समनन्तरमेव मया वक्ष्यते यदि मूलाश्लेषादिदोषसम्भवे शान्ति र्न क्रियते तदानिष्टं भवति एवेत्याह नारदः “वत्स- रात् पितरं हन्ति मातरं तु त्रिवर्षतः। द्युम्नं वर्षद्वयेनैव श्वशुरं नववर्षतः। जातं बाल वत्सरेण बर्षैः पञ्चभिरग्रजम्। मातुलं चाष्टभिर्वर्षैरनुक्तान् हन्ति सप्तभिः। तस्माच्छान्तिं प्रकुर्वीत प्रयत्नाद्विधिपूर्वकमिति” द्युम्नं धनं तस्मादवश्यं चरणचतुष्टयेऽपि शान्तिर्विधेयेति। अहिभे विलोमभिति। अहिभे अश्लेषायामुक्तं फलं विलोमं विपरीतं ज्ञेयं तद्यथा मूलस्य प्रथमे पादे पितृनाश इति फलमुक्तं तत्फलमश्लेषाचतुर्थपादोत्पन्नस्य स्यात् मूलस्य द्वितीयपादे मातृनाश इत्युक्तं फलं तदश्लेषातृतीयचरणोत्पन्नस्य स्यात् अर्थनाशस्ततीयचरणे इत्युक्तं तदश्लेषाद्वितीयपादजातस्य स्यात् मूलस्य चतुर्थपादः शुभ इत्युक्तं तदश्लेषाप्रथमचरणोत्पन्नस्य स्यादित्यर्थः। तदाह कश्यपः “फलं तदेव सार्पर्क्षे प्रतीपं त्वन्त्यपादतः” इति। वसिष्ठोऽपि “मूलाद्यपादजनितः पितरं निहन्ति द्वैतीयजः स्वजननीं त्रिपदेऽर्थवृन्दम्। तौरीयजः शुभकरः फलमेतदेव वैलोमतो भुजगधिष्ण्यभवस्य सर्वमिति”। द्वितीय एव द्वैतीयः प्रज्ञादेराकृतिगणत्वात् स्वार्थेऽण् एवं तौरीयवैलोमशब्दौ साध्यौ। अयमर्थः स्पष्टमुक्तो भास्करव्यवहारे “सार्पांशे प्रथमे राज्यं द्वितीये तु धनक्षयः। तृतीये जननीनाशश्चतुर्थे मरणं पितुरिति”। अंशश्चरणः अत्र लग्नादिदौष्ट्ये सति दुष्टं फलमविकलं भवतीत्याह बादरायणः “मूलसार्पादिजं दौष्ट्यं स्यात् सम्प्रूर्णन्तु लग्नपे। सक्रूरेऽब्जे च विबले शुभवृष्टिविवर्ज्जिते” इति। अतः यथा अश्लेषादौष्ट्येऽपि शान्तिकं विधेयं तथाश्लेषान्त्यमघादिस्थान्तरालप्रहरात्मका भुक्तमूलाख्यकालोयोऽभिविहितस्तत्रोत्पन्नस्यापि शान्तिकं विधेयम्। अत्र सम्मतिवाक्य प्रागभिहितं तत्र मूलशान्तिरश्लेषाशान्तिश्च गण्डान्तेन्द्रमेति पद्यव्याख्यानानन्तरं लिखिष्यते”। “अथात्र प्रसङ्गान्मूलवृक्षविचारोऽभिधीयते जयार्णवे मूलस्तम्भस्त्वचा शाखा पत्रं पुष्पं फलं शिखा। मुनयोऽष्टौ दिशो रुद्राः सूर्य्याः पञ्चाङ्घ्रयोऽग्नयः। मूले तु मूलनाशः स्यात् स्तम्भे वंशविनाशनम्। त्वचि १० मातुर्भवेत् क्लेशः शाखायां ११ सातुलस्य च। पत्रे १२ राज्यं विजानीयात् पुष्पे ५ मन्त्रिपदं स्मृतम्। फले ४ च विपुला लक्ष्मीः शिखाया ३ मल्पजीवितमिति” अस्य मूलाख्यस्य पुरुषस्याङ्गेषु घटीविन्यासस्तत्रैव। “मूलस्य घठिकान्यासो मूर्ध्निपञ्च ५ नृपो भवेत्। मुखे सप्त ७ मृतिः पित्रोः स्कन्धे वेदा ४ महाबलः। बाह्वोरष्टौ बली पाण्योस्तिस्रो ३ हस्तान्वितो भवेत्। हृदि खेटाः ९ भूपमन्त्री नाभौ द्वौ २ ब्रह्मविद्भवेत्। गुह्ये दशा १०ऽतिकामी स्याज्जानुनोः षण् ६ महामतिः। पादयोः षण् ६ मतिस्तस्येत्युक्तवान् कमलासनः” इति। अथ मूलोद्भूतायाः कन्यायाः फलार्थं मूलाङ्गविभागस्तत्रैव। “चतस्रो ४ नाडिकाः शीर्षे कुर्वन्ति पशुनाशनम्। मुखे षट् ६ धनहानिश्च कण्ठे पञ्च धनागमः। कौटिल्यं हृदये पञ्च बाह्वोर्बित्तागमं च तत्। वेदाः ४ पाण्योर्दयाधर्म्मं वेदा ४ गुह्येऽतिकामिनी। ज्येष्ठमातुलनाशश्च जङ्घयोर्युग ४ नाडिकाः। ज्येष्ठभ्रातृविनाशश्च चतस्रो जानुयुग्मके। पादयोर्दश १० नाड्यश्च तत्र वैधव्यमादिशेत्। इति मूलप्रसूतायाः फलमीरितमीदृशमिति” अस्यार्थः शीर्षे चतस्रो ४ घटिकाः मुखे षट् ६ कण्ठे पञ्च ५ हृदये पञ्च ५ बाह्वोर्बाहुद्वये पञ्चपञ्चेति ५ वीप्सा। पाण्योर्मणिबन्धादधो भागयोश्चतस्र इत्यत्रापि वीप्सा। गुह्ये चतस्रः ४ जङ्घयोर्जङ्घाद्वये द्वे द्वे २। २ एवञ्चतस्रः जानुद्वये द्वे द्वे एवं चतस्रः पादयोः पादद्वये पञ्चपञ्चेत्येवं दश १० एवं मिलित्वा षष्टि ६० र्घटिका भवन्ति। अथाश्लेषाजातयोः पुत्रकन्ययोरङ्गविभागेन फलं तत्रैवोक्तम् मूर्ध्नि पञ्चसु ५ पुत्राप्तिर्मुखे सप्त ७ पितृक्षयः। नेत्रे द्वे २ जननीनाशो ग्रीवायां स्त्रीषु लम्पटः। स्कन्धे येदा ४ गुरौ भक्ति र्हस्तेऽष्टौ ८ च बली भवेत्। हृद्येकादशभि ११ श्चात्मघाती संजायते नरः। द्वाभ्यां नाभौ भ्रमः, षड्भिर्गुदे नन्दै ९ स्तपोधनः। पादे पञ्च ५ धनं हन्ति सार्पादेतत्फलं क्रंमादिति”। अथाश्लेषावृक्षोऽपि तत्रैवोक्तः फलं पुष्पं दलं शाखा त्वग्लता कन्द एव च। सार्पवल्या दशा १० क्षां ५ ङ्कं ९ स्वर ७ विश्वा १३ र्क १२ सागराः ४। नाडिकास्तद्भवे बाले फलं ज्ञेयं यथाक्रमम्। श्रीः श्रीराजभयं हानिर्मातृपित्रात्मसंक्षयः” इति। अयञ्च विभागो नक्षत्रस्य षष्टि ६० घटिकात्मकत्वे ज्ञेयः न्यूनाधिकत्वे तु त्रैराशिकमुह्यम्”। वसिष्ठेनान्येष्वपि कियत्सुनक्षत्रेषु जातस्यारिष्टमुक्तं “चित्राद्यर्द्धे पुष्यमध्ये द्विपादे पूर्वाषाढाधिष्ण्यपादे तृतीये। जातः पुत्रश्चोत्तराद्ये विधत्ते मातापित्रोर्भ्रातरं चात्मनाशम्। द्विमासस्वोत्तरादोषः पुष्ये चैव त्रिमासकः। पूर्वाषाढाष्टमे मासि चित्रा षाण्मासिकं फलमिति” अत्रोत्तराशब्देनोत्तराषाढा गृह्यते पूर्वाषाढासाहचयात्। अत एष्वपि नक्षत्रेषु यथाशक्तिमूलव- च्छान्तिकं दोषपरिहारार्थं विधेयम् परन्त्वत्र देवताभेद एव केवलं ध्येयः। स च तत्तत्स्वामिकृतः तत्तन्मन्त्राश्च वेदादेवावगन्तव्यास्तच्छान्तिकञ्च तिथिगण्डान्तशान्तावस्माभिर्वक्ष्यत इत्यलमतिप्रसङ्गेन” पी० धा०। अथ मूलनिवासं सफलमिन्द्रवज्राच्छन्दसाह स्वर्गे इति शुचिराषाढः प्रौष्ठपदो भाद्रपदः इष आश्विनः माघः प्रसिद्धः एषु मासेषु मूलं मूलनक्षत्रं स्वर्गेऽस्ति स्वर्गे निबासस्तस्य। नभाः श्राबणः अन्ये प्रसिद्धाः श्रावणकार्त्तिकचैत्रपौषेषु भूमौ मूलं तिष्ठति। तपस्यः फाल्गुनः शुक्रो ज्येष्ठः अन्यौ प्रसिद्धौ फाल्गुनमार्गशीर्षवैशाखज्यैष्ठेष्वधस्तात्पाताले मूलं तिष्ठति एष मूलनिवास उक्तः एतत्फलञ्च मूलनक्षत्रं यदा यस्मिन्मासे यत्र वसति तत्रैव स्वर्गभूमिपातालेष्वेवोक्तशुभाशुभफलं ददाति अयमत्र तात्पर्य्यार्थः द्रव्याद्यभावेन शान्तिकं कर्त्तुमशक्नुवतः पुंसः स्वर्गपातालनिवासित्वेन मूलस्यारिष्टदोषस्तथा न प्रभवेत् यदा तु भूमावेव निवासस्तदा दोषनिवारणं नैव स्यादित्यशक्तेनापि शान्तिकं विधेयं नैतावता प्रागुक्ते विषये शान्त्यभाव एव किन्तु यथाशक्ति तत्रापि शान्तिकं विधेयं शक्तेन तु सर्वत्रैव विधेयम् तदुक्तं ज्योतिषार्णवे “मार्गफाल्गुनवैशाखज्यैष्ठे मूलं रसातले। माघाश्विननभस्येषु शुचौ मूलं सुरालये। पौषश्रावणचैत्रेषु कार्त्तिके भूमिसंस्थितम्। भूमिष्ठं दोषबहुलं स्वल्पमन्यत्र संश्रितम्” क्वचित् सौरमासपरत्वेन मूलनिवासोऽभिहितः “वृषालिसिंहेषु घटे च मूलं दिविस्थितं युग्मतुलाङ्गलान्त्ये। पातालगं मेषधनुः कुलीरनक्रेषु भूमाविति संस्मरन्ति। स्वर्गे मूले भवेद्राज्यं पाताले च धनागमः। मर्त्यलोके यदा मूल तदा शून्यं समादिशेदिति” ज्योतिषरत्नेऽभिहितत्वात्” पी० धा०। अथ मूलप्रसङ्गाद्दुष्टेषु गण्डान्तादिनिमित्तेषु सत्सु जातस्यारिष्टं सपरिहारं शार्दूलविक्रीडितेनाह गण्डान्तेति एतेषु पदार्थेषु सत्सु जनिः शिशोरुत्पत्तिर्न शस्ता दुष्टफलदा गण्डान्तः सन्धिविशेषः स त्रिविधो नक्षत्रतिथिलग्नभेदेन तल्लक्षणं ज्येष्ठा पौष्ण्यभेत्यादिना वक्ष्यति इन्द्रभं ज्येष्ठानक्षत्रं शूलः शूलाख्यो दुष्टयोगः पातो महापातो गणितसाध्यो, व्यतीपाताख्यो वैधृताख्यश्च परिघव्याघातगण्डा अपि दुष्टयोगाः अवमस्तिथिक्षयः संक्रान्तिः सूर्य्यस्य राश्यन्तरसंक्रमपुण्यकालः व्यतोपोतवैधृती सप्तदशसप्तविंशतितमौ दुष्टयोगौ सिनीवाली दृष्टेन्दुरमावास्या। कुहू- र्नष्टेन्दुरमावस्या “सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः” इत्यभिधानात् दर्शश्चन्द्रदर्शनरहितामावास्या एतच्चाग्रे सम्यक् प्रतिपादयिष्यते वज्रे दुष्टयोगे कृष्णे कृष्णपक्षे चतुर्दशी बहुवचनमावृत्त्यभिप्रायं यमघण्टे मघाविशाखेत्युक्ते दुष्टयोगे दग्धयोगे सूर्य्येशपञ्चाग्निरसाष्टनन्दा इत्युक्ते दुष्टयोगे केचित्तु चापान्त्यगे गोघटगे पतङ्ग” इति वक्ष्यमाणो दुष्टयोग इपि व्याचख्युः। मृतौ द्वीशात्तोयादित्यादिनोक्ते भृत्युयोगे विष्टौ भद्रायां सोदरस्य भ्रातुर्भगिन्या वा भे नक्षत्रे पितृभे माता च पिता च पितरौ तयोर्भे मातृभे पितृभे च एषु निमित्तेषु सुतस्य सुताया जन्म चेत् स्यात्तदनिष्टकृत् स्यादित्यर्थः। दुष्टनिमित्तस्योपलक्षणत्वात् सूर्य्यचन्द्रग्रहणजन्मत्रीतरजन्माप्यनिष्टं सजातीयापत्यत्रयप्रसवानन्तरं विजातीयापत्यप्रसवस्त्रीतरः तथा पुत्रत्रयप्रसवानन्तरं कन्याया जननं कन्यात्रयप्रसवानन्तरं पुत्रस्य जननम् अतएव त्रिभ्यः सजातीयेभ्यः इतरो विजातीयस्त्रीतरः स्त्री च त्रीतरेति व्युत्पत्तिश्च त्रीतरश्च त्रीतरा च त्रीतरौ पुमान् स्त्रियेत्येकशेषः अथ परिहारोऽप्युच्यते सा जनिः शान्तितो वसिष्ठाद्यर्षिप्रोक्तायाः शान्त्याः शुभा परिणामे सुखदायिनी शारीरक्लेशानुभवपूर्वकनीरोगदीर्घायुष्ट्वं शिशोः स्यादित्यर्थः। अत्र मूलवाक्यानि लिख्यन्ते। तत्र प्राक्पद्यप्रतिज्ञातसकलशान्तिसामान्यकर्मौपयिकी च मूलशान्तिस्तावदुच्यते। शौनक उवाच। अथातः सम्प्रवक्ष्यामि मूलजातहिताय च। मातापित्रोर्धनस्यापि कुले शान्तिहिताय च। त्यागो वा मूलजातस्य स्यादष्टाव्दात् प्रदर्शनम्। अभुक्तमूलजातानां परित्यागो विधीयते। अदर्शने वापि पिता स तु तिष्ठेत् समाष्टकम्। एवं च दुहितुर्ज्ञेयं मूलजातफलं बुधैः। मुख्यकालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः। जातस्य जननाहे तु जन्मर्क्षे वा शुभे दिने। समाष्टके वा मतिमान् कुर्याद्वै शान्तिमादरात्। यदेव शान्तिकं कुर्य्यात् कर्म तत्तु प्रचक्ष्महे” अधिकं तत्र दृश्यम्। “गण्डेषु स्फुटरचनाब्जपत्रवल्ली” “गण्डोज्वलामुज्वलनाभिचक्रया” इति च माघः।

गण्डक = पुंस्त्री गण्ड + स्वार्थे क। (गाण्डार) १ पशुभेदे स्त्रियां जातित्वात् ङीष्। २ गण्डशब्दार्थे तस्य हयभूषणपरत्वेऽपि क्वचित् भूषणमात्रपरतेत्यभिप्रायेण “व्याघ्रनखपङ्क्तिमण्डिता गण्डकाभरणा (बालग्रीवा) च” काद०। ३ ग्रन्थौ “गोरोचनालिखितभूर्ज्जपत्रगर्भान् मन्त्रगण्डकान्” काद० स्फोटकरोगे “अनेकवेत्रावातनिर्मितबहुगात्रगण्डकम्” काद०। गण्डकी नदी सन्निकृष्टतयाऽस्त्र्यस्य अच्। गण्डकप्राचीस्थदेशभेदे तत्रवासिषु तन्नपेषु बहुव० “ततः स गण्डकान् शूरो विदेहान् भरतर्षभः। विजित्याल्पेन कालेन” भा० स० २८ अ० भीमप्राचीजयोक्तौ।

गण्डकी = स्त्री गण्ड + जातौ ङीष्। १ गण्डकी गण्डकजातिस्त्रियाम्। २ नदीभेदे ३ तदधिष्ठातृदेवीभेदे च सा च विष्णुसेवया शालग्रामशिलाखनित्वं लेभे तत्कथा। वराहपु०

“गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधे!। शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम्। दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा। ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः। उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः। गण्डकि! त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनघे!। अनवच्छिन्नया भक्त्या वरं वरय सुव्रते!। किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि!। गण्डक्यपि पुरोदृष्ट्वा शङ्खचक्रगदाधरम्। दण्डवत् प्रणता भुत्वा ततः स्तोतुं प्रचक्रमे।” “ततो हिमांशो! सा देवो गण्डकी लोकतारिणी। प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत्। यदि देव! प्रसन्नोऽसि देयो मे वाञ्छितो वरः। मम गर्भगतो भूत्वा विष्णो! मत् पुत्रतां व्रज। ततः प्रसन्नो भगवान् चिन्तयामास गोपते!। किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया। दास्यामि याचितं येन लोकानां भवमोक्षणम्। इत्येवं कृपया देवो निश्चित्य मनसा स्वयम्। गण्डकी मवदत् प्रीतः शृणु देवि! वचो मम। शालग्रामशिलारूपी तव गर्भगतः सदा। तिष्ठामि तव पुत्रत्वे भक्तानुग्रहकारणात्। मत्सान्निध्यात् नदीनां त्वमतिश्रेष्ठा भविष्यसि। दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवावगाहनात्। हरिष्यसि महापापं वाङ्मनःकायसम्भवम्। यः स्नास्यति विधानेन देवर्षिपितृतर्पकः। तर्पयेत् स्वपितॄंश्चापि तारयित्वा दिवं नयेत्। स्वयम् मम प्रियो भूत्वा ब्रह्मलोकं गमिष्यति। यदि त्वय्युत्सृजेत् प्राणान् मम कर्मपरायणः। सोऽपि याति परं स्थानं यत्र गत्वा न शोचति। एवं दत्त्वा वरान् देव्यै तत्रैवान्तरधीयत। ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिन् शशलाञ्छन!”। “गण्डक्याश्चैकदेशे च शालग्रामस्थलं स्मृतम्। पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम्” स्मृतिः। सा च शोणनदसन्निकृष्टस्थाने गङ्गायां सङ्गता हरिहरक्षेत्रतया च तत्सङ्गमस्थानं प्रसिद्धम्। “गण्डकीञ्च महाशोणं सदानीरां (करतोयाम्) तथैव च। एकपर्वतके सद्यः क्रमेणैवाव्रजन्त ते” भा० स० १९ अ० “गण्डकीन्तु समासाद्य सर्वतीर्थजलोद्भवाम्। वाजपेयमवाप्नोति सूर्य्यलोकञ्च गच्छति” भा० व० ८४। “गण्डक्या उत्तरे तीरे गिरिराजस्य दक्षिणे। सिंहस्थं मकरस्थञ्च गुरुं यत्नेन बर्ज्जयेत्” मलमा० त०।

गण्डकारी = स्त्री गण्डं ग्रन्थिं भग्नसंयोजनरूपं करोति कृ–अण् गौ० ङीष्। (हातजोडा) १ वराहक्रान्तायामोषधौ रत्नमा०। २ खदिरवृक्षे शब्दच०।

गण्डकाली = स्त्री गण्डेषु ग्रन्थिषु काली। १ खदिरीवृक्षे २ समङ्गायाम् अमरः।

कण्डकीपुत्र = पु० ६ त०। १ शालग्रामे शिलाभेदे। गण्डकीशब्दे तस्य तत्पुत्रत्वकथा दृश्या

गण्डकीशिला = स्त्री गण्डक्यामुत्पन्ना शिला। शालग्रामशिलायाम्।

गण्डकुसुम = न० गण्डस्य हस्तिकपोलस्य कुसुममिव। १ हस्तिमदे हारा०।

गण्डकूप = पु० गण्डे गण्डवदुच्चपर्वतभृगौ कूपः। पर्वतोच्चदेशस्थे कूपे हारा०।

गण्डगात्र = न० गण्ड इव उच्चावचं गात्रमस्य। (आता) फलप्रधाने वृक्षे शब्दचि०।

गण्डदूर्व्वा = स्त्री गण्डयुक्ता ग्रन्थिमती दूर्वा। (गा~टदूर्वा) दूर्वाभेदे राजनि०। “गण्डदूर्वा हिगा लौहद्राविणी ग्राहिणी लघुः। तिक्ता कषाया मधुरा वातकृत् कटु पाकिनी। दाहतृष्णावलासास्रकुष्ठपित्तज्वरापहा” भावप्र०।

गण्डपाद = त्रि० गण्डस्य पाद इव पादोऽस्य ह्रस्त्या० नान्त्यलोपः। गण्डतुल्यचरणे।

गण्डफलक = न० गण्डः फलकमिव प्रशस्तत्वात् उपमितस०। १ विस्तीर्णगण्डे। बहु० स०। २ तद्युक्ते त्रि०। “धृतमुग्धगण्डफलकैर्विबभुर्विकसद्भिरास्वकमलैः प्रमदाः” माघःगण्डं भित्तिरिव। गण्डभित्त्यादयोऽपि तत्रार्थे “निधौतदानामलगण्डभित्तिः” “अनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय” रघुः।

गण्डमाला = स्त्री ६ त०। १ रोगभेदे। तल्लक्षणभेदाद्युक्तं भावप्र० यथा

“कर्क्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागल वङ्क्षणेषु। मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला वहुभिस्तु गण्डैः।” “गण्डमालाया एकावस्थाविशेषमपचीमाह “ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये। कालानुबन्धं चिर मादधाति सैवापचीति प्रवदन्ति केचित्। ते ग्रन्थयः गण्डमालाया एव गण्डाः केचिदवाप्तपाकाः सन्तः स्रवन्ति, केचित् नश्यन्ति पुनः प्ररोहन्ति। अन्ये भवन्ति च। कालानुबन्धाच्चिरमादधाति या गण्डमाला चिरं तिष्ठति सैवापची इति केचिद्वदन्ति। अपच्याः साध्यत्वा दिकमाह। साध्या स्मृता पीनसपार्श्वशूलकासज्वरच्छर्द्दियुता त्वसाध्या। ग्रन्थेर्लक्षणमाह। वातादयो मांसमसृक् च दुष्टे संदूष्य मेदश्च तथा शिराश्च। वृत्तोन्नत विग्रथितं तु शोथं कुर्व्वन्त्यतो ग्रन्थिरिति प्रदिष्टः। विग्रथितं ग्रन्थिरूपम्”। गण्डमालाऽस्त्यस्य इनि। गण्डमालिन् तद्रोगवति त्रि०। तस्य श्राद्धे वर्ज्यतामाह मनुः “भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा”।

गण्डमालिका = स्त्री गण्डानां ग्रन्थीनां माला यत्र कप् कापि अत इत्त्वम्। १ लज्जालुलतायाम् रत्नमा०।

गण्डयन्त = पु० गडि झच्। १ मेघे उज्ज्वलदत्तः।

गण्डली = पु० गण्ड इव भूमेरुच्छूनप्रदेशः क्षुद्रशैलस्तत्र लीयते ला–क्विप्। १ महादेवे “गण्डली मेरुधामा च देवाधिपतिरेव च” भा० आनु० १७ अ०। “शिवसहस्रनामोक्तौ “सुलोपः आर्षः” नीलकण्ठः।

गण्डलेखा = स्त्री लिख्यतेऽत्र लेखा स्थली गण्डः स्थलीव। १ प्रशस्तगण्डस्थल्याम्।

गण्डशिला = स्त्री गण्डः भूमेरुच्छूनप्रदेश इव शिला। भूमेरुच्छून्नप्रदेशवत् १ स्थूलपाषाणे। “दृष्टोऽङ्गुष्ठशिरो मात्रः क्षणाद्गण्डशिलासमः” भाग० ३। १३। ३१।

गण्डशैल = पु० गण्ड इव भूमेरुच्छूनप्रदेशः शैलः स्थूलोपलः, शैलस्य गण्ड इव वा राजद० पूर्वनि०। भूकम्पादिना पर्वतात् पतिते स्थूलपाषाणे अमरः। “लीलां दधौ राजतगण्डशैलः” “अस्मिन् भजन्ति कनकोपलगण्डशैलाः”। “योषाणामुरुभिरुरोजगण्डशैलैः” इति च माघः।

गण्डसाह्वया = स्त्री गण्डेन सहित आह्वयो यस्याः। १ गण्डक्यां नद्याम् “गङ्गा च शतकुम्भा च शरयूर्गण्डकाह्वया” भा० व० २१२ अ०।

गण्डाङ्ग = पुंस्त्री गण्ड इव उच्छूनमङ्गं यस्य। १ गण्डके शब्दच० स्त्रियां ङीप्।

गण्डान्त = न० “नक्षत्रतिथिलग्नानां गण्डान्तंत्रिविधं स्मृतम्। नवपञ्चचतुर्थानां द्व्येकार्द्ध घटिकामितम्” ज्योति- षोक्ते तिथिनक्षत्रादीनां सन्धिसमयभेदे उपयमशब्दे १२५८ पृ० विवृतिः।

गण्डारि = पु० गण्डरोगस्याऽरिः नाशकत्वात्। १ कोबिदारवृक्षे भावप्र०।

गण्डाली = स्त्री गण्डेन ग्रन्थिनाऽल्यते भूष्यते अल–घञ् गौरा० ङीष्। १ श्वेतदूर्वायां अमरः। गण्डमलति–अलअण् गौरा० ङीष्। २ सर्पाक्षीवृक्षे भावप्र०।

गण्डि = पु० गडि–इन्। वृक्षस्य मूलाच्छाखावधिभागे (गु~डि) हेम०।

गण्डिक = त्रि० गण्डः बुद्बुद इवाकारेणास्त्यस्य ठन्। बुद्वुदोपमे १ क्षुद्रपाषाणादौ “गन्धमादनपार्श्वे तु परे त्वपरगण्डिकाः” भा० भी० ६ अ०। “अपरे अस्य गन्धमादनस्यैवावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः” नील०। अल्पार्थे ङीप् स्वार्थे क ह्रस्वः। २ गण्डिका क्षुद्रगण्डपाषाणे स्त्री “तथा माल्यवतः शृङ्गे पूर्वपूर्वानुगण्डिका” भा० भी० ७ अ०। अत्र “नगं डिकाकारयोगं करेऽणुमिति” भा० आश्व० ९ श्लोकं कश्चिदुदाजहार तच्चिन्त्यं तस्य श्लोकस्य नगमितिच्छेदः तदर्थस्तु नीलकण्ठेनोक्तः यथा नगं पर्वतं, डीयते विहायसा गच्छति डीः पक्षी ततः अल्पार्थे कन् डिका मशकादि तस्याकारेण योगोऽस्य तथाभूतं करे कुर्वे तथा च पर्वतमपि मशकीकर्तुं शक्नोमीति”।

गण्डीर = पु० गडि–बा० ईरन्। १ समष्ठिलायां (शशा) ख्याते वृक्षेजटा० (गुमिया) ख्याते २ शाकभेदे भरतः। ३ सेहुण्डवृक्षे (सिजु) स्त्री राजनि० गौरा० ङीष्।

गण्डु(ण्डू) = पुंस्त्री गण्ड्यते गडि–आधारे उन् स्त्रीत्वे अप्राणिजातिवाचकत्वात् ऊङ्। १ उपधाने (वालिश) जटा० तत्र कपोलरूपवदनैकदेशव्यापारसत्त्वात्तथात्वम्। २ ग्रन्थौ पु० शब्दार्थचि० गण्डूपदः। गण्डुः ग्रन्थिरस्त्यस्य सिध्मा० वा लच्। ३ गण्डुल ग्रन्थियुते त्रि०। पक्षे मतुप्। गण्डुमत् तत्रार्थे त्रि० स्त्रियां ङीप्।

गण्डूपद = पुंस्त्री० गण्ड्वः ग्रन्थयः तद्युतानि पदानि यस्य। (के~चो) १ किञ्चुलुके अमरः। स्त्रियां ङीष्। अल्पार्थें ङीप्। गण्डूपदी २ क्षुद्रकिञ्चुलके अमरः।

गण्डूपदभव = न० गण्डुपद इव भवति भू–अच्। १ सीसके हेमच०।

गण्डूष = पु० गडि–ऊषन्। १ मुखपूरणे २ मुखान्तर्धृतजलादौ च “गण्डूषमुज्झितवता पयसः सरोषम्” माघः। “मुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिकमेव च” सुश्रु०। “अपां द्वादशगण्डूषैर्मुखशुद्धिर्विधीयते” आ० त०। “तस्य जह्नुः सुतो, गङ्गां गण्डूषीकृत्य योऽपिबत्” भाग० ८। १५। ३। “गजाय गण्डूषजलं करेणुः” कुमा०। ३ हस्ति शुण्डाग्रे ४ प्रसृतिपरिमाणे च मेदि० “गण्डूषजलमात्रेण शफरी फर्फरायते” उद्भटः। ५ उन्नतनाभौ च स्त्री टाप् अमरोक्तं स्त्रीत्वमेतदर्थपरमिति शब्दार्थचि०।

गण्डूषकबलधारणादौ विधिश्च भावप्र० दर्शितो यथा “स्नेहक्षीरकषायादिद्रवैः संपूर्णमाननम्। आपूर्य्य स्थीयते तावद्विधिर्गण्डुषघारणे। कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत्। नेत्रघ्राणस्तुतिर्य्यावत्तावद्गण्डूषधारणम्। गण्डूंषान् सुस्थितः कुर्यात् स्विन्नभालगलादिकः। मनुष्यस्त्रींस्तथा पञ्च सप्त वा दोषनाशनान्। गलादिक इत्यादि शब्देन गण्डकपोलौ गृह्येते सुश्रुतोक्तत्वात्। चतुर्विधः स्याद्गण्डूषः स्नेहनः शमनस्तथा। शोधनो रोपणश्चैव कबलश्चापि तादृशः। स्निग्धोष्णैः स्नैहिको वाते, स्वादुशीतैः प्रसादनः पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे। कषायतिक्तमधुरैः कटूष्णो रोपणो व्रणे। दद्याद्द्रवेषु र्चणञ्च गण्डूषे कोलमात्रकम्। कर्षप्रमाणः कल्कश्च कबले दीयते बुधैः। धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषाः कबलादयः। व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्। इन्द्रियाणां प्रसादश्च गण्डूषे विधृते भवेत्। हरेदास्यस्य वैरस्यं शोषपाकं व्रणं तृषाम्। दन्तचालं च गण्डूषो वैशद्यं तु करोति हि। अथ कबलः बातपित्तकफघ्नस्य द्रव्यस्य कबलं मुखे। अर्द्धं निःक्षिप्य संचर्व्य निष्ठीवेत्कबले विधिः। कबलः कुरुते काङ्क्षाम्भक्ष्येषु हरते कफम्। तृष्णां शोफञ्च वैरस्यं दन्तचालञ्च नाशयेत्।”

गण्डोपधान = न० गण्ड उपधीयतेऽत्र उप + धा–आधारे ल्युट् ६ त०। (गालवालिश) गण्डस्थापनार्हे १ उपधाने। “मृदुगण्डोपधानानि शयनानि सुखानि च” सुश्रु०।

गण्डोल = पु० गडि–ओलच्। १ गुडके २ ग्रासे च हेमच०। गुडकश्च वर्त्तुलाकारः (गोला) पदार्थभेदः। गुडकशब्दे दृश्यम्।

गण्डोलपाद = पु० गण्डोल इव पादोऽस्य उपमानपूर्वत्वेऽपि हस्त्या० नान्त्यलोपः। १ गण्डोलतुल्यवर्त्तुलपादे त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीप्।

गण्य = त्रि० गणं लब्धा गण + यत्, गण–कर्मणि यत् वा। गणं सङ्ख्यानं १ लब्धरि, २ गणनीये च। अग्रगण्यः। गणेभवः दिगा० यत्। गण्य ३ गणभवे त्रि०। अस्य केनचित् समासे उत्तरपदस्थत्वे वर्ग्यादि० अकर्म्म धारये उत्तरपदस्थस्याद्युदात्तता धार्म्मिकगण्य इति।

गत = त्रि० गम–कत्तरि क्त। १ अतीते “नुनोद तस्य स्थलपद्मि- नीगतम्” किरा०। “गता बहुतरा कान्ते! स्वल्पा तिष्ठति यामिनी” “गताः समाः पादयुताः” नी० ता० “आयुषोऽर्ङ्गं गतं तस्य” सू० सि० धातूनामनेकार्थत्वात् २ इत्थंभावं प्राप्ते च। “तथागतायां परिहासपूर्व्वम्” रघुः “तथागतायां तथाभूतायाम्” मल्लिना०। तथारूपप्राप्तायामिति तु न्याय्यम्। ३ समाप्ते ४ पतिते। कर्म्मणि क्त। ५ ज्ञाते ६ प्राप्ते ७ कृतगतिके च। भावे क्त। ८ गमने न० “गतं तिरश्चीनमनूरुसारथेः” माघः। “गतेषु लीलाञ्चितविक्रमेषु” कुमा०। “गतं गतं वह्निसमागतं गतम्” भट्टिः।

गतत्रप = त्रि० गता त्रपा लज्जा यस्य। १ निर्लज्जे।

गतनासिक = त्रि० गता नासिकाऽस्य। (खा~दा) नासिकाशून्ये अमरः।

गतप्रत्यागत = त्रि० पूर्वं विरागात् स्वस्थानात् गतः पश्चादागतः स्वसेवायां विरक्ततया पूर्वं गते पश्चादागते १ भृत्यादौ “शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत्। गत प्रत्यागते चैव स हि कष्टतरो रिपुः” मनुः। “सा चेदक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा” मनुः। भावे क्त। २ गमनप्रत्यागमनयोश्च न० द्विव०। गदाशब्दे दृश्यम्।

गतबुद्धि = त्रि० गता बुद्धिरस्य। १ ज्ञानशून्ये।

गतरस = त्रि० गतो रसोऽस्य। १ नष्टरसे “यातयामं गतरसम्। अभक्ष्यकथने” स्मृतिः।

गतभर्त्तृका = स्त्री गतो नष्टः प्रोषितो वा भर्त्ता यस्याः कप्। १ विधवायां २ प्रोषितभर्त्तृकायाञ्च। “किमु मुहुर्मुमुहुर्गतभर्त्तृकाः” माघः।

गतव्यथ = त्रि० गता नष्टा व्यथा यस्य। १ व्यथाशून्ये।

गतसङ्ग = त्रि० गतः सङ्गोऽस्य। १ फलकामनाशून्ये २ फलासक्ते।

गतसन्नक = पु० गतं सन्नमवसादहेतुर्मदोऽस्य कप्। निर्मदे १ हस्तिनि शब्दच०।

गतस्पृह = त्रि० गता स्पृहा अस्य। १ निवृत्ततर्षे। “गतस्पृहोऽप्यागमनप्रयोजनम्” माघः।

गतस्मय = त्रि० गतः स्मयो गर्व्वो, विस्मयो वा यस्य। १ अहङ्कारशून्ये २ विस्मयशून्ये च।

गताक्ष = त्रि० गतमक्षि यस्य षच् समा०। १ अन्धे हेमच० स्त्रियां षित्त्वात् ङीष्।

गतागत = न० गतं गमनमागतमागमनं द्वयोः, समाहारः। १ गमागमनयोः। “एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते” गीता। जीवस्य गतागतं च संसारे मरणोत्तरं पुनर्जन्मग्रहणरूपम् निष्क्रियस्य तस्य अन्यथा तदसम्भवात्। “गतागतकुतूहलं नयनयोरपाङ्गावधि” रसमञ्जरी। “मध्येन मघानां गतागतं लोहितः करोति ततः” वृह० सं० ६ अ०। गतागतेन निर्वृत्तम् अक्ष- द्युता० ठक्। गातागतिक यातायातनिष्पादिते त्रि०। पूर्बं गतं पश्चादागतम्। २ पक्षिगतिभेदे जटाधरः। गमकर्त्तरि क्तं। कर्म्म०। पूर्वं गते पश्चादागते त्रि०। खगगतिशब्दे विवृतिः। आ + गम–क्तिन् गतोत्तरमागतिः। गताततिरप्यत्र स्त्री। “जावालिरपि जानीते लोकस्यास्य गतागतिम्” रामा० अयो० ११०।

गताध्वत् = त्रि० गतः अध्वा येन। १ गतमार्गे २ ज्ञाततत्त्वे च “गताध्वा च्छिन्नसंशयः” भा० शा० ३२२ अ०। स्त्रियां “डाबुभा भ्यामत्यतरस्याम्” पा० वा डाप्। सा च ३ चतुर्दशीयुक्तामावास्यायां खर्विताशब्दे २४६९ पृ० कर्म्मप्रदीपवाक्यं दृश्यम्। “अमावास्यां कुर्व्वीत चन्द्रे दृश्यमानेऽप्येकदा गताध्वा भवतीति” गोपथब्रा० १। ५। १०।

गतानुगत = त्रि० गतस्य गमनस्यानुगतम् अनुगमनम्। १ गमनामुरूपगमने। तेन निर्वृत्तं अक्षद्यूतादि० ठक्। गातानुग तक गमनानुगमननिष्पन्ने त्रि०। गतानुगतमस्त्यस्य ठन्। गतानुगतिक तद्युक्ते त्रि० “गतानुगतिको लोको न लोकः पारमार्थिकः” पञ्चत०।

गतान्त = त्रि० गत उपस्थितः अन्तः अन्तकांलोऽस्य। १ उप स्थितान्तकाले, मुमूर्षौ “मभ वृद्धस्य कैकेयि! गतान्तस्य तपस्विनः” रामा० अ० १२। ३०। गतः प्राप्तः अन्तो येन। २ प्राप्तचरमसीमनि च।

गतायुस = त्रि० गतं गतप्रायमायुर्जीवनकालोऽस्य। १ प्राप्तचरमकाले, गतायुर्लक्षणं सुश्रुतेनोक्तं यथा “शरीरशीलयोर्यस्य प्रकृतेर्व्विकृतिर्भवेत्। तस्यारिष्टं समासेन व्यासतस्तु निबोध मे। शृणोति विविधान् शब्दान् यो दिव्यानामभावतः। समुद्रपूरमेघानामसम्पत्तौ च निःस्वनान्। तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत्। ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोत्यपि। द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति। न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम्। यस्तूष्णमिव गृह्लाति शीत, मुष्णञ्च शीतवत्। सञ्जातशीतपिडको यश्च दाहेन पीड्यते। उष्णगात्रोऽतिमात्रञ्च यः शीतेन प्रवेपते। प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा। पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते। वर्ण्णान्यभावराज्यो वा यस्य गात्रे भवन्ति हि। स्नातानुलिप्तं यञ्चापि भजन्ते नीलमक्षिकाः। सुगन्धिर्वाति योऽकस्मात्तं ब्रुवन्ति गतायुषम्। विपरीतेन गृह्णाति रसान् यश्चोपयोजितान्। उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये। यस्य दोषाग्निसाम्यञ्च कुर्थ्युर्म्मिथ्योपयोजिताः। यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते। सुगन्धिं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम्। गृह्णीते योऽन्यथा गन्धं शान्ते दीपे च नीरुजः। यो वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत्। द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा। विपरीतेन गृह्णाति भावानन्यांश्च यो नरः। दिवाज्योतींषि यश्चापि ज्वलितानीव पश्यति। रात्रौ सूर्य्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम्। अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान्। तडित्वतोऽसितान् यो वा निर्मले गगने घनान्। विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम्। यश्चानिलं मूर्त्तिमन्तमन्तरीक्षञ्च पश्यति। धूमनीहारवासोभिरावृतामिव मेदिनीम्। प्रदीप्तमिब लोकञ्च यो वा प्लुतमिवाम्भसा। भूमिभष्टापदाकारां लेखाभिर्य्यश्च पश्यति। न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम्। ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम्। ज्योत्स्नादर्पणतोयेषु छायां यश्च न पश्यति। पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्वजाम्। श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम्। पिशाचोरगनागानां भूतानां विकृतामपि। यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते। आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात्।” अधिकं कालचिह्नशब्दे १९९६ पृ० उक्तम्।

गतार्त्तवा = स्त्री गतमार्त्तवं यस्याः। गतपञ्चाशद्वर्षवयस्कायां स्त्रियाम्। “द्वादशाद्वत्सरादूर्द्धमापञ्चाशत्समं स्त्रियः। मासि मासि भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत्” भावप्र० तद्गतिकाल उक्तः। रोगादिना तन्मध्ये गतरजस्कायामपि जातवन्ध्यायां २ स्त्रियाञ्च राजनि०।

गतार्थ = त्रि० गतो ज्ञातोऽर्थो यस्य। ज्ञातार्थके पदार्थे “तदपि स्वलणकथनेनैव गतार्थम्” सा० द०।

गतासु = त्रि० गताः असवोऽस्य। १ मृते २ शवे “गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः” गीता। ३ गतप्रायप्राणके च सुश्रुतः गतायुःशब्दे दृश्यम्।

गति = स्त्री गम–भावे क्तिन्। १ गमने। “सूत्रस्येवास्ति मे गतिः” रघुः। “प्रणयातिभूमिमगमयत् गतिभिः” माघः। “उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः” किरा०। २ परिणामे च “दुरधिगमाहि गतिः प्रयोजनानाम्” किरा०। “गतिः परिणामः” मल्लि०। ३ ज्ञाने। करणे क्तिन्। ४ प्रमाणे च। “अनेन पूर्वं न मयेति का गतिः” किरा० “का गतिः किं प्रमाणम्” मल्लि०। आधारे क्तिन्। ५ सरणौ पथि “भिन्नगतिर्हि लोकः” रघुः। ६ स्थाने च। “कां गतिं कृष्ण! गच्छति” गीता “गतिं प्रतापस्य जलत्प्रमाथिनः” किरा० “गतिं स्थागम्” मल्लि०। गम्यते कर्म्मणि क्तिन्। ७ स्वरूपे “न वयं निरूपयितुमस्य गतिम्” किरा० “गतिं स्वरूपम्” मल्लि०। ८ विषवे च “मनोरथानामगतिर्न विद्यते” कुमा० “अगतिरविषयः” मल्लि०। भावे क्तिन्। ९ यात्रायाम्। करणे क्तिन् १० अभ्युपाये “कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा” पुरा०। ११ नाडीव्रणे मेदि०। पक्षिग्रहगतिभेदाश्च खगगतिशब्दे २४१५ पृ० उक्ताः। वृह० स० ७ अ० नक्षत्रभेदेन बुधस्य गतिभेदास्तत्फलभेदाश्चोक्ता यथा

“प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तवोरपापाख्याः। सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः। प्राकृतसञ्ज्ञा १ बायव्य १५ याम्य २ पैतामहानि ४ बहुलाश्च ३। मिश्रा गतिः २ ब्रदिष्टा शशि ५ शिव ६ पितॄ १० भुजग ९ दैवानि। सङ्क्षिप्तायां ३ पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति। तीक्ष्णायां ४ भाद्रपदाद्वयं सशाक्राश्वयुक् १८। १। पौष्णम् २७। योगान्तिकेति ५ मूलं द्वे चषाढे गतिः सुतस्येन्दोः। घोरा ६ श्रवणस्त्वाष्ट्रं १४ वासवं २३ वारुणं २४ चैव, पापाख्या ७। सवित्रं १३ मैत्रं १७ शक्राग्निदैवतं १६ चेति। उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह। चत्वारिंशत्त्रिंशद्द्विसमेता विंशति २२ र्द्विनवकं च १८। नव मासार्धं दश चैकसंयुताः ११ प्राकृताद्यानाम्। प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमभ्। सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम्। ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवलस्यैताः। पञ्चचतुर्द्व्येकाहा ऋजव्यादीनां षडभ्यस्ताः। ऋज्व्यो हिता प्रजानामतिवक्रार्थं गतिर्विनाशयति। शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी।” पाणिन्युक्तेषु प्रादिषु १२ शब्दविशेषेषु पु० ते च “प्रादयः” “उपसर्गाः क्रियायोगे” “गतिश्च” “उर्यादिचिव्डाचश्च” “अनुकरणं चानितिपरम्” “आदरानादरयोः सदसती” भूषणेऽलम् “अन्तरपरिग्रहे” “कणेमनसी” “श्रद्धाप्रतीघाते” “पुरोऽव्ययम्” “अस्तं च” “अच्छ गत्यर्थवदेषु” “अदोऽनुपदेशे” “तिरोऽन्तर्धौ” “विभाषा कृञि” “उपाजेऽन्वाजे” “साक्षात्प्रभृतीनि च” “अनत्याधाने उरसिमनसी” “मध्ये पदे निवचने च” “नित्यं हस्ते पाणावुपयमने” “प्राध्वं बन्धने” “जीविकोपनिषदावौपम्ये।” पा० उक्ताः धातुविशेषयोग एव तत्संज्ञां भजन्ते धातुविशेषाश्च सि० कौ० त० स० प्र० दृश्याः। तेषाञ्च गतिसंज्ञकानां “गतिर्गतौ” पा० अनुदात्तता। “सगतिरपि तिङ्” पा०। काष्ठं प्रपचतीत्यादौ अनुदात्तता। “गतिरनन्तरः” पा० “कर्म्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या”। पुरोहितम्। “गतिकारकोपपदानां कृद्भिः समासबचनं प्राक्सुबुत्पत्तेः” वार्त्ति०। “गतिबुद्ध्यादि” पा० णिचि प्रयोज्यकर्त्तुः कर्म्मत्वम् ग्रामं गमयति देवदत्तम् चैत्रः। गत्यर्थकर्म्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि” पा०। ग्रामं ग्रामाय वा गच्छति अध्वनि तु मार्गं गच्छति। अचेष्टायां मनसा गच्छति “गत्यर्थाकर्म्मकेत्यादि” पा० कर्त्तरि च क्त। ग्रामं गतश्चैत्रः चकारात् भावे कर्म्मणि च गतं चैत्रस्य, गतो ग्रामश्चैत्रेण। “क्तोऽधिकरणे च” “ध्रौव्यगतिप्रत्यवसानेत्यादि” पा० आधारे क्त। “इदं यातं रमापतेः” सि० कौ०। सर्वे गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्चेत्युक्तेः “मतिबुद्धिपूजार्थेभ्यश्च” पा० वर्त्तमानेऽपि क्त। शास्त्रमधिगतम् विप्रेण वर्त्तते, तेन ज्ञायमानमित्यर्थः। गत्यर्थकधातवश्च गणपाणे पठिता एव ज्ञेयाः। वैदिकप्रयोगे तु केचित्ततोन्येऽपि धातवः समष्ट्या निघण्टौ पठिता यथा

“वर्तते। अयते। लोटते। लोठते। स्यन्दते। कसति। सर्पति। स्यमति। स्रवति। स्रंसते। अवति। श्चोतति। ध्वंसति। वेनति। मार्ष्टि। भुरण्यति। शवति। कालयति। पेलयति। कण्टति। पिस्यति। विस्यति। मिस्यति। प्रवते। प्लवते। च्यवते। कवते। गवते। नवते। क्षोदति। नक्षति। सक्षति। म्यक्षति। सचति। ऋच्छति। तुरीयति। चतति। अतति। गाति। इयक्षति। सश्चति। त्सरति। रंहति। यतते। भ्रमति। ध्रजति। रजति। लजति। क्षियति। धमति। मिनाति। ऋण्वति। ऋणोति। स्वरति। सिसर्ति। वेषिष्टि। योषिष्टि। रिणाति। रीयते। रेजति। दध्यति। दभ्नोति। युध्यति। धन्वति। अरुषति। आर्यति। डीयते। तकति। दीयति। ईषति। फणति। हनति। अर्दति। मर्दति। सर्सृते। नसते। हर्यति। इयर्ति। ईर्ते। ईङ्खते। ज्रयति। श्वात्रति। गन्ति। आ गनीगन्ति। जङ्घन्ति। जिन्वति। जसति। गमति। ध्रति। ध्राति। ध्रयति। वहते। अथर्यति। जेहते। ष्वःकति। क्षुम्पति। प्साति। वाति। याति। इषति। द्राति। द्रूडति। एजति। जमति। जवति। बञ्चति। अनिति। पवते। हन्ति। सेधति। अगन्। अजगन्। जिगाति। पतति। इन्वति। द्रमति। द्रवति। वेति। हयन्तात्। एति। जगायात्। अयुथुरिति। द्वाविंशशतं गतिकर्माणः।” एतेषां भ्वाद्यादिगणोयत्वं विकरणादेवावसेयम्।

गतितालिन् = पु० स्कन्दसैन्यभेदे “शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैन्यकाः” इत्युपक्रमे “वैताली गतिताली च तथा कथकवाचिकौ” भा० शल्य० ४६ अ०।

गतिला = स्त्री गम–इलच् मिथिला० नि तान्तादेशः। १ वेत्रलतायाम् उज्ज्वल०। २ नद्यां ३ परम्परायाञ्च उणादिको०।

गतिसत्तम = पु० गतिर्वोधः, प्राप्यं स्थानं वा चासौ सत्तमश्च। १ परमेश्वरे। “आदित्यो ज्योतिरात्मा च सहिष्णुर्गतिसत्तमः” विष्णुस०।

गत्वन् = त्रि० गम–क्वनिप् मलोपे तुक्। गन्तरि। स्त्रियां ङीप् रश्चान्तादेशः। गत्वरी।

गत्वर = त्रि० गम–क्वरप् मलों, तुक्। गमनशीले स्त्रियां ङीप्। “अभिमानधनस्य गत्वरैः” किरा०।

गत्वा = अव्य० गम–क्त्वा। गतिं कृत्वेत्यर्थे “सद्यः पुरीपरिसरे च शिरीषमृद्वी गत्वा जवात् त्रिचतुराणि पदानि सोता” उत्तरच०। वेदे तु “क्त्वोयक् च” पा० यक्। गत्वाय तदर्थे अव्य० “दिवं सुपर्ण्णो गत्वाय सोमं वज्रिण आभरत्” ऋ० ८, १००, ८। “गत्वाय गत्वा” भा०। स्रात्व्यादि० नि० आतःस्थाने ईत्। गत्वी तदर्थे अव्य०। “सा नोदुही यद्यवसेव गत्वी” ऋ० ४। ४१। ५।

गद = मेघध्वनौ अद० चुरा० उभ० अक० सेट्। गदयति ते अजगदत् त। गदयां बभूव आस चकार चक्रे।

गद = व्यक्तभाषणे भ्वा० पर० सक० सेट्। गदति अगादीतगदीत् जगाद। गदितं गदः। गद्यं निगाद्यम्। प्रणिगदति + प्रण्यगदत्। “जगादाग्रे गदाग्रजम्” माघः। “यश्च सायं सदा चैवं श्लोकमेक जगाद ह” भा० व० ६७ अ०। “अथ जगदुरनीचैराशिषस्तस्य विप्राः” भट्टिः। “शुद्धान्तरक्ष्या जगदे कुमारी” रघु। “अन्तर्वाष्पभरोपरोधि गदितम्” शकु०। “विस्तरात् गदते मम” देवीमा०।नि + नितरां कथने। “निगदामि यथा युक्तं पुराणाश्रयसें युतम्” भा० आ० ५ अ०। “पौरा निवर्त्तध्वमिति न्यगादीत्” भट्टिः। “मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र! यदा निगद्यसे” रघुः। “न नैषध कार्य्यमिदं निगाद्यम्” नैष०। भावे वा अप्। निगादः निगदः। चतुर्थ्यन्ततयोच्चारणे च। “प्रतिनिगद्य होमः” कात्या० श्रौ० ६, १०२६। “देवतां प्रति निगद्य देवतापदं चतुर्थ्यन्यमुच्चार्य्य स्वाहाकारेण होमः” कर्कः।प्रति + प्रत्युत्तरकथने। “आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह” भा० आनु० ३२४ अ०।वि + विरुद्धोक्तौ। “न हि निम्बात् स्रवेत् क्षौद्र लोके विगदितं वचः” रामा० अयो० ३५ अ०।

गद = पु० गद–अच्। १ रोगे अमरः। “व्रणोत्थानाञ्च विज्ञानं तद्गदप्रतिषेधनम्। प्रतिश्यायनिषेधश्च शिरोगदविवेचनम्। चिकित्सा तद्गदानाञ्च” सुश्रुतः। “येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः!” सुश्रु०। “असाध्यं कुरुते कोपं प्राप्ते काले गदो यथा” माघः। गद–अभ्रध्वनौ भावे अच्। २ मेघध्वनौ। शब्दक० भाषणार्थकतोक्तिश्चिन्त्या हलन्तत्वात् ततो भावे घञ एवानुशासनात् नावेवोपगदेऽपोविधानात्। ३ रोहिणीगर्भजाते वसुदुवपुत्रभेदे पु०। “बलं गदं सारणञ्च दुर्मदं विपुलम् ध्रुवम्। वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत्” भाग० ९, १४ अ०। “हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः। आसते कुशलं कच्चित्” भा० १। १२१४, २८। चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम्। समितौ रमसादुपागतः सगदः सम्प्रतिपत्तुमर्हसि” माघः “जगादाग्रे गदाग्रजम्” माघः। कु(ड) ४ कुष्ठे विषभेदे न० राजनि०। गदाख्यगदाह्वयादयोऽप्यत्र। ५ असुरभेदे पु०। गदाशब्दे दृश्यम्।

गदगद = न० गद्गद + पृषो०। गद्गदभाषणे “वक्त्रजेषु कण्ठाष्ठतालूनामन्यतमे गदगदवाक्यता” सुश्रु०। गदगदेत्येव पाठः सम्यक्।

गदयित्नु = पु० गदि–इत्नुच् णेरयादेशः। १ कामे, २ कामुके ३ वायदूके च त्रि० मेदि० ४ शब्दे उज्ज्वलदत्तः।

गदा = स्त्री गद–अच् टाप्। १ स्वनामख्याते लौहादिकीलिते, २ लौहमये वाऽस्त्रभेदे, तद्युद्धक्रियाभेदो वह्नि पु० धनुर्वेदे दर्शितो यथा “आहतं विहृतं चैव गोमूत्रकमनावनम्। तथोर्द्धगावनमितं वामदक्षिणमेव च। व्याहृतञ्च परावृत्तम् पादोद्धूतमवप्लुतम्। हंसमार्गं विमागञ्च गदाकर्म्म प्रकीर्त्तितम्”। तत्रैवानतिदूरे च “सव्यासव्यवटङ्गञ्च वराहोद्धूतकं तथा। हस्तावहस्तपालीनमेकहस्तावहस्तके। द्विहस्तबाहुपाशे च कठिकाचितकोद्धते। प्रव्ये ललाटघाते च भुजाविधमनं तथा। कारोद्धूतं विमानञ्च पादाहतविपादकम्। गात्रसंप्रंषणं क्लान्तं तथागात्रविपर्य्ययम्। ऊर्द्धप्रहारं वातञ्च गोमूत्रे सव्यदक्षिणे। पादसन्ताडनं मण्डं कवचं विधमाकुलम्। तिर्य्यग्वन्धमपाधातं भीमवेगप्रदर्शनम्। सिंहाक्रातं गजाक्रान्तं गर्द्धभाक्रान्तमेव च। गदाकर्म्माणि जानीयात्”। भा० शल्य० गदा पर्वणि ५७ अ० तु अन्यथै च प्रकारो दर्शितः यथा “अचरद्भीमसेनस्तु मार्गान् बहुविधांस्तथा। मण्डलानि विचित्राणि गतप्रत्यागतानि च। अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च। परिमोक्षं प्रहाराणां वर्जनं परिधावनम्। अभिद्रवणमाक्षेपमवस्थानं सविग्रहम्। परिवर्त्तनसंवर्तमवप्लुतमुपप्लुतम्। उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ। एवन्तौ विचरन्तौ तु न्यघ्नतां वै परस्परम्”। “मण्डलानि शत्रोः परिवेष्टनानि परितो भ्रमणानि। गतं शत्रोः सम्मुखनमनं प्रत्यागतम् आभिमुख्येन तत एवापसरणम्। अस्त्रयन्त्राणि कठिनमर्मदेशमाक्षिप्य येन शत्रोरुत्क्षेपणमपक्षेपणं च क्रियते तदस्त्रयन्त्रम् अस्यते क्षिप्यतेऽनेनेत्यस्त्रं तच्च तद्यन्त्रं निग्रहणम् चास्त्रयन्त्रमिति समासः। स्थानानि तेषामेवोपयोगीनि मर्मदेशादीनि परिधावनं वेगेन सव्यापसव्यकरणम्। अभिद्रवणं वेगेनाभ्यागमनम् आक्षेपं परयत्नस्य तत्पातनहेतुतासम्पादनम्। अवस्थानमचाञ्चल्यं सविग्रहं शत्रावुत्थिते पुनस्तेन सहयुद्धकरणं परिवर्त्तनं शत्रुं प्रहर्त्तुं परितः प्रसरणं, संवर्त्तं शत्रुप्रसरणस्यावरोधनम् अवप्लुतं प्रहारवञ्चनार्थं नम्रीभावेन निःसरणम् उपप्लुतं तदेवार्वाग्गमनयुक्तम्। उपन्यस्तं उपेत्यायुधप्रक्षेपः अपन्यस्तं परावृत्य पृष्ठतः कृतेन हस्तेन शत्रोस्ताडनम्” नी० क०। गदालक्षणन्तु हेमा० परि० ख० लक्षणसमुच्चये “गदा पञ्चाशदङ्गुलायामा श्रेष्ठा, चत्वारिंशदङ्गुलायामा मध्या, त्रिंशदङ्गुलायामा कनिष्ठेत्यादि” अधिकं तत्रैव दृश्यम्। असुरभेदस्य गदस्यास्थिजातत्वात् विष्णुगदायास्तथात्वम्। यथा वायुपु० गयामा० ५ अ०। “गदो गामासुरो ह्यासीत् वज्राद्वज्रतरो दृढः। प्रार्थितो ब्रह्मणे प्रादात् स्वशरीरास्थि दुस्त्यजम्। ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भुतां तदा। तदस्थ्ना वज्रनिष्पेषैः कुन्दैः स्वर्गेऽप्यधारयत्” तस्याश्च विष्णवे दानकथा गदाधरशब्दे वक्ष्यते अन्य गदानां तदाकृतित्वात्तथात्वम्। “मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वात्मिकां गदाम्” विष्णु स० भा० धृतवाक्यात् ३ बुद्धितत्त्वे च। गदाधरः गदाभृत्। ४ पाटलावृक्षे शब्दच०।

गदागद = पु० द्वि० व० गदमागच्छति आ + गम–ड गदागं रुग्नं दायतः शोधयतः दैप्–शोधने क। अश्विनोकुभारयोः त्रिका०।

गदाग्रज = पु० गदस्याग्रजः। १ बलरामे गदशब्दे बलरामस्य तथात्वं दृश्यम् २ श्रीकृष्णे त्रिका० तस्य सापत्न्यभ्रातृत्वेऽसि एकपिवृकत्वेन तस्य गदतोऽग्रजत्वात् तथात्वम् “तथ्यामुतथ्यानुजवज्जदागाग्रे गदाग्रजम्” माधः।

गदाग्रणी = पु ६ त०। १ क्षयरोगे राजनि० तस्य सर्वरोगश्रेष्ठत्वात्तथात्वम्।

गदाधर = पु० गदां धारयति धृ–अन्तर्भूतण्यर्थे अच्। १ विष्णौ तस्य तद्धारणकथा वायुपु० गयामा० ५ अ० गदाशब्ददर्शि वाक्ये गदानिर्म्माणमुक्त्वा “अथ कालेन महता मनौ स्वायम्भुवेऽन्तरे। हेतिरक्षो व्रह्मपुत्रस्तपस्तेपे सुदारुणम्। दिव्यवर्षसहस्राणां शतं वायुमभक्षयत्। उन्मुखश्चोर्द्धबाहुश्च पादाङ्गुष्ठभरेण हि। एकेनातिष्ठदव्यग्रः शीर्णपर्णानिलाशनः! ब्रह्मादींस्तपसा तुष्टान् वरं वव्रे वरप्रदान्। देवैर्दैत्यैश्च शस्त्रास्त्रैर्विविधैर्मनुजादिभिः। कृष्णेशानस्य चक्राद्यैरबध्यः स्यां महाबलः। तथेत्युक्त्वान्तर्हितास्ते हेतिर्देवानथाजयत्। इन्द्रत्वमकरोद्धेति र्भीता ब्रह्महरादयः। हरिन्ते शरणं जग्मुरूचुर्हेतिं जहीति तान्। ऊचे हरिरबध्योऽयं हेतिर्देवासुरैः सुराः!। महास्त्रं मे प्रयच्छध्वम् हेतिं हन्मि हि येन तम्। इत्युक्तास्ते ततो देवा गदान्तां हरये ददुः। दधार तां गदामादौ दैवैरुक्तो गदाधरः। गदया हेतिमाहत्य देवेभ्यस्त्रिदिवं ददौ” वायुपु० गया० ५ अ०। मनस्तत्वात्मकं चक्रं बुद्धितत्त्वात्मिकां गदाम्! धारयन् लोकरक्षार्थमुक्तश्चक्रगदाधरः” विष्णुसह० भाष्यधृतवाक्यात् लोकमर्य्यादारक्षार्थं बुद्धित्त्वस्य प्रेरकत्वेन धारयितृत्वाद्वा तस्य तथात्वम्। “गदाधरं व्यपगत कालकल्मषम्” वायुपु० विष्णुस्तवः। “शङ्खभृन्नन्दकी चक्रा शार्ङ्कधन्वा गदाधरः” विष्णुस०। “बुद्धितत्त्वा- त्मिकां गदाम् वहन् गदाधरः” भा०। विष्णोर्मूर्त्तिभेदे गदाया हस्तविशेषेण धारणं ध्यानशब्दे विष्णुचतुर्विंशतिमूर्त्तिध्यानकथने वक्ष्यते।

गदाभृत् = पु० गदां बिभर्त्ति भृ–क्विप् तुक्। विष्णौ हेमच० “पार्श्वस्थास्य गदाभृतः” भाग० १० रासपञ्चाध्याये।

गदामुद्रा = स्त्री “अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुली। अङ्गुष्ठौ मध्यमे भूयः सुलग्ने सुप्रसारिते। गदामुद्रेयमुदिता विष्णुसन्तोषवर्द्धिनी” तन्त्रसारोक्ते विष्णुपूजाङ्गे मुद्राभेदे।

गदाम्बर = पु० गदोऽभ्रध्वनियुक्तमम्बरमस्मात्। १ मेघे त्रिका०।

गदाराति = पु० ६ त०। १ औषधे राजनि०।

गदालोल = न० गयातीर्थस्थे हेतिदैत्यनाशोत्तरं गदाक्षालनाज्जाते तीर्थभेदे “क्षालनार्थं गदा यत्र विष्णुना लोलिताऽभवत्। बभूव तद्गदालोलं तीर्थं परमपावनम्” वायुपु० गया० ५ अ०।

गदावसान = न० गदाया जरासन्धत्यक्त गदागतेरवसानमत्र। मथुरासमीपस्थे जरासन्धत्यक्तगदापतनस्थाने। “निहते वासुदेवेन तदा कंसे महीपतौ। जातो वै वैरनिर्बन्धः कृष्णेन सह तस्य (जरासब्धस्य कंसश्वशुरस्य) वै। भ्रामयित्वा शतगुणमेकोनं तेन भारत!। गदा क्षिप्ता वलवता मागधेन गिरिव्रजात्। तिष्ठतो मथुरायां वै कृष्णस्याद्भुतकर्म्मणः। एकोनयोजनशते सा पपात गदा शुभा। दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता। गदावसानं तत् ख्यातं मथुरायाः समीपतः। तस्यास्तौ हंसडिम्बकावशस्त्रनिधानावुभौ” भा० सभा० १८ अ०।

गदासन = न० “गदासनमथो वक्ष्ये गदाकृति वसेत् भुवि। ऊर्द्ध्वबाहुर्भवेत् येन तस्य साधनहेतुना” तन्त्रसारोक्ते आसनभेदे।

गदित = त्रि० गद–क्त। कथिते स्त्रियां टाप् “ननभर सहिता गदितोज्ज्वला वृ० र०। अत्र गदितोज्ज्वलेति छन्दो नाम इत्यन्ये। उज्ज्वलेत्येव नामेति बहवः।

गदिन् = पु० गदाऽस्त्यस्य इनि। १ विष्णौ “किरीटिनं गदिनं चक्रिणञ्च” गीता। २ गदाधारिमात्रे त्रि०। “पिनाकिनं वज्रिणं दीप्तशूलम् परश्वधिनं गदिनं खायतासिम्” भा० द्रो० २०१ अ०। गद + इनि। ३ रोगयुक्ते त्रि० स्त्रियां ङीप्।

गद्गद = वाक्स्खलने कण्ड्वा० पर० अक० सेट्। गद्गद्यति अगद्द्यीत् अगद्गदीत् गद्गद्या(दाम्)वभूव आस चकार।

गद्गद = पु० गद्गद–कण्ड्वा० भावे घञ् कर्त्तरि अच् वा मलोपः १ अव्यक्तास्फुटशब्दे। २ तद्वति त्रि० अमरः। तन्निदानमाह “आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः। नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान्” माधवकरः। सा० द० तु सात्मिकभावोक्तौ स्वरभङ्गरूपता तस्योक्ता यथा “स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः” इत्याद्यष्टसात्विकभावानुक्त्वा “मदसंमोदपीडाद्यैर्वैस्वर्य्यं गद्गदं विदुः” इत्युक्तम् “तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम, का तवास्मि दयिता, नास्मीत्यतो रुद्यते” अमरुश०। “विललाप सवाष्पगद्गदम्” रघुः। “हर्षस्त्विष्टावाप्तेर्मनःप्रसादोऽश्रुगद्गदादिकरः” सा० द०। “सगद्गदस्वरं किञ्चित् प्रियं प्रायेण भाषते सा० द० मुग्धानुरागोक्तौ। तत्र कुशलः आकर्षा० कन्। गद्गदक गद्गदकुशले त्रि०। सुश्रुते गद्गदत्वकारणमुक्तम् “तमतिस्थूलं क्षुद्रश्वासपिपासाक्षतस्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति”।

गद्गदध्वनि = पु० गद्गदः कफादिनाऽव्यक्तः ध्वनिः। हर्षशोकादिना सकफेन वायुना यथास्थानानुच्चारणात् सं जाते अव्यक्तध्वनौ। बहु० स०। २ तद्वति त्रि०।

गद्य = त्रि० गद–यत्। १ कथनीये “सह्यः कथं वियोगश्च गद्यमेतत्त्वया मम” भट्टिः। सा० द० उक्ते २ पादरहिते काव्यभेदे न०। “अव्यं श्रोतव्यमात्रं तत् पद्यगद्यमयं द्विधा” इति श्रव्यकाव्यं विभज्य “वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च। भवेदुत्कलिकाप्रायं चूर्ण्णकञ्च चतुर्व्विधम्। आद्यं समासरहितं वृत्तभागयुतं परम्। अन्थद्दीर्षसमासाद्यं तुर्य्यञ्चाल्पसमासकम्। मुक्तकं यथा “गुरुर्वचसि पृथुरुरसीत्यादि। वृत्तगन्धि यथा समरकण्डूयगनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटङ्कारोज्जा गरिगवैरिनगरः। अत्र कुण्डलीकृतकोदण्डेत्यनुष्टुब्वृत्तस्य पादः। उत्कलिकाप्रायं यथा अणिसविसृमरणिसिददरसरविसरविदलितसमरपरिगदपवरपरबलेत्यादि (प्राकृतम्)। चूर्णकं यथा गुणरत्नसागर! जगदेकनागर! कामिनीमदन! जनरञ्जनेत्यादि”। छन्दोमञ्जर्य्यामन्यथाभेदसंहितं तल्लक्षणादिकमुक्तं यथा “गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः। प्रागुक्तलक्षणं पद्यं गद्यं सम्प्रति गद्यते। अपादं पदसन्तानं गद्यं तत्तु त्रिधा मतम्। वृत्तकोत्कलिका प्रायवृत्तगन्धिप्रभेदतः। अकठोराक्षरं स्वल्पसमासं वृत्तकं १ मतम्। तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत्। भवेदुत्कलिकाप्रायं २ समासाढ्यं दृढाक्षरम्। वृत्तैकदेशसम्बन्धात् वृत्तगन्धि ३ पुनः स्मृतम्।” “कथायां सरसं वस्तु गद्यैरेव विनिर्म्मितम्। क्वचिदत्र भवेदार्य्या क्वचिद्वक्त्रापवक्त्रके। आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्त्तनम्” यथा कादम्बर्य्यादि”। “गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते”। यथा देशराजचरितम्। “गद्यपद्यमयी राजस्तुतिर्व्विरुदमुच्यते। यथा विरुदमणिमाला” सा० द०। “यजुषामृचां च साम्नाञ्च गद्यानाञ्चैव सर्वशः। आसीदुच्चार्य्यमाणानां निस्वनो हृदयङ्गमः” भा० व० २६ अ०। भाग० ५ स्क०, विष्णुपु० च तत्प्रपपञ्चो दृश्यः।

गद्याण = पु० भावप्र० कालिङ्गमानोक्तौ “यवद्वयेन गुञ्जा स्या त्त्रिगुञ्जो वल्ल उच्चते। माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित्। चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च। गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषिकः” इत्युक्ते अष्टचत्वारिंशद्गुञ्जामिते मानभेदे। स्वार्थे क। तत्रार्थ। “तुल्या यवाभ्यां फथिताऽत्र गुञ्जा वल्लस्त्रिगुञ्जो धरणञ्च गतेऽष्टौ। गद्यणकस्तद्द्वयमिन्द्र १४ तुल्यैर्वल्लैस्तथैकौ धटकः प्रदिष्टः” लीला० उक्ते परिमाणभेदे। तेन अष्टगुञ्जात्मकमाषषड्गुणतया तस्याष्टाचत्वारिंशद्गुञ्जामानत्वम्। क्वचिदस्य दन्त्यनमध्यतापि लमध्यता च। शब्दकल्पद्रुमे क्लीवोक्तिश्चिन्त्या भावप्र० गद्याणशब्दस्य पुंस्त्वोक्तेः स्वार्थिकप्रत्ययस्योत्सर्गतः प्रकृतिलिङ्गत्वौचित्यात्।

गध्य = त्रि० ग्रह–यत् पृषो० नि०। १ ग्राह्ये। “ऋजा वाजं न गध्यम्” ऋ० ४। १६। १। “गध्यं ग्राह्यम् “गध्यं गृह्णातेः निगमः” भा० “महो वाजस्य गध्यस्य सातौ” ऋ० ६। २६। २। “गध्यस्य ग्रांह्यस्य” भा०।

गध = मिश्रीभावे निषण्टुः दिवा० पर० सेट्। गधयति अगधीत् अगाधीत्। जगाध गधिता “वाजस्य गध्यस्य सातौ” ऋ० ६। १०। ६ गध्यस्य गध्यतिर्मिश्रीवावकर्म्मा मिश्रणीयस्य प्राप्यस्य वाजस्य सातौ सुसंभजने” भा०।

गन्तव्य = त्रि० गम–तव्य। १ गम्ये “गन्तव्यमस्ति कियदित्यसकृत् ब्रवाणा रामाश्रुणः कृतवती प्रथमावतारम्” उत्तर०। “राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता” मनुः।

गन्तु = त्रि० गम–तुन्। १ पथिके आगन्तुरभ्यागतः उज्ज्वलदत्तः २ गत्यरि च। क्वचिद्भावेऽपि तुत्। “मध्या- वीरिषतायुर्गन्तोः” ऋ० १, ८९। ९, “आयुर्गन्तोः कॢप्तस्यायोर्गमनात् पूर्वम्” भा०। अत्र गन्तोः भावलक्षणे “स्थेण कृञ्यतिचरिहुतमिजनिभ्यस्तोसुन्” पा० ३। ४। १६। विहिततोमुनन्ततया माधवोक्तिश्चिन्त्या तत्र सूत्रे गमेरपाठात्। सितनिगमीत्यादिसूत्रेण तुनप्रत्ययान्तस्यैव तद्रूपस्यौचित्यात्। “युयोत नो अनपत्यानि गन्तोः” ऋ० ३। ५४। १८ इत्यस्याः व्याख्यायां च तेन तुनन्ततयैव साधितत्वात् तथैवेहौचितत्वात्। वस्तुतः तोसुन्नन्तस्याव्ययतया तत्स्वरार्थमेव तथासाधनं तेन बा० तोसुन् इत्येव ज्यायः।

गन्तृ = त्रि० गम–शीलार्थे तृन्। १ गमनशीले २ प्राप्तिशीले “तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च” गीता शीलार्थतृणन्तत्वात् न कर्म्मणि षष्ठी। कर्त्तरि तृच्। ३ गमनकर्त्तरि त्रि०। अत्र कर्म्मणि षष्ठीति भेदः। उभयत्र स्त्रियां ङीप्। “गन्त्री वसुमती नाशम्” या०।

गन्त्री = स्त्री गन्यतेऽनया ष्ट्रन् ङीप्। १ वृषवहनोये। शकटे अमरः। २ गमनकारिकायां ३ गमनशीलायां स्त्रियाञ्च।

गन्तीरथ = पु० गन्त्री रथ इव० अभीष्टस्थानप्रापकत्वात्। शकटे अमरः।

गन्दिका = स्त्री पुरीभेदे साऽभिजनोऽस्य सिन्ध्वा० अण्। गादिक–पित्रादिक्रमेण तत्रवासिनि।

***