गजेन्द्र = पु० गज इन्द्र इव व्याघ्रा० उपमितस०, ६ त० वा। १ श्रेष्ठगजे। २ गजयथपतौ च। “नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः” माघः। अगस्त्यशापेन गजेन्द्रतां प्राप्ते ३ इन्द्रद्युम्ने नृपे च तस्य तथाशापादिकथा भाग० ८ क० ४ अ० उक्ता यथा

“स वै पूर्वमभूद्राजा पाण्ड्योद्रविडसत्तमः। इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः। स एकदाऽऽराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम्। जटाधरस्तापस आप्लुतोऽव्युतं समर्चयामास कुलाचलाश्रमः। यदृच्छया तत्र महायशा मुनिः समागमच्छिव्यगणैः परिश्रितः। तं वीक्ष्य तूणीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह! तस्माइमं शापमदादसाधुरयं दुरात्माऽकृतबुद्धिरद्य। विप्रावमन्ता विशतां तमित्रं यथा गजस्तब्धमतिः स एव। श्रीशुक उवाच। एवं शप्त्वा गतोऽगस्त्यो भगवान्नृप! सानुगः। इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन्। आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम्। हर्य्यर्च्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः”। ततः तच्छापेन गजेन्द्रतां प्राप्तस्य कदाचित् त्रिकूटप र्वते वरुणोद्यानस्थसरसि निमग्नस्य ग्राहेण ग्रहणं पूर्वजन्माज्जि तहरिसेवावासनावशात् हरिस्तवनमेव तदुपायतया संचिन्त्य तस्य स्तवने कृते हरिणा तस्य ततो विमोक्षणं कृतं तेनैव च दिव्यगतिलाभश्च तस्य जात इत्येषा कथा तत्रैव ३० अ० स्थिता दिग्मात्रं ततः उदाह्रियते। “घृणी करेणुं करभांश्च दुर्भदो नाचष्ट कृच्छ्रं कृपणोऽजमायया। तं तव कश्चिन्नृप! दैवचोदितो ग्राहो बलीयांश्चरणे रुषाऽग्रहीत्। यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबली विचक्रमे। यथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा। विचक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन्। नियुध्यतोरेवमिभेन्द्रनक्रयोर्विकर्षतीरन्तरतो बहिर्म्मिथः। समाः सहस्रं व्यगमन्महीपते! सप्राणयाश्चित्रममंसतामराः। तती गजन्द्रस्य मनोवलौजसां कालेन दीर्वण महानभूद्व्यवः। विकृव्यमाणस्य जलेऽवसीदतो विपर्य्ययोऽभूत् सकलं जलौकसः। इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया। अपायन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत। न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः भवति मोक्षधुम्। ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम्। यः कश्चनेशोबलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम्। भीतं प्रपन्नं परिपाति, यद्भयान्मृत्युः प्रधावत्यरणं तमीमहि”। भा० ८। २ अ०। ततः तत्कृतस्तुतिमुपवर्ण्ण्य ३ अ० शेषे, हरिणा ततो गजेन्द्रस्य मोक्षणमुक्तं यथा

एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः। नैते यदोपससृपुर्निखिलात्मकत्वात्तत्राखिलामरमयो हरिराविरासीत्। तं तद्वदार्त्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः। छन्दोमयेन गरुडेन समुह्यमानश्चकायुधोऽभ्यगमदाशु यतो गजेन्द्रः। सोऽन्तःसरस्युरुवलेन गृहीत आर्त्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम्। उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छान्नारायणाखिलगुरो! भगवन्नमस्ते। तं वीक्ष्य पीडितमजः सहसाऽवतीर्व्य स ग्राहमाशु सरसः कृपयोज्जहार। ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं सम्पश्यतां हरिरमूमुचदुच्छ्रियाणाम्”। गजेन्द्रमोक्षणरूपस्य हरिचरितस्य श्रवणे फलमाह “एतन्महाराज! तवेरिता मया कृष्णानुभावो गजराज मोक्षणम्। स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य! शृण्वताम्। यथानुकीर्त्तयन्त्येतच्छ्रयस्कामाद्विजातयः। शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये”। तद्गजेन्द्रकृतस्तवमाहात्म्यमपि तत्रैवोक्तं यथा “ये मां स्त्युवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये। तेषां प्राणात्यये चाहं ददामि विमलां मतिम्” तं प्रति हरेर्वरदानम्।

गजेष्टा = स्त्री गजानामिष्टा। विदार्य्याम् भूमिकुष्माण्डे राजनि०।

गजोदर = पु० गजस्योदरमिवोदरमस्य। दैत्यभेदे हरिवं० गजाशिरःशब्दे दृश्यम्।

गजोषणा = स्त्री गजोपपदा ऊषला। गजपिप्पल्याम्। राजनि०।

गञ्ज = पु० गजि–घञ्। १ अवज्ञायाम् हेमच०। आधारे घञ्। २ गोष्ठागारे हारा०। ३ भाण्डागारे ४ खनौ मेदि०। ५ पामरगृहे, ६ हट्टस्थाने, ७ मद्यभाण्टे, शब्दरत्ना० ८ मदिरागृहे स्त्री टाप् अमरः।

गञ्जन = त्रि० गजि–स्वने णिच्–ल्यु। तिरस्कारके “नेत्रे खञ्जनगञ्जने सरसिजप्रस्पर्द्धि पाणिद्वयम्” सा० द०। “युष्मत्कृते खञ्जनगञ्जनाक्षि! शिरीमदीयं यदि याति यातु” उद्भटः। “अलिकुलगञ्जनमञ्जनकम्” गोतगो०।

गञ्जिका = स्त्री गञ्जैव स्वार्थे क। मदिरागृहे शब्दर०।

गड = सेके भ्वा० पर० सक० सेट्। गडति अगाडीतगडीत्। जगाड घटा०। गडयति–ते।

गड = वदनैकदेशे (गण्डव्यापारे) इदित् भ्वा० पर० अक० सेट्। गण्डति अगण्डीत्। जगण्डः गण्डः। गण्डूषः।

गड = पु० गड–सेके अच्। (गडुइ) गरघ्नोनामके मत्स्य भेदे। “गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत्। कफघ्नी रुचिकृल्लव्वी दीपनी बलवीर्य्यकृत्” भावप्र०। तस्य पाकविशेषे गुणा उक्ता वैद्यके “पुच्छशीर्षेण रहिताः कासमर्द्दविमर्द्दिताः। हिङ्गुतैले च संतप्ता गडमस्यस्य खण्डकाः। गडो वातहरी बल्यो वृष्यः पथ्योऽग्निवर्द्धनः। सुरुच्यः शुक्रदोऽत्यर्थं किञ्चित् कफकरः सरः” २ अन्तराये मेदि०। ३ परिखायां ४ व्यवधाने शब्दर०। ५ देशभेदे शाम्बरे राजनि०। गडसंज्ञायां क्वुन्। गडक (गडुइ) मत्स्यभेदे अमरः।

गडदेशज = न० गडदेशे शाम्बरदेशे जायते जन–ड। शाम्बरदेशजातलवणे राजनि०।

गडयन्त = पु० घटा० गड–णिच्–झच् ह्रस्वः। १ मेघे सि० को०

गडलवण = न० गडदेशर्ज लवणम्। शाम्बरदेशजे लवणभेदे राजनि०। “गडोत्थं लघुवातघ्नमत्युष्णं भेदि पित्तलम्। तीक्ष्णं व्यवायि सूक्ष्मञ्चाभिष्यन्दि कटुपाकि च” भावप्र०

गडि = पु० गड–इन्। १ वत्सतरे राजनि०। २ भारवहनादिस्वकार्य्ये अलसे गवादौ (गडिया) “गुणानामेव दौरात्म्यद्धुरि धुर्य्यो नियुज्यते। अंसजातकिणस्कन्धः सुखं स्वपिति गौर्गडिः” काव्यप्र०।

गडु = पु० गड–उन्। १ गलगण्डे घाटामस्तकयोर्मध्ये मासवृद्धिकारके रोगभेदे भरतः। २ कुब्जे मेदि०। ३ शल्यास्त्रे शब्दर०। ४ किञ्चुलके (के~चो) त्रिका०। गल गण्डवन्निरर्थके ५ पदार्थे च “काव्यान्तर्गडुभूतत्वात् नालङ्कारः प्रहेलिका” सा० द०। “किमन्तर्गडुला” सर्वद० स०। अस्य कण्ठशब्देन समासे आहिता० वा पूर्वनि०। गडुकण्ठः, कण्ठगडुः।

गडुक = पु० गडुर्गलगण्ड इव कायति र्मध्ये कै–क। (गाडु) ख्याते भृङ्गारे पात्रभेदे तन्मध्यस्य गलगण्डाकृतित्वात् तथात्वम्। “घण्ठागडुककुम्भादिस्नानोपस्करभाजनैः” काशी० ३ अ०। ३ तदाकृतौ ऋषिभेदे पु० तस्य गोत्रापत्यम् इञ्। गाडुकि तदपत्ये पुंस्त्री अन्यशब्देन तस्य द्वन्द्वे अद्वन्द्वे च बहुषु इञोलुक्। गडुकास्तदृषेर्गोत्रापत्येषु।

गडुर(ल) = त्रि० गडुः कुब्जरोगोऽस्त्यस्य सिध्मा० लच् बा० र वा। १ कुब्जे शब्दर०। स्त्रियां गौरा० ङीष्। गलगण्डवदाकृतिमत्त्वात् तस्य तथात्वम्। ततः ब्राह्मणा० भावे ष्यञ्। गाडुल्य तद्भावे न० कडा० कर्म्मधा० अस्य पूर्वनि०। खञ्जगडुलः गडुलखञ्जः।

गडेर = पुंस्त्री० गड–एरक्। १ मेषे (गाडोल)। त्रिका०। जातित्वात् स्त्रियां ङीप्।

गडोत्थ = न० गडात् देशभेदात् उत्तिष्ठति उद् + स्था–क। शाम्बरदेशजे लवणभेदे राजनि०।

गडोल = पु० गड–ओलच्। १ गुडके (गुली) अस्त्रभेदे उज्ज्व०। २ ग्रासे हेम०।

गड्डर(ल) = पु० गड–बा० डर डल वा डस्य नेत्त्वम्। १ मेषे।

गड्डरि(लि)का = स्त्री गड्डरं(लं)मेषमनुधावति ठन्। मेषानुगन्त्र्यां १ मेषपङ्क्तौ। तत्सादृश्यादविच्छिन्नगतौ अज्ञातप्रवाहागममूले २ धारावाहिनि च शब्दचि०।

गड्डुक = पु० गडुक + पृषो०। १ भृङ्गारे जलपात्रभेदे शब्दर० पृषो० दीर्घमध्योऽपि तत्रार्थे।

गण = सख्याने अद० चु० उभ० सक० सेट्। गणयति ते अ- जीगणत् त अजगणत् त। गणयाम्–बभूव आसचकार चक्रे। गणयितव्यः। गण्यः। गणयिता गणयन्। गणितम्। गणनम् गणना। गणायत्वा। विगणय्य। गणः, “गणयति विहितहुताशविकल्पम्” गीतगो० “तां भक्तिरेवागणयत् पुरस्तात्” रघुः। “पदानि गणयन् गच्छ स्वानि नैषध! कानिचित्” भा० व० २६१८। नलं प्रति कर्कोटकनागोक्तिः “यदि त्रिलोकी गणनापरा स्यात् तस्याः समाप्रिर्यदि नायुषः स्यात्। पारेपरार्द्ध गणितं यदि स्यात् गणेयनिःशषगुणोऽपि स स्यात्” नैष०। “लीलाकमलपत्राणि गणयामास पार्वती” कुमा०। “अजीगणद्दाशरथं न वाक्यम्” भट्टिः। “वाणीं काणभुजीमजीगणदवासासीच्च वैयासिकीस्” माघटी०, मल्लिनाथः “वृहस्पतिश्च भगवानादित्येष्येव गण्यते” भा० आ० २६०३ श्लो०अव + अवज्ञायाम्। “नार्थनूनैर्नावगणैरेकात्मभिरसाधनैः” भा० व० ८२ अ०।वि + विशेषेण संख्याने “अदूरवर्त्तिनीं सिद्धिं राजन्! विगणयात्मनः” रघुः।

गण = पु० गण–कर्मणि अच कर्त्तरि अच् वा। १ समूहे। “गणानां त्वां गणपतिम्” यजु० २३, १९। “गणपतिं गणानां समूहानां पालकम्” येददी०। २ प्रमथे “सकलहंसगणं शुचि मानसम् शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम्” “गणानमेरुप्रसवावतंसाः” कुमा०। सेनाविशेषाणां ३ सङ्ख्याविशेषे अमरः। स च अनीकिनीशब्दे १६९ पृ० दर्शितेन “त्रयोगुल्मा गणो नाम” इत्यादिवाक्येन उक्तः तेन (रथाः २७ गजाः २७। अश्वाः ८१ पदातिकाः १३५ सर्वसमष्टिः २७०, इति संख्याविशेषः)। ४ चोरनामगन्धद्रव्ये मेदि०। गणः प्रमथादिः वश्यत्वेन सत्त्वादिगुणगणः वश्यत्वेन वा गणः गणदैत्यः नाश्यत्वेन वाऽस्त्यस्य अच्। ५ गणेशे “गणदीक्षाप्रवर्त्तकः” महानि०। प्रमथाधिपत्वात् तस्य गणेशत्वम्। विवाहे वरकन्ययोर्मेलनज्ञानोपयोगिनि ६ देवराक्षसमानुषसूचके ताराभेदवर्गे उपयमशब्दे १२५० पृ० बिवृतिः। “गणमैत्री भकूटं च नाडी चैते गुणाधिकाः” मुहूर्त्तचि०। “नो गणानां च दोषः” ज्यो० त०। ७ ध्रुवादिसंज्ञके नक्षत्रविशेषसमूहे “उग्रः पूर्वमघान्तका ध्रुवगणः इत्यादि” ज्यो० त०। सम्भूय एकद्रव्यतापादनेन ८ बाणिज्यकारिणिबणिक्समूहे च “श्रेणिनैगमपाषण्डिगणानामप्ययं विधिः” “गणद्रव्यं हरेद्यस्तु संविदं यश्च लङ्घयेत्” याज्ञव०। “भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च। तुदादिश्च रुधादिश्च तनक्र्यादिचुरादयः” उक्तेषु शबादिविकरणविशेषनिमित्तेषु दशसु ९ धातुसमुदायेषु तद्युक्तत्वात् १० गणपाठग्रन्थेऽपि। पाणिनिरचिते ११ स्वरादिस्मरूपप्रतिपादकग्रन्थे १२ देत्यभेदे स च दैत्यः अभिजिदपरनाम्नो गुणवतः गुणवत्यां जातः यथाह स्कन्दपु० गणेशख० ३ अ० “अथ सोप्यऽभिजित् पत्न्या समुद्रस्नानमाययौ। पर्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह। तृषिता सा गुणवती पपौ चाऽञ्जलिना जलम्। यद्वीर्य्यं ब्रह्मणात्यक्तं दैवात्तदुदरे गतम्”। “भार्य्या गुणवती तस्य नवमासादनन्तरम्। पुत्रं प्रासूताऽह्नि शुभे दिव्यरूपं गुणाद्भुतम्। ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता। कृत्वाभ्युदयिकं चक्रे व्यतीते दशमेऽहनि” स च महादेवमाराध्य लब्धवरस्त्रैलोक्यं निर्जित्य कपिलमुनेश्चिन्तामणिं हृतवान् तेन जातमन्युना तेन गणेशस्य सेवने कृते गणेशेन तद्गृहे अवतीर्य्य तं गणदैत्यं नाशितवान् इत्येषा कथा तत्रैव विस्तीर्णा दिङ्मात्र मुच्यते यथा “कथं नाशितवाञ्छम्भो! गणदैत्यं विनायकः। तर्त्सवं कृपया देव! कथयस्व ममाग्रतः। शिवौवाच। यथा नाशितवान् दैत्यं गणं दुष्टमतिं विभुः। तथाहं कथष्यामि तच्छृणुष्व षडानन” ६ अ० इत्युपक्रम्य

“प्राप्तसंज्ञां परशुना हन्ति स्म नं रुषा विभुः। दृष्टवान् परशुं वीरमुख्यः सूर्यमिवाऽपरम्। सुतीक्ष्णं ज्वालया व्याप्तं कालचक्रनिभं शुभम्। दहन्तं दशदिग्भागान् प्रलयानलसन्निभम्। यदा तत्सादरं द्रष्टु मुपचक्राम दैत्यराट्। तदैवापातयच्छित्वा परशुस्तस्य मस्तकम्। सपर्वतवना पृथ्वी चात्नसत् सागरैः सह। अभिजित्प्रमुखाः सर्वे रुरुदुः पतिते गणे” ७ अ०। शस् गणशस्, कृत्वस् गणकृत्वस् वीप्सार्थे कारकार्थवृत्तौ गणशब्दार्थे अव्य०। १३ स्वपक्षे “सगणाय मपरिवाराय सायुधाय सशक्तिकाय इन्द्राय नमः” इति विधानपारिजा०। १४ वाक्ये निघण्टुः।

गणक = त्रि० गण–ण्वुल्। १ संख्याकारके २ सांवत्सरिके पु०। तस्य लक्षणगुणदोषादिकमुक्तं वृ० सं० २ अ० यथा

“ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत् कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता। स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ होरान्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः। “अथातः सांवत्सरसूत्रं व्याख्यास्यामः। तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकः समसुसंहतोपचितगात्रसन्धिरविकलश्चारुकरचरणनखनयनचिवुकदशनश्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गम्भीरोदात्तघोषः। प्रायः शरीराकारानुवर्त्तिनो हि गुणाश्च दोषाश्च भवन्ति। तत्र गुणाः। शुचिर्दक्षः प्रगल्भो वाग्मी प्रतिभानवान् देशकालवित् सात्विको न पर्षद्भीरुः सहाध्यायिभिरनभिमवनीयः कुशलोऽव्यसनी शान्तिपौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवासनिरतः स्वतन्त्राश्चर्योत्पादितज्ञानप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद्ग्रहगणितसंहिताहोराग्रन्थार्थवेत्ता। तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्त्तनाडीविनाडीप्राणत्रुटित्रुट्यवयवाद्यस्य कालस्य क्षेत्रस्य च वेत्ता। चतुर्णां च मासानां सौरसावननाक्षत्रचन्द्राणामधिमासकावमसम्भवस्य च कारणाभिज्ञः। षष्ट्यव्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिविच्छेदवित्। सौरादीनाञ्च मानानां सदृशासदृशयोग्यायोग्यत्वप्रतिपादनपटुः। सिद्धान्तभेदेऽप्ययननिवृत्तौ प्रत्यक्षं सममण्डलरेखासम्प्रयोगाभ्युदितांशकानाञ्च छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादतकुशलः। सूर्य्यादीनाञ्च ग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञः सूर्य्यचन्द्रमसोश्च ग्रहणे ग्रहणादिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्णदेशानामनागतग्रहसमागमयुद्धानामादेष्टा। प्रत्येकग्रहभ्रमणयोजनकक्षाप्रमाणप्रतिविषययोजनपरिच्छेदकुशलो भूभगणभ्रमणसंस्थानाद्यक्षाबलम्बकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृतिंषु क्षेत्रकालकरणेष्वभिज्ञो नानाचोद्यप्रश्नभेदोपलब्धिजनितवाक्सारो निकषसन्तापाभिनिवेशैर्विशुद्धस्य कनकस्येवाधिकतरममलीकृतस्य शास्त्रस्य वक्ता तन्त्रज्ञो भवति। उक्तञ्च न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः। निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः। ग्रन्थोऽन्यथान्यथार्थः करणं यच्चान्यथा करोत्यबुधः। स पितामहमुपगम्य स्तौति नरो वैशिकेनार्य्याम्। तन्त्रे सुपरिज्ञाते लग्ने छायाम्बुयन्त्रसोवदिते। होरार्थे च सुरूढे नादेष्टुर्भारती बन्ध्या। उक्तञ्चार्य्यविष्णुगुप्तेन। अप्यर्णवस्य पुरुषः प्रतरन् कदाचिदासादयेदनिलवेगवशेन पारम्। न त्वस्य कालपुरुषाख्यमहा- र्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम्। होराशास्त्रेऽपि राशिहोराद्रेक्काणनवांशकद्वादशभागत्रिंशद्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिरनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादिपरिग्रहो निषेकजन्मकालविस्मापनप्रत्ययादेशसद्योमरणायुर्दायदशान्तर्दशाष्टवर्गराजयोगचन्द्रयोगद्विग्रहादियोगानां नाभसादीनाञ्च योगानां फलान्याश्रयभावाबलोकननिर्याणगत्यनूकानि तात्कालिकप्रश्नशुभाशुभनिमित्तानि विवाहादीनाञ्च कर्मणां करणम्। यात्रायाञ्च तिथिदिवसकरणनक्षत्रमुहूर्त्तविलग्नयोगदेहस्पन्दनस्वप्नविजयस्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वेङ्गितसेनाप्रवादचेष्टादिग्रहषाङ्गुण्योपायमङ्गलामङ्गलशकुनसैन्यनिवेशभूमयोऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाः परदुर्गलम्भोपायाश्चेत्युक्तं चाचार्यैः। जगति प्रसारितमिवालिखितमिव मतौ निषिक्तमिव हृदये। शास्त्रं यस्य सभगणं नादेशा निष्फलास्तस्य। संहितापारगश्च दैवचिन्तको भवति। यत्रैते संहितापदार्थाः। दिनकरादीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमनोदयमार्गमार्गान्तरवक्रानुवक्रर्क्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन देशेष्वगस्तिचारः सप्तर्षिचारो ग्रहभक्तयो नक्षत्रव्यूहग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनोल्कादिग्दाहक्षितिचलनसन्ध्यारागगन्धर्बनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्रचापवास्तुविद्याङ्गविद्यावायसविद्यान्तरचक्रमृगचक्राश्वचक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेददगार्गलनीराजनखञ्जनोत्पातशान्तिमयूरचित्रकघृतकम्बलखङ्गपट्टकृकवाकुकूर्मगोऽजाश्वेभपुरुषस्त्रीलक्षणान्यन्तःपुरचिन्तापिटकलक्षणोपानच्छेदवस्त्रच्छेदचामरदण्डशय्यासनलक्षणरत्नपरीक्षादीपलक्षणदन्तकाष्ठाद्याश्रितानि शुभाशुभानि निमित्तानि सामान्यानि च जगतः प्रतिषुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि। न चैकाकिना शक्यन्तेऽहर्निशमवधारयितुं निमित्तानि। तस्मात् सुभृतेनैव दैवज्ञेनान्ये तद्विदश्चत्वारो भर्त्तव्याः। तत्रैकेनैन्द्री वाग्नेयी च दिगवलोकयितव्या। याम्या नैरृती चान्येनैवं वारुणींवायव्या, चोत्तरा चैशानी चेति। यस्मादुल्का- पातादीनि निमित्तानि शीघ्रमुपगच्छन्तीति। तेषां चाकारबर्णस्नेहप्रमाणादिग्रहर्क्षामिघातादिभिः फलानि भवन्ति। उक्तञ्च गर्गेण महर्षिणा “कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्ठिकम्। यो न पूजयते राजा स नाशमुपगच्छति। वनं समाश्रिता येऽपि निर्ममा निःपरिग्रहाः। अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम्। अप्रदीपा यथा रात्रिरनादित्यं यथा नभः। तथाऽसांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि। मुहूर्त्तं तिथिनक्षत्रमृतवश्चायने तथा। सर्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि। तस्माद्राज्ञाभिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः। जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता। नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता। चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते। न सांवत्सरपाठी च नरकेषूपपद्यते। व्रह्मलोकप्रतिष्ठाञ्च लभते दैवचिन्तकः। ग्रन्थतश्चार्थतश्चैतत्कृत्स्नं जानाति यो द्विजः! अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपाबनः। म्लेच्छा हि यवनास्तेषु सम्यक् शास्त्रमिदं स्थितम्। ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविद्द्विजः! कुहकावेशपिहितैः कर्णोपश्रुतिहेतुभिः। कृतादेशो न सर्वत्र प्रष्टव्यो न स दैववित्। अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते। स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः। नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः। स ब्रजत्यन्धतामिस्रं सार्द्धमृक्षविडम्बिना। नगरद्वारलोष्टस्य यद्वत् स्यादुपयाचितम्। आदेशस्तद्वदज्ञानां यः सत्यः स विभाव्यते। सम्पत्त्या योजितादेशस्तद्विच्छिन्नकथाप्रियः!। मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता। यस्तु सम्यग्विजानाति होरागणितसंहिताः। अभ्यर्च्यः स नरेन्द्रेण स्वीकर्त्तव्यो जयैषिणा। न तत्सहस्रं करिणां वाजिनां वा चतुर्गुणम्। करोति देशकालज्ञो यदेको दैवचिन्तकः। दुःस्वप्नदुर्विचिन्तितदुःप्रेक्षितदुःकृतानि कर्माणि। क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसंवादम्। न तथेच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत्। स्वयशोऽभिविवृद्धये यथा हितमाप्तः सवलस्य दैववित्”।

सि० शि० ज्योतिःशास्त्रस्य वेदनेत्र रूपाङ्गत्वप्रतिपादनेन तदध्ययने द्विजातिमात्रस्यैवाधिकारं प्रतिपाद्य तद्वेत्तुर्गणकस्य प्रशंसा दर्शिता यथा “त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमाच्चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः। भूधिष्ण्य ग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रवन्धे बुधैः।। जानन् जातकसंहिताः सगणितस्कन्धैकदेशा अपि ज्योतिःशास्त्रविचार सारचतुरः प्रश्नेष्वकिञ्चित्करः। यः सिद्धान्तमनन्तयुक्तिविततं नो वेति भित्तौ यथा राजा चित्रमयोऽथवा सुवटितः काष्ठस्य कण्ठीरवः।। गर्जत्कुञ्जरवर्जिता नृपचमूरप्यूर्जिताऽश्वादिकैरुद्यानं च्युतचूतवृक्षमथवा पाथोविहीनं सरः। योषित् प्रोषितनूतनप्रियतमा यद्वन्न भात्युच्यकैर्ज्योतिःशास्त्रमिदं तथैव विबुधाः सिद्धान्तहीनं जगुः”।। “इदानीं ज्योतिःशास्त्रस्य वेदाङ्गत्वं निरूय वेदाङ्गत्वादवश्यमध्येतव्यं तद्द्विजैरेव नान्यैः शूद्रादिभिरित्येतत्प्रतिपादनार्थं श्लोकचतुष्टयमाह” प्रमि० “वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण। शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात्।। शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तं च कल्पः करौ। या तु शिक्षास्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः। वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते। संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चित्करः। तस्माद्द्विजैरध्ययनीयमेतत् पुण्यं रहस्यं परमं च तत्त्वम्। यो ज्योतिषं वेत्ति नरः स सम्यग् धर्मार्थकामान् लभते यशश्च” सि० शि०। एवं गणकस्य प्रशंसायां स्थितायाम् सिद्धान्तानभिज्ञस्य नक्षत्रसूचिनो निन्दाश्रवणाच्च “वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः! तथाप्यस्पृश्यगणकं सर्वदा तु परित्यजेत्” महिषमर्द्दिनीतन्त्रवाक्यम् नक्षत्रसूचिविषयम् “चमकारस्य द्वौ पुत्रौ गणको वाद्यपूरकः, इत्युक्त सङ्कीर्णवर्णरूपगणकपरत्वे सङ्कोचाभावाच्च तस्याधमशूद्रतया वेदाङ्गज्योतिषेऽनधिकारात् अनधिकृतशास्त्राध्यायिनो निन्दौचित्यात्। “द्विजातेऽस्तु यथोक्त स्कन्धादित्रयवेत्तृरूपगणकस्य प्रशंस्यत्वात्। न तथा। यथाहपी० धा० “सिद्धान्तसंहिताहोरारूपस्कन्दत्रयात्मकम्। वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम्। विनैतदखिलं श्रौतं स्मार्तकर्म न सिध्यति। तस्माज्जगद्धितायेदं ब्रह्मणा निर्मितं पुरा। अतएव द्विजैरेतदध्येतव्यं प्रयत्नतः” इति। तत्रैव ज्योतिःशास्त्राध्येतुर्माहात्म्यमाह माण्डव्यः “एवंविधस्य श्रुतिनेत्रशास्त्रस्वरूपवेत्तुः खलु दर्शनं वै। निहन्त्यशेषं कलुषं जनानां षडव्दजं धर्मसुखास्पदं स्यात्” अत्र ज्ञानविशेषेण ज्योतिर्विदः पूज्यतातारतम्यं जीर्णैरभ्यधायि “दशदिनकृतपापं हन्ति सिद्धान्तवेत्ता त्रिदिनजनितदोषं तन्त्रबिज्ञः स एव। करणभगणवेत्ता हन्त्यहोरात्रदोषं जनयति घनमंहश्चात्र नक्षत्रसूची”। नक्षत्रसूची दैवज्ञो घनं बहु अंहः पापं जनयति। तल्लक्षणं वराहसंहितायां “अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते। स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः” अन्यच्च “तिथ्युत्पत्तिन्न जानन्ति ग्रहाणां नैव साधनम्। परवाक्येन वर्त्तन्ते ते वै नक्षत्रसूचकाः” व्युत्पत्तिस्तु गृहे गृहे गत्वाऽपृष्ट एव नक्षत्राण्यश्विन्यादीनि शुभाशुभफलसूचकानि सूचयतीति नक्षत्रसूची। वराहः “नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः। स व्रजत्यन्धतामिस्रं सार्द्धमृक्षविडम्बिना नक्षत्रसूचकं पापं भिषजं शुल्कजीविनम्। तादृक् पौराणिकादींश्च वाङ्मात्रेणापि नार्चयेत्” अतएव वसिष्टः “त्रिस्कन्धपारङ्गम एव पूज्यः श्राद्धे सदा भूसुरवृन्दमध्ये। नक्षत्रसूची खलु पापरूपो हेयः सदा सर्वसुधर्मकृत्ये”। वराहोऽपि ग्रन्थतश्चाऽर्थतश्चैव कृत्स्नं जानाति यो द्विजः। अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपावनः। नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता। चक्षुर्भूतोऽपि यत्रैव पापं तत्र न विद्यते। मुहूर्त्तं तिथिनक्षत्रमृतवश्चायनानि च। सर्वाण्येवाकुलानि स्पुर्न स्यात् सांवत्सरो यदि”। अत एव यद्धर्मशास्त्रे सुमन्तुः “तस्करकितवेत्यादिना महता गद्येन यत् “सांवत्सरिकोऽपाङ्क्तेयः” इत्याह यच्च महाभारतेऽपि “कितवो भ्रूणहा यक्ष्मीत्यादिपद्यषट्कमध्ये क्रुशीलवो देवलको नक्षत्रैर्यश्च जीवति। एतानिह विजानीयाद्ब्राह्मणान् पङ्क्तिदूषकानित्युक्तं तन्नक्षत्रसूचकज्योतिर्विद्विषयं यदाह कश्यपः “दारर्त्विगृभ्रूणहन्तॄंश्च व्यङ्गान्नक्षत्रसूचकान्। वर्ज्जयेत् ब्राह्मणानेतान् सर्वकर्मसु यत्नतः” इति “नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः” इति ब्रह्मपुराणेऽप्युक्तम् मनुः “तिथिं पक्षस्य न ब्रूयान्न नक्षत्राणि निर्दिशेत्” इत्याह स्म अपृष्ट इति शेषः। यमोऽपि “नक्षत्रतिथिपुण्याहान्मुहूर्त्तान् मङ्गलानि च। न निर्दिशन्ति ये विप्रास्तैर्भुक्तं ह्यक्षयं भवेदिति” वसिष्ठवाक्यन्तु “प्रागभिहितम् महाप्रयोजनं त्वेतच्छास्त्रस्य सम्यग्ज्ञानाद्ब्रह्म सायुज्यमिति” तदुक्तं गर्गेण “ज्योतिश्चक्र तु लोकस्य सर्वस्योक्तं शुभाऽशुभम्। ज्योतिर्ज्ञानं च यो वेद स याति परमां गतिम्”। गतिं ब्रह्मसायुज्यमिति सूर्य्यसिद्धान्तेऽपि “दिव्यञ्चक्षुर्ग्रहर्क्षाणां दर्शितं ज्ञानमुत्तमम्। विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम्” वराहसंहितायामपि “न साम्बत्सरपाठी च नरके परिपच्यते। ब्रह्मलोके प्रतिष्ठाञ्च लभते दैवचिन्तक” इति गणकस्य पत्नी ङीष् गणकी तत्पत्न्यां जटा०। “तस्मिन् मग्नं गणक! कथय क्षिप्रमम्भः प्रमाणम् “गणक! पवनवेगादेकदेशे स भग्नः” लीला०। “गणकचक्रचूडामणिः” सि० शि०। “चर्म्मकारस्य द्वौ पुत्रौ गणको वाद्यपूरकः” इत्युक्ते ३ सङ्कीर्णजातिभेदे प्रजापतिपुत्रे तारापुञ्जात्मके अष्टसंख्यके ४ केतुभेदे “तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ” वृह० सं० ११ अ०।

गणकर्णिका = स्त्री गणस्य गणेशस्य कर्ण इव पत्रमस्याः कप् अत इत्त्वम्। इन्द्रवारुण्याम् राजनि०।

गणकार = पु० गणं धात्वादिगणपाठं करोति कृ–अण्। धात्वादिगणार्थप्रतिपादके १ ग्रन्थकर्त्तरि २ भीमसेने शब्दच०।

गणकारि = पु० गणं धात्वादिगणं करोति कृ बा० इञ्। धात्वर्थप्रतिपादकग्रन्थकर्त्तरि। ६ त० गणकस्यारौच। तस्यापत्यं कुर्वा० ण्य। गाणकार्य्य तदपत्ये पुंस्त्री।

गणकूट = पुंन० गणरूप कूटम्। वरकन्ययोर्नक्षत्रभेदेन जातयोः विवाहे मेलनोपयोगिनि सुरराक्षसमानुवरूपे कूटे। उपयमशब्दे १२५० पृ० विवृतिः।

गणचक्रक = न० गणानां धार्मिकगणानां चक्रसत्र कप्। धार्म्मिकानां सम्भूय भोजने त्रिका०।

गणता = गणस्य भावः तल्। गणसमूहे।

गणतिथ = त्रि० गण + असंख्यावाचकत्वेऽपि पूरणे डट् तिथुगागमश्च। गणानां पूरणे।

गणदीक्षिन् = पु० गणान् दीक्षयति दीक्ष–णिनि। १ बहुयाजके। “वेणाभिशस्तवार्द्धूषि गणिका गणदीक्षिणाम्” अभक्ष्यान्नकथने याज्ञ०। “गणदीक्षिणो बहुयाजकाः” मिता० ३ गणेशदीक्षकावति त्रि० स्त्रियां ङीप्।

गणदेवता = स्त्री गणभूता सङ्घभूता देवता। सङ्घभूते देवभेदे “आदित्याविश्वे वसवस्तुषिता भास्वरानिलाः। महाराजिकसाध्याश्च रुद्राश्च गणदेवताः। आदित्या द्वादश प्रोक्ता विश्वे देवा दश स्मृताः। वसवश्चाष्टसंख्याताः षट्त्रिंशत् तुषिता मताः। आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः। महाराजिकनामानो द्वेशते चापि विंशतिः। साध्या द्वादशविख्याता रुद्राश्चेकादश स्मृताः। एते च संहता देवास्तत्रादित्याः स्वनामतः” जटाधरकोषः।

गणद्रव्य = ६ त०। गणस्वामिके द्रव्ये। गणं गणींभूतं द्रव्यं द्रव्याणां गणे च।

गणद्वीप = पुंन० गणानां सप्तानां राज्यत्वात् द्वीपः। सप्तानां राज्यरूपे द्वीपभेदे “यत्नवन्तो गणद्वीपं सप्तराज्योपशोभितम्” रामा० कि० ४०३० अ०। यवद्वीपमिति पाठान्तरम्।

गणन = न० गण–भावे ल्युट्। सङ्ख्याकरणे सङ्ख्याने (गोणा) “येनैव लिखितं कुर्य्यात् तेनैव गणनं भवेत्” विश्वसारत०। युच्। गणनाप्यत्र स्त्री। “यदि त्रिलोकी गणनापरा स्यात्” नैष० “व्याजपर्वगणनामिवोद्वहन्” रघुः

गणनाथ = पु० गणानां प्रयथादीनां नाथः। १ गणेशे २ शिवे च गणनायकादयोऽप्यत्र। ३ बहूनां स्वामिनि त्रि०। गणनायिका स्त्री ३ दुर्गायाम् त्रिका०।

गणनीय = त्रि० गणयितुमर्हति गण–अनीयर्। गणनार्हे अमरः। यत्, गण्य, तव्य गणितव्य तदर्थे त्रि०।

गणपति = पु० ६ त०। गणेशे तस्याविर्भावकथा इभाननशब्दे ९८१ पृ० गजाननशब्दे २४९५ पृ० च उक्ता तस्य गणाधिपतित्वं याज्ञवल्क्येनोक्तं तच्च बाक्यं गणपतिकल्पशब्दे दृश्यम् २ शिवे ३ समूहपतौ च “गणानां त्वा गणपतिम्” यजु० १६। १८।

गणपतिकल्प = पु० गणपत्युद्देशेन कल्पः विधानभेदः। गणेशोद्देशेन विघ्नविघाताय तत्स्नपनादिरूप, विधानभेदे। स च कल्पः याज्ञ० उक्तो यथा।

“विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः। गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा। तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत। स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति। काषायवाससश्चैव क्रव्यादांश्चाधिरोहति। अन्त्यजैर्गर्द्दभैरुष्ट्रैः सहैकत्रावतिष्ठते। ब्रव्रजल्लपि तथात्मानं मन्यतेऽनुगतं परैः। विमना विफलारम्भः संसीदत्यनिमित्ततः। तेनोपसृष्टो लभते न राज्यं राजनन्दनः। कुमारी न च भर्त्तारमपत्यं न च गर्भिणी। आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा। बणिग्लाभं न चाप्नोति कृषिञ्चैव कृषी बलः। स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्वकम्। गौरसर्षपकल्केन साज्येनोत्सादितस्य च। सर्व्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा। भद्रासनोपविष्टस्य स्वसि वाच्या द्विजाः शुभाः। अश्वस्थानाद्गजस्थानाद्वल्मी- कात् सङ्गमात् ह्रदात्। मृत्तिकां रोचनां गन्धान् गुग्गुलुञ्चाप्सु निःक्षिपेत्। या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात्। चर्म्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं तथा। सहस्राक्षं शतधारमृषिभिः पावनं कृतम्। तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते। भगन्ते वरुणो राजा भगं सूर्य्यो वृहस्पतिः। भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः। यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि। ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा। स्नातस्य सार्षपं तैलं स्रुवेणोडुम्बरेण च। जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्य च। मितश्च संमितश्चंव तथा शालकटङ्कटौ। कुष्माण्डो राजपुत्रश्चेत्थन्ते स्वाहासमन्वितैः। नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः। दद्याच्चतुष्पथे सूर्पे कुशानास्तीर्य्य सर्वतः। कृताकृतांस्तण्डुलांश्च पललौदनमेव च। मत्स्यान् पक्वांस्तथैवामान् मांसमेतावदेव तु। पुष्पं चित्रं सुगन्धञ्च सुराञ्च त्रिविधामपि। मूलकं पूरिकापूपांस्तथैवैरण्डिकाः स्रजः। दध्यन्नं पायसञ्चैव गुडपिष्टं समोदकम्। एतान् सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः। विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम्। दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम्। रूपं देहि यशो देहि भाग्यं भगवति! देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे। ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः। ब्राह्मणान् भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि। एवं विनायकं पूज्य ग्रहांश्चैव विधानतः। कर्म्मणां फलमाप्नोति श्रियञ्चाप्नोत्यनुत्तमाम्। आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा। महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात्”।

गणपर्व्वत = पु० गणभूयिष्टः पर्वतः। कैलासाचले त्रिका०।

गणपाठ = पु० गणानां स्वरादिगणानां पाठोऽत्र। पाणिन्यादिरचिते स्वरादिगणानां स्वरूपकथने ग्रन्थभेदे।

गणपाद = पु० गणस्येव पादोऽस्य। प्रमथतुल्यपादयुक्ते युक्तारोह्यादित्वादाद्युदात्ततास्य।

गणपीठक = न० गणस्य पीठ इव कायति कै–क। १ वक्षसि शब्दच०।

गणपुङ्गव = पु० गणः पुङ्गव इव उपमि० स०। १ गणश्रेष्ठे २ देशभेदे च। ३ तत्रवासिषु ४ तद्देशनृपेषु च वहुव० “कौलिङ्गान् गणपुङ्गवानथ शिवोनायोध्यकान् पार्थिवान्” वृह० स० ४ अ०।

गणपूज्य = पु० गणो गणेशः प्रमथो वा पूज्योऽत्र। १ देशभेदे २ तद्देशस्थजनेषु ३ तन्नृपेषु च बहुव०। “गणपूज्यस्खलितव्रतशवरपुलिन्दार्थपरिहीनाः” वृह० सं० १६ अ०।

गणपूर्य्य = पु० गणानां ग्रामादिस्थलीकानां पूर्व्वः प्रधानम्। ग्रामण्याम् “अपरिज्ञातपूर्व्वाश्च गणपूर्व्वाश्च भारत!” भा० आ० २३ अ० श्राद्धानर्हकथने। “गणपूर्व्वा ग्रामण्यः” नीलक०। गणमुख्यादयोऽत्यत्र। “रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम्” वृह० स० १७ अ०

गणभर्त्तृ = पु० गणानां प्रमथादीनां भर्त्ता। १ महादेवे। “शृङ्गाण्यमूष्य भजते गणभर्त्तुरुक्षा” किरा०। गणस्वामिप्रभृतयोऽप्यत्र। २ गणेशे ३ समूहस्वामिनि त्रि०।

गणयज्ञ = पु० गणस्य भ्रातॄणां सखीनां वा समूहस्य कर्त्तव्यः यज्ञः। मरुत्स्तोमाख्ये भ्रातृसखिवर्गकर्त्तव्ये यज्ञभेदे। “वैश्यस्तोमदक्षिणालिङ्गो मरुत्स्तोमे गणयज्ञो भ्रातॄणां सखीनां वा” कात्या० श्रौ० २२। ११। १२। “सत्रगणयज्ञे सहत्वशब्दात्” कात्या० २५। १३। २९। “एतच्च सत्रे भवति गणयज्ञे च “तेन सह यजेरन्निति” सहत्वशब्दात्” कर्कः। “तयोरनेकयजमानसद्भावान्नान्यत्र” सं० व्या०।

गणयाग = पु० गजोद्देशेन शान्त्यर्थ्यं यागः। गणेशोद्देशेन कर्त्तव्ये गणपतिकल्पोक्ते तत्स्ननपनादौ “विजयस्नानग्रहयज्ञगणयागाग्निलिङ्गेत्यादि” वृह० सं० २ अ०।

गणरत्न = न० गणाः स्वरादयः रत्नानीव यत्र। पाणिन्युक्त स्वरादिगणानाम् श्लोकैर्निर्बन्धनपूर्वकं तदर्थकथनरूपे ग्रन्थवेदे। तस्य व्याख्या गणरत्नमहोदधिः।

गणराज्य = न० वृ० स० १४ उक्ते दक्षिणस्यामुक्ते देशभेदे “गणराज्यकृष्णवेल्लूरेत्यादि तद्वाक्यं कूर्म्मविभागशब्दे २४६८ पृ० उक्तम्।

गणरात्र = न० गणानां रात्रीणां समाहारः गणशब्दस्य संख्यावत्त्वात् द्विगुस० षच्समा०। रात्रिवृन्दे।

गणरूप = पु० गणा बहूनि रूपाण्यस्य। १ अर्कवृक्षे अमरः। संज्ञायां कन्। गणरूपक राजार्के राजनि०।

गणरूपिन् = पु० गणा बहूनि रूपाणि सन्त्यस्य इनि। श्वेतार्के रत्नमा०।

गणवत् = त्रि० गणोऽस्त्यस्य मतुप् मस्य वः। १ गणयुते “गणवती याज्यानुवाक्ये भवतः” तैत्ति० २। ३। ३। ५। स्त्रियां ङीप्। सा च २ दिवोदासमातरि त्रिका०।

गणशस् = अव्य० गण + वीप्सावृत्तौ कारकार्थे शस्। गणान् गणान् कृत्वा इत्याद्यर्थे। “स विशमसृजत यान्येताति देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुतः” शत० ब्रा० १३। ४। २। २४। “अजगणनन् गणशः प्रियमन्ततः” माघः।

गणश्रि = पु० गणं गणरूपं श्रयति श्रि–क्विप् नि० तु गभावः। गणरूपेणावस्थिते मरुदादौ संहतदेवे। “रोदसी आ वदता गणश्रियः” ऋ० १। ६४। ९। हे गणश्रियः! (मरुतः) गणं श्रयमाणाः सप्त गणरूपेणावस्थिता इत्यर्थः” भा०। “पिव भन्दमाने गणश्रिभिः” ऋ० ५। ६१। ८। “गणश्रिभिः गणभावमाश्रयद्भिः” भा० “गणश्रिये स्वाहा गणपतये स्वाहा” यजु० २२। ३।

गणहासक = पु० गणान् हासयति हस–णिच्–ण्वुल्। १ चोरनामगन्धे अमरः। ३ समूहहासके त्रि०। अण् उपमि० स०। गणहास तत्रार्थे राजनि०।<

गणाग्रणी = पु० ६ त०। १ गणेशे त्रिका०। २ बहूनामग्रगण्ये त्रि०

गणाचल = पु० गणभूयिष्ठोऽचलः। कैलासपर्वते जटा०।

गणाधिप = पु० ६ त०। १ गणेशे अमरः २ शिवे हला०। गणाधिपत्यादयोप्यत्र। “गगनं गणाधिपतिमूर्त्तिरिति” माघः। जैनशास्त्रप्रसिद्धेषु “गणा नवास्यर्षिसंघा एकादश गणाधिपाः”। हेमचन्द्रोक्तेषु एकादशजैनश्रेष्ठभेदेषु।

गणान्न = न० गणायोत्सृष्टं, गणानां वाऽन्नम्। मठादौ १ बहुजनोद्देशेनोत्सृष्टान्ने, २ बहुस्वामिकेऽन्ने च “गणान्नं गणिकान्नञ्चेति” मनुना निषिद्धान्नमध्ये गणितम्। “गणान्नं गणिकान्नञ्च लोकेभ्यः परिकृन्तति” मनुना। तद्भक्षणे पापविशेष उक्तः।

गणाभ्यन्तर = त्रि० गणायोत्सृष्टमठादौ अभ्यन्तरः तदुपजीवना सक्तः। “गणायोत्सृष्टमठधनाद्युपजीविनि” कूल्लू०। “ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च” मनुः।

गणि = स्त्री गण–इन्। गणने।

गणिका = स्त्री गणः समूहोऽस्त्यस्याः भर्त्तृत्वेन ठन्। १ वेश्यायाम्, तद्वच्चित्राकर्षकत्वात् २ यूथिकायाम्(यु~इ)अमरः। ३ गणिकारिकावृक्षे शब्दर०। गण–ण्वुल्। ४ हस्तिन्यां जटा०। “अनुरागवन्तमपि लोचनयोर्दधत वपुः स्वकमतापकरम्। निरकासयद्रविमपेतवसुं वियदालयादपरद्दिग्गणिका” माघः। वेश्यायाः साधारणस्त्रीत्वं लक्षणादिकं च सा० द० उक्तं यथा। “धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका। निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि। वित्तमात्रं ममालोक्य सा रागं दर्शयेद्बहिः। काममङ्गीकृतमपि परिक्षीणधनं नरम्। मात्रा निष्कासयेदेषा पुनः स- न्घानकाङ्क्षया। तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा। लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः। एषापि मदनायत्ता क्वापि सत्यानुरागिणी। रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम्”। प्रसङ्गात् तस्याः पञ्चमजातित्वं तद्गमनादौ दण्ड दण्डाभावादिकं मिताक्षरोक्तम् प्रदर्श्यते। “साधारणस्त्रीगमने दण्डमाह “अवरुद्धासु दासीषु भुजिष्यासु तथैव च। गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकन्दमम्” या०। गच्छन्नित्यनुवर्त्तते। उक्तलक्षणावर्णस्त्रियोदास्यस्ता एव स्वामिना शुश्रूषाहानिव्युदासार्थं गृहे एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धाः, अवरुद्धाः पुरुषनियतपरिग्रहा भुजिष्याः। यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस्तदा तासु तथा चशब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजिष्याणां ग्रहणन्तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत् पणन्दण्डन्दापनीयः परपरिगृहीतत्वेन तासाम्परदारतुल्यत्वात्। एतच्च स्पष्टमुक्तन्नारदेन “स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी तथा। गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः। आस्वेव तु भुजिष्यासु दोषः स्यात् परदारवत्। गम्यास्वपि हि नोपेयाद्यत्ताः परपरिग्रहाः” इति। निष्कासिनी स्वाम्यनवरुद्धा दासी। ननु स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानमयुक्तम् न हि जातितः शास्त्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते। तथाहि स्वैरिण्योदास्यश्च तावद्वर्णस्त्रियएव “स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत्। वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः” इति स्मरणात्। न च वर्णस्त्रीणाम्पत्यौ जीवति भृते वा पुरुषान्तरोपभोगो घटते “दुःशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः। परिचार्य्यः स्त्रिया साध्व्या सततन्देववत् पतिः। कामन्तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः। न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य त्विति” निषेध(मनु)स्मरणात्। नापि कन्यावस्थायां साधारणत्वं पित्रादिपरिरक्षितायाः कन्थाया एव दानोपदेशाद्दात्रभावेऽपि तथाविधाया एव स्वयं वरोपदेशात्। न च दासीभावात् स्वधर्माधिकार च्युतिः। पारतन्त्र्यं हि दास्यन्न स्वधर्मपरित्यागः। नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्य जात्यन्तरासम्भवात्। तदन्तःपातित्वे च पूर्ववदेवागम्य त्वं प्रतिलेमजत्वे तु तासान्नितरामगम्यत्वम्। अतः पुरुषान्तरोपभोगे तासान्निन्दितकर्माभ्यासेन पातित्यात् पतितसंसर्गस्य च निषिद्धत्वान्न सकलपुरुषोपभोगयोग्यत्वम्। सत्यमेवम्। किन्त्वत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचोयुक्तिः। दण्डाभावश्चावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्थाद्गम्यते। स्वैरिण्याद्यानां पुनदण्डाभावो विधानाभावात् “कन्याम्भजन्तीमुत्कृष्टं न किञ्चिदपि दापयेदिति” लिङ्गदर्शनाच्चावगम्यते। प्रायश्चित्तन्तु स्वधर्मस्खलननिमित्तङ्गम्यानाङ्गन्तॄणां वाऽविशेषाद्भवत्येव। यत् पुनर्वेश्यानाञ्जात्यन्तरासम्भवेन वर्णान्तःपातित्यमनुमानादुक्तम् वेश्यावर्णानुलोमाद्यन्तःपातिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवदिति। तन्न कुण्डगोलकादिभिरनैकान्तिकत्वात्। अतो वेश्याख्या काचिज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुषादुत्पन्ना पुरुषसंयोगवृत्तिर्वेश्येति ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगमनीयम्। न च निर्मूलेयम्प्रसिद्धिः। स्मर्य्यते हि स्कन्दपुराणे “पञ्चचूडा नाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिरिति। अतस्तासान्नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने न दृष्टदोषो नापि दण्डस्तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाप्यदृष्टदोषोऽस्त्येव “स्वदारनिरतः सदेति” नियमात्। “पशुवेश्याभिगमने प्राजापत्यं विधीयते” इति प्रायश्चित्तस्मरणाच्चेति निरवद्यम्। अवरुद्धासु दासीष्वित्यनेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विदधतस्तास्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तम्। तस्यापवादमाह “प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः। बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक्” या०। पुरुषसम्भोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहण प्रसह्य वलात्कारेणाभिगच्छतो दशपणो दण्डः। यदि बहवः अकामामनिच्छन्तीमपि वलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकञ्चतुर्विंशतिपणपरिमितन्दण्डं दण्डनीयाः। यदा पुनस्तदिच्छया भाटिन्दत्त्वापश्चादनिच्छन्तीमपि बलात् व्रजन्ति तदा तेषामदोषः यदि व्याध्याद्यभिभवस्तस्या न स्यात् “व्याधि- ता सश्रमा व्यग्रा राजकर्मपरायणा। आमन्त्रिता चेन्नागच्छेददण्ड्या वडवा स्मृतेति” नारदवचनात्। किञ्च। “गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत्। अगृहीते समन्द प्यः पुमानप्येबमेव च” या०। यदा तु शुल्कं गृही त्वा सुस्थापि तं नेच्छति तदा शुल्कं द्विगुणं दद्यात् तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव “शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत्। अनिच्छन् दत्तशुल्कोऽपि शुल्कहानिमवाप्नुयादिति तेनैवोक्तत्वात्। तथान्योऽपि विशेषस्त नैव दर्शितः “अप्रयच्छंस्तथा शुल्कमनुभूय पुमान् स्त्रियम्। आक्रमेण च सङ्गच्छन् तथा दन्तनखादिभिः। अयोनौ चाभिगच्छद्यो बहुभिर्वाभिवासयेत्। शुल्कमष्टगुणं दाप्यो विनयन्तावदेव तु। “वेश्या प्रधाना यास्तत्र कामुकास्तद्गृहोषिताः। तत्समुत्थेषु कार्य्येषु निर्णयं संशये विदुरिति”। “गणान्नं गणिकान्नञ्च” अभक्ष्यान्नकथने मनुना तदन्नं निषिद्धम्।

गणिकारिका = स्त्री गणनं गणिः गण–इन् तं करोति अण् गौरा० ङीष् गणिकारी स्वार्थे के ह्रस्वः, कृ–ण्वुल् वा कापि अत इत्त्वम्। १ (गणियारी) द्रुमे अमरः। “अग्निमन्थो जयः सस्याच्छ्रीपर्णी गणिकारिका। जया जयन्ती तर्कारी नादेयी वैजयन्तिका। अग्निमन्थः श्वयथुनुद्वीर्य्योष्णः कफवातहृत्। पाण्डनुत् कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः” भावप्र०।

गणिकारी = स्त्री गणिं गणनं करोति कृ–अण् उप० स० गौरा० ङीष्। क्षुद्रगणिकारिकायाम् राजनि०।

गणित = न० गण–भावे क्त। १ गणने “पारेपरार्द्धं गणितं यदि स्यात्” नैष०। ग्रहाणां २ गतिस्थित्यादिगणने यथा गणिताध्यायः। करणे क्त। ३ व्यक्ताव्यक्तरूपे अङ्कशास्त्रे “द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदवगमननिष्ठः शब्दशास्त्रे पटिष्ठः। यदि भवति तदेवं ज्यौतिषं भूरिभेदं प्रपठितुमधिकारी सोऽन्यथा नामधारी” सि० शि०। कर्म्मणि क्त। ४ कृतगणने संख्याते त्रि० अमरः “विद्यां प्रमादगणितामपि चिन्तयामि” चौरप० गणनया आगते ५ क्षेत्रफलादौ (कालि) “क्षेत्रस्य पञ्चकृतितुल्यचतुर्भुजस्य कर्ण्णौ ततश्च गणितं गणक! प्रचक्ष्व”। “सूर्य्योन्मितश्च गणितं वद तत्र किं स्यात्” लीला०।

गणिताध्याय = पु० गणितम् ग्रहगतिस्थित्यादिगणनमधीयतेऽत्र। अधि + इ–आधारे घञ्। सि० शि० ग्रन्थान्तर्गते अध्या- यभेदे तत्र च प्रतिपाद्यविषयाश्च प्रथमं ग्रहाणां मध्यमगत्यादिकम्। ततः कालमानम् ततो भगणाः। मध्यग्रहस्पष्टताकरणम् ग्रहकक्षामानम्। प्रत्यव्दशुद्धिः। अधिमासादिनिर्ण्णयः। स्पष्टग्रहानयनम्। त्रिप्रश्नाधिकारः। पर्व्वसम्भवः। चन्द्रग्रहणम् सूर्य्यग्रहणम् ग्रहच्छाया। ग्रहोदयास्तमनादि। ग्रहशृङ्गोन्नतिः। ग्रहयुतिः। भग्रहयुतिः पाताधिकारश्चेति।

गणितिन् = त्रि० गणितमनेन गणित + इष्टा० कर्त्तरि इनि। गणनाकर्त्तरि।

गणिपिटका = स्त्री हेमचन्द्रोक्ते आचाराङ्गादिषु द्वादशसु जिनानामङ्गेषु। यथा “आचाराङ्गं सूत्र कृतं २ स्थानाङ्गं ३ समवाययुक् ४। पञ्चमं भगवत्यङ्गं ५ ज्ञाता धर्म्म कथा ६ऽपि च। उपासकाऽन्तकृत् ७ अनुत्तरापातिका ८ दशाहः ९। प्रश्नघ्याकरण १० ञ्चैव विपाकश्रुत ११ मेव च। इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः। दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया”

गणेय = त्रि० गण–एय। गणनीये संख्येये अमरः। “गणेयनिःशेषगुणोऽपि स स्यात्” नैष०।

गणेरु = पु० गण–बा० एरु। १ कर्ण्णिकारवृक्षे, २ वेश्यायां ३ हस्तिन्याञ्च स्त्री मेदि०।

गणेरुका = स्त्री गणेरुषु वेश्यासु कायति कै–क। १ कुट्टिन्याम् त्रिका०।

गणेश = पु० गणानामीशः। १ स्वनामख्याते देवे २ शिवे च। गणेशोत्पत्तिः इभाननशब्दे ९८१ पृ० उक्ता तस्य वक्रतुण्डकपिलचिन्तामणिविनायकादिरूपेण प्रादुर्भावकथा स्कन्धपु० गणेशस्य० उक्ता। तत एवावसेया विस्तरभयान्नोक्ता। गणेशस्य परब्रह्मरूपत्वं नामभेदात् तद्भेदाश्च गणपति तत्त्वग्रन्थे विस्तरेणोक्ता दिग्मात्रमुदाह्रियते। “एष सर्वे श्वरः एष सर्वज्ञः एष भूतपतिरेष भूतलय एष सेतुर्विधरणः प्रधानक्षत्रज्ञपतिर्गणेशः इति” श्रुतिप्रसिद्धसर्वेश्वरादिपदवद्गणेशपदस्य नित्यसिद्धेश्वरपरत्वम् दृश्यते इत्युपकम्य “तस्मात् प्रधानक्षेत्रज्ञपतिर्गणेशः” इति श्रुतेः “गुणत्रयस्येश्वरोऽसि न नाम्रा त्वं गणेश्वरः” इति विनायामसंहितावचनाच्च गणशब्दाभिहितस्य सत्वादिगुणसंवातस्य पतिर्गणेश इति सिद्धमित्युक्तम्”। अन्ते च नमः स हमानायेत्याद्यनुवाकैस्तस्य सर्व्वेर्षां नाम्नां सङ्कलनेन एकोननवत्यधिकशतद्वयम् इत्युक्तम्। गणपतिभेदाश्च आगममन्त्रैर्व्वेदमन्त्रैर्बाराधनीया इत्यप्युक्तम्। तन्त्रे तु अन्यथा संख्योक्ता यथा शारदतिलकराघवटीकायाम् “विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ। विघ्नकृत् विघ्नहर्त्ता च गणैकदददन्तकाः। गजवक्त्रनिरञ्जनौ कपर्द्दी दीर्घजिह्वकः। शङ्कुकर्णश्च वृषभध्वजश्च गणनायकः। गजेन्द्रः सूर्पकर्णश्च स्यात्त्रिलोचनसंज्ञकः। लम्बोदरमहानन्दौ चतुर्म्मूर्त्तिसदाशिवौ। आमाददुर्मुखौ चैव सुमुखश्च प्रमोदकः। एकपादो द्विजिह्वश्च सुरवीरः सषण्मुखः। वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः। सेनानीर्ग्रामणीर्म्मत्तो विमत्तो मत्तवाहनः। जटी मुण्डी तथा खङ्गी वरेण्यो वृषकेतनः। भक्ष्यप्रियो गणेशश्च मेघनादकसंज्ञकः। व्यापी गणेश्वरः प्रोक्ताः पञ्चाशद्गणपा इमे। तरुणारुणसङ्काशा गजवक्त्रास्त्रिलोचनाः। पाशाङ्कुशवराभीतिहस्ताः शक्तिसमन्विताः”। तेषाञ्च पञ्चाशच्छक्तयस्तत्रोक्ता यथा “ह्रीः श्रीश्च पुष्टिः शान्तिश्च स्वस्तिश्चैव सरस्वती। स्वाहा मेधा कान्तिकामिन्यौ मोहिन्यपि वैनटी। पार्वती ज्वालिनी नन्दा सुयशाः कामरूपिणी। उमा तेजीवती सत्य विघ्नेशानी सुरूपिणी। कामदा मदजिह्वा च भूतिः स्याद्भौतिकासिता। रमा च महिषी प्रोक्ता मञ्जुला च विकर्णपा। भ्रुकुटिः स्यात्तथा लज्जा दीर्घघोणा धनुर्द्वरा। यामिनी रात्रिसंज्ञा च कामान्धा च शशिप्रभा। लोलाक्षी चञ्चला दीप्तिः सुभगा दुर्भगा शिवा। भर्गा च भगिनी चैव भोगिनी शुभदा मता। कालरात्रिः कालिका च पञ्चाशच्छक्तयः स्मृताः। सर्वालङ्करणोद्दीप्ताः प्रियाङ्कस्थाः सुशोभनाः। रक्तोत् लकरा ध्येया रक्तगाल्याम्बरारुणाः”।

गणेशकुण्ड = न० नर्म्मदास्थकुण्डभेदे। तत्कुण्डाविर्भवकथा स्कन्दपु० गणेशख० ११ ख० यथा “पार्वती सिन्दूरेणाथ दृष्टा सा पर्य्यलीवने। प्रसुप्तां गिरिजां वीक्ष्य प्रसुप्तं मां (शिवम्) च षण्मुख!। प्रविवेशोदरं दैत्य उमाया बायुरूपवृक्। छित्त्वा नखैः करे धृत्वा गर्भस्थमस्तकं बहिः। निर्गत्य तच्छिरस्त्यक्तं बिन्ध्याचलसमीपतः। यत्रास्ते शर्म्मदात्री सा नर्मदा दुरितापहां। मुक्तिदा सर्वजन्तूनाम् तपसां सिद्धिदायिनी। गणेशकुण्डं तत्राभूदपतद्यत्र तच्छिरः। तदादि नर्मदान्तःस्था कुण्डान्तःस्थास्तथोपलाः। आसन् ये रक्तवर्णाभा गणेशास्तेऽभवन् भुवि”।

गणेशकुसुम = न० गणेश इव रक्तत्वात् कुसुम०। रक्तकुसुमे शब्दार्थचि ०।

गणेशखण्ड = न० स्कन्दपुराणान्तर्गते गणेशाविर्भवादिवेदके खण्डभेदे।

गणेशजननी = स्त्री त०। १ दुर्गायां “गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती” तन्त्र० गणेशमात्रादयोऽप्यत्र।

गणेशभूषण = न० गणेशं भूषयति भूषि–ल्यु। सिन्दूरे राजनि० तस्य ध्याने “सिन्दूरशोभाकरम्” इत्युक्तेः सिन्दूरस्य तथात्वम् सिन्दूरेण शोभाकरमिति तदर्थः।

गणेशान = पु० गणानामीशानः। गणेशे “गणेशानं करिगणेशानाननमनामयस्” काशीख०। “ततः सस्मारहेरम्बं व्यासः सत्यवतीसुतः। स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः” भा० आ० १३ अ०। २ शिवे च।

गणेश्वर = पु० गणानामीश्वरः। १ गणेशे २ शिवे च। गणात्मक ईश्वरः। ३ रुद्रादिषुत्रयस्त्रिंशित्संघदेवेषु च। ते च रुद्रादयः ११ आदित्याः १२ वसवः ८ अश्विनौ २। एते त्रयस्त्रिंशत्। रुद्रादीन् एतान् अभिधाय “एते देवास्त्रय स्त्रिंशत् सर्वभूते गणेश्वराः” भा० आनु० १५० अ०।

गणोत्साह = पुंस्त्री गणे गणभावे सम्भूयकरणे उत्साहोऽस्य। गण्डके त्रिका० स्त्रियां जातित्वात् ङीष्।

***