खग्गड = पु० खे आकाशे गलति गल–अच् पृषो० लस्य डः। (खागडा) ख्याते तृणभेदे रत्नमा०।

खङ्कर = पु० खन्यते खन–क्विप् कीर्य्यते क–अप् कर्मधा०। चूर्णकुन्तले हेमच०।

खच = पूतौ उत्पत्तौ च अतिक्तान्तोत्पत्तौ सि० कौ० क्र्या० प० अक० सेट्। खच्ञाति अस्वचीत्–अखाचीत्। गणव्यत्यासात् “खचद्वृत्तावलीढम्” कथास०।

खच = बन्धने अद० चुरा० उभ० सक० सेट्। खचयति ते अचखचत् त। “शकुन्तनीडखचितं बिभ्रज्जटामण्डलम्” शकु० “रत्नच्छ याखचितबलिभिश्चामरैः क्लान्तहस्ताः” मेघदू० उद् + सह बन्धने। “अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव” रघुः। “उत्खांचता सह ग्रथिता” मल्लिना०।

खचमस = पु० खे आकाशे चम्यतेऽसौ चम–असच्। चन्द्रे त्रिका० “एष सोमोराजा देवानामन्नं देवा एनं भक्षयन्तीति” श्रुतेः स्वर्गवासिभिस्तस्यादनात्तस्य तथात्वम्।

खचर = पु० खे आकाशे चरति चर–ट। १ मेघे शब्दच०। २ वायौ ३ सूर्य्य च। ४ राक्षसे पु० स्त्री मेदि० स्त्रियां ङीष्। “खचरस्य सुतस्य सुतः खचरः खचरस्य पिता न हनः खचरः। खचरस्य सुतेन हतः खचरः खचरी परिरोदिति हा खचर!” इति शब्दकल्पद्रुमे द्रोणपर्व्वीयतया लिखितं तत्तु घटोत्कचबधपर्वण्येव सम्भवदपि तत्र न दृश्यते। तस्य श्लोकस्यायमथः खचरस्य वायोः सुतस्य भीमस्य सुतः पुत्रः खचरः घटोत्कचः। खचरस्य राक्षसस्य तस्य पिता भीमः न खचरः राक्षसः। खचरः घटोत्कचः खचरस्य सूर्य्यस्य सुतेन कर्णेन हतः। खचरी हिडम्बा तन्माता राक्षसी हा खचरेत्युक्त्वा रोदितीति। ५ आकाशगामिमात्रे देवपक्षिशरग्रहादी त्रि० स्त्रियां ङीप्। “पवनोदिक्पतिर्भूमिराकाशं खचरामराः”। संकल्पादौ पाठ्यमन्त्रः। अत्र खचरशब्दे न ग्रहा उच्यन्ते अमरपबनयोः पृथङ्निर्द्देशात्। “खचरनगरकल्पं त्रासयन् पाण्डवानाम्” भा० द्रो० ७ अ०। “पुरं सुरमणीयञ्च खचरं सुमहाप्रभम्” भा० व० १७३ अ०। खपुरशब्दे विवृतिः। “जितकाशिनश्च खचरास्त्वरिताश्च महारथाः” भा० व० २४३ अ०। खचरा गन्धर्वाः।। वृ० स० १४ अ० कूर्मविभागे उत्तरस्यामुक्ते ६ देशभेदे पु० ब० व०। “उत्तरतः कैलासः” इत्युपक्रमे “हेमतालराजन्यखचरगव्याश्च” “खचरो रङ्गताले स्यात् गुरुरादौ लघुस्तथा। शान्तेऽथ वा हास्यरसे भवेदेष दशाक्षरः” संगीतदा० उक्ते ७ गीतभेदे पु०।

खचारिन् = त्रि० खे आकाशे चरति–चर–णिनि। १ आकाशगामिनि पक्षिसूर्य्यादौ स्त्रियां ङीप्। २ कार्त्तिकेये पु० “खचारी ब्रह्मचारी च शूरः शरवणोद्भवः” भा० व० १३१ अ

खचित = त्रि खच–क्त। १ संयुक्ते त्रिका० २ व्याप्ते शब्दच०। ३ छुरिते जटाध०।

खज = मन्थे भ्वा० पर० सक० सेट्। खजति अखा(ख)जीत् घटा० णिचि ह्नस्वः खजयति। ०

खज = पङ्गुतायां भ्वा० इदित् पर० अक० सेट्। खञ्जति अखञ्जीत्। खञ्जः। पङ्गुता चेहैकपादविकलता।

खज = पु० खजति मथ्नाति खज–अच्। १ मन्थानदण्डे। “पयस्यमर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः। शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः” भा० शा० २१४ अ०। “दव्नः सौम्य! मथ्यमानस्य योऽणिमा स ऊर्द्ध्वः समुदीषति तत्सर्पिर्भवति” छा० उ०। “वायुसहितेन खजेन मथ्यमानस्य दध्नः” भा० शा०। “खजोमन्थानः तेन मथ्यमानस्य दध्नः” आन० (हाता) २ दर्व्याम् भरतः ३ युद्धे च तत्र शत्रोर्मर्द्दनात् तथात्वं “अलर्षि युध्म खजकृत् पुरन्दर!” ऋ० ८। १। ७, “खजकृत् युद्धकर्त्तः!” भा० स्वार्थे क। खजक। मन्थानदण्डे हेम०।

खजप = न० खज्यते मथ्यते खज–कर्मणि कपन्। घृते उज्ज्वलद०।

खजल = न० खे आकाशे सञ्चितं, खात् पतित वा जल शाक० त०। १ नीहारे त्रिका० २ आकाशपतिते जले च “वर्षासु चरन्ति घनैः सहोरगा वियति कीटणूताश्च। तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वम्” राजवल्लभः।

खजा = स्त्री खज–घटा० भावे अ। १ भन्थने (मओता) २ मारणे हेम०। कर्त्तरि अच् टाप्। चमसाकारे ३ पाकसाधनद्रव्ये मेदि०। “खजाञ्च दर्पीञ्च करेण थारयन्” भा० वि० ७ अ०।

खजाक = पुंस्त्री खज–आकन्। १ पक्षिणि उज्ज्वजद० खजाखार्थे क। २ चमसाकारे पाकसाधने द्रव्ये स्त्री अमरः।

खजिका = स्त्री खजैव स्वार्थे क वा अत इत्त्वम्। खजायां चमसाकारे पाकसाधनभेदे शब्दचि०।

खजित् = पु० खेन शून्यभावनया जयति संसारं जि–क्विप्। बुद्धभेदे सहि “सर्वं शून्यं शून्यमिति” भावनया ऊगतांस्थिरत्वनिराकरणेन संसारं जयतीति” तस्य तथात्वं बुद्धशब्दे विवृतिः।

खज्योतिस् = पु० खे आकाशे ज्योतिरस्य। खद्योते कीटभेदे राजनि०।

खञ्ज = त्रि० खजि गतिवैकल्ये अच्। (खोंडा) एकपादविलले। तस्य लक्षणादिकं भावप्र० उक्तं यथा “वायुः कट्याश्रितः सकथ्नः कण्डरामाक्षिपेत् यदा। खञ्जस्तदा भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्बवात्। सक्थ्नः कट्यादि- गुल्फस्य, कण्डरां कक्षास्नायुम् आक्षिपेत् गमनादौ कम्पयेत्। बधात् गमनादिक्रियाघातात्”। तथाच एकपादविकलत्वे खञ्जः द्विपादविकलत्वे पङ्कुरिति भेदः। तस्यैव भेदः कलापखञ्जः तल्लक्षणं तत्रोक्तं यथा “कम्पते गमनारम्भे खञ्जन्निव चलक्ष्यते। कलापखञ्जन्तं विद्यान्मुक्तसन्धिप्रबन्धनम्। गमनारम्भे कम्पते। एतस्य खञ्जादयमेव भेदः कलापखञ्ज इति शास्त्रे रूढा संज्ञा न तु यौगिकी”। तस्य कर्मविशेषविपाकत्वम् शातातपेनोक्तं यथा “हरिणे निहते खञ्जः शृगाले तु विपादकः”। विपादकः पादद्वयगतिशून्यः पङ्गुरित्यर्थः। “काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्। तथ्येनापि शपन् दाप्योदण्डं कार्षापणावरम्” मनुः तस्य दैवपैत्रकर्मकरणकालेऽपसार्य्यतामाह” मनुः “खञ्जो वा यदि काणोदातुः प्रेष्योऽपि वा भेवत्। हीनातिरिक्तगात्रो वा तमप्यपनयेत्ततः” जन्मतः खञ्जत्वे सुश्रुतेन कारणमुक्तं यथा “दौहदविमाननाच्चकुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति”। स्वार्थे क ण्वुल् वा। खञ्जक तत्रार्थे हेम०। अस्य कडारादिपाठात् वा पूर्वनिपातः खञ्जबाहुः कलापखञ्ज इत्यादि।

खञ्जकारि = पु० स्वञ्जकस्यारिः (खेंसारि) धान्यभेदे राजनि० ततसेवनात् खञजत्वं नश्यतीति तस्य तथात्वम्।

खञ्जखेट = पुंस्त्री खञ्ज इव खेटति खिट–गतौ अच्। खञ्जन विहगे शब्दमा०। स्त्रियां जातित्वात् ङीष्।

खञ्जखेल = पुंस्त्री खञ्ज इव खेलति खेल–अच्। खञ्जनखगे स्त्रियां जातित्वात् ङीष्।

खञ्जन = न० खजि–मावे ल्युट्। १ विकलगतौ मेदि० कर्त्तरि ल्यु। २ स्वनामख्याते पक्षिभेदे पुंस्त्री० स्त्रियां ङीष्। स्वार्थे क। तत्रार्थे। तस्य दर्शने शुभाशुभफलाद्युक्तं वृ० सं० ४५ अ० यथा “खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे। प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि। स्थूतोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः। आ कण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम्। कृष्णो गलेऽस्य विन्दुः सितकरटान्तः स रिक्तकृद्रक्तः। पोतो गोपीत इति क्लेशकरः खञ्जनो वृष्टः। अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु। करितुरगभुजगमूर्घ्नि प्रासादोद्यानहर्म्येषु। गोगोष्ठसत्समागमयज्ञोत्वपार्थिवद्विजसमीपे। हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु। हेमसमीपसिताम्बर- कमलोत्पलपूजितोपलिप्तेषु। दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते। पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते। शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः। गृहपटलेऽर्थभ्रशो बघ्रे बन्धोऽशुचौ भवति रोगः। पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु। महिषोष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराद्रिस्थः। प्राकारभस्मकेशेषु चाशुभो मरणरुगभयदः। पक्षौ धुन्वन्न शुभः शुभः पिबन् वारि निम्नगासंस्थः। सूर्य्योदयेऽथो शस्तो नेष्टफलः खञ्जनोऽस्तमये। नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम्। पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति। तस्मिन्निधिर्भवति मैथुनमेति यस्मिन् यस्मिंस्तु छर्दयति तत्र तलेऽस्ति काचः। अङ्गारमत्युपदिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद्धरित्रीम्। मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः। धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः। नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात्। सुरभिकुसुमधूपयुक्तमर्धं शुभमभिनन्दितमेवगेति वृद्धिम्। अशुभमपि बिलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः। न नृपतिरशुभं समाप्नुयान् न यदि दिनानि च सप्तं मांसभुक्। आ वर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषे। दिक्स्थानमूर्त्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम्” ति० त०। “कृत्वा नीराजनं राजा बलवृद्धैर्यथाबलम्। शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ। (तन्नतिमन्त्रः) “नीलग्रीव! शुभग्रीव! सर्वकामफलप्रद!। पृथिव्यामवतीर्णोऽसि खञ्जरीट! नमीऽस्तु ते”। वसन्तराजे “दृष्टोदितेऽगस्त्यमुनौ सुदेशे सुचेष्टितं खञ्जनकोविदध्यात्” इत्युपक्रम्य “त्वं योगयुक्तोमुनिपुत्रकस्त्वमदृश्यतामेषि शिखोद्गमेन। सं दृश्यसे प्रावृषि निर्गतायां त्वं खञ्जनाश्चर्य्यमयो नमस्ते”। एतद्वचनात् यदा शिरसि शिखोद्गमस्तदा खञ्जनो न दृश्यते अगस्त्योदयानन्तरं शिखाविगमात् पुनर्दृश्यते। दर्शनफलम् “अब्जेषु गोषु गजवाजिमहोरगेषु। राज्यप्रदः कुशलदः शुचिशाद्वलेषु। स्मास्थिकेशनखलोमतुषेषु दृष्टोदुःखं ददाति बहुशः खलु खञ्जरीटः”। वर्षकृत्ये “वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रे हुताशे भयं, याम्येत्वग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये। वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने”। “अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुर्विधम्” नैष० “युष्मत्कृते खञ्जनगञ्जनाक्षि! शिरोमदीपं यदि याति यातु” “एकोहि खञ्जनवरोनलिनीदलस्थः” इति च उद्भटः। ततः शिवादि० अपत्यादौ अण्। खाञ्जन तदपत्यादौ

खञ्जनरत = न० खञ्जनस्येव गोप्यं रतम्। यतीनां गोप्ये मैथुने हारा०।

खञ्जना = स्त्री खञ्जन इवाचरति खञ्जन + ङ्य क्विप्। खञ्जनाकारायां पक्षिपयाम् सर्षप्याम्” मेदि०।

खञ्जनाकृति = पुंस्त्री खञ्जनस्येवाकृतिरस्य। १ खञ्जनाकारे पक्षिभेदे शब्दच०। ६ त० २ खञ्जनस्याकारे स्त्री।

खञ्जनासन = न० “खञ्नासनमावक्ष्ये यत्कृत्वा सुस्थिरोभवेत्। पृष्ठे पादद्वयं कृत्वा हस्तौ भूमौ प्रधापयेत्। भूमौ हस्तद्वयं नाथ! पातयित्वाऽनिलं पिबेत्। पृष्ठे पादद्वयं बद्ध्वा खञ्जनेन जयी भवेत्” रुद्रजामलोक्ते आसनभेदे।

खञ्जनिका = स्त्री खञ्जनस्तदाकारोऽस्त्यस्याः ठन्। खञ्जनाकारे पक्षिभेदे त्रिका०।

खञ्जरीट = पुंस्त्री खञ्ज इव ऋच्छति ऋ–गतौ बा० कीटन्। खञ्जनविहगे अमरः स्त्रियां जातित्वात् ङीष्।

खञ्जा = स्त्री “शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम्। सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा। विनिमयविनिहितशकलयुगलकलितपदवितति–विरचितगुणनिचया। श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति मवति खजा। वृ० रत्नाकरोक्ते मात्रावृत्तभेदे अस्यार्थः “शिखिभिस्त्रिभिर्गुणिता दश लघवस्तैः त्रिंशलघुभिरित्यर्थः। रचितम्। अपगतं लघुयुगलं यस्मात् तत् अष्टाविंशतिलघुकमित्यर्थः एवं आद्यखण्डमित्येवं रूपम् अपरं द्वितीयं शकलमखिलं सम्पर्शलघरूपमित्यर्थः। अन्ते गुरुवर्णेन सहितं शकलयुगलं खण्डद्वयं यस्य तथाभूतं शिखा नाम छन्दः। तस्याएवार्द्धविनिमयेन ञि जशिरः उपगतवति सति खजा खञ्जा नाम छन्दः।

खञ्जार = पु० खजि–आरन् खञ्ज इव ऋच्छति वा ऋ–अच् वा। ऋषिभेदे तस्य गोत्रापत्यम् अश्वादि० फञ्। खाञ्जारायण तद्गोत्रापत्ये पुंस्त्री०। ततः शिवा० अपत्यादौ अण। खाञजार तदपत्यादौ त्रि०।

खञ्जाल = पु० खजि–कालन् खञ्ज इवालति अल–अच्वा। ऋषिभेदे ततः गोत्रापत्ये अश्वा० फञ्। खाञ्जालायन तद्गोत्रापत्ये पुंस्त्री०।

खट = काङ्क्षायां भ्वा० पर० सक० सेट्। खटति अखाटीत्–अखटीत् चखाट। प्रनिखटति।

खट = पु० खट–अच्। १ अन्धकूपे, २ कफे, ३ टङ्के, ४ शस्त्रभेदे च मेदि०। ५ तृणे हेमच०। ६ लाङ्गले ७ कत्तृणे इत्यजयपालः।

खटक = पु० खट बा० वुन्। १ नागवीटे २ घटके त्रिका०। ३ कुब्जितपाणौ शब्दमाला०।

खटकामुख = पु० खटकस्येवामुखमत्र। शराकर्षणमुद्राभेदे शब्दचि०।

खटिक = पु० खट–अस्त्यस्य ठन्। कुब्जितपाणौ हेम०।

खटिका = स्त्री खट–अच् टाप् संज्ञायां कन् अत इत्त्वम् वा। १ लेखनसाधनद्रव्यभेदे (खडी) २ कर्णच्छिद्रे ३ वीरणे (वेणारमूल) विश्वः। “खटिका क्षिणोति” नैष०। खटिका गुणाश्च भावप्र० उक्ता यथा “खटिका कटिनी चापि लेखनी च निगद्यते। खटिकादाहजिच्छीता मधुरा विषशोथजित्। लेपादेतद्गुणा प्रोक्ता भक्षिता मृत्तिकासमा। खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्त्तिते”।

खटिनी = स्त्री खट–बा० इनि ङीप्। लेखनद्रव्ये (खडी)। राजनि०। “न पतति खटिनो ससम्भ्रमा यस्य” इत्युद्भटः।

खटी = स्त्री खट–अच् गौरा० ङीष्। (खडी) लेखनसाधनद्रव्यभेदे त्रिका०।

खट्ट = वृतौ चुरा० उभ० सक० सेट्। खट्टयति ते अचखट्टत् त।

खट्टन = त्रि० खट्ट–कर्मणि ल्युट्। खर्वे(खाट)हेमच० स्वल्पेनैव वस्तुना तस्यावरणात् तथात्वम्।

खट्टा = स्त्री खट्ट कर्मणि अच्। खट्वायां शब्दच०। स्वार्थे क संज्ञायां कन् वा अत इत्त्वम्। तत्रार्थे खट्टाभेदे त्रि० शवयाने त्रिका० अभाषितपुंस्कत्वात् वाऽत इत्त्वम् इत्त्वाभावे आत्, ह्रस्वो वा। खट्टका खट्टाकाप्युक्तार्थे। ह्रस्वार्थे कन्। क्षुद्रखट्वायाम्।

खट्टाश = पुंस्त्री० खट्टः सन् अश्नुते अश व्याप्तौ अच्। (खाटाश) इति वनजन्तुभेदे शब्दरत्ना० स्त्रियां ङीष्।

खट्टास = पुंस्त्री खट्ट इवासति दीप्यते अस–दीप्तौ अच्। खट्टाशे शब्दरत्ना०।

खट्टि = पु० खट्ट–इन्। शवशय्यायाम् त्रिका०।

खट्टिक = त्रि० खट्टनमावरण खट्टः स शिल्पत्वेनास्त्यस्य ठन्। जालादिना पक्षिमारके(पाखिमारा)शाकुनिके शब्दमा०

खट्टेरक = त्रि० खट्ट–वा० कर्मणि एरक। खर्वे शब्दमाला।

खट्वा = स्त्री खट्यते निद्रालुभिः खट–आकाङ्क्षायाम् क्वुन्। काष्ठनिर्मिते शयनसाधने द्रव्यभेदे। तस्या अङ्गादिनिरूपणेन रचनाप्रकारः आकारादिभेदेन नामभेदादिकं च युक्तिकल्पतरौ उक्तं यथा

“अष्टाभिः काष्ठखण्डैश्च खट्वेति प्रतिचक्षते। तिष्ठेत् यदालम्ब्य खट्वा तज्ज्ञेयं चरणाह्वयम्। शिरःस्थं व्युपधानं स्यात् अधःस्थं स्यात् निरूपकम्। अ लिङ्गने उभे पार्श्वे प्राह भोजमहीपतिः। आलि ङ्गने चतुर्हस्ते व्युपधाननिरूपके। तदर्द्धेन, तदर्द्धेन चत्वारश्चरणा इति। सर्वषोडशिका खट्वा सर्वत्राभयदायिका। आलिङ्गने सार्द्धवेदे व्युपधाननिरूपके। साद्धेद्वये, च चरणा हस्तैकपरिसम्मिताः। सर्वाष्टादशिका खटा सर्वकामफलप्रदा। आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके। तदर्द्धेन, तदर्द्धेन चत्वारश्चरणा इति। सर्वविंशतिका खट्वा धनधान्यजयप्रदा। आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके। त्रिहस्तसम्मिते पादा हस्तैकपरिसम्मिताः। सर्वैकविंशिका खट्वाएवमप्युपजायते। आलिङ्गने सार्द्धपञ्चे व्युपधाने निरूपके। तदर्द्धेन, तदर्द्धेन चत्वारश्चरणा इति। सर्वद्वाविंशिका खट्वा सर्वसम्पत्प्रदायिनी। आलिङ्गने च पड्ढस्ते व्युपधाने निरूपके। त्रिहस्तसम्मिते, पादा श्चतारश्चरणा इति। चतुर्विंशतिका खट्वा सर्वरोगक्षयङ्करी। आलिङ्गने सप्तहस्ते व्युपधाने निरूपके। त्रिहस्ते, सार्द्धहस्ताश्च चत्वारश्चरणा इति। सर्वषड्विंशिका खट्वा सर्वसौभाग्यकारिका। आलिङ्गने सार्द्धसप्ते व्युपधाने निरूपके। सार्द्धत्रिहस्त, सार्द्ध्वाश्च चत्वारश्चरणा इति। सर्वाष्टाविंशिका खट्वा सर्वभोगप्रदायिका। आलिङ्कने चाष्टहस्ते व्युपधाने निरूपके। चतुर्हस्ते, सार्द्धहस्ताश्चत्वारश्चरणा इति। सर्वत्रिंशतिका खट्वा सर्वकामार्धदायिनी। एवमष्टविधाः खट्वाः समासेनोपदर्शिताः। आदित्यादिदशाजानां नृणां सम्पत्तिदायिकाः। कार्य्याः शिल्पिभिरेतासु विबिधाकृतिकल्पनाः। सर्वषोडशिका खट्वा सर्वेषामेव युज्यने। अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्तयुतानि च। श्रीसर्व्वमङ्गला नाम खट्वैपा पृथिवीपतेः। इयं यदा सत्यदना तदा सर्वजयाभिधा। यात्रा सिद्धिः सर्वसिद्धिर्वजया चाष्टमङ्गला।। एकैकहस्त वृद्व्या तु भवेग्यद्वमतःपरम्। जयोऽथ मङ्गलः प्रेयान् चित्रकान्तः परोमहान्।। एकैकहस्तवृद्ध्व्या तु मञ्चाना मिति लक्षणम्। सा तुङ्गा ह्यतितुङ्गा च शिखरी विषये क्षणा। एकैकहस्तवृद्ध्या तु टङ्क इत्यभिधीयते। यात्रासिद्धिं समारभ्य येऽमी षोडश कीर्त्तिताः। आदित्यादिदशाजानामाद्यन्तैकद्वयं क्रमात्। दूरदर्शी दीर्घदर्शी दुर्ल्लङ्घ्योऽथ दुरासदः। यथोत्तरं दशगुणाः पादैकपरिणाहिनः। प्रासादसंज्ञकाः कार्य्या राज्ञा सुखममीप्सता। चत्वारस्ते च सर्वेषां भूपतीनां सुखावहाः”। भोजमते तु “सर्वत्रिंशतिकां यावत् आरम्यो भयषोडशीम्। खट्वानामिति नामानि अष्टौ हस्तद्वयाधिकाः। मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम्। प्रचण्डा सर्वतोभद्रा खट्वानामाष्टकं विदुः”। ज्योतिःपराशरसंहितायां तु “अष्टाभिः काष्ठखण्डैस्तु योऽङ्गपिण्डोऽभिजायते। स चेत् समो भवेत् खट्वा प्रणस्या स्यादतोऽन्यथा। समे सर्वा सस्पत्तिर्विषमे विषमास्पदम्। तस्मात् खद्वाङ्गपिण्डोयः समः कार्य्यः स सूरिभिः”। तस्या दोषगुणा यथा “खट्वायां यो गुणोदोषोमानञ्च परिकीर्त्तितम्। तेनैव खट्वा काष्ठोत्था तथैव गुणमावहेत्। अनेनैव विधानेन कार्य्यं वहुविधासनम्। विना नौकासमं कार्य्यं सर्वत्रैवासनं गुरु” युक्तिक०। वृहत्मंहितायां ७९ अ० तस्याः काष्ठविशेषेण शुभाशुभदायकत्वादिकं नामभेदास्तत्त्फलञ्चोक्तं यथा “सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रविदाम्। राज्ञां विशेषतोऽतः शयनासनलक्षणं वक्ष्ये। असनस्यन्दनचन्दनहरिद्रसुरदारुतिन्दुकीशालाः। काश्मर्यञ्जनपद्मकशाका वा शिंशपा च शुभाः। अशनिजलानिलहस्तिप्रपातिता मधुबिहङ्गकृतनिलयाः। चैत्यश्मशानपथिजोर्ध्वशुष्कवल्लीनिबद्धाश्च। कण्टकिनो वा ये म्युर्महानदीसङ्गमोद्भवा ये च। सुरभवनजाश्च न शुभा ये चापरयाम्य दक्पतिताः। प्रतिसिद्धवृक्षनिर्नितशयनासनमेवनात् कुलविनाशः। व्याधिभयव्ययकनहा भवन्त्यनर्थाश्च नैकविधाः। पूर्वच्छिन्नं यदि वा दारु भवेत्तत्परीक्ष्यमारम्भे। यद्यारोहेत्तस्मिन् कुमारकः पुत्रपशुदं तत्। सितकुतुममत्तवारणदध्यक्षतपूर्णकम्भरत्न नि। नङ्गखान्यन्यानि च दृष्ट्वारम्भे शुभं ज्ञेयम्। कर्माङ्गलं यवाष्टकसुदरासक्तं तुषैः परित्यक्तम्। अङ्गुलशतं नृपाणां महती शय्या जयाय कृता। नवतिः सैव षडूना द्वादशहीना त्रिपट कहीना च। नृपात्रमन्त्रिषलपतिपुरोधसां स्यर्यवासङ्ख्यम्। अर्ज्ञनतोऽष्टांशोनं विष्कुम्भो विश्व- कर्मणा प्रोक्तः। आयामत्र्यंशसमः पादोच्छ्रायः सकुक्षिशिराः। यः सर्वः श्रीपर्ण्याः पर्यङ्को निर्मितः स धनदाता। असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः। यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः। चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत्। यः पद्मकपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम्। कुरुते, शालेन कृतः कल्याणं शाकरचितश्च। केवलचन्दनरचितं काञ्चनगुप्तं विचित्ररत्नयुतम्। अध्यासनपर्यङ्कं विबुधैरपि पूज्यते नृपतिः! अत्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा। न श्रीपर्णी न च देवदारुवृक्षो न चाप्यसनः। शुभदौ तु शाकशालौ परस्परं संयुतौ पृथक् चैव। तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदम्बौ। सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्ति चाम्रकृतः। असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहूत्। आम्रस्यन्दनचन्दनवृक्षाणां स्यन्दनाच्छभाः पादाः। फलतरुणा शयनासनमिष्टफलं भवति सर्वेण। गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे। कार्य्योऽलङ्कारविधिर्गजदन्तेन प्रशस्तेन। दन्तस्य मूलपरिधिं द्विरायतं प्रोझ्य कल्पयेच्छेषम्। अधिकमनूपचराणां न्यूनं गिरिचारिणां किञ्चित्। श्रीवत्सवर्द्धमानच्छत्रध्वजचामरानुरूपेषु। छेदे दृष्टेष्वरोगविजयधनवृद्धिसौख्यानि।। प्रहरणसदृशेषु जयो नन्द्यावर्त्ते प्रनष्टदेशाप्तिः। लोष्टे त्वलब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः। स्त्रोरूपे स्वविनाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः। कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन। कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपुवशत्वम्। गृध्रोलूकध्वाङ्क्षश्येनाकारेषु जनमरकः। पाशेऽथ वा कबन्धे नृपमृत्युर्जनविपत् स्रुते रक्ते। कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भबति। शुक्लः समः सुगन्धिः स्निग्धश्च शुभाबहो भवेच्छेदः। अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः। ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः। अपसव्यैकदिगग्रे भवति भयं भूतसं जनितम्। एकेनावाक्छिरसा भवति हि पादेन पादवैफल्यम्। द्वाभ्यां न जीर्यतेऽन्नं त्रिचतुर्भिः क्लेशबधबन्धाः। सुषिरेऽथ वा विवर्ण ग्रन्थौ पादस्य शीर्षगे व्याधिः। पादे कुम्भो यश्च ग्रन्थौ तस्मिन्नुदररोगः। कुम्भाधस्ताज्जङ्घा तत्र कृतो जङ्घयोः करोति भयम्। तस्याश्चाधारोऽधः क्षयकृद्द्र व्यख तत्र कृतः। खुरदेशे यो ग्रन्थिः खुरिणां पीडा- करः स निर्दिष्टः। ईषाशीर्षगयश्च त्रिभागसंस्थो भवेन्न शुभः। निष्कुटमथ कोलाक्षं शूकरनयनं च वत्सनामं च। कालकमन्यद्धुन्धुकमिति कथितश्छिद्रसङ्क्षेपः। घटवत् सुषिरं मध्ये सङ्कटमास्ये च निष्कुटं छिद्रम्। निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम्। शूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घं च। वामावर्त्तं भिन्नं पर्वमितं वत्सनाभाख्यम्। कालकसञ्ज्ञं कृष्णं धुन्धुकमिति यद्भवेद्विनिर्भिन्नम्। दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम्। निकुटसञ्ज्ञे द्रव्यक्षयस्तु कोलेक्षणे कुलध्वंसः। शस्त्रभयं शूकरके रोगभयं वत्सनाभाख्ये। कालकधुन्धुकसञ्ज्ञं कीटैर्विद्धं च न शुभदं छिद्रम्। सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु। एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम्। त्रिभिरात्मजवृद्धिकरं चतुर्भिरर्थो यशश्चाग्य्रम्। पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेते। षट्सप्ताष्टतरूणां काष्ठैर्घटिते कुलविनाशः” वृ० सं०। सुश्रुतोक्तेषु चतुर्द्दशसु व्रणबन्धविशेषेषु खट्वाकारे २ बन्धभेदे “तत्र कोशदामस्वस्तिकानुवेल्लितप्रतोलीमण्डलस्थगिकायमकखट्वाचीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दशबन्धविशेषाः। तेषां नामभिरेवाकृतयः प्रायेण व्याख्यातः” तस्य वन्धस्योपयोगस्तत्रैवोक्तो यथा “हनुशङ्खगण्डेषु खट्वाम्”

खट्वाका = खट्वा–स्वार्थे क “आदाचार्य्याणाम्” पा० वा आतु। खट्टायाम्। अल्पार्थे कन्। २ स्वल्पखट्टायाम्। इत्त्वाभावे वा ह्रस्वः पक्षेऽतैत्त्वम्। खट्टका खट्टिकाप्यत्र।

खट्वाङ्ग = न० ६ त०। (खाटेरखुर) १ खट्वाशभेदे तदाकारे २ शिवस्यास्त्रभेदे। “खट्टाङ्गवरधारकः” शिवस्तवः। “खट्टाङ्गैः पट्टिशैः शूलैर्लाङ्गलैर्मुषलैरलम्” काशीख० ३ सूर्य्यवंश्ये नृपभेदे पु०। “सुतः पञ्चजनादानीदंशुमानिति विश्रुतः। दिलीपस्तनयस्तस्य खट्टाङ्ग इति विश्रुतः” हरिव० १५ अ०। भागवते तु ९। ९। ३२ श्लो० “ततो दशरथस्तस्मात् पुत्र ऐडिविलिस्ततः। राजा विश्वसहो यस्य खट्टाङ्गश्चक्रवर्त्त्यभतम्” इत्यनेन अन्यपुत्रता तस्याभिहिता कल्पभेदादविरोधः। प्रायश्चित्तीयधार्य्ये खट्वाङ्गाकृतौ ४ पात्रभेदे न० “एककालं तु भुञ्जीत चरन् भैक्ष्यं खकर्मकृत्। कपालपाणिः खष्ट्वाङ्गी ब्रह्वचारी सदोद्यतः” भा० शा० ३५ अ०। “खट्वाङ्गी चीरवासाश्च” मनुः।

खट्वाङ्गधर = पु० खट्वाङ्गं धरति धृ–अच्। शिवे। भृ–क्विप्। खट्वाङ्गभृदपि तत्रार्थे। ३ खट्वाङ्गधारिणि त्रि०।

खट्वाङ्गमुद्रा = स्त्री तन्त्रोक्ते मुद्राभेदे तल्लक्षणं यथा “पञ्चाङ्गुल्योदक्षिणस्य मिलिताह्यूर्द्धमुन्नताः। खट्वाङ्गमुद्राविख्याता देवस्य सुप्रिया मता” रुद्रया०।

खट्वाङ्गवन = न० नित्यक०। वनभेदे “अहं हि खट्वाङ्गवने नारदेन समागतः” हरिवं० ७९ अ०।

खट्वारूढ = त्रि० खट्वा + आरूढ अलौकिकविग्रहे द्वितीयान्तस्यक्तान्तेन नित्यसमासः निन्दायाम्। जाल्मे सि० कौ०। प्रवृद्धादि० अन्तोदात्तताऽस्य। “वृतस्त्वं पात्रेसमितैः खट्वारूढः प्रमादवान्” भट्टिः। “खट्वारूढः उत्पथप्रस्थितः” जयमङ्गला। तेन २ तत्रार्थे च।

खड = मन्थने भञ्जने च भ्वा० आत्म० इदित् सक० सेट्। खण्डते अखण्डिष्ट। चखण्डे खण्डनं खण्डः खण्डितः।

खड = भेदने चुरा० उभ० सक० सेट्। खाडयति–त अचीखडत् त खाडयाम् वभूव आस चकार चक्रे। खण्डयन्।

खड = न० खड अच्। १ तृणभेदे (खड) २ पानकभेदे, पु० मेदि० तच्च पानकं वैद्यके प्रसिद्धम् तत्करणप्रकारः वैद्याज्ज्ञेयः यथाह सुश्रुतः “खडाः खडयवाग्वश्च खाडवाः पानकानि च। एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः” स च भोजनकाले प्रस्तरमात्रे पेयो यथोक्तं सुश्रुते “सूक्तानि च खडांश्चैव सर्वशैलेषु दापयेत्”। खड + चातुरर्थ्यामनद्यामपि मतुप् मस्य वः। खडवत् खडसन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्। ३ ऋषिभेदे पु० तस्य गोत्रापत्यम् अश्वा० फञ्। खाडायन तद्गोत्रापत्ये पुंस्त्री०

खडक = न० खड + संज्ञायां कन्। स्थाणौ “स्थाणुः खडकमुच्यते” कात्या० श्रौ० १४। ३। १२ सू० व्याख्यायां कर्कः।

खडक्की = स्त्री खडक् इत्यव्यक्तब्दं करोति कृ–वा० ड गौ० ङीष्। पक्षद्वारे (खिड्कि)। खार्थेक ह्रस्वः। खडक्किका तत्रार्थे हारा०।

खडतु = पु० खड + अतु। बाहुजङ्घातरणे संक्षिप्तसारः।

खडयवागू = स्त्री खडपक्वा यवागूः। पानकभेदे खडशब्दे विवृतिः “खडयूषयवागूषु पिप्पल्याद्येव योजयेत्” सुश्रुतः

खडयूष = पु० “तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः। सुपक्वं खडयूषोऽयमयं चाम्बलिकोऽपरः” चक्रदत्तोक्ते पक्वतक्रभेदे।

खडिक = त्रि० खडमस्त्यस्य ठन्। खडयुते। ततः सुतङ्गमा० चतुरर्थ्याम् इञ्। खाडिकि तत्सन्निकृष्टदेशादौ त्रि०।

खडी = स्त्री खड–अच् गौ० ङीष्। खटिकायाम् शब्दच०। सैव क हस्वः। खडिका तत्रार्थे।

खडु = स्त्री खड–क–। मृतशय्यायां संक्षिप्तसारः।

खडूर = त्रि० खडमस्त्यस्य वा० ऊरच्। खडयुक्ते। “खडूरें अविचङ्क्रमां खर्विकां खर्ववासिनीम्” अथर्व० ११। ९। १६। ततः शुभ्रा० अपत्ये ढक्। खाडूरेय तदपत्ये पुंस्त्री०

खडोन्मत्ता = स्त्री खडेन उन्मत्ता। खडवृणेनोन्मत्तायाम्। ततः शुभ्रा० अपत्ये ढक्। खाडोन्मत्तेय तदपत्ये पुंस्त्री०।

खड्ग = खड–भेदने गन्। असिशब्दे ५५१ पृ० दर्शितलक्षणके लौहादिमये १ प्रहरणास्त्रमेदे। “न हि खङ्गो विजानातिकर्मकारंस्वकारणम्” उद्भटः(खाग्)इति ख्याते २ पदार्थे ३ गण्डकशृङ्गे ४ गण्डके (गाण्डार) पुंस्त्री०। ५ बुद्धभेदे पु० मेदि० ६ चोरनामगन्घद्रव्ये पु० राजनि०। खङ्गस्योत्पत्तिः शब्दकल्पद्रुमे ब्रह्मयज्ञाग्नित उक्ता तत्प्रमाणस्य मूलमृग्यम्। तस्य चालने गतिभेदस्त्रयोदशविधः महाभारते उक्तो यथा “मण्डलाकारतः खङ्गभ्रामणं भ्रान्त १ सुच्यते। तदेव बाहुमुद्यम्य कृतमुद्भ्रान्त २ मीरितम्। भ्रामणं स्वस्य परितः खङ्गस्याविद्ध ३ मुच्यते। परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम्। शत्रोराक्रमणार्थाय गमनन्त्वाप्लुतं ४ मतम्। खङ्गस्याग्रेण तद्देहस्पर्शनं प्रसृतं ५ मतम्। वञ्चयित्वा रिपौ शस्त्रपातनं गदितं सृतम् ६। परिवृत्तं ७ भवेच्छत्रोर्वामदक्षिणतो गतिः। पश्चात् यदापसरणं निवृत्तं ८ सम्प्रचक्षते। अन्योन्य ताडनं प्राहुः सम्पात ९ मुभयोरपि। आधिक्यमात्मनो यत् तत्समुदीर्ण १० मुदीरितम्। अङ्गप्रत्यङ्गदेशेषु भ्रामणं भारतं ११ स्मृतम्। विचित्रखङ्गसञ्चारदर्शनं कौशिकं १२ स्मृतम्। निलीय चर्मनिक्षेपो यदसेः सात्त्वतं १३ हि तत्” वह्निपुराणे खङ्गचर्मयुद्धे द्वात्रिंशत्स्थानान्युक्तानि यथा “भ्रान्तनुद्भ्रान्तमाविद्धमाप्लुतं विसृतं सृतम्। सम्पातं समुदीर्णञ्च श्येनपात–मथाकुलम्। उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च। अनालक्षितविस्फोटौ करालेन्दुमहामुखौ। विकरालनिपातौ च विभीषणभयानकौ। समग्रार्द्धतृतीयांशपादपादार्द्धधारणम्। प्रत्यालीढमथालीढं वराहललितं तथा। इति द्वात्रिंशतो ज्ञेयाः खङ्गचर्मबिधौ रणे”। गण्डकरूपखङ्गस्य पञ्चनखत्वेऽपि भक्ष्यतामाह मनुः “श्वाविधं शल्यकं गोधां खङ्गकूर्मशशांस्तथा। भक्ष्यान् पञ्चनखेष्वाहुः”। अस्य मांसस्य श्राद्धे प्रशंसामाह” मनुः “कालशाकं महाशल्कः खङ्गलौहामिषं मधु। आनन्त्यायैव कल्पन्ते मुग्यन्नानि च, सर्वशः”। “प्रायोविषाणपरिमोक्षलघूत्तमाङ्गान् खङ्गां- श्चकार नृपतिर्निशितैः क्षुरप्रैः” रघुवंशमहाकाव्य।

खड्गकोष = पु० खडग इव कुष्णाति कुष–अच्। खड्गाकारपत्रे लतामेदे शब्दचि०। ६ त०। (खाप) इति ख्याते खड्गाबरके काष्ठचर्म्मादिनिर्म्मिते २ पदार्थे अत्रार्थे तालव्यान्तोऽपि।

खङ्गट = पु० अडगे इव टलति अत्र टल–विक्लवे बा० आधारे ड। १ वृहत्काशे हारा० तस्याङ्गस्पर्शे असिवत् पीडाकरत्वात्तथात्वम्।

खङ्गधेनु = स्त्री खड्गो धेनुरिव यस्याः। छुरिकायाम् तस्या असिपुत्रिकात्वात्तथात्वम्। खड्गा गण्डकी धेनुः जाति- त्वात् पोटेत्यादिना पा० कर्म्मधा० पूर्ब्बनिपातः पुंवद्भावश्च। २ धेनुरूपगण्डक्यां मेदि०।

खङ्गपत्र = पु० खङ्ग इव तीक्ष्णं पत्रमस्य। खङ्गलताख्ये लताभेदे शब्द०।

खङ्गपरीक्षा = स्त्री खङ्गस्य परीक्षा। खडगस्य रूपघटनादिना शुभाशुभज्ञानोपयोगिन्यां परीक्षायाम् सा च युक्तिकल्पतरौ उक्ता यथा “खङ्गरूपं तथा जातिर्नेत्रारिष्टे च भूभिका। ध्वनिर्मानमिति प्रोक्तं खङ्गज्ञानात्मकं शुभम्। अभिन्ने दृश्यते यादृक् विच्छिद्य घटिते तथा। यदेव दृश्यते चिह्न तदङ्गं सम्प्रचक्षते। नीलकृष्णादिकं खङ्ग रूपमित्यभिधीयते। तेनैब यत् प्रतीत स्यात् तत् जातिरिति गद्यते। अङ्गातिरिक्त यज्जातिस्तन्माहात्म्योपसूचचम्। तन्नेत्रमिति जानीयात् खङ्गे खङ्गविशारदः। अङ्गातिरिक्तं खङ्गादेर्यच्छुद्धत्वावसूचकम्। तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम्। यः खड्गे जायते शब्दोनखदण्डादिनाहते। स ध्वनिस्तुलना मानम् ज्ञानमष्टविधन्त्विदम्। पञ्चाद्या निपुणैः खङ्गे सम्भाव्यन्तेऽपि कृत्रिमाः। अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजा विति। शतमङ्गानि चत्वारि रूपाणि जातयस्तथा। त्रिंशन्नत्राणि जानीयादरिष्टानि तथैव च। भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः। मानन्तु द्विविधं प्रोक्तमित्येषां सङ्ग्रहो मतः”। अधिकमसिशब्दे दृश्यम्।

खङ्गपिधान = न० खङ्गोऽपिधीयते आच्छाद्यतेऽनेन अपि + धा–करणे ल्युट् अपेरल्लोपः। (खाप) असिकोषे हलायु०। स्वार्थे क। तत्रार्थे हेम०।

खङ्गपुत्रिका = स्त्री खङ्गस्य पुत्रिकेव। छुरिकायां मेदि०।

खड्गफल(क) = पु० खड्गः फलमिव त्वगावृतत्वात् मध्ये यस्य वा कप्। (खाप) इति ख्याते असिपिधाने त्रिका०।

खड्गमुद्रा = स्त्री “कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव दृश्यते। शिष्टाङ्गुली तु प्रसृते संसृष्टे खडगमुद्रिका” तन्त्रसारोक्त शक्तिपूजनाङ्गे मुद्राभेदे।

खड्गारीट = पु० खड्स्यारिरिव एटति गच्छति इट–गतौ क। (ढाल) ख्याते चर्म्ममये फलके। खडगं तद्धारातुल्यव्रतमार्च्छति आ + ऋ–गतौ कीटन्। असि धाराव्रतधारिणि त्रि० मेदि०। तच्च व्रतमसिधाराव्रतशब्दे ५५० पृ० दर्शितम्।

खड्गिक = पु० खडगं खडगाकारोऽस्त्यस्य ठन्। महिषीक्षीरफेने तस्य खड्गाकारवत् शुभ्रतया तथात्वम्। खड्गेन चरति ठन्। १ शौनिके मृगयौ च मेदि०।

खड्गिधेनु = स्त्री खङ्गिनी धेनुः जातित्वात् युवतिपोटेत्यादि कर्म० पूर्वनिपातः पुंवच्च। गण्डकजातिधेन्वाम्। “खङ्गिधेनुकानां त्रासपरिभ्रष्टपोतान्वेषिणीनाम्” काद०।

खङ्गिन् = पुंस्त्री खङ्गः तदाकारं शृङ्गंमस्त्यस्य इनि। १ गण्डके “एतत् खङ्गिकुलक्रीडितम्” काद०। स च सुश्रुते आनूपवर्गे कूलचरतयोक्तः यथा “तत्र गजगवयमहिषरुरुचमरसृमर रोहितवराहखङ्गिगोकर्णबालपुच्छकोन्द्रन्यङ्कुरण्यगवयप्रभृतयः कूलचराः पशवः”। तन्मांसगुणास्तत्रोक्ता यथा “कफघ्नं खङ्गिपिशितं कषायमनिलापहम्। पित्र्यं पवित्र्यमायुष्यं बद्ध्वमूत्रं विरूक्षणम्। स्त्रियां ङीप् २ असिधारके त्रि०। ३ मञ्जुयोषे पु० शब्दचि०। ४ महादेवे पु० ५ अशनी शतघ्नी खङ्गी पट्विशी चायुधी महान्” भा० आनु० १७ शिवसहस्र नामोक्तौ

खङ्गिमार = पु० खङ्गिनं मारयति मृ–णिच्–अण् उप० स०। खङ्गाकारपत्रके लताभेदे शब्दच०।

खङ्गीक = न० खड्गो तत्कर्मणि कुशलः बा० ईक। दात्रे शब्दरत्ना०। तस्य खङ्गकार्य्यकारित्वात् तथात्वम्।

खण्ड = पु० खडि–घञ्। १ भेदे “खण्डं खण्डं ययुघंनाः” देवीमाहात्म्यम्। २ विड्लवणे, ३ इक्षुविकारभेदे (खा~ड) न० राजनि०। खण्ड गुणाः इक्षुशब्दे ९१० पृ० उक्ताः। “षष्ठःखण्ड नखण्डखाद्यसहजक्षोदक्षमे” नैष०। कर्मणि घञ्। ६ एकदेशे पु० न० अमरः। “ताराधिपखण्डधारी” कुमा० काशीखण्डः केदारखण्ड इत्यादि। ७ मणिदोषभेदे मेदि०। कर्मणि घञ्। ८ खण्डिते त्रि० “खण्डाशौचिपितुर्मृतौ” स्मृतिः “न खण्डे खण्डमिष्यते” स्मृतिः ततः पृथ्वा० भावे इमनिच्। खण्डिमन् खण्डभावे पु०। उत्करा० चतुरर्थ्यां छ। खण्डीय खण्ड सन्निकृष्टदेशादौ त्रि०।

खण्डक = पु० खण्डेन निर्वृत्तादि खण्ड + ऋष्या० क। खण्डनिर्मिते सिताखण्डे शर्कराभेदे राजनि०। खण्डयति खडि–ण्वुल्। २ छेदके त्रि०।

खण्डकथा = स्त्री० खण्डः खण्डिता कथा। स्वल्पकथायाम् त्रिका०।

खण्डकर्ण = पु० खण्ड इव कर्णः कन्दो यस्य। (शकरकन्द) आलुभेदे। हेमच०।

खण्डकाद्यलौह = पु० चक्रदत्तोक्ते खण्डपक्वलौ हभेदरूपे औषधभेदे तल्लक्षणं यथा “शतावरीच्छिन्नरुहावृषमुण्डतिकाबलाः। तालमूली च गायत्री त्रिफलायास्त्वचस्तथा। भार्गी पुष्करमूलञ्च पृथक पञ्च पलानि च। जलद्रोणे विपक्तव्यमष्टमांशावशेषितम्। दिव्यौषधहतस्यापि माक्षिकेन हतस्य वा। पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम्। खण्डतुल्यं घृतं देयं पलषोडशिकं बुधैः। पचेत् ताम्रमये पात्रे गुडपाको यथामतम्। प्रस्थार्द्धं मधुनो देयं शुभाश्मजतुकं त्वचम्। शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजीपलं पलम्। त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेशसम्। चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत्। यथाकालं प्रयुञजीत विडालपदकं ततः। गव्यक्षीरानुपानञ्च सेव्यं मांसरसं पयः। गुरुवृष्यानुपानानि स्निग्धं मांसादिवृंहणम्। रक्तुपित्तं क्षयं कासं पक्तिशूल विशेषतः। वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम्। श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरन्तथा। आनाहं रक्तसंस्राषं चाम्लपित्तं निहन्ति च। चाक्षुष्यं वृंहणं वृष्यं माङ्गल्यं प्रीतिवर्द्धनम्। आरोग्यपुत्रदं श्रेष्ठं कामाग्निबलवर्द्धनम्। श्रीकरं लाघवकरं खण्डकाद्यं प्रकीर्त्तितम्। छागं पारावतं मांसं तित्तिरिः क्रकराः शशाः। कुरङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत्। नारिकेलपयःपानं सुनिषन्नकवास्तुकम्। शुष्कमूलकजीराख्यं पटोलं वृहतीफलम्। फलं वार्त्ताकुपक्वाम्रं खर्जूरं स्वादु दाडिमम्। ककारपूर्वकं यच्च मांसञ्चानूपसम्भवम्। वर्जनीयं विशेषेण खण्डकाद्यं प्रकुर्वता। लोहान्तरवदत्रापि पुटनादिक्रियेष्यते”।

खण्डकालु = पु० खण्ड इव कायतिकै–क कर्म०। (शकरकन्द) आलुभेदेशब्दच०।

खण्डकाव्य = न० “खण्डकाव्यं भयेत् काव्यस्यैकदेशानुसारि च” सा० द० उक्ते काव्यभेदे तच्च महाकाव्यस्य अष्टाधिकसर्गतया ततो ल्यूनसर्गात्मकं यथा मेघदूतादि।

खण्डकुष्माण्डक = पु० खण्डेन पक्वं कुषमाण्डमत्र कप्। कुष्माण्डरसायनशब्दे १०५ पृ० चक्रदत्तोक्त लक्षणे औषधभेदे।

खण्डखर्ज्जूर = न० खण्डेन पकं खर्जूरम्। खण्डपक्वे १ खर्जूरफले। खण्ड इव खादु खर्जूरम्। २ स्वादुखर्जूरे च

खण्डज = पु० खण्ड इव जायते जन–ड। यवासशर्करायां गुडभेदे राजनि०।

खण्डजोद्भवज = पु० खण्डज उद्भवोऽस्य तस्मात् जायते जन–ड। यवासशर्करारचिते खण्ड भेदे राजनि०

खण्डताल = पु० “द्रुतमेकं भवेद्यत्र खण्डतालः स उच्यते अपरं नियतं विना” इत्युक्तलक्षणे एकतालरूपे संगीतौ तालभेदे (एकताला) संगीतदामी०।

खण्डधारा = स्त्री खण्डे एकदेशे धारा यस्याः। कर्त्तर्य्याम् (कातारी) अस्त्रभेदे शब्दमाला।

खण्डन = न० चु० खडि–भावे ल्युट्। १ भेदने, २ छेदने, ३ निराकरणे च। “स्मरसखं रसखण्डनवर्जितम्” “दर्शनेनकृतखण्डनव्यथम्” रघुः। भावे युच्। तत्रार्थे स्त्री शब्दार्थनिर्वचनखण्डनया नयन्तः” श्रीहर्षखण्डनम्। खडि–करणल्यु। परमतादिनिराकरणे ५ शास्त्रभेदे यथा श्रीहर्षखण्डनं शिरोमणिपदार्थखण्डनम्। “षडः खण्डनखण्डखाद्यसंहजक्षोदक्षमे” नैष०। कर्त्तरिल्यु। ६ खण्डके त्रि० “स्मरगरलखण्डनम् मसशिरमिमण्डनम्” गीतगो०

खण्डनखण्डखाद्य = न० खण्डनं पदार्थस्य निर्वचनीयतानिराकरणं खाद्यम् खण्ड इव। श्रीहर्षप्रणीते सर्वपदार्थानाम् निर्वचनीयताप्रतिपादके चतुःपरिच्छेदात्मके ग्रन्थभेदे तत्र प्रथमपरिच्छेदे प्रमाणतदाभास निर्वचनखण्डनम्। द्वितीये हेत्वाभासनिग्रहस्थाननिर्वचनखण्डनम्। तृतीये सर्तनामार्थनिर्वचनखण्डनम्। चतुर्थे भावाभावविशेषसत्तादिपदार्थानां निर्बचनखण्डनम्

खण्डपरशु = पु० खण्डयतीति खण्डः परशुरस्य। १ शिवे ततोलब्धतत्परशुके २ जामदग्न्ये च मेदि० “येनैव खण्डपरशुर्भगवान् प्रचण्डः श्चण्डीपतिस्त्रिभुवनेषु गुरुः, प्ररूढः” वीरच० ३ विष्णौ “सुधन्वा खण्डपरशुः” विष्णुसं०। “शत्रूणां खण्डनात्खण्डः परशुरस्य जामदग्म्याकृतेरिति” भा०

खण्डपाल = पु० खण्डं पालयति स्वशिल्पसाधनतया पालिण्वुल्। गुडविकारनिर्मातरि जिल्पिभेदे (मयरा)

खण्डप्रलय = पु० खण्डस्य भूम्यादिखण्डस्य प्रलयः। चतुर्युगसहस्ररूपब्राह्मदिनावसाने भूम्यादिखण्ड लयाधारे कालभेदे “वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः। ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलायाः” सि० शि०। “अत्र लयो नाम भूतविनाशः। प्रत्यहमुत्पद्यते। स दैनंदिन उच्यते। यो ब्रह्मदिनान्ते चतुर्युगसहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मलय उच्यते। तत्राक्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रविशन्ति। तत्र मुखं ब्राह्मणाः, बाह्व न्तरं क्षत्रियाः, ऊरुद्वयं वैश्याः, पादद्वयं शूद्राः। ततो निशावशाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादि- स्थानेभ्यः कर्मपुटान्तरत्वाद्ब्राह्मणादयस्तत एव निःसरन्ति। तस्मिन् प्रलये भुवो योजनभात्रवृद्धेर्विलयो नाखिलायाः” प्रमि०। खण्डप्रलयप्रकारश्च हरिवं० १९८। १९९ अ० उक्तो यथा “दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते। तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते। एतच्चतुर्द्दशगुणमहर्व्राह्ममिहोच्यते। ततोऽहनि गते तस्मिन् सर्वषामेव देहिनाम्। शरीरनिर्वृतिञ्चक्रे रुद्रः संहारबुद्धिमान्। दैवतानाञ्च सर्वेषां व्राह्मणानां महीपते!। दैत्यानां दानवानाञ्च यक्षकिन्नररक्षसाम्। देवर्षीणां ब्रह्मर्पीणां तथा राजर्पीणामपि। गन्धर्वाणामप्सरसां भुजगानां तथैव च। पर्वतानां नदीनाञ्च पशूनाञ्चैव भारत!। तिर्य्यग्ये निगतानाञ्च सत्त्वानां क्रिमीणां तथा। महाभूतपतिर्द्देवः पञ्च भूतानि भूतहृत्। जगत्संहरणार्थाय कुरुते वैशसं महत्। भूत्वा सूर्य्यश्चक्षुषी चाददाति भूत्वा वायुः संहरन् प्राणिजालम्। भूत्वा वह्निर्निर्द्दहन् सर्वलोकान् मेवो भूत्वा भूय एवाभ्यवर्षत् १९८ अ०। वैशम्पायन उवाच। भूत्वा नारायणो योगी सप्तमूर्त्तिर्विभावसुः। गमस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्। पीत्वाऽर्णवांश्चवै सर्वान् नदी १ कूपंश्च सर्वशः। पर्वतानाञ्च सलिलं सर्वमादाय रश्मिभिः। भित्त्वा सहस्रशश्चैव महीं गत्वा रसातलम्। रसातलगतं कृत्स्नं पिबते रसमुत्तमम्। अप्सु सृजन् क्लेदमन्यद्ददाति प्राणिनां ध्रुवम्। तत् सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः! वायुश्च बलवान् मूत्वा स विधूयाखिलं जगत्। प्राणेदयं सुराणाञ्च वायुना कुरुते हरिः। ततो देवगणानाञ्च सर्शेषामेव देहिनाम्। ये चेन्द्रियगणाः सर्वे ये चान्ये भूतसम्भवाः। तथा घ्राणं शरीरञ्च पृथिवीमाश्रिता गुणाः। जिह्वा रसश्च स्नेहश्च संश्रिताः सलिलं गुणाः। रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः। स्पर्शः प्राःणश्च चेष्टा च पवनं मंश्रिता गुणाः। परमेष्ठिनमेते वै हृषीकेशं समाश्रिताः। ततो मगवता तत्र रश्मिभिः परिवारिताः। वायुना कृष्यमाणाश्च रूपान्योऽन्यसनाश्रथात्। तेषां सङ्घर्षजोद्भूतः पावकः शतधा ज्वलन्। अदहन्निखिलान् लोकानुग्रः संवर्त्तकोऽनलः। स पर्वतान् द्रुमान् गुल्मान् लतावल्लीस्तृणानि च। विमानानि च दिव्यानि पुराणि विविधानि च। आश्रमाश्च तथा पुण्यान् दिव्यान्यायतनानि च। यानि चाश्रयणीयानि तानि सर्वाणि चादहत्। भस्मीभूतांस्ततः सर्वान् लोकान् लोकगुरुर्हरिः। भूयो निर्वापयामास जलयुक्तेन कर्मणा। सहस्रदृङ्महातेजा भूत्वा कृष्णो महाघनः। दिव्यतोयेन हविषा तर्पयामास मेदिनीम्। ततः क्षीरनिकाशेन स्वादुना परमाम्भसा। शिवेन पुण्येन मही निर्वाणमगमत् परम्। तेन सा जलसञ्छन्ना पयसा सर्वतो धरा। एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिता। महाभूतान्यपि च तं प्रविष्टान्यमितौजसम्। नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्ज्जिते। संशोषयित्वा पीत्वा च कल्पयित्वा च देहिनम्। दग्ध्वा सन्तापयित्वा च वसत्येकः सनातनः। पौराणं रूपमास्थाय किमप्यमितबुद्धिमान्। एकार्णवजलावासी योगी योगमुपासते। अयुतानां सहस्राणि शतान्येकार्णवाम्भसि”।

खण्डफण = पु० खण्डा खण्डिता फणाऽस्य। दर्वीकररूपसर्पभेदे “तत्र दर्वीकराः” इत्युपक्रमे “गवेधुकः परिसर्पः खण्डफण” इत्यादि सुश्रुतः।

खण्डमोदक = पु० खण्ड इव मोदयति मुद–णिच्–ण्वुल्। सिताखण्डे यवासशर्करायाम्” राजनि०।

खण्डर = त्रि० खण्ड + चतुरर्थ्याम् अश्मादि० र। खण्डसन्निकृष्टदेशादौ।

खण्डल = पुंन० खण्डं लाति ला–क अद्धर्चादि। खण्डधरे।

खण्डलवण = न० खण्ड्यते खडि–कर्मणि घञ् कर्मधा०। विड्लवणे राजनि०।

खण्डशर्करा = स्त्री खण्ड इव शर्करा। शर्कराभेदे। “यो यो मत्स्यण्डिकाखण्डशर्कराणां स्कको गुणः। तेन तेनैव निर्द्देश्यस्तेषां विस्रावणो गुणः” सुश्रुते तद्गुणोक्तिः।

खण्डशाखा = स्त्री खण्डा खण्डिता शाखाऽस्याः। महिषवल्लीलताभेदे राजनि०।

खण्डसर = पु० खण्ड इव सरति सृ–अच्। यवासशर्करायां सिताखण्डे राजनि०।

खण्डाभ्र = न० कर्म०। १ छिन्नमेघे। खण्डः अभ्रमिव। २ दन्तक्षतावशेषे च मेदि०।

खण्डामलक = न० खण्डं खण्डितमामलकम्। १ आमलकचूर्णे मेदि०। खण्डपक्वमामलकम्। (आमलकीरमोर्ववा) इति ख्याते २ खण्डपक्वे आमलकीफले च।

खण्डाली = स्त्री खण्डं पद्मादिखण्डमालाति आ + ला–क गौरा० ङीष्। १ सरस्याम्। खण्डं दन्तनखादिखण्डन मालाति आ + ला–क ङीष्। २ कासुकस्त्रियां ३ तैलमानभेदे च मेदि०

खण्डिक = पु० खण्ड + अस्त्यर्थे ठन्। १ कलाये, २ ऋषिभेदे, स च उद्धरिपुत्रः यथाह “खण्डिक एबौद्धरिरस्य प्रायश्चित्तिं वेद” शत० ११। ८। ४। १। ३ कक्षे हेम०। ४ क्रुद्धे त्रि०। “खण्डिकोपाध्यायः शिष्याय चपेटं ददातीति” पा० भाष्यम्। ततः पुरोहिता० भावादौ यक्। खाण्डिक्य तद्भावे न०। खण्डिकानां समूहः खण्डिका० अञ्। खाण्डिक तत्समूहे न०।

खण्डिकादि = पा० ग० उक्ते समूहार्थे अञ्प्रत्ययनिमित्ते शब्दसमूहे स च गणः। खण्डिक वडवा क्षुद्रक (मालवात्) सेना (संज्ञायाम्) भिक्षुक शुक उलूकश्वन् अहन् युगवरत्र हलबन्ध।

खण्डित = त्रि० खडि–क्त। १ भेदिते २ छिन्ने, ३ द्विधाकृते च “ज्ञातान्यसङ्गविकृतेः खण्डितेर्ष्याकषायिता” इत्युक्त चिह्नायां ४ स्त्रियां स्त्री “प्रियमिति वनिता नितान्तमागः स्मरणगवेषकषायितायताक्षी। चरणगतसखीवचोऽनुरोधात् किल कथमप्यनुकूलयाञ्चकार” माघः सा० द० तु “पार्श्वमेति प्रियोयस्याः अन्यसंभोगचिह्नितः। सा खण्डितेति कथिता घीरैरीर्ष्याकषायिता” लक्षयित्वा “तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः। मदधिवसतिमागाः कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन” माघपद्यनुदाहृतम्। ५ खण्डिताङ्गे हीनाङ्गे त्रि० खण्डिताङ्गत्वं च दुष्टवचनकर्मविपाकः यथाह शातातपः “दुष्टवादी खण्डितः स्यात् स वै दद्याद्द्विजातये। रूप्यं पलद्वयं दुग्धं घटद्वयसमन्वितम्”। अत्र खण्डिक इत्येव पाठ इत्यन्ये क्रुद्धप्रकृतेर्दुष्टवचनकर्मविपाकौचित्यात्। तत्र निराकृते छिन्ने च “सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले” माघः “खण्डितेन छिन्नेन तरुणपक्षे निराकृतेन” मल्लि०। ततः चतुरर्थ्यां सुतङ्गमा० इञ्। खाण्डिति प्रगद्यादि ञ्य। खाण्डित्य तन्निर्वृत्तादौ त्रि०।

खण्डिन् = त्रि० खण्डयति खडि–णिनि। १ खण्डके खण्डोऽस्त्यस्य इनि। २ खण्डवति स्त्रियां ङीप सा च ३ पृथिव्यां शब्दमा० तस्याः नवखण्डव्रत्त्वात् तथात्वम्।

खण्डी = स्त्री खडि–अच् गौरा० ङीष्। वनमुद्गे हेम०।

खण्डीर = पु० अपकृष्टा खण्डी शुण्डादित्वात् र। पीतमुद्गे। हेम०।

खण्डु = त्रि० खण्डयति खडि–उन्। खण्डके ततः अरीह० चतुरर्थ्याम् वुञ्। खाण्डवक तन्निर्वृत्तादौ त्रि०।

खतमाल = पु० खे तमाल इव। १ धूमे, २ मेघे च मेदि०।

खद = स्थैर्य्यै अक० बधे सक० भ्वा० पर० सेट्। खदति अखादीत्- अखदीत् चखाद। प्रनिखदति। “तथाखदन्निःसरणवद्भवति तथा निस्रवति” शत० ब्रा० १। ७। ४। १० अल्पतरत्वादस्थिरमगाढबलम्” भाष्यम्।

खद = पु० खद–बा० भावे अप्। १ स्थिरत्वे। तस्मै हितादि गवादि० यत्। स्वद्य स्थिरत्वहिते त्रि०। खद्यपत्री।

खदिका = स्त्री खे आकाशे दीयते दो–खण्डते घञर्थे क टाप् ततः संज्ञायां कन्। लाजेषु त्रिका० तेषां भर्ज्जनपात्रात् ऊर्द्धाकाशे एव स्फोटनात् तथात्वम्।

खदिर = पु० खद–किरच्। (खएर) ख्याते १ वृक्षभेदे तस्य सारे स्थिरत्वात्तथात्वम्। २ इन्द्रे त्रिका० शत्रुहिंसकत्वात् तथात्वम्। खे आकाशे दीर्य्यते इष्टापूर्त्तकारिभिर्यतः दॄ–अपादाने किरच्। ३ चन्द्रे मेदि०। इष्टापूर्त्तकारिभिर्हि चन्द्रमण्डलात् आरब्धास्मयदेहविदारेणाकाशे पततात् तस्य तथात्वं अवरोहशब्दे ४४० पृ० विवृतिः खदिरवृक्षभेदपर्य्यायगुणा भावप्र० उक्ता यथा “खदिरो रक्तसारश्च गायत्री दन्तधावनः। कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञिथः। खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत्। तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान्। श्विवशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत्। खदिरः श्वेतसारोऽन्यः कदरः सोमवल्ककः। कदंरो विशदो वर्ण्यो मुखरोगकफास्रजित्। इरिमेदी विट्खदिरः कालस्कन्धोऽरिमेदनः। इरिमेदः कषायोष्णो मुखदन्तगदास्रजित्। हन्ति कण्डूविषश्लेष्मकृमिकुष्ठ विषव्रणान्” खदिररसादिविधानं सुश्रुते उक्तं यथा “अतः खदिरविधानमुपदेक्ष्यामः। प्रशस्तदेशजातमनुपहत मध्यमवयसं खदिरं परितः खानयित्वा सध्यममूलं छित्त्वायोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा रसग्रहणसमर्थो भवति। ततस्तं गोमयमृदावलिप्तमवकीर्य्येन्धनैर्गोमयमिश्रैरादीपयेत्। यथास्य दह्यमानस्य रसो द्रवत्यधस्ताद्यदा जानीयात्पूर्णं भाजनमित्यथैवमुद्धृत्य परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात् ततो यथायोगं मात्रामामलकरसमधुसर्पिभिः संसृज्योप युञ्जीत जीर्णे भल्लातकबिधानवदाहारः परिहारश्च। प्रस्थे चोपयुक्ते शतं वर्षाणामायुषोऽभिवृद्धिर्भवति।। खादेरसारतुलामुदकद्रोणे विपाच्य षोडशांशावशिष्टमवतार्य्यानुगुप्तं निदध्यात् तमामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत। एष एव सर्ववृक्षसारेषु कल्पः। खदिरसारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुप- सेवेत खदिरसारक्वाथसिद्धमाविकं वा सर्पिः। अमृतवल्लीस्वरसं क्वाथं वा प्रातःप्रातरुपसेवेत तत्सिद्धं वा सर्पिः अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जीतैवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत” इति। “कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रोणं शालसारादिकषायस्य च त्रिफलात्रिकटुकरूषफलमज्जविडङ्गफलसारचित्रार्क्कावल्गुजहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमघुकातिविषारसाञ्जनप्रियङ्गूनां पालिकान् भागांस्तानैकध्यं स्नेह्यपाकविधानेन पचेत् तत्साधुसिद्धमवतार्य्य परिव्राव्यानुगुप्तं निदध्यात् तत उपसंस्कृत्य शरीरं प्रातः प्रातरुत्थाय पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुखीत जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदक सिद्धं मृद्वोदनमश्नोयात् खदिरोदकसेवीत्येवं द्रोणमुपयुज्य सर्वकुष्ठैर्विमुक्तः शुद्धतनुः स्मृगिमान् वर्षशतायुररोगो भवति”। खदिरवृक्षस्योत्पत्तिः श्रूयते। “प्रजापतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत” इत्युपक्रम्य “अस्थिभ्य एवास्य खदिरः समभवत् तस्मात् स दारुणो बहुसारोदारुणमिव ह्यस्थि तेनैवेनं तद्रूपेण समर्द्धयति अन्तरे वैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि मज्जानो बाह्यान्यस्थीनि” शत० ब्रा० १३। ४। ४। ९ “विना खदिरसारेण हारेण हरिणीदृशाम्। नाधरे जायते रागोनानुरागः पयोधरे” उद्भटः। खदिरस्य विकारः अण्। खादिर खदिरवृक्षजाते त्रि०। “खादिरे पशुं बध्नवति खादिरं वीर्य्यकामस्य यूपं कुर्वीत” श्रुतिः। स्त्रियां ङीप्। “अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः। उडुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्” याज्ञ० उक्तेः तस्य सूर्य्यग्रहसमित्त्वम्। “अभावे खदिरविल्वरौहितकान्” “खदिराभावे सोमैतरान्”। कात्या० ६। १। ९। १०। पलाशाभावे खदिरादीन् यूपान् कुर्वीत सोमयागे खदिर एव मुख्यः। तदभावे विल्वादि इति भेदः। ४ ऋषिभेदे च तस्य गोत्रापत्यम् अश्वादि० फञ्। खादिरायण तद्गोत्रापत्ये पुंस्त्री०। ततः ऋष्यादि० चतुरर्य्यां क। खदिरक तन्निर्वृत्तादौ त्रि०। अदिरोविद्यतेऽस्य मतुप् मस्य वः अजिरा० न पूर्वदीर्घः। खदिरवत् खदिरयुते त्रि० स्त्रियां ङीप् खदिरवती नदीभेदे स्त्री “अन्तोऽवत्याः” पा० अस्यान्तोदात्तता। खदिरात् परवनशब्दस्य असंज्ञायामपि णत्वं खदिरवणम्। खदिरस्य पाकः पील्वा० कुणच्। खदिरकुण तत्पाके पु०। ततः उत्करादि चतुरर्थ्याम् छ। खदिरीय तत्सन्निकृष्टदेशादौ त्रि०। वराहा० चतुरर्थ्यां कक्। खादिरक तन्निर्वृत्तादौ त्रि०

खदिरपत्रिका = स्त्री खदिरस्य पत्रमिव पत्रमस्याः कप् कापि अत इत्त्वत्। १ अरिखदिरे २ लज्जालुलतायाञ्च राजनि० कबभावे ङीप्। खदिरपत्री लज्जालुलतायां स्त्री जटा०।

खदिरसार = पु० ६ त०। खदिरद्रुमस्य निर्यासजे सारे (खएर) “विना खदिरसारेण” उद्भटः।

खदिरा = स्त्री खदिरः तत्पत्राकारोऽस्त्यस्याः पत्रे अच्। लज्जालुलतायाम् राजनि०।

खदिरिका = स्त्री खदिरः खदिररससमरसोऽस्त्यस्याः ठन्। १ लाक्षायां तस्या हि खदिरतुल्यनिर्यासवत्त्वात् तथात्वम्। २ लज्जालुलतायां च राजनि०।

खदिरी = स्त्री खद–किरच् गौरा० ङीष्। लज्जालुलतायाम् शाकभेदे, (हाडजोडा) २ लतायाञ्च जटा०।

खदिरोपम = न० खदिर उपमा यस्य। (का~टावावला) द्रुमभेदे रत्नमा०।

खदूरक = त्रि० खद–बा० ऊरच् संज्ञायां कन्। ऋषिभेदे। ततः शिवा० अपत्यादौ अण्। खादूरक तदपत्यादौ।

खदूरवासिनी = खे आकाशे दूरे वसति वस–णिनि ङीप्। बुद्धशक्तिभेदे त्रिका०।

खद्यपत्री = स्त्री खदे स्थैर्य्ये हितं गवा० यत्, खद्यं पत्रमस्य गौरा० ङीष्। खदिरे राजवल्लभः।

खद्योत = पु० खे द्योतते द्युत–अच्। १ कीटभेदे (जोनाकीपोका) “खद्योतवदभिज्ञातं तन्मया विस्मयान्तितम्” भा० व० १२२ अ०। “खद्योतालीविलसितनिभां विद्यु दुन्मेषदृष्टिम्” मेघदू०। खं द्योतयति द्युत–णिचण् उप० स०। २ सूर्य्ये जटाधरः।

खद्योतक = पु० खद्योत इव कायति कै–क। १ फलविषे वृक्षभेदे सुश्रु०। “कुमुद्वतीरेणुकाकरम्भमहाकरम्भ कर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पवातिनन्दनसारपाकानीति द्वादश फलविषाणि”। २ सूर्य्ये पु०।

खद्योतन = पु० खमाकाशं द्योतयति द्युत–णिच्–ल्यु। सूर्य्ये जटा०।

खधूप = पु० खमाकाशं धूपयति धूप–अण् उप० स०। खे धूप इव वा। आकाशगामिनि अग्निशिखायुक्ते (हाउइ) इति ख्याते पदार्थे “मुमुचुः खधूपान्” भट्टिः।

खन = विदारे भ्वा० उभ० सक० सेट्। खनति ते–अखानीत्–अखनीत् अखनिष्ट खायात्–खन्यात्। चखान चखतुः चखे, खातम् खनित्रं खेयम्। खनिता। खनित्वा–खात्वा खानः। खनितुम्। खनन् खनमानः। खायते खन्यते खनिः खनकः। “इमां खनाम्योषधिम्” ऋ० १०। १४५। २१। “अभ्रिरसि नार्य्यसि त्वया वयमग्निं शकेम खनितुम्” यजु०। १० “त्वां गन्धर्वा अखनन्” यजु० १२, ९८। “यथा खनन् खनित्रेण नरोवार्य्यधिगच्छति” मनुः। “अगस्त्यः खनमानः खनित्रैः” ऋ० १, १७९६।अभि + आभिमुख्येन सर्वतश्च खनने। “यो हीहामिखनेदप् एवाभिविन्देत्” शत० ब्रा० ११, १, ६, १६।अव + अधःखनने। अवखनति अवखातः।आ + समन्तात् खनने आखरः आखनः आखुः।उद् + उत्पाटने “फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः” (कलमाः)। “त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः!” “वङ्गानुत्खाय तरसाउत्खातलोकत्रयकण्टकोऽपि” रघुः।नि + निधाने सक० “निचखान जयस्तम्भम्” वसुधायां निचख्नतुः” “अष्टादशद्वीपनिखातयूपः” रघुः “विषादशङ्कुश्च मतौ निचख्ने” भट्टिः।निस् + निर् + निष्क्रामणे “समुद्रान्निरखनंस्तीक्ष्णाभिरभ्रि भः” शत० ब्रा० ७। ५। २। ५२।परि + परितः खनने परिखा उत्पाटने च “कण्टकिक्षीरिणस्तु समूलान् परिखायाद् वासयेदपामार्गम् आश्व० २। ७५वि + विशेषेण खनने। “यत्ते भूमिं विखनामि क्षिप्रं तदपिरोहतु” अथ० १२। १। ३५।

खनक = पु० खन–वुन्। १ मूषिके, २ सन्धिचौरे च। ३ भूविदारके (कोडा) त्रि० हेम० “विदुरस्य सुहृत् कश्चित् खतकः कुशलोऽस्म्यहम्” भा० आ० १४७ अ०। ४ स्वर्ण्णाद्युत्पत्तिस्थाने आकरे मेदि०। “पुरी समन्ताद्विहिता सपताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनका तथा” भा० व० १५ अ०।

खन(मा)पान = अनुवंश्ये क्षत्रियभेदे “खन(मा)पानोऽङ्गदोजज्ञे तस्मादवितथस्ततः” भाग० ९। २२। ३।

खनयित्री = स्त्री खन–णिच्–नि वृद्ध्यभावः तृच् ङीप्। (खुन्ती) इति ख्याते अस्त्रभेदे सा च जिगीषुणा यात्रायामग्रे चालनीया यथाह नारदपञ्चरात्रे “खनयित्री शुभा यात्रा जयार्थं युद्धकाङ्क्षिभिः। पञ्चवर्ण्णाशुकयुता चालनीया पुरःस्थिता”

खनित्र = न० खन–इत्र। (खोन्ता) अस्त्रभेदे। “यथा खनन् खनित्रेण नरोवार्य्यधिगच्छति” मनुः। स्वार्थे क तत्रार्थे हारा०।

ख(नि)नी = स्त्री खन–इत् वा ङीप्। धातुरत्नात्युत्पत्तिस्थाने १ आकरे “खनिभिः सुषुवे रत्नम्” “रत्नोपहारैरुदितैः खनिभ्यः” रघुः। २ भूविदारणे च। ३ आधारमात्रे “षष्टिः षट् च बरा योषित् अङ्गलक्षणसत्खनी” काशी० ३७ अ०। ४ खाते गर्त्ते “धृतगम्भीरखनीखनीलिम” नैष०।

खनित्रिम = त्रि० खननेन निर्वृत्तम् खन–भावे बा० क्त्रिमप् च। खनननिर्वृत्ते। “खनित्रिमा उत वा याः सर्वजाः” ऋ० ७। ४९। २।

खनिनेत्र = पु० इक्षाकुवंश्ये नृपभेदे “विविंशतेः सुतोरम्भः खनिनेत्रोऽस्य धार्मिकः” भाग० ९। २। १६।

खन्य = त्रि० खन–वेदे नि० यत्। खननीये ण्यत्। खान्य इत्यपि तत्रार्थे। लोके तु खेय इत्येव।

खपुर = पु० खं पिपर्त्ति उच्चतया पॄ–क। १ गुवाके अमरः। खमिन्द्रियं पिपर्त्ति–पॄ–क। २ अलसे त्रि० मेदि०। खेन पूर्य्यते घञर्थे कर्मणि क। ३ भद्रमुस्तके पु० मेदि० ४ व्याघ्रनखवृक्षे राजनि० खे आकाशे उदितं पुरं शा० त०। अशुभसूचनायाकाशोदिते ५ गन्धर्वनगरे। तस्योत्तरादिदिग्भेदेनोदये फलभेदः वृ० सं० ५६ अ० उक्तो यथा “उदगादि पुरोहितनृपवलपतियुवराजदोषदं खपुरम्। सितरक्तपीतकृष्णं विप्रादीनामभावाय। नागरनृपतिजयावहमुदग् विदिकस्थं विवर्णनाशाय। शान्ताशायां दृष्टं सतोरणं नृपतिविजयाय। सर्वदिगुत्थं सततोत्थितं च भयदं नरेन्द्रराष्ट्राणाम्। चौराटविकान् हन्याद्धूमानलशक्रचापाभम्। गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम्। दीप्ते नरेन्द्रमृत्युर्वापेऽरिभयं जयः सव्ये। अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम्। यदा तदा नागमनुष्य वाजिनां पिबत्यसृग् भूरि रणे वसुन्धरा।” खं आकाशे चरं पुरं शाक० त०। ६ आकाशगामिनि दैत्यपुरभेदे तदुत्पत्तिकथा “पुलमा नाम दैतेयी कालका च महासुरी। दिव्यं वर्षसहस्रन्ते चेरतुः परमं तपः तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम्। अगृह्णीतां वरन्ते तु सुतानामल्पदुःखिताम्। अनध्यताञ्च राजेन्द्र! सुरराक्षसपन्नगैः। पुरं सुरमणीयञ्च खचरं सुमहाप्रभम्। सर्व्वारम्भैः समुदितं दुर्धर्षममरैरपि। महर्षियक्षगन्धर्व्वपन्नगासुरराक्षसैः। सर्व्वकामगुणोपेतं वीतशोकमनामयम्। ब्रह्मणा भरतश्रेष्ठ! कालकेयकृते कृतम्। तदेतत् खपुरं दिव्यं चरत्यमरवर्ज्जितम्। पौलोमाध्युषितं वीर। काल- खञजैश्च दानवैः” भारते वनपर्व्वणि १७३ अध्याये। “विध्वस्ते खपुरे तस्मिन् दानवेषु हतेषु च” भा० व० १७३ अ०। ७ हरिश्चन्द्रपुरे त्रिका०।

खपुष्प = न० ६ त०। आकाशकुसुमे तस्य यथा मिथ्यात्वमेवं मिथ्यात्वद्योतनाय खपुष्पेणोपमा शास्त्रेषु दीयते खकुसुमादयोऽप्यत्र।

खभ्रान्ति = पु० स्त्री खे आकाशे भ्रान्तिर्भ्रमणं मांसान्येषणाय यस्य। चिल्ले त्रिका०। तस्य मांसान्वेषणाय खे भ्रमणात्तथात्वम्। स्त्रियां वा ङीप्।

खमणि = पु० खे आकाशे मणिरिव प्रकाशकत्वात्। सूर्य्ये त्रिका०।

खमीलन = न० खानामिन्द्रियाणां भीलनम्। तन्त्रायाम्। शब्दच० तत्र सर्वेषां बहिरिन्द्रियाणां खस्वकार्य्ये व्यापाराभावात् निमीलनं भवतीति तस्यास्तथात्वम्।

खमूर्त्ति = पु० खं मूर्त्तिरस्य। अष्टमूर्त्तिधरे १ भीमरूपे शिवे खस्य ब्रह्मणोमूर्त्तिः स्वरूपम्। २ ब्रह्मस्वरूपे स्त्री “स ब्रह्मपरमभ्येति वायुभूतः खमूर्त्तिमान्” मनुः।

खमूली = स्त्री खं शून्यभूतं मूलमस्याः ङीष्। कुम्भिकायां (पाना) त्रिका० तस्याः मूलशून्यत्वात् तथात्वम्। पृषो० वा ह्रस्वः। खमूलि तत्रार्थ। स्वार्थे क ह्रस्वः। खमूलिका तत्रार्थे शब्दच०।

खम्ब = गतौ भ्वा० पर० सक० सेट्। अम्बति अखम्बीत् चखम्ब।

खर = पु० ख मुखविलमतिशयेनास्त्यस्य र खमिन्द्रियं लाति ला–क वा रलयोरेकत्वम्। १ गर्द्दभे। २ अश्वतरे अमरः ३ राक्षसभेदे च हेम० ‘चेरतुः खरदूषणावि’ ति भट्टिः। “वसतस्तस्य रामस्य ततः शूर्पनखाकृतम्। खरेणासीत् महद्वैरं जनस्थाननिवासिना,। रक्षार्थं तापसानान्तु राघवो धर्मवत्सलः। चतुर्द्दश सहस्राणि जवान भुबि राक्षसान्। दूषणञ्च खरञ्चैव, निहत्य सुमहाबलौ। चक्रे क्षेमं पुनर्धीमान् धर्मारण्यं स राघवः” भा० व० २७६ अ०। ४ कण्टकिवृक्षभेदे, अजयः ५ काके, अजयपालः ६ कङ्कविहगे, ७ कुररपक्षिणि, राजनि० ६ ० संवत्सरमध्ये पञ्चविंशतितमे ८ वर्षभेदे तत्फलं यथा। “उपद्रुतं जगत्सर्वं तस्करैर्मूषिकैः खगैः। पीडिताश्च प्रजाः सर्वाः देशभङ्गः खरे प्रिये!” ज्यो० त०। ९ रविपार्श्वचरे १० पश्चिमद्वारगृहे शब्दच० ११ तिग्मस्पर्शे च। १२ तद्वति, त्रि० अमरः। खरकिरणः खरांशुः १३ कठिने च त्रि० “खरविशदमभ्यवहार्य्यं भक्ष्यमिति” पा० भाष्यम्। १४ देवताडवृक्षे स्त्री टाप् अमरः १५ धर्म्मे मेदि०। १६ निष्ठुरे हेम०। १७ दैत्यभेदे त्रिका०। जातित्वे सर्वत्र स्त्रियां ङीष्।

खरकर = पु० खरस्तीव्रः करोऽस्य। सूर्य्ये खरकिरणखरांशुप्रभृतयोऽप्यत्र।

खरकाष्ठिका = स्त्री खरमुग्रं काष्ठं यस्याः कप् कापि अत इत्त्वम्। बलायामौषधौ राजनि०।

खरकुटी = स्त्री खरा तीव्रा क्षुरवत्त्वात् कुटी। १ नापितगृहे त्रिका० तस्याः क्षुरवत्त्वात्तथात्वम्। ६ त०। गर्द्दभगृहे च खरगृहादयोऽप्यत्र।

खरकोण = पुंस्त्री खरं तीव्रं कोणयते शब्दायते कुण–सङ्कोचे धातूनामनेकार्थत्वात् इह शब्दार्थता अण् उप० स०। तित्तिरिपक्षिणि हेम०। जातित्वात् स्त्रियां ङीष्।

खरगन्धनिभा = स्त्री खरगन्धेन नितरां भाति नि + भा–क। नागवलायां नागबल्ल्याम् (पान) जटा०।

खरगन्धा = स्त्री खरो गन्धोयस्याः। नागबलायाम् राजनि०

खरघातन = पु० खरमुग्ररोगं, तन्नामराक्षसं वा घातयति हन–स्वार्थे णिच्–ल्यु। १ नागकेशरे, २ श्रीरामे च शब्दच०।

खरच्छद = पु० खरः छदः पत्रमस्य। (उलुखड) १ तृणभेदे रत्नमा०। २ कुन्दरछक्षे राजनि०।

खरज्रु = त्रि० खरं जीर्य्यति जॄ–बा० कु। तीव्रगतौ “भृभूनापत् खरमज्रा खरज्रुः” ऋ० १०, १०६, ७।

खरणस् = त्रि० खरस्य नासेव खरा वा नासा अस्य नसादेशः णत्वम्। १ खरतुल्यनासिके २ तीव्रनासिके च। अच् समा०। खरणसोऽप्यत्रार्थे अमरः।

खरत्वच् = पु० खरा कठिना त्वक् यस्य। १ लज्जालुभेदे। भावप्र०।

खरदण्ड = न० खरः उग्रः कण्टकावृतत्वात् दण्डोऽस्य। पद्मे धरणी।

खरदला = स्त्री खरं दलं यस्याः। काष्ठोदुम्बरे शब्दच०।

खरदूषण = पु० खरमुग्रं दूषणसम्पादकताहेतुदोषो यत्र। १ धस्तूरे (धुतुर) २ बहुदोषे त्रि०। शब्दरत्ना०। द्व०। राक्षसभेदयोः द्विव० “खरदूषणयोर्भ्रात्रोः” भट्टिः।

खरधार = त्रि० खरा उग्रा धाराऽस्य। तीव्रधारे अस्त्रभेदे करपत्रभिन्नस्य खरधारस्य च व्रणादौ प्रयोगे दोषाः यथाह सुश्रुतुः “तत्र वक्रं कुण्ठं खण्डं खरधारमतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमित्यष्टौ शस्त्रदोषाः। अतो यिपरीतगुणमाददीतान्यत्र करपत्रात्तद्धि खरधारमस्थिच्छेदनार्थम्”।

खरध्वंसिन् = पु० खरं खरनामानं राक्षसं ध्वंसयति धन्सणिच–णिनि। श्रीरामे। खरहन्त्रादयोऽप्यत्र। रामस्य खरध्वंसकथा खरशब्दे दृश्या।

खरनादिन् = त्रि० खरं नदति नद–णिनि। तीव्रशब्दकारके स्त्रियां ङीप्। सा च २ रेणुकाणामगन्धद्रव्ये शब्दच०। खर इव नदति नद–णिनि। ३ गर्द्दभतुल्यनादकारके त्रि० “उपमानं शब्दार्थप्रकृतावेव” पा० अस्याद्युदात्तता। खरनादिनोऽपत्यं बाह्वादि० इञ्। खारनादि तदपत्ये पुंस्त्री०।

खरनाल = न० खरं नालमस्य। पद्मे “नार्वाग्गतस्तत्खरनालनालनाभिं विचिन्वंस्तदविन्दताजः” भाग० ३, ८, २१।

खरप = पु० खरं पिबति पा–क। १ ॠषिभेदे ततो नडादि० गोत्रापत्ये फक्। खारपायण तद्गोत्रापत्ये पुंस्त्री०। बहुषु तस्य यास्का० लुक्। खरपास्तद्गोत्रापत्येषु।

खरपत्र = पु० खरं पत्रमस्य। १ शाकवृक्षे (मेगुन) २ क्षुद्रतुलस।। वृक्षे च रत्नमा०। ३ यावनालशरे ४ मरुवके ५ हरिदर्मे च राजनि०। वा कप्। खरपत्रक। तिलकवृक्षे शब्दच०।

खरपत्री = स्त्री खरपत्रमस्याः गौ० ङीष्। १ गोजिह्वावृक्षे २ काकोदम्बरिकायाञ्च राजनि०।

खरपात्र = न० खरं पात्रम् कर्म०। लौहपात्रे त्रिका०।

खरपादाढ्य = पु० खरैः पादैर्भृलैराद्यः। कपित्थद्रुमे शब्दच०

खरपुष्प = पु० खरं पुष्पमस्य। मरुवके रत्नमा०।

खरपुष्पा(ष्पी) = स्त्री खराणि पुष्पाण्यस्याः वा ङीप्। वर्वराशाके (वावुइ तुलसी) अमरः।

खरप्रिय = पुंस्त्री खलो धान्यादिमर्द्दनस्थानं प्रियोऽस्य लस्यरः। पारावते शब्दमा० स्त्रियां जातित्वेऽपि योपधत्वात् टाप्।

खरमज्र = पु० खरं मज्जयति मस्ज–र। अत्यन्तशोधके। खरज्रुशब्दे उदा०।

खरमञ्ज(रि)री = स्त्री खरा मञ्जरी यस्याः समासान्तविधेरनित्यत्वात् न कप् ह्रस्वः वा ङीप्। अपामार्गे अमरः। तत्र ह्रस्वान्ते “पलाशपुष्पे खरमञ्जरेर्वा” “फलानि शिग्रोः खरमञ्जरेर्वा”। “खरमञ्जरियष्ट्याह्वसैन्धवामरदःरुभिः” सुश्रु०। दीर्घान्ते “वि ङ्गखरमञ्जरीमधुशिग्रुसूर्य्यबल्लीत्यादि० सुश्रुतः।

खररोमन् = त्रि० खरं रोमाऽस्य। कठिनरीमयुक्ते स्त्रियां वा डाप्। खररोमत्वं गर्द्दभहत्याकर्मविपाकः यथाह शाता० “खरे विनिहते चैव खररोमा प्रजायते” इति। २ नागमेदे पु० जटा०।

खरवल्लिका = स्त्री खरा वल्ली सैव स्वार्थे क। नागवल्ल्याम् काभावे खरवल्लीत्यप्यत्र रत्नम०

खरशब्द = पु० खर उग्रः शब्दोऽस्य। १ कुररखगे। ६ त०। २ गर्द्दभशब्दे पु०। कर्म०। ३ उग्रशब्दे पु०।

खरशाक = पु० खरं शाकमस्य। (वामनहाटि) भार्ग्याम्। भावप्र०।

खरशाल = न० खराणां शाला नपु०। गर्द्दमगृहे। शब्दचि० तत्र जातार्थस्य लुक्। खरशाल। तत्र भवे त्रि०।

खरसोनि = स्त्री खे आकाशे रसमूनयति ऊनि–इन्। लोहिकालतायां हारा०।

खरसोन्द = पु० खं शून्यभूतः रसोन्दः रसक्लेदनमत्र। खरपात्रे लौहपात्रे त्रिका०।

खरस्कन्ध = पु० खरः स्कन्धोऽस्य। १ प्रियालद्रुमे। २ खर्जूर्य्यां स्त्री टाप्। राजनि०।

खरस्वरा = स्त्री खरं स्वरति उपतापयति स्वॄ–अच्। वनमल्लिकायां रत्नमा०।

***