वाचस्पत्यम्
खगोल
links:
Menu अ–ह
Prev क्षेत्रक–खगे
Next खग्ग–खर
खगोल
UpasanaYoga
.org

खगोल = पु० सू० सि० उक्ते गोलाकारे आकाशण परिधौ सूर्य्यकिरणप्रचारयोग्यदेशे ग्रहाद्याधारे वाय्यंशभेदे। यथा “ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम्। कटाह- द्वितयस्यैव सम्पुटं गोलकाकृतिः” सू० सि०। “एतत् प्रागुक्तं व्रह्मणाधिष्ठितं सुवर्णाण्डं सुषिरमवकाशात्मकं, तत्रावकाश इदं जगत् भूर्भुवादिकं भूर्भुवःस्वर्गात्मकमवस्थितं न वहिः। नन्वण्डस्य गोलाकारत्वेनान्तरवकाशात्मकत्वं न सम्भवतीत्यत आह कटाहद्वितयस्येति। कटाहोऽर्धगोलाकारं सावकाशं पात्रं तस्य द्वितयं दुयं तस्य सनम्। एवकारो न्थूनाधिकव्यवच्छेदार्थः। सम्पुटमाभिमुख्येत मिलितं गोलकाकृतिर्गोलाकारः स्थात्! तथाच न क्षतिः। अथ ब्रह्माण्डान्तः परिधिं वदंस्तदन्तर्भग्रहादिकमाकाशे यथास्थानं परिभ्रमतीति त्तोकाभ्यामाह” र० ना० “ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते। तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा। मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः। परिन्यमन्त्यसोऽधःस्थाः सिद्धविद्याधरा घनाः” सू० सि०। “ब्रह्माण्डान्तः परिधिस्तुल्यवृत्तमाना व्योमकक्षा वक्ष्यमास्माकाशकक्षोच्यते। तन्मध्ये ब्रह्माण्डमध्य आकाशे भानां नक्षत्राणां सर्वेषां सर्वतस्तुल्योर्ध्वान्तरितानां भ्रमणं भवति। तथा तुल्योर्ध्वान्तरेणाधो नक्षत्रेभ्योऽधोधः क्रमात् शनिवृहस्पतिभौमार्कशुक्रबुधचन्द्रा अधजात् परिभ्रमन्ति। सिद्धा विसाधराश्चाधस्थाश्चन्द्रादधःखिता अधोऽधः क्रमेणाकाशे स्थिताः। एषां प्रवहवायाववस्थानाभावाच्चन्द्रादिवन्न परिभ्रमः। अथ भूम्यवस्थानमाह” र० ना० “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति। विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू० सि०। “अण्डस्य व्रह्माण्डस्य समन्तात् सर्वप्रदेशान्मध्ये मध्यस्थाने केन्द्ररूपे आकाशे भूगोलस्तिष्ठति। नन्वाकाशे निराधारवस्तुनोऽवस्थानासम्भवात् कथमवस्थितो भूमिगोल इत्यतो भूगोलविशेषणमाह बिभ्राण इति। व्रह्मणः परमां शक्तिं धारणात्मिकां निराधारावरयानरूपां विध्याणो धारयन्। तथाच न क्षतिः। एतेन “भूःकिमाकारा किमाश्रयेति” प्रश्नद्वयमुत्तरितम्। अथ कथं चात्र सप्त पातासभूमय इति प्रश्नस्योत्तरसाह” र० ता० “तदन्तरपुटाः सप्त नागामुरसमाश्रयाः। दिर्व्यौषधिरसोपेतारम्याः पातालभूमयः” सू० मेर्व्वादिस्थितिमाह “अनेकरत्ननिचयो जाम्बूनदमयो गिरिः। भूगोलमध्यगो मेरुरुभयत्व विनिर्गतः। उपरिष्टात् स्थितास्तस्य मेन्द्रा देवा महर्षयः। अधस्तादसुरास्तद्वद्द्विषन्तोऽन्योऽन्यमाश्रिताः। ततः समन्तात् परिधिः क्रमेणायं महार्ष्णवः। मेखलेव स्थितो धात्र्या देवासुरविभागकृत्। समन्तान्मेरुमध्यात् तु तुल्य भागेषु तोयधेः। द्वीपेषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः। भूवृत्तपादे (१२५६) पूर्वस्यां यमकोटीति विश्रुता। भद्राश्ववर्षे नगरी स्वर्णप्राकातोरणा। याम्यायां भारते वर्षे लङ्का तदुन्महापुरी। पश्चिमे केतुमालाख्ये रोमकाख्या प्रकोर्त्तिता। उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्त्तिता। तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः। भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः। ताभ्यश्चोत्तरगो मेरुस्तावानेव १२५६ सुराश्रयः। तासामुपरिगो याति विषुवस्थो दिवाकरः। न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते। मेरोरुभयतो मध्ये ध्रवतारे नभःस्थिते। निरक्षदेशसंस्थानामुभये क्षितिजाश्रये। अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः। नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा। मेषादौ देवभागस्थे देवानां याति दर्शनम्। असुराणां तुलादौ तु सूर्य्यस्तद्भागसञ्चरः। अत्यासन्नतथा तेन ग्रीष्मे तीव्राः करा रवेः। देवभागे मुराणां तु हेमन्ते मन्दतान्यथा। देवासुरा विषुवति क्षितिजस्थं दिवाकरम्। पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे। मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम्। सञ्चरन् प्रागहर्मध्यं पूरयेन्मेरुवासिनाम्। कर्कादीन् सञ्चरंस्तद्वदह्नः पश्चार्धमेव सः। तुलादींस्तन्गृगादींश्च तद्वदेवासुरद्विषाम्। अतो दिनक्षपे तेषामन्येन्यं हि विपर्ययात्। अहोरात्रप्रमाणं च भानोर्भगणपूरणात्। दिनक्षपार्धमेतेषामयनान्ते विपर्ययात्। उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः। अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम्। भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः। सर्वत्रैवं महीगोले स्वस्थानमुपरि स्थितम्। मन्यन्ते खे यतो गोलस्तस्य क्वोर्ध्वं क्व वाप्यधः। अल्पकायतया लोकाः स्वस्थानात् सर्वतोमुखम्। पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम्। सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्। उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखः सदा। अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरो तथा। हानिवृद्धी सदा वामं सुरासुरविभागयोः। मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽधिका। देवांशे च क्षपाहानिर्विपरीतं तथाऽऽसुरे। तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे। देशक्रान्तिवशान्नित्यं तद्विज्ञानं परोदितम्”। अथोक्तग्वावधिदेशं विवक्षुः प्रथमं तदुपयुक्तानि क्रान्त्यं शयोंजनान्याह “भूवृत्तं क्रान्तिभावघ्नं भगणांश- विभाजितम्। अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः” सू० सि०।। “भूवृत्तं भूपरिधियोजनमानं (५०२६ स्थूलम् ४९६७ सूक्ष्मम्) प्रागुक्तमभीष्टक्रान्त्यंशैर्गुणितं द्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्त लब्धयोजभैः कृत्वा सूर्य्य उपरि आकाशे स्थितो वर्तमानो दक्षिणत उत्तरतो वा याति गच्छति। क्रान्त्यभावे तु निरक्षदशोपर्येव परिभ्रमति। अत्रोपपत्तिः निरक्षदेशान्मैरोरुत्तरदक्षिणाग्राभिमुखं सूर्यः क्रान्त्यंशैर्गच्छति। तद्योजनज्ञानं तु यदि भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभूपरिधियोजनानि तदा क्रान्त्यंशैः कानीत्यनुपातेनेत्युपपन्नम् अथ दिनमानानयनगणितस्यावधिदेशज्ञानं श्लोकाभ्यामाह” र० ना०। “परमापक्रमादेव योजनानि विशोधयेत्। भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः। अयनान्ते विलोमेन देवासुरविभागयोः। नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत् तथा” सू० सि०।। “परमक्रन्तिभागाच्चतुर्विंशन्मितात्। एवं पूर्वोक्तरीत्या योजनानि जातानि ३३६ भूपरिधेः पूर्वोक्तस्य ५०२६ चतुर्थांशात् १२५६ परिवर्जयेत्। अवशिष्टानि यानि यत्सङ्ख्यामितानि योजनानि भवन्ति तैर्योजनैर्देवासुरविभागयोर्निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्योदेशौ तयोरित्यर्थः। अयनान्ते उत्तरदक्षिणायनसन्धौ कर्कादिस्थे सूर्ये दक्षिणोत्तरायनसन्धौ, मकरादिस्थे सूर्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या घटीषष्ट्याऽहर्दिनमानं भवति। अस्मिन्नेतादृशे देशे दक्षिणस्मिन्नेवायनसन्ध्यासन्ने सकृदेकवारं तथा षष्ठिघटीमिता विलोमेन निशा रात्रिर्भवति। अपिशब्दो दिनेन समुच्चयार्थः। एतदुक्तं भवति। कर्कादिस्थे सूर्ये निरक्षदेशादुत्तरतद्योजनान्तरितदेशे षष्टिघटीमितदिनं तदेव निरक्षदेशाहृक्षिणतद्योजनान्तरितदेशे षष्टिघटीमिता रात्रिः। मकरादिस्थे सूर्ये तादृशोत्तरभागे षष्ठिघटीमिता रात्रिर्दक्षिणभागे तादृशे षष्टिघटीमितं दिनमिति। अत्रोपपत्तिः। परमक्रान्तियोजनानि ३२६ भूवृत्तचतुर्थांशयोजनेभ्यो १२५६ हीनानि ९२०। निरक्षदेशात् तन्मितयोजनान्तरितो यो दक्षिणोत्तरदेशस्तस्वान्मेरोर्दक्षिणोत्तराग्रं क्रमेण परमक्रान्तियोजनान्तरितम्। अतस्तत्र लम्बांशाश्चतुर्वि शतिः पसांशास षट्षष्टिरिति तद्देशे क्रान्तिवृत्तानुकारं क्षितिजमित्ययनान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरन्तरालरूपं चर- मत उक्तरीत्या दिनार्धं रात्र्यर्धं चोक्तरीत्या यथायोग्यं त्रिंशत् तद्द्विगुणं षष्टिघटीमितं तन्मानं गणितरीत्योपपन्नम्। युक्तं चैतत्। अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिजप्रदेश एकत्रैव संलग्नत्वाद्द्विधा संलग्नत्वाभावात् प्रवहभ्रमितसूर्यपरिवर्तपूर्तिः षष्टिघटीर्भिर्दर्शनमदर्शनं यथायोग्यं तद्गोलस्थि या प्रत्यक्षसिद्ध्वमेवेति। अथोक्तदिनरात्रिमानगणितं तदवधिदेशपर्थ्यन्तं दक्षिणोत्तरभागयोर्नाग्रे इत्याह” र० ना०। “तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः। परतो विपरीतोऽयं भगोलः परिवर्तते” सू० सि०। “तदन्तरे निरक्षदेशोक्तावधिदेशयोरन्तराले द क्षणोत्तरविभागदेशे षष्ट्यन्ते षष्टिघटीमध्ये क्षयवृद्धो अपचयोपचयावुक्तरीत्या दिनरात्र्योर्यथायोग्यं भवतः। परतोऽवधिदेशादग्रिमदेशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलो नक्षत्राद्यधिष्ठितो मूर्त्तो गोलो विपरीतोऽवधिदेशान्तर्गतदेशसम्बन्धी गणितसिद्धः परिवर्तते भ्रमति। तत्रोक्तरीत्या दिनरात्र्योर्वृद्धिक्षयौ न भवत इत्यर्थः त्रिज्याधिकाराच्चरानयनानुपपत्तेः चरस्वरूपासम्भवाच्च अथ विपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति” र० ना०। “ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः। धनुर्मृगस्थः सविता देवमागे न दृश्यते। तथाच सुरभागे तु मिथुने कर्कटे स्थितः। नष्टच्छाये महीवृत्तपादे दर्शनमादिशेत्” सू० सि०। “द्विराशिज्या ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरिधिचतुर्थांशे (१२५६) हीने कृते सति। तुकारान्निरक्षदेशात् यद्योजनान्तरिते देशे देवभाग उत्तरभागे धनुर्मकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते। धनुर्मकरस्थेऽर्के तेषां रात्रिः सदा स्यादित्यर्थः। असुरभागे निरक्षदेशाद्दक्षिणप्रदेशे। चः समुच्चयार्थः। तुकारात् तद्योजनान्तरितप्रदेशे मिथुने कर्कराशौ स्थितोऽर्कस्तथा तद्देशवासिभिर्न दृश्यते। नष्टच्छायेमहीवृत्तपादे। अभावं प्राप्ता छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे १२५६ सूर्य्यस्य दर्शनं सदा कथवेत्। यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिनमित्यर्थः। तथाच निरक्षदेशात् तद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यत इति फलितार्थः। अतएव। “त्र्यंशयुङ्नवरसाः ६९। १/२ पलांशका यत्र तत्र विषये कदाचन। दृश्यते न मकरो न कार्मुकं किञ्च कर्किमिथुनौ सदादितौ” इति भास्कराचार्योक्तं सङ्गच्छते (तथाचात्र दशमासादिनं द्वौमासौ रात्रिः) अथान्यत्रापि विपरीतस्थितिं श्लोकाभ्यां दर्शयति” र० ना०। “एकज्यापक्रमानीतैर्योजनैः परिवर्जितैः। भूमिदक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः। धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते। देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये” सू० सि०। “एकराशिज्यायाः क्रान्त्यंशेम्यो भूपरिधिचतुर्थांशे हीने कृते सति निरक्षदेशादवशिष्टैर्योजनैः। तुकारादन्तरिते देशे देवभाग उत्तरभागे धनुर्मकरवृश्चिककुम्भराशिषु स्थितः मूर्यस्तद्देशवासिभिर्न दृश्यते। असुराणां दैत्यानां निरक्षदेशात् तद्योजनान्तरितदक्षिणभागे वृषादिके राशिचतुष्टयोस्थताऽर्कस्तद्देशवासिभिर्न दृश्यते। तुकारादुत्तरभागे वृषा दचतुष्टयस्थितोऽर्कस्तद्देशवासिंभर्दृश्यते वृश्चिकादिचतुष्टयस्थितोऽर्को दक्षिणभागे तद्देशवासिभिर्दृश्यत इत्यर्थः। अतएव “यत्र साङ्घ्रिगजवाजिसम्मिता ७८। १/४, स्तत्र वृश्चिकचतुष्टयं न च। दृश्यते च वृषभाच्चतुष्टयं सर्वदा समुदितं हि लक्ष्यते” इति भास्कराचार्योक्तं सङ्गच्छते (तथाचात्र अष्टौमासादिनं मासचतुष्कं रात्रिः) अथ शून्यराशिक्रान्त्यानीतयोजनेभ्योऽवगतमेर्वग्रभागयोरपि स्थिति वैलक्षण्यमाह” र० ना०। “मेरौ मेषादिचक्रार्ध देवाः पश्यत्ति भास्करम्। सकृदेवोदितं तद्वदसुराश्च तुलादिगम्” सू० सि०। “मेरावुत्तराग्रावस्थिता देवा मेषादिचक्रार्धे मेषादिराशिषट्केऽवस्थितमर्कं सकृदेकवारम्। एवकारादनेकवारनिरांसनिश्चयः। उदितमदर्शनानन्तरं प्रथमदर्शनविषयं निरन्तरं पश्यन्ति। असुरा मेरुदक्षिणाग्रस्था दैत्याः। चो देवैः स च्चयार्थः। तुलादिराशिषट्कस्थं तद्वत् सकृदुदितं निरन्तरं पश्यन्ति। अथ निरक्षदेशादयनसन्धौ कियद्भिर्योजनैरूर्ध्वमर्को भवति तदाह” र० ना०। “भूमण्डलात् पञ्चदशे भागे दैवेऽथ बाऽऽसुरे। उपरिष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः” सू० स०।। “दैवे उत्तरभागे। अथवाऽऽसुरे दक्षिणभागे। निरक्षदेशाद्भूपरिधेः पञ्चदशे भागे तत्फल २४ योजनान्तरिते ३३६ देशे क्रमेण सौम्ययाम्यायनान्तग उत्तरायणान्तदक्षिणायनान्तस्थितोऽर्क उपरिष्टादूर्ध्वं व्रजति परिभ्रमति। यथा गोलसन्धौ निरक्षदेशे तथात्र भागद्वय इति फलितार्थः। अत्रोपपत्तिः। अयनान्तस्थे परमक्रान्तिश्चतुर्विंशत्यंशास्तद्योजनानि ३३६ “भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्” इत्यत्र चतुर्विंशतिमितगुणभगणाशमितहरौ गुणेनापवर्त्य हरस्थाने पञ्चदशेति भूमण्डलात् पञ्चदशं भाग इत्युक्तमुपपन्नम्” र० ना०।। अथ निरक्षदेशाद्भूपरिधिपञ्चदशभागपर्यन्तं (२४) मूर्यस्य दक्षिणोत्तरतो गमनमुक्त्वा तच्छायागमनं प्रतिपादयति” र० ना०। “तदन्तरालयोश्छाया याम्योदक् सम्भवत्यपि। मेरोरभिमुखं याति परतः स्वविभागयोः” सू० स०। “तदनन्तरालयोर्निरक्षदेशात् पञ्चदशभागमध्यस्थितदक्षिणोत्तरदेशयोश्छाया द्वादशाङ्गुलशङ्कोर्मध्याह्नच्छायाभीष्टकालिकच्छायाग्रं वा दक्षिणाग्रमुत्तराग्रं वा सम्भवति। एतदुक्तं भवति निरक्षदेशात् पञ्चदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वे छायाग्रमुत्तरम्, उत्तरत्वे छायाग्रं दक्षिणम्। एवं निरक्षदेशात् पञ्चदशभाग न्तरालस्थितद क्षणदेशे सूर्यस्योत्तरस्थत्वे छायाग्रं द क्षणं दक्षिणस्थत्वे छायाग्रमुतरमिति। परतः पञ्चदभागान्तरालदेशे स्वविभागयोर्दक्षिणोत्तरविभागयोर्मेरोरभिमुखं मेवग्रयोः सम्मुखं क्रमेण दक्षिणाग्रमुत्तराग्रं यथा स्यात् तथेत्यर्थः। छाया याति गच्छति भवतीत्यर्थः। अपिशब्दः पूर्वार्धार्थेन समुच्चयार्थकः। अथ “कथं पर्येति भुवनानि विभावयन्निति प्रश्नस्योत्तरं श्लाकाभ्यामाह” र० ना०।। “भद्राश्वोपरिगः कुर्याद्भारते तूदयं रविः। रात्र्यर्धं केतुमालेतु कुरावस्तमयं तदा भारतादिषु वर्षेषु तद्वदेव प रभ्रमन्। मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम्” सू० सि०।। “भद्राश्ववर्षोपरिगतः सूर्योभारतवर्षे स्वेदयं कुर्यात्। तुकाराद्भद्राश्ववर्षे मात्याह्नं कुर्यात्। तदा तस्मिन् काले केतुभालवर्षेऽर्धरात्रं कुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्यात्। तुकारादुक्तवर्षयोरन्तराले दिनस्य गतं शेषंवा रात्रेश्च तद्यथायोग्यं कुर्या दत्यर्थः। अतिस्थूलदेशग्रहणे यथाश्रुतमिदं मध्यं किञ्चित्सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्धपुराण्यत्तर्गतानि तच्छब्दवाच्यानि ज्ञेयानि। “लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्धं यमकोटिषुर्याम्। अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव” इति भास्कराचार्योक्तं भूगोले उक्तनगरीणां भूपरिधिचतुर्थांशात्तरत्वात् सङ्गच्छते। अथ भारतादिषु त्रिषु वर्षसञ्ज्ञेषु भारतकेतुमालकुरुवर्षेषु तद्वद्भद्राश्ववर्षोपरिगवत्। एवकारात् तन्न्यूनाधिकव्यवच्छेदः। परिभ्रमन् परिभ्रमेण स्वस्वाभिमतस्थानोपरिस्थितिं कुर्वन् सूर्यः प्रदक्षिणं यथा स्यात् तथा सव्यक्रमेण स्वस्थाना दक्रमेणेति यावत्। उक्तचतुर्वर्षेषु मध्योदयार्धरात्र्यस्तकालान्मध्याह्नोदपार्धरात्र्यस्तसञ्ज्ञान् कालान् कुर्यात्। एतदुक्तं भवति। भारतर्षोपरिगतेऽर्के भारतकेतुमालकुरुभद्राश्ववर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ताः स्युः। केतुमालवर्षेपरिगतेऽर्के केतुमालकुरुभद्राश्वभारतवर्षेषु क्रमेण मध्याह्नमूर्योदयार्धरात्रास्ताः। कुरुवर्षोपरि गतार्के कुरुभद्राश्वभारतकेतुमालवर्षेषु कमेण मध्याह्नसूर्योदय र्धरात्रास्ता भवन्तीति” र० ना०।। ननु ग्रहाणा गतिसद्भावात् प्रतिदेशं याम्योत्तरयोर्ग्रहगमनं प्रतिक्षणं च विलक्षणं भासतां परन्तु नक्षत्राणां गत्यभावात् प्रतिक्षणं भ्रमेणैकत्रावस्थानाभावेऽपि प्रतिदेशमेकरूपावस्थानं कुतो न?। एवं ध्रुवयोः परिभ्रमस्याप्यभावात् सदा सर्बत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह” र० ना०। “ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः। निरक्षाभिमुखं यातुर्विपरीते नतोन्नते” सू० सि०।। “मेरुं मेरोरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं प्रयास्यतो गच्छतः पुरुषस्य ध्रुवोन्नतिः क्रमेणोत्तरदक्षिणयांर्ध्रुवयोरौच्च्यं भवति। भचक्रस्य नक्षत्राधिष्ठितगोलमध्यभागवृत्तस्य नतिः क्रमेण दक्षिणोत्तरयोर्नतत्वं भवति। मेरोर्निरक्षदेशाभिमुखं गच्छतः पुरुषस्य नतोन्नते पूर्वेक्ते व्यस्ते भवतः। उत्तरभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतः पूर्वोक्तस्थानापेक्षयोत्तरघ्रुवस्य नतत्वं पूर्वस्थानापेक्षया भचक्रस्योन्नतत्वम्। एवं दक्षिणभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतः पूर्वस्थानापेक्षया दक्षिणध्रुवस्य नतत्वं भचक्रस्योन्नतत्वमिति”। अथ कुत एवमित्यतः “कथं पर्य्योति भगणः सग्रहोऽयं किमाश्रयः” प्रश्नस्योत्तरं भचक्रभ्रमणवस्तुस्थितिमाह” र० ना०। “भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः। पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्” सू० सि०। “भचक्रं नक्षत्राधिष्ठितभूर्त्तगोलरूपं ध्रुवयोर्दक्षिणोत्तरस्थिरतारयोर्बद्धं ब्रह्मणा निबद्धं नियतवायुगतिना गोलाकारेण प्रतिबद्धं प्रवहानिलैः प्रवहवाय्वंशैः स्वस्वस्थानस्थैक्षिप्तं स्वस्वस्थानामिघातं प्राप्तं सदजस्रं निरन्तरं पर्येति। पश्चिमाभिमुखं भ्रमतीत्यर्थः। ननु नक्षत्रचक्रं वायुना भ्रमति ग्रहास्त्ववोऽधःस्थाः सम्बन्धाभावात् कथं भ्रमन्तीत्यत आह तन्नद्धा इति। ग्रहाणां शन्यादीनां कक्षा मार्गा वाय्वंशरूपा भचक्रान्तर्गता आकाशस्था यथाक्रममधोऽधस्तन्नद्धा महाप्रवहवायुगोलस्थापितभचक्रे वायुसूत्रेण निबद्धा अतो भचक्रेण सह भ्रमन्ति तत्रस्था ग्रहा अपि भ्रसन्तीति किं चित्रम्। तथाच प्रवहवायुगोलमध्यस्थविषुवद्वृत्तपर्वापरनिरक्षदेशे ध्रुवयोः क्षितिजस्थत्वाद्भचक्रस्य मस्तकोपरिभ्रमणाच्च मेर्वग्राभिमुखं प्रयातुर्ध्रुव उच्चो भवति। तत आसन्नात्वाद्भचक्रं नतं भवति। ततो दूरत्वाद्ध्रुवो नत्वाभचक्रमुन्नतं भवतोति सर्वं युक्तम्। “सुरासुराणामन्योन्यमहोरात्रं विपर्य्ययात्” “किमर्थं वा कथं वा स्यादिति”। “पित्र्यं मासेन भवतीति” प्रश्नयोरुत्तरमाह” र० ना०। “सकृदुद्गतमब्दाधें पश्यन्त्यर्कं सुरासुराः। पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि” सू० सि०। “यथा देवदैत्या एकवारमुदितं सूर्यं सौरवर्षार्द्धपर्यन्तं पश्यन्ति। तथा पित रश्चन्द्रविम्बगोलोध्वेस्थिताः पक्षं पञ्चदशतिथिपर्यन्तं पश्यन्ति। नरा भूमौ स्वदिनपर्यत्तमर्कं पश्यल्यतः “पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्”। इति सर्वं युक्तम्। अतएव “विधूर्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधिति मामनन्ति। पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्माद्द्युदलं तदैषाम्।। भार्धातरत्वान्न विधोरधःस्थं तशान्निशीथः स्वलु पौर्णमास्याम्। कष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्” इति भास्कराचार्येण। बस्तीर्योक सङ्गच्छते। अथ प्रसङ्गादूर्ध्वस्थस्याल्पभगणानामधःस्थस्याधिकभगणानां युक्त्या प्रतिपादनार्थं प्रथमं कक्षाया ऊर्ध्वाषःक्रमेण महदल्पत्वं तत्रस्थभागामां महदल्पपदेशत्वं चाह” र० ना०। “उपरिस्थस्य महती कक्षाऽल्पाधःस्थितस्य च। महन्या कक्षया भागा महालोऽल्पास्तथाल्पया” सू० सि०।। “ऊर्ध्वस्थस्य ग्रहस्य कक्षा वायुवृतमार्गरूपा महती महापरिधिप्रमाणा। अधःस्थस्य प्रहस्य कक्षा अल्पाऽल्पपरिधिपगाणा। चो निश्चयार्थे। लघुकक्षाणां महाकक्षान्तर्गतत्वेन महाकक्षाणां चात्तर्गतलघुकक्षात्मनोर्ध्वावःस्थयोर्महदल्प परिधिके कक्षे अन्यर्थोक्तस्वरूपानुपपत्तेः। एवं महति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कने भागा एकैकभागप्रदेशा महत्या कक्षया कृत्वा महान्तो बहुस्थलात्मकाः, लघुनि वृत्ते तदङ्कने तथा भागा अल्पया कक्षया कृत्वाल्पा अल्पस्थलात्मकाः। क्रमेणैकैकभागप्रमाणमधिकाल्पं न सम चक्रांशपूर्त्यनुपपत्तेरिति तात्पर्यम्। अथोर्ध्वाधःक्रमेण ग्रहभगणभेगकीलयोर्महदल्पत्वमाह” र० ना० “कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः। ग्रहः कालेन महता मण्डले महति भ्रमन्” सृ० सि०। “अल्पभ्रभणाश्रितः। अल्पं भ्रनणं परिधिमानं यस्याः साल्पभ्रमणाऽवास्थकक्षा। तत्स्थो ग्रहोऽल्पेन समयेन भगणं द्वादशराश्यात्मकं भुङ्क्तेऽतिक्रमते। महति मण्डले ऊर्ध्वस्थकक्षायामित्यर्थः। भ्रमन् गच्छन् महता बहुना समयेन द्वादश राशीन् भुङर्क्त वक्ष्यमाणयोज गतेरभिन्नत्वात्। अथातएवोर्ध्वावःक्रमेण ग्रहयोर्भगणास्तुल्यकालेऽल्पा बहवो भवन्तोति सेदाहरणमाह” र० ना० “स्वल्पयाऽतो बहून् भुङ्क्ते भगणान् शीतदीधितिः। महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः” सू० सि०। स्वल्पपमाणया कक्षया। तुकारादतिक्रामंश्चन्द्रो बहुप्रमाणान् भगणान् बहुवारं द्वादश राशीनित्यर्थः। भुङक्ते। महाप्रमाणया कक्षया गंच्छन् शनिस्ततश्चन्द्रात् स्वल्प भगणमल्पपमाणान् भगणान् जात्यभिप्रायेणैकवचनम्। अल्पवारं द्वादश राशीन् भुङ्क्ते। अतएघ शनैश्चर इत्युक्तम् अथ “ग्रहर्क्षकक्षाः किंम त्राः” इति प्रश्नस्योत्तरं विवक्षुः प्रथमं नक्षत्राणां कक्षामानमाह” र० ना० “भवेद्भकक्षा तिग्मांशीर्भ्रमणं षष्टिताडितम्। सर्वोपरिष्टाद्भमति योजनैस्तैर्भमण्डलम्” सू० स०। सूर्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम् “खखार्थैकसुरार्णवाः” इति वक्ष्यमाणं ४३३१५०० षष्ट्या गुणितं २५९८९०००० सन्नक्षत्राणां कक्षा नक्षत्राविष्ठितगोलस्य मध्यवृत्तं स्यात्। तैर्तक्ष कक्षामितैर्योजनैर्भमण्डलंनक्षत्राधिष्ठितगोलमध्यवृत्तं र्सोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्य उपरि दूरं भ्रमति भूगोलादभितः पम्भ्रिमति। अत्रेपपत्तिः। नक्षत्राणां गत्यभावाच्छनेरप्यत्यूर्ध्वं नक्षत्रमण्डलं तत्र यदि सूर्यगत्या सूर्यकक्षा तदा नक्षत्रगत्यभावेऽप्येककलागतिकल्पनयानुपातान्यथानुपपत्तितया “कल्प्यो हरो रूपमहारराशेः” इतीच्छाह्रामे फलवृद्ध्यपेक्षितत्वाद्व्यस्तानुपातो लाघवात् सूर्यगतिः षष्टिकलामिता च भगवता कृता। नक्षत्रगतेरभावाच्चेति षष्टिताडितमित्युपपन्नम्। अथ ग्रहकक्षाणां मानज्ञानार्थमाकाशकक्षामानम् “कियतीतत्करव्याप्तिः” इति प्रश्नस्योत्तरमाह र० ना० “कल्पोक्तं चन्द्रभगणा गुणिताः शशिकक्षया। आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः” सू० सि०। “कल्पोक्तन्धन्द्रभगणाः “एते सहह्रगुणिताः कलपे स्युर्भगणादयः” इत्युक्त्वां युगचन्द्र गणाः ५७७५३३३६, सहस्रगुणिताः ५७७५३३३६०००, कलपचन्द्रमगणा” इत्यर्थः। चन्द्रकक्षया “स्यत्रयाब्धिद्धिदहना” इति ३२४०००, वक्ष्यमाणया गुणिता तद्मिताकाशस्य कक्षा १८७१२०८०८६४००००००, परिधि- रूपा ज्ञेया। धीमतेनि शेषः। नन्वनन्ताकाशस्य कथं प रधिरित्यत आह। करव्याप्तिरिति। सूर्यस्य किरणप्रचारस्तयाकाशकक्षापरिमित इत्यर्थः। तथाच यद्देशावच्छेदेन सूर्यकिरणप्रचारस्तद्देशावच्छिन्नाकाशगोलस्य ब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भावः। अत्रोपपत्तिः। समनन्तरमेव यद्भगणभक्ता खकक्षा तस्य कक्षा स्यादित्युक्तेर्भगणकक्षाघाता खकक्षा सिद्धा। अतश्चन्द्रभगणकक्षयोर्वातः खकक्षातुल्य एवेति दिक्। अथ ग्रहाणां कक्षानयनं योजनगत्यानयनं चाह” र० ना० “सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्। कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता” सू० सि०। “सार्ककरव्याप्तिरूपाकाशकक्षा यत्कल्पमगणैर्यस्य कलपभगणैर्भक्ता फलं तस्य कक्षा भवेत्। एवकारो निश्चयार्थे। खकक्षा कल्परविसावनैर्भक्ता प्राप्तं फलं सर्वेषामुक्तभगणसम्बन्धिनां ग्रहादीनामह्नो दिवसस्य दिनसम्बन्धिनीत्यर्थः। प्राग्गतिर्योजनात्मिका कथिता। अत्रोपपत्तिः। कल्पभगणकक्षावातरूपाकाशकक्षा कल्पभगणभक्ता कक्षा स्यादेव। कल्पे खकक्षामितयोजनानि ग्रहः कमतीति यदि कल्परविसावन दनेराकाशकक्षामितयोजनानि तदेकरपिसावनदिनेन कानी यनुपातेन पूर्वगतिर्योजनात्मिका प्रत्यहं तुल्येत्युपपन्नम्। अथ योजनात्मकगतेः कलात्यकग तं स्वीयामाह” र० ना० “भुक्तियोजनजा सङ्ख्या सेन्द्रोभ्रेमणसङ्गुणा। खकक्षप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिकाः” सू० सि०। गतियोजनोत्पन्ना या सङ्ख्या चन्द्रस्य भ्रनणसङ्गुणा कक्षया ३०४०००, गुणिता खकक्षयाप्नाभिमतग्रहस्य कक्षवा भक्ता सा फलरूपा तिथ्याप्ता पञ्चदशभक्ता। तुकारात् फलं तस्याभिमतग्रहस्य गतिकला भवन्ति। अत्रोपपत्तिः। यदि कक्षायोजनैश्चकृ २१६००, कलास्तदा गतियोजनैः का इत्यनुपातेन गतिकलाः। तत्रापि चन्द्रकक्षा ३२४०००, पञ्चदशभक्ताश्चक्रकला २१६००, इति चक्रकलास्वरूपं धृतमित्युपपन्नम्। अथ किमुत्मेधा इति प्रश्नस्योत्तरमाह र० ना० “कक्षा भूकर्णगुणिता महीमण्डलभाजितः। ततकर्णा भूमिकर्णोना एहौच्च्यं स्वं दलीकृताः” सू० नि०। “ग्रहाणां योजनात्मिका कक्षा भूकर्णेन “योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि च” इत्युक्तभूव्यासेन षोडशशतेः(स्थूलेन)गुणिता भूपरिधिना (५०२६, १४/२५, स्थूलेन) तदागतेन भक्ता फलं तम्याः कक्षायाः कर्णा व्यासा भवन्ति। एते भूव्यासेन हीना अर्धिताः सन्तः स्वगृहीतव्याससम्बन्धिग्रहौच्च्यं ग्रहस्योच्चता भूमेः सकाशाद्भवति। अत्रोपपत्तिः। यदि भूपरिधिना भूव्यासस्तदा कक्षायोजनैः क इत्यनुपातेन कक्षाव्यासास्तेऽर्धिताः कक्षाव्यासार्धं भूगर्भकक्षापरिधिप्रदेशान्तरालरूपं भूपृष्ठात् तदन्तरज्ञानार्थं भूव्यासार्धेन हीनं भूपृष्ठात् कक्षौच्च्यं तत्र कक्षाव्यासा भूव्यासोना अर्धिताः कृता उभयथा समत्वात्। कक्षौच्च्यमेव ग्रहौच्च्यं ग्रहस्य तत्राधिष्ठानादिति। एतेन सिद्धग्रहौच्च्येभ्यः परस्परान्तरज्ञानं सुगममिति श्रीपति वाक्ये (तन्मानं वक्ष्यमाण स्पष्टम्) किमन्तरा इति प्रश्नस्योत्तरं स्वतः सिद्धमेवेति दिक्। अथोर्ध्वक्रमेण सिद्धाः कक्षा विवक्षु प्रथमं चन्द्रस्य कक्षां बुधशीघ्रोच्चकक्षां चाह। “खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः। ज्ञशीघ्रस्याङ्कखद्वित्रिकृतशून्येन्दवस्ततः” सू० सि०। “चन्द्रस्य कक्षा सहस्रगुणितसिद्धरामाः ३२४०००। तुकारादागमप्रामाण्येनाङ्गीकार्या। अन्यथान्योन्याश्रयापत्तेस्ततश्चन्द्रादूर्ध्वं बुधशीघ्रोच्चस्य कक्षा नवखदन्तवेद दशः १०५३२०९। यद्यपि बुधशीव्रोच्चमाकाशे प्रत्यक्षं नेति तत्कक्षोक्तिरयुक्ता तथा प बुधशीघ्रोच्चः गणानीतकक्षायां गत्यनुरोधेन चन्द्रेर्ध्वगायां बुधो भ्रमति। पूर्वं सूर्यशुक्रेन्दुजेन्दवः” इति क्रमोक्तेः। अन्यथा भगणैक्यादेककक्षायां रविबुधशुक्राणामवस्थितौ मण्डलभङ्गापत्तेरिति सूचनार्थमुक्ता। अथ शुक्रशीघ्रोच्चस्य कक्षां सूर्यबुधशुक्राणामभिन्नां कक्षां चाह” र० ना० “शुक्रशीघ्रस्य सप्ताद्रिरसाब्धिरसषड्यमाः। ततोऽर्कबुवशुक्राणां खखार्थैकसुरार्णवाः” सू० सि०। “तृध्व शुक्रशीघ्रोच्चस्य कक्षाऽश्वाद्र्यङ्गवेदषट्रसपक्षाः २६६४६७७ शुक्रावस्थानसूचनार्थमुक्ता। ततस्तदूर्ध्वं मूर्यबुधशुक्राणां भगणैक्यादभिन्ना कक्षा खखपञ्चभूदेवाब्धयः ४३३१५००। यद्यपि बुधशुक्रयोः सूर्याधःस्थत्वात् केवलं सूर्यत्रक्षो वक्तुमुचिता तथापि यदि एतया फक्षयैको भगणस्तदा कल्परविसावनदिनैः स्ववक्षामितयोजनानि तदाहर्गणेन कानीत्यमुपातागतयोजनैः क इत्यनुपातेन सूर्यबुधशुक्राणामभिनुत्वसिद्व्यर्थं बुधशुक्रयोरप्युक्ता अन्यथा समत्वानुपपत्तरिति। अथ भौमस्य कक्षां चन्द्रमन्दोच्चस्य कक्षां चाह” र० ना० “कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः। चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः” सू० सि०। “भौमस्य। अपिशब्दात् मूर्यादूर्ध्वकक्षा नबखनपषडिन्द्रसर्पाः ८१४६९०९। चन्द्रप्रन्दोच्चस्य कक्षा वेदाहिवेदसर्पपक्ष- रामनागरामाः ३८३२८४८४। इयमप्याकाशे न दृश्या तथापि गतयोजनैश्चन्द्रोच्चज्ञानायोक्ता। अथ गुरुराह्वोः कक्षे आह, र० ना०। “कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः। स्वर्मानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः” सू० सि०। “वृहस्पतेर्भौमाच्चन्द्र च्चाद्वोर्ध्वं कक्षा वेदाङ्गमुनिपञ्चस्वरराम चन्द्रशराः ५१३७५७६४। राहोः कक्षा वेदाङ्गगजयमसप्तपञ्चाशीतयः ८०५७२८६४। इयमदृश्यापि राहोर्गतियोजनैर्ज्ञानार्थमुक्ता। अत्रापि पातस्य चक्रशुद्धत्वमवधेयम्।। अथ शनेः कक्षां नक्षत्राधिष्ठितमूर्तगोलमध्यकक्षां चाह र० ना०। “पञ्चबाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः। भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः” सू० सि०। “ततो वृहस्पतेराहोर्वोर्ध्वं शनेः कक्षा पञ्चपञ्चद्व्यष्टषट्रससप्तार्काः १२७६६८२५५। नक्षत्राणां गोलमध्ये कक्षा शनेरूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि २५९८९००१२। यद्य प “भवेद्भकक्षा तीक्ष्णंशोर्भ्रमणं षष्टिताडितम्” इत्यनेनोक्त भकक्षाया द्वादशान्तरितत्वादयुक्तत्वं तथापि “सैव यत्कल्पभगणैः” इत्यनेन सूर्यकक्षाया उक्त्या द्वादशाधोऽवयवस्य निबन्धने त्यागेऽपि भकक्षर्थं भगवता गृहीतत्वाददोषः। एतेनाधोऽवयवस्यार्धन्यूनत्वन त्यागोऽर्धाभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानिबन्धेन कृतमि त सूचितम्। ननु चन्द्रकक्षाया आगमप्रामाण्येनाङ्गीकारे सर्वकक्षाणामागमप्रामापयापत्त्या “सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्” इति कक्षानयनं व्यर्थम्। अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत आकाशकक्षैरागमप्रामाण्येनाङ्गीकार्येति वसन्ततिलकेनाह” र० ना०। “खव्योमखत्रयखसागरषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः। व्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यतरे दिनकरस्य करप्रसारः” सू० सि०।। १८७१२०८०८६४०००००० मितयोजनानि” र० ना०। कक्षादीनां योजनमानभेदेऽनुपदं वक्ष्यमाणस्य सि० शि० वाक्यस्य सूक्ष्मत्वादविरोधः)। खगोले अगस्त्यादीनां स्थानदेशमाह यथा “अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः। विंशे च मिथनस्वांशे मृगव्याधो व्यवस्थितः। विक्षपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात्। हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ। अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ। गोलं बद्ध्वा परीक्षत पिक्षपं ध्रुवकं स्फुटम्” सू० सि० “स्वकीयात् क्रान्तिविभागस्थानात् (२४) दक्षिणस्यामशीत्यंशैस्तारात्मकोऽगस्त्यो मिथुनान्तगः कर्काद्यभागे स्थितः। अगस्त्यनक्षत्रस्य राशित्रयं (९०) ध्रुवकः। दक्षिणविक्षेपोऽशीतिरित्यर्थः। मृगव्याधो लुब्धको मिथुनराशेर्विंशतिभागे (८०) स्थितः। चकारः समुच्चये। लुब्धकनक्षत्रस्य रात्रिद्वयं विंशतिभागा ध्रुवक इत्यर्थः। दक्षिणस्यां चत्वारिंशता भागैः परिमितस्तस्य च क्रान्तिवृचस्थानाधिक्षपः। वृषराशौ वह्निब्रह्महृदयौ द्वाविंशभागे स्थितौ (५०) वह्निब्रह्महृदयनक्षत्रयोर्घाविंश तभागाविकैकराशिर्ध्रुवकः। तौ वह्निब्रह्महृदयौ। अष्टाभिस्त्रिंशता। चकारः क्रमार्थे। एवकारो न्यूनाधिकव्यवच्छदार्धः। उत्तरेणोत्तरस्यामित्यर्थः। विक्षिप्तौ विक्षेपवन्तौ। वह्नेर्बिक्षेपोऽष्टभाग उत्तरः। ब्रह्महृदयस्योत्तरो विक्षेपस्त्रिंशदित्यर्थः। नन्वेते ध्रुवाविक्षपाश्च कालक्रमेण नयता अनियता वेत्यत आह नोलमिति। गोलं वक्ष्यमाणं बद्ध्वा वशशलाकादिभिर्निबध्य स्फुटं विक्षेपं क्रान्तिसंस्कारयोग्यं ध्रुवामिमुखं ध्रुवक स्फुटमायनदृक्कर्मसंस्कृतं परीक्षेत। स्वस्वकाले दृग्गोचरसिद्धमङ्गीकुरुत। तथा च क्रान्तिसंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवकयोरयनांशवशादस्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन लाघपार्थमायनदृक्कर्मसंस्कृता ध्रुवाः क्रान्तिसंस्क रयोग्यविक्षेपाश्च नियता उक्ताः। कालान्तरे गोलयन्त्रेण वेधस्तु गोलबन्धोक्तविधिना गोलयन्त्रे कार्यः”। तत्र खगालस्योपरि भगोलम्, आधारवृत्तस्योपरि बिषुवद्वृत्तम्। तत्र यथाक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बद्ध्वा ध्रुवयष्टिकीलथोः प्रोतमन्यच्चलं भवेधवलयम्। तच्च भगणांशाङ्कितं कार्यम्। ततस्तदगोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या रेवतीतारां विलेक्य क्रान्तिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागे रेवतीतारायां निवेश्यं मध्यगतयैव दृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्या उपरि तद्व धवलयं निवेश्यम्। एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य च यः सम्पातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा ज्ञेयाः। वेधवलये तस्यैव सम्पातंस्य योगत रायाश्च यावन्तोऽन्तरेंऽशास्तावन्तस्तस्य यिक्षपांशा दक्षिणा उत्तरा वा वेद्याः। अथ रोहिणीशकटभेदमाह” र० ना०। “वृषे सप्तदशे भागे यस्य याम्योऽशकद्वयात्। विक्षपोऽभ्यधिको भिन्द्याद्रोहिण्याः शकटं तु सः” सू० सिः “वृषराशौ सप्तदशेंऽशे यस्य ग्रहस्य भागद्वयाधिको विक्षेपो दक्षिणः स ग्रहो रोहिण्याः शकटं शकटाकारसन्निवेशं भिन्दात्। तन्मध्यगतो भवेदित्यर्थः। तुकाराद्ग्रहविक्षेपो रोहिणीविक्षेपादल्प इति विशेषार्थकः। बिक्षेपस्य दक्षिणस्य रोहिणीविक्षेपादधिकत्वे शकटाद्बहिर्दक्षिणभागे ग्रहस्य स्थितत्वेन तद्भेदकत्वाभावात्। अत्र शकटाग्रिमनक्षत्रस्य ध्रुव एकराशिः सप्तदशांशाः ४७। दक्षिणः शरो भागद्वयमिति वेधसिद्धा स्पष्टा युक्तिः” र० ना०। अथ ब्रह्मसञ्ज्ञकनक्षत्रावस्थानमाह। “पूर्वस्यां ब्रह्महृदयादशकैः पञ्चभिः स्थितः। प्तजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः” सू० सि०। “ब्रह्महृदयस्थानात् पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारात्मको ब्रह्मा क्रान्तिवृत्ते स्थितः। कुत्रेत्यत आह। वृषान्त इति। वृषान्तनिकटे। एकराशिः सप्तविंशत्यंशा ५७ ब्रह्मध्रुवक इत्यर्थः। अस्य विक्षेपमाह। असाविति। ब्रह्मा उत्तरस्यामष्टत्रिंशद्भागैः स्थितः। अष्टत्रिंशद्भागा अस्य विक्षेप इत्यर्थः” र० ना०। “अपांवत्सस्तु चित्रायामुत्तरेंऽशैस्त पञ्चभिः। वृहत्किञ्चिदतो भागैरापः षडभिस्वथोत्तरे” सू० सि०। “चित्रायाः सकाशादपांवत्ससञ्ज्ञकस्तारात्मकः पञ्चभिर्भागैरुत्तरस्यां स्थितः। प्रथमतुकारश्चित्राध्रुवतुल्यध्रुवकार्थकः। द्वितीयतुकारश्चि त्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वादपांवत्सविक्षेप उत्तरस्त्रिभाग इति स्फुटार्थकः। अतोऽपांवत्सात् किञ्चिदल्पात्तरेण वृहत् स्थूलतारात्मक आपसञ्ज्ञकः। तथाऽपांवत्सात् षड्भिरंशैरुत्तरस्यां स्थितश्चित्राध्रुवक एवापस्य उत्तरो नवांशः” र० ना०। तारास्वरूपादिकम् अश्लेषाशब्दे ४९९ पृ० दर्शितं तेषां ध्रुवकविक्षेपरूपशरयोरानयनविधा सू० सि० दर्शिता यथा “प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहतः। भवन्त्यतीतधिष्ण्यानां भोगलिप्ता युता ध्रुवाः” सू० सि० “भानामश्विन्यादिनक्षत्रणामुत्तराषाढाभिजिच्छ्रवणधनिष्ठावर्जितानां लिप्तिका भोगसञज्ञाः कलाः प्रोच्यन्ते समनन्तरमेव कथ्यन्ते। अथानन्तरं स्वभोगः स्वाभीष्टनक्षत्रभोगः कलात्मको वक्ष्यमाणो दशभिर्गुणितः कार्यः। तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोगलिप्ताः। भभोगोऽष्टशती लिप्ता इत्युक्ताष्टशतकलाः प्रत्येकं युताः। अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशतं युतमित्यर्थः। ध्रुवा नक्षत्राणां भवन्ति” अथ प्रति- ज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिजिच्छ्रवणधनिष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह” र० ना०। “अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः। अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा। कृतेषवो युगरसाः शून्यवाणा वियद्रसाः। खवेदाः सागरनगा गजागाः सागरर्तवः। मनवोऽथ रसा वेदा वैश्वमाप्यार्धभोगगम्। आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः। त्रिचतुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु। स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः। रन्ध्रादयः क्रमादेषां विक्षेपाः स्वापदक्रमात्। दिङ्मासविषयः सौम्ये याम्बे पञ्चदिशो नव। सौम्ये रसाः खं याम्येऽगाः सौम्ये खार्कास्त्रयोदश। दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे। याम्येऽध्यर्धत्रिककृता नवसार्धशरेषवः। उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिशदेव हि। दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे। भागाः षड्विंशतिः खं च दस्रादीनां यथाक्रमम्” सू० सि०। “अश्विन्यादिनक्षत्राणां क्रमाद्भोगा एते। तत्राश्विन्थाम् अष्टचत्वारिंशत् कलाः भरण्याश्चत्वारिंशत्। कृत्तिकायाः कलाः पञ्चषष्टिः। रोहिण्याः सप्तपञ्चाशत् कलाः। मृगशिरसोऽष्टपञ्चाशत्। आर्द्रायाश्चत्वारः। अत्राब्धय इत्यत्र गोऽब्धयो गोग्नय इति वा पाठस्त्वयुक्तः शाकल्यसंहिताविरोधात् “सौरोक्तरुद्रभस्यांशास्त्र्यद्रयोऽगाब्धयः कलाः इति नार्मदोक्तं दशकलोनपञ्चदशभागा मिथुने सर्वजनाभिमतध्रुवको दशकलोनपञ्चदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः। पुनर्वसोरष्टसप्ततिः। पुष्यस्य षट्सप्ततिः। अश्लेषायाश्चतुर्द्दश। तथेति छन्दःपूरणार्थम्। मघायाश्चतुःपञ्चाशत्। पूर्वफाल्गुन्याश्चतुःषष्टिः। उत्तरफाल्गुन्याः पञ्चाशत्। हस्तस्य षष्टिः। चित्रायाश्चत्वारिंशत्। स्वात्याः चतुःसप्ततिः। विशाखाया अष्टसप्ततिः। अनुराधायश्चतुःषष्टिः। ज्येष्ठायाश्चतुर्दश। अनन्तरं मूलस्य षट्। पूर्वाषाढायाश्चत्वारः। उत्तराषाढाया ध्रुवकमाह। वैश्वमिति। उत्तराषाढाद्योगतारानक्षत्रम्। आप्यार्धभोगगम्। आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः धनूराशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम्। अष्टौ राशयो विंशतिभागा उत्तराषाढायाध्रुवः इत्यर्थः। एतेन पूर्वाषाढायोगतारायाः सकाशादुत्तराषाढायोगतारा विंशतिकलोनसप्तभांगान्तरिता। तेन पूर्वाषाढाध्रुवकोऽष्टराशय- श्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्तराषाढाया ध्रुवश्चत्वारिंशत्कलाधिकोक्तध्रुव इति पर्वतोक्तमपास्तम् ब्रह्मसिद्धातविरोधात्। अभि जिद्ध्रुवकमाह। आप्यस्येति। पूर्वाषाढाया अवसाने धनूराशेर्विंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया। चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यथः। एवकारोऽन्ययोगव्यवच्छेदार्थः। तेन संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम्। श्रवणस्य ध्रुवकमाह। वैश्वान्त इति। उत्तराषाढाया अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम्। नव राशयो दश भागाः श्रवणध्रुवक इत्यर्थः। धनिष्ठाया ध्रुवकमाह। त्रिचतुःपादयोरिति। श्रवणस्य तृतीयचतुर्थचरणयोः क्रमेणान्तादिसन्धौ मकरराशेर्विंशतिभागे श्रविष्ठा धनिष्ठा ज्ञेया। नव राशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः। तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलोनसप्तभागा निरस्तम्। शतताराया भोगमाह। स्वभोगत इति। धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्तभागावधेरित्यर्थः। शतताराया अशीतिर्भोगः। अतः प्राग्वद्ध्रुव इति ज्ञापनार्थं स्वभोगत इत्युक्तम्। शततारायाः स्थानं शततारकध्रुव इति पर्यवसन्नम्। अवशिष्टनक्षत्राणां भोगानाह। षट्कृतिरिति। पूर्वभाद्रपदायाः षट्त्रिंशत् कला भोगः। उत्तरभाद्रपदाया द्वाविंशतिः। रेवत्या एकोनाशीतिः। अथ ध्रुवकानयनं यथा। अश्विन्था भोगः। ४८। दशगुणितः। ४८०। अतीतनक्षत्राभावाद्भोगयोजनाभावः। अतोऽश्विन्याः फलात्मको ध्रुवः ४८०। राश्याद्यस्तु०। ८। भरण्या भोगः। ०। दशाहतः। ४००। अतीतनक्षत्रस्यैकत्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः। ०। २०। एवमार्द्राभोगः। ४। दशाहतः। ४०। अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन। ४०००। चतुःसहस्रात्मकन युतः कलाद्यो ध्रुवः। ४०४०। राश्याद्यस्तु। २। ७। २०। एवं पूर्वाषाढाया दशगुणितो भोगः। ४०। एकोनविंशतिगुणिताष्टशतेन। १५२००। युतः परिभाषया राश्याद्यो ध्रुवः। ८। १४। शततारात्या दशगुणितो भोगः। ८००। त्रयोविंशतिगुणिताष्टशतिन। १९४००। युतश्चतुविंशतिगुणिताष्टशतरूपो। १९२००। जातो ध्रुवो राश्याद्यः। १०। २०। पूर्वभा- द्रपदाया दशगुणितो भोगः। २६०। चतुविंशतिगुणिताष्टशतेन। १९२००। युतो। १९५६०। जातो ध्रुवो राश्याद्यः। १०। २६। उत्तराषाढाभिजिच्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद्भिन्नरीत्या ध्रुवका उक्ताः स्वादिस्थानाद्योगतारा यदन्तरकलाभिस्थितास्ता लाघवाद्दशापवर्तिता भोगसञ्ज्ञा उक्ताः। तथा च ब्रह्मसिद्धान्ते “अष्टौ विंशतिरर्घोन गजाग्निर्व्यर्धखेषवः। त्रितर्काः सत्रिभागाद्रिरसास्त्र्यङ्काश्च शट्शतम्।। नवाशा नवसूर्याश्च वेदेन्द्राः शरवाणभूः। खात्यष्टिः खधृतिर्गोऽतिधृतिर्विश्वाश्विनस्तथा।। वेदाकृतिर्गोदृग्थस्ताः क्वब्धिहस्ता युगार्थदृक्। खोत्कृतिस्त्र्यंशहीनाश्वरसहस्ताः खहस्तिदृक्।। खगोऽश्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः। मेषाद्यश्व्यादिमध्यांशाः षङंशोनाः खषड्गुणाः”।। इति। अथ नक्षत्राणां विक्षेपभागानाह एषामिति। उक्तध्रुवकसम्बधिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थः। स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थध्रुवकस्थानादित्यर्थः। विक्षेपा विक्षेपभागा दक्षिणा उत्तरा वा भवन्ति। तत्रोत्तरदिश्यश्विन्यादित्रयाणां दिङ्मासविषयाः क्रमेण दश द्वादश पश्चेत्यर्थः। दक्षिणदिशि रोहिण्यादित्रयाणां पञ्चदश नव। उत्तरस्यां पुनर्वसोः षड्भागाः। पुष्यस्य खं विक्षेपाभावः। अत्र पञ्चमाक्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षात्वान्न दोषः। दक्षिणस्मामश्लेषायाः सप्त। उत्तरस्यां मघादित्रयाणां शून्यं द्वादश त्रयोदश। दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ। अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत्। दक्षिणस्यां विशाखादीनां षण्णां साधैंकः त्रयं चत्वारः। नव सार्धपञ्च पञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागा अभिजितः षष्टिः। श्रवणस्य त्रिंशत्। धनिष्ठायाः षट्त्रिंशत्। एवकारो न्यूनाधिकव्यवच्छेदार्थः। चकारः पूरणार्थः। दक्षिणस्यां तुकारस्तथा। अर्धभागः शततारायाः। तुकारस्तथा। उत्तरस्यां पूर्वभाद्रपदायाश्चतुर्विंशतिः। तस्यामेव दिशि भागा विक्षेपभागा उत्तरभाद्रपदायाः षड्विंशतिः। रेवत्या विक्षेपाभावः। चकारः पूरणार्थः” र० ना०।। अत्र स्पष्टत्वात् अनेकेषां नक्षत्राणां ध्रुवका न दर्शिताः। सि० शि० प्रमिताक्षरायां तु यथाक्रमं सर्वेषांखरूपतो ध्रुवका दर्शिता यथा अ भ कृ रो मृ आ पु पु आ म पू उ ह चि ० ० १ १ २ २ ३ ३ ३ ४ ४ ५ ५ ६ ८ २० ८ २२ ६ ७ ३ १६ १८ ९ २७ ५ २० ३ ० ० २८ २८ ० २० ० ० ० ० ० ० ० ० स्वा वि अ ज्ये मू पू उ अ श्न ध श पू उ रे ६ ७ ७ ७ ८ ८ ८ ८ ९ ९ १० १० ११ ० १९ २ १४ १९ १ १४ २० २५ ८ २० २० २६ ७ ० ० ५ ५ ५ ० ० ० ० ० ० ० ० ० ० विक्षेपा यथा अ भ कृ रो मृ आ पु पु आ म पू उ ह चि १० १२ ४ ४ १० ११ ६ ० ७ ० १२ १३ १३ १ १० ३० उ उ उ द द द उ उ द उ उ उ द द ४५ स्वा० वि० अ० ज्ये० मू० पू० उ० अ० श्र० ध० श० पू० उ० रे० ३७ १ १ ३ ८ ५ ५ ६२ ३० ३६ ० २ ४ २६ ० २० ४५ ३० २० २० उ द द द द द द उ उ उ द उ उ उ २० सि० शि० ग्रहकक्षा अन्यविधा उक्ता यथा

“सार्धाद्रिगोमनुसुराब्धिमितार्ककक्षा ४३३१४९७१/२ चान्द्री सहस्रगुणिता जिनरामसंख्या ३२४०००। अभ्रेष्विभाङ्कगजकुञ्जरगोऽक्षपक्षाः २५९८८९८५० कक्षां गृणन्ति गणका भगणस्य चेमाम्” सि० शि०। शेषाणां ग्रहाणां कक्षाप्रमाणानि श्रीपतिनान्यथोक्तानि यथा “अष्ट्यङ्कषण्मनु गजाः ८१४६९१६ क्षितिनन्दनस्य ज्ञस्येशदन्तकृतखेन्दुमिता १०४३२११ थ सूरेः। रूपाश्विनागयुगशैलगुणेन्दुवाणाः ५१३७४८२१ खाग्न्यङ्गसागररसीत्कृतयः २६६४६३० सितस्य, भूधराहिमगनागरसर्तुक्ष्माधराश्विशशिनः १२७६६८७८७। शनिकक्षा” रव्यादीनां मन्दोच्चादिपरिधिमानसुक्तं सि० शि० “मन्दोच्चनीचपरिविस्त्रिलवोनशक्र १३। ४० भागा रवेर्जिनकलोनरदा ३१। ३६ हिमांशोः। खाश्वा ७० भुजङ्गदहना ३८ अमरा ३३ भवाश्च ११ पूर्णेषवो ५० निगदिताः क्षितिजादिकानाम्” सि० शि०। “इह ग्रहभ्रमणोपपत्त्यर्थं मन्दोच्चनोचवृत्तानि पूर्वैः कल्पितानि। तेषां प्रमाणान्येताबन्तो भागाः। अत्रोपपत्तिः। ग्रहस्य यन्त्रवेघविधिना यत् परमं फलमुत्पद्यते तस्य ज्या परमफलज्यान्त्यफलज्या चोच्यते। अन्त्यफलज्यातुल्यव्यासार्धेन यदृत्त- मुत्द्यते तन्नीचोच्चवृत्तम्। तत्परिधिस्त्रैराशिकेन। यदि त्रिज्याव्यासार्धे भांशाः ३६० परिधिस्तदान्त्यफलज्याव्यासार्धे किमिति लब्धं परिधिभागाः। एवमर्कादीनां त्रिलवोनशक्रा इत्यादय उत्पद्यन्ते। अथ भौमादीनां चलपरिधीनाह” प्रमि० सौरागमेण सूक्ष्मत्वान्नविरोधः।

“एषां चलाः कृतजिनास्त्रिलवेन हीना २४३। ४० दन्तेन्दवो १३२ वसुरसा ६८ वसुवाणदस्राः २५८। पूर्णाब्धयो ४०ऽथ भृगुजस्य तु मन्दकेन्द्रदोःशिञ्जिनी द्विगुणिता त्रिगुणेन ३४३८ भक्ता। लब्धेन मन्दपरिधी रहितः स्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी। उत्तरस्यां सप्तर्षिस्थानं ऋषिशब्दे १४५२ पृ० दर्शितं तेषां शतवर्षैरेकैकनक्षत्रभोगस्तत्र प्रमाणं वराहसंहिता वाक्यं तत्रोक्तम्। भचक्रञ्च द्वादशधा विभक्तमपि अश्विन्यादिभिः सप्तविंशतिनक्षत्रात्मकं तत्र त्रिभिस्त्रिभिर्नक्षत्रैर्नव वीथयः वृह० सं० उक्ता यथा “नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः। अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः कथिताः।। नागा तु पवनयाम्या नलानि पैतामहात्त्रिभास्तिस्रः। गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भाद्रपदे।। जरद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभं च मैत्राद्यम्। हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना।। तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः। तासामप्युत्तरमध्यदक्षिणावस्थितैकैका।। वीथीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य। नक्षत्राणां तारायाम्योत्तरमध्यमास्तद्वत्।। उत्तरमार्गो याम्यादि निगदितो मध्यमस्तु भाग्याद्यः। दक्षिणमार्गोऽषाढादि कैश्चिदेवं कृता मार्गाः”।। भचक्रस्थग्रहाणां प्राग्गतिभेदकारणमुक्तं सू० सि० यथा “पश्चाद् व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः। जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः”।। सू० सि०।” “पश्चादनन्तरं पुनरावृत्त्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रैस्तारकादिभिः सह ग्रहाः सूर्य्यादयोऽतिजवात् प्रवहवायुसत्वरगतिवशात् सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्गगाः खकक्षावृत्तस्था जीयमाना नक्षत्रैः पराजिता नक्षत्राणामग्रे गमनात्। अत एव लज्जयेव गुरुभूता इति तात्पर्यार्थः। तुल्यं समम्। एवकारादधिकन्यूनव्यवच्छेदः। लम्बन्ते स्वस्थानात् पूर्व्वस्मिन् लम्बायमाना भवन्ति। यथा लज्जितः पश्चाद्भवति नाग्रे। तुकारादधोऽधः कक्षाक्रमानुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनि- रतिगुरुभूतस्तस्मात् किञ्चिन्न्यूनो गुरुस्तस्मादपि भौम इत्यादि यथोत्तरम्। यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्य लघ्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति। एतदुक्तं भवति। व्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्त्तो गोलः स्थापितस्तदन्तर्गताः स्वस्वाकाशगोलस्थाः शन्यादयो नक्षत्राधिष्ठितमूर्त्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूपमेषादिप्रदेशसमसूत्रस्थाः स्थापिताः। क्रान्तिवृत्तं तु मेषतुलास्थानेविषुवद्वृत्तलग्न सम्पातात् त्रिभान्तरितक्रान्तिवृत्तप्रदेशौ स्वासन्नविषुवद्वृत्तप्रदेशाभ्यां चतुर्बिशत्यंशान्तरेण दक्षिणोत्तरौ मकरकर्कादिरूपौ तदेवं द्वादशराश्यात्मकं वृत्तं ग्रहचारभूतम्। विषुवद्बृत्तं तु ध्रुवमध्यस्थ निरक्षदेशोपरिगम्। तत्र प्रवहवायुना स्वाघातेन मूर्त्तो नक्षत्रगोलो नाक्षत्रषष्टिघटीभिः परिवर्त्यते। तदन्तर्गतवायुभिस्तदाघातेन वा ग्रहा भ्रमन्तोऽपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषादिप्रदेशेन समं न गच्छन्ति वायूनां स्वल्पत्वात् तदाघातस्याप्यल्पत्वाद्विम्बानां गुरुत्वाच्च। अतस्तत्स्थानाद्ग्रहाणां लम्बनं दृश्यते। अत एव नक्षत्रोदयकाले तेषां द्वितीयदिने नोदयः किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्तरमूर्द्धमागच्छतीत्यनन्तरमुदयः। लम्बनं तु शन्यादीनां कक्षानुरोधेन गुरुत्वाद्वायूनां तद्घातानां वा कक्षानुरोधेन बह्वल्पत्वात् तुल्यम्। यद्यपि वायोर्ध्रुवानुरोधेन सत्त्वाद्ग्रहावलम्बनं विषुवद्वृत्ते भवितुमुचितं न क्रान्तिवृत्ते, तथा च वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृत्तस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपपत्तिश्च। तथापि वायुनावलम्बितो ग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशासन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एव स्वसमसूत्रेणाकृष्यत इति नानुपपत्तिः। अत एव स्वमार्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता इत्यर्थकमुक्तमिति सङ्क्षेपः। अत एव ग्रहाणां लोके प्राग्गतित्वं सिद्धमित्याह” र० ना०। “प्राग्गतित्वमतस्तेषां भगणैः प्रत्यह गतिः। परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जत सू० सि०। “अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्गतयस्तद्भावः प्राग्गतित्वं सिद्धम्। लम्बनस्वरूपैव ग्रहाणां पूर्वगतिरुपपन्ना लोकैः कारणानभिज्ञैः प्रत्यक्षावगततया तच्छक्तिजनिता कल्पितेत्यर्थः। सा कियतीत्यत आह। भगणैरिति।। वक्ष्यमाणभगणैः प्रत्थहं प्रतिदिनं गतिः प्राग्गमनरूपा भगणानां यदि गत्युपपन्नत्वाद्भगणसम्बन्धिवक्ष्यमाणदिनैः सूर्य्यसावनैर्ग्रहभगणा लभ्यन्ते तदैकेन दिनेन केत्यनुपाताज्ज्ञेया। ननु ग्रहभगणानां तुल्य त्वाभावात् प्रतिदिनं ग्रहगतिर्भिन्नेति पूर्वं लम्बनरूपा ग्रहगतिरयुक्तोक्ता ग्रहलम्बनस्याभिन्नत्वादित्यत आह परिणाहवशादिति। परिणाहः कक्षापरिधिस्तद्वशात् तदनुरोधादियं ग्रहगतिर्भिन्नाऽतुल्या। अयमभिप्रायः। ग्रहाणां लम्बनं तुल्यप्रदेशे न, परन्तु स्वस्वकक्षायां तत्तत्प्रदेशे तुल्ये याः कलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा लघुकक्षावृत्ते बह्व्यः सर्वकक्षापरिधीनां चक्रकलाङ्कितत्वात् भगणास्तु गतिवशादेव यस्य कक्षावृत्तं महत् तत्राल्पा यस्य च लघु कक्षावृत्तं तस्य बहवस्तदुपपन्ना गतिरपि तथेति न विरोधः। नन्वेकरूपगतिं विहाय भिन्नरूपा गतिः कथमङ्गीकृतेत्यत आह। तद्वशादिति भिन्नगतिवशाद्भानि राशीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्तीत्यर्थः। तथा च ग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरुपयुक्ता नैकरूपेति भावः। अथ भभोगे विशेषं वदन् वक्ष्यमाणभगणस्वरूपमाह” र० ना०। “शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः। तेषां तु परिवर्त्तेन पौष्णान्ते मगणः स्मृतः” सू० सि०। “अथशब्दः पूर्वोक्त विशेषसूचकः शीघ्रगतिग्रहस्तानि भान्यल्पेन कालेन भुनक्त्यल्पगतिर्ग्रहो बहुकालेन भुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोस्तुल्य कालेत न भवतीति विशेषार्थः। तेषां राशीनां परिवर्त्तेन भ्रमणेन। तुकाराद्ग्रहादिगतिभोगजनितेन भगणः प्राज्ञैरुक्तः। क्रान्तिवृत्ते द्वादशराशीनां सत्त्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थानमारभ्य चलितो ग्रहः पुनस्तत् स्थानमायाति स चक्रभोगः परिवर्त्तसञ्ज्ञोऽपि द्वादशराशिभोगाद्भगण इत्यर्थः। ननु क्रान्तिवृन्ते सर्वप्रदेशेभ्यः परिवर्त्तसम्भवादत्र कः परिवर्त्तादिभूतः प्रदेश इत्यत आह पौष्णान्त इति। सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगताराऽऽसन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितो ग्रहचलनाच्च पौष्णस्य रेवतीयोगताराया अन्ते निकटे पदेशे तथा च रेवतीयोगतारामन्नाग्रिमस्थानमेवाद्यन्तावधिभूतमिति भावः” र० ना०। सूर्य्यादिग्रहाणां महायुगे भगणमानप्युक्तं तत्रैव।

“युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः। कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिताम्” सू० सि०। “महा- युगे ४३२०००० वर्षे सर्थ्यबुधशुक्राणां खानां चतुष्कमेकस्थानादिसहस्रस्थानान्तचतुःस्थानस्थितानि शून्यानि ततोऽयुतादिप्रयुतस्थानपर्य्यन्तं दन्तसमुद्रास्तथा च युगे सौरवर्षाणि खाभ्रखाम्रद्विरामवेदमितानि ४३२०००० भगणा द्वादशराशिभोगात्मकपरिवर्त्तानां सङ्ख्या भवन्तीति शेषः। भौमशनिवृहस्पतीनां यानि शीघ्राणि शीघ्रोच्चानि तेषामेत न्मिता भगणाः। चकारः समुच्चयार्थकोऽनुसन्धेयः। अत्र कक्षाक्रमेण चारक्रमेण वा गुरोः खलु मध्यगता भवतीति न तथोद्देशः स्वतन्त्रस्य नियोगानर्हत्वाद्वा। नन्वाकाश एषां विम्बाभावादवलम्बनासम्भवेन गत्यभावात् कथं भगणा उक्ता इत्यत आह पूर्वयायिन मिति पूर्व्वगामिणाम्। तथा च तेषामदृश्यरूपाणां पूर्व्वगतिसद्भावाद्भगणोक्तौ न क्षतिः। एषां स्वरूपादिनिर्णयस्तु स्पष्टाधिकारे प्रतिपादयिष्वते। अथ चन्द्रभौमयोर्भगणानाह” र० ना०। “इन्दो रसाग्नित्रित्रीषुसप्तभूधरमा र्गणाः। दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु” सू० सि०। “पूर्वश्लोकोक्तभगणा इत्यत्राग्रिमश्लोकेष्वप्यन्वेति। भूधराः सप्त न तु पर्वतस्य धराभिधानत्वादेकसप्ततिः मार्गणाः शरास्तथा च चन्द्रस्य भगणाः षडग्निदेवपञ्चसप्तसप्तपञ्चमिताः ५७७५३३३६ भौमस्य तुकारादाकाशस्थविम्बात्मकस्येति पुनरुक्तिभ्रमवारणार्थं दन्ताष्टषडाकृतिमिताः २५६८३२। अथ बुधशीघ्रोच्चगुर्योर्भगणानाह” र० ना०। “बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः। वृहस्पतेः खदस्राक्षिवेदषड्बह्नयस्तथा” सू० सि०। “वुधशीघ्रोच्चस्यादृश्यरूपस्य पूर्वगतेर्भगणाः षष्टिसप्ततित्र्यङ्कात्यष्टिमिताः १७९३७०६० वृहस्पतेस्तथा बिम्बात्मकस्येति पुनरुक्तिभ्रमवारणाय नखद्विवेदषड्राममिताः ३६४२२०। अथ शुक्रशीघ्रोच्चशन्यार्भगणानाह” र० ना०। “सितशीघ्रस्य षट्सप्तत्रियमाश्विखमूधराः। शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः” सू० सि०। “शुक्रशीघ्रोच्चस्यादृश्यरूपस्य पूर्वगतेर्भगणाः षट्सप्तत्रिद्विद्विखसप्त ७०२२३७६ एतेन भूधरा इत्यस्यैकसप्ततिरेकादश वार्थो निरस्तः। शवेर्विम्बात्मकस्याष्टषट्पञ्चरसेन्द्रमिताः १४६५६८ अथ चन्द्रस्योच्चपातयोर्भगणानाह” र० ना०। “चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे। वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः” सू० सि०। “चन्द्रमन्दोच्चस्य पूर्व्वगतेरदृश्यरूपस्य भगणा महायुगे रामनखाष्टाष्टवेदमिताः ४८८२०३। भातस्य चन्द्रशब्दस्य सन्निहितत्वाच्चन्द्रपातस्यादृस्य- रूपस्य वामं पश्चिमगत्या द्वादशराशिभोगात्मकपरिवर्त्तरूपभगणा महायुगे अष्टरामाकृ तरामद्विमिताः २३२२३८ अत्र युगग्रहणं वक्ष्यमाणग्रहोच्चपातभगणसम्बन्धिकल्पवारणार्थम्। ग्रहोच्चपातभगणास्तु युगे युगे नोत्पन्ना इत्यस्मिन् युगसम्ब न्धप्रसङ्गेनोक्ताः। मन्दोच्चपातस्वरूपादिनिर्णयस्तु स्पष्टाधिकारे व्यक्तो भविष्यति”। अथ युगे नाक्षत्रदिवसांस्तत्स्वरूपावगमाय ग्रहसावनदितस्वरूपं स्वसङ्ख्याज्ञानहेतुकं चाह” र० ना०।। “भानामष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः। भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युगे” सू० सि०। “भानां नक्षत्राणां स्वतो गत्यभावेऽपि प्रवहवायुना परिभ्रमणात् तत्सङ्ख्यातुल्या भगणाः स्वदिनतुल्याः। अत एवात्र बाममिति पूर्वोक्तस्य युक्तोऽन्वयः। अष्टद्व्यष्टनगाग्निजातिगजतिथिमिताः १५८२२३७८२८। ननु ग्रहाणामपि प्रवहवायुना परिभ्रमणनोदयसद्भावात् तेषां दिवसाः कथं ज्ञेया इत्यत आह। भोदया इति। उदयन्त्यस्मिन्नहनि स्वाद्यन्तावधिरूप इति व्युत्पत्त्योदयशब्देन दिनम्। तथा च भोदया नक्षत्रदिसा एते उक्ताः स्वैः स्वैः स्वकीयैः स्वकीयैर्भगणैः प्रागुक्तैर्वर्जिताः सन्तः स्वस्वोदया भिजनिजसावनदिवसा युगे भवन्ति। युग इत्यनेनाभीष्टकाले नाक्षत्रदिवसा ग्रहगतभोगादिना भगणादिनोना ग्रहसावनदिवसा अभीष्टा भवन्ति। परन्तु राशीन् पञ्चगुणितानंशादिकं दशगुणितं कृत्वा घट्यादिस्थाने होनं कार्य्यमन्यथा विजातीयत्वादन्तरानुपपत्तेरिति सूचितम्। अत्रोपपत्तिः यदि ग्रहाणां प्राग्गमनावलम्बनं न स्यात् तर्हि ग्रहोदयनक्षत्रोदययोरेकहेतुकत्वान्नाक्षत्रसावनदिवसयोरभेदःस्यात् अतो ग्रहाणां लम्बनेन नाक्षत्रादिदिवसेभ्यः सावनादिदिवसानामन्तरितत्वादवलम्बनजभगणान्तरेण युगे नाक्षत्रदिवसेभ्यो ग्रहसावनदिवसा न्यूना भवन्ति। प्रवहेण भगणतुल्यपश्चिमग्रहतुख्यानामकरणादिब्धुपपन्नं भोदया इत्यादि! अनेनैव भगणसाषनभोगो नाक्षत्रदिवसा इत्यव्यर्थसिद्वम्” र० ना०। महायुगे चान्द्रा दमासदिनसंख्यां तत्रोक्ता यथा “भवन्ति शशिनी मासाः सूर्य्येन्द भगणान्तरम्। रविमासोनितास्ते तु शेषाः स्युरधिमासकाः” सू० ति०। “सूर्यचन्द्रभगणयोरन्तरं चन्द्रस्य मासा मवन्ति ते चान्द्रतासा रविमासोनिताः। अत्र प्रथमं तुकारान्वयाद्द्वादशगुणितरविभगणरूपपक्ष्यसाणार्कमासैहृनिताः सतः शेषा अवशिष्टा ये चान्द्रमासास्तेऽधिमासा एव भवन्ति नान्ये। अनेन चान्द्रत्वमधिमासानां स्पष्टीकृतम्। अत्रोपपत्तिः। त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूपदर्शान्तावधेश्चान्द्रमासस्य द्वादशराशिमितेन सूर्य्येन्द्वन्तरेणैव सिद्धिः। कथमन्यथा दर्शान्ते मन्दशीघ्रयोः सूर्येन्द्वोर्योगस्य पुनर्दर्शान्ते सम्भवः। द्वादशराश्यन्तरं त्वेकं भगणान्तरमतो भगणान्तरेण चान्द्रो मासः सिद्धः। सौरमासापेक्षया यदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्। अथ वक्ष्यमाणावमसूर्यसावनयोः स्वरूपमाह” र० ना०। “सावनाहानि चान्देभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः। उदयादोदयं भानोर्भूमिसावनवासराः”। चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणचान्द्रदिवसेभ्यः सकाशादित्यर्थः। सावनाहानि सावनदिनानि प्रोज्झ्य त्यक्त्वावशेषं निथिक्षयाः। तिथिषु चान्द्रदिनेषु सावनदिनानामवशेषतुल्यः क्षयो न्यूनत्वम्। यद्वा तिथिशब्देन सावनो दिवसस्तस्य चान्द्रदिवसात् क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्। ननु भोदया भगणैरित्यादिना पूर्वं सर्वेषां सावनदिवसा उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्य्यसावनस्वरूपकथनच्छलेनोत्तरमाह। उदयादिति। सूर्य्यस्योदयकालमारभ्याव्यवहिततदुदयकालपर्य्यन्तं यः काद्धः स एकोदिवसः। इति ये दिवसास्ते भूमिसावनवासराः। भूदिवसा उदयस्य भूसम्बन्धेनावगमात्। सावनादिवसाश्चेत्यर्थः। तथा च निरुपपदसावनभूमिशब्दाभ्यां सूर्यस्य वासरा एव नान्येषां सोपपदत्वाभावादिति भावः। ते कियन्त इत्यतस्तत्प्रमाणं चान्द्रदिनप्रमाणं चाह” र० ना० “वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे। चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः” सू०। “अष्टाश्विगजसप्तपञ्चभूमिता युगे सूर्य्यसावनदिवसाः। चान्द्रा दिवसा युगतिथय इत्यर्थः। अशीतिशून्यचतुष्कत्रिखनृपा एते त्रिंशद्भक्ताश्चान्द्रमासा उक्तप्रायाः। अनेनैव चान्द्रदिवसानामुपपत्तिः सूर्य्यचन्द्रयोर्भगणयोरन्तररूपचान्द्रमासास्त्रिंशद्गुणिता इति स्पष्टीकृता। अथाधिमासावमयोः सङ्ख्यामाह” र० ना०। “षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः। तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः” सू०। “अधिमासकाः प्रागुक्तस्वरूपाश्चकाराद्युगे षड्देवरामगोशरेन्दुमितास्तिथिक्षया दिनक्षया अवमानीत्यर्थः। अर्थाः पञ्च। एवं द्विशराकृत्य- ष्टखतत्त्वानि। ननु सूर्य्यमासानुक्तेरधिमाससङ्ख्या कथं ज्ञातेत्यतो रविमाससङ्ख्यां स्वरूपेण क्वहांश्चाह” र० ना०। “खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः। भवन्ति भोदयाभानुभगणैरूनिताः क्वहाः” सू०। “सूर्य्यमासा द्वादशगुणितरविभगणानुरूपाः शून्यखाभ्रखसेदधृतिशरमिताः। ननु सावनदिवससङ्ख्या प्रागुक्ता कथमवगतेत्याह। भवन्तीति। भोदया नाक्षत्रदिवसाः प्रागुक्ता सूर्य्यभगणैः प्रागुक्तैर्वर्जिताः सन्तः क्वहा भूवासरा भवन्ति। भोदया इत्यादिप्रागुक्तेः। ननु सूर्य्यादिमन्दोच्चभौमादिपातानां युगे भगणानुत्पत्तेः कल्पभगणकथनमावश्यकमतस्तत्पङ्क्त्यां प्रागुक्ता एते भगणादयः कल्प एव कथं नोक्ता इत्यत आह” र० ना०। “प्राग्गतेः सूर्य्यमन्दस्य कल्पे सप्ताष्टवह्नयः। कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः। खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषयः। गोऽग्नयः शनिमन्दस्य पातानामथ वामतः” सू० सि०। प्राग्गतेः कल्प इत्यनयोः शनिमन्दान्तं प्रत्येकं सम्बन्धः। पूर्व्वगतेः सूर्य्यमन्दोच्चस्य कल्पे सप्ताष्टराममिताः ३८७ शनिपातस्य भगणा इति वक्ष्यमाणस्यभगणा इति पदमत्र प्रत्येकमन्वेति। कौजस्य कुजसम्बन्धिनः सूर्य्यमन्दस्येत्यस्यैकदेशो मन्दस्येति मन्दोच्चस्येत्यर्थकमत्रान्वेति। तथा च भौममन्दोच्चस्य चतुरधिकं शयद्वयम् २०४। बौधस्य बुधमन्दोच्चस्याष्टषटत्रिभिताः ३६८। जैवस्य गुरुसम्बन्धिनः। अत्र शनिमन्दस्येति वक्ष्यमाणस्यैकदेशो मन्दस्येति मन्दोच्चस्येत्यर्थकमन्वेत्येकवृत्तस्थत्वात्। यद्वाद्यन्तयोर्मन्दस्येत्युक्त्यैव मध्यस्थानामन्वयः सूपपन्न इति। तथा च गुरुमन्दोच्चस्य नवशतं ९०० शौक्रस्य शुक्रमन्दोच्चस्य पञ्चत्रिंशदधिकपञ्चशतं ५३५ शनिमन्दोच्चस्यैकोनचत्वारिंशत् ३९। अथानन्तरं पातानां भौम दिपातानां वामतः पश्चिमगत्या भगणा उच्यन्त इति शेंषः तान् श्लोकाभ्यामाह” र० ना०। “मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः। कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च भृगोस्तथा। शनिपातस्य भगणाः कल्पे यमरसर्त्तवः। भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः”। सू० सि०। “कुजसम्बन्धिनः। तुकारात् पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम् २१४। बौधस्य बुधसम्बन्धिनः शनिपातस्येत्यस्यैकदेशः पातस्येत्यत्रान्वेति। बुधपातस्य द्वादशोना पञ्चशती ४८८। जैवस्य गुरुपातस्य चतुःसप्तत्यधिकं शतम् १७४। भृगोः शुक्रस्य तथा सम्बन्धिनश्चकारात् पातस्य शुक्रपातस्येत्यर्थः। त्र्यधिका नवशती ९०३। शनिपातस्य द्विरसषट्का ६६२ भगणाः कल्पे भवन्ति। नन्वस्मिन् प्रसङ्गे चन्द्रस्योच्चपातयोर्भगणाः कथं नोक्ता इति मन्दाशङ्कापाकरणाय पूर्वोक्तं स्मारयति। भगणा इति। चन्द्रोच्चपातयोश्चन्द्र मन्दोच्चपातयोर्भगणा अ त्रास्मिन्नधिकारे पूर्वं ग्रहयुगभगणकथने। एवकारो विस्मरण निरासार्थकः “प्रोक्ताश्चन्द्रोच्चस्येत्थादिश्लोकेनोक्ताः” र० ना०। कुजादिकक्षाणां भूमिसध्यत उच्छ्रितिः श्रीपतिनोक्ता यथा भौमस्य गोकुरसषण्णवसूर्यसंख्या १२९६३१९ दन्ताभ्रषण्णृपमिता १६६०३२ श्रुतिरिन्द्रुजस्य। पूज्यस्य नागगुणपञ्चरसाद्रिभूमि नागाश्च ८१७६५३८ सर्पगजखाब्धियमाब्धयोऽथ ४२४०८८। शुक्रस्य, सूर्यतनयस्य कुसप्तखाङ्क भूत्र्यभ्रदस्रमित २०३१९०७१ योजनकर्ण एवम्। नागाक्षषड्रामरसाग्निकुवेदसंख्यो ४१३६२६५८ नक्षत्रमण्डलभवः श्रवणो निरुक्तः”। सि० शि० विशेष उक्तः। “सृष्ट्वा भचक्रं कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः। शश्वद्भ्रमे विश्वसृजा नियुक्तं तदन्ततारे च तथा ध्रुवत्वे। ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि। तदल्पगत्येन्द्रदिशं नभश्चराश्चरन्ति नीचोच्चतरात्मवर्त्मसु” मू०। “यदेतद्भचक्रं ग्रहैः सह भ्रमद्दृश्यते तद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेन घ्रह्मणा सृष्ट्यादौ सृष्ट्वा ततः शश्वद्भ्रमेऽनवरतभ्रमणे नियुक्तम्। एतदुक्तं भवति। भान्यश्विन्यादीन्यन्यानि विशिष्टानि ज्योतींषि तेषां समूहश्चक्रं ग्रहाश्च सूर्य्यादयस्तैः सह सृष्टम्। तानि भानि प्राक् संस्थया समन्तान्निवेशितानि। ग्रहास्तु भगणादावश्विनीमुखे निवेशितास्त उपर्य्युपरि संस्थया। तत्रादौ तावदधश्चन्द्रः। तदुपरि धुः। ततः शुक्रः। ततो रविः। तस्माद्भौमः। ततो गुरुः। ततः शनिः। सर्वेषामुपरि दूरे भचक्रम्। एषां कक्षाप्रमाणानि कक्षाध्याये प्रतिपादयिष्यन्ते। अहो यद्यूर्ध्वोर्ध्वस्था ग्रहास्तदुपरि दूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरित्युच्यते। सत्यम्। अत्र भूमध्ये सत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं भचक्रेऽश्विनीमुखे किल निबद्धम्। तस्मिन् सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्ट्यादौ ब्रह्मणा निवेशिताः। भूमण्डलं द्वादशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रैः सह ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः। तद्वत्प्रकारा राशय इति सङ्क्षिप्तमिहोक्तम्। कक्षाध्याये गोले च किञ्चिद्विस्तीर्य वक्ष्यामः। एवंविधं भचक्र सृष्ट्वा व्रह्मणा गगने निवेशितम्। यत्र निवेशितं तत्र प्रवहो नाम वायुः। स च नित्यं प्रत्यग्गतिः। तेन समाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम्। यत् तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम्। यत एकेनाह्ना भमण्डलस्य परिवर्त्तः। एवं तस्मिन् भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्वाभिमुखं व्रजन्ति। नीचोच्चतरात्मवर्त्मसु। अनन्तरकथितेषु स्वस्वमार्गेषु तेषां प्राग्भ्रमणम्। तत् तदल्पगत्या प्रत्यग्गतेर्बहुत्वात् प्रागल्पगत्या व्रजन्तो नीपलक्ष्यन्ते इति भावः। तथा तस्य भपञ्जरस्य यौ दक्षिणोत्तराबन्तौ तत्र ये तारे ते ध्रुवत्वे नियुक्ते” प्रमिता०। सि० शि० ग्रहाणां केषां चित् कल्पेभगणा अन्यथोक्ता यथा। “अर्कशुक्रबुधपर्यया विधेरह्नि कोटिगुणिता रदाब्धयः ४३२०००००००। एत एव शनिजीवभूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः। खाभ्रखाभ्रगगनामरेन्द्रियक्ष्माधराद्रिविषया ५७७५३३००००० हिमद्युतेः। युग्मयुग्मशरनागलोचनव्यालषण्णवयमाऽश्विनो २२९६८२८५२२ऽसृजः। सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो १७९३६९९८९८४ ज्ञशीघ्रजाः। पञ्चपञ्चयुगषट्कलोचनद्व्यब्धिषड्गुणमिता ३६४२२६४५५ गुरोर्मताः। द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः ७०२२३८९४९२ सितशीघ्रपर्ययाः। भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः १४६५६७२९८ सूर्यसुतस्य पर्ययाः खाष्टाब्धयो ४८०ऽष्टाक्षगजेषुदिग्द्विपद्विपाब्धयो ४८८१०५८५८ द्व्यङ्कयमा २९२ रदाग्नयः ३३२। शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुसागराः ४१ स्युः पूर्वगत्या तरणेर्मृदूच्चजाः। गजाष्टिभर्गत्रिरदाश्विनः। २३२३१११६८ कुभृद्रसाश्विनः २६७ कुद्विशराः ५२१ क्रमर्त्तबः ६३। त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५८४ निशाकराद्व्यस्तगपातपर्ययाः” मू०। ग्रहाणां पूर्वगत्या गच्छतां कल्प एतावन्तो भगणा भवन्ति। तथा मन्दोच्चानां चलोच्चानां च प्राग्गत्या एतावन्तः पर्यया भवन्ति। तथा पातानां पश्चिमगत्या एतावग्तो भवस्ति। अत्रोपपत्तिः। सा तु तत्तद्भाषाकुशलेन तत्तत्क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव श्रोतुं शक्यते नान्येन। ग्रहमन्दशीघ्रोच्चपाताः स्वस्वमार्गेषु गच्छन्तः एतावन्तः पर्ययान् कल्पे कुर्वन्तीत्यत्रागम एव प्रमाणम्। स चागमो महता कालेन लेखकाध्यापकाध्येतृदोषैर्बहुधा जातस्तदा कतमस्य प्रमापयम्। अथ यद्येवमुच्यत गणितस्कन्ध उपपत्तिमानेव गमः प्रमाणम्। उपपत्त्या ये सिध्यन्ति भगणास्ते ग्राह्याः। तदपि न। यतीऽतिप्राज्ञेन पुरुषेणोपपत्तिर्ज्ञातुमेव शक्यते। न तया तेषां भगणानामियत्ता कर्त्तुं शक्यते पुरुषायुषोऽल्पत्वात्। उपपत्तौ तु ग्रहः प्रत्यहं यन्त्रेण वेध्यः भगणान्तं यावत्। एवं शनैश्चरस्य तावत्वर्षाणां त्रिंशता भगणः पूर्यते। मन्दोच्चानां तु वर्षशतैरनेकैः। अतो नायमर्थः पुरुषसाध्य इति। अत एवातिप्राज्ञा गणकाः साम्प्रतोपलब्ध्यनुसारिणं प्रौढगणकस्वीकृतं कमप्यागममङ्गीकृत्य ग्रहगणित आत्मनो गणितगोलयोर्निरतिशयं कौशलं दर्शयितुं तथान्यैर्भ्रान्तिज्ञानेनान्यथोदितानर्थांश्च निराकर्तुमन्यान् ग्रन्थान् रचयन्ति। ग्रहगणित इति कर्तव्यतायामस्माभिः कौशलं दर्शनीयं भवत्वागमो योऽपि कोऽप्ययमाशयस्तेषाम्। यथात्र ग्रन्थे ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत इति। तर्हि तिष्ठतु तावदुपपत्त्या भगखानामियत्तासाधनम्। अथ यद्युपपत्तिरुच्यते तर्हिं इतरेतराश्रयदोषशङ्कया यक्तुमशक्या। तथापि संक्षिप्तामुपपत्तिं वक्ष्यामः। इतरेतराश्रयदोषोऽत्र दोषाभासः। उपपत्तिभेदानां यौगपद्येन वक्तुमशकत्वात्। अथोच्यते अर्कशुक्रबुधपर्यया विधेरित्यादि। यावन्ति कल्पे वर्षाणि तावन्त एव सूर्यभगणा इत्युपपन्नम्। यतो भगणभोगकालो हि वर्षमुक्तम्। बुधशुक्रौ तु रवेरासन्नावेव कदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदा व्रजन्तौ दृश्येते। अतस्तयोरपि रविभगणतुल्या भगणा इत्युपपन्नम्। चलोच्चभगणोपपत्तिमग्रे वक्ष्यामः। अथ समायां भूमावभीष्टकर्कटकेन त्रिज्यामिताङ्कैरङ्कितेन वृत्तं दिगङ्कितं भगणांशैश्चाङ्कितं कृत्वा तत्र प्राचीचिह्नाद्दक्षिणतो नातिदूरे प्रदेश उत्तरेऽयने वृत्तमध्यस्थितेन कीलेन रवेरुदयो वेध्यः। ततोऽन्तरं वर्षमेकं रव्युदया गणनीयाः। ते च पञ्चषष्ट्यधिकशतत्रय ३६५ तुल्या भवन्ति। तत्रान्तिमोदयः पूर्वोदयस्थानादासन्नो दक्षिणत एव भवति। तयोरन्तरं विगणय्य ग्राह्यम्। ततोऽन्यस्मिन् दिने पुनरुदयो वेध्यः। स तु पूर्वचिह्नादुत्तरत एव भवति। तदप्युत्तरमन्तरं ग्राह्यम्। ततोऽनुपातः। यद्यन्तरद्वितयकलाभिरेकीकृताभिः षष्टि ६० घटिका कभ्यन्ते तदा दक्षिणेनान्तरेण किमिति। अत्र लभ्यन्ते पञ्चदश घटिकास्त्रिंशत् पलानि सार्धानि द्वाविंशतिर्विपलानि १५। ३०। २२। ३०। आभिर्घटीभिः सहितानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनदिनान्येकखिन् रव्यब्दे भवन्त ३६५। १५। ३०। २२। ३०। ततोऽनुपातः। यद्येकेन वर्षेणैतावन्ति कुदिनानि तदा कल्पवर्षैः किमिति। एवं ये लभ्यन्ते ते सावनदिवसा भवन्ति कल्पे। अथ यदि तैरेव रवेर्वर्षान्तःपातिभिः कुदिनैश्चक्रकला लभ्यन्ते तदैकेन किमिति। फलं मध्यमा रविगतिरित्युपपन्नम्। अथ चन्द्रभगणोपपत्तिः। तत्रादौ तावद् ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम्। तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्बयस्योपरि विषुवद्वृत्तम्। तत्र च यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बध्वा कदम्बद्वयकीलकयोः प्रोतमन्यच्चलं ग्रहवेधवलयम्। तच्च भगणांशाङ्कितं कार्यम्। तत स्तद्गोलयन्त्रं सम्यग ध्रुवामिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति तथा अन्तरं कृत्वा रात्रौ गोलमध्यचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैव दृष्ट्या चन्द्रं विलोक्य तद्वेधवलयं चन्द्रोपरि निवेश्यम्। एवं कृते सति वेधवृत्तस्य क्रान्तिवृत्तस्य च यः संपातस्तस्य मीनान्तस्य च यावदन्तरं तस्मिन् काले तावान् स्फुटश्चन्द्रो वेदितव्यः। कान्तिवृत्तस्य चन्द्रविम्बमध्यस्य च वेधवृत्ते यावदन्तरं तावांस्तस्य विक्षेपः। ततो यावतीषु रात्रिगतघटिकासु वेधः कृतस्तावतीष्वेव पुनर्द्वितीयदिने कर्तव्यः। एवं द्वितीय दने स्फुटचन्द्रं ज्ञात्वा तयोर्यदन्तरं सा तद्दिने स्फुटा गतिः। अथ तौ चन्द्रौ “स्फुटग्रहं मध्यखगं प्रकल्प्येत्यादिना” मध मौ कृत्वा तयोरन्तरं या मध्यमा चन्द्रग तः। तयाऽनुपातः। यद्येकेन दिनेनैतावती चन्द्रगतिस्तदा कुदिनैः किमित्येवं चन्द्रभगणा उत्पद्यन्ते। तथा चाह श्रोमान् ब्रह्मगुप्तः “ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः। त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम्”।। ऐवमन्येषामपि भगणोपपत्तिः। अथ चन्द्रेक्षस्य। एवं प्रत्यहं चन्द्रवेधं कृत्वा स्फुटगतयो विलेक्याः। यस्मिन् दिने गतेः परमाल्पत्वं दृष्टं तत्र दिने मध्यम एव स्फुटश्चन्द्रो भवति। तदेवोच्चस्थानम्। यत उच्चसमे ग्रहे फलाभावो गतेश्च परमाल्पत्वम्। ततश्च तस्माद्दिनादारभ्यान्यस्मिंश्चन्द्रपर्यये प्रत्यहं चन्द्रवेवात् तथैवोच्चस्थानं ज्ञेयम्। तच्च पूर्वस्थानादग्रत एव भवति। यत् तयोरन्तरं तज्ज्ञात्वाऽनुपातः क्रियते। यद्येतावद्भिरन्तरदिनैरिदमुच्चयोरन्तरं लभ्यते तदैकेन किमिति। फलं तुङ्गगतिः। तयानुपातात् कल्पभगणाः। अथ चन्द्रपातभगणोपपत्तिः। एव प्रत्यहं चन्द्रवेधाद्दक्षिणविक्षेपे क्षीयमाणे यस्मिन् दिने विक्षेपाभावो दृष्टः क्रान्तिवृत्ते तत् स्थानं चिह्नयित्वा तत्र यावान् विधुः स भगणाच्छुद्धः पातः स्यादिति ज्ञेयम्। पुनरन्यस्मिन्नपि पर्यये दक्षिणविक्षेपाभावस्थानं ज्ञेयम्। क्रान्तिवृत्ते तत् स्थानं पूर्वस्थानात् पश्चिमत एव भवति। अतो ज्ञाता पातस्य विलोमा गतिः। सा चानुपातात्। यद्येतत्कालान्तरदिनैरेतावत् पातयोरन्तरं लभ्यते तदैकेन किमिति। फलं पातगतिः। तया प्राग्वत् कल्पभगणाः। अथ रवितुङ्गोपपत्तिः। मिथुनान्ते रवौ कस्मिंश्चिद्दिने रेवतीतारकोदयाद्यावतीभिर्घटिकाभीरविरुदितस्तावतीभिर्मीनान्ताल्लग्नं साध्यम्। यल्लग्नं स तदा स्फुटो रविर्ज्ञेयः। एवमन्यस्मिन् दिनेऽपि। तयोः स्फुटार्कयोरन्तरं स्फुटा गतिः। एवं प्रत्यहं स्फुटगतयो ज्ञातव्याः। यस्मिन् दिने गतेः परमाल्पत्वं तद्दिने यावान् रविस्तावदेव रवेरुच्चं भवति। तस्योच्चस्य चलनं वर्षशतेनापि नोपलक्ष्यते। किन्त्वाचार्यैश्चन्द्रमन्दोच्चवदनुमानात् कल्पिता गतिः। सा चैवम् यैर्भगणैः साम्प्रताहर्गणाद्वर्षगणाद्वा एतावदुच्चं भवति ते भगणा युक्त्या कुट्टकेन वा कल्पिताः। अथान्येषां शीघ्रोच्चोपपत्तिः। तत्र “एत एव शनिजीवभूभुवामित्यादि”। उच्चो ह्याकर्षकी भवति। तेन स्वकक्षामण्डले भ्रमन् ग्रहः स्वाभिमुखमाकृष्यते। तेनाकृष्टः सन् कक्षामण्डले मध्यग्रहादग्रतः पृष्ठतो वा यावतान्तरेण दृश्यते तावत् तस्य फलं भान्द्यं शैघ्य्रं वा। अहो उच्चो नाम प्रदेशविशेषस्तेन कथमाकृष्यते? अतस्तस्य देवतारूपत्वमुक्तं सूर्यसिद्धान्ते। “अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः। शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः। तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः। प्राक् पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्” इत्यादि। एवमत्रोच्चस्य देवताविशेषत्वेनाङ्गीकृतत्वाददोषः। एतदुक्तं भवति। शनेर्जीवात् कुजाद्वा यदा रविरग्रे वर्त्तते तदा मध्यग्रहात् स्फुटग्रहोऽग्रतो दृश्यते। यदा तु पृष्ठगतोऽर्कस्तदा मध्यात् स्फुटग्रहः पृष्ठतो दृश्यते। अतस्तेषां त्रयाणां रविसमं शीघ्रोच्चं धीरैः कल्पितम्। अतो रविभगणतुल्याः शीघ्रोच्चभगणा इत्युपपन्नम्। अथ मन्दोच्चोपपत्तिः। तत्र वेधेन स्फुटग्रहं ज्ञात्वा तं मन्दस्फुटं प्रकल्प्य ततः शीघ्रफलमानीय तत् तस्मिन् स्फुटे विलोमं कृत्वैवमसकृन्मन्दस्फुटो ज्ञेयः। एवं प्रत्यहं मन्दस्फुटमुपलक्ष्य स मन्दस्फुटो धनर्ण्णं मन्दफले क्षीयमाणे यस्मिन् दिने मध्यमतुल्यो भवति तदा तत्तुल्यमेव मन्दोच्चं ज्ञेयम्। ततस्तस्माद्रविमन्दोच्चवद्भगणाः कल्प्याः। एवं सर्वेषाम्। अथ बुधशुक्रयोः शीघ्रोच्चोपपत्तिः। तत्र रविशुक्रयोः पूर्वस्यां दिशि चक्रयन्त्रवेधेनान्तरभागा ज्ञेयाः। ते तयोः स्फुटयोरन्तरांशा जातास्तैः स्फुटार्काद्विशोधितैः स्फुटः शुक्रो भवति। ततः शुक्रस्य मन्दफलमानीय तत् स्फुटे शुक्रे धनर्णं व्यस्तं कार्य्यम्। रविश्च मध्यमः कार्यः। तयोर्यदन्तरं तच्छीघ्रफलमृणं धनं च ज्ञेयम्। एवं प्रतिदिनवेधेन तच्छीघ्रफलं परममृणं ज्ञातव्यम्। तत् तादृक् फलमर्कान तिर्यक्स्थितेनोच्चेनाकृष्टस्य भवति। तच्च तिर्यक्स्थत्वं त्रिभान्तरितस्य स्यात्। अतस्तत्र त्रिभोनेन स्फुटशुक्रेण तुल्यं शीघ्रोच्चं ज्ञेयम्। एवं पुनरन्यस्मिन् पर्यये प्राच्यामेवान्यच्छीघ्रोच्चं ज्ञात्वानुपातः क्रियते। यद्येतत्कालान्तरदिनैस्तयोरुच्चयोरन्तरं लभ्यते तदैकेन किमिति। फलं तुङ्गगतिः। प्राग्बत् तया भगणाः। एवं बुधस्यापि। अथ भौमादीनां वेधेन प्राग्वद्दक्षिणविज्ञेपाभाबस्थाने यावान् मन्दस्फुटो ग्रहश्चक्रशुद्धस्तावान् पातः। बुधशुक्रयोस्तु तदा मन्दफलव्यस्तसंस्कृतं यावच्छीघ्रोच्चं चक्रशुद्वं तावान् पातो ज्ञेयः। ततः प्राग्वद्भगणकल्पना। अथ भभ्रमानाह” प्रमि०। “खखेषुवेदषड्गुणाकृतीभभूतभूमयः। शताहता १५८२२३६४५०००० भपश्चिमभ्रमा भवन्ति काहनि” काहनि ब्रह्मदिन एतावन्तो भानां पश्चिमभ्रमा भवन्ति। अत्रोपपत्तिर्गोल “समं भूसूर्यावुदितावित्यादिना” कथिता व्याख्याता च। अथ सूर्याहांश्चान्द्राहांश्चाह” प्रमि०। “विधिदिने दिनकृद्दिवसाः करेन्द्रियशरेषुभुवोऽर्बुदसंगुणाः १५५५२००००००००। नवनवाङ्ककराभ्ररसेन्दवः प्रयुतसंगुणिता १६०२९९९००००००० विधुवासराः” अत्रोपपत्तिः। रविवर्षाणि (४३२०००००००। ३६० गुणितानि) दिनीकृतानीनि सुगमम्। चन्द्रार्कयोर्यावन्तः कल्पे योगास्तावन्तः किल शशिमासाः। ते तु योगा भगणान्तरतुल्याः स्युः। उभयोरपि प्राग्गमनात्। अतो भगणान्तरतुल्याः शशिमासा भवन्ति। ते त्रिंशद्गुणाः शशिदिवसा भवन्तीत्युपपन्नम्। अथ कुदिनान्याह। भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः १५७७९१६४५००००। मभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा”।। एषामुपपत्तिः प्रागेवोक्ता। एकस्मिन्रविवर्षे यावन्तो भभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसा भवन्ति। यतो रविः प्राग गत्या एकं पर्ययं गतः। अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति। एवमन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम्” प्रमि० इदानीं कलिगतादप्यहर्गणादिकमाह। “कलिगतादथ वा दिनसंचये दिनपतिर्भृगुजप्रभृतिस्तदा। कलिमुखध्रुवकेण समन्वितो भवति तद्द्युगणेद्भवखेचरः” सि० शि० “अत्र कलिगताहर्गणेऽयं विशेषः। शुक्राद्यो वारो गणनीयः। यतः कल्पगताहर्गणात् कलिमुखे शुक्रवारी भवति। तत्र च ये ग्रहास्ते ध्रुवसंज्ञाः कल्पिताः। तद्द्युगणभवः खेचरश्च कलिमुखध्रुवकेण समन्वितः कार्य इत्यत्र वासनापि सुगमा। इदानीं कलिमुखग्रहानाह” प्रमि०। “खाद्रिरामाग्नयः ३३७० क्वग्निरामाङ्कका ९३३१ वेदवेदाङ्कचन्द्रा १९४४ विलिप्ताः क्रमात्। षड्रसाङ्गाव्धयो ४६६६ऽङ्गाभ्रवेदाब्धयो ४४०६ वेदषट्काभ्रभूपाभ्रभूसंमिताः १०१६०६४। वेदचन्द्रद्विवेदाब्धिनागाः ८४४४२१४ करद्व्यब्धिवेदाब्धिशैलं ७४४५२२ भवेयुः कुजात्। द्वापरान्तध्रुवाश्चक्रशुद्धास्तथा सूर्यतुङ्गेन्दुतुङ्गेन्दुपातोद्भवाः” सि० शि०। “कुजादीनां सर्वेशां ध्रुवाश्चक्रशुद्धाः पठिता लाघवार्थम् स्पष्टार्थमिदम्” प्रमि० कल्यादौ ग्रहाः। मं वु गु शु श रतुं चंतुं चंपा ११ ११ ११ ११ ११ २ ४ ५ १९ २७ २९ २८ २८ १७ ५ ३ ३ २४ २७ ४२ ४६ ४५ २९ १२ ५० २९ ३६ १४ ३४ ३६ ४६ ५८ अत्र बालावबोधार्थं रूपमहर्गणं कृत्वा ग्रहाणां सावन दिनगतयः साधिताः। र चं मं बु गु शु श उ पा ० १३ ० ४ ० १ ० ० ० ५९ १० ३१ ५ ४ ३६ ३ ६ ३ ८ ३४ २६ ३२ ५९ ७ ० ४० १० १० ५३ २८ १८ ९ ४४ २२ ५३ ४८ २१ ० ७ २८ ९ ३५ ५१ ५६ २० दिनगणः स्वषष्ट्यंशोनो भाग इति प्रत्यहमेकोनषष्टिः कला गृहीताः। शेषावयवेन सत्रिभागैः सप्तभिर्दिनैरेका कला भवति” प्रमि०। खगोले सप्त वायुस्कन्धा” सि० शि० उक्ताः यथा “भूवायुरावह इह प्रवहस्तदूर्द्ध्वः स्यादुद्वहस्तदनु सवहसंज्ञकश्च। अन्यस्ततोऽपि सुवहः परिपूर्वकोऽस्माद्बाह्यः परावंह इमे पवनाः प्रसिद्धाः। भूमेर्बहिर्द्वादश योजनानि भूवायुरत्राम्बुदविद्युदाद्यम्। तदूर्द्ध्वगो यः प्रवहः, स नित्यं प्रत्यग्गतिस्तस्य तु मध्यसंस्था। नक्षत्रकक्षा खचरैः समेतो यस्मादतस्तेन समाहतोऽयम्। भपञ्जरः खेचरचक्रयुक्तो भ्रमत्यजस्रं प्रवहानिलेन”। श्रीपतिः “स्यादावहः प्रवह उद्वहसंवहौ च स्वादिर्वहः परिबहश्च परावहश्च। स्कन्धाः क्रमेण मरुतामिह सप्तसंख्या विश्वम्भरापवनमावहमाहुरेके”।

मतभेदेन भूगोलभगोलयोश्चलाचलत्वविप्रतिपत्तौ भगोलस्यैव भ्रमणं सि० शि० भु० को० निरूपितं यथा “यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु तस्यापरशीघ्रगत्या। कुलालचक्रस्नमिवामगत्या यान्तो न कीटा इव भान्ति यान्तः” सि० शि०। आर्य्यभट्टमते तु मूमेरेव चलनं व्यवस्थापितं यथा “अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत्। अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम्”। अनेन भूमेरेव गतिवशाद्भ्रचक्रस्य भ्रमणभ्रम इत्युक्तम् तेन च भचक्रस्थानां ग्रहाणामुदयास्तमयनिमित्तं भ्रमणमङ्गीकृतम् यथा “उदयास्तमननिमित्तं प्रवहेन वायुना क्षिप्तः। लङ्कायां समपश्चिमगोभपञ्चस्थोग्रहोभ्रमति” अत उदयस्तमयनिमित्तत्वेन ग्रहगतिस्वीकारेण कालभेदे शुक्रादीनामिव रवेरुदयास्तमयाभावात् न गतिमत्त्वं प्रत्यहमुदयास्तमयौ तु तस्य भूगत्यैब सम्भवतः भूमिवृत्तार्द्धेनाच्छादनाद्दृश्यत्वाभावेनास्तत्वमिति भेदः। अत्रेदं बोध्यम् ग्रहगतिस्वीकारेणैव सर्वोपपत्तौ भूगतिस्वीकारोऽनर्थक इत्यभिप्रेत्य श्रीपतिना आर्य्यभट्टमतमुपन्यस्य तत्र दूषणमुक्त्वा भगोलस्यैव भ्रमणमुपपादितं यथा “नौस्थोविलोमगमनादचलं यथावन्ना मन्यते चलति नैवमिलाभ्रमेण। लङ्कासमापरगतिप्रचलद्भचक्रमाभाति सुस्थिरमपीति वदन्ति केचित्। यद्येवमम्बरचराविहगाः स्वनीडमासादयन्ति न खलुभ्रमणे धरित्र्याः। किञ्चाम्बुदा अपि न भूरिप्रयोमुचः स्युर्देशस्य पूर्वगमनेन चिराय हन्त। भूगोलवेगजनितेन समीरणेन केत्वादयोऽप्यपरदिग्गतयः सदा स्युः। प्रासादभूधरशिरांस्यपि संपतन्ति तस्माद्भ्रमत्युडुगणस्त्वचलाऽचलैव”। रङ्गनाथोऽपि “यदि च भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः। इषवोऽभिनभः समुज्झिता निपतन्तः स्युरपांपतेर्दिशि। पुरतोऽभिमुखे भ्रमे भुवो वरुणाशाभिमुखो व्रजेद्घनः। अथ मन्दगमात् तथा भवेत् कथमेकेन दिवा परिभ्रमः” इत्याह।

सि० शि० भूमेरेव स्थितत्वं व्यवस्थापितं यथा “भूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्य र्किनक्षत्रकक्षावृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजोमयोऽयम्। नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठेनिष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं समन्तात्। सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः। कदम्बकुसुमग्रन्थिः केसरप्रसरैरिव” सि० शि०। “योऽयं मृदनिलसलिलव्योमतेजोमय इति पाञ्चभौतिको भूमेः पिण्डो वृत्तो वर्तुलाकारस्तदवहिस्थैः शशाङ्कादिकक्षावृत्तैरावृतः सन्ननन्याधारः स्वशक्त्यैव नियतं निश्चितं वियत्याकाशे तिष्ठति। तत्पृष्ठनिष्ठं च जगत्। सदनुजमनुजादित्यदैत्यम्। दनुजा दानवाः। मनुजा मानवाः। आदित्या देवाः। दैत्या असुराः। तैः समेतं समन्तात् तिष्ठति। शेषं स्पष्टार्थम्” प्रमि०। इदानीं पुराणेषु भूमेराधारपरम्परा या पठिता तां निराकुर्वन्नाह। “मूर्तो धर्ता चेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था। अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्च मूर्तिः” सि० शि०। कथमियं भूमेः स्वशक्तिरित्याशङ्कां परिहरन्नाह। “यथोष्णतार्कानलयोश्च, शीतता विधौ, द्रुतिः के कठिनत्वमश्मनि। मरुच्चलो भूरचला स्वभावतो यतो विचित्रा वत वस्तुशक्तयः। आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या। आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे” सि० शि०। “आकृष्टिशक्तिश्व महीत्यनेन भूमेरधःपतनशङ्का तत्तिर्यगधःस्थितानां चाधःपतनशङ्का निरस्ता” प्रमि०। तथान्यत्रापि युक्तिस्तत्र दर्शिता यथा “विलोक्याह्ना घ्रवमत्स्य परिभ्रमम्”। “यदा भरणीस्थो रविर्भवति तदा तस्यास्तमयकाले ध्रुवमत्स्यस्तिर्यक्स्थो भवति। तस्य मुखतारा पश्चिमतः, पुच्छतारा पूर्वतः। तदा मुखतारासूत्रे रविरित्यर्थः। अथ निशावसाने मुखतारा परिवर्त्य पूर्वतो याति। पुच्छतारा पश्चिमतो याति। ततो मुखतारासूत्रगतस्यैवार्कस्योदयो दृश्यते” प्रमि०। अत्रायमाशयः यदि भूमेरेव चलनं न भचक्रस्य चलनमुररीक्रियेत तदा ध्रुवमत्स्यस्य ध्रुवतारासन्निकृष्टस्थाने भचक्रे स्थितस्य शूलतारात्मकताराद्वयस्य ध्रुवचतुर्दिक्षु भचक्रभ्रमणवत् पश्चात् प्रत्यहमेकेनाह्ना परिभ्रमणं दृश्यते भरणीस्थे सूर्य्ये च अस्तमयकाले ध्रुवमत्स्य मुखतारायाः पश्चिमस्थत्वं पुच्छतारायाश्च पूर्बस्थत्वं दृश्यते दृश्यते च निशावसाने तयोर्दिग्विपर्य्ययः। भूमेरेव चलनात् तस्योदयास्तमयस्वीकारे यथास्थितैकरूपेणावस्थानमपि दृश्येत न च तथा दृश्यते। अतो भचक्रस्यैव चलनात् सर्बव्यवहारोपपत्तौ मुधा भूमेश्चलनाङ्गीकारेण। एवं सप्तर्षिमण्डलस्य मरीच्यादिक्रमेण निशामुखे उदयसमये पूर्वस्थत्वमस्त मयकाले निशावसाने च तद्विपर्य्ययेणावस्थानं भचक्रभ्रमणं विनाऽनुपपन्नमेव तेषां च राशिचक्रे यथा पूर्व्वादिक्रमेण स्थितिः शतवर्षेणेकैकनक्षत्रभोगस्तथा ऋषिशब्दे १४५१ पृ० दर्शितम्। अत्र श्रीपतिना “प्रासादशिरांशि पतन्तीति” यदुक्तं तदापाततः भूमेः स्वोर्द्ध्वाकाशविभागस्थानस्थानां तयाकृष्टमूर्त्तीनामेव भूमौ पतनमिति नियमेन स्वाधिष्ठिततया भूभागस्यैवाधोभागतत्रैव पतनसम्भवात् तेन न प्रासादशिरःपतनसम्भवः “क्वाधःपतेदिति वाक्यापर्य्यलोचनया तथैवावगमादिति सुधीभिर्भाव्यम्। भूचलने अन्येऽपि दोषाः सम्भवन्ति। तथाहि पूर्वापरभागे तुल्ययन्त्रेणाकृष्य क्षिप्तशरयोः समगतिरेव प्रत्यक्षसिद्धा समया गत्या च तुल्यभूमिभागे एव तयोः पतनमुचितम्। भूमेः प्राग्गतित्वाङ्गीकारे च प्राक्क्षिप्तस्याधिकभूम्यन्तरे, पश्चात्क्षिप्तस्य चाल्पभूम्यन्तरे पतनं स्यात्। न च तथा लक्ष्यते। किञ्च द्वादशयोजनात्मकभूवायुना सार्द्धं भूमेः प्राग्गतिस्वीकर्त्तृणामिलण्डीयज्योतिर्विदां मतेऽपि प्राग्गतेः शरस्य वाय्वनुकूलत्वादपि अधिकगतित्वं प्रत्यग्गतेस्तु प्रतिकूल वायुना प्रतिरोधात् अल्पगतित्वमपि स्रोतोऽनुकूलप्रतिकूलगतिमतोर्गतिभेदवत् स्यात्। किञ्च आर्य्यभट्टमते भूमेः स्वकक्षायामेव भ्रमणाङ्गीरेऽपि इंलण्डीयज्योतिर्भिः प्रत्यहं भूमेरेककारं प्राग्गतावपि वर्षेण च क्रमशः सूर्य्यमण्डलभ्रमणमुररीकृतं तथाऽङ्गीकारे च भूमेः विषुवद्स्थानावधि षड्राशिषुक्रमशो वेष्टनाकारेणोर्द्धगत्या षण्मासोत्तरं सूर्य्यस्योर्द्ध्वं स्थितिः स्यात्। तथा च तदानीं सूर्य्यस्य भूवृत्तापेक्षया यावदुच्छ्रुतप्रदेशेस्थिति स्तावद्भिर्योजनैः सूर्य्यस्योर्द्ध्वं भूमेः स्थितिः अयनद्वये च तिर्यक्स्थितिः स्यात् तथा स्वीकारे च ध्रुवतारयोरपिंविषवतोनतत्वोन्नतत्वेन दृश्यत्वापत्तिः अयनयोश्च तिर्य्यक्स्थितत्वापत्तिश्च नच तथा दृश्यते सदा एकरूपेणैव तयोर्दर्शनात् न च तयोरतिदूरस्थत्वात् न तथा लोकनं सम्भाव्यते इति वाच्यं भचक्रस्य ध्रुबलग्नत्वेन नक्षत्रकक्षासन्निकृष्टतया ध्रुवस्य सिद्धतया नक्षत्रकक्षायाश्च सूर्य्यकक्षायाः षष्टिगुणान्तरितत्वात् तदानीं सूर्व्योर्द्ध्वस्थितस्य भूमण्डलस्य ततोऽल्पान्तरेण स्थितेरतिदूरस्थत्वाभावात् सूर्य्याधःस्थितिकाले च अधिकान्तरे भूमेः सत्त्वावश्यकत्वापत्तेः। तावद्भिर्योजनैः ध्रुवसन्निकृष्टपूर्वपश्चिमतारात्मकमत्स्यस्य नतोन्नततया तिर्व्यक्तया च दर्शनापत्तेर्वज्रलेपत्वात्। किञ्च सूर्य्योर्द्धस्थितिकाले सूर्य्येण सहैकराशिगतानां कुजजीवशन्यादीनामासन्नतातारतम्येन तेषां स्थूलत्वतारतम्येन दर्शनापत्तिः। इत्यादि बहु वक्तव्यमस्ति विस्तरभयाद्विरम्यते।

सि० शि० भूवृत्तादिमानमुक्तं यथा “प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय ४९६७ स्तद्व्यासः कुभुजङ्गसायकभुवो १५८१ऽथ प्रोच्यते योजनम्। याम्योदक्पुरयोः पलान्तरहतं भूवेष्टनं भांश ३६० हृत् तद्भक्तस्य पुरान्तराध्वन इह ज्ञेयं समं योजनम्” सि० शि०। “भूपरिधेरुपपत्तिर्गोले कथिता। योजनलक्षणं गणिते कथितमस्ति। तथाप्यत्र यदुच्यते तत्रेदं कारणम्। भूरेकैव किन्तु यत्त्वार्यभट्टादिभिराचार्यैः सत्यपि नियामके पलांशदर्शनेऽन्यथान्यथा तत्प्रमाणमभिहितं तत्र षट्सप्ताष्टयवमङ्गुलं कनिष्ठिकादिभेदेन शास्त्रे दृश्यते। तेनाभिप्रायेणाऽन्येन वा तथोक्तम्। याम्योत्तरयोः पुरयोः पलांशान् वक्ष्यमाणप्रकारैर्ज्ञात्वा तेषामन्तरेणानुपातः। यदि भांशपरिधौ दक्षिणोन्तरमण्डल एतावत् पलान्तरं तदा मूपरिघौ पुरान्तरे किमिति। यल्लब्धं तावन्तो विभागाः पुरान्तरस्य क्रियन्ते। यावानेको विभागस्तावद्योजनं ज्ञेयम्। तादृशैर्योजनैर्देशान्तरं कर्तव्यमित्यर्थः” प्रमि०। इदार्नीं भूपरिधिस्फुटीकरणं मध्यरेखां चाह। “लम्बज्यागुणितो भवेत् कुपरिधिःस्पष्टस्त्रिभज्याहृतो यद्वा द्वादशसंगुणः स विषुवत्कर्णेन भक्तः स्फुटः। यल्लङ्कोज्जयिनीपुरीपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं पुधैर्निगदिता सा मध्यरेखा भुवः” सि० शि०। रेखापुराण्याह श्रीपतिः “लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सितः षडास्यः। श्रीवत्सगुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा।। स्यादा श्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम्। श्रीगर्गराटं च सरोहिताख्यं स्थानेश्वरं शीतगिरिः सुमेरुः।। इतीव याम्योत्तरगां धराया रेखामिमां गोलविदो वदन्ति। अन्यानि रेखास्थितिभाञ्जि लोके ज्ञेयानि तज्ज्ञैः पुटभेदनानि”।। ग्रहाणां प्रतिदिनं खकक्षायोजनगतिमानं सि० शि० उक्तम्

“कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा भक्ता भवेद्दिनगत्रिर्गगनेचरस्य। पादोनगोऽक्षधृतिभूमितयोजनानि ११८५८। ४५ खेटा व्रजन्त्यनुदिनं निजवर्त्मनीमे” सि० शि० अत्रोपपत्तिः। यदि कल्पदिनैः खकक्षामितयोजनानि गच्छति तदैकेन किमिति। फलं दिनगतियोजनानि। तानि च स्थूलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि स्युः” ग्रहाणां दिनभुक्तिमाह” प्रमि०। “महीमितादहर्गणात् फलानि यानि तत्कलाः। भवन्ति मध्यमाः क्रमान्नभःसदां द्युभुक्तयः। समा गतिस्तु योजनैर्नभःसदां सदा भवेत्। कलादिकल्पनावशान्मृदुद्रुता चला स्मृता” सि० शि०। “अत्रोपपत्तिस्त्रैराशिकेन। पूर्वं गतिर्योजनामिका ग्रहाणां तुल्यैवोक्ता। इदानीमतुल्या सा कलादिकल्पनावशात्। इदानीमतुल्यत्वे कारणमाह प्रमि०

“कक्षाः सर्वा अपि दिविसदां चक्रलिप्ताङ्कितास्ता वृत्ते लघ्व्यो लघुनि महति स्युर्महत्यश्च लिप्ताः। तस्मादेते शशिजभृगुजादित्यमौमेज्यमन्दा मन्दाक्रान्ता इव शशधराद्भान्ति यान्तः क्रमेण” सि० शि०। “यतः सर्वा अपि कक्षाश्चक्रलिप्ताभिरेवाङ्किताः। अतो महति वृत्ते महत्यो लिप्ताः स्युः। “लघुनि लघ्व्यः। तद्यथा चन्द्रकक्षा सर्वाधिस्था लघुः। तस्यामेका कला पञ्चदशभिर्योजनैर्भवति। शनेः कक्षा सर्वोपरिस्था सा महती तस्यामेका कला योजनानां षडिभिः सहस्रैरेकसप्तत्योनै ५९२९ र्भवति। योजनं चतुःक्रोशमेव। अतश्चन्द्रात् सकाशादूर्द्धोर्द्ध्वस्था बुधशुक्रादयः क्रमेण मन्दाक्रान्ता मन्दगतय इव भान्ति” प्रमि०।

ग्रहाणां तुङ्गादिपरिधिभेदकारणम् सि० शि० उक्तं यथा “उच्चस्थितो व्योमचरः सुदूरे नीचस्थितः स्यान्निनिकटे घरित्र्याः। अतोऽणुविम्बः पृथुलश्च भाति भानोस्तथासन्नसुदूरवर्त्ती” सि० शि०। इदानीमन्यदृक्तुं प्रकारान्तरमाह” प्रमि०। “उक्ता मयैषा प्रतिवृत्तभङ्ग्य युक्तिः पृथक् श्रोतुरसंभ्रमार्थम्। स्पष्टीकृतेस्तां पुनरन्य थाहं नीचोच्चवृत्तस्य च वचमि भङ्ग्या” सि० शि०। “इह किल स्पष्टीकरणयुक्तिः प्रतिवृत्तभङ्ग्या मयोक्ता। अथ तामेव नीचोच्चवृत्तभङ्ग्या वच्मि। इदानीं तां भङ्गिमाह” प्रमि०। “कक्षास्थमध्यग्रहचिह्नतोऽथ वृत्तं लिखेदन्त्यफलज्यया तत्। नीचोच्चसंज्ञं रचयेच्च रेखां कुमध्यतो मध्यखगोपरिस्थाम्। कुमध्यतो दूरतरे प्रदेशे रेखायुते तुङ्गुमिह प्रकल्प्यम्। नीचं तथासन्नतरेऽथ तिर्यङ्नीचोच्चमध्ये रचयेच्च रेखाम्। नीचोच्चवृत्ते भगणाङ्कितेऽस्मिन् मान्द्ये विलोमं निजकेन्द्रगत्या। शैघ्य्रेऽनुलोमं भ्रमति स्वतुङ्गादारभ्य मध्यद्युचरो हि यस्मात्। अतो यथोक्तं मृदुशीघ्रकेन्द्रं देयं निजोच्चाद्द्युचरस्तदग्रे। दोर्ज्योच्चरेखावघिखेटतः स्यात् तिर्यक्स्थरेखावघि कोटिजीवा” सि० शि०। “प्राग्वत् कक्षावृत्तं चक्रांशाङ्कितं कृत्वा तत्र मध्यग्रहं च दत्त्वा ग्रहचिह्नेऽन्त्यफलज्याप्रमाणेनान्यद्वृत्तं लिखेत्। तन्नीचोच्चसंज्ञवृत्तम्। अथ मूमव्याद्ग्रहोपरिगता रेखा किञ्चिद्दीर्घा कार्य्या। सात्रोच्चरेखा। नोचोच्चवृत्ते भूमेर्दूरतरे प्रदेशे रेखायुते उच्चं प्रकल्यम्। आसन्ने रेखायुते नीचम्। नीचोच्चचिह्नाभ्यां मत्स्यमुत्पाद्य तिर्यग्रेखा सध्ये कार्य्या। तस्मिन् वृत्ते केन्द्रगत्योच्चस्थानादारभ्य मध्यग्रहो भ्रमति। मान्द्ये विलोमं, शैघ्रेऽनुलोमम्। अतः कारणान्मन्दकेन्द्रमुच्चाद्विलोमं देयम्। शीघ्रकेन्द्रमनुलोमम्। तदग्रे ग्रहः” प्रमि०। ग्रहाणामस्तकालांशाश्च सि० शि० उक्ताः तच्च वाक्यं १९९१ पृ० कालशब्दे उक्तम्। ग्रहविम्बानां गोलाकारत्वेऽपि सूर्य्याभिमुखानामेव द्युतिलाभः यथाहार्य्यभट्टः। “भूग्रहभानां गोलार्द्धानि यथा विवर्ण्णानि। अर्द्धानि यथासारं सूर्य्याभिमुखानि दीप्यन्ते”। सि० शि० रविचन्द्रराहुबिम्बमानम् उक्तं यथा “बिम्बं रवेर्द्वि द्वशरर्तु ६५२२ संख्यानीन्दोः खनागाम्बुधि ४८० योजनानि। भूव्यासहीनं १५८१ रविबिम्बमिन्दुःकर्णाहतं भास्करकर्णभक्तम्। भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे” सि० शि०। “सूर्य्यस्य विम्बं मध्यमं द्वियमवाणषट्कतुल्यानि ६५२२ योजनानि। इन्दोस्तु शून्यवसुवेद ४८० मितानि। राहोरुच्यते। रविबिम्बं ६५२२ भूव्यासेन १५८१ हीनं कृत्वेन्दुतर्णेन स्फुटेन योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् फतेन भूव्यासो वजितश्चन्द्रकक्षायां भूभाव्यासो भवति। एतानि योजनविम्बानि। अत्रोपपत्तिः। यस्मिन् दिनेऽर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात्। तस्मिन् दिने उदयकाले चक्रकलाव्यासार्धमितेन यष्टिद्वितयेन मूलमिलितेन तत्रस्थदृष्ट्या तद्यष्ट्यां बिम्बप्रान्तौ विध्येन्। या यष्ट्यग्रयोरन्तरकलास्ता रविबिम्बकला मध्यमाः भवन्ति ताश्च द्वात्रिंशत् किञ्चिदधिकैकत्रिंशद्विकलाधिकाः ३२। ३१ ३३। एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः स्पष्टा सिध्येत् तस्यैवं किञ्चिदधिकाः द्वात्रिंशत् कलाः ३२। ०। ९ उत्पद्यन्ते बिम्बकलानां योजनीकरणायानुपातः। यदि त्रिज्याव्यासार्धे एतावत्प्रमाणं बिम्बं तदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विशरर्तु ६५२२ संख्यानि योजनानि। विधस्तु खनागाम्बुधिः ४८० मितानीति” “अत्र श्रीपतिः व्यासा रवीन्दुक्षितिगोलकानां क्रमेण तेजोजलमृण्मयानाम्। स्युर्योजनैराकृतिवाणषड्भिः ६५२२ र्व्योमाष्टवेदैः ४८० कुगजेषु चन्द्रैः १५८५”। अन्येषां गुरुगुरुतरकक्षास्थितानां ग्रहाणां गुरुगुरुतरत्वादिकं बोध्यं न तु विशेष संख्या सौरागमेषुक्ता विष्णुपुराणादौ उक्ताऽपि उपपत्तिहीनत्वादत्र न प्रदर्शिता। भास्कराचार्य्येण स्वल्पान्तरेणाङ्गीकृतानि मेषादिराशिस्थितेऽर्के सावनदिनानि। मे वृ मि क सिं क तु वृ ध म कु मी ३० ३१ ३१ ३१ ३१ ३० २९ २९ २९ २९ २९ ३० ५५ २४ ३७ २८ २ २९ ५७ २७ १५ २४ ४९ २३ ३३ ५६ ३२ ३५ ५२ ४ २ ३९ ३ ० ४३ ३१ एतन्निबन्धनश्लोकाश्च। “त्रिंशत् पञ्चशरा देवा मेषेऽर्के दिवसादिकम्। वृषे धराग्नयः सिद्धाः षट्शरा मिथुने क्रमात्।। धराग्नयः सप्तरामा रदः कर्के धराग्नयः। गजाश्विनोऽक्षरामाश्च, सिंहे भूवह्नयो द्वयम्।। द्विशराश्च, स्त्रियां त्रिंशद्गोऽश्विनः श्रुतय, स्तुले। गोऽश्विनोऽद्रिशराः पक्षौ, गोऽश्विनो भानि गोऽग्नयः।। कौर्प्ये, धनुधि गोदस्नास्तिथयो वह्नयो, मृगे। गोऽश्विनोऽब्धियमाः, कुम्भे गोदस्रा गोऽब्धयस्तथा।। रामाब्धयो, झषे त्रिंशद्रामदस्रा धराग्नयः”।

सर्बेषां राशीनां त्रिंशद्भागात्मकत्वेऽपि कालभेदेनैव तेपामुदयो देशभेदात् भिन्नएव तेन देशभेदेन दिनरात्रिमानभेदश्च तत्र कारणं च सि० शि० निरूपितं यथा

“यो हि प्रदेशोऽपममण्डलस्य तिर्यक्स्थितोयात्युदयं तथास्तम्। सोऽल्पेन कालेन य ऊर्ध्वसंस्थोऽनल्पेन सोऽस्मादुदया न तुल्याः। य उद्गमे याम्यनतामृगाद्याः खखापमेनापि निरक्षदेशे। याम्याक्षतस्तेऽतिनतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन। कर्क्यादयः सौम्यनताहि येऽत्र ते यान्ति याम्याक्षवशादृजुत्वम्। कालेन तस्माद्बहुनोदयं ते तदन्तरे स्वञ्चरखण्डमेव” सि० शि०। “विषुवदहोरात्रवृत्तानि लङ्कायां समपश्चिमगानि राशिवलयं तु मकरादौ परमक्रान्त्या २४ विषुवन्मण्डलाद्दक्षिणतो मिथुनान्त उत्तरतो सग्नमतस्तिरश्चीनं तत्रापि मेषः स्वक्रान्त्या महत्या तिरश्चीन उदेति अतोऽल्पकालोदयं वृषभस्तदल्पयातस्वस्मात्किञ्चिदधिककालः मिथुनस्तदल्पयातस्तदधिककालः एवं निरक्षेऽपि न समा उदयाः। अथ ये मकरादयो याम्ये नतास्ते याम्याक्षवशात् अतिनता उद्गच्छन्ति स्वदेशेऽतोऽल्पकालादयाः, ये तु कर्क्यादयः खस्वक्रान्त्या सौम्ये नतास्ते याम्याक्षवशादृजुत्वं गता उद्यन्ति अतश्चिरकालोदयाः लङ्कास्वदेशोदययोरन्तराले स्वञ्चरखण्डमेव भवति यतस्तत्क्षितिजयोरन्तराले चरम्। अथ चरखण्डैरूनाधिकत्वं गोलभ्रमणोपरि यथा प्रतीयते तथाह” प्रमि०। “भचक्रपादास्तिथिनाडिकाभिः पृथक् समुद्यन्ति निरक्षदेशे। चक्रार्धमाद्यं च तथा द्वितीयं सर्वत्र पूर्णाग्निमिताभिरेव। मेषादेर्निथुनान्तो नाडीभिस्तिथिमिताभिरुद्वृत्त। लगति कुजे तदघःस्थें प्रथमं ताभिश्चरोनाभिः। कन्यान्ताडतषोऽन्तस्तिथिमितनाडीभिरुद्वलये, लगति कुजे चोर्ध्वस्थे पश्चात्ताभिश्चराढ्याभिः। तद्रहितत्रिंशद्भिः कन्थान्तो वा झषान्तो वा। चरखण्डैरूनाढ्यास्तेन निरक्षादयाः खदेशे स्वुः। क्षितिजेऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत्सर्वम्। उक्त भनुक्तं चान्यत् शिष्याणां बोधजननार्थम्”। सि० शि०। चरखण्डकालमाह सि० शि० “उन्मण्डलक्ष्माबलयान्तराले द्युरात्रवृत्ते चरखण्डकालः। तज्ज्यात्र कुज्याचरशिञ्जिनी स्याद्व्यासार्घवृत्ते परिणामिता सा” सि० शि०। “क्षितिजोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते यावान् कालः स चरखण्डकालः तत्रोन्मण्डलादुभयतश्चरतुल्येऽन्तरै चिह्ने कृत्वा तथे र्निबद्धसूत्रस्यार्द्धं कुज्या सैव त्रिज्यावृत्तपरिणता सती चरज्या स्यादित्यादि त्रिप्रश्ने व्याख्यातम्” प्रमि०। डदानीं लङ्कास्वदेशार्कोभयोरन्तरं चरकालमाह। “निरक्षदेशे क्षितिजाख्यवृत्तमुन्मण्डलं तज्जमुरन्यदेशे। स्वे स्वे कुजऽर्कस्य सनुद्गमोऽस्माच्चरार्द्धमर्कोदययोस्तु मध्ये” सि० शि०। चरफलस्थ धनर्णवासनामाह। “आदौ स्वदेशेऽथ निरक्षदेशे सूर्य्योदयोह्यस्तमयोऽन्यथातः। ऋणं ग्रहेऽस्मादुदये स्वमस्ते फलं चरोत्थं रविसौम्यगोले। याम्ये विलोमं खलु तत्र यस्मादुन्मण्डलं स्वक्षितिजादधस्तात्। नाड्याह्वयादुत्तरयाम्यभागौ गोलस्य तावुत्तरयाम्यगोलौ” सि० शि०। चरस्थानञ्च सि० शि० दर्शित यथा “यल्लङ्कोज्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः। आदौ प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखोदयात् स्यात् तस्मात् क्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम्” सि० शि०। “लङ्काया मेरुपर्य्यन्तं नीयमाना रेखोज्जयिनी कुरुक्षेत्रादिदेशान् स्पृशन्वी या याति सा मध्यरेखत्युच्यते। रेखायां यदार्कोदयस्तत्कालात् पूर्वमेव पूर्वदेशे भवति रेखोदयकालादनन्तरं पश्चिमदेशेऽर्कोदयः। तदन्तराल स्तदन्तरयोजनैः स्पष्टभूवेष्टनादनुपातेन ज्ञायते। यदि स्फुटपरिधियोजनैः षष्ठि ६० घटिका लभ्यन्ते तदा रेखाखपुरुयोरन्तरयोजनैः किमितीति त्रैराशिकेन देशान्तरवटिका सभ्यन्ते। सब्धगत्था च या आनीता नाह्यस्ताभिरनुपातः। यदि घटीषष्ठ्या ग्रहस्यगतिकला लभ्यन्ते तदा देशान्तरघटीभिः किभिति। अथ योजनैरेवानुपातः। यदि स्फुठपरिधियोजनैर्गतिः प्राप्यते तदा देशान्तरयोजनैः किमिति। फलं कलाः प्रागृणं यतस्तत्रादावुदयः। पश्चाद्धनम्। यतस्तत्र रेखोदयादनन्तरमर्कोदय इत्युपपन्नम्” प्रमि०।

चरखण्डानयनञ्च सि० शि० “एकस्य राशेर्वृहतो ज्यका या द्वयोस्त्रिभस्यापि कृतीकृतानाम्। खस्वापमज्याकृतिवर्जितानां मूलानि तासां त्रिगुणा ३४३८ हृतानि। खखद्युमौर्व्या विमजेत् फलानां चापान्यधोऽधः परिशोधिताति। क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकानामुदयासवः स्थुः” सि० शि०। “एकस्य राशेर्वृहती ज्येत्यष्टमी १७१९ ज्या। द्वयोरिति षोडशी २९७७ ज्या। त्रिभस्येति ३०३८ त्रिज्या। आसां वर्गितानां खकीयस्तकीयक्रान्तिज्यावर्गैर्वर्जितानां मूलानि त्रिज्यागुणितानिखखद्युज्यया विभजेत्। फलानां चापान्यधोऽधः परिशोधिताषीति तृतीयात् द्वितीयं द्वितीयात् प्रथमं शोध्यम्। प्रथमं तथाविधमेव। एवं लङ्कीदयासवः स्युः। अत्रोपपत्तिः अत्रोद्गच्छतः क्रान्तिवृत्तस्यंतिर्यक्स्थितत्वात् त्र्य- स्राणि क्षेत्राण्युत्पद्यन्ते। तद्यथा मेषान्तस्य ज्या क्रान्तिवृते कर्णः, तत्क्रान्तिज्या लङ्काक्षितिजे भुजः। तद्वर्गान्तरपदं मेषान्तेऽहीरात्रवृत्ते कोटिः। एवं राशिद्ववस्य ज्या कर्णः, तत्क्रान्तिज्या भुजः, तव्वर्गान्तरपदं वृषभान्तेऽहोरात्रवृत्ते कोटिः। एवं त्रिराशिज्या कर्णः, परमा क्रान्तिज्या भुजः, परमाल्पद्युज्या कोटिः। एताः कोटयश्चापकरणार्थं त्रिज्यावृत्ते परिणामिताः। त्रिज्यागुणाः खखद्युज्यया भक्तास्तासां चापानि। प्रथमं मेषोदयस्य कालः। द्वितीयं राशिद्वयस्य। तृतीयं राशित्रयस्य। अतो विश्लेषितानीत्युपपन्नम्” प्रनि०। “इदानीं प्रकारान्तरेणाह। “कीटादिराश्यन्तजकोटिजीवास्त्रिज्या ३४३८ गुणाः खखदिनज्ययाप्ताः। चापीकृताः प्राग्नदधो विशुद्धाः कीटादिकानामुदयासवो वा” सि० शि०। “कीटादिराशान्तजकोटिजीवास्ता एकद्वित्रिराशिज्या भवन्ति १७१९। २९७७। ३४३८ एवास्त्रिज्यया ३४३८ गुण्याः स्वस्वदिनज्ययाः भक्ता इति यैव वृषभान्ते द्युज्या सैन कीटान्तेऽपि ३२१८। यैव मेषान्ते द्युज्या सैव सिंहान्तेऽपि ३३६६। कन्यान्ते द्युज्या त्रिज्यैव ३४३८। आभिस्ता भाज्याः। फलानां चावान्यधोऽधः शुद्धानि कीटादीनामुदयासवः स्युर्निरक्षे वा। त एव मिथुनवृषभमेषाणामित्यर्थः। अत्रोपपत्तिः। क्रान्तिवृत्ते वृषभान्ते सूत्रस्यैकमग्रं बद्धा द्वितीयमग्रं कीटान्ते निबध्यते तस्य सूत्रस्यार्धमेकराशेर्ज्या भवति। एवं सूत्रस्यैकमग्रं मेषान्ते बद्ध्वा द्वितीयं सिहान्ते तस्य सूत्रस्यार्द्धं राशिद्वयस्य ज्या भवति। एवं मेषतुलादौ बद्धसूत्रस्यार्द्धं त्रिज्या। एता एव वृषभान्तमेषान्तमानान्ताऽहोरात्रवृत्तानां ज्या भवन्ति। यतस्तत्सम्पातेषु क्रान्तिवृत्ते सूत्राणि बद्धानि। अतस्तासां त्रिज्यावृत्तपरिणतानां चापान्तराणि कीटादिकानामुदया भवन्तीति गोले प्रदर्शयेत्”। इदानीं पुनः प्रकारान्तरेणाह प्रमि०। “मेषादिजीवास्त्रिगृहद्युमौर्व्या ३१४१ क्षुणा हृताः स्वस्वदिनज्यया वा। चापीकृताः प्राग्वदधो विशुद्धा मेषादिकानामुदयासवो वा” सि० शि०। अस्योपपत्तिर्गोले कथितैव सुगमा च। अथ निष्पन्नांस्तानसूनाह। “तेऽभ्राद्रिभूपा १६७० गुणगोऽद्रिचन्द्राः १७९३ सप्ताग्निनन्देन्दुमिता १९३७ अथैते। क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैः क्रमोत्कृमस्थैश्च विहीनयुक्ताः। मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च विलोनसंस्थाः। उदोत राशिः समयेन येन तत्सप्तमोऽस्तं सपुपैति तेन” सि० शि०। अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते। द्वितीयप्रकारेण द्वितीयतृतीयौ। “अत्रोपपत्तिः। निरक्षस्वदेशार्कोदययोरन्तरं चरम्। निरक्षे स्वदेशे च मेषादिः सममुदेति मेषान्त आदौ स्वक्षितिजे तत उन्मण्डले लगति। अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति। एवं वृषमिथुनयोरणि। कर्क्यादौ तु चरखण्डानामपचीयमानत्वाद्धनं तानि परिणमन्ति। तुलादौ तून्मण्डलस्याधःस्थित त्वाच्चरखण्डानि धनं भवन्ति। मकरादौ तु चरखण्डानामपचीयमानत्वादृणं परिणमन्ति। इत्यादि गोले सम्यग्बिलोक्यम्” प्रमि०।

दिननिशोर्लघुत्वमहत्त्वे हेतुमाह “अतश्च सौम्ये दिबसो महान् स्याद्रात्रिर्लघुर्व्यस्तमतश्च याम्ये। द्युरात्रवृत्ते क्षितिजादधस्थे रात्रिर्यतः स्याद्दिनमानमूर्द्धे। सदा समत्वं द्युनिशोर्निरक्षे नोन्मण्डलं तत्र कुजाद्यतोन्यत्” सि० शि०। “क्षितिजादुपरिस्थेऽहोरात्रवृत्तखण्डे यावान् कालस्तावान् दिवसः यावांस्तदधस्थे तावती रात्रिरिति” प्रमि०। इदानीं विशेषमाह “षट्षष्टिभागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरो विशेषः। लम्बाधिका क्रान्तिरुदक् च यावत्तावद्दिनं सन्ततमेव तत्र। यावच्च याम्ये सततं तमिस्रा ततश्च मेरौ सततं समार्द्धम्” सि० शि०। “यत्र देशे षट्षष्टे (६६) रधिकाः पलांशास्तत्रायं विशेषः अर्कस्योत्तरा क्रान्तिः (२४) र्यावत्कालं लम्बाधिका भवति तावत्कालं सततं दिनमेव याम्या क्रान्ति (२४) र्यावत् तावत्सततं रात्रिरेव तद्यथा यत्र किल सप्ततिः (७०) पलांशास्तत्र लम्बो विंशतिः (२०) तत्र देशे विषुवद्वृत्तं दक्षिण क्षितिजादुपरिभागविंशत्योत्तरक्षितिजादधश्च तावत यदा रवेरुत्तरा क्रान्तिर्भागविंशतिर्भवति तदोत्तरक्षितिजे रविविम्बमर्धोदितं भूत्वान्मध्याह्ने दक्षिणक्षितिजादुपरियाम्योत्तरमण्डले भागचत्वारिंशतोन्नतं भवति तदा त्रिंशत्घटिका दिनदलम् अतोदिनं षष्टिः रात्रिः शून्यं तता द्वितीयदिने उत्तरक्रान्तेरधिकत्वाद्रविरुत्तरक्षितिजं नस्पृशति एवं प्रतिपर्ययं परमक्रान्ति (२४) र्यावदुपर्युपरि परिभ्रमति एवं मिथुनान्ते उत्तरक्षितिजादुपरिभागचतुष्टयं याति पुनस्तेनैव क्रमेणावरोहति विंशतिभागाधिका क्रान्ति र्यावत्तावत्कालं रविः सततं दृश्यः तावद्दिनमेव अनयैव युक्त्या दक्षिणगोले क्षितिजादधस्थेऽर्के सततं रात्रिरिति अतएव मेरौ षण्मासं दिनम्” प्रमि०। तेनात्र देशे सौम्ययाम्ययोर्दिनरात्रिमानं वर्षः। “विषुवद्वृत्तं द्युसदां क्षितिजत्वमितं तथा च दैत्यानाम्। उत्तरयाम्यौ क्रमशोमूर्धोर्द्ध्वगतौ ध्रुवौ यतस्तेषाम्। उत्तरगोले क्षितिजादूर्द्ध्वं परितो भ्रमन्तमादित्यम्। सव्यं त्रिदशाः सततं पश्यन्त्यसुरा अपसव्यगं याम्ये” सि० शि०। अयनकालभेदे संहितोक्तेरन्यार्थपरत्वमाह। “दिनं सुराणामयनं यदुत्तरं निशेतरत्सांहितिकैः प्रकी र्तितम्। दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्तनाय तत्। द्वन्द्वान्तमारोहति यैः क्रमेण तैरेव वृत्तैरवरोहतीनः। यत्रैव दृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन्न विलोक्यते किम्?” सि० शि०। “सांहितिकानां न चेदयमभिप्रायस्तर्हमेषादेरूर्ध्वं मिथुनान्तं यावत् यैर्वृत्तै रेवारोहणं कुर्वन्नपि देवैर्दृष्टः तैरेव पुनरवरोहणं कुर्वन् किं न दृश्यत इति” प्रमि०। तत्फलं दर्शितं श्रीपतिना “मृगादिराशिद्वयभानुभोगात् षट्चर्त्तवः स्युः शिशिरो वसन्तः। ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः। शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदामरम्। भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतां च सा। गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम्। सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत् खलु दक्षिणे च”। इदानीं दिनरात्रिस्वरूपे पितृदिनञ्चाह “दनं दिनेशस्य यतोऽत्र दर्शने तमी तमोहन्तुरदर्शने सति। कुपृष्ठगानां द्युनिशं यथा नृणां तथा पितॄणां शशिपृष्ठवासिनाम्” सि० शि०। पितृदिनस्योदयास्तकालानाह। “विधूर्ध्वभागे पितरोवसन्तः स्वाधः सुधादीधितिमामनन्ति। पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्मात् द्युदलं तदेपाम्! भार्द्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम्। कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्” सि० शि०। इदानीं देशविशेषेण राशिभेदान् सदोदिताननुदितांश्चाह। त्र्यंशयुङ्नवरसाः (६९११/२०) पलांशका यत्र तत्र विषये कदाचन। दृश्यते न मकरो नकार्मुकं किञ्च कर्कमिथुनौ सदोदितौ। यत्र साङ्घ्रिगजवाजिसंमिता (७८। १/४) स्तत्र वृश्चिकचतुष्टयं न च। दृश्यतेऽथ वृषभाच्चतुष्टयं सर्वथा समुदितं च लक्ष्यते। यत्र तेऽथ नवतिः (९०) पलांशकास्तत्र काञ्चनगिरौ कदाचन। दृश्यते न भदलं तुलादिकं सर्वदा समुदितं क्रियादिकम्” सि० शि०। “अयमर्थस्त्रिप्रश्ने “लम्बाधिका क्रान्तिरुदक् च यावात्तावद्दिनं सन्ततमेव तत्र” इत्यादिना सम्यक्कथित एव। यत्र वृश्चिकान्तक्रान्तितुल्यो लम्बस्तत्र ते पलांशाः”। ६९। १/२०। तत्र धनुर्मकरौ क्षितिजादधस्थितावेव भ्रमतः” कर्कमिथुनौ तूपर्येव। (तेन देवभागे धनुर्मकरस्थसूर्य्यकौ द्वौ मासौ रात्रिः शिष्टा दश मासादिनम्)। एवमसुरभागे तथा पलांशके कक दिस्थरविकौ द्वौ मासौ रात्रिः शिष्टा दशमासा दिनम्। यत्र तुलान्तक्रान्तितुल्योलम्बस्तत्राष्टसप्ततिःपञ्चदशकलाधिकाः। ७८। १५। पलांशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधो वृषभादिकमुपरि। “तेन देवभागे वृश्चिकादिस्थरविकाश्चत्वारोमासारात्रिः शिष्टा अष्टौमासादिनम्। दैत्यभागे तु विपर्य्ययेण तथा दिनरात्री। एवं मेरौ नवतिः ९० पलांशास्तत्र तुला दिषट्कमधोमेषादिकमुपरीति (तेन मेषादिषड्राशिस्थरविकाः षण्मासादेवानां दिनं शिष्टा रात्रिः। एवं तुलादिषडाशिस्फरविकाः षण्मासादैत्यानां दिनं शिष्टा रात्रिः) सर्बं भगोले भ्रामिते सति दृश्यते” प्रमि०। “यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्बकौ। तौ क्रमाद्विषुवदह्न्यहर्द्दलेयेऽथवा नतसमुन्नतालवाः” सि० शि०। “चक्रयन्त्रेण ग्रहवेधवत् ध्रुवं विध्येत् तत्र नेम्यां ये उन्नतांशास्तेऽक्षांशाः ये नतास्ते लम्बांशाः। अथ वा विषुवद्दिनार्धे येऽर्कस्य नतोन्नतांशास्तेऽक्षलम्बांशा इति युक्तियुक्तम्” प्रमि०। सप्तमराश्युदयस्यास्तकालताहेतुमाह तत्रैव “योऽभ्युदेति समयेन येन तत् सप्तगोऽस्तमुपयाति तेन च। राशिरूर्ध्वमपमण्डलं कुजादर्धमेव सततं यतः स्थितम्” मू०। “यो राशिर्येन कालेन उदेति तेन तत्सप्तमोऽस्तं याति ये मेषादीनामुदयास्ते तुलादीनामस्तमयाः ये तुलादीनामुदयास्ते मेषादीनामस्त मया इत्यर्थः। यतः अपमवृत्त क्षितिजादुपरि अर्धमेव भवति अर्धमधश्च अतो राश्योरुदयमस्तमयञ्च गच्छतोस्तुल्यकालता उपपद्यते इदानीं विशेषमाह” प्रमि०। “यत्र लम्बजलवा जिनो २४ नकास्तत्र नोदयचराद्यमुक्तवत्। नान्यसंस्थिततयान्यथोदितं येन नैष विषयो नृगोचरः”। यस्मिन्देशे षट्षष्टिभागाधिकः पलस्तत्र केचक राशयः सदोदयाः केचन सदा अस्तमिताः केचन प्रान्तादुद्गच्छान्त अतस्तत्र यथा कथितास्तथा उदया न भवन्ति यावत्सदोदितो रवि स्तावदहोरात्रवृत्तं क्षितिजं न स्पृशति अहोरात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं हि चरम् अतस्तत्र कुज्याचरज्यादिकमसत् शेषं स्पष्टम्” प्रमि०। कालविभागाः सि० शि० दर्शिता यथा। “गुर्वक्षरैः खेन्दुमितै १० रसुः स्यात् षड्भिः पलं तैघटिका खषड्भिः। स्याद्वा घटोषष्टिरहः खरामैर्मासो दिनैस्तैर्द्विकुभिश्च वर्षम्” “एकमात्रो लघुः। द्विमात्रो गुरुः। तथाच “स्वानुस्वारोविसर्गान्तोदीर्घोयुक्तपरस्तु यः” इति छन्दोलक्षणप्रतिपादितम् यदक्षरं स्वानुस्वारं विसर्गात्तं दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम्। गुर्वक्षरस्योच्चार्यमाणस्य यावान् कालस्तद्दशकेनैकोऽसुः प्राणः प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासान्तर्वर्त्ती काल इत्यर्थः। षड्भिः प्राणैरेक पानीयपलम् पलानां षष्ट्या घटी। वटीनां षष्ट्या दिनम्। त्रिंशद्दिनैरेकोमासः मासैर्द्वादशभिर्वर्षमिति कालस्य विभागो दशितः” प्रमि०। भचक्रविभागस्तत्रैव विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते। तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते”।

ब्राह्मादि दिनभेदाः सू० सि० उक्ता यथा “ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा। सौरं च सावनं चान्द्रमार्क्षं मानानि वै नव। चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रर्क्षसावनैः। बार्हस्पत्येनषष्ट्यव्दं ज्ञेयं नान्यैस्तु नित्यशः” सू सि०। “अत्र मनुष्यलोके सौरचान्द्रनाक्ष स वनैश्चतुनिर्मानैर्पर्व हारः कर्मघटना। षष्ट्यव्दं प्रभवादिषष्टिवर्षं जात्यभिप्रायेणैकवचनम्। बार्हस्पत्येन बृहस्पतिमानेन बृहस्पतिमध्यमराशिभोगात्मककालेन प्रत्येकं ज्ञेयम्। अन्यैरवशिष्टैर्ब्राह्मदिव्यपित्र्यप्राजापत्यैः। नित्यशः सदेत्यर्थः। व्यवहारो नास्ति। तुकारात् कादाचित्कत्वेन तैर्व्यवक्षारः” र० ना। अथ सौरेण व्यवहारं प्रदर्शयति “सौरेण द्युनिशोर्वामं षडशीतिमुखानि च। अयनं विषुवच्चैव संक्रान्तेः पुण्यकालता” सू० सि०। “अहोरात्र्योर्मानं सौरेण ज्ञेयम्। प्रात्यहिकसूर्य्यगतिभोगादहोरात्रं भवतीत्यर्थः। षडशीतिमुखानि वक्ष्यमाणानि। चः समुच्चये। तेन सौरमानेन ज्ञेयानि अयनं विपुवत्। चः समुच्चये। संक्रान्तेः पुण्यकालता सूर्य्यबिम्बकलासम्बद्धा सौरमानेन” र० ना०। अथ षडशीतिमुखमाह “तुलादिषडशीत्याह्नां षडशीतिमुखं क्रमात्। तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु” सू० सि०। “तुलारम्मात् षडशीतिदिवसानां सौराणां षडशीतिसुखं भवति। तच्चतुष्टयं षडशीतिमुखस्य चतुःसङ्ख्या द्विस्वभावेषु राशिषु चतुर्षु क्रमादेवं वक्ष्यमाणा भवति” र० ना०। “षड्विंशे थनुषो भागे द्वाविंशेऽनिमिषस्यच। मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे” सू० सि०। “धनुराशेः षड्विंशतितमेऽंशे षडशीतिमुखं, मीनराशेर्द्वाविंशतितमेऽंशे षडशीतिमुखम्। चकारः समुच्चयार्थकः प्रत्येकमन्वेति। मिथुनराशेरष्टादशेऽंशे षडशीतिमुखं, कन्यायाश्चतुर्दशे भागे षडशीतिमुखम्। अत एव तुलादितः षडशित्यंशो गणनया येषु राशिषु भवति ते राशयो द्विस्वभावाः षडशीतिमुखसञ्ज्ञा संक्रान्तिप्रकरणे सांहितिकैरुक्ताः” र० ना०। अथ शडशीत्यंशगणनया चत्वारि षडशीतिमुखान्युक्त्वा भगणांशपूर्त्त्यर्थमवशिष्टांशाः षोडशातिपुण्या इत्याह “ततः शेषाणि कन्याया यान्यहानि तु षोडश। क्रतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम्” सू० सि०। “ततः कन्यादिचतुर्दशभागानन्तरं शेषाणि भगणभागेऽवशिष्टानि कन्याया यान्यहानि सौरभागसमानि तानि षोडश। तुकारात् पूर्वदिनासमानि क्रतुभिर्यज्ञैः समानि। अतिपुण्यानीत्यर्थः। तत्र पितृणां दत्तं श्राद्धादि कृतमक्षयमनन्तफलदं भवति” र० ना०। “अथ राश्यधिष्ठितक्रान्तिवृत्ते चत्वारि स्थानानि पदसन्धिस्थाने विषुवायनाभ्यां प्रसिद्धानीत्याह “भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्। अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः” सू० सि०। “भचक्रनाभौ भगोलस्य ध्रुबद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितयं विषुवद्द्वयं समसूत्रगं परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये विषुवद्वृत्तस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ च क्रमेण पूर्वापरौ विषुवत्सञ्ज्ञौ मेषतुल्याख्यौ चेत्यर्थः। अयनद्वितयमयनद्वयं कर्कमकरादिरूपम्। चः समुच्चये। तेन समसूत्रगं ता विषुवायनाख्याः क्रान्तिवृत्तप्रदेशरूपा भ्रमयश्चतस्रश्चतुःङ्ख्याकाः प्रथिता गणितादौ पदादित्वेन प्रसिद्धाः। एवकारादन्यराशोनां निरासः। तुकारात् तासां समसूत्रस्थत्वेऽपि विषुवायनत्वाभावात् पदादित्वेनाप्रसिद्धिरित्यर्थः” र० ना०। अथावशिष्टनामादिस्वरूपमन्यदप्याह। “तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः। नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि०। “तदन्तरेषु विषुवायनान्तरालेषु। अत्रान्तरालानां चतुःस्थाने सद्भावाद्बहुवचनम्। संक्रान्तिद्वितयं द्वितयं पुना राश्यादिगागे ग्रहाणामाक्रमणं वारद्वयं भवति। तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः। तथा हि मेषाख्य- विषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी। कर्कतुलयोरन्तराले सिंहकन्ययोरादी। तुलामकरयोरन्तराले वृश्चिकधनुषोरादी। मकरमेषयोरन्तराले कुम्भ मीनयोरादी इति। एवं विषुवानन्तरं संक्रमणद्वयमनन्तरनयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरं संक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येन ज्ञेयमित्यर्थः। संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाह नैरन्तर्य्यादिति। निरन्तरतया सम्भूतायाः मंक्रान्तेः सकाशाद्विष्णुपदीद्वयं तदन्तराले इत्यर्थः। अवगम्यं प्रथमसंक्रान्तिर्विष्णुपजसञ्ज्ञा तयोर्द्वयं तदभ्यन्तरे प्रत्येकं भवतीति तात्पर्य्यार्थः। षडशीतिसञ्ज्ञं द्वितीयसंक्रमणं पूर्वसूचितं तयोरपि द्वयं तदन्तराले भवतीति ध्येयम्” र० ना०। अथायनद्वयमाह “भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम्। कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम्” सू० सि०। “सूर्यस्य मकरसंक्रान्तेः सकाशात् षट् सौरमासा उत्तरायणं भवति। कर्कादेः कर्कसंक्रान्तेः सकाशात् तथा सूर्यभोगात। एवकारादन्यग्रहनिरासः। षण्मासाः तुकारात् सौराः। दक्षिणायणं भवति” र० ना०। अथर्तुमासवर्षाण्याह “द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः। मेषादयो द्वादशैते मासास्तैरैव वत्सरः” सू० मि०। “ततो मकरसंक्रान्तेः सकाशात्। अपिशब्दः उत्तरायणावधिना समुच्चयार्थकः। द्विराशिनाथा राशिद्बयस्वामिका राशिद्वयार्कमोगात्मका इत्यर्थः। शिशिरादयः शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ता ऋतवः कालविभागविशेषा भवन्ति। एते सूर्यभोगविषयका मेषादयो राशयो द्वादश मासास्तैर्द्वाददशभिर्मासैः। एवकारान्न्यूनाधिकव्यवच्छेदः। वत्सरः सौरवर्षं भवति” र० ना०। अथ प्रसङ्गात् संक्रान्तौ पुण्यकालानयनमाह। “अर्कबिम्बकलाः पष्ट्या गुणिताभुक्तिभाजिताः। तदर्धनाड्यः संक्रान्तेरर्वाक् पुण्यं तथापरे” सू० सि०। “सूर्यस्य बिम्बप्रमाणकला षष्ट्या गुणिताः सूर्यगत्या भक्तास्तस्य फलस्यार्द्धं तत्सङ्ख्याका घटिका इत्यर्थः। संक्रान्तेः सूर्यस्य राशिप्रवेशकालादित्यर्थः। अर्वाक् पूर्वं पुण्यं स्नानादिधर्मकृत्ये पुण्यघटिकाः पुण्यवृद्धिकारिकाः। अपरे संक्रान्त्युत्तरकाले तथा। स्नानादिधर्भकृत्ये पुण्यवृद्धिदा इत्यर्थः। अत्रोपपत्तिः। सूर्यविम्बकेन्द्रस्य राश्यादौ सञ्चरणकालः संक्रसणकालस्तस्य सूक्ष्मत्वेन दुर्ज्ञेयत्वात् स्थूलकालः को-ऽप्यभ्युपेयः स तु राश्यादौ बिम्बसञ्चरणरूपोऽङ्गीकृतो बिम्बसम्बन्धात्। अतोयदिसूर्य्यगत्या षष्टिसावनघटिकास्तदा सूर्य्यबिम्बकलाभिः का इत्यनुपातानीता विम्बघटिकाः संक्रान्तिकालः स्थूलेः प्राङ्नेमिसञ्चरणकालात् पश्चिमनेमिसञ्चरणकालपर्य्यन्तं तदर्द्धघटिका व्यासार्द्धघटिका इति। संक्रान्तिकालात् ताभिः पूर्वमपरत्र काले प्रागपरनेम्योः क्रमेण सञ्चरणात् पूर्वोत्तरकाले पुण्या इति” र० ना अथ सौरमुक्त्वा क्रमप्राप्तं चान्द्रमानमाह। “अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी। तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः” सू० सि०। “सूर्य्यात् समागमं त्यक्त्वा विनिर्गतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनं यत् तत्सङ्ख्यामितं प्राचीं पूर्वा दिशं गच्छति तत् प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरांशमितम्। ननु सौरदिनं सूर्यांशेन यथा भवति तथैतद्रूपैर्भागैः कियद्भिः पूर्णं चान्द्रं दिनं भवतीत्यत आह अंशैरिति। भागैस्तुकारात् सूर्य्यचन्द्रान्तरोत्पन्नैः, तस्य तद्रूपत्वात् द्वादशभिर्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया। एकं चान्द्रं दिनं ज्ञेयमित्यर्थः। एतदुक्तं भवति। सूर्य्यचन्द्रयोगाच्चान्द्रदिनप्रवृत्तेः पुनर्योगे माससमाप्तेर्भगणान्तरेण चान्द्रे मासस्त्रिंशच्चान्द्रदिनात्मकः। अतस्त्रिंशद्दिनैर्यदि भगणांशान्तरं तदैकेन किमिति। द्वादशभागैरेकं चान्द्रःदनम्। “दर्शः सूर्य्येन्दुसङ्गमः” इत्यभिधानाद्दर्शावधिकमासस्य त्रिंशत्तिथ्यात्मकत्वात् तिथिश्चान्द्रदिनरूपेति” र० ना०। अथ चान्द्रव्यवहारमाह “तिथिः करणमुद्वाहः क्षौरं सर्बक्रियास्तथाः व्रतोपबासयात्राणां किया चान्द्रेण गृह्यते” सू० सि०। “तिथिः प्रतिपदाद्या करणं बवादिकमुद्वाहो विवाहः क्षौरं चौलकर्म। एतदाद्याः सर्वक्रिया व्रतबन्धाद्युत्सवरूपा व्रतोपवासयात्राणां नियभोपवासगमनानां क्रिया करणम्। तथा समुच्चयार्थकः। चान्द्रमानेन गृह्यते अङ्गीक्रियते” र० ना०। अथ चान्द्रमासं प्रसङ्गात्। पतृमानं चाह “त्रिंशता तिथिभिर्मासश्चान्द्रः, पित्र्यमहः स्मृतम्। निशा च, मासपक्षान्तौ तथोर्मध्ये विभागतः” सू० सि०। “त्रिंशता त्रिंशन्मितैस्तिथिभिश्चान्द्रो मासः। पित्र्यं पि सम्बन्धि। अहर्दिनम निशा च रात्रिः पितृसम्बद्धा। चकारो व्यवस्थार्थकः। तेनोभयं नैकं प्रत्येकं, किन्तु मिलितम्। स्मृतमिति लिङ्गानुरोधेनोभयत्रान्वेति तथा च चान्द्रो मासः पित्र्याहोरात्रञ्चेत्यर्थः फलितः। मासपक्षान्तौ मासान्तो दर्शान्तः, पक्षान्तः पूर्णिमान्तः एतावित्यर्थः। विभागतः क्रमेणेत्यर्थः। तयोः पित्र्याहोरात्रयोर्मध्येऽर्द्धे भवतः। दर्शातः पितॄणां मध्याह्नः, पूर्णिमान्तः पितॄणां मध्यरात्रमित्यर्थः। अर्थात् कृष्णाष्टम्यर्धे दिनप्रारम्भः। शुक्लाष्टम्यर्धे दिनान्त इति सिद्धम्” र० ना०। अथ क्रमप्राप्तं नाक्षत्रमानं प्रसङ्गान्माससञ्ज्ञां चाह “भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते। नक्षत्रनाम्ना मासास्ते ज्ञेयाः पर्वान्तयोगतः” “नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रसमूहस्य प्रवहवायुकृतपरिभ्रमः नाक्षत्रं नक्षत्रसम्बन्धि दिनं मानज्ञैः कथ्यते नित्यमित्यनेन चन्द्रभोगनक्षत्रभोगो नाक्षत्रमित्यस्य निरासः भचक्रभ्रमणानुपपपत्तेः। मासमञ्ज्ञा महानक्षत्रनाम्नेति। पर्वान्तयोगतः पर्बान्तः पूर्णिमान्तः तस्य योगात तत्सम्बन्धात् नक्षत्रसञ्ज्ञया मासाः। तुकाराच्चान्द्रा अवगम्याः पूर्णिमान्तस्थितचन्द्रनक्षत्रसञ्ज्ञो मासो ज्ञेय इति तात्पर्य्यार्थः। तथाहि यद्दर्शान्तावधिकश्चान्द्री मासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थितचन्द्रनक्षत्रसञ्ज्ञः। यथा चित्रासम्बन्धाच्चैत्रः। विशाखासम्बन्धाद्वैशाखः। ज्येष्ठासम्बन्धाज्ज्यैष्ठः। आषाढासम्बन्धादाषाढः। श्रवणसम्बन्धाच्छ्रावणः। भाद्रपदासम्बन्धाद्भाद्रपदः। अश्विनीसम्बन्धादाश्विनः। कृत्तिकासम्बन्धात् कार्त्तिकः। मृगशीर्षसम्बन्धान्मार्गशीर्षः। पुष्पसम्बन्धात् पौषः। मघासम्बन्धान्माघः। फाल्गुनीसम्बन्धात् फाल्गुन इति” र० ना०। ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्सञ्ज्ञा मासानामुचितेत्यत आह “कार्त्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्। अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू० सि०। नक्षत्रसंयोगार्थमिति निमित्तसप्तमी। कार्त्तिक्यादिषु कार्त्तिकमासादीनां पौर्णमासीष्वत्यिर्थः। कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितं कत्तिकारोहिणीभ्यां कार्त्तिकः। मृगार्द्राभ्यां मार्ग शीर्षः। पुनर्बसुपुष्पाभ्यां पौषः। आश्लेषामघाभ्यां माघः। चित्रास्वातिभ्यां चैत्रः। विशाखानुराधाभ्यां वैशाखः। ज्येष्ठामूलाभ्यां ज्यैष्ठः। पूर्वोत्तराषाढाभ्यामाषाढः। श्रवणधनिष्ठाभ्यां श्रावण इति फलितम्। अविशिष्टमासानामाह। अन्त्योपान्त्याविति। अत्र कार्तिकस्यादित्वेन ग्रहणादन्त्य आश्विनः। उपान्त्यो भाद्रपदः। एतौ मासौ पञ्चमः फाल्गुनः। चकारः समुच्चये इति मासत्रयं त्रिधा स्थानत्रय उक्तम। रेवत्यश्विनीभरणीति नक्षत्रत्रयसम्बन्धादाश्विनः। शततारापूर्वोत्तराभाद्रपदेति नक्षत्रत्रयसम्बन्धाद्भाद्रपदः। पूर्वोत्तराफाल्गु नीहस्तेति नक्षत्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम्” र० ना०। अथ प्रसङ्गात् कार्त्तिकादिबृहस्पतिवर्षाण्याह। “वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ। कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा” सू० सि०। यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासो भवति। तथेति समुच्चयार्थकम्। बृहस्पतेः सूर्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु म सेषु कृष्णवक्षे पञ्चदशे तिथौ अमायामित्यर्थः। चकारः पौर्णमासीसम्बन्धात् समुच्चयार्थकः। योगो दिननक्षत्रसम्बन्धः कार्त्तिकादीनि द्वादश वर्षाणि भवन्ति। वैशाखकृष्णपक्षपञ्चदश्याममारूपायां बृहस्पतेरस्त उदये वा जाते सति तदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्त्तिकसञ्ज्ञम्। एवं ज्येष्ठाषाढश्रावणभाद्रपदाश्विनकार्त्तिकमार्गशीर्षपौषमाघ फाल्गुनचैत्रामासु मृगपुष्पगघापूफाचित्राविशाखाज्येष्ठापूषाश्रवणपूभाश्विनीदिननक्षत्रसम्बन्धा न्मार्गशीर्षादीनि भबन्ति। अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्धः प्रागुक्तो बोध्यः। पञ्चदशे इत्युपलक्षणम्। तेन यद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्सञ्ज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम्। संहिताग्रन्थेऽस्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकैर्गण्यते “येनोदितेज्य इत्युक्तेरिति” र० ना० अथ क्रमप्राप्तं सावनमाह “उदयादोदयं भानोः सावनं तत् प्रकीर्त्तितम्। सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः” सू० सि०। सूर्य्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्य्यन्तं यत् कालात्मकं तत् सावनं मानज्ञैरुक्तम्। एतेनोदयद्वयान्तरात्मकालस्य गणनया सावनानि वसुद्ध्यष्टाद्रीत्यादिना मध्याधिकारोक्तानि भवन्ति। तद्व्यवहारमाह यज्ञकालविधिरिति। यज्ञस्य यः कालस्तस्य गणना तैः सावनैः। तुकारोऽन्यमाननिरासार्थकैवकारपरः” र० ना०। अथ व्यवहारान्तरमाह। “सूतकादिपरिच्छेदो दिनमासाव्दपास्तथा। मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते” सू० सि०। “सूतकं जन्ममरणसम्बन्धि। आदिपदग्राह्यं चिकित्सितचान्द्रायणादि। तस्य परिच्छेदो निर्णयः। दिनाधिपमासेश्वरवर्षेश्वराः। तथा समुच्चये ग्रहाणां गतिर्मध्यमा। तुकारात् स्पष्टगतेर्निरासः तस्याः प्रतिक्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात्। एतेन स्पष्टगत्या स्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सूचितम्। सावनमानेन एवकारादन्यमाननिरासः। गृह्यते सुधीभिरङ्गीक्रियते। अत्र बहुवचनानुरोधेन गृह्यत इत्यत्र बहुवचनं ज्ञेयम्। अथ दिव्यमानमाह। “सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्। यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात्” सू० सि०। “पूर्वार्धं पूर्वं व्याख्यातम्। यदहोरात्रं पूर्वार्वोक्तं सूर्य्यस्य भगणभोगपूर्तेः प्रोक्तं पूर्वमनेकधा निर्णोतं तदहोरात्रं दिव्यमानं स्यात्” र० ना०। अथावशिष्टे प्राजापत्यब्राह्ममाने आह “मन्वन्तरव्यतस्था च प्राजाप्रत्यमुदाहृतम्। न तत्र द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्त्तितम्” सू० सि०। दृष्टान्त भूगोलभगोलरचनापकारः सू० सि० दर्शितो यथा

“भूभगोलस्य रचानां कुर्व्यादाश्चर्य्यकारिणीम्। ट्यभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्। दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम्। आधारकक्षाद्वितयं कक्षां वैषुवतीं तथा” सू० सि०। “भगोलस्य भूगोलादभितः संस्थितस्य नक्षत्राधिष्ठितगोलस्य प्रागव्यायोक्तार्थस्य रचनां स्थितिज्ञानार्थं दृष्टान्तात्मकगोलस्य निर्मितिं सुधीर्गणको गोलशिलपज्ञः कुर्य्यात्। ननु त्वदुक्तेन सर्वं ज्ञानं भवतीति दृष्टान्तगोलनिबन्धनं व्यर्थमेवेत्यत आह आश्चर्य्यकारिणीमिति। उक्तप्रतीत्युद्भूताद्भुतबुद्धिजनयित्रीं तथाचोक्तेन खाधस्तिर्य्यग्भागयोर्लोकावस्थानस्य तद्भागस्थभगोलप्रदेशस्य च भूरेर्निराधारत्वादेश्च ज्ञानं मनसि सप्रतीतिकं न भवत्यतो दृष्टान्तगोले तन्निश्चयसम्भवात् तन्निवन्धनमावश्यकमिति भावः। कथं रचनां कुर्य्या दथत आह अभीष्टमिति। मुवो गोलमभीष्टं स्वेच्छाकल्पितपरंधिप्रमाणकं दारवं काष्ठघटितं सच्छिद्रं कारयित्वा काष्ठशिल्पज्ञद्वारा कृत्वेत्यर्थः। मेरोरनु कलपरूपं दण्डकाष्ठं तन्मध्यगं तस्य क ष्ठघटितभूगोलस्य मध्ये छिद्रमध्ये शिथिलतया स्थितम्। उभयत्र भूगोलस्थव्यासप्रमाणच्छिद्रस्याग्राभ्यां बहिरित्यर्थः। विनिर्गतमेकाग्रादन्यतराग्रावशिष्टदण्डप्रदेशतुल्यं निःसृतम्। उभयाग्राभ्यां तुल्यौ दण्डपदेशौ यथा स्यातां तथा कुर्य्यादित्यर्थः। भगोलनिबन्धनार्थमाधारवृत्तद्वयमाह आधारकक्षाद्वितयमिति। भगोलनिबन्धनार्थमादावाश्रयार्थं वृत्तयोर्द्वितयमुर्द्ध्वाधस्तिर्यगवस्थानक्रमेणैकमेकमेवं द्वयमित्यर्थः। भूगोलादुभयतस्तुल्यान्तरेण दण्डप्रदेशयोः प्रोतमेकं वृत्तं कुर्य्यात्। तत्तुल्यं वृतमपरं त- दर्धच्छेदेन दण्डप्रोतं कुर्यादिति सिद्धोऽर्थः। एतद्वृत्तद्वयव्यतिरेकेण भूगोलादभितो भगोलनिबन्धनानुपपत्तेः। भगोलनिबन्धनारम्भमाह कक्षेति। वैषुवतीं विषुवसम्बन्धिनीं कक्षां वृत्तपरिधिं विषुवद्वृत्तमित्यर्थः। तथाधारवृत्तद्वयस्यार्द्धच्छेदेन भगोलमध्यवृत्तानुकल्पेन गणकेन निबद्धामित्यर्थः” र० ना०। अथ मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनमन्यदपि श्लोकपञ्चकेनाह “भगणांशाङ्गुलैः कार्य्या दलितैस्तिस्र एव ताः। स्वाहीरात्रार्धकर्णैश्च तत्प्रमाणानुमानतः। क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः। स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात्। कक्षाः प्रकल्पयेत् ताश्च कर्कादीनां विपर्ययात्। तद्वत् तिस्रस्तुलादीनां मृगादीनां विलोमतः। याम्यगोल श्रिताः कायांः कक्षाधाराद्द्वयोरपि। याम्योदग्गोलसंस्थानां भानामभिजितस्तथा। सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत्। मध्ये वैषुवती कक्षा सर्वेषावेव संस्थिता” सू० सि०। “भगणांशाङ्गुलैः द्वादशराशिभागैः षष्ट्यधिकशतत्रयपरिमितङ्गुलैः दलितः समविभागेन खण्डितैरङ्कितैरित्यर्थः। ताः कक्षाः वंशशलाकावृत्तात्मिकास्तिस्रः त्रिसङ्ख्याकाः। एवकारादङ्कने वृत्ते च न्यूनाधिकव्यवच्छेदः। शिल्पज्ञेन गोलगणितज्ञेन कार्याः। एताः पूर्ववृत्तप्रमाणेन न कार्या इत्यभिप्रायेणाह स्वाहोरात्रार्द्धकर्णैरिति। स्वशब्देन मेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्यार्द्धकर्णो व्यासार्द्धं द्युज्या ताभिरित्यर्थः। चकारात् कार्याः। स्वस्वद्युज्यामितेन व्यासार्द्धेन मेषादित्रयाणां वृत्तत्रयं कार्थमित्यर्थः। ननु स्पष्टाधिकारोक्ताहोरात्रार्द्धकर्णानयने युक्त्यभावात् तैर्वृत्तनिर्माणं कुतः कार्यमित्यतः आह तत्प्रमाणानुमानत इति। विषुवतकक्षाप्रमाणानुमानाद्वृत्तत्रयं कार्यम्। यथा विषुवद्वृत्तं पूर्ववृत्तसमम्। तथा तदनुरोधेन मेषान्तवृत्तमल्पं तदनुरोधेन वृषान्तवृत्तमल्पं तदनुरोधेन मिथुनान्तवृत्तमल्पमित्युत्तरोत्तरमल्पव्यासार्द्धवृत्तम्। तत्त्वहोरात्रवृत्तमिति द्युज्याव्यासार्द्धेन वृत्तनिर्माणं युक्तियुक्तं क्रान्तिज्यावर्गोनात् त्रिज्यावर्गान्मूलस्याहोरात्रवृत्तव्यासार्द्धत्वादिति भावः। वृत्तत्रयं सिद्धं कृत्वा दृष्टान्तगोले निबध्नीतः। क्रान्तिविक्षेषभागैरिति क्रान्तिवृचस्य विषुवद्वृत्तप्रदेशाद्विक्षिप्तपद्दशा यैरंशैः। चकारादाधारवृत्तस्थैर्दलितैः समपिभागेन स्वण्डितैरङ्कितैः। दक्षिणोत्तरैर्विषुवद्वृत्त- क्रान्तिवृत्तपदेशयोर्दक्षिणोत्तरान्तरात्मकैरुक्तलक्षणैः स्वकीयैः खकीयैः स्वराशिसम्बद्धैरपक्रमैः स्पष्टाघिकारानीतक्रान्त्यंशैर्मेषादीनां मेषादिराशित्रयान्तानां मेषान्तवृषान्तमिथुनान्तानामित्यर्थः। तिस्रस्त्रिसङ्ख्याकाः प्राङ्निर्मिता वृत्तरूपाः कक्षाः। अपक्रमात्। अपशब्दस्योपसर्गत्वात् क्रमादित्यर्थः। प्रकल्पयेत्। शिल्पज्ञगणको विषुवद्वृत्तानुरोधेनाषारवृत्तद्वये उत्तरतो निबन्धयेदित्यर्थः। कर्कादीनामाह ता इति। मेषादिकक्षा निबद्धाः कर्कादीनां कर्कसिंहकन्यानामादिप्रदेशानां विपर्ययात् व्यत्यासात्। चकारः समुच्चये। तेन प्रकल्पयेदित्यर्थः। मिथुनान्तवृत्तं कर्कादे, र्वृषान्तवृत्तं सिंहादे, र्मेषान्तवृत्तं कन्यादेरिति फलितम्। तुलादीनामाह तद्वदिति। तुलादीमां तुलावृश्चिकधन्विनां तिस्रः अन्यास्त्रिसङ्ख्यकाः कक्षास्तद्घदेकद्वित्रिराशिक्रान्त्यंशैस्तुलान्तवृश्चिकान्तधनुरन्तानां याम्यगोलाश्रिताः। विषुवद्वृत्ताद्दक्षिणनाग आधारवृत्तद्वये निबद्धाः कार्याः। गणकेनेति शेषः। मकरादीनामाह। मृनादीनामिति। विलोमत उत्क्रमात् तुलादिसम्बद्धाः कक्षा मकरादीनां भवन्ति। धनुरन्तवृत्तं मकरादे, र्वृश्चिकान्तवृत्तं कुम्भादे,स्तुलान्तवृत्तं मीनादेरिति फलितम्। ताराणां कक्षानिबन्धनमाह। कक्षाधारादिति। मानामश्विन्यादिसप्तविंशतिनक्षत्रविम्बानां याम्योदग्गोलसंस्थानां विषुवद्वृत्ताद्दक्षिणोत्तरभागयोर्यषायोग्यमवस्थितानां यन्नक्षत्रध्रुबकस्पष्टक्रान्तिरुत्तरा तन्नक्षत्राणामुत्तरभागावस्थितानां येषां स्पष्टक्रात्तिदक्षिणा तेषां दक्षिणभागावस्थितानामित्यर्थः। द्वयोर्दक्षिणोत्तरभागयोः। अपिशब्दो याम्योत्तरनक्षत्रक्रमेण संबन्धार्थकः। कक्षाधारात् कक्षाणामाधारवृत्तद्वयात् तयोरित्यर्थः। सप्तम्यर्थे पञ्चमी। कक्षाः स्वस्पष्टक्रान्तिज्येत्पन्नद्युज्याव्यासार्द्धप्रमाणेन वृत्ताकाराः प्रकल्पयेत्। शिलपज्ञो निबन्धयेत्। अन्येपामप्याह अभिजित इति अभिजिन्नक्षत्रविम्बस्य सप्तर्षिविम्बानामगस्त्यनक्षत्रविब्धानां चकारोऽवृसन्धेयः। तथा कक्षा यथायोग्यं प्रकलपयेदित्यर्थः। निबन्धनप्रकारमुपसंहरति मध्य इति। सर्वासामुक्तकक्षाणां मध्ये तुल्यभागेऽनाधारवृत्तमध्यप्रदेशे। एवकारादन्थयोगव्यवच्छेदः। वैषुवती कक्षा विषुवसन्वन्धिनी वृत्तरूपा संस्थिता यथाऽवस्थिता भवति तथा शिल्पज्ञः कक्षां निवन्धयेदित्यर्थः। विषुवद्वृत्तात् स्वस्पष्टक्रान्त्यन्तरेण स्वद्युज्याव्यासार्द्धप्रमाणेनाहोरात्रवृतमाधारवृत्तयोर्निबन्धयेदिति निष्कृष्टोऽर्थः” र० ना०। अथ गोले मेषादिराशिसन्निवेशं सार्धश्लोकेनाह “तदाधारयुतेरूर्द्ध्वमयने विषुवद्द्वयम्। विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात्। क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्पयेत्” सू० सि०। “तदाधारयुतेस्तत् विषुवद्वृत्तमाधारवृत्तं च तयोर्युतेः सम्पातादूर्द्धमुपरि। अन्तिमाहोरात्राधारवृत्तयोः सम्पातेऽयने दाक्षणोत्तरायणसन्धिस्थाने भवतः अत्रोर्ध्वपदसञ्चाराधारवृत्तमूर्ध्वाधरं ग्राह्यं न तिर्यगुन्मण्डलाकारम्। तेनैतत् फलितम् विषुवद्वृत्तस्योर्ध्वाधराधारवृत्ते ऊर्ध्वमधश्च यत्र सम्पातस्तत्रीर्द्ध्वसम्पातान्मकराद्यहोरात्रवृत्तं चतुर्विंशत्यंशैस्तदाधारवृत्ते दक्षिणतो यत्र लग्नं तत्रोत्तरायणसन्धिस्थानम्। एवमधः सम्प तात् कर्काद्यहोरात्रवृत्तं चतुर्वंशत्यंशैस्तदाधारवृत्ते उत्तरतो यत्र लग्नं तत्र दक्षिणायणसन्धिस्थानमिति। अयनाद्विषुवस्य विपरीतस्थितत्वादूर्ध्वशब्दयोजितविपरीताधःशब्दसम्बन्धाद्विषुबद्वयं भवति। तात्पर्य्यार्थस्तु तिर्यगुन्मण्डलाकाराधारवृत्तविषुवद्वृत्तसम्पातौ पूर्वापरौ क्रमेण मेषादितुलादिरूपौ बिषुवत्स्थाने भवत इति। अथ राशिसाकल्यसन्निबेशमाह विषुवत्स्थानत इति। विषुवप्रदेशात् स्फुटैराशिसम्बन्धिभिस्त्रिंशन्मितैरंशैर्भगणसञ्चाराद्राशिसाकल्यसन्निवेशात् तिर्यग्ज्याभिरुक्तवृत्तानुकारातिरिक्तानुकारसूत्रवृत्तप्रदेशैरजादीनां मेषादीनाम्। एवमयनविषुवकल्पनरीत्या तदन्तराले क्षेत्राणि स्थानानि सुधोर्मणकः प्रकल्पयेदङ्कयेत्। यद्यथा पूर्वदिक्स्थविषुवस्थानाद्गोलवृत्तद्वादशांशखण्डप्रदेशेन मेषान्ताहोरात्रवृत्ते पूर्वभागे यत्र स्यानं तस्मात् तदन्तरेण वृषान्ताहीरात्रवृत्ते तदस्तरेण वृषान्तस्थानमस्मादयनसन्धिस्थानं तत्प्रदेशान्तरेणामिथुनान्तस्थानमस्मात् पश्चिमभागे कर्कान्ताहोरात्रवृत्ते तदन्तरेण कर्कान्तस्थानमस्मादपि सिंहान्ताहोरात्रवृत्ते तदन्तरेण सिंहा न्वस्थानमस्म दपि तदत्तरेण पश्चिमविषुवस्थानं कन्यान्तस्थानमस्मादपि तुलान्ताहोरात्रवृत्ते तदनरेण तुलान्तस्थाननस्मादपि वृश्चिकाकान्ताहोरात्रवृक्षे तदन्तरेण वृश्चिकान्तस्थानमस्मादपि तदन्तरेण दक्षिणायनसन्धिस्थानं धनुरन्तस्थानमस्मात् कुम्भाद्यहोरात्रवृत्ते तदन्तरेण मकरान्तस्थानमस्मादपि मीनाद्यहोरात्रवृत्ते तदन्तरेण कुम्भान्तस्थानं मीनादिस्थानं च अस्मादपि पूर्वविषुवे मीनान्तस्थानं मेषादिस्थानं च तदन्तरेणेति व्यक्तम्” र० ना०। ननु गोले वृत्ते द्वा- दशराशीनां सत्त्वादन्यथा चक्रकलानुपपत्तेरित्यत्रैकवृत्ताभावात् कथं राश्यङ्कनं? राशिविभानुपपत्तिश्च अन्तरालभागस्याकाशात्मकत्वादित्यतो वृत्तकथनच्छलेन पूर्वोक्तं स्पष्टयन् सूर्यस्तद्वृत्ते भगणभोगं करोतीत्याह “अयनादयनं चैव कक्षा तिर्यक् तथापरा। क्रान्तिसञज्ञा तया सूर्यः सदा पर्येति भासयन्” सू० सि०। “अयनस्थानमारभ्य परिवर्त्ततदयनस्थानपर्य्यन्तं चकार आरम्भसमाप्त्योर्भिन्नायनस्थाननिरासार्थकः। अपरा गोल आधारवृत्तसमा वृत्तरूपा कक्षा तथा राश्यङ्कमार्गेण। एव कारोऽन्यमार्गव्यवच्छेदार्थकः। तिर्यक् उक्तवृत्तानुकारविलक्षणानुकारा क्रान्तिसंज्ञा क्रमणं क्रान्तिः। ग्रहगमनभोगज्ञानार्थं वृत्तं तत्सञ्ज्ञमनुकल्पतम्। अयनविषुवद्वयसंसक्तं क्रान्तिवृत्तं द्वादशराश्यङ्कितं गोले निबन्धयेदिति तात्पर्यार्थः। भासयन् भुवनानि प्रकाशयन् सन् स सूर्यः। एतेन चन्द्रादीनां निरासः। सदा निरन्तरं तया क्रान्तिसञ्ज्ञया कक्षया पर्येति स्वशक्त्या ग च्छन् भगणपरिपूर्त्तिभोगं करोति। सूर्य्यगत्यनुरोधेन नियतं क्रान्तिवृत्तं कलिपतमिति भावः”। ननुचन्द्राद्याः क्रान्तिवृत्ते कुतो न गच्छन्तीत्यत आह” र० ना०। “चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः। ततोऽपकृष्टा दृश्यन्ते विक्षेपान्ते ष्वपक्रमात्” सू० सि०। “चन्द्रादयोऽर्कव्यतिरिक्ता ग्रहाः स्वकैः स्वीयैः पातैः पाताख्यदैवतैरपमण्डलं क्रान्तिवृत्तमाश्रितैः स्वस्वभोगस्थानेऽधिष्ठितैस्ततः क्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः। चकाराविक्षे पान्तरेणापकृष्टा दक्षिणत उत्तरतो वा कर्षिता भवन्ति। अतः कारणादपक्रमात् क्रान्तिवृत्तान्तर्गतस्वभोगस्थानादित्यर्थः। दक्षिणत उत्तरतो वा विक्षेपान्तेषु गणितागतविक्षेपकलाग्रस्थानेषु भूस्थजनैर्द्दश्यन्ते। तथाच क्रान्तिवृत्तं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रान्तिवृत्ते पातस्थाने तत्षड्भान्तरस्थाने च लग्नमुकपरमविक्षेपकलाभिस्तत्त्रिभान्तरस्थानादूर्ध्वावःक्रमेण दक्षिणोत्तरतो लग्नं च वृत्तं विक्षेपवृत्तं चन्द्रादिगत्यनुरोधेन स्वं स्वं मिन्नं कल्पितं तत्र गच्छतीति भावः” र० ना०। अथ त्रिप्रश्नाधिकारोक्तलग्नमध्यलग्नयोः स्वरूपमाह “उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात्। लङ्कोदयै र्यथासिद्धं खमध्योपरि मध्यमम्” सू० सि०। “उदयक्षितिजे क्षितिजवृत्तस्य पूर्वदिग्देश इत्यर्थः। लग्नं क्रान्तिवृत्तं यत्प्रदेशे प्रवहवायुना संसक्तं तत्पदेशो मे- षाद्यवधिभोगेनोदयलग्नमुच्यत इत्यर्थः। प्रसङ्गादस्तलग्नस्वरूपमाह अस्तमिति। तद्वशादुदयलग्नानुरोधादस्तमस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदिक्प्रदेशमित्यर्थः। क्रान्तिवृत्तं गच्छत्। यत्प्रदेशेन प्रवहवायुना संलम्मं तत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नमुच्यत इत्यर्थः। तथा च क्षितिजोर्द्ध्वं तथा क्रान्तिवृत्तस्य सद्भावादुदयास्तलग्नयोः षट्राश्यन्तरं सिद्धम् लङ्कोदयैर्निरक्षदेशीयराश्युदयासुभिः। यथा त्रिप्रश्नाधिकारोक्तप्रकारेण तत्सङ्ख्यामितं सिद्धं निष्पन्नम्। मध्यमं मध्यमलग्नं तत् खमध्योपरि खस्य दृश्यांशविभागस्य मध्यं मध्यगतदक्षिणोत्तरसूत्रवृत्तानुकारप्रदेशरूपं नतु खमध्यं मास्कराचार्याभिमतं खखस्तिकं तल्लग्नस्य कादाचित्कत्वेन तदानुत्पत्तेः। तस्योपरि स्थितं क्रान्तिवृत्तं याम्योत्तरवृत्ते यत्प्रदेशेन लग्नं तत्प्रदेशो मेषाद्यवधिभोगेन मध्यलग्नमुच्यत इति तात्पर्यार्थः” र० ना०। अथ त्रिप्रश्नाकिकारोक्तान्त्यायाः स्वरूपं स्पष्टाधिकारोक्तचरज्यायाः स्वरूप चाह “भमध्याक्षतिजयोर्मध्ये या ज्या सान्त्याभिधीयते। ज्ञेया चरदलज्या च पिषुवत्क्षितिजान्तरम्” सू० सि०। “या उत्तरगोले त्रिज्या चरज्यायुतिरूपा दक्षिणगोले चरज्योनत्रिज्यारूपा त्रिप्रश्नाधिकारोक्ता। सा अन्त्या मध्ये याम्योत्तरवृत्तं क्षितिजं स्वाभितदेशक्षितिजवृत्तं तयोर्मध्येऽन्तरालेऽहोरात्रवृत्तस्यैकदेशप्रदेशे ज्या। उदयास्तसूत्रयाम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधिसूत्ररूपा ज्यासूत्रानुकारा न तु ज्या अहोरात्रक्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्याससूत्रत्वाभावात्। अतएवोत्तरगोलेऽन्त्या त्रिज्याधिका सङ्गच्छते। अभिधीयते गोलज्ञैः कथ्यते। नन्वन्त्योपजीव्यचरज्यैव किंस्वरूपा यया तत्सिद्धिरित्यत आह ज्ञेयेति। “उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्त्यते” इति त्रिप्रश्नाधिकारोक्तेन द्वयोः शब्दयोरेकार्थवाचकत्वात् तिर्यगाधारवृत्तानुकारं स्थिरं निरक्षक्षितिजवृत्तमुन्मण्डलं क्षिनिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम्। चकारो विशेषार्थकस्तुकारपरस्तेन तदन्तरालस्थिताहोरात्रवृत्तैकदेशस्यार्द्धज्यारूपमृजुसूत्रयोरन्तरविशेषात्मकम्। तथा च स्वनिरक्षदेशस्वदेशयोरुदयास्तसत्रयोरन्तरमूर्द्ध्वाधरमिति फलितार्थः। चरदलज्या तदन्तरालस्थिताहोरात्रवृत्तैकदेशरूपचराख्यखण्डकस्य। न तु दलमर्द्धम्। ज्या चरज्येत्यर्थः। गोलज्ञैर्ज्ञातव्या” र० ना०। ननु पूर्वश्लोक- द्वयोक्तं क्षितिजज्ञानं विना दुर्बोधमित्यतः श्लोकार्धेन क्षितिजस्वरूपप्ताह “कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्” स० सि०। भूगोले स्वकं स्वीयं स्थानं भूप्रदेशैकदेशरूपमुपरि सर्वपदेशेभ्य ऊर्द्ध्वं कृत्वा प्रकल्प्य मध्ये तादृशभूगोल ऊर्द्ध्वावःखण्डसन्धौ यद्वृत्तं तत् क्षितिजवृत्तं तदनुरोधेन दृष्टान्तगोले क्षितिजवृत्तं स्थिरं संसक्तं कार्य्यमिति भावः” र० ना०। अथैनं दृष्टान्तगोलं सिद्धं कृत्वास्य स्वत एव पश्चिमभ्रमो यथा भवति तथा प्रकारमाह “वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टितभ्। अमृतस्रावयोगेन कालभ्रमणमाधनम्” सू० सि०। “बिहिः गोलोपरीत्यर्थः। गोलाकारेण वस्त्रेण छन्नं छादितं दृष्टान्तगोलम्। चकाराद्वस्त्रोपरि तत्तद्वृत्तानामहनं कार्यम्। लोकालोकेन वेष्टितं दृश्यादृश्यसन्धिस्थवृत्तेन क्षिनिजाख्येन संसक्तम्। अपिः समुच्चये। एतेन क्षितिजं वस्त्रच्छन्नं न कार्यं किं तु वस्त्रोपरि क्षितिजं गोलसंसक्तं केनापि प्रकारेण स्थिरं यथा भवति तथा कार्य्यमिति तात्पर्यम्। अमृतस्रावयोगेनैतादृशं गोलं कृत्वा जलप्रवाहाधोघातेन कालभ्रमणसाधनं षष्टिनाक्षत्रघटीभिर्दृष्टान्तगोलस्य भ्रमणं यथा भवति तथा साधनं कारणं कार्य्यं स्वयंवहगोलयन्त्रं कार्य्यमित्यर्थः। एतदुक्तं भवति दृष्टान्तगोलं वस्त्रच्छन्नं कृत्वा तदाधारयष्ट्यग्रे दक्षिणोत्तरभित्तिक्षिप्तनलिकयोः क्षेप्ये। यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात्। ततो यष्ट्यग्रर्जुमार्गगतजलप्रवाहेण पूर्वाभिमुखेन तस्याधः पश्चाद्भागे घातोऽपि यथा स्यात् तथाऽस्य दर्शनार्थमेव वस्त्रच्छन्नत्वमुक्तम् अन्यथा गोलवृत्तान्तरवकाशमार्गेण जलाघातदर्शनभ्रमेण चमत्कारानुत्पत्तेः। आकाशाकारतासम्पादनार्थमपि वस्त्रच्छन्नत्वमुक्तम्। इदं वस्त्रमार्द्रं यथा न भवति तथा चिक्वणवस्तुना भस्मादिना लिप्तं कार्य्यम्। क्षितिजवृत्ताकारेणाधो गोलो दृश्यो यथा स्यात् तथा परिखारूपा भित्तिः कार्य्या। परन्तु दक्षिणयष्टिभागस्तत्र शिथिलो यथा भवति अन्यथा भ्रमणानुपपत्तेः। पूर्वदिक्स्थपरिखाविभागाद्बहिर्जलप्रवाहोऽदृश्यः कार्य्य इत्यादि स्वबुध्यैव ज्ञेयमिति” र० ना०। सि० शि० अत्र विशेषोऽभिहितो यथा

“कृत्वादौ ध्रुयिष्टिमिष्टतरुजामृज्वीं सुवृत्तां ततो यष्टीमध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः। बध्नीयाच्छशिसौम्यशुकतपनारेज्याकिभानां दृढान् गोनां- स्तत्परितः श्लथौ च नलिकासंस्थौ खदृग्गोलकौ” सि० शि० “आदौ सारदारुमयीं यष्टिं कृत्वा तदर्द्धस्थाने तत्र प्रोताम् अपृथ्वीं सूक्ष्मां शिथिलां च पृथ्वीं विधाय तस्या बहिश्चन्द्रादीनां गोलान् यष्ट्या सह दृढान् बघ्नीयात्। तेषां बहिर्नलिकासंस्थौ खदृग्गोलावितिंसाधारण्येनोक्तम्” प्रमि०। इदानीं सविशेषमाह “पूर्पापरं विरचयेत् सममण्डलाख्यं याम्योत्तरं च विदिशोर्वलयद्वयं च। ऊर्द्ध्वाव एवमिह वृत्तचतुष्कमेतदावेष्ट्य तिर्यगपरं क्षितिजं तदर्वे” सि० शि०। “एकं पूर्वापरमन्यद्याम्योत्तरं तथा कोणवृत्तद्वयमेवं वृत्तचतुष्टयमूर्द्धाधोरूपमावेष्ट्य तदर्धे वृत्तं क्षितिजाख्यं निवेशयेत्। अत्र याम्योत्तरवृत्त उत्तरक्षितिजादुपरि पलांशान्तर एकं ध्रुवचिह्नं कार्यम्। दक्षिणक्षितिजादधोऽन्यत्। इदानीमुन्मण्डलमाह” प्रमि० “पूर्वापरक्षितिजसंगमयोर्विलग्नं याम्ये ध्रुवे पललवैः क्षितिजादधःस्थे। सौम्ये कुजादुपरि चाक्षलवैर्ध्रुवे तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” सि० शि०। “समवृत्तक्षितिजयोर्यौ पूर्वापरौ संपातौ तयोर्ध्रुवचिह्नयोश्च सक्तं यन्निवध्यंते तदुन्मण्डलसंज्ञम्। दिनरात्र्योर्वृद्धिक्षयौ तद्वशेन भवतः। इदानीं विषुवन्मण्डलमाह” प्रमि“पूर्वापरस्वस्तिकयोर्विलग्नं खखस्तिकाद्दक्षिणतोऽक्षभागैः। अधश्च तैरुत्तरतोऽङ्कितं च षष्ट्यात्र नाडीवलयं विदध्यात्” सि० शि०। “तयोरेव पूर्वापरसंपातयोर्विलग्नं तथा याम्योत्तरवृत्ते खखस्तिकाद्दक्षिणतोऽधःस्वस्तिकादुत्तरतोऽक्षांशान्तरे यद्वृत्तं निबध्यते तद्विषुवद्वृत्तम्। इदानीं दृङ्मण्डलमाह” प्रमि०। “ऊर्द्धाधरस्वस्तिककीलयुग्मे प्रोतं श्लघं दृग्वलपं तदन्तः। कृत्वा परिभ्राम्य च यत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र” सि० शि० “खखस्तिके चाधःस्वस्तिके चान्तःकीलकौ कृत्वा तयोः प्रोतं श्लथं दृग्वलयं कार्यम्। तत्तु पूर्ववृत्तेभ्यः किञ्चिन्न्यूनं कार्यम्। यथा खगोलान्तर्भ्रमति। यद्येक एव ग्रहगोलस्तदैकमेव दृङ्मण्डलम्। यो यो ग्रहो यत्र यत्र वर्त्तते तत्र तस्योपरिगमेव परिभ्राम्य विन्यस्य दृग्ज्याशङ्क्वादिकं दर्शनीयम्। अथ वा पृथक् पृथगष्टौ दृङ्मण्डलानि रचयेत्। तत्राष्टमं वित्रिभलग्नस्य। तच्च दृक्क्षेपमण्डलम्। अथ विशेषमाह” प्रमि०। “ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा रचयेत् तथाष्टौ। दृङमण्डलं वित्रिभलग्नकस्य दृव्क्षेपवृत्ताख्यमिदं वदन्ति” सि० शि०। व्याख्यातमेवेदम्। इदानीमेवं खगोलबन्ध्वप्रकारमुक्त्वा दृग्गोलबन्धप्रकारं दर्शयति। “बद्धा खगोले नलिकाद्वयं च ध्रुवद्वये तन्नलिकास्थमेव। बहिः खगोलाद्विदवीत धीमान् दृग्गोलमेवं खलु वक्ष्यमाणम्। भगोलवृत्तैः सहितः खगोलो दृग्गोलसंज्ञोऽपममण्डलाद्यैः। दृग्गोलजातं खलु दृश्यतेऽत्र क्षेत्रं हि दृग्गोलमतो वदन्ति” सि० शि०। “तस्मिन् खगोले ध्रुवचिह्नयोर्नलिकाद्वयं बद्धा तन्नलिकाधारमेव खगोलाद्वहिरङ्गुलत्रयान्तरे दृग्गोलं रचयेत्। कथितैः खगोलोवृत्तैर्बक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिविण्डलाद्यैर्यो निबध्यते स दृग्गोलः। कथमस्य दृग्गोलसंज्ञेति तदर्थमाह दृभ्मोलजातमित्यादि। यतोऽजादिकुज्यासमशङ्क्वाद्यक्षक्षेमाणि दृग्गोलजातानि भगीलवृत्तैः खगोलवृत्तमिलितैस्तान्युत्पद्यन्ते। भिन्नगोलबन्धे सम्यङ्नोपलक्ष्मन्त इति दृग्गोलः कृतः। इदानीं भगोलबन्धमाह” प्रमि०। “याम्य त्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं ध्रुवयष्टिबद्धम्। षष्ट्यङ्कमत्र सममण्डलवत् तृतीयं नाड्याह्वयं च विषुवद्वलयं तदेव” सि० श०। यथा खगोले क्षितिजं याम्योत्तरं च तदाकारप्रपरमांधारवृत्तद्वयं ध्रुबयष्टिस्थं कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितं कार्यम्। तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञं च” प्रमि०। इदानीं क्रान्तिवृत्तमाह “क्रान्तिवृत्तं विधेय गृहाङ्कं भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः। क्रान्तिपातः प्रतीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्” सि० शि०। “अथान्यत् तत्प्रमाणमेव वृत्तं कृत्वा तत्र मेषादिं प्रकल्प्य द्वादशराशयोऽङ्क्याः। तत् क्रान्तिवृत्तसंज्ञम्। तस्मिन् वृत्ते रविर्भ्रमति। तथा रवेर्भार्धाचरे भूभा च तथा तत्र क्रान्तिपातो मेषादेर्विलोमं भ्रमति। तथा ग्रहाणां विक्षपपाताः प्रस्फुटाः विलोप्रं भ्रमन्ति। अतः क्रान्तिपातादीनां स्थानानि तत्राङ्क्यानि। इदानीं क्रान्तिवृत्तस्य निवेशनमाह” प्रमि०।

“क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नं विदध्यदिदम्। पाततः प्राक् त्रिभे सिद्धभागैरुदग्दक्षणे तैश्च भागैर्विभागेऽपरे” सि० शि०। क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्यम्। ते चिह्ने नाडीवृत्तेन संसक्ते कृत्वा पातचिह्नादग्रतस्त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंशत्योत्तरतो यथा भवति, अपरविभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागैर्यथा भवति तथा बध्नीयात्। इदानीं विमण्डलमाह” प्रमि०। “नाडिकामण्डले क्रान्तिवृत्तं यथा क्रान्तिवृत्ते तथा क्ष्येवृत्तं न्यसेत्। क्षेपवृत्तं तु राश्यङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत्। क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम्। क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत्। शीघ्रकर्णेण भक्तास्त्रिभज्यागुणाः स्युः परक्षेपभागा गृहाणां स्फुटाः। क्षेपवृत्तानि षण्णां विदध्यात् पृथक् खखवृत्ते भ्रमन्तीन्दुपूर्वा ग्रहाः” सि० शि०। “अस्य सप्तग्रस्य व्याख्यानम् यथा क्रान्तिवृक्षं पृथक् कृतमेवं विमण्डलमपि राश्यङ्कं पृथक् कृत्वा तत्र मेषादेर्व्यस्तं स्फुटं क्षेपपातं दत्त्वाग्रे चिह्नं कार्यम्। अथ क्रान्तिवृत्तस्य विमण्डलस्य च क्षेपपातचिह्नयोः संपातं कृत्वा तस्मात् षड्भान्तरेऽन्यं च सपातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्तिवृत्तादुत्तरतः स्फुटैः क्षेपभागैःपृष्ठतश्च त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं कृत्वा विमण्डलं निवेशनीयम्। अथ पठिता ये विक्षेपभागास्ते त्रिज्यागुणाः शीघ्रकर्णेन भक्ताः स्फुटाः ज्ञेयाः अत्रानुपातः। यदि कर्माग्र एतावन्तस्तर्हि त्रिज्याग्रे कियन्त इति। यतो भगोले त्रिज्यैव व्यासार्धम्। एवं चन्द्रादीनां षड्विमण्डलानि कार्या ण। स्वस्वविमण्डले ग्रहा। भ्रमन्ति। इदानीं क्रान्थिं विक्षेपं चाह”। मि०। “नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः। क्षेपवृत्तावधिस्तिर्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः” सि० शि०। क्रान्तिवृत्ते यत् स्फुटग्रहस्थ नं तस्य क्रान्तिवृत्ताद्यत् तिर्यगन्तरं स विक्षेपः। अथ विमण्डलस्थग्रहस्य नाडिवृत्ताद्यत् तिर्यगन्तरं सा स्फुटा क्रान्तिः। इदानीं क्रान्तिपातमाह” प्रमि० “विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात्। तद्भनणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे। अयन चलनं यदुक्तं मुञ्जालाद्यैः स एवायम्। तत्पक्षे तद्भगणाः कल्पे गोऽङ्गर्तुनन्दगोचन्द्राः १९९६६९। तत्संडातं पातं क्षिप्त्वा स्वेटेऽर्पमः साध्यः। क्रान्तिबशाच्चरमुदयाश्चरदललग्नागमे ततः क्षेप्यः” सि० शि०। “क्रान्त्यर्थं पातः क्रान्तिपातः। पातो नाम संषातः कयोः। विषुवरक्रान्तिवलययोः। तयोर्मेषादावेव संपातः। किन्तु तस्मापि चलनमस्ति। येऽयनचलनभागाः प्रसिद्धास्त एव विलोमगस्य क्रान्तिपातस्य भागाः। मेषादेः पृष्ठतस्तावद्भ गान्तरे क्रान्तिवृत्ते विषुवदवृत्तं लग्नमित्यर्थः। म हि क्रान्विपातो नास्तीति वक्तुं शक्यते। प्रत्यक्षेण तस्योपलब्धत्वात्। उपलब्धिप्रकारमग्रे वक्ष्यति। तत् कथं ब्रह्मगुप्तादिदिभिर्निपुणैरपि नोक्त इति चेत् तदा स्वल्पत्वात् तैर्नोपलब्धः, इदानीं बहुत्वात् साम्प्रतैरुपलब्धः। अत एव तस्य गतिरस्तीत्यवगतम्। यद्येवमनुपलब्धोऽपि सौरसिद्धान्तोक्तत्वादागमप्रामाण्येन भगणपरिध्यादिवत् कथं तैर्नोक्तः। सत्यम्। अत्र गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम्। तर्हि मन्दोच्चपातभगणा आगमप्रामाण्येनैव कथं तैरुक्ता इति न च वक्तव्यम्। यतो ग्रहाणां मन्दफलाभावस्थानानि प्रत्यक्षणैवोपलभ्यन्ते। तान्येव मन्दोच्चस्थानानि। यान्येव विक्षपाभावस्थानानानि तान्येव पातस्थानानि। किन्तु तेषां गतिरस्ति नास्ति वेति सन्दिग्धम्। तत्र मन्दोच्चपातानां गतिरस्ति चन्द्रमन्दोच्चपातवदित्यनुमानेन सिद्धा। सा च कियती तदुच्यते। यैर्भगणैरुपलब्धिस्थानानि यानि गणितेनागच्छन्ति तद्भगणसम्भवा वार्षिकी दैनन्दिनी वा गतिर्ज्ञेया! नन्वेवं यद्यन्यैरपि भगणैस्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामाण्यम्। सत्यम्। तर्हि साम्प्रतोपलब्ध्यनुसारिणी कापि गतिरङ्गीकर्तव्या। यदा पुनर्महता कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्म्माण एवोत्पत्स्यन्ते। ते तदुपलब्ध्यनुसारिणीं गतिमुररीकृत्य शास्त्राणि करिष्यन्ति। अतएवायं गणितस्कन्धो महामतिमद्भिर्धृतः सन्ननाद्यन्तेऽपि काले खिलत्वं न याति। अतोऽस्य क्रान्तिपातस्य भगणाः कल्पेऽयुतत्रयं तावत् सूर्य्यसिद्धान्तोक्ताः। तथा मुञ्जालाद्यैर्यदयनचलनमुक्तं स एवायं क्रान्तिपातः। ते गोऽङ्गर्तुनन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते। अथ च ये वा ते वा भगणा भवन्तु। यदा येऽंशा निपुणैरुपलभ्यन्ते तदा स एव क्रान्तिपातः इत्यर्थः। तं विलोमगं क्रान्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः साध्या। इदानीं विक्षेपपातानाह” प्रमि०। “एवं क्रान्तिविमण्डलसंपाताः क्षेपपाताः स्युः। चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः। मन्दस्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः। पातेन युक्ताद्गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात्। पातोऽथ वा शीघ्रफलं विलोमं कृत्वा स्फुटात् तेन युताच्छरोऽतः। चन्द्रस्य कक्षावलये हि पातः स्फुटाद्विधीर्मध्यमपातयुक्तात्” सि० शि०। “तथा क्रान्तिवृत्तविमण्डलयोः संपातः क्षेपपातः तं ग्रहे प्रक्षिप्य क्षेपः साध्यः। एतदुक्तं भवति क्रान्तिपातः प्रसिद्धः। यथा तं ग्रहे प्रक्षिप्य क्रान्तिः साध्यते। एवं विक्षेपपातं ग्रहे प्रक्षिप्य क्षेपः साध्य इत्यर्थः। अथ विक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारणमाह मन्दस्फुट इति। यतः शीघ्रप्रतिमण्डले मन्दस्फुटगत्या ग्रहो भ्रमति। तत्र च वृत्ते पातोऽतो गणितागतं पातं मन्दस्फुटे प्रक्षिप्य क्षेपः साध्यते। शेषं स्पष्टम्। इदानीं ज्ञशुक्रयोर्विशेषमाह” प्रमि० “ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः। स्वल्पाः सुखार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ। चलाद्विशोध्यः किल केन्द्रसिद्ध्यै केन्द्रे सपाते द्युचरस्तु योज्यः। अतश्चलात् पातयुताज्ज्ञभृग्वोः सुधीभिराद्यैः शरसिद्धिरुक्ता। स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः” सि० शि०। “ननु ज्ञशुक्रयोः शीघ्रोच्चपातयुतिं केन्द्रं कृत्वा यो विक्षेप आनीतः स शीघ्रोच्चस्थान एव भवितुमर्हति। न ग्रहस्थाने। यतो ग्रहोऽन्यत्र वर्तते। अत इदमनुपपन्नमिव प्रतिभाति। तथा च ब्रह्मसिद्धान्तभाष्ये “ज्ञशुक्रयोः शीघ्रोच्चस्थाने यावान् विक्षेपस्तावानेव यत्रतत्रस्थस्थापि ग्रहस्य भवति। अत्रोपलब्धिरेव वासना नान्यत् कारणं वक्तुं शक्यत इति”। चतुर्वेदेनाप्यनध्यवसायोऽत्र कृतः। सत्यम्। अत्रोच्यते। येऽत्र ज्ञशुक्रयोः पातभगणाः पठितास्ते शीघ्रकेन्द्रभगणैयुताः सन्तस्तद्भगणा भवन्ति। तथा च माधवीये सिद्धान्तचूडामणौ पठिताः “अतोऽल्पभगणभवः पातः स्वशीघ्रकेन्द्रेण युतः कार्यः,। शीर्घ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रम्। तस्मिन् सपाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः। अतस्तुल्यशोध्यक्षेपयोर्नाशे कृते शीघ्रोच्चपातयोग एवावशिष्यत इत्युपपन्नम्।

किञ्च मन्दस्फुटोनं शीघ्रोच्चं प्रतिमण्डले चलकेन्द्रम् तत्पाते क्षेप्तुं युज्यते। एवं कृते सति विक्षेपकेन्द्रं मन्दफलेनान्तरितं स्यात्। ग्रहच्छायाधिकारे “सितज्ञपातौ स्फुटौस्तश्चलकेन्द्रयुक्तौ” इत्यत्र मन्दस्फुटोनं शीघ्रोच्च शीघ्रकेन्द्रपाते क्षिप्तम्। अतस्तत्र मन्दफलान्तरमङ्गीकृतमित्यर्थः इतरकेन्द्रस्यानुपपत्तेः। अतो मन्दफलं पातेऽव्यस्तं देयम्। यतोऽनुपातसिद्धं चलकेन्द्रं मध्यग्रहोनशीघ्रोच्चतुल्यं भवति। यत्तु भगोले क्रान्तिवृत्तं तत् कक्षावृत्तम्। तत्र यद्विमण्डलं तत्र स्फुटग्रहः। तत् स्फुटपातयोगो हि विक्षेपकेन्द्रम्। अतः स्फुटपातस्थाने संपातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटीकृतैः परमविक्षेपांशैः प्राग्वदुत्तरे दक्षिणे च विन्यस्यम्। तथा न्यस्ते विमण्डले स्फुटग्रहस्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो दृश्यते नान्यथेत्यर्थः। इदानीं ग्रहगोले विशेषमाह” प्रमि०। “ग्रहस्य गोले कथितापमण्डलं प्रकल्प्य कक्षावलयं यथोदितम्। निबध्य शीघ्रप्रतिवृत्तमस्मिन् विमण्डलं तत् पठितैः शरांशैः। मध्योऽत्र पातो द्युसदां ज्ञभृग्वोः स्वशीघ्रकेन्द्रेण युतस्तु देयः” सि० शि०। “भगोल एव तावद्ग्रहगोलः कल्प्यः। तत्र स्फुट एव पातः। अथ यदि तदन्तर्ग्रहगोलोऽन्यो निबध्यते तदा तत्र यथोक्तं विषुवद्वृत्तं क्रान्तिवृत्तं च बद्ध्वा तत् क्रान्तिवृत्तं कक्षामण्डलं प्रकल्प्य तत्र छेद्यकोक्तविधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डले गणितागतं पातं मेषादेर्विलोमं गणयित्वा तत्र चिह्नं कार्यम् अथ त्रिज्याव्यासार्धमेवान्यद्वृत्तं राश्यङ्कं विमण्डलाख्यं कृत्वा तत्रापि मेषादेर्व्यस्तं पाताग्रे चिह्नं कृत्वा प्रतिमण्डलविमण्डलयोः पातचिह्ने प्रथमं संपातं ततो भार्द्धान्तरे द्वितीयं च संपातं कृत्वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्तरे परमविक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणे च विमण्डलं विन्यस्यम्। तत्र मन्दस्फुटगत्या पारमार्थिको ग्रहो भ्रमति। अतो मेषादेरनुलोमं मन्दस्फुटो विमण्डले देयः। स तत्रस्थः प्रतिमण्डलाद्यावतान्तरेण विक्षिप्तस्तावांस्तत्प्रदेशे विक्षेपः। यतो वृत्तसंपातस्थे ग्रहे विक्षेपाभावः। त्रिभेऽन्तरे परमो विक्षेपः। मध्येऽनुपातेन। अतो वृत्तसंपातग्रहयोरन्तरं ज्ञेयम्। तदन्तरं पातग्रहयोगे कृते भवति पातस्य विलोमगत्वात्। स योगः शरार्थं केन्द्रम्। यदि त्रिज्यातुल्यया केन्द्रज्यया परमः शरस्तदाभीष्टयाऽनया क इति फलं प्रतिमण्डलविमण्डलयोस्तिर्यगन्तरं स्यात्। विमण्डलस्थग्रहाद्यद्भूमध्यगं सूत्रं तद्भूग्रहान्तरम्। स च शीध्रकर्णः। यदि भूमध्यात् कर्णाग्रे एतावान् विक्षेपस्तदा त्रिज्याग्रे कियानिति द्वितीयं त्रैराशिकम्। आद्ये त्रिज्या हरी द्वितीये गुणस्तयोर्नाशे कृते केन्द्रज्यायाः परमशरगुणायाः कर्णो हरः। फलं कक्षा वृत्तसूत्रयोस्तिर्यगन्तरम्। स स्फुटः शरः। इदानीमहोरात्रवृत्तमाह” प्रमि०। “ईप्सितक्रान्तितुल्येऽन्तरे सर्वती नाडिकाख्यादहोद्यत्रवृत्ताह्वयम्। तत्र बद्ध्वा घटीनां च षष्ट्याङ्कयेदस्य विष्कम्भखण्डं द्युजीवा मता” सि० शि०। “नाडीवृत्तादुत्तरतो दक्षिणतो वा सर्वत इष्टक्रान्तितुल्येऽन्तरे यद्वृत्तं निबध्यते तदहोरात्रवृतम्। तेन वृत्तेन तस्मिन् दिने रविर्भ्रमतीत्यर्थः। तस्य वृत्तस्य व्यासार्धं द्युज्या। इदानीमन्यदाह” प्रमि०। “अथ कल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात्। एवां मेषादीनां द्युरात्रवृत्तानि बध्नीयात्। नाडीवृत्तोभयतस्त्रीणि त्रीणि क्रमोत्क्रमात् तानि” सि० शि०। क्रान्तिपाताङ्कादारभ्य त्रिंशता त्रिंशता भागैरन्यान् मेषादीन् प्रकल्प्य तदग्रेपूक्तवदहीरात्रवृत्तानि बध्नीयात्। तानि च नाडीवृत्तस्योभयतस्त्रीणि त्रीणि भवन्ति। तान्येब क्रमीत्क्रमतः सायनांशार्कस्य द्वादशराशीनाम्” प्रमि०। “एष भगोलः कथितः खेचरगोलोऽयमेवविज्ञेयः। अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव। शन्यादीनां कक्षा बध्नीयादूर्ण्णनाभजालाभाः। बद्ध्वा भगोलमेवं यष्ट्यां यष्टिं खगोलनलिकान्तः। प्रक्षिप्य भ्रमयेत्तं यष्ट्याधारं स्थिरौ खदृग्गोलौ” सि० शि०। “यथायं भगोलोबद्धस्तथैव ग्रहगोलाअपि बन्धनीयाः। किन्तु तेषां छेद्यकमन्तश्चालयितुं नायातीति बहिःस्थमेवदर्शनीयम्। अथ वा भगोले यदपमण्डलं तस्याध्रोऽधस्तन्निबद्धैः सूत्राधारैर्बद्ध्वा शन्यादीनां कक्षा दर्शनीयाः। एवंविधं भगोलं यष्ट्यां दृढं बद्ध्वा यष्ट्यग्रयोः प्रोते नलिकाद्वये निबद्धौ खगोलदृग्गोलौ कृत्वा भगोलभ्रमणं दर्शयेत्” प्रमि०। तदयं खगोलस्थपदार्थसंक्षेपः। कटाहद्वितयवत् सम्पुटाकारस्यान्तरवकाशवतो ब्रह्माण्डस्य मध्ये सूर्यकिरणसञ्चारावधिर्व्योमकक्षा। तदवः नक्षत्रकक्षा तदधः क्रमेण दृश्याः पूर्वगाः शनिजीवकुजसूर्य्यशुक्रबुधशशिनः अदृश्याश्च राहुपातादयः पश्चिमगतयः, वक्ष्यमाणस्वस्वकक्षायां स्थिताः। अश्विन्यादिनक्षत्राणि स्थिराण्यपि तत्समुदायात्मकं भचक्रं पश्चाद्गतिमता प्रवहवायुनाऽभिहतं पश्चात् भ्रमत् नाक्षत्रषष्टिघटिकाभिः भूगोलमेकवारं भ्रमति तत्स्था रव्यादयः ग्रहाश्च स्वगत्या पूर्वयायिनोऽपि तदाधारातिशीघ्रभचक्र पश्चाद्भ्रमणेन पश्चाद्भ्रमणभ्रमविषया भवन्ति।

राशिचक्रञ्च ३६० अंशैर्विभक्तमंशाश्च षष्टिकलाभि- र्विभक्ताः, कलाश्च षष्टिविकलाभिर्बिभक्तास्तेन ३६० अंशैः, २१६०० कलाभिः, १२९६००० विकलाभिर्विभक्तं भचक्रम्। भचक्रद्वादशविभागोराशिरित्युच्यते राशयश्च मेषादयः द्वादशमिताः। तेनेकैकराशौ त्रिंशदंशाः, १८०२ कलाः १०८०० विकलाः सन्ति। मेषादिराशयोऽपि अश्विन्यादि २७ नक्षत्रात्मकाः। तेन सपादनक्षत्रेणैकैकोराशिः प्रतिनक्षत्रं च १३। २०। विंशतिकलाधिकास्त्रयोदश अंशाः सन्ति। तथाहि अश्विनी १३। २० भरणी १३। २० कृत्तिकाद्यप दश्च ३। २० मेषः। कृत्तिकान्त्यपादत्रयम् १०। रोहिणी १३। २०। मृगस्याद्यार्द्धञ्च ६। ४०। वृषः। मृगस्यान्त्यार्द्धम् ६। ४० आर्द्रा १३। २०। पुनर्वस्वाद्यपादत्रयं च १०। मिथुनम्। पुनर्वस्वन्त्यपादः ३। २०। पुष्यम् १३। २० अश्लेषा च १३। २०। कर्कः। मघा १३। २०। पूर्वफल्गुनी १३। २०। उत्तरफाल्गुन्याद्यपादश्च ३। २०। सिंहः। उत्तरफाल्गुन्यन्त्यपादत्रयं १०। हस्तः १३। २०। चित्राद्यार्द्धञ्च ६। ४०। कन्या। चित्रान्त्यार्द्धं ६। ४०। स्वातिः १३। २०। विशाखाद्यपादत्रयञ्च १०। तुला। विशाखान्त्यपादः ३। २० अनुराधा १३। २०। ज्येष्ठा च १३। २०। वृश्चिकः। मूलं १३। २०। पूर्वाषाढा १३। २० उत्तराषाढाद्यपादश्च ३। ३०। धनुः। उत्तराषाढान्त्यपादत्रयं १०। श्रवणं १३। २०। धनिष्ठाद्यार्द्धञ्च ६। ४०। मकरः। धनिष्ठान्त्यार्द्धं ६। ४०। शतभिषा १३। २०। पूर्वभाद्रपदाद्यपादत्रयञ्च १०। कुम्भः। पूर्वभाद्रपदान्त्यपादः ३। २०। उत्तरभाद्रपदा १३। २० रेवती च १३। २० मीनः। उत्तराषाढायाः शेषपादश्रवणाद्यणिप्तिकाचतुष्टयस्याभिजित्संज्ञा किञ्चित् कार्य्यार्था। तस्य स्थानादि २८७ पृ० उक्तम्। एते च राशयः तत्रत्याश्विन्यादयश्च यथा पूर्वमवस्थिताः तेषां स्वरूपमश्लेषाशब्दे ४९९ पृ०, विक्षेपा ध्रुवकाश्च २४२३ पृ० दर्शिताः। वक्ष्यमाणभचक्रयोजनानि द्वादशधा विभक्तानि मेषादिराशीनां स्थानमानयोजनानि। २७ विभक्तानि अश्विन्यादिनक्षत्रादीनां स्थानमानयोजनानि। ३६० विभक्तानि अंशस्थानमानयोजनानि। २१६०० विभक्तानि कलास्थानमानयोजनानि। भचक्रस्य शन्याद्यूर्द्धस्थत्वात् तदाश्रितनक्षत्राणामप्यूर्द्ध्वस्थत्वम्। भचक्रवत् भूगोलस्य तावदंशकलाद्याद्यत्मकतया भूगोलांशकलादिस्थानसंलग्नसूत्रैकाग्रस्य निवेशने नक्षत्रकक्षायामंशकलाद्यात्मकस्थानेषु सूत्राग्रान्तरस्य निवेशने च तन्मध्यस्थानां शन्यादिकक्षाणामंशकलादिस्थानविभागः भचक्रकलादिस्थाना धःस्थानानां तत्तद्राशितदंशकलाविकलाद्यात्मकत्वं गौणम् चन्द्रकक्षातोऽधः सिद्धविद्याधरघनाः क्रमेणाधोधःस्थिताः। ते च भूगोलात् द्वादशयोजनपर्य्यन्तमूर्द्धगामिनि आवह नाम्नि भूवायौ स्थितत्वात् प्रवहवाय्ववस्थानाभावाच्च न राशिचक्रगत्या पश्चात् गच्छन्ति। तदधः भकक्षायाः समानान्तरालाकाशप्रदेशरूपकेन्द्रस्थाने भूगोलः स्थितः। भूगोलशब्दे बिवृतिः। संक्षेपेणेह किञ्चिदुच्यते। स च ब्रह्मणो धारणात्मकशक्त्याश्रयत्वात् निराधारः एवाकाशे स्थितः। तस्य च स्थिरत्वं भचक्रस्यैव चलत्वं च परमतनिराशेन २४३३ पृ० समर्थितम्। भूगोलमध्यगतोपेरुः स च भूगोलादूर्द्धाधोनिर्गतः। तत्र ऊर्द्धस्थे मेरौ देवानां वासः, अधःस्थे चासुराणाम्। स च भूगोलः देवासुरभागतया द्विधा विभक्तः तद्बिभाजकश्च महार्णव एव। स च पृथिव्या मेखलेव चतुर्दिक्षु वेष्टनाकारेण स्थितः। मेरुमध्यात् चतुर्दिक्षु तुल्यभागेषु ९० अंशेषु समुद्रद्वीपमध्ये लङ्कादीनि भूभृवृत्तपाद १२४६ योजनान्तरदेशस्थितानि चत्वारि पुराणि। यथा पूर्बस्यां भद्राश्ववर्षे यमकोटी। दक्षिणस्यां भारतवर्षे लङ्का। पश्चिमायां केतुमालवर्षे रोमकपुरी। उत्तरस्यां कुरुवर्षे सिद्धपुरी। ताभ्यः पुरीभ्यः (१२५६) योजनान्तरे देवाश्रयः मेरुरत्तरतः स्थितः। असुराश्रयश्च तथैव दक्षिणतः। विषुवस्थः सूर्य्यः तासाममुपरिगो याति। तासु च विषुवच्छायापातोनास्ति न वा तदपेक्षयान्यत्राक्षस्योन्नतिः तत्रैब भचक्रस्य सर्व्वोन्नतत्वात् इत्यतस्तासां निरक्षेति संज्ञा मेर्वोरुपरिस्थितैः ध्रुवतारे, मूर्द्धस्थिते निरक्षपुरीषु च ते क्षितिसंलग्ने दृश्येते। तत्स्थानात् उत्तरां गच्छतः क्रमशः उत्तरध्रुवः क्षितिजवृत्तादुन्नतो भवति दक्षिणध्रुवश्च क्षितिमध्यप्रविष्टो भवति। एवं दक्षिणां गच्छतः क्रमशः दक्षिणध्रुवस्योन्नतिः उत्तरध्रुवस्य नतत्वात् भूवृत्तेनाच्छादनम्। भूवृत्तस्य ३६० अंशात्मकत्वेन निरक्षस्थानेभ्यः पादान्तरितस्थानस्थितत्वेन मेरौ ९० अंशाः अक्षांशाः। तदन्तरदेशेषु त्रैराशिकेनानुपातात् अक्षांशा ज्ञेयाः। यदि ९० अंशेः १२५६ योजनानि तदा १ अंशे किमिति। किञ्चिन्यून १४ योजनैः एकोऽक्षांशः। सौम्य याम्ययोः सूर्यस्य भूवृत्तपञ्चदशांश एव निरक्षस्थानात् परमक्रान्त्यंशाः २४। तेन निरक्षस्थानात् १४ गुणिते २४ अंशे ३३६ एतद्योजनमितस्थानपर्य्यन्तं सूर्य्यस्यतयोर्दिशोरुपरिगमनम्। अवन्ती च लङ्कातः क्षितिषोडशांशे ३०१४ योजनान्तरे स्थिता। तेन तत्र २२। १/२ अक्षांशाः। ततः १। १/२ अंशान्तरिते २१ योजनान्तरितदेशपर्य्यन्त स्थितदेशोर्द्धगः सूर्य उत्तरायणान्तगो गच्छति। ततः पूर्वस्यां पश्चाद्वा तत्समसूत्रपातस्थदेशेऽपि। राशिचक्रञ्च निरक्षदेशोपरि पश्चाद्गत्या भ्रमदपि देवासुराभ्यां सव्यापसव्यगतिमत्तया, निरक्षदेशे क्षितिलग्नमध्यतया च दृश्यते। राशिचक्रमध्यस्थानमेव विषुबस्थानं तच्च सुरासुराणां क्षितिजवृत्तलग्नतया दृश्यम्। तत्र भचक्रे मेषादिषट्कमुतरोन्नतं तुलादिषट्कं च दक्षिणनतमत उत्तरमेरुस्थदेवैः मेषादिषट्कमेव दृश्यते तुलादिषट्कं तु भूवृत्तेनाच्छादनात् न दृश्यते। दक्षिणमेरुस्थदैत्यैस्तु तुलादिषट्कमेव दृश्यते मेषादिषट्कं तु भूवृत्ताच्छादनात् न दृश्यते। अतो मेषादिषट्कस्थरविकाः षण्मासा देवानां दिनम्, सूर्यदर्शनयोग्यकालस्यैव दिनत्वात् तुलादिषट्कस्थरविकाः षण्मासाः रात्रिः, सूर्य्यादर्शनयोग्यकालस्यैव रात्रित्वात्। दैत्यानां तु तुलादिषट्कस्थरविकाः षण्मासाः दिनं, मेषादिषट्कस्थरविकाः षण्मासा रात्रिः। निरक्षदेशात् सौम्ययाम्ययोः ६६ अंशान्तरितदेशे तु द्वादशमासा एव दिनम् रात्रिर्नास्ति तद्वासिभिः सूर्य्यस्य सदा दर्शनात्। तथाहि पूर्वापरयोरिव याम्यसौम्ययोरपि उभयत्र ९० अंशपर्य्यन्तदृष्टिप्रचारात् सौम्ययाम्ययोश्च २४ अंशपर्यन्तमेव रवेः परमक्रान्तेरुक्तत्वात् सौम्ये ६६ अंशान्तरितदेशस्थानाम् याम्ये २४ अंशपर्य्यन्तरवेःस्थितावपि मिलित्वा ९० रवेः अंशान्तरालस्थितत्वात् दृष्टियोग्यता। एवं याम्ये ६६ अंशान्तरितदेशस्थानामपि सौम्ये २४ अंशपर्य्यन्तदेशोपरिगरवेर्दृष्टियोग्यता ९० अंशमध्यस्थत्वात्। सौम्ये निरक्षस्थानात् ६९। १/२० पलांशान्तरितदेशे धनुर्मकरराशी न दृश्येते। अतः धनुर्मकरस्थरविकौ द्वौ मासौ तत्र रात्रिः शिष्टादश मासा दिनम्। याम्ये तु तदंशस्थदेशे कर्कमिथुने न दृश्येते अतस्तत्र कर्कमिथुनस्थरविकौ द्वौ मासौ रात्रिः शिष्टादश मासा दिनम्। निरक्षात् सौम्ये ७८। १/३ अंशान्तरितदेशे वृश्चिकादिराशिचतुष्कं न दृश्यते। तेन तत्स्थरविकाश्चत्वारोमासा रात्रिः। शिष्टा अष्टौ मासा दिनम्। याम्ये तु निरक्षात् तथान्तरितदेशे वृषादिचतुष्कं न दृश्यते। अतस्तत्स्थरविकाश्चत्वारो मासा रात्रिः। शिष्टा अष्टौ मासा दिनम्। सौम्ययाम्यायनवृत्तयोः सम्पातस्थानं विषुवद्वयं तच्च निरक्षोप्ररिगतम्। अयनवृतञ्च सृष्टिमारभ्य मिथुनान्तात् ६६। ८ कालेन प्राक् पश्चात् वा एवैकमंशमतीत्य चलतीति अयनशब्दे ३३७ पृ० दर्शितम्। अयनवृत्तचलनाच्च तत्सम्पातस्थानादिकमपि भिद्यते। इदानीञ्च पश्चात् २१ अंशचलनम् तेन मिथुनस्य नवमांशे उत्तरायणान्तकालः। धनुषोनवमांशे च याम्यायनान्तकालः। तदनुसारेण तयोः सम्पातस्थानरूपविषुवस्थानद्वयमपि भिन्नम्। इदानीञ्च भीननवमांशे पूर्व विषुवस्थानं कन्यानवमांशे त्वपरविषुवस्थानम्। एवं विषुवायनमध्यगविष्णुपद्यादिस्थानमपि भिन्नम्। अयनञ्च द्विधा सौम्ययाम्यभेदात्। मीननवमांशात् कन्यानवमांशं यावत् सौम्यं, कन्यादशमांशात् मीननवमांशं यावच्च याम्यम्। एते एवायने देवासुरयोर्दवारात्रिविभाग दनरात्रिमानज्ञानोपयोगि मुख्यतया। धनुर्नवमांशात् मिथुननवमांशं यावत् सौम्यायनं मिथुननवमांशात् धनुर्नवमांशं यावत् याम्यायनन्तु सौम्ययाम्य दिशोरर्कस्य गत्यारम्भकालतया चूडादिषु वर्ज्यावर्ज्यतया गोणं सौम्यायन एव चूडादेविधानात् याम्यायने तन्निवेवाच्च तथात्वमिति सि० शि० स्थितम्। इदानीं मीननवमांशरूपविषुवस्थाने च भूवृत्ताद्विनिर्गतः सूर्य्यः क्रमेण मेषादीन् त्रीन् राशीन् ९० अंशान् मिथुननवमांशपर्य्यन्तम् उत्तरोत्तरमारोहन् देवानां पूर्वार्द्ध्वं सम्पादयति मिथुनदशमांशात् कन्यानवमांशान्तञ्चावरोहन् अपरार्द्धम्। एवं कन्थादशमांशात् धनुर्नवमांशान्तं यावत् सञ्चरन् दैत्यानामहः पूर्वार्द्धं सम्पादयति धनुषोदशमांशात् मीननवमांशं यावत् सञ्चरंश्च उत्तरार्द्धमिति विवेकः।

विधूर्द्धभागस्थितपितॄणाञ्च चान्द्रमासेनाहोरात्रम्। तथाहि सूर्य्याचन्द्रमसोरेकराश्येवांशावच्छेदेन स्थितिकालरूपामावस्या। सूर्य्यस्य चन्द्रोपरिगतया तदानींतेषां मध्याह्नकालः अतएवामावस्यायां पितॄणां श्राद्धविधानम् स्वस्वमध्याह्नस्यैव भोजनकालत्वात्। पौर्ण्णमास्याञ्च चन्द्रापेक्षया सप्तमराशिस्थतया सूर्यस्य तदा चन्द्राधा वर्त्तमानतयाऽदृश्यत्वात् अर्द्धरात्रम्। पुराणादौ चन्द्रात् सूर्य्यस्याधःस्थत्वकीर्त्तनमपि पितॄणां दृष्ट्या पौर्ण्णमास्यभिप्रायेण। तेन पञ्चदश्योरहोरात्रमध्यकालतया कृष्णाष्टम्यर्द्धसमये तेषां सूर्य्योदयः। शुक्लाष्टम्यर्द्धकाले चास्तमनमिति तद्दिनस्य चान्द्रमासरूपता। निरक्षदेशात् भूवृत्तस्य पञ्चदशभागपर्य्यन्तमेव सूर्य्यस्य सौम्ययाम्ययोः परमक्रान्तेरुक्तत्वात्। भूवृत्तपञ्चदशभाग ३३६ योजनान्तरालोत्तरदेशे तदपेक्षया सूर्य्यस्य दक्षिणस्थत्वे छायाग्रमुत्तरम्, उत्तरस्थत्वेछायाग्र दक्षिणम्। निरक्षात् याम्ये तथान्तराल ३३६ विभागस्थदेशे तदपेक्षया सूर्य्यस्य दक्षिणत्वे छायाग्रमुत्तरम् उत्तरत्वे छायाग्रं दक्षिणम्। ततोऽधिकयोजनान्तरिते तु देशे, सूर्य्यस्य सौम्ययाम्यस्थत्वेऽपि सदा छायाग्रं विभाजकमेरुमुखम्। तथा च सौम्ये तथाविधदेशे छायाग्रं सौम्यसेरुमुखं याम्ये तु याम्यमेरुमुखमिति भेदः। लङ्कापुरे यदा सूर्य्योदयः तदा यमकोट्यां मध्याह्नः, भारताधःस्थे सिद्धपुरेऽस्तकालः, रोमकेऽर्द्धरात्रम्। एवं सर्वत्र भूवृत्ते ऊर्द्धाधःस्थितदेशयोरुदयास्तकालौ स्वस्वतिर्य्यक्पूर्वस्थितदेशे भूवृत्तपादान्तरिते मध्याह्नकालः, स्वस्वतिर्य्यक्पश्चात्तथास्थितदेशेऽर्द्धरात्रम्। तदतरालस्यदेशानान्तुत्रैराशिकेनोदयास्तकाला वेदितव्याः। इत्यवं राशिचक्रस्यानिशभ्रमणात् तद्गतसूर्य्यस्यापि तद्वशात् भ्रमणन देशभेदेनैवोदयास्तादिकालव्यवस्था।

निरक्षदेशात् उत्तरमेरुं गच्छतः क्रमेण उत्तरध्रुव उन्नतो दृश्यते, दक्षिणस्तु भूवृत्तेनाच्छादनात् न दृश्यते। भचक्रमध्यं च क्रमेण नतं दृश्यते। सौम्यमेरुसन्निकृष्टदेशात् निरक्षं गच्छतश्च उत्तरध्रुवः क्रमेण नतः, भचक्रञ्च क्रमेणोन्नतं दृश्यते। एवं निरक्षात् दक्षिणमेरुं गच्छतश्च क्रमेण दक्षिणध्रुवः उन्नतः, भचक्रञ्च नतमुत्तरध्रुवस्तु भूवृत्तेनाच्छादनात् न दृश्यते। ततो निरक्षाभिमुखं गच्छतश्च क्रमेण दक्षिणध्रुवो नतो भचक्रञ्चोन्नतं भवति। तथा प्रवहवायुगोलस्थपूर्वापरविषुवद्वृत्ताधःस्थनिरक्षदेशे ध्रुवयोः क्षितिलग्नत्वभ्रान्तिः, तत्र च भचक्रस्य मस्तकोपरिभ्रमणं च दृश्यते। तेन मेर्वभिमुखं गच्छतः क्रमेण ध्रुव उच्चः, भचक्रं च नीचमिति युक्तम्। भचक्रस्येव तदधोऽधःस्थानां ग्रहकक्षाणामपि तत्तुल्यांशकलाविकलाद्यात्मतयाऽङ्कने महत्याः कक्षाया अंशादेर्बहुस्थलात्मकत्वम्, अल्पकक्षायां च अल्पस्थलात्मकत्वं, तेन महाकक्षायां स्थितस्य बहुकालेन भगणपूर्त्तिर्लघुकक्षास्थितस्य खल्पकालेन। अतोविधोः सर्वावोलघुकक्षानिष्ठत्वेन मासेनैव भचक्रभ्रमणं, शनेस्तु सर्वोपरिमहाकक्षास्थितत्वात् ३० वर्षैर्भचक्रभ्रमणम्। एवमन्येषां तदन्तरालस्थितानां भचक्रभ्रमणकालविशेषः त्रैराशिकेन कल्पनीयः। खकक्षादिमानयोजनानि अघोऽधःस्थग्रहकक्षामानयोजनानि च सू० सि० उक्तानि तासां भूमध्यस्थ चक्र। खकक्षायाः १८७१२०८०८६४०००००० नक्षत्रकक्षायाः २५९८९०००० उ०। ४१३६२६५८ शनिकक्षायाः १२७६६८२५५ उ०। २०३१९०७१ अदृश्यराहुकक्षायाः ८०५७२८६४ गुरुकक्षायाः ५१३७५७६४ उ०। ८१७६५३८ अदृश्यचन्द्रमन्दोच्चकक्षायाः ३८३२८४८४ कुजकक्षायाः ८१४६९०९ उ०। १२९६६१९ बुधशुक्रसूर्य्यकक्षाणाम् ४३३१५०० उ०। सू० ३८९३७७ अदृश्यशुक्रशीघ्रोच्चकक्षायाः २६६४६७७ उ०। ४०४०८८ अदृश्यबुधशोघ्रोच्चकक्षायाः १०४३२०९ उ०। १६६०३३ चन्द्रकक्षायाः ३२४००० उ०। ५१५६६ भूवृत्तपरिधेः ५० २६ स्थुलम् ४९६७ सूक्ष्मम् अगस्त्यादीनां भचव्रस्थितिस्थानांशविक्षेपास्तु सृ० सि० उक्ता यथा। अगस्त्यः मिथुनान्ते भचक्रस्य ९० अंशे स्थितः। मिथुनान्तक्रान्तिवृत्तात् याम्ये ८० अंशास्तस्य विक्षेपः। मृगव्याधः मिथुनविंशांशे भचक्रस्य ८० अंशे स्थितः

तदीयक्रान्तिवृत्तात् ४० अंशास्तस्य याम्ये विक्षेपः। वह्निनक्षत्रं वृषराशिद्वाविंशभागे भचक्रस्य ५२ अंशे स्थितम्। तस्याष्टावंशाः स्वक्रान्तिस्थानात् उत्तरे विक्षेपः। ब्रह्महृदयम् वृष २२ भागे भचक्रस्य ५२ भागे स्थितं

स्वक्रान्तिवृत्तात् सोम्येऽस्य ३० अंशाः विक्षेपः। एतच्च मिथुनान्तेऽयनांशकाले, अयनांशचलने तु अन्यत्र विक्षेपः।रोहिणीशकटम् वृषराशिसप्तदशांशे भचक्रस्य ४७ अंशे स्थितं स्वक्रान्तिस्थानात् अंशद्वये याम्येऽस्य विक्षेपः।ब्रह्मनामनक्षत्रम् वृषसप्तविंशांशे भचक्रस्य ५७ अंशे स्थितम् स्वक्रान्तिस्थानात् सौम्ये ३८ अंशा अस्य विक्षपः।अपांवत्सनक्षत्रं चित्रातुल्यध्रुवके स्थितं चित्राविक्षेपात् अंशद्वयात् ५ अंशाः सौम्ये अस्य विक्षेपः।आपसंज्ञनक्षत्रं चित्रायामेव स्थितं अपांवत्सात् ६ अंशान्तरेऽस्य सौम्ये विक्षेपः।सप्तर्षयस्तु उत्तरस्यां स्थिताः विक्षपभेदस्तु सौरागमे नोक्तः तेषां शतवर्षैरकैकर्क्षभोगः वृ० स० उक्तः ऋषिशब्दे १४५१ पृ० विवृतिः। अश्विन्यादीनां योगतारादिकमश्लेषाशब्दे ४९७ पृ० उक्तम् ध्रुवकविक्षेपास्तु २४५२ पृ० उक्ताः। वीथिविवृतिः वृहत्संहितायां यथा नागवीथिः अश्विनीभरणीकृत्तिकाः गजवीथिः रोहिणोमृगशीर्षाद्राः ऐरावतवीथिः पुनर्व्वसुपुष्याश्लेषाः वृषभवीथिः मघादित्रयम् गोवीथिः हस्तादित्रयम् जरद्गववीथिः विशाखादित्रयम् मृगवीथिः मूलादित्रयम् अजवीथिः श्रवणादित्रयम् दहनवीथिः पूर्वभाद्रपदादित्रयम्

सूर्य्यादिग्रहाणां ४३२०००० वर्षात्मकयुगे राशिचक्र भ्रमणसंख्या सू० सि० उक्ता यथा रवेः ४३२०००० पूर्वगत्या बुधस्य ४३२०००० तथा शुक्रस्य ४३२०००० तथा अदृश्यभौमशीघ्रोच्चस्य ४३२०००० तथा अदृश्यगुरुशीघ्रोच्चस्य ४३२०००० तथा अदृश्यशनिशीघ्रोच्चस्य ४३२०००० तथा चन्द्रस्य ५७७५३३३६ तथा भौमस्य २५६८३२ तथा अदृश्यबुधशीघ्रोच्चस्य १७९३७०६० तथा गुरोः ३६४२२० तथा अदृश्यशुक्रशीघ्रोच्चस्य ७०२२३७६ तथा शनेः १४६५६८ तथा अदृश्यचन्द्रमन्दोच्चस्य ४८८२१२ तथा अदृश्यराहोः (पातस्य) २३१२३८ पश्चाद्गत्या एत एव सहस्त्रगुणिताः कल्पे सूर्य्यादिभगणाः। तत्र सि० शि० सूक्ष्मनमलानशेष उक्तः स च २४२९ पृ० दर्शितः। कल्पे सूर्यमन्दोच्चादिभगणसंख्या सू० सि० मते सि० शि० मते प्राग्गतेः सूर्यमन्दोच्चस्य ३८७ ४९० तथा कुजमन्दोच्चस्य २०४ २९२ तथा बुधमन्दोच्चस्य ३७८ ३३२ तथा जीवमन्दोच्चस्य ९०० ८५५ तथा शुक्रमन्दोच्चस्य ५३५ ६५३ तथा शनिमन्दोच्चस्य ३९ ३१ पश्चाद्गतेः कुजपातस्य २१४ २६७ तथा बुधपातस्य ४८८ ५२१ तथा जीवपातस्य १७४ ६३ तथा शुक्रपातस्य ९०३ ८९३ तथा शनिपातस्य ६१२ ५८४ कल्पादौ पातं धिहाय सर्वे ग्रहाः मीनान्ते मेघादौ प्राग्गत्या स्थिताः पातस्तु विलोमगत्या तुलादौ स्थित इत्ति भेदः।तदुत्तरकाले तु स्वस्वगत्यनुसारेण राशिकलादौ स्थितिः प्राभ्गत्या पश्चाद्गत्या वा बोध्या।। चैत्रशुक्लप्रतिपदि शनिवारे कल्पारम्भः इदानीञ्च श्वेतवराहकल्पः। तत्र च वर्त्तमानकालपर्य्यन्ताहर्गणानयनम् अहर्गणशब्दे ५७७ पृ० दर्शितरीत्या ज्ञेयम्। अस्य कलेश्च शुक्रवारे प्रवृत्तिः। महायुगे नाक्षत्रादिदिनसंख्या सू० सि० उक्ता नाक्षत्रदिनसंख्या १५८२२३७८२८ सावनदिनसंख्या १५७१९१५७८२८ चान्द्रदिनरूपतिथिसंख्या १६०३००००८० सूर्य्यादिबिम्बमानयोजनानि सि० शि० उक्तानि रवेर्बिम्बव्यासयोजनानि ६५२२ चन्द्रमण्डलव्यासयोजनानि ४८० भूमण्डलव्यासयोजनानि स्थूलानि १६०० सू० सि० उक्तानि १५८१ सूक्ष्माणि सि० शि० उक्तानि। योजने करमानाङ्गुलस्य षट्सप्ताष्टयवमितत्वभेदेन योजनसंख्याभेदः। अन्येषां ग्रहाणां बिम्बमानं सौरागमे नोक्तम्। कल्यादौ ग्रहाणां ध्रुवकाः २४३२ पृष्ठे उक्ता ग्रहाणां सावनदिने मध्यगतिमानं तत्रैव पृष्ठे उक्तं, मेषादौ सूर्यस्य सावनमानेन भोगकालः ४२३४, ३५ पृ० दर्शितः

दशगुर्वक्षरोच्चारणकालः प्राणः असुरिति चोच्यते ६ षड्भिः प्राणैः पलं विनाडी च, षष्ट्या पलैः नाडीदण्ड इति चोच्यते षष्ट्या दण्डैर्नाक्षत्रमहोरात्रम्। भचक्रस्य तावता कालेन भूवृत्तभ्रभणात् तस्य नाक्षत्रत्वम्। सावनदिनं सूर्य्योदयाद्द्वितीयसूर्य्योदयपर्य्यन्तकालरूपम् तच्च नाक्षत्रदिनात् सूर्य्यस्य स्वाक्रान्ततत्तद्राश्यंशादि भोगकालाधिकम्। सावनदिनमपि नाक्षत्रदिनवत् स्वपरिमाणानुसारिषष्टिदण्डात्मकमिति भेदः। नक्षत्रचक्रस्य षष्ट्या दण्डैर्भूवृत्तभ्रमणेऽपि तस्य द्वादशराश्यात्मकतया षष्टिदण्डमध्ये द्वादशराशीनामुदयः। राश्युदयश्च स्वस्वदृष्टिगोचरकुजवृत्ते पूर्वस्यां प्राथमिकदृष्टिगोचरयोग्यस्थानसम्बन्धः। राशीनां मध्ये यस्य यत्किञ्चित्कलाद्युदयः तस्योदय इति व्यवह्रियते। राशिचक्रस्य तिर्य्यक्स्थिततया देशभेदेन दृष्टियोग्यकालतारतम्येन कालभेदेनैव मेषादीनामुदयः न तु समकालेन। तत्र निरक्षदेशषु मेषादीनामुदयासवः सू० सि० उक्ता यथा असवः पलानि दण्डादि। मेषस्य १६७० २७८।२/६, ४।३८।२/६ वृषस्य १७९३ २९८।५/६ ४।५८।५/६ मिथुनस्य १९३७ ३२२।५/६ ५।२२।५/६ कर्कस्य १९३७ ३२२।५/६ ५।२२।५/६ सिंहस्य १७९३ २९८।५/६, ४।५८।५/६ कन्यायाः १६७० २७८।२/६, ४।३८।२/६ तुलायाः १६७० २७८।२/६ ४।३८।२/६ वृश्चिकस्य १७९३ २९८।५/६ ४।५८।५/६ धनुपः १९३७ ३२२।५/६ ५।२२।५/६ मकरस्य १९३७ ३२२।५/६ ५।२२।५/६ कुम्भस्य १७९३ २९८।५/६, ४।५८।५/६ मीनस्य १६७० २७८।२/६ ४।३८।५/६, मेषादीनामुदयकालभेदे कारणम् २४३६ पृ० दर्शितम् अन्यदेशेषु चरखण्डवशेन लग्नमानभेद उन्नेयः। चरस्थानञ्च द्विविधं सौम्ययाम्यं पूर्वापरञ्च। तत्र लङ्कातोमेरुपर्य्यन्तदेशः सौम्ययाम्यं चरस्थानं मध्यरेखातः समसूत्रपातस्थपूर्वापरदेशः पूर्वापरचरस्थानम्। चरखण्डानयनञ्च २४३६ पृ० दर्शितम्।

देशभेदेन सूर्य्योदयादिव्यवस्था सि० शि० उक्ता लङ्कामारभ्य उत्तरमेकं नीयमाना रेखा अवन्तीकुरुक्षेत्रादिदेशान् स्पृशन्ती या याति सा मध्यरेखा। मध्यरेखायां यदा सूर्य्योदयः तत्पूर्वदेशे ततः पूर्वमेव तदुदयः। ततः पश्चिमे भागे तु पश्चात्। तत्र यदि ६० घटीभिः भूवृत्तयोजनानि लम्यन्ते तदा रेखास्वपुरान्तरालयोजनानि कियत्या घट्या इत्यनुपातेनोदयकालज्ञानम्। सौम्यायने देवभागस्थदेशे दिवसो महान् तदुपरि सूर्य्यस्य गतत्वात्, रात्रिस्तु स्वल्पा। याम्यायने देवभागे दिनं स्वल्पं रात्रिर्महती। निरक्षे तु सर्वदैव अहोरात्रं समानम् पूर्वप्रदर्शितप्रमाणकोदयकालकानां मेषादीनां मध्ये यंकञ्चिदारभ्य दिनारम्भे त्रिंशद्घटिकामानत्वसिद्धेः। तत्र मेषादौ देवभागस्थतया सूर्य्यस्यासन्नत्वात् तत्रत्यदेशे ग्रीष्मप्रधानता। तुलादौ तु दैत्यभागस्थत्वात् सूर्य्यस्य विप्रकृष्टतया देवभागे शिशिरप्रधानता। दैत्यभागे तु वैपरीत्येन शिशिरग्रीष्मते। द्वादशराशिषु मध्ये द्वयोः सौम्ययाम्यायनसक्रान्ती द्वयोर्विषुवसंक्रान्ती अष्टसु विष्णुपत्यः संक्रान्तयः। तथाहि विषुवायनयोर्मध्ये द्वे विष्णुपद्याख्यौ संक्रान्ती। तेन मेषारम्भे पूर्वविषुवसंक्रान्तिः। वृषे विष्णु पदीसंक्रान्तिः मिथुनेऽपि विष्णुपदी संक्रान्तिः तस्यांशविशेषे च षडशीतिमुखं तेनेयं संक्रान्तिः षडशीतिमुखेऽतीते जायमानत्वात् षडशीतिरिति च भण्यते। मिथुनान्ते कर्कादौ याम्यायनसंक्रान्तिः सूर्य्यस्य दक्षिणगतेरारम्भात् तस्य दक्षिणायनत्वं तच्च चूडादिषु वर्ज्यतया गौणम्। सिंहे विष्णुपदी। कन्यारम्भे विष्णुपदी प्राग्वत् षडशीतिरिति च कथ्यते। कन्यान्ते तुलादौ अपरविषुवसंक्रान्तिः तुलान्ते वृश्चिकादौ विष्णुपदी, धनुरादौ विष्णुपदी प्राग्वत् षडशीतिरिति च। धनुरन्ते सौम्यायनसंक्रान्तिः सूर्य्यस्योत्तरगत्यारम्भात्। तच्च चूडादौ विहितत्वेन गौणम्। मकरान्ते कुम्भादौ विष्णुपदी, कुम्भान्ते मीनादौ विष्णुपदी षडशीति रिति च कथ्यते। षडशीतिमुखवञ्च षडशीत्यंश मितान्तरकालस्थित्या। तथाहि तुलादितः षडशीतितमोऽंशः धनुषः षड्विंशोऽंशः तत्र प्रथमं तन्मुखम् तत आरभ्य मीनद्वाविंशेऽंशे द्वितीयं, ततोमिथुनस्याष्टादशांशे तृतीयं कन्यायाश्चतुर्द्दशांशे चतुर्थमिति भेदः। अतश्चराचरद्व्यात्मकराशिषु षडशीतिमुखसद्भावात् तिस्रः षडशीतयः। सुरासुराणां दिनरात्रिविभागकारि अयनन्तु मेषादिमारभ्य कन्यान्तं यावत् सौम्यायनं तुलादिमीनान्तं च याम्यायनमिति भेदः। संक्रान्तिश्च द्विविधा स्थिरा चला च विवृतिरयनसंक्रान्तिशब्दे ३३९ पृ० दृश्या। अयनचलनवत् विषुवविष्णुपद्यादीनां चलनात् कालभेदेन राशिविशेषाद्यंशभेदेनैव तत्तत्संक्रान्तिर्भवति। इदानीञ्च मीनस्य पश्चात् एकविंशांशे अर्थात् तन्नवमांशे विषुबारम्भः मिथुननवमांशे च अयनारम्भः। इत्येवं सर्वसंक्रान्तीनां तत्तदंशभेदे चलसंक्रान्तिरित्युन्नेयम्। राशिचक्रस्य तत्स्थाश्विन्यादिसप्तविंशतिनक्षत्राणाञ्च एकस्यां रात्रौ दृष्टियोग्यता। तथाहि सूर्य्यस्थ यस्मिन् राशौ यदंशादौ उदयः, ततः सप्तमे राशौ तथाविधांशादावस्तमनम्। तेन सूर्य्याक्रान्तांशापेक्षया १८० भचक्रांशाः क्रमेण दिवसे उदिता अपि सूर्य्यकिरणाच्छन्नतया दिवसे न दृष्टियोग्या अस्तमिते तु सूर्य्ये रात्र्यारम्भक्षणे ते सर्वे पूर्वकुजवृत्तात् पश्चिमकुजवृत्तमध्य नतोन्नततया दृश्यन्ते। यथा यदा मेषस्य प्रथमांशे सूर्य्योदयात् दिनारम्भः ततः पूर्वस्था मेषावशिष्टांशाः, वृषादिराशिपञ्चकं १५० अंशात्मकं तुलायाः प्रथमांशाद्यार्द्धं च क्रमेण दिने उद्ग- च्छति। ततः रात्र्यारम्भे तुलायाः प्रथमांशद्वितीयार्द्धं, ततो धनुरादि पञ्चकम् १५० अंशात्मकं, मेषस्याद्यांशश्च क्रमेण रात्रौ उद्गच्छति। अत एकस्यां रात्रौ सर्वराशिचक्रांशदर्शनम्। इयांस्तु विशेषः पूर्वकुजवृत्तात् स्वमस्तकोपरिस्थाकाशभागरूपं खस्वस्तिकं यावत् ९० अंशात्मकं राशित्रयं मध्याह्नकालमध्ये क्रमेणोन्नतं भवति अपराह्णे तु तदेव ९० अंशात्मकं राशित्रयं खस्वस्तिकात् पश्चिमकुजवृत्ताभिमुखं सत् नतं भवति। उन्नतांशानां मध्ये यस्य यस्य स्वापेक्षया पूर्वस्थैकनवतितमांशस्योदयः तस्य तस्य नतिर्भवति। नतांशानाञ्च मध्ये यस्य स्वापेक्षया १८१ पूर्वस्थैकाशीत्युत्तरशततमांशस्योदयः तस्य तस्य पश्चिमकुजवृत्तेनाच्छादनादस्तत्वम् भवति। राशिचक्रवत् तत्स्थानि अश्विन्यादीनि नक्षत्राणि तत्स्था भौमादिग्रहाश्च एकरात्रौ दर्शनयोग्या भवन्ति। अस्तंगतास्तु सूर्य्येण सह दिन एव उदिता अपि सूर्य्यकिरणाविभूततेजस्कत्वात् न दृश्यन्ते। कालशब्दे १९९१ पृ० दर्शितास्तांशमध्यवर्तिनस्तु सूर्य्यसन्निकर्षविशेषेण मन्दकिरणतया दृश्या अपि न सम्यक् हश्यन्ते। चन्द्रस्य दर्शने त्वयं विशेषः चन्द्रोहि जलमयः तस्य स्वतोदीप्तिर्नास्ति तस्य दूरस्थितजलमयस्य दृष्ट्ययोग्यत्वात्। सूर्य्यकिरणप्रवेशेनैव दीप्त्या दर्शनयोग्यता तन्मण्डलस्य सूर्य्याधःस्थितत्वेऽपि एकराश्येकांशावस्थितिकालसूपामावास्यान्तकालात् क्रमेण सूर्य्यात् पूर्वगतस्य तिर्यग्रूपेण स्थितत्वात् तत्प्रवेशः। तत्रापि ४८० योजनात्मक चन्द्रबिम्बस्य गोलाकृतितया सूर्य्याभिमुखार्द्ध एव सूर्य्यकरप्रवेशः नेतरार्द्धे। तथा च पूर्णिमान्तसमय एव तयोः सम्यक्तिर्य्यग्रूपेणं स्थितत्वात्तदानीमेव चन्द्रबिम्बार्द्धे २४० योजनात्मके तत्करसंपूर्ण्णप्रवेशः। पूर्णिमान्तकालश्च सूर्य्याक्रान्तराश्यादितः भचक्रस्य १८० अंशस्थे चन्द्रे भवति। स च पञ्चदशतिथिभिर्भवति तथा च यदि १५ दिनैः १८० अंशगत्याकरप्रवेशपूर्त्तिकालः तदा एकेन दिनेन क इत्यनुपातेन फलम् १२ अशाः। यदि १८० अंशगत्या २४० योजनात्मकपूरणं तदा द्वादशांशगत्या किमत्यनुपातेन फलं १६ योजनात्मकं चन्द्रबिम्बार्द्धस्य पञ्चदशांशरूप्रकलापूरणं लभ्यते ततश्च चन्द्रबिम्बार्द्धस्यपूर्वगतौ पञ्चदशांशात्मक १६ योजनरूपायाः कलायाः पश्चिमस्थ सूर्य्यापेक्षया तिर्य्यक्स्थित्या सूर्य्यकिरणप्रवेशानुकूलतया तत्क्रियात्व मारोप्यते। पञ्चदशकलात्मकचन्द्रमण्डलस्य तु शुक्लप्रतिपद्यपि सूर्य्याक्रान्तांशादितो विभागानुकूलक्रियारूपनिःसरणस्य सत्त्वात् न केवलैकादिमात्रकलाक्रिया, तथाङ्गीकारे च केवलायास्तस्या विम्बं विहाय गत्यसम्भवात् न तन्निःसरणं सम्भवति न वा दृश्यते। दृश्यते च द्वितीयादौ सूर्य्याक्रान्तांशादिभ्योबहुदूरतया चन्द्रबिम्बस्य स्थितिः। किञ्च प्रथमादि दिने प्रथमादिकलामात्रस्य पूर्वतोनिःसरणस्वीकारे चन्द्रविम्बस्य पूर्वादिकलानामेव दृश्यतापत्तिः। न च तथा दृश्यते प्रत्युत पश्चिमस्थकलानामेव क्रमशः दृष्टिर्जायते। अतः सूर्य्यकिरणप्रवेशयोग्यत्वसम्पादिका तिर्य्यक्स्थित्यनुकूलैव प्रथमादिकलाक्रियेति वस्तुस्थितिः। तत्रामावस्यान्त्यक्षणे सूर्य्याक्रान्तराश्यंशादिसाम्येन तदधःस्थचन्द्रस्य सर्वथाऽदर्शनम् सूर्य्येण सह दिन एव तस्योदयात्। ततः शुक्लप्रतिपदि द्वादशांशान्तरितत्वेन तस्य सूर्य्यात् पूर्व्वगत्या १६ योजनात्मकचन्द्रबिम्बार्द्धकलायाः तिर्य्यक्स्थितत्वेऽपि कालशब्दे १९९० पृ० दर्शितास्तांशमध्यवर्त्तित्वात् अस्तांशमध्यवर्त्ति भौमादीनामिव न दृष्टिः। एवं कृष्णचतुर्द्दश्यामपि द्वादशांशान्तरित्वेन पश्चात्तिर्यक्स्थित्यापि न दृष्टियोग्यता। शुक्लद्वितीयायान्तु सूर्य्याक्रान्तराश्यंशात् दिनद्वयेन २४ अंशान्तरितत्वेन पूर्व्वापेक्षया सूर्य्यादधिकतिर्य्यक्स्थित्या २४ योजनात्मकस्य चन्द्रबिम्बार्द्धपञ्चदशांशरूपकलाद्वयस्य सूर्य्यकिरणप्रवेशात् दृष्टियोग्यता। एवं तृतीयादिष्वपि क्रमेण सूर्य्यकिरणप्रवेशाधिक्यात् अंशविशेषे दीप्तिपरिवृद्धिः। शुक्ले पक्षे सूर्य्यक्रान्तराशितः द्वित्रादिराश्यन्तरितत्वेन स्थितस्य दिवोदितस्यापि चन्द्रबिम्बस्य सूर्य्यकिरणविशेषप्रवेशेऽपि सौरालोकेनाविभूतत्वात् धूम्रतयैव दृष्टियोग्यता। पूर्णिमायान्तु चन्द्रस्य सूर्य्याक्रान्तराशितः १८० भचक्राशगत्या परमतिर्य्यक्स्थित्या सर्वकलासु २४० योजनात्मिकासु सूर्य्यकिरणप्रवेशः। कृक्ष्णप्रतिपदि तु द्वादशांशान्तरितत्वेन सूर्य्यात् पश्चात् स्थित्या तिर्य्यग्गत्यल्पतया १५ योजनरूपप्रथमकलायां न सूर्य्यकरप्रवेश इत्यतस्तस्य न दर्शनम् तत्र सूर्य्यकराप्रवेशनानुकूलतिर्य्यग्गतिभेद एव कृष्णपक्षीयकलाक्रियोत भेदः। अधिकमिन्दुशब्दे ९३० पृ० उक्तम्।

तिथिकरणयोगनक्षत्रवारेशादिस्वरूपादिकं तत्तच्छब्दे दृश्यमितिदिक्।

***