क्षेत्रकर्कटी = स्त्री क्षेत्रजाता कर्कटी। वालुक्यां कर्कटीभेदे राजनि०

क्षेत्रचिर्भिटा = स्त्री क्षेत्रजाता चिर्भिटा। पाण्डुफलायां चिर्भिटाभेदे राजनि०

क्षेत्रज = पु० क्षेत्रे जायते जन–ड ७ त०। “यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य च। स्वधर्म्मेण नियुक्तायां स पुत्रः त्रेजः स्मृतः” इति मनूक्ते १ पुत्रभेदे नियोगधर्म्मश्च मनुनोक्त्वा निषिध्य च वाग्दानोत्तरमेव पतिमरणे विहितः यथा

“देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्ग्नियुक्तया। प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये। विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि। एकमुत्पादयेत् पुत्त्रं न द्वितीयं कथञ्चन। द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः। अनिर्व्वृत्त नियोगार्थं पश्यन्तो धर्म्मतस्तयोः। विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि। गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम्। नियुक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः। तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ। नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः। अन्यस्मिन् हि नियुञ्जाना धर्म्मं हन्युः सनातनम्। नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्त्यते क्वचित्। न विवाहविधावृक्तं विधवावेदनं पुनः। अयं द्विजैर्हि विद्वद्भिः पशुधर्म्मो विगर्हितः। मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति। स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा। वर्णानां सङ्करं चक्रे कामोपहतचेतनः। ततः प्रभृति यो मोहात् प्रर्मातपतिकां स्त्रियम्। नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः। यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विन्दत देवरः। यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम्। मिथो भजेताप्रसवात् सकृत् सकृदृतावृतौ”।

वृहस्पतिना “उक्तो नियोगो मनुना निषिद्धः स्वयमेव हि” इत्यादिना तन्निषेधौक्तः। मिताक्षरायामप्ययं पक्षो द्व्यामुष्यायणप्रसङ्गे समर्थितः यथा “अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः। उभयोरप्यसौ रिक्थी पिण्डदाता च धर्म्मतः” या०। “अपुत्रो गुर्वनुज्ञातः” इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्य्यायां गुरु नियोगेनोत्पादितःपुत्रौभयोर्वीज क्षोत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्म्मत इत्यस्यायमर्थः। यदाऽसौ नियुक्तोदेवरादिःस्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तोयं जनयति स द्विपितृकोद्व्यामुष्यायणोद्वयोरपि ऋक्थहारी पिण्डदाता च। यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणःपुत्रार्थं यतते तदा तदुत्पन्नः क्षेत्रिणएव पुत्रोभवतिन वीजिनःसच नियमेन वीजिनोरिक्थहारी पिण्डदोऽपीति। यथोक्तंमनुना “क्रियाभ्युपगमात् क्षेत्रं वीजार्थं यत् प्रदीयते। तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिकएवचेति”। क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयोरुभयोरपिभवत्विति संविदङ्गीकरणाद्यत् क्षेत्रं क्षेत्रस्वामिना वीजिने वीजवपनार्थं दीयते तस्मिन् क्षेत्रौत्पन्नस्यापत्यस्य वीजक्षेत्रिणौ भागिनौ दृष्टौ महर्षिभिः। तथा। “फलंत्वनभिसन्धाय क्षेत्रिणां वीजिनां तथा। प्रत्यक्षं क्षेत्रिणामर्थो वीजाद्योनिर्व लीयसीति” मनुः। “फलं त्वनभिसन्धायेति अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वित्येवमनभिसन्धाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिणएव। यतोवीजाद्योनिर्वलीयसी गवाश्वादिषुतथादर्शनात्। अत्रापि नियोगोवाग्दत्ताविषयएव इतरस्य नियोगस्य मनुना गिषिंद्धत्वात् “देवराद्धा सपिण्डाद्धा स्त्रिया सम्यग्नियुक्तया। प्रजेस्पिताधिगन्तव्या सन्तानस्य परिक्षये। विधवायां नियुक्तस्तु घृताक्तोवाग्यतोनिशि। एकमुत्पादयेत्पुत्रं न द्वितीय कथञ्चन” इत्येवंनियोगमुपंन्यस्य मनुः स्वयमेव निषेधति। “नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः। अन्यस्मिन् हि नियुञ्जाना धर्म्मंहन्युःसनातनम्। नोद्वाहिकेषु मन्त्रेषु नियोगः- कीर्त्त्यते क्वचित्। न विवाहविधावुक्तंविधवावेदनंपुनः। एवंद्विजैर्हि विद्वद्भिःपशुधर्मोविगर्हितः। मनुष्याणामपि प्रोक्तोवेने राज्यं प्रशासति। स महीमखिलां भुञ्जन् राजर्षिप्रवरःपुरा। वर्णानां सङ्करञ्चक्रे कामोपहतचेतनः। ततःप्रभृति योमोहात् प्रमीतपतिकां स्त्रियम्। नियोजयत्यपत्यार्थे गर्हन्ते तं हि साधवः” इति। नच विहितप्रतिषिद्भत्वाद्विकल्प इति मन्तव्यम् नियोक्तॄणां निन्दाश्रवणात्। स्त्रीधर्म्मेषु व्यभिचारस्यबहुदोषश्रवणात् संयमस्य प्रशस्तत्वाच्च। यथाह मनुरेव “कामं तु क्षपयेद्देहं पुष्पमुलफलैःश्रुभैः। नतु नामापि गृह्णीयात्पत्यौ प्रेते परस्यत्विति” जीवनार्थं पुरुषा न्तराश्रयणं प्रतिषिध्य “आसीतामरणात् क्षान्ता नियताव्रह्मचारिणी। योधर्म्मएकपत्नीनां काङ्क्षन्ती तमनुत्तमम्। अनेकानि सहस्राणि कौमारव्रह्मचारिणाम्। दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम्। मृते भर्तरि साध्वो स्त्री ब्रह्मचर्य्ये व्यवस्थिता। स्वर्गं गच्छत्यपुत्रापि यथा ते व्रह्मचारिणः। अपत्यलोभाद्या तु स्त्री भर्तारमति वर्तते। सेह निन्दामवाप्नोति परलोकाच्च हीयत” इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति। तस्माद्विहितप्रतिषिद्धत्वाद्विकल्पैति न युक्तम्। एवं विवाहसंस्कृतानियोंगे प्रतिषिद्धे कस्तर्हि धर्म्मोनियोग इत्यतआह “यस्याग्नियेत कन्याया वाचा सत्ये कृते पतिः। तामनेन विधांनेन निजोविन्देत देवरः। यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम्। मिथोभजेताप्रसवात्सकृत्सकृट्टतावृताविति”। यस्मै वाग्त्ता कन्या स प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेष गम्यते। तस्मिन् प्रेते देवरस्तस्यज्येष्ठःकनिष्ठोवा निजःसोदरोविन्देत परिणयेत्। यथाविधि यथाशास्त्रमधिगम्य परिणीयानेन विधानेन घृताभ्यङ्गवाङ्गियमादिना। शुक्लवस्त्रां शुचिव्रतां मनोवांक्वायसंयमां मिथोरहस्यागर्भग्रहोणात्प्रभृत्येकैकं वारं गच्छेत्। अयञ्च विवाहोवाचनिकोघृताभ्यङ्गादिनियमवन्नियुक्ताभिगमनाङ्गमिति न देवरस्य भार्य्यात्वमापादयत्यतस्तदुत्पन्नमपत्यं क्षेत्रस्वामिनएव मवति न देवरस्य संविदा तूमयोरपि” अनेन सन्दर्भेण प्रमीतपतिकायां नियोगनिषेधात् सधवायामनिषेधः तेन पाण्डुराजेन कुन्त्यां माद्र्यां च नियोगद्वारा पुत्राणामुत्पादनं न विरुद्धम्। वस्तुतः “अनेकधा कृताः पुत्रा ऋषिभिर्यैः पुरातनैः न शक्यन्तेऽधुना कर्त्तुं शक्तिहीनैरिदन्तनैः” इति वृहस्प- तिना शक्तिहोनानामेवेदानीन्तनानां तथाचरणस्य निषेधात् शक्तिशालिभिऋषिभिस्तस्याचरणं न निषिद्धं तेषां तपःप्रभावात् तत्पापक्षयसम्भवात्। अतएव मृतपतिकयोरपि अम्बिकाम्बालिकयोर्विचित्रवीर्य्यभार्य्ययोर्नियोगात् व्यासेन धृतराष्ट्रपाण्डुरूपक्षत्रजयोरुत्पादनं न विरुद्धम्। अतएवादित्यपुराणे कलिवर्ज्यप्रकरणे “देवरेण सुतोत्पत्तिर्दत्तकन्या प्रदीयते” इत्युक्तं कालिकापुराणे च तत्प्रकरणे “दत्तौरसेतरेषां च पुत्रत्वेन परिग्रहः” इत्युक्तम्। धृतराष्ट्रादीनां तु कलियुगोत् पन्नत्वेऽपि वासुदेवस्य भूमावस्थितिपर्य्यन्तं कलिधर्म्माणां प्रादुर्भावाभावान्न विरोधः। अतः कलौ तस्य सर्व्वथा निषेधात् तद्विषये विशेषी नाभिहिता। २ क्षेत्रजातमात्रे त्रि० ३ श्वेतकण्टकार्य्यां ४ शशाण्डुल्यां ६ गोमूत्रिकायां ६ शिल्पिकायां ७ चविकायाञ्च स्त्री राजनि०

क्षेत्रज्ञ = पु० क्षवमात्मत्वेन सर्व्वज्ञत्वेन वा जानाति ज्ञा–क। १ आत्मत्मत्वेन देहाद्यभिमानिनि जीवे २ सर्व्वज्ञे परमेश्वरे। “इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते। एतद्योवेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञञ्चापि मां विद्धि सर्वक्षेत्रेषु भारत!। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम! तत् क्षेत्रं यच्च यादृक् चं यद्विकारि यतश्च यत्। स च योयत्प्रभावश्च तत् समासेन मे शृणु। ऋषिभिर्बहुवा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः। महाभूतान्यहङ्कारोबुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः। इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः। एतत् क्षेत्रं समासेन सविकारमुदाहृतम्” गीता। “अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च” विष्णु स० ३ साक्षिणि च। “प्रकृत्यास्तु विकाराये क्षेत्रज्ञस्तैरधिष्ठितः” नचैनं ते प्रजानान्ति स तु जानाति तानि वै” भा० शा० २४३ अ०। “यस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते” इति मनूक्ते ४ अन्तर्यामिणि “हृदि स्थितः कर्म्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति” भा० आ० ३०१६ श्लो०। ५ वटुकभैरवे “क्षेत्रज्ञः क्षत्रियोविराट्” वटुकस्तवः। ६ विदग्धे त्रि० मेदि० ७ कृषके त्रि० शब्दरत्ना० ८ क्षेत्रज्ञातरि त्रि० “तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञ उपर्य्युपरि सञ्चरन्तो न विन्देयुः” छा० उ०। ततः व्राह्मणा० भावे ष्यञ् क्षेत्रज्ञ्य युवा० अण्। क्षैत्रज्ञ तद्भावे न०।

क्षेत्रदूती = स्त्री क्षेत्रे दूतीव। श्वेतकण्टकारिकायाम् राजनि०।

क्षेत्रपति = पु० ६ त०। त्रेस्वामिनि “जीवं त्रेपतिं प्राहुः केचिदग्निमथापरे। स्वतन्त्र एव स कश्चित् क्षेत्रस्य पतिरिष्यते” तन्त्र० क्षेत्रपतेरपत्यादि पत्युत्तरपदत्वेऽपि अश्वपत्यादौ पाठातण्। क्षैत्रपत तदपत्यादिषु त्रि०।

क्षेत्रपर्पटी = स्त्री क्षत्रे पर्यटीव। (तेपापडा) इति ख्याते क्षुपभेदे वैद्यकम्।

क्षेत्रपाल = त्रि० क्षेत्रं पालयति पालि–अण्। १ क्षेत्ररक्षके त्रि०। २ भैरवभेदे पु०। तद्भेदाः प्रयोगसारे उक्ता यथा “भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्त्तिताः। मातृकावीजभेदेन सम्भिन्ना नामभेदतः। अजरश्चापकुम्भश्च इन्द्रस्तुतस्ततःपरः। ईडाचारश्चोक्थसंज्ञ ऊष्माद ऋषिसूदनः। ॠमुक्ती ऌप्तकेशश्च ॡप्तकश्चैकदंष्ट्रकः। ऐरावतश्चौघबन्धुरौषधेशस्तथैव च। अञ्जनश्चास्त्रवारश्च कबलः खरुखानलः। गोमुख्यश्चैव घण्टादोङमनाश्चण्डवारणः। छटाटोपो जटालाख्यो झङ्कारश्च ञदुश्चरः। टङ्कपाणिस्तथाचान्यष्ठानबन्धुश्च डामरः। ढक्कारवी णवर्णश्च तडिद्देह स्थिरस्तथा। दन्तुरोधनदश्चान्योनतिक्तान्तः प्रचण्डकः। फट्कारोबीरसंघश्च भृङ्गाख्यो मेघभासुरः। युगान्तो रौद्ररूपश्च लम्बोष्ठो वसुमांस्तथा। शूकनन्दः षडालाख्यः सुनामा हम्बुकस्तथा। एते भेदाः समाख्याता मातृकाक्षरयोनिकाः”। क्षेत्रपालकथनप्रयोजनं यथा “नाम पद्यस्य बर्णानां यो वर्णो मातृकान्तरे। दृश्यते प्रथमं तत्र तत्रायं क्षेत्रपालकः। तत्र तत्र विशिष्टात्मा भेदैरेतैर्व्यवस्थितः। ततो विशिष्टो यष्टव्यः क्षेत्रपालस्तु सर्वतः। क्षत्रपालमसंपूज्य यः कर्म कुरुते क्वचित्। तस्य कर्मफलं हन्ति क्षेत्रपाली न संशयः”। तन्त्रोक्ते २ पश्चिमद्वारपाले भैरवभेदे च “गणेशं वटुकं चैव क्षेत्रपालञ्च योगिनीः। पूर्बादिक्रमयोगेन द्वारपालान् प्रपूजयेत्” तन्त्र० ३ क्षेत्रपालके त्रि०

क्षेत्रफल = न० क्षेत्रस्य फलम्। १ मूम्यादिक्षेत्रजाते शस्यादौ। लीलावत्याद्युक्ते त्रिकोणादिक्षेत्रभवे २ हस्तादिरूपे (कालि) फले क्षत्रशब्दे विवृतिः।

क्षेत्रमालिका = स्त्री क्षेत्रं मालयति मल–णिच्–ण्वुल्। वचायां वैद्यकम्।

क्षेत्ररुहा = स्त्री क्षेत्रे रोहति रुह–क। १ वालुक्यां कर्कटीभेदे राजनि०। २ क्षेत्रजातमात्रे त्रि०।

क्षेत्रव्यवहार = पु० लीलावतीप्रदर्शिते त्रिकोणादिक्षेत्रफलादितत्त्वज्ञापके व्यवहारभेदे।

क्षेत्रसम्भव = त्रि० क्षेत्रे सम्भवति सम् + भू–अच्। १ क्षेत्रजाते “क्षेत्रसम्भवफलं घनं भवेत्” लीला०। २ भूमिजातमात्रे त्रि०। ३ भिण्डाक्षुपे पु० राजनि०।

क्षेत्रसम्भूत = पु० क्षेत्रे संभूतः। १ कुन्दरे पु० शब्दचि० २ भूमिभवे त्रि०।

क्षेत्रसाधस् = त्रि० क्षेत्रं साधयति साधि–असुन्। क्षेत्रसाधके “सपर्य्यन्त पुरुप्रियं मित्रं न क्षत्रसाधसा” ऋ० ८, ३१, १४।

क्षेत्राजीव = त्रि० क्षेत्रं तत्फलं शस्यं आजीवति आ–जीवअण्। कर्षके अमरः।

क्षेत्राधिदेवता = स्त्री ६ त०। सिद्धस्थानतीर्थाधिष्ठातृदेवताभेदे। तन्नामोच्चारणञ्च श्रोशब्दोच्चारणपूर्वं कार्य्यं यथाह सं० त० प्रयोगसारः “देवं गुरुं गुरुस्थानं क्षेत्र क्षत्राधिदेवताम्। सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्”।

क्षेत्राधिप = स्त्री ६ त०। १ मेषादिद्वादशराशिस्वामिषु कुजादिषु क्षेत्रशब्दे विवृतिः। २ क्षेत्रस्वामिनि त्रि०।

क्षेत्रामलकी = स्त्री त्रे जाता आमलकी। भूम्यालक्याम् शब्दमा०।

क्षेत्रिक = त्रि० क्षेत्रमस्त्यस्य ठन्। क्षत्रस्वामिनि। “ओघवाताहृतं वीजं यस्य क्षेत्रे प्ररोहति। क्षेत्रिकस्यैव तद्वीजम्” मनुः। इनि क्षेत्रिन् अप्यत्र क्षेत्रशब्दे उदा०। “यावच्छस्यं विनश्येत्तु क्षेत्री तस्य फलं लभेत्” याज्ञ०।

क्षेत्रिय = त्रि० परक्षेत्रे देहान्तरे चिकित्स्यः परक्षत्रस्य क्षेत्रियजादेशः। देहान्तरे चिकित्स्ये अप्रतीकार्य्ये १ रोगे “दण्डोऽयं क्षेत्रियो येन मय्यपातीति साऽब्रवीत्” भट्टिः। क्षत्रमस्त्यस्य वा० घ। २ क्षेत्रस्वामिनि त्रि०। “क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणोभवेत्। ततोऽर्द्धदण्डोभृत्यानामज्ञानात् क्षत्रियस्य तु” मनुः क्षत्रियस्येत्यत्र क्षेत्रिकस्येति पाठान्तरम्। क्षेत्रे भवः बा० घ। ४ क्षेत्रजाते तृणादौ त्रि० क्षेत्रे स्वपरक्षत्रमात्रे प्रसितः बा० वः। ५ परदाररते पु० मेदि०।

क्षेत्रेक्षु = पु० क्षेत्रे इक्षुरिव। यावनाले (जुह्नारी) ख्याते राजनि०

क्षेप = पु० क्षिप–घञ्। १ निन्दायां, २ विक्षेपे, ३ प्रेरणे, ४ लेपने ५ हेलायां ६ लङ्घने हेम०। करणे घञ्। ६ गर्वे मेदि० ७ विलम्बे हेम०। कर्मणि घञ्। ८ गुच्छे त्रिका०। तत्र निन्दायां, “सत्यासत्यानृतंस्तोत्रे न्यूनाङ्गेन्द्रियरो गिणाम्। क्षेपं करोति चेद्दण्ड्यः” याज्ञ०। “क्षेपसंप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः” भा० शा० ४९ अ०। “क्षेपयुक्तैर्वचोभिः” भा० आ० ५५५ श्लो०। विक्षेपे दृष्टिक्षेपः अपटीक्षेपः। विलम्बे “कृतक्षणक्षेपमुदैक्षताच्यतम्” माघः। कर्मणि घञ्। क्षिप्यमाणे कट्टकशब्दे पृ० २०७१ उदा० फलान्यधोधस्तदधो निवेश्यः” लीला० क्षेप + स्वार्थे कातत्रार्थे “भाज्यीहारः क्षेपकश्चापवर्त्त्य” इत्यादि तत्र शब्दे लीलावतीवाक्यमुक्तम्।

क्षेपक = त्रि० क्षिप–ण्वुल्। १ विक्षेपकर्त्तरि ग्रन्थकृदकृतांशस्य तद्ग्रन्थमध्ये सन्निवेशके च। क्षेप + स्वार्थे क। क्षिप्यमाणे यथा लीलावत्यां “पादोन्पद्याकतुल्यटङ्कैरित्यादि” श्लोकद्वयम्।

क्षेपण = न० क्षिप–ल्युट्। १ अपवादे २ लङ्घने ३ मारणे ४ विक्षपे ५ यापने च। “आयुषः क्षेपणार्थञ्च तु दातव्यं स्त्रीधनं विना” हरीतः “उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम्” मनुः। करण ल्युट्। ६ क्षेपसाधने मल्लव्यापारभेदे (फेलान) “क्षेपणैर्मुष्टिभिश्चैवावरोहोद्धूतनिःस्वनैः” भा० वि० १३ अ० “क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यावनं हठात्” तद्याख्यायां नीलकण्ठधृतं मल्लशास्तम्।

क्षेपणि(णी) = स्त्री क्षिप बा० अनि वा ङीप्। १ नौकादण्डे (दांड) अमरः। २ जालभेदे (क्षेपलाजाल) मेदिनिः।

क्षेपणीय = पु० क्षिप–अनीयर्। “क्षेपणीयोभिन्दिपालः खङ्गोदीर्घमहाफलः” यादवोक्तलक्षणे १ भिन्दिपालेऽस्त्रे, २ क्षेप्यमात्रे पाषाणादिके त्रि०। “नाराचक्षेपणीयाश्मनिष्पेषपतितानलम्” रघुः।

क्षेपिमन् = पु० क्षिप्रस्य भावः पृथ्वा० इमनिच्” क्षेपादेशः। शीघ्रतायाम्।

क्षेपिष्ठ = त्रि० अतिशयेन क्षिप्रः इष्टन् क्षेपादेशः। अतिशयशीघ्रे “वायुर्वै क्षेपिष्ठा देवता” श्रुतिः। ईयसुन्। क्षेपीयस् तत्रार्थे त्रि० स्त्रियां ङीप्।

क्षेम = पु० क्षि–मन्। १ चोरनामगन्धद्रव्ये। २ लब्धवस्तुनोरक्षणे पु० न० अर्द्धर्चादि० मेदिनिः। “उपेयादीश्वरञ्चैव योगक्षेमार्थसिद्धये” याज्ञ० लब्धस्य रक्षणं क्षेमः” आ० त० रघु०। “यन्ता च मे धर्त्ता च ये क्षेमश्चमे” यजु० १८, ७०, क्षेमः विद्यमान धनादे रक्षणशक्तिः” वेददी०। ३ विद्यमानसत्ताकस्य वस्तुनः स्वाधिकरणे विशिष्ट बुद्धि नियामक सम्बन्ध विशेष व्यवस्थापने क्षेमिकशब्दे विवृतिः। ४ कुशले न० ५ तद्वति त्रि० अम०। “गृहाण राज्यं विपुलं क्षेमं निभृतकण्टकम्” भा० व० २५९७६ श्लो० “कृतःक्षेमः पुनः पन्थाः” भा० व० ४४४ श्लो० “श्वश्रूश्वशुरभर्त्तृणां मम क्षेमास्तु शर्वरी” २९८ अ०। ६ मुक्तौ न० हेम० “भविता सहदेवस्य” इत्युपक्रमे “अथ मागधराजानो भाविनोये वदामिते” “ततः श्रुतञ्जयाद्विप्र! शुचिस्तस्य भविष्यति। क्षेमोऽथ सुव्रतस्तस्माद्धर्म्मस्तत्र समन्ततः” भा० श० ९, २२, ३० अ० उक्ते सहदेववंश्ये ७ नृपभेदे पु०। “जन्मसम्पद्विपत्क्षेमं प्रत्यरिः साधकोबधः। मित्रं परममित्रं च” ज्यो० उक्ते स्वजन्मतारावघिके चतुर्थप्रयोदशद्वाविंशे ८ नक्षत्रे च न०।

क्षेमक = पु० क्षेम–स्वार्थे क। १ चोरनामगन्धद्रव्ये जटा० २ राक्षसभेदे, “एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप! पुण्यां निवेशयामास क्षेमको नाम राक्षसः” हरि० २९ अ० ३ पाण्डुवंश्ये नृपभेदे। “दण्डपाणिर्निमिस्तस्य क्षेमको भविता ततः” इत्युपक्रमे “क्षेमकं प्राप्य राजानं संस्थं प्राप्स्यति तै कलौ” भा० ९, २२, २९ श्लो०।

क्षेमकर = त्रि० क्षेमं करोति कृ–अच् ६ त०। १ मङ्गलकारके “पन्यानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः!” भा० आश्व० ३५ अ०।

क्षेमकार = त्रि० क्षेमं करोति कृ–अण् उप० स०। मङ्गलकारके “पितुः प्रियङ्करी भर्त्ता क्षेमकारस्तपस्विनाम्” भट्टिः

क्षेमकृत् = त्रि० क्षेमं करोति कृ–क्विप् ६ त०। १ कृतमङ्गले २ उपात्तस्य रक्षके परमेश्वरे पु०। “अनियन्ता निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः” विष्णुसं०।

क्षेमङ्कर = त्रि० क्षेमं करोति “क्षेमप्रियमद्रेऽण् च” पा० चकारात् खच् मुम् च। क्षेमकारके।

क्षेमङ्करी = स्त्री “क्षेमान् देवेषु सा देवी कृत्वा दैत्यपतेः क्षयम्। क्षेमङ्करी शिवेनोक्ता पूज्या लोके भविष्यसि” देवीपु० ४० अ० उक्ते १ देवीभेदे, २ शङ्खचिल्ल्याञ्च। “कुङ्कमारुणसर्वाङ्गि! कुन्देन्दुधवलानने। मत्स्यमांसप्रिये! देवि! क्षेमङ्करि! नमोऽस्तु ते” इति तत्प्रणाममन्त्रः

क्षेमदर्शिन् = त्रि० क्षेमं पश्यति दृश–णिनि। मङ्गलदर्शिनि स्त्रियां ङीप्। कोसलाधिपराजभेदे। “कोसलानामाधिपत्यं संप्राप्तं क्षेमदर्शिनम्” “स काकं पञ्चरे बद्ध्वा विषयं क्षेमदर्शिनः” भा० शा० ८२ अ०।

क्षेमधन्वन् = पु० रामवंश्ये राजभेदे। “रामस्य तनयोजज्ञे कुश इत्यभिविश्रुतः” इत्युपक्रमे “नभस्य कुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः” हरि० १५ फ०। “स क्षेमधन्वानमयोधयद्वली” रघुः।

क्षेमधूर्त्त = पु० ब० व० वृह० सं० कूर्म्मविभागे “श्यामाकाः क्षेम धूर्त्ताश्च” इति उत्तरस्यामुक्ते देशभेदे।

क्षेमधूर्त्ति = पु० कैकेयदेशाधिपे राजभेदे। “वृहत्क्षेत्रमथायन्तं कैकेयं दृढविक्रमम्। क्षेमधूर्त्तिं महाराज! विव्याधोरसि मार्गणैः” भा० द्रो० १०७ अ०। “गणः क्रोधवशो नाम यस्ते राजन्! प्रकीर्त्तितः। ततः सञ्जज्ञिरे वीराः” इत्युपक्रमे “कारुक्षेमश्च राजानः क्षेमधूर्त्ति स्तथैव च” भा० आ० ६७ अ०।

क्षेमफला = स्त्री० क्षेमं फलं यस्य। उदुम्बरवृक्षे शब्दच०। क्षेमाफलेति पाठे पृषो०।

क्षेममूर्त्ति = स्त्री दुर्य्योधनभ्रातृभेदे “उग्रश्रवाः उग्रसेनः क्षेममूर्त्तिस्तथैव च” भा० आ० ६७ अ०।

क्षेमवृद्धिन् = त्रि० क्षेमस्य वृद्धमस्त्यस्य इनि। क्षेमवर्द्धनये ततः वाह्वा० इञ्। क्षैमवृद्धि तदपत्ये पु० स्त्री०।

क्षेमा = स्त्री १ देवीमूर्त्तिभेदे “निस्त्रिंसे पूजयेत् क्षेमां सर्वकामफलप्रदाम्” देवी० पु० ४७ अ०। २ अप्सरीभेदे च “अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा” भा० आ० १२३ अ०।

क्षेमाधि = पु० मिथिलाधिपे राजभेदे। “अरिष्टनेमिस्तस्यापि श्रुतायुस्तत् सुपार्श्वकः। ततश्चित्ररथोयस्य क्षेमाधिर्मिथिलाधिपः” भाग० ९, १३, १४।

क्षेमासन = न० “अथ क्षेमासनं वक्ष्ये यत् कृत्वा प्रेक्षयेद्दिवम्। दक्षहस्ते दक्षषादं केवलं स्थापयेत् सुधीः” इति रुद्रयामलोक्ते आसनभेदे।

क्षेम्य = द्रि० क्षेमाय साधु यत्। कुशलयोग्ये “सायं मनुष्याश्च पशवश्च क्षेम्या भवन्ति” श्रुतिः।

क्षेय = त्रि० क्षेतुं योग्यः क्षि–यत्। क्षेतुंयोग्ये।

क्षेव = सेवने भ्वा० पर० सक० सेट्। क्षेवति अक्षेवीत् चिक्षेव।

क्षै = क्षये भ्वा० पर० अक० अनिट्। क्षायति अक्षासीत् चक्षौ। क्षेयं क्षाता क्षामः।

क्षैत = त्रि० क्षितेरयम् अण्। १ क्षितिसम्बन्धिनि २ क्षीणतासम्बन्धिनि च “यशस्तरोयशसां क्षैतो अस्मे” ऋ० ९, ९७, ३,

क्षैतयत = पु० क्षैताय क्षीणतायै यतते यत–अच्। क्षीणतायै यतमाने ऋषिभेदे तस्यापत्यादि तिका० फिञ्। क्षैतयतायनि तदपत्यादौ

क्षैत्र = न० क्षेत्राणां समूहः भिक्षा० अण्। १ क्षेत्रसमूहे। स्वार्थे अण्। २ क्षेत्रे च “वैश्वानरं क्षैत्रजित्याय देवाः” यजु० ३३, ६०। क्षेत्रमेव क्षैत्रं तस्य जित्यं जयस्तस्मै यजमानस्य क्षेत्राप्त्यै” वेददी०

क्षैमिक = त्रि० क्षेमेण निर्वृत्तं ठञ्। १ लब्धस्य रक्षणोपयोगिनि २ विद्यमानसत्ताकस्य वस्तुनः स्व्यधिकरणे स्वतिशिष्टवुद्धिनियामकसम्बन्धव्यवस्थापननिर्वाह्ये जन्यत्वे च। यथा दुःखात्यन्तामावस्य मोक्षत्ववादिमते अत्यन्ताभावस्याजन्यत्वेऽपि स्वप्रतियोगिदुःखानुत्पादनद्वारा स्वाधिकरणे स्वविशिष्टबुद्धिनियामकदुःखाकालीनस्वरूप सम्बन्धनिर्वाहकत्वं तत्त्वज्ञानस्येति दुःखात्यन्ताभावस्य क्षैमिकी तत्त्वज्ञानसाध्यता। एवं कृतिसाध्यत्वस्य विध्यर्थत्वमते “एकादश्यामुपवसेत्” इत्यादौ अहोरात्र भोजनाभावस्य क्षैमिकं कृतिसाध्यत्वम्। “भावोयथाऽ- भावः कार्य्यवत् कारणं मतः” इत्युदयनाकार्य्यैरमावमात्रस्य दृष्टान्तविधया कार्य्यत्वोक्तिः क्षैमिकविषया। एतेन प्रायश्चित्तविवेकटीकायां श्रीकृष्णतर्कालङ्कारेणात्यन्ताभावस्य क्षैमिकजन्यत्वस्य निराकरणम् निरस्तम् प्रतियोग्यकालीनस्वरूपसम्बन्धविशेषस्यैवात्यन्ताभावविशिष्टबोधनियामकत्वेन तादृशसम्बन्धस्य तत्त्वज्ञानकृत्यादिनिर्वाह्यत्वान् स्वाधिकरणे सति हि दुःखे भोजने वा तादृशस्वरूपसम्बन्धाभावात् विशिष्टबुद्धेरनुदयात् तस्य तत्त्वज्ञानादिप्रयोज्यत्वमेवमन्यत्रोहाम्

क्षैरह्रद = त्रि० क्षीरह्रदस्येदम् शिवा० अण्। क्षीरह्रदसम्बन्धिनि।

क्षैरेय = त्वि० क्षीरे संस्कृतम् ढञ्। १ क्षीरे संस्कृते परमान्ने न० हेम०। २ यवाग्वां स्त्री ङीप्।

क्षोड = पु० खोड–घञ् पृषो०। १ आलाने गजबन्धन्याम् शब्दचि०

क्षोण = त्रि० क्षि–बा० डोन। क्षयशीले। “महः क्षोणस्याश्विना कण्वाय” ऋ० १, ११७, ८ क्षोणस्य क्षयणस्य निरु० ६, ६,

क्षोणि(णी) = स्त्री क्षै–बा० डोनि वा ङीप्। १ पृथिव्यां निघ०। “मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतुः” भाग० २, ७, १३। २ एकसंख्यायाञ्च

क्षोद = पु० क्षुद–घञ्। १ चूर्ण्णने पेषणे अमरः कर्म्मणि घञ्। २ रजसि च हेम०। “आनेमिमग्नैः शितिकण्ठपक्ष क्षोदद्युतश्चुक्षुभिरे रथौघैः” माघः “षष्ठः खण्डनखण्ड खाद्यंसहजक्षोदक्षमे” नैष०।

क्षोदक्षम = त्रि० क्षोदं क्षमते क्षम–अच्। विचारसहे “षष्ठः खण्डनखाद्यसहजक्षोदक्षमे” नैष०।

क्षोदस् = न० क्षुद–असुन्। जले निघ०।

क्षोदित = न० क्षुद–णिच्–क्त। १ चूर्ण्णिते पेषिते शब्दचि०।

क्षोदिमन् = पु० क्षुद्रस्य भावः इमनिच् क्षोदादेशः। क्षुद्रतायाम्।

क्षोदिष्ठ = त्रि० अतिशयेन क्षुद्रः इष्ठन् क्षोदादेशः। अतिक्षुद्रे।

क्षोदीयस् = त्रि० अतिशयेन क्षुद्र ईयसुन् क्षोदादेशः। क्षुद्रतरे “वृहत्सहायः कार्य्यान्तं क्षोदीयानपि गच्छति” माघः स्त्रियां ङीप्।

क्षोधुक = त्रि० क्षुध–वा० उकञ्। क्षुधायुक्ते। “क्षोधुका हास्यप्रजाश्च भवन्ति” शत० ब्रा० १, ५, २, ७।

क्षोभ = पु० क्षुभ–घञ्। १ सञ्चलने “स नूपुरक्षोभपदाभिरासीत्” “रथक्षोभपरिश्रान्तः” रघुः। २ विकारे च “क्षोभमाशु हृदयं न यदूनाम्” माघः। “अथेन्द्रियक्षोभमयुग्मनेत्रः” कुमा०।

क्षोभक = पु० “दुर्जराख्यस्य पूर्वस्यां पुरं नाम वरासनम्। तद्दक्षिणे महाशैलः क्षोभको नाम नामतः” कालिकापु० ७ अ० उक्ते कामाख्यतीर्थस्थनगरभेदे। क्षुभ–ण्वुल्। २ क्षोभकारके त्रि०।

क्षोभण = त्रि० क्षुभ–णिच्–ल्यु। १ क्षोभजनके। २ कामवाणविशेषे पु० पञ्चवाणशब्दे विवृतिः ३ शिवे पु०। “नमो बुद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च” भा० शा० २८६ अ० शिवसहस्रनाम। ४ विष्णौ। “उद्भवः क्षोभणो देवः श्रुतगर्भोरमेश्वरः” विष्णुसं० तस्य च सृष्टिकाले प्रकृत्यादिक्षोभकत्वात्तथात्वम् यथाह विष्णु पु० “प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया प्रभुः। क्षोभयामास भगवान् सर्गकालेऽव्ययाव्ययौ”। भावे ल्युट्। ५ क्षोभणे न०।

क्षोम = न० क्षु–मन्। १ मण्डपोपरिशालायाम्(चिलेघर)शब्दचि०। २ अट्टे भरतः ३ गणहासके पु० जटाधरः संज्ञायां कन्। तत्रार्थे ४ चोरनामगन्धद्रव्ये पु० शब्दचि०।

क्षौ(ण)णी = स्त्री क्षु–वा० नि वृद्धिश्च वा ङीप्। १ घरण्याम् अमरः। अन्या व्युत्पत्तिः ब्रह्मवै० पु० २०७ अ० उक्ता यथा “इज्या च यागधाराच्च क्षौणी क्षीणा लये च या। महालये क्षयं यान्ति क्षितिस्तन प्रकीर्त्तिता” तेन क्षीणाशब्दात् पृषो० साधु। २ एकसंख्यायाञ्च।

क्षौणीप्राचीर = पु० क्षौणी प्राचीर इव यस्य। समुद्रे जटा०।

क्षौणीभुज् = पु० क्षौणीं भुनक्ति अवति भुज–क्विप्। क्षिति पालके राजनि

क्षौद्र = न० क्षुद्राभिः सरघाभिर्निर्वृत्तम् अण्। “मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु। मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत्” इति भावप्र० उक्ते १ मधुनि अमरः। “सक्षौद्रपटलैरिव” रघुः। “गुणैर्माक्षिकवत् क्षौद्रं विशेषान्मेहनं परम्” भावप्र०। २ जले मेदि०। ३ चम्पकवृक्षे पु० शब्द च०। ४ क्षितिकणे पांशौ न० शब्दचि० ५ मागध्यां जाते जातिसङ्करभेदे पु० स्त्री० “चतुरो मागधी सूते क्रूरान् मायोपजीविनः। मांसं स्वादुकरं क्षौद्रं सौगन्ध्यमिति विश्रुतम्” भा० अनु० ४८ अ०। क्षुद्रस्य भावः अण्। ६ क्षुद्रतायां न०।

क्षौद्रक्य = न० क्षुद्रकः आयुधजीविसंघः स्वार्थे ञ्यट्। आयुधजीविसंघे टित्त्वसामर्थ्यात् स्त्रियां ङीप् क्षौद्र कीत्यप्यत्र स्त्री सि० कौ०।

क्षौद्रज = न० क्षौद्रात् जायते जन–ड। (मोम) ख्याते १ सिक्थके राजनि०। २ मधुजातमात्रे त्रि०।

क्षौद्रधातु = पु० कर्म०। माक्षिके उपधातुभेदे वैद्यकम्।

क्षौद्रप्रिय = पु० क्षौद्रमिव प्रियः स्वादुत्वात्। १ जलमधूकद्रुमे ६ व०। २ मधुप्रिये त्रि०।

क्षौद्रमेह = पु० क्षौद्रमिव मेहः। मधुमेहे इक्षु मेहशब्दे ९१० पृ० सुश्रुतवाक्ये तल्लक्षणं दृश्यम् “कषायं मधुरं रूक्षं क्षौद्रमेहं वदेतबुधः” भावप्र०।

क्षौद्रेय = न० क्षौद्रे भवः ठञ्। (मोम) सिक्थके राजनि०।

क्षौम = न० क्षु–मन् प्रज्ञा० स्वार्थे अण्। १ दुकूले पट्टवस्त्रे। “श्रियः पद्मनिषण्णायाः क्षौमान्तरितभेखले” रघुः “क्षौममाकुलतया विचकर्ष” माघः “वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च” मनुः। क्षुमाया अतस्या विकारः अण्। २ शणभेदजातवस्त्रे स्त्रियां ङीप् क्षौमी कन्था। क्षौमेण दुकूलेन परवृती रथः अण्। ३ दुकूलपरिवृते रथे पु०। ३ हर्म्यभेदे पु० न० कोटिल्यः। अट्टे अमरः। अट्टश्च प्राकाराग्रस्थितवलगृहमिति केचित्। मण्डपोपरिनिर्म्मित गृहम् (चिलेषर) इत्यन्ये।

क्षौमिक = पु० क्षौममिव कायति कै–क। चोरनामगन्धद्रव्ये। शब्दचि०।

क्षौमी = स्त्री क्षुमैव स्वार्थे प्रज्ञा० अण् ङीप्। १ अतस्यां (मसिना)ख्याते वृक्षे। क्षुमाया विकारः कन्था अण् ङीप्। २ क्षुमाजातशणकृतकन्थायां स्त्री।

क्षौर = न० क्षुरेण निर्वृत्तम् अण्। १ क्षुरकर्म्मणि केशकर्त्तने। तत्र विहितनक्षत्रादि क्षुरकर्म्मशब्दे २३८६ पृ० उक्तप्रायं विशेषोऽत्र कश्चिदभिधीयते “व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे। न करोति क्षौरकर्म अशुचिः सर्वकर्मसु। स च तिष्ठति कुण्डेषु नखादीनाञ्च सुन्दरि!। तदेव दिनमानावदंतद्भोजी दण्डताडितः” व्रह्म वै० पु० २७ अ०। “चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः। अक्षौरभेऽपि कर्त्तव्यं चन्द्रचन्द्र जयोर्द्दिने” ज्यो० त०। “मानं क्षौरे हन्तिगुरुः शुक्रं शुक्रोधनं रविः। आयुरङ्गारको हन्ति सर्वं हन्ति शनैश्चरः” श्रीपतिरत्नमाला। “आज्ञया नरपतेर्द्विजन्मनां दारकर्म मृत सूतकेषु च। बन्धमोक्षमक्षदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु” भोजदे०। “दवकार्ये पितृश्राद्धे रवेरंशपरिक्षये। क्षुरिकर्म न कुर्वीत जन्ममासे च जन्मभे” वृद्धगार्ग्यः, “केशवमावर्त्तपरं पाटलिपुत्त्रं पुरीमहिच्छत्राम्। दितिम दतिञ्च स्मरतां क्षौरविधौ भवति कल्याणम्” ज्यो० त०। अत्र क्रमो वराहपु० “श्मश्रुकर्म कारयित्वा नखच्छेदमनन्तरम्” ज्योति० त०। “केशश्मश्रुलोमनखानि वापयीत शिखावर्ज्जम्” शु० त० गोभिलः। “रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च। मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम्। कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन्। रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत्” ब्रह्म० वै० पु० नापितगृहे क्षौरनिषधो यथा “स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम्। नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम्” कर्म्मलोचनः।

क्षौरपव्य = न० क्षुरं पविरिव स्वार्थे ष्यञ्। अतितीक्ष्णे “क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम्” भाग० ६, ५, ८।

क्षौरिक = पु० क्षौरं शिल्पत्वेनास्त्यस्य ठन्। नापिते शब्दमा०

क्ष्णु = तेजने अदा० पर० सक० सेट्। क्ष्णौति अक्ष्णावीत्। चुक्ष्णाव। क्ष्णविता क्ष्णुतः। “वाचं क्ष्णुवानोदमयन् सपत्नान्” अथ० ५। २०। १। “उभयतो हीदं वाचः क्ष्णुतम्” शत० ब्रा० ६, ३, १, ३४।

क्ष्णुत = त्रि० क्ष्णु–क्त। तीक्ष्णीकृते अमरः।

क्ष्णोत्र = न० क्ष्णु–करणे त्रल्। अस्त्रतेजने शाणाख्ये यन्त्रभेदे। “क्ष्णोत्रेणेव स्वधितिर्मांसशीतम्” ऋ० २, ३७, ७।

क्ष्मा = स्त्री क्षमते भारं क्षम–अच् उपधालोपश्च। १ धरायाम्। अमरः “क्ष्मां लम्भयित्वा क्षमयोपपन्नम्” रघुः। “नचोदक प्रवेशेन न च क्ष्माशयनादपि” भा० व० १९९ अ०। “क्ष्मया चरति परि सा वृणक्तु नः” निरु० धृता ऋक् २ एकसंख्यायाञ्च।

क्ष्माज = पु० क्ष्माया जायते जन–ड। १ मङ्गलग्रहे २ नरकासुरे च

क्ष्मापति = पु० ६ त०। भूपे क्ष्मानाथादयोऽप्यत्र।

क्ष्माभुज् = पु० क्ष्मां भुनक्ति अवति भुज–क्विप्। भूमिपाले

क्ष्माभृत् = पु० क्ष्मां विभर्त्ति पालयति धारयति वा भृ–क्विप् तुक् च। १ राजनि २ पर्वते च तस्य भूमिधरत्वात्तथात्वम्।

क्ष्माय = विधूनने कम्पने भ्वा० आत्म० अक० सेट्। क्ष्मायते। अक्ष्मायिष्ट चक्ष्माये ईदित् क्ष्मातः। “अक्ष्मायन्त महीं गृध्राः” “चक्ष्माये च महीं रामः” भट्टिः। णिचि पुक् यलोपश्च। क्ष्मापयति।

क्ष्मील = निमेषे भ्वा० पर० अक० सेट्। क्ष्मीलति अक्ष्मीलीत् चिक्ष्मील। निमेषः पक्ष्मभिश्चक्षुयोरावृतिः।

क्ष्विड = स्नेहे भ्वा० आत्म० अक० मोक्षे सक० सेट्। क्ष्वेडते ऌदित् अक्ष्विडत्। चिक्ष्विडे ञीदित्। क्ष्वेडितम्। आदत् क्ष्वेट्टम् क्ष्वेडितं तेन “नास्फोटपेन्नचाक्ष्वेडेत्” मनुः। परस्मैपदमार्षम् एवं “क्ष्वेडन्तोधावमानाश्च प्रणेदुस्ते महाजवाः” रामा० कि० ४५ अ०। “क्ष्वेडन्ति घुघुरायन्ते ज्वलन्तीव च ये ब्रणाः” सुश्रुतः। अव्यक्त दन्तशब्दकरणे अक० “क्ष्वेडितोत्क्रुष्टसङ्कुलः” भा० आश्व० ५९ अ०।

क्ष्विद = मोचने सक० स्नेहे अक० भ्वा० आ० सेट्। क्ष्वेदते ऌदित् अक्ष्विदत् ञीदित् क्ष्विण्णः आदित् क्ष्विसां क्ष्वेदितं तेन।

क्ष्विद = कूजने दिवा० पर० अक० सेट्। क्ष्विद्यति। इरित् अक्ष्नेदीत् अक्ष्विदत्। आदित्क्ष्विण्णं क्ष्वेदितं तेन।

क्ष्वेड = पु० क्ष्विड्–भावादौ घञ्, पचाद्यच् वा। १ अव्यक्तदन्तशब्दभेदे २ स्नेहे ३ मोचने ४ त्यागे। ५ कर्णामयभेदे कर्णगतरोगशब्दे १७०८ पृ० विवृतिः। ६ विषे पु० अम० ७ पीतघोषावृक्षे रत्नमा० ८ लोहितार्कपर्णफले न० मेदि० ९ वंशशलाकायां १० सिंहनादे ११ कोषातकीवृक्षे स्त्री राजनि०

क्ष्वेडित = न० क्ष्विड भावे–क्त। सिंहनादे अमरः।

क्ष्वेल = संचालने, गतौ सक० क्रोडायाम् अक० भ्वा० पर० सेट्। क्ष्वेलति अक्ष्वेलीत् ॠदित् णिचि चङि न ह्रस्वः। अचक्ष्वेलत्। “ये तु विष्टभ्य गात्राणि क्ष्वेलन्ति च हसन्ति च” (ये हरियथपाः) रामा० ६, २ अ० “दध्मुः शहांश्च संहृष्टाः क्ष्वेलन्त्यपि यथापुरम्” ६, २६ अ०। “ते तदा स्फोटयामासुः क्ष्वेलन्तश्च समन्ततः” ३७ अ०।

क्ष्वेला = स्त्री क्ष्वेल–अ। क्रीडायाम्। खार्थे क क्ष्वेलिकावत्र। “क्षेलिकया मृषा समाधिना आमीलितदृशं प्रेमसंरम्भेण चकितचवित आगत्य पृवदपरुषविषाणाग्रेण लुठति” भाग० ५ स्क० ८ अ०। गौरा० ङीष् क्ष्वेलीत्यप्यत्र। “बाहुप्रसार परिरम्म करालकोरुनीविस्तनालभननर्म्मनस्वाग्रपातैः। क्ष्वेल्यावलोकहसितैद्रव्रजसुन्दरीणामुत्तम्भयन् रतिपतिं रमयाञ्चकार” भाग० १० स्क० २९ अ०। इति श्री तारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचिते वाचस्पत्ये ककारादिशब्दार्थसङ्कलनम्।

—ख—

= खकारः “जिह्वामूले तु कुः प्रोक्तः” शिक्षोक्तेः कण्ठमूलोच्चार्य्यः जिह्वामूलपदस्य कण्ठमूलपरत्वात्। अस्योच्चारणे आभ्यन्तरप्रयत्नः स्पृष्टता (जिह्वामूलस्पर्शः) बाह्यप्रयत्नाश्च “खयां यमः खयः + क~ पौ विसर्गः शर एव च। एवे श्वासानुप्रदाना अघाषाश्च विवृण्वते। कण्ठम्” इति शिक्षोक्तेः श्वासाघाषबिवाराः “अयुग्मावर्गयमगायणश्चाल्पासवः स्मृताः” इति शिक्षोक्तेः वर्गमध्ये युग्मवर्णत्वात् महाप्राणश्च। खादिशब्दे परे पूर्वस्थ विसर्गस्य स्थाने जिह्वामूलीयः यथा मणे + खनिः समासे तु वा सत्वञ्च। भा + खरः भास्खरः भाःखर इति। वर्ण्णाभिधाने अस्य वाचकाः शब्दादर्शिताः यथा “खः प्रचण्डः कामरूपी शुद्धिर्वह्निः सरस्वती। आकाशैन्द्रियं दुर्गा चण्डी सन्तापिनी गुरुः। शिखण्डी दन्तोजातीशः कफोणिर्गरुडोगदी। शून्यं कपाली कल्याणी सूर्पकर्णोऽजरामरः। शुभाग्नेय चण्डलिङ्गे जनो झङ्कारखड्गकौ”। अस्य मातृकावर्णान्तर्गतत्वेन ध्येयरूपं वर्णोद्धारतन्त्रे उक्तं यथा “बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम्। वराभयकरीं नित्यामीषद्धास्यमुखीं पराम्। एवं ध्यात्वा खस्वरूपां तन्मन्त्र दशधा जपेत्”। मातृकान्यासे चास्य बाहौ न्यस्यता। श्लोकरचनायां तस्याद्यवर्णतयोपन्यासे ग्रन्थकर्त्तुः लक्ष्मीकरता “कः खोगोघश्च लक्ष्मीं वितरति वियशोङःसुखं चः सुखं छः” वृत्तर० टीकावृतधृवाक्यात्।

= पु० खर्व्व–खन–बा० ड। १ सूर्य्ये हेमच०। २ इन्द्रिये ३ पुरे ४ क्षेत्रे ५ शून्ये ६ विन्दौ ७ आकाशे ८ संवेदने ९ स्वर्गे १० कर्मणि च न० मेदि०। ११ लग्नात् दशमे स्थाने ज्यो० त०। “आरे खस्थे चतुष्पाद्भ्योभयम्” नीलक०। “तनुनिधनखभेशाः केन्द्रकोणे त्रिलाभे” जातकप०। १२ सुखे हेमच०। १३ अभ्रके (आव) उपधातुभेदे राजनि०। “तत्रेन्द्रिये “ऊर्द्धं नाभेर्यानि खानि तानि मेध्यानि सर्वशः” मनुः। आकाशे “नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः” मनुः खं “वायुर्ज्वलनोजलं क्षितिरिति त्रैलोक्यमुन्मीलति” प्रबो०। “एतस्माज्जायतेखं वायुर्ज्योतिरापश्च” श्रुतिः। “यावत् गिरः खे मरुतां चरन्ति” कुमा० १४ परमानन्दस्वरूपे ब्रह्माकाशे। “कं ब्रह्म खं ब्रह्मः” यदेव कं तदेव खम्” इति च छा० उ०।

खकक्षा = स्त्री सूर्य्यरश्मिप्रचारावधिके वेष्टनाकारे ब्रह्माण्डसुषिरे गगनपरिधौ। सि० शि० तत्परिमाण मुक्तं यथा “कोटिध्नैर्नखनन्दषट्कनखभूमूभृद्भजङ्गेन्दुभि १८७१२०६९२०००००००० र्ज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः। तद् ब्रह्माण्डकटाहसंपुटतटे केचिज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः। करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम्। दिनकरकरनिकरनिहततमसो नभसः स परिधिरुदितस्तैः” मू०। “एभिर्योजनैस्तुल्यां गणकाः खकक्षामाकाशपरिधिं वदन्ति। तत्र कथमनन्तस्याकाशस्येयत्ता वक्तुं शक्यत इत्याशङ्कयाऽहर्पतिद्युतियुजो नभसः परिधेरिदं वदन्ति। अत एव पौराणिका गणकास्ते ब्रह्याण्डपरिधिं वदन्ति। केचिल्लीकालोकं वदन्ति। यतस्तदन्तर्वर्त्तिन एवार्करश्मयः। एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्यत्वात्। करतलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति। इदानीं स्वमतमाह” प्रमि०। “ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि। यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतं नः” मू०। इदानीं ग्रहक्षका आह। “ग्रहस्य चक्रैर्विहृता खकक्षा भवेत् स्वकक्षा निजकक्षिकायाम्। ग्रहः खकक्षामितयीजनानि भ्रमत्यजस्रं परिवर्त्तमानः” मू०। “सा खकक्षा यस्य यस्य भगणैर्ह्रियते तस्य तस्य ग्रहस्य कक्षामितिर्लभ्यते। अस्योपपत्तिरूपं श्लोकस्योत्तरार्धमिति। यतः स्वकक्षाया ग्रहो भ्रमन्नजस्रं परिवर्त्तमानः खकक्षामितानि योजनानि पूरयति। अतो ग्रहभगणैः भक्तायाः खकक्षाया यल्लभ्यते सा ग्रहकक्षामितिरित्युपपन्नम्।

खकामिनी = स्त्री खं सुखमाकाशं वा कामयते कम–स्वार्थे णिङ्–णिनि ङीप्। १ चर्चिकायां २ चिल्लदयितायां च त्रिका०।

खकुन्तल = पु० खमाकाशः कुन्तलस्थनीयमिब यस्य। व्योमकेशे महादेवे त्रिका०। खकेशादयोऽप्यत्र।

खक्ख = हासे भ्वा० पर० अक० सेट्। खक्खति अखक्खीत्। चखक्ख। प्रनिखक्खति।

खक्खट = पु० खक्ख–अटन्। कठिन्यां (खडि) रायमु०।

खखोल्क = पु० काशीस्थे आदित्यभेदे तत्कथा काशी० ५० अ० यथा “खखोल्कोनाम भगवानादित्यः परिकीर्त्ततः। त्रिपिष्टपोत्तरे भागे सर्वव्याधिविघातकः। यथा खखोल्कैत्याख्या तस्यादित्यख तच्छृणु” इत्युपक्रमे “खखोल्का निपतेदेषा भृशं गद्गदभाषिणी। मुर्च्छां गतवती पक्षपुटा धृत्वा विलोरगी। सख्युल्का निपतेदेषा वकव्येऽप्यतिसंभ्रमात्। खखोल्केति यदुक्ता गीः कद्रवा सम्भ्रान्तचेतसा। तदा खखोल्कनामार्कस्तुतो विनतया बहु” “तपस्यन्तीमथालोक्य कदाचिद्विनतां प्रभुः। शिवस्यैव परोमूर्त्तिः खखल्को नाम भास्करः। दत्त्वा वरं स्वपापघ्नं शिवज्ञानसमन्वितम्। क शीवासिजनानेकरूप पापक्षयङ्करः। विनतादित्य इत्याख्यः खखेल्कस्तत्र संस्थितः। इत्थं खखोल्क आदित्यः काशीविघ्नतमोहरः। तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते। काश्यां पैलङ्गिले तीर्थे खखोल्कस्य विलोकनात्। नरश्चिन्तितमाप्नोति नीरागो जायते क्षणात्। नरःश्रुत्वैतदाख्यानं खखोल्कादित्यसम्भवम्। गरुडेशेन सहितं सर्व्वपापैः प्रमुच्यत” तत्रैवाध्यायशेषे

खग = पु० मे द० खे अकाशे गच्छति गम–ड ७ त०। १ सूर्य्ये २ सूर्था दग्रहे ३ देवे ४ शरे ५ पक्षिणि पु० स्त्री० मेदि०। स्त्रियां जातित्वात् ङीष्। ६ वायौ शब्दच० “तमांसीव यथा सूर्य्यो वृक्षानग्निर्घनान् खगः” भा० व० २६० अ०। ७ शलभभेदे भरतः। ८ आकाशर्गामिनि त्रि०। “सुरासुरैरबध्यं हि पुरमेतत् खगं महत्” भा० आ० १६३ अ०। तत्र विहगे “खगचञ्चुपुटद्रोणीपूरणे तव कः श्रमः” चातका०। “अधुनीत खगः स नैकधा” “धृतरुद्राक्षमधुव्रतं खगःं नैष०। ग्रहे “आपोक्लिमे यदि खंगाः स किलेन्दुवारः” लीलक०।

खगङ्गा = स्त्री ६ त०। आकाशगङ्गायां मन्दाकिन्यां त्रिका०।

खगण = पु० कुशवंश्ये नृपभेदे। “कुशस्य चातिथिस्तस्मात्” इत्युपक्रमे “ततो वनस्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः। खगणस्तत्सुतस्तस्मात् विधृतिश्चाभवत् सुतः” भाग० ९, ११, ३, श्लोकः।

खगगति = स्त्री० ६ त०। पक्षिणां गमने तद्भेदाश्च भा० क० ४१ अ० दर्शिताः यथा “शतगेकञ्च पातानां पतितास्मि न संशयः। शतयोजनमेकैकं विचित्रं विविधं तथा।। उड्डीनमवडीनञ्च प्रडीनं डीनमेव च। निडीनमथ सण्डीनं तिर्यक्डीन गतानि च। विडीनं परिडीनञ्च पराडीनं सुडीनकम्। अभिडीनः महाडीनं निर्डीनमतिडीनकम्।। अवडीनं प्रडीनञ्च संडीनं डीनडीनकम्। संडीनोड्डीनडीनञ्च पुनर्डीनविडीनकम्।। सम्पात समु- ड्डीनञ्च ततोन्यद्व्यतिरिक्तकम्। गतागतं प्रतिगतं बहुधा निकुलीनकाः”।। विवृतमेतत् नीलकण्ठेन यथा “पातानां शतमेकं गणयति उङ्डीनमित्यादिना “उडडीन १ मूर्द्धगमनमवडीन २ मधोगतिः। प्रडीनं ३ सर्वतो यानं डीनं ४ गमनमात्रकम्। निडीनं ५ शनकैर्यानं संडीनं ६ ललितं गतम्। तिर्यग्डीनं गतं प्राहुस्तिरःप्रचरणं बुधाः। तान्याशाभेदभिन्नानि चत्वारि प्रतिजानते। तानि (तिर्यग्डीनानि ४) १०। विडम्बितं विडीनं ११ स्यात्परिडीनन्तु १२ सर्वतः। पश्चाद्गतः पराडीनं १३ स्वर्गगन्तु सुडीनकम् १४। आभिमुख्येन गमनमभिडीनं १५ प्रचक्षते। यानं महाडीन १६ माहुः पवित्रामूर्जितां गतिम्। निर्डीनं १७ निश्चलं यानं प्रचण्डमतिडीनकर १८”। (विड म्बतं मल्लवदुड्डीयोड्डीयगमनम्)। अवरोहोवडीनं १९ स्यात् प्रडीनं २० चित्रमुच्यते। गत्या ललितया पूर्वमुपक्रम्य समन्ततः। परिक्रम्य प्रपतनं संडीनं २१ डीनडीनकम् २२। (समततः प्रपतनं, संडीनं परिक्रम्य प्रपतनं डीनडीनकमित्यन्वयः) संडीनोड्डीनडीनं स्यात्तदेवोर्द्धप्रकल्पनात् २३। गतौ गत्यन्तरेद्भेदो भवेड्डीनविडीनकम् २४।। क्षणात् संगत्य निष्क्रम्य पक्षसंपात२४ मुच्यते। ऊर्द्ध्वावोगतिसंभेदः समुड्डीनं २५ प्रचक्षते। संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् २६। षड्विंशतिरमी भेदाः पातानामिह दर्शिताः। महाडीनं विहायैषां पातानां त्रिविधा गतिः ७५। गतन्तत्र यथोद्दिष्टमागतं पुनरागमः। प्रत्यावृत्तिः प्रतिगतिरिति षट्सप्ततिः ७६ स्मृताः। (गतागतप्रतिगतिभेदाद्गतित्रेविध्यम्)। तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविंशतिः” १०१। (निकुलीनकाः निपाताः)। २ ग्रहाणां गतौ च। तत्र ग्रहभेदे गतिभेदाः सृ० सि० सकारणम् उक्तायथा “अदृश्यरूपाः कालस्य मूर्त्तयो भगखाश्रिताः। शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः”।। तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः। प्राक् पश्चादपकृष्यन्ते यथासन्नं स्वदिड्मुखम्।। प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत्। पूर्वापरापक्वष्टास्ते गतिं यान्ति पृथग्विधाम्।। ग्रहात् प्राग्भगणार्द्धस्थः प्राङ्मुखं कर्षति ग्रहम्। उच्चसञ्ज्ञोऽपरार्द्धस्थस्तद्वत् पश्चान्षुखं ग्रहम्।। स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः। तत् तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु।। दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा। विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात्।। उत्तराभिमुखं पातो विक्षिपत्यपरार्द्धगः। ग्रहः प्राग्भगणार्धस्थो याम्यायामपकर्षति।। बुधभार्गवयोः शीघ्रात् तद्वत् घातो यदा स्थितः। तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत्।। महत्त्वान्मण्डलस्यार्कः स्वल्पमेवाषकृयते। मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते।। भौमादयोऽल्पमूर्त्तित्वाच्छीघ्रमन्दीच्चसञ्ज्ञकैः। दैवतैरपकृव्यन्ते सुदूरमतिवेगिताः।। अतो धनर्णं सुमहत् तेषां गतिवशाद्भवेत्। आकृष्यमाणास्तैरेवं व्य म्नि यान्त्यनिलाहताः।। वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा। तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः।। तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा। ऋज्वीति पञ्चधा ज्ञेया या वक्रा सानुवक्रगा” सू० सि०।। वक्रानुवक्रेत्यादिकं रङ्गनाथेन विवृतं यथा। “भौमादिग्रहाणां विरविचन्द्राणामष्टप्रकारा गतिः। फलिता। तत्र वक्रेत्यादिसमेत्यन्तं षट्प्रकारा गतिः शीघ्रतरा शीघ्रेति गतिद्वयम्। तथा समुच्चये। आसां स्वरूपज्ञानमग्रे स्फुटम्। अथैनामष्टधा गतिं भेदद्वयेन क्रोडयति। तत्राष्टविधगतिष्वतिशीघ्रेत्यादिसमेत्यन्ता इत्येवं पञ्चधा गतिः। ऋज्वी मार्गी गतिर्ज्ञेया या गतिः सानुवक्रगानुवक्रगमनेन सह वर्त्तमाना पूर्वश्लोकेऽनुवक्रगतेर्वक्रकुटिलमध्याभिधानादुभयथासन्नत्वाच्च वक्रानुबक्रा कुटिलेति गतिर्वक्रा ज्ञेया तथा च ग्रहाणां मार्गी वक्रेति गतिद्वयम्”।। शैघ्रमान्द्यादिप्रकारस्तु तत्रैव दृश्यः विस्तरभयान्नोदाहृतः।

खगपति = पु० खगान् पाति पा–क। गरुडे खगपत्यादयोऽप्यत्र। गरुडस्य खगपतित्वलाभकथा भा० आ० ३१ अ० यथा “अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः। पलाशवृन्तिकामेकां वहतः संहतान् पथि। प्रलीनान् स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान् गोष्पदे संप्लुतोदके। तान् सर्वान् विस्मयाविष्टोवीर्य्योन्मत्तः पुरन्दरः। अवहस्याभ्यगाच्छीघ्रं लङ्घयित्वाऽवमन्य च। तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत् कर्म तदा शक्रभयङ्करम्। जुहुवुस्ते सुतपसो विधिवज्जातवेदसमं। मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु। कामवीर्य्यः कामगमो देवराजभयप्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः। इ- न्द्राच्छतगुणः शौर्य्ये वीर्य्ये चैव मनोजवः। तपसां नः फलेनाद्य दारुणः सम्भवत्विति। तद्बुद्धा भृशसन्तप्तो देवराजः शतक्रतुः। जगाम शरणं तत्र कश्यपं संशितव्रतम्। तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। बालिखिल्यानुपागम्य कर्मसिद्धिमपृच्छत। एवमस्त्विमि तञ्चापि प्रत्यूचुः सत्यवादिनः। तान् कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः। अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। इन्द्रार्थे च भवन्तोऽपि यत्नवत्तस्तपोधनाः। न मिथ्या ब्रह्मणो वाक्यं कर्त्तुमर्तथ सत्तमाः। भवतां हि न मिथ्याऽयं सङ्कल्पो वै चिकीर्षितः। भवत्वेष पतत्त्रीणामिन्द्रोऽतिबलसत्त्ववान्। प्रसादः क्रियतामस्य देवराजस्य याचतः। एवमुक्ताः कश्यपेन बालिखिल्यास्तपोधनाः। प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम्। बालिखिल्या ऊचुः। इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते!। अपत्यार्थं समारम्भो भवतश्चायमीपिसतः। तदिदं सफलं कर्म त्वयैब प्रतिगृह्यताम्। तथा चैवं विधत्स्वात्र यथात्राप्यऽनुपश्यति। सौबिरुवाच एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता माम कल्याणी पुत्रकामा यशस्विनी। तपस्तत्या व्रतपरा स्नाता पुंसवने शुचिः। उपचक्राम भर्त्तारं तामुवाचाथ कश्यपः। आरम्भः सफलो देवि! भविता यस्त्वयेपुसितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ। तपसा बालिखिल्यानां मम सङ्कल्पजौ तथा। भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ। उवाच चैनां भगवान् कश्यपः पुंनरेव ह। धार्य्यतामप्रमादेन गर्भोऽयं सुमहोदयः। एतौ सर्वपतत्त्रीणामिन्द्रत्वं कारयिष्यतः। लोकसम्भावितौ वीरौ कामरूपौ विहङ्गमौ। शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्य्यौ भ्रातरौ ते भविष्यतः। नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर!। व्येतु ते शक्र! सन्तापस्त्वमेवेन्द्रो भविष्यसि। न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दर्पाते वाग्वज्रा भृशकोपनाः। एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिपिष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तथा। जनयामास पुत्रौ द्वावरुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः। पतत्त्रीणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत”।

खगम = त्रि० खे आकाशे गच्छति गम–अच्। आकाशगामिनि सिद्धगन्धर्वादौ। “ततो दिव्यास्त्रमापन्ना गन्थर्द्वा हेम- मामिनः” इत्युपक्रमे “ते कार्य्यमाणाः खगमाः शरवर्षैः समन्ततः” भा० व० २४४ अ०।

खगवक्त्र = पु० खगस्य वक्त्रमिवाकारोऽस्य। नकुचवृक्षे (मान्दार) शब्दच०।

खगवती = स्त्री खगः खगसादृश्यम् आकाशस्थि तत्वनास्त्यस्या मतुप् मस्य वः। भूमौ जटा०। तस्याः व्योम्नि स्थितत्वात् खगतुल्यत्वम्। “मध्ये समन्तादण्डस्य भूगोलः व्योम्नि तिष्ठति। बिभ्राणः परमांशक्तिं ब्रह्मणो धारणात्मिकाम्” सू० सि० उक्तेः। आर्य्यभट्टमते तु पृथिव्याः स्वकक्षायामाकाशगतिमत्त्वात् खगतुल्यगतित्वेन सादृश्यमिति भेदः। खगोलशब्दे बिवृतिः।

खगशत्रु = पु० खगस्य शत्रुरिव। १ पृश्निपर्ण्याम् (चाकुलिया) शब्दच०। ६ त०। २ श्येनविहगे।

खगस्थान = न० ६ त०। द्रुमस्थे कोटरे शब्दच०।

खगान्तक = पु० अन्तयति अन्तं करोति णिच्–ण्वुल् ६ त०। श्येनविहगे राजनि०।

खगासन = पु० खगः गरुड आसनमस्य। १ विष्णौ तद्वाहनत्त्वात्तद्रासनत्वं तस्य तत्कथा च भा० आ० २३ अ० यथा “विष्णुना च तदाकाशे वैनतेयः समेयिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा। नमुवाचाव्ययो देवो वरदोऽणीति खेचरम्। स वव्रे तव तिष्ठेयमुपरीत्यन्तरीक्षगः। उवाच चैनं भूयोऽपि नारायणमिदं वचः। अजरश्चामररा खाममृतेन विनाप्यहम्। एवमरिचति तं विष्णुरुवाच विनतासुतम्। प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्। भवतेऽपि वरं दद्यां वृणोतु भगवानपि। तं वव्रे वाहमं विष्णुर्गरुत्मन्तं महाबलम्। ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम्। एवमस्त्विति तं देवमुक्त्वा नारायणं स्वगः। वब्राज तरसा वेगाद्वायुं स्पर्द्धन्महाजवः”। “बद्धं कृत्वा अधः शीर्षं यः करोति णगासनम्। अगासनप्रसादेन अमलोपोभवेद्द्रुतम्” रुद्रजा० उक्ते २ आसनभेदे न०।

खगेन्द्र = पु० ६ त० गरुडे णगपतिशब्दे विवृतिः।

खगेन्द्रध्वज = पु० खगेन्द्रः गरुडोध्वजोऽस्य। विष्णौ तण गरुडध्यजस्वीकारकथा खगासनशब्दे दर्शिता।

खगेश्वर = पु० ६ त०। गरुडे अमरः।

***