क्षुर = विलेखने तुदा० पर० सक० सेट्। क्षुरति अक्षोरीत् चु क्षोर क्षुरः।

क्षुर = पु० क्षुर–क क्षु–रक् वा। १ नापितास्त्रे पश्वादीनां २ शफे, (खुर) अमरटीकायां स्वामी ३ कोकिलाक्षे अमरः ४ गोक्षुरे, मेदि० ५ महापिण्डीतके ६ वाणे च राजनि० खट्टादिपादुकयाम् धरणिः “छेदयेल्लवशः क्षुरः मनुः “संधाय धनुषि क्षुरम्” रा० आ०७२ स०। “क्षुरेण शितधारेण चकर्त्तास्य शरासनम्” रामा० ल० ९२ अ०

क्षुरक = पु० क्षुर–क्कुन्। १ गोक्षुरे, (गोखुरी) २ कोकिलाक्षे, मेदिनी ३ तिलकद्रुमे अमरः ४ भूताङ्गुशे राजनि० स्वार्थे क। क्षुरशब्दार्थे च

क्षुरकर्म्मन् = न० क्षुरसाध्यंकर्म्म। केशच्छेदने। क्षुरकर्म्म णि विहितनक्षत्रादिकं मू० चि० पी० धा० उक्तं यथा “दन्तक्षौरनखक्रियात्र विहिता चौलोदिने वारभे पातङ्ग्याररवीन्विहाय नवमङ्घस्रञ्च सन्ध्यान्तथा। रिक्तां पर्वनिशां निरासनरणग्रामप्रयाणोद्यतस्नाताभ्यक्त कृताशनैर्नहि पुनः कार्य्या हितप्रेप्सुभिः”। मू० चि० “चौलोदितेषु चौलप्रोक्तेषु वारेषु नक्षत्रेषु उपलक्षणत्वात्तदुक्ते लग्नेऽपि च दत्तक्षौरनखक्रियात्र विहितीक्ता। “येषु येषु प्रशंसन्ति क्षुरकर्म्म महर्षयः। तेषु तेषु प्रशंसन्ति नखदन्तविलेखनमिति”। येषु येषु वारनक्षत्रलग्नादिष्वित्यर्थः। अथ क्षौरनिषिद्धकाल उच्यते। पातङीति। पतङ्गः पक्षिसूर्य्ययोरित्यभिधानात् पतङ्गः सूर्य्यस्तस्यापत्यं पातङ्गिः शनिः आररवी पसिद्धौ। तेषां वारान् विहाय त्यक्त्वा उपलक्षणत्वात् तेषां लग्नानि मकरकुम्भमेषवृश्चिकसिंहाख्यानि अंशकांश्च विहायेत्यर्थः। उक्तञ्च वसिष्ठेन “हस्तत्रये पुष्यपुनर्वसौ च शशाङ्कविष्णुत्रितयाश्विनीषु। पौष्णेन्द्रधिष्ण्ये क्षुरकर्म शस्तंव्यर्कारशन्यंशकवारलग्ने” इति। अतः शुभग्रहाणां बारलग्नांशे क्षौरं कार्य्यमिति फलितोऽर्थः। वारफलानि गर्गोक्तानि “भानुरायुः क्षपयति मासं, सप्तशनैश्चरः। भौमोमासाष्टकं हन्ति ज्ञोयच्छेत्पञ्चमासकम्। एकादश कविर्दद्यातकते तु क्षौरकर्म्मणीति”। तुल्यन्या यत्वाल्लग्नानामंशानां चैतानि फलान्यूह्यानि। न केवलमायुर्हानिः किन्तु शस्त्रवातोऽपि पापवारेषु। तदुक्तं वसिष्ठेन “आदित्यभौमार्किदिनेषु धीमान्न दन्तकाष्ठ क्षुरकर्म कार्य्यम्। कुर्वन्नवाप्नोति फलं समग्रं शस्त्रेण सम्यक् स्वशरीरघातम्”। तथा नवमंघस्रं च विहाय यद्दिने क्षौरं कृतं ततो नवमदिने पुनः क्षौरं न कार्य्यम्। “उत्कटे भूघिते चैव यानगो नवमेऽहनीति” नारदोक्तेः। यत्तु नवमे नवम्यामिति व्याकुर्वन्ति तदयुक्तं दिनपदोपादानाप्रसङ्गात्। दिनपदं तिथिपरमिति चेन्न रिक्तायाः वक्ष्यमाणस्वतन्त्रनिषेधानुपपत्तेः। ननु पृथगुपादानात् नवम्यां सर्वथा क्षौरं निन्द्यमेव चतुर्थीचतुर्दश्योस्तु तथा नेति चेन्न “चतुर्थीं चैव षष्ठीं च अष्टमीञ्च चतुर्दशीम्। तथा पञ्चदशीञ्चैव व्रह्मचारी भवेत्सदा। श्मश्रुकर्म्म शिरोऽभ्यङ्गन्दन्तधावनमैथुनम्। जन्तुश्चैतानि यः कुर्य्याल्लक्ष्मीस्तत्र न तिष्ठति”। क्षौरे व्यासवचने चतुर्थी चतुर्द्दश्योः सर्वथा निषेधाभिधानात्। अतएवामुमर्थं स्फुटमाह पराशरः “क्षौराहान्नवमे त्वह्नि नेष्टमात्ययिकेष्वपी त” तथा सन्ध्यां प्रातः सन्ध्यां सायं सन्ध्याञ्च विहाय एवं रिक्ताम् विहाय पर्वाण्यपि निशां रात्रिमपि विहायेत्यर्थः अथाधिकारिणो निरूप्यन्ते हितप्रेप्सुभिः स्वशुभोदर्कमिच्छद्भिरेतादृशैः क्षौरक्रिया हि निश्चयेन न कार्या। कीदृशैः आसनङ्कग्वलादिः तद्रहितैः रणः संग्रामः ग्रामो जनपदविशेषः प्रयाणमर्थयात्रा एतदर्थमुद्यतैः कृतोद्योगैः स्नातैरनुष्ठितनित्यनैमित्तिककाम्यस्नानैः यत्तु क्षौरार्थमेव स्नानं विधीयते प्रायश्चित्तादौ च तत्र नायं निषेधस्तथैव तस्य विधानात्। अभ्यक्तैः कृत्तैलाभ्यङ्गैः कृताशनैः कृतभोजनैः सुवर्णाद्यलङ्कारभूषितैरित्यपिध्येयम्। यदाह वराहः “न स्नातमात्रगमनोत्कट भूषितानामभ्यक्तभुक्तरणकालनिरासनानम्। सन्ध्यानिशाशनिकुजार्कदिने च रिक्ते क्षौरं हित न नवमेह्नि न चापि विष्ट्यामिति” उत्कटानां कुक्कुटासनवदवस्थितानाम्। सन्ध्यालक्षणमपि वराहेणोक्तम् “अर्धास्तमितादुदितात्सूर्यादस्पष्टभं नभोयावत्”। वृद्धगर्गः “शन्याररविवारेषु रात्रौ पाते व्रतेऽहनि। श्राद्धाहे प्रतिपद्रिक्ताभद्रा क्षौरंविवर्जयेत्। षष्ठ्यमापूर्णिमापातश्चतुर्दश्यष्टमी तथा। आसु सन्निहितं पापं तैले मांसे क्षरे भगे इति”। पी० धा०“क्रतुपाणिपाडमृतिबन्धमोक्षणे क्षुरकर्म्म च द्विज- नृपाज्ञया चरेत्। शववाहतीर्थगमसिन्धुमज्जनं क्षुरमाचरेन्न खलु गर्भिणीपतिः”। मू० चि०

“अथ केषाञ्चिन्निमित्तविशेषे क्षौरस्य विधिनिषेधौ मञ्जुभाषिणीच्छन्दसाह। क्रतुपाणीति अत्र पूर्ब्बार्द्धे सत्यपि निषिद्धवारादौ एषु कर्म्मसु क्षुरकर्म क्षौरंसद्यः कार्य्यमिति वाक्यार्थः क्व?क्रतौ यज्ञे विपाज्ञया क्षौरम्। तथा पाणिपीडी विवाही लक्षणया ततः प्राग्भाविनि गोदानकर्म्मणि केचित्तु विवाहे श्मश्रुकर्मप्राशस्त्यपरं क्षौरमित्याहुः अतएव शाखाविशेषेण विवाहे क्षौरमुक्त मित्यूचुः। तथा च श्रुतिः “मुण्डयितारः श्रविष्ठाय नाबधूमूढामित्यादि”। मृतौ मातापित्रेर्मरणे बन्धमोक्षणे कारागृहे बन्धस्य यदामोचनं भवेत्तदा द्विजाज्ञया राजाज्ञादावपीति बोध्यम नृपोराजा तस्याज्ञया चौरादेः क्षौरं कार्य्यमेव यदाह नारदः “नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणे। उद्वाहेऽखिलवारर्क्षतिथिषु क्षौरमिष्टदमिति”। धर्म्मशास्त्रे “गङ्गायां भास्करक्षत्रे मातापित्रोर्मृतेऽहनि। आधाने सोमपाने च षट्सु क्षौरं विधीयते” इति। अथ शवेति गर्भिणी गर्भवती तस्याः पतिर्भर्त्ताशववाहं मृतकवहनं तीर्थयात्रां उपलक्षणत्वाद्विदेशगमनमपि। सिन्धुमज्जनम् समुद्र स्नानं, क्षुरं क्षुरकर्म एतानि कर्म्माणि न आचरेन्न कुर्य्यात्। यदाह वसिष्ठः “गृहनिर्माणमुदधिस्नानं चौलं सुतस्य तु। तीर्थयात्रां नखश्मश्रु न कुर्य्याद्गर्भिणीपतिः”। “सिन्धुस्नानं द्रुमच्छेदं वपनं प्रेतवाहनम्। विदेशगमनञ्चैव न कुर्य्याद्गर्भिणीपतिः” धर्म्मशास्त्रे तु विशेषतः “राजा यीगी पुरन्ध्री च मातापित्रीस्तुजीवतोः। मुण्डनं सर्वतीर्थेषु न कुर्य्याद्गर्भिणीपतिः” अयञ्च क्षौरादिनिषेधो गुर्विणीपतेः सप्तमासादूर्ध्वं न प्राक्, यदुक्तं नारदीये “वपनं तीर्थयात्राञ्च वर्जयेद्गुर्विणीपतिः। श्राद्धञ्च सप्तसान्मासादूर्ध्वं नान्यत्र वेदवित्”। श्राद्धं श्राद्धभोजनम्। इदमुत्तरार्द्धं गर्भाधानप्र करणे वक्तव्य मपि प्रसङ्गादत्रैवोक्तं ग्रन्थकृतेति”। पी० धा० “नृपाणां हितं क्षौरभे श्मश्रुकर्म दिने पञ्चमे पञ्चमेऽस्योदये वा। षडग्निस्त्रिमैत्रोऽष्टकः पञ्चपित्रोऽव्दतोऽब्ध्यर्यमा क्षौरकृन्मृत्युमेति”। मू० चि० “अथ क्षौरे राज्ञां विशेषं सर्वथा वर्ज्यनक्षत्राणि च भुजङ्गप्रयातेनाह नृपाणां हितमिति क्षौरमे क्षौरनक्षत्रे विहिते सति पञ्चमे पञ्चमे एव दिने श्मश्रुकर्म्म- मुखशोभाकरि क्षुरकर्म नृपाणां राज्ञां हितं प्रशस्तं यदाह वशिष्टः “महीभृतां पञ्चमे पञ्चमेऽह्निक्षौरं च कार्य्यंहितमुक्तभेषु” नतु पञ्चमे इति वीपसोक्त्या नियम प्रतीतेर्विहितनक्षत्राभावे च सति श्मश्रुकर्म कार्य्यमिति उक्तं च वसिष्ठेन “न लभ्यते चेच्च तदुक्तधिष्ण्यं तद्भोदये वा निखिलं विधेयमिति” उदयशब्देन मुहूर्त्त इति ऋजवोव्याकुर्वते तदाह गर्गः “क्षौरकर्म महीशानां पञ्चमे पञ्चमेऽहनि। कर्त्तव्यं क्षौरनक्षत्रऽप्यथवा तन्मुहूर्त्तके, इति तेषां क्षौरनक्षत्राणां ये स्वामिनस्तेषां मुहूर्त्ते इत्यर्थः। तांश्च मुह्र्तान् विवाहप्रकरणे वक्ष्यति। अत्र क्षौरपदं श्मश्रुकर्मपरम्। “राजा योगी पुरन्ध्री च मातापित्रोस्तु जीवतोः। मुण्डनं सर्वतीर्थेषु न कुर्याद्गर्भिणीपतिरिति” राज्ञो मुण्डननिषेधात्। अतएवोक्तं श्रीपतिना “श्मश्रुकर्म पञ्चमे च पञ्चमेऽह्नि च भूभृताम्। क्षौरभस्योदये वाऽपि स्यान्निन्द्यतारका न चेत्” इति। निन्द्यतारका जन्मविपदादितारका। अन्ये त्वेवं व्याचक्षते अस्योदये वेति अस्य क्षौरभस्योदये लग्ने। यथा मेषलग्नं त्रिंशत्भागात्मकं तत्राद्यास्त्रयोदशभागा १३, २० सविंशतिलिप्ता यावता कालेन मेषलग्ने उदयं यान्ति तावदश्विनीनक्षत्रमुदयं यातीत्यर्थः। तदनन्तरं तावन्त एवांशा यावता कालेनोदयं यान्ति तावद्भरण्युदय इत्यनेन न्यायेन सर्वेषां नक्षत्राणामुदयाज्ञेयाः। इयं च व्याख्या वराहपद्यव्याख्यावसरे भट्टोत्पलेनाभ्यधायि। पितृचरणास्त्वेवंव्याकुर्वते। यस्मिन्काले अश्विन्या उदय। क्षितिजसंबन्धः संपद्यते तं समयमारभ्य यावद्भरण्या उदयःक्षितिजसंबन्धस्तदन्तराले यावान्कालः सोऽश्विन्या उदय उच्यते। एवं सत्युदयग्नद्वयांशान्तरालाद्गणितमार्गेण यावानिष्टकाल आगच्छेत्स एव तत्तन्नक्षत्रोदय इति निष्कृष्टार्थ इति। नक्षत्रस्योपलक्षणत्वाच्छुभवारासम्भवेऽपि तद्धोरायां कार्यम् उक्तञ्च नारदेन “यस्य स्वेटस्य यत्कर्म वारे प्रोक्तं विधीयते। ग्रहस्य क्षणवारेऽपि तस्य तत्कर्न सर्वदेति”। क्षणवारः कालहोरा। एवं सति निषिद्धनक्षत्रवारेष्वपि प्रथमश्मश्रुकर्म कार्यमिति युक्तमुत्पश्यामः। षडग्निरिति। अग्निः कृत्तिका क्षौरावृत्त्या षड्वारं कृत्तिका यस्य। एवं त्रीणि मैत्राण्यनुराधायस्य अष्टौ का रोहिण्योयस्य। पञ्च पि त्र्याणि मघायस्य। अब्धयश्चत्वारोऽर्यमाण उत्तराफाल्गुन्यो यस्य सएतादृशः क्षौरकृत् अब्दतः वर्पानन्तर मृत्युं मरणमेति प्राप्नोति यदाह वसिष्ठः “अष्टाब्जकश्च पितृपञ्चकश्च षड्वह्निधिष्ण्यश्चतुरर्यमर्क्षः। त्रिमैत्रभः पद्म जसंनिभोऽपि क्षौरी नरोऽव्दान्निधनं गतः सः” इति। पद्मजो ब्रह्मा तत्सन्निमस्तादृशस्तदुपादानं कैमुतिकन्यायसूचनार्थम् ननु रत्नमालापद्ये “षट्कृत्तिकः पञ्चमघ स्त्रिमैत्रो ब्रह्माष्टकोयश्चतुरुत्तरश्च। क्षौरी स वर्षं चतुराननोऽपि न प्राणितीति प्रचुरः प्रवादः” इत्येवं सामान्यतः तिसृणामप्युत्तराणां ग्रहणाद्विरोधः इति चेत् मैवं अत्राप्युत्तरापदेन प्रथमोपस्थितिकत्वाद्वसिष्ठवाक्येन सहैकवाक्यतानुरोधाच्चोत्तराफालगुन्येव गृह्यते नाषाढभाद्रपदे। यत्र तु वचनान्तरविरोधो नास्ति पौष्णमारुत मघोत्तरान्वितैरित्यादौ तत्र सामान्यतः सर्वासामुत्तराणां ग्रहणं भवति” पी० धा०

“प्राचीमुखः सौम्यमुखोऽपि भूत्वा कुर्य्यान्नरः क्षौरमनुत्कटस्थः। उत्तरात्रितययाम्यरोहिणीरौद्रसार्पपितृभेषु चाग्निभे। श्मश्रुकर्म्म सकलं विवर्जयेत् प्रेतकार्य्य मपि बुद्धिमान्नरः” ज्यो० त०

क्षुरधान = न० क्षुरोधीयतेऽत्र धा–आधारे–ल्युट्। (भा~ड) इति ख्याते नापितास्त्रस्थापने पात्रभेदे “आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः” शत० व्रा० १४, ४, २, १६

क्षुरपत्र = पु० क्षुर इव पत्रमस्य। क्षुरधारे वाणे, क्षुरतुल्यपर्णयुक्त २ शरवणादौ त्रि० राजनि०

क्षुरपत्रिका = स्त्री क्षुर इव पत्रं यस्यः कप् अतैत्त्वम्। पालङ्गशाके राजनि०

क्षुरपवि = त्रि० क्षुरतुल्या पविर्धाराऽस्य। तीक्ष्णाग्रभागे “ते ह स्म क्षुरपवी निमेषम्” शत० ३, ६, २, ९ “क्षुरपवी क्षुरधारे” भाष्यम् निरुक्ते ५, ५ पविशब्दस्य पूतार्थकत्वमाह” “पवीरथनेमिर्भवति यद्विपुनाति भूमिम्। “तं मरुतः क्षुरपविना व्ययुः”

क्षु(खु)रप्र = पु० क्षुरः (खुरः) इव पृणाति हिनस्ति पृ–क। (खुरपी) इति ख्याते १ घासच्छेदनास्त्रे, तत्तुल्याग्रफलके २ शरभेदे च हेमच०

क्षुरभाण्ड = न० ६ त०। (भा~ड) ख्याते नापितास्त्रस्थापने पात्र भेदे “शीघ्रमानीयतां क्षुरभाण्डं क्षौरकमाकरणाय गच्छामि” पञ्चत०

क्षुरमर्दिन् = पु० क्षुरं मृद्भाति घर्षयति मृद–णिनि। नापिते हेमच०

क्षुरमुण्डिन् = पु० क्षुरेण मुण्डयति मुण्ड–णिनि ३ त०। नामिते। शब्दचि

क्षुराङ्ग = पु० क्षुर इवाङ्गमस्य। गोक्षुरे (गोकुरो)। राजनि०

क्षुरिका = स्त्री क्षुद्रः क्षुरः ङीप् सैव क। १ छुरिकायां (पालङ्ग) २ शाकभेदे राजनि०

क्षुरिकापत्र = पु० क्षुरिका छुरिकेव पत्रमस्य। शरे राजनि०

क्षुरिणी = स्त्री० क्षुर + अस्त्यर्थे इनि ङीप्। १ वराहक्रान्तायाम् २ नापितभार्य्यायाञ्च शब्दच०

क्षुरिन् = पु० क्षुर + इनि। १ नापिते, २ पशौ च।

क्षुरी = स्त्री स्वल्पः क्षुरः ङीप्। छुरिकायाम् हेम०

क्षु(खु)ल्ल = त्रि० क्षुद(खुद) दक्विप् क्षुद्(खुद्) तां लाति ला–क। १ अल्पे, २ लघौ, ३ कनिष्ठे च हेम० स्वर्थे क। तत्रार्थे

क्षुल्लक = त्रि० क्षुधा लक्यते लक–आस्वादने घञर्थे क। १ नीचे, ३ अल्पे च भरतः। २ पामरे, हेमच० ३ क्षुद्रशङ्खे राजनि०

क्षुल्लतात = पु० नित्यकर्म्म०। पितृकनिष्ठभ्रातरि जटाध०। एक क्षुल्लपितामहादयोऽपि पितामहादिकनिष्ठभ्रातरि

क्षेत्र = न० क्षि–ष्ट्रन्। १ शस्याद्युतपत्तिस्थाने केदारे (क्षेत) अमरः शस्यभेदेन तस्य नामभेदा शब्दरत्ना० उक्ता यथा

“व्रीहिभवोचितं क्षेत्रं व्रैहेयं तत् समीरितम्। शाल्युद्भवोचितं यत्तु शालेय मभिधीयते। यव्यं यवोचितं क्षेत्रं यवक्य यवकोचितम्। षष्टिकोद्भवनं यत्तु षष्टिक्यं तत् प्रकीर्त्तितम्। तिलोद्भवोचितं यत्तु तिल्यं तैलीन मित्यपि। एवं माष्यन्तु माषीणं कौद्रव्यं कौद्रवीणवत्। तथा भङ्ग्यञ्च भाङ्गीनमुम्यमौमीनमित्यपि। अथ मौद्न्यञ्च मौद्गीनमणव्यमाणवीनवत्। माषकोद्रवभङ्गोमामुद्गाणुप्रभवोचितम्। वीजाकृतमुप्तकृष्टमुत नीतिसमाह्वये। सीत्यं कृष्टञ्च हल्यञ्च तृतीयाकृतमित्यपि। त्रिगुणाकृतमित्येवं त्रिवारकृष्टभूमिषु। शम्बाकृतं द्विहल्यञ्च द्विसीत्यं द्विगुणाकृतम्। द्वितीयाकृतमप्यत्र द्विवारकृष्टभूमिषु। द्रोणाढककखार्य्यादेर्वापादौ द्रौणिकस्तथा। स्यादाढकिकखारीकौ उत्तमर्णादयस्त्रिषु। आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रोणिकोऽपि च २ देहे ३ अन्तःकरणे ४ कलत्रे, ५ सिद्धस्थाने च मेदि०। सिद्धस्थानानि काशीक्षेत्रादीनि तानि भारतादौ प्रसिद्धानि कतिचित् संक्षिप्य प्रदर्श्यन्ते तत्र वाराणसीक्षेत्रं यथा “आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत्। कथितं नातिदूरे च वर्त्तते नरसत्तमौ”। कामरूपक्षेत्रं यथा। “नाचिरात् कामदं पुण्यं क्षेत्रं पीठं निगद्यते। चिरात्तु कामदो देवो नचिराद्यत्र ज्ञानदः। तत् क्षेत्रमिति लोके यद्गद्यते पूर्व्वसूरिभिः। कामरूपं महापीठं गुह्याद्गुह्यतमं परम्” कालिकापु० ५० अ०। गङ्गाक्षेत्रं स्कान्दे “तीराद्गव्यूतिमात्रन्तु परितः त्रेमुच्यते”। नारायणक्षेत्रं यथा “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम्। तत्र नारायणःस्वामो गङ्गागव्र्मान्तरे वरे। तत्र नारायणेत्रे कुरुक्षेत्रे हरेः पदे। एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः। स च तीर्थप्रतिग्राही कुम्भीपाकं पयाति च” ब्रह्मवै० पु० प्र० ख० २७ अ०। भास्करक्षेत्रम् “गङ्गायां भास्करक्षत्रे मातापित्रोर्म्मृते गुरौ। आधाने सोमपाने च वपनं सप्तमु स्मृतम्। इतिस्मृति समुच्चयलिखितवचनम्। “भास्करक्षेत्रं प्रयागः” इति प्रायचित्ततत्त्वम्। गयाक्षेत्रं यथा “पञ्चक्रोशं गया क्षेत्रं क्रोशमेकं गयाशिरः” इति वायुपुराणम्। पुरुषोत्तमक्षेत्रम्। “मुनय ऊचुः। पुरुषोत्तमाख्यं सुमहत् क्षेत्रं परमपावनम्”। “जैमिनि रुवाच। एतत्क्षेत्रवरञ्चास्य वपुर्भूतं महात्मनः। स्वयं वपुष्मान् यत्रास्ते स्वनाम्रा ख्यापितं हि तत्” उत्कलखण्डम्। विष्णुक्षेत्राणि यथा “श्रीभगवानुवाच। शृणुष्वावहितो ब्रह्मन्! गुह्यनामानि मेऽधुना। क्षेत्राणि चैव गुह्यानि तव वक्ष्यामि यत्नतः। कोकामुखे वराहञ्च मन्दरे मधुसूदनम्। अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम्। माल्योदये तु वैकुण्ठं महेन्द्रे तु नृपान्तकम्। ऋषमे तु महाविष्णुं द्वारकायान्तु भूपतिम्। पाण्डुसह्ये तु देवेशं वसुकुण्डे जगत्पतिम्। वन्दीवने महायोगं चित्रकूटे नराधिपम्। नैमिषे पीतवासञ्च गवां निष्क्रमणे हरिम्। शालग्रामे तपोवासम् अचिन्त्यं गन्धमादने। कुब्जाम्रके हृषीकेशं गङ्गाद्वारे गदाधरम्। गरुद्धध्वजं तोषके च गोविन्दं नामसाह्वये। वृन्दावने तु गोपालं मथुरायां स्वयम्भुवम्। केदारे माधवं विद्यात् वाराणस्यान्तु केशवम्। पुष्करे पुष्कराक्षन्तु दृषद्वत्यां जयध्वजम्। तृणविन्दुवने वीरमशोकं सिन्धुसागरे। केशे वटे महाबाहु ममृतं तेजसो वने। विशाखसूर्य्ये विश्वेशं नारसिंहं वने वने। लोहकूले रिपुहरं देवशाले त्रिविक्रमम्। पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः। विद्याधरं वितस्तायां वारणे धरणीधरम्। देवदारुषने गुह्यं कावेर्य्यां नागशायिनम्। प्रयागे योगमूर्त्तिञ्च पयोष्ण्यां सुन्दरं विदुः। कुमारतीर्थे कौमारं लौहित्ये हयशीर्षकम्। त्रिविक्रमसुज्जियन्थां लिङ्गस्फोटेचतुर्भु- जम्। हरिहरं तुङ्गभद्रायां दृष्ट्वा पापात् प्रमुच्यते। विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम्। लोकवीर मयोध्यायां कुण्डिने रुक्मिणीपतिम्। मञ्जीरे वासुदेवञ्च चक्रतीर्थे सुदर्शनम्। आद्यं विष्णुपदे विद्यात् शूकरे शूकरम् विदुः। कुशेशं मानसे तीर्थे दण्डके श्यामलं विदुः। त्रिकूटे नागमोक्षञ्च मेरुपृष्ठे च भास्करम्। विरजं पुष्पवत्याञ्च बालं चामीकरे विदुः। यशस्करं विपाशायां माहिष्मत्यां हुताशनम्। क्षीराब्धौ पद्मनाभञ्च विमले तु सनातनम्। शिवनद्यां शिवकरं गयायाञ्च गदाधरम्। सर्व्वत्र परमात्मानं यः पश्यति स मुच्यते। अष्टषष्टिस्तु नामानि कीर्त्तितानि मया तव। क्षेत्राणि चैव गुह्यानि कथितानि विशेषतः। द्रष्टव्यानि यथाशक्त्या क्षेत्राण्येतानि मानवैः। वैष्णवैस्तु विशेषेण तेषां मुक्तिं ददाम्यहम्” नारसिं० पु० ६२ अ०। ६ मेषादि द्वादशराशिषु। “राशिनामानि च क्षेत्रं भमृक्षं गृहनाम च। मेषादीनाञ्च पर्य्यायं लोकादेव विचिन्तयेत्”। ग्रहाणां क्षेत्राणि ज्यो० त० च कुजशुक्रबुधेन्द्वर्क सौम्यशुक्रावनीभुवाम्। जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ज्योति० त०। “इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः। इच्छा द्वेषः सुखं दुःखं संस्का रश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदाहृतम्” गीतोक्तेषु ७ पदार्थेषु क्षेत्राकारे ८ लीलावत्यादि प्रसिद्धे त्रिकीणचतुष्कोणादिके पदार्थे तादृशक्षेत्रभेदाश्च रेखाभेदसाध्या अतोवेखाभेदसंज्ञा निरूप्यते तत्रास्मद्गुरुचरणैः ज्ञेत्रतत्त्वदीपिकायामित्थमभ्यधायि यथा१ यः पदार्थोलक्षयितुं शक्यः परिमाणस्थूलत्वदैर्घ्यविस्ताररहितः स विन्दुः।२ यः पदार्थोदीर्घो विस्तारस्थूलत्वाभ्यां रहितः स रेखा (विन्दुसमुदायोरेखा)३ यः पदार्थोविस्तारदैर्घ्ययुक्तः स्थूलत्वरहितः स धरातलम्४ यः पदार्थोविस्तारदैर्घ्यस्थौल्ययुक्तः सः स्थूलपदार्थः।५ रेखा च त्रिविधा सरला वक्रा मिश्रिता च।६ तत्र या रेखा एकदिग्गमनेनैव चिह्नद्वयान्तराले तिष्ठति एवं ययोश्चिह्नयोरन्तराले कृतास्वनेकरेखास्वतिशयेनाल्पतमा सा सरला। यत्र रेखाशब्दस्तत्र सरलैव ग्राह्या।७ या रेखा वर्द्धनेन प्रतिचिह्नं दिगन्तरे गच्छति सा वक्रा। (उभयलक्षणान्विता मिश्रिता)८ रेखा च समानान्तरा विषमान्तरा लम्बः सम्पातरेस्या च।९ ययोः रेखयोरन्तरं समानम एवं वद्धेनेन तयोर्योनः कदापि न भवितुमर्हति सा समानान्तरा रेखा भवति।१० ययोरन्तरं विषमम् एवं यदिश्यल्पान्तरं तद्दिशि वर्द्धने नोत्तरोत्तरमल्पान्तरं यावद्रेखायोगस्तदनन्तरमुत्तरोत्तररमल्पान्तरं विवर्द्धते योगश्च कदापि भवितुं न शक्नोति सा विषमान्तरा।११ एकरेखायामन्यरेखासंयोगादुत्पन्नौ कोणौ यदि समानौ भवतस्तदा ते रेखे मिथोलम्बरूपे भवतः।१२ या रेखा वृत्तपालिमिलिता सती पालिखण्डं न करोति सा सम्पातरेखा भवति। यदृत्तं वृत्तसम्पातेन खण्डितं न भवति स वृत्तसम्पातः।१३ एकचिह्नान्निःसृते द्वे रेखे यदि सम्मुखेतरभिन्नदिग् गते भवत स्तदा तच्चिह्ने कोणोभवति।१४ कोणस्त्रिविधः समकोणोऽल्पकोणोऽधिककोणश्च।१५ तत्र समानरेखायां लम्बयोगादुत्पन्नः कोणः समकोणः१६ समातिरिक्तोविषमकोणोभवति।१७ समकोणान्न्यूनोऽल्पकोणोभवति।१८ समकोणादधिकोऽधिककोणो भवति।१९ धरातलं द्विविधं समं वर्त्तुलं च।२० तत्र यस्मिन्धरातले सरला रेखा सर्वतो भावेन संलग्ना भवति यद्वा यत्र कुत्रापि चिह्नद्वये लग्ना सरला रेखा सर्वतः स्पृशति तद्धरातलं समं ज्ञेयम्। समातिरिक्तं विषममिति।२१ सरलरेखाभिः कुटिलरेखाभिर्वा निबद्धसीमं धरातलं समधरातलक्षेत्रं भवति। यत्र क्षेत्रशब्दस्तत्र समधरातलक्षेत्रं ज्ञेयम्।२२ सरलरेखानिवद्धसीमं धरातलकं क्षेत्रं भुजैः कोणैर्वाऽभिधेयं भवति किन्तु यावन्तोभुजास्तावन्त एव कोणाः भवति।२३ त्रिभिर्भुजैर्निबद्धसीमं धरातलं त्रिभुजक्षेत्रं भुजैः कोणैर्वाऽनेकविघं भवति।२४ यस्य त्रयोबाहवः समानास्तत्समत्रिभुजं मवथि।२५ यस्य द्वौ वाहू समानौ तत्समद्विभुजं ज्ञेयम्।२६ यस्य त्रयोचाहवोविषमास्तद्विषमत्रिभुजं भवति।२७ यस्यैकः समकोणस्तत्समकोणत्रिभुजं ज्ञेयम्।२८ समातिरिक्तकोणं विषमत्रिभुजं भवति।२९ यस्यैकोऽधिककोणस्तदधिककोणत्रिभुजं भवति।३० यस्य त्रयोऽपि न्यूनकोणास्तन्न्यूनकोणत्रिसुजं ज्ञातव्यम्।३१ चतुर्भुजैर्निवद्धसीमं धरातलं चतुर्मुजक्षेत्रं भवति।३२ यस्य चतुर्भुजस्य परस्पर सम्मुखौ भुजौ समान्तणै भवतस्तत्समानान्तरभुजं चतुर्भुजं क्षेत्रं भवति। तद्वक्ष्यमाणाभिधानं चतुर्विधं तद्यथा।३३ यस्य चतुर्भुजस्य परस्परसम्मुखौ भुजौ समानौ एवमेकः समकोणश्च भवति तच्चतुर्भुजं समकोणायतं भवति।३४ यस्य चत्वारोभुजा मिथःसमानाः कोणाश्च समास्तच्चतुर्भुजं समकोणसमचतुर्भुजं वग्र्गेत्रं वा भवति।३५ यस्य परस्परं सम्मुखरेखाद्वयं समानं समानान्तरं च भवति। कोणाश्च विषमास्तच्चतुर्भुजं विषमकोणायतम्३६ यस्य चत्वारोबाहवः समानाः समानान्तराश्च भवन्ति कोणाश्च विषमास्तद्विषमकोणसमचतुर्भुजं भवति।३७ यस्य च परस्परं सम्मुखौ भुजौ विषमान्तरौ तच्चतुभुर्जं विषमचतुर्भुजं भवति।३८ यस्य भुजद्वयं समानान्तरं तत्समानान्तरविषमचतुर्भुजम्३९ चतुर्भुजस्यैकान्तरकोणसंलग्ना रेखा कर्णो भवति।।४० चतुर्भुजादधिकभुजैर्निबद्धं धरातलं सामान्यतोबहुभुजंक्षेत्रं तद्बहुविधं भुजानुसारेण कोणानुसारेण वा तेषां नामानि४१ यथा पञ्चभुजं षड्भुजं सप्तभुजमष्टभुजं नवभुजं दशभुजमेकादशभुजं द्वादशभुजमित्यादीनि।।४२ तत्र बहुभुजनेत्रं यदि समभुजं भवति तस्य कोणा समानाभवन्ति तदा वत्क्षेत्रं समपञ्चभुजमित्याभि धानकं भवति तदितरत् विषमपञ्चभुजनित्यादि।४३ एवमेव समत्रिभुजे कोणाः समानाभवन्त्येवेति नियम। तत्त्रिभुजं समानकोणसमत्रिभुज भवति। यस्य चत्वारो भुजाः समानाः सन्ति तत्समचतुर्भुजं क्षेत्रं भवति।४४ यस्य क्षेत्रस्य भुजाः समानाभवन्ति तत् क्षेत्रं समभुजं यस्य कोणाः समानास्तत्समानकोणं क्षेत्रं यस्य भुजाः कोणाश्च समानाभवन्ति तत्क्षेत्रं समकोणसममुजं भवति४५ कुटिलरेखया निबद्धसीमं धरातलं वृत्तक्षेत्रं भवति सा रेखा परिधिसंज्ञिका पालिसंज्ञिका वा भवति तस्या मध्यविन्दुः केन्द्रसंज्ञकोभवति।।४६ केन्द्रान्निःसृता वृत्तपालिसंलग्ना रेखा व्यासार्द्धं भवति।४७ या रेखा उभयतः पालिसंलग्ना केन्द्रगा च भवति सा व्याससंज्ञिका भवति।।४८ परिधिखण्डश्चापसंज्ञकोभवति।।४९ चापोभयपान्तगा रेखा चापकर्णसंज्ञिका ज्यासंज्ञिका च५० जीवाचापाभ्यां निबद्धधरातलकं क्षेत्रं धनुःक्षेत्रं चाप क्षेत्रं वा भवति।।५१ यस्य चापस्य व्यासरेखा जीवा भवति तत् अर्द्धवृत्तम्।५२ केन्द्रान्निःसृते द्वे रेखे चापोभयपान्तसंलग्ने यदि भवत स्तदा तत्क्षेत्रं वृत्तांशसंज्ञकं वृत्तखण्डकं च भवति।।५३ यस्य चापः परिधिपादमितः केन्द्रान्निःसृताभ्यां रेखा भ्यां समकोणश्च भवति तद्वृत्तपादक्षेत्रं भवति।।५४ क्षेत्रस्योर्द्ध्वकोणादाधाररेखायां पतितलम्बमितमौच्च्यम्५५ समकोणत्रिभुजे समकोणसम्मुखभुजः कर्णोभवत्यन्यौ पादौ भवतः किं वैक आधारोऽन्योलम्बः।।५६ अत्र कोणोपलब्धिः कल्पितत्रिभिर्वेणैर्भवति किन्तु सदैव कोणसंलग्नोवर्णोमध्यौच्चारणीयः।।५७ परिधेः षष्ट्यधिकशतत्रयांशोंऽशसंज्ञकोभवति। अंशस्य षष्ट्यंशः कला। कलायाः षष्ट्यंशोविकला। विकलायाः षष्ट्यंशः प्रतिविकलेत्यादि।५८ कोणस्य परिमितिः कोणचिह्नकृतकेन्द्रात् कृते वृत्ते तत्कोणाकारकरेखयोरन्तरालचापगतांशतुल्या भवति सकोणस्तद्वृत्तस्य केन्द्रं भवति।।५९ तेषां चापानां केन्द्राद्दूरत्वं समानं भवति येषु केन्द्रान्निः सृतोलम्बः समोभति।।६० येषु दीर्घोलम्बः पतति तषां दूरत्वं दीर्घं भवति।।६१ चापगतैकचिह्नान्निःसृते द्वे रेखे तदन्यचापोभयप्रान्तमिलिते तदुद्भूतः कोणश्चापान्तर्गतकोणोभवति।।६२ अनन्तरोक्तकोणादपरदिग्भवः कोणस्तत्कोणसत्त्वे चा पोपरिस्थः कोणोभवति किन्तु द्वयोः कोणयोः स्वरूपं समानं तयोः प्रथमोऽन्तर्गतोद्वितीयौपरिस्थैत्येष भेदः६३ यत्कोणचिह्नं परिधिगतं भवति स पालिकोणोभवति यस्य तच्चिह्नं केन्द्रगतं स्यात्स कोणः केन्द्रकोणोभवति।।६४ सरलरेखाकृतक्षेत्रस्य सर्व्वे कोणा यदि वृत्तमध्ये परि धिसंलग्नाभवन्ति तदा तत्क्षेत्रं वृत्तान्तर्गतं क्षेत्रोपरि गतवृत्तं वा भवति।।६५ यदि सरलरेखाकृतक्षेत्रस्य मध्ये सर्व्वभुजसलग्नः परि धिस्तदा तद्वृत्तं क्षेत्रान्तर्गतं वृत्तोपरिगतक्षेत्रं वा६६ सरलरेखाकृतक्षेत्रस्य सर्व्वभुजसंलग्नायदि तद्रूपस्यान्य क्षेत्रस्य सर्व्वे कोणाभवन्ति तदा तत्क्षेत्रं क्षेत्रान्तर्गतं क्षेत्रोपरिगतक्षेत्रं वा भवति।।६७ यद्रेखायाएकांशोवृत्तान्तर्गतोद्वितीयोवहिर्गतः स्यात्सा रेखा वृत्तखण्डिनी भवति।६८ ययोर्द्वयोस्त्रिभुजयोर्येषां सरलरेखाकृतक्षेत्राणां वा प्रतिदिग्भुजैः प्रतिदिग्भुजाः समानाः सन्ति तानि परस्परं सभभुजानि भवन्ति ययोर्येषां वा प्रतिदिक्कोणैः प्रतिदिक्कोणाः समानास्तानि क्षेत्राणि परस्परं समान कोणानि भवन्ति।।६९ उभयोः क्षेत्रयोः परस्परं भुजाः कोणाश्च परस्परं भुजैः कोणैश्च समानाभवन्ति किं वैकस्य क्षेत्रस्य सर्व्वे भुजाः कोणाश्च द्वितीयक्षेत्रस्य सर्व्वैर्भुजैः कोणैश्च परस्परं समानाः यथा एकक्षेत्रोपरि द्वितीयक्षेत्रं स्थाप्यते तदा सर्व्वे भुजाः कोणाश्च सर्वभुजोपरि कोणोपरि च समानरूपेण पतिताः स्युः यथा द्वेयोरेकरूपं स्यादीदृक्क्षेत्राण्येकरूपाणि भवन्ति।।७० येषां क्षेत्राणां प्रतिदिक्कोणाः समानाएवं प्रतिदिग्भुजा एकनिष्पत्तियुताभवन्ति तानि क्षेत्राणि सजातीयानि७१ क्षेत्रस्याखिलभुजयोगः सीमासूत्रमित्युच्यते।। एवं रेखानिष्पन्नक्षेत्राणां भुजकोट्यादिमानफलज्ञानार्थं लीलावत्युक्तः क्षेत्रव्यवहारोऽत्र दर्श्यते यथा “भुजकोटिकर्ण्णानामन्यतमाभ्यामन्यतमानयनाय करणसूत्रं वृद्धद्वयम्। इष्टाद्बाहोर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरोबाहुः। त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः। तत्कृत्योर्य्योगपदं कर्ण्णो, दोःकर्ण्णवर्ग्गयोर्विवरात्। मूलं कोटिः, कोटिश्रुतिकृत्योरन्तरात्पदं बाहुः। उदाहरणम्। कोटिश्चतुष्टयं यत्र दोष्त्रयं तत्र का श्रुतिः। कोटिन्दोःकर्ण्णतः, कोटिश्रुतिभ्याञ्च भुजं वद।न्यासः कोटिः। ४। भुजः। ३। भुजवर्गः ९। कोटिवर्गः। १६। एतयोर्योगात्। २५। मूलम्। ५। कर्णोजातः।।।। अथ कर्ण्णभुजाभ्यां कोट्यानयनम्।।न्यासः कर्णः। ५। भुजः। ३। अनयोर्वर्ग्गान्तरम्। १६। एतन्मूलं। ४। कोटिः।। अथ कोटिकर्णाभ्यां भुजानयनम्।।न्यासः कोटिः। ४। कर्णः। ५। अनयोर्वर्गान्तरम्। ९। एतन्मूलं। ३। भुजः “प्रकारान्तरेण तज्ज्ञानाय करणसूत्रं सार्द्धवृत्तम्। राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः। वग्र्गयोगीभवेदेवं तयोर्योगान्तराहतिः। वर्ग्गान्तरं भवेदेवं ज्ञेयं सर्वत्र धीमता।। कोटिश्चतुष्टयमिति पूर्बोक्तोदाहरणे।न्यासः कोटिः। ४। भुजः। ३। अनयोर्घाते। १२। द्विघ्ने। २४। अन्तरवर्गेण। १। युते वर्गयोगः। २५। अस्य मूलं कर्णः। ५। अथ कर्ण्णभुजाभ्यां कोट्यानयनम्।न्यासः कर्णः। ५। भुजः। ३। अनयोर्योगः। ८। पुनरेतयोरन्तरेणा। २।ऽऽहतोवर्गान्तरम्। १६। अस्य मूलं कोटिः। ४। अथ कर्णकोटिभ्यां भुजायनम्।न्यासः कोटिः। ४। कर्णः। ५। (उक्तरीत्या) जातोभुजः। ३। “उदाहरणम्। साङ्घ्रित्रयमितोबाहुर्यत्र कोटिश्च तादृशी। तत्र कर्ण्णप्रमाणं किं गणक! ब्रूहि मे द्रुतम्।।न्यासः भुजः १३ / ४ कोटिः १३ / ४ अनयोर्वर्गयोर्योगः १६९ / ८ अस्य मूलाभावात्करणीगतएवायं कर्णः

अस्यासन्नमुलज्ञानार्थमुपायः वर्ग्गेण महतेष्टेन हताच्छेदांशयोर्बधात्। पदं गुणपदक्षुण्णच्छिद्भक्तं निकटं भवेत्।। अयं कर्ण्णवर्ग्गः १६९ / ८ अस्य छेदांशघातः १३५२ अयुतघ्नः १३५२०००० अस्यासन्नमूलम् ३६७७ इदं गुणमूल १०० गुणितच्छेदेन ८०० भक्तं लब्धमासन्नपदं ४ भागाः ४७७ / ८०० अयं कर्ण्णः। एवं सर्व्वत्र। “त्र्यस्रजात्ये करणसूत्रं वृत्तद्वयम्। इष्टोभुजोऽस्माद्द्विगुणेष्टनिघ्नादिष्टस्य कृत्यैकवियुक्तयाप्तम्। कोटिः पृथक् सेष्टगुणा भुजोना कर्ण्णोभवेत्त्र्यस्रमिदन्तु जात्यम्।। इष्टोभुजस्तत्कृतिरिष्टभक्ता द्विःस्थापितेष्टोनयुतार्द्धिता वा। तौ कोटिकर्ण्णाविति कोटितोवा बाहुश्रुती वाऽ करणीगते स्तः।

उदाहरणम्। भुजे द्वादशके यौ यौ कोटिकर्ण्णा वनेकधा। प्रकाराभ्यां वद क्षिप्रं तौ तावकरणीगतौ।न्यासः

भुजः। १२। इष्टम्। २। अनेन द्विगुणेन। ४। गुणि तोभुजः। ४८। इष्ट। २। कृत्या। ४। एकोनया। ३। भक्तोलब्धा। १६। कोटिः इयमिष्टगुणा। ३२। भुजो। १२। ना जातः कर्ण्णः। २०। त्रिकेणेष्टेन वा।कोटिः। ९। कर्ण्णः। १५। (उक्तरीत्यायातः) पञ्चकेनेष्टेन वाकोटिः। ५। कर्णः। १३। (उक्तरीत्यायातः) अथ द्वितीयप्रकारेण।न्यासः

भुजः। १२। अस्य कृतिः। १४४। इष्टेन। २। भक्ता लब्धम्। ७२। इष्टेन। २। ऊन। ७०। युतौ। ७४। अर्द्धितौ जातौ कोटिकर्णौ। ३५। ३७। अतुष्टयेन वा।कोटिः। १६। कर्णः। २०। (उक्तरीत्यायातः) षट केन वा।कोटिः। ९। कर्णः। १५। (उक्तरीत्यायातः) अथेष्टकर्ण्णात्कोटिभुजानयभे करणसूत्रं वृत्तम्। इष्टेन निघ्नाद्द्विगुणाच्च कर्ण्णादिष्टस्य कृत्यैकयुजा यदाप्तम्। कोटिर्भवेत् सा पृथगिष्टनिघ्नी तत्कर्ण्णयोरन्तरमत्र बाहुः।। “उदाहरणम्। पञ्चाशीतिमिते कर्ण्णे यौ यावकरणीगतौ। स्यातां कोटिभुजौ तौ तौ वद कोविद। सत्वरःन्यासः कर्ण्णः। ८५। अयं द्विगुणः। १७०। द्विकेनेष्टेन हतः। ३४०। इष्ट०। २। कृत्या। ४। सैकया। ५। भक्तो जाता कोटिः। ६८। इयमिष्ट २ गुणा। १३६। कर्ण्णो। ८५। निता जातोभुजः।। ५१।। चतुष्केणेष्टेन वा।कोटिः। ४०। भुजः। ७५। (उक्त रीत्यायातः)प्रकारान्तरेण तत्करणसूत्रं वृत्तम्। इष्टवर्ग्गेण सैकेन द्विघ्नः कर्ण्णोऽथ वा हृतः। फलोनः श्रवणः कोटिः फलमिष्टगुणं भुजः।। पूर्बोदाहरणे। न्यासःकर्णः। ८५। अत्र द्विकेनेष्टेन जातौ किल कोटि भुजौ। ५१। ६८। चतुष्केण वा।कोटिः। ७५। भुजः। ४०। अत्र दोःकोट्योर्नामभेद एव केवलं न स्वरूपभेदः।

अथेष्टाभ्यां भुजकोटिकर्ण्णानयने करणसूत्रं वृत्तम्। इष्टयोराहतिर्द्विघ्नी कोटिर्वर्गान्तरं भुजः। कृतियोगस्तयोरेवं कर्ण्णश्चाकरणीगतः।।

उदाहरणम्। यैर्यैस्त्र्यसं भवेज्जात्यं कोटिदोःश्रवणैः सखे!। त्रीनष्यविदितानेतान् क्षिप्रं ब्रूहि विचक्षण!।।न्यासः अत्रेष्टे। २। १। आभ्यां कोटि भुजकर्णाः। ४। ३। ५। (उक्तरीत्यायातः)अथवेष्टे। २। ३। आभ्यां कोटिभुज कर्णाः। १२। ५। १३। (उक्तरीत्यायाताः)अथवेष्टे। २। ४। आभ्यां कोटिभुजकर्णाः। १६। १२। २०। एवमन्यत्रानेकधा।।

कर्ण्णकोटियुतौ भुजे च ज्ञाने पृथक्करणसूत्रं वृत्तम्। वंशाग्रमूलान्तरभूमिवर्गोवंशोद्धृतस्तेन पृथग्युतोनौ। वंशौ तदर्द्धे भवतः क्रमेण वंशस्य खण्डे श्रुतिकोटिरूपे। उदाहरणम्। यदि समभुवि वेणुर्द्वित्रि ३२ पाणि प्रमाणो गणक! पवनवेगादेकदेशे स भग्नः। भुवि नृप १६ मितहस्तेष्वङ्ग लग्नं तदम्रं कथय कतिषु मूलादेष भग्नः करेषु।।वंशाग्रमूलान्तरभूमिर्भुजः। १६। वंशः कोटिकर्णयुतिः। ३२। जाते ऊर्द्धाधः खण्डेः। २०। १२।

बाहुकर्ण्णयोगे दृष्टे कोट्याञ्च ज्ञातायां पृथक्करणसूत्रं वृत्तम्। स्तम्भस्य वर्ग्गोऽहिविलान्तरेण भक्तः फलं व्यालबिद्धान्तरालात्। शोध्यं तदर्द्धप्रमितैः करैः स्याद्बिलाग्रतोव्यालकलापियोगः।।

उदारणम्। अस्मि स्तम्भतले बिलं तदुपरि क्रीडाशिखण्डी स्थितः स्तम्भे हस्तनवोच्छ्रिते त्रिगुणितस्तम्भप्रमाणान्तरे। दृष्ट्वाहिं बिलमाव्रजन्तमपतत्तिर्यक स तस्योपरि क्षिप्रं ब्रूहि तयोर्बिलात्कतिमितैः साम्योन गन्योर्युतिः।।

स्तम्भः। ९। अहिबिलान्तरम्। २७। जाता विलगत्योर्मध्यहस्ताः। १२। कोटिकर्णान्तरे भ जे च दृष्टे पृथक्करणसत्रं वृत्तम्। भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरेणोनयुक्तम्। तदर्द्धे क्रमात्कोटिकर्णौ भवेतामिदं धीमताऽऽवेद्य सर्व्वत्र योज्यम्। सखे! पद्मतन्मज्जनस्थानमध्ये भुजः कोटिकर्णान्तरं पद्म दृश्यम्। नलः कोटिरेतन्मितः स्याद्यदम्भोवदैवं समानीय पानीयमानम्।।

उदाहरणम्। चक्रक्रौञ्चाकुलितसलिले क्कापि दृष्टं तडागे तोयादूर्द्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम्। मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे तस्मिन्मग्नं गणक! कथय क्षिप्रमम्भःप्रमाणम्।।न्यासः कोटिकर्ण्णान्तरम् १/२ भुजः। २। लब्धं जलगाम्भीर्य्यम् १५ / ४ इयं कोटिः इयमेव कलिकामानयुता जातः कर्णः १७ / ४

कोट्येकदेशेन युते कर्णे भुजे च दृष्टे कोटिकर्ण्णज्ञानाय करणसूत्रं वृत्तम्। द्विनिघ्नतालोच्छ्रि तिसंयुतं तत्सरोऽन्तरं तेन विभाजितायाः। तालोच्छ्रितेस्ताल सरोऽन्तरघ्नादुड्डीनमानं खलु लभ्यते तत्।।

उदाहरणम्। वृक्षाद्धस्तशतोच्छयाच्छतयुगे वापीं कपिः कोऽप्यगादुत्तीर्य्याथ परोद्रुतं श्रुतिपथेनोड्डीय किञ्चिद्द्रुमात्। जातैवं समता तयोर्यदि गतावुड्डीन मानं कियद्विद्वन्! चेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाऽऽचक्ष्व मे।।।। न्यासःवृक्षवाप्यन्तरम्। २००। वृक्षोच्छ्रायः। १००। लब्धमुड्डीनमानम्। ५०। कीटिः। १५०। कर्ण्णः। २५०। भुजः। २००।

भुजकोट्योर्योगे कर्ण्णे च ज्ञाते वृथक्करणसृत्र वृत्तम्। कर्ण्णस्य वर्गाद्द्विगुणां द्विशोध्योदोःकोटियोगः स्वगुणेऽस्य मलम्। योगोद्विधा मूलविहीनयुक्तः स्यातां तदर्द्धे भुजकोटिमाने।।

उदाहरणम्। दशसप्तंधिकः कर्ण्णस्त्र्यविका विंशतिः सखे!। भुजकोटियुतिर्यत्र तत्र ते मे पृथग्वद।।न्यासः कर्ण्णः। १७। दोःकोटियोगः। २३। जाते भुज कोटी। ८। १५।

उदाहरणम्। दोःको ट्योरन्तरं शैलाः कर्णोयत्र त्रयोदश। भुजकोर्टा पृथक्तत्र वदाशु गणकोत्तम।।न्यासः कणः। १३। भुजकोट्यन्तरम्। ७। लब्धे भुजकोटी। ५। १२।

लम्बावबाधज्ञानाय करणसूत्रं वृत्तम्। अन्योऽन्यमूलाग्रगसूत्रयोगाद्वेण्वोर्बधे योगहृते च लम्बः। वंशौ स्वयोगेन हृतावभीष्टभूघ्नौ च लम्बोभयतः कुखण्डे।।

उदाहरणम्। पञ्चदशदशकरोच्छायवेण्वोरज्ञातमध्यभूमिकयोः। इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमानमाचक्ष्व।।न्यासः वंशौ। १५। १०। जातो लम्बः। ६। वंशान्तरभूः। ५। अत्र जाते भूखण्डे। ३। २ अथवा भूः। १०। खण्डे। ६। ४। वा भूः। १५। खण्डे। ९। ६। वा भूः। २०। खण्डे। १२। ८। एवं सर्वत्र लम्बः सएव।

यद्यत्र भूमितुल्ये भुजे वंशः कोटिस्तदा भूखण्ड न किमिति त्रैराशिकेन सवत्र प्रतीतिः।

अथ अक्षत्रलक्षणे सूत्रम्। धृष्टोद्दिष्टमृजुभुजक्षेत्र यत्रैकवाहुतः खल्पा। तदितरभुजयुतिरथवा खल्या ज्ञेयं तदक्षेत्रं।।

उदाहरणम्। चतुरस्रे त्रिषड्द्व्यर्काभुजास्त्र्यस्रे त्रिषड्नवाः। उद्दिष्टा यत्र मृष्टेन तदक्षेत्र विनिर्द्दिशेत् एते अनुपवन्ने क्षेत्रे।भुजप्रमाणाऋजुशलाकाः भुजस्थनेषु विन्यस्यानुपपत्तिर्दर्शनीयेति। आचधादिज्ञानाय करणसूत्रमार्याद्वषम्। त्रिभुजे भुजयोर्योगस्तदन्तरगुणोभुवा हृतोलब्ध्या। द्विःस्था भूरूनयुता दलिताऽबाधे तयोः स्याताम्।। स्वाऽऽबाधाभुजकृत्योरन्तरमूल प्रजायते लम्बः। लम्बगुण भूम्यर्द्धं स्पष्ट त्रिभुजे फल भवति।।

उदाहरणम्। क्षेत्रे मही मनुमिता त्रिभुजे भुजौ तु यत्र त्रयोदशतिथिप्रमितौ च मित्र! तत्रावलम्बक मिति कथयावबाधे क्षिप्र तथा च समकोष्ठमितिं फलाख्याम्।। न्यासःभूः। १४। भुजौ। १३। १५। लब्धे आबाधे। ५। ९। लम्बः। १२। क्षेत्रफलञ्च। ८४। ऋणाऽऽबाधोदाहरणम्। दशसप्तदशप्तमौ भुजौ त्रिभुजे यत्र नवप्रमा मही। नाबधे यद लम्बकं तथा गणित गाणितिकाशु तत्र मे।।भुजौ। १०। १७। भूमिः। ९।

अत्र त्रिभुजे भुजयोर्योगैत्यादिना लब्धम। २१। अनेन भूरूना न स्यात् अस्मादेव भूरपनीता शेषाद्धमृणेगताऽऽबधा दिग्वैपरीत्येनेत्यर्थः। तथा जाते आवाधे। ६। १५। अतौभयत्रापि जातोलम्बः। ८। फलम्। ३६। चतुर्भुजत्रिभुजयोरस्पष्टफलानयने करणसूत्र वृत्तम्। सर्वदोर्युतिदलञ्चतुःस्थित बाहुभिविरहितञ्च तद्वधात्। मूलपस्फ टफलं चतुर्भुजे स्पष्टमेवमुदितं त्रिबाहुके।।

उदाहरञ्चम्। भूमिश्चतुर्द्दशमिता मुखनङ्कलङ्ख्यं बाहू त्रयोदशदिवाकरस स्मतौ च। लम्बोऽपि यत्र रवि संज्ञकएव तत्र क्षेत्रे फलं कथय तत्कथितं यदाद्यैःन्यासः

भूमिः। १४। मुखम्। ९। बाहू। १३। १२। लम्बः। १२।

उक्तवत्करणेन जातं क्षेत्रफलं करणी। १९८००। अस्याः पदं किञ्चिन्न्यूनमेकचत्वारिंशदधिकशतम् १४१। इदमत्र क्षेत्रे न वास्तवं फलम् किन्तु लम्बेन निघ्नं कुमु खेक्यखण्डमित्यादिवक्ष्यमाणकरणेन वास्तवं फलम्। १३८ अत्र त्रिभुजस्य पूर्बोदाहृतस्यन्यासः

भूमिः। १४। भुजौ। १३। १५। अनेनापि प्रकारेण त्रिबाहुके तदेव वास्तवं फलम्। ८४। अत्र चतुर्भुजस्यास्पष्टमुदितम्।

अथ स्थूलत्वनिरूपणार्थं सूत्रं सार्द्धवृत्तम्। चतुर्भुजस्यानियतौ हि कर्णौ कथं ततोऽस्मिन्नियतं फलं स्यात्। प्रसाधितौ तच्छ्रवणौ यदाद्यैः स्वकल्पितौ तावितरत्र न स्तः।। तेष्वेव बाहुष्वपरौ च कर्णापनेकधा क्षेत्रफलं ततश्च।। चतुर्भुजे हि एकान्तरकोणावाक्रम्याऽन्तःप्रवेश्यमानौ ससंसक्तं कर्णं सङ्कोचयतः इतरौ बहिरपसरन्तौ कोणौ स्वसंसक्तं कर्णं वर्द्धयतः अतौक्तन्तेष्वेव बाहुष्यपरौ च कर्णाविति। लम्बयोः कर्ण्णयोर्वैकमनिर्द्दिश्यापरान् कथम्। पृच्छत्यनियतत्वेऽपि नियतञ्चापि तत्फलम्। स पृच्छकः पिशाचोवा वक्ता वा नितराम्ततः। यो न वेत्ति चतुर्बाहुक्षेत्रस्यानियितां स्थितिम्।। समचतुर्भुजाऽऽयतयोः फलानवने करणसूत्रं सार्द्धश्लोकद्वयम्। इष्टा श्रुतिस्तुल्यचतुर्भुजस्य कल्प्याथ तद्वर्गंविवर्जिता या। चतुर्गुणा बाहुकृतिस्तदीयं मूलं द्वितीयश्रवणप्रमाणम्।। अतुल्यकर्णाभिहतिर्विभक्ता फलं स्फुटं तुल्यचतुर्भुजे स्यात्। समश्रुतौ तुल्यचतुर्भुजे च तथाऽऽयते तद्भ जकोटिघातः।। चतुर्भुजेऽन्यत्र समानलम्बे लम्बेन निघ्नङ्कुमुखैक्यखण्डम्।। अत्रीद्देशकः! क्षेत्रस्य पञ्चरुतितुल्यचतुर्भुजस्य कर्णौ ततश्च गणितं गणक! प्रचक्ष्व। तुल्यश्रुतेश्च खलु तस्य तथा- गतस्य यद्विस्तृतीरसमिताष्टमितं च दैर्घ्यम्।। प्रथमोदाहरणे।

भुजाः। २५। २५।। २५। २५। अत्र त्रिंशन्मिता। ३०। मेकां श्रुतिं प्रकल्प्य जाताऽन्या। ४०। फलञ्च। ६००। (तथाहिंभुजवर्गः ६२५। चतुर्गुणा २५०० श्रुतिवर्गेण ९०० हीनात् १६०० मूलम् ४०) द्वितीयं श्रुतिः। तयोः ३०। ४०। श्रुत्योर्धातः १२० द्विभक्त ६००।अथ वा।

चतुद्द शमिनामेकां। १। श्रुतिं प्रकल्प्योक्तवत्करणेन जाताऽन्या श्रुतिः। ४८। फलञ्च। ३३६। (अत्र क्षेत्रे २४ अङ्कोऽशुद्धः १४ शुद्धम् इति)द्वितीयोदाहरणे। तत्कृत्योर्योगपदं कर्णैति जाता करणा पता श्रुतिः उभयत्र तुल्यैव। गणितञ्च। ६२५।अथायतस्य। विस्तृतिः। ६। दैर्घ्यम्। ८। अस्य गणितम्। ४८।

उदाहरणम्। क्षेत्रस्य यस्य वदनं मदनारितुल्यं विश्वम्भरा द्विगुणितेन मुखेन तुल्या। बाहू त्रयोदशनखप्रमितौ च लम्बः सूर्य्योन्मितश्च गणितं वद तत्र किं स्यात्।।न्यासः वदनम्। ११। विश्वम्भरा। २२। बाहू। १३। २०। लम्बः। १२।

अत्र सर्व्वदोर्य्युतिदलमित्यादिना स्थूलं फलम्। २५० वास्तवन्तु लम्बेन निघ्नं कुमुखेक्यखण्डमिति जातं फलम्।। १९८। क्षत्रस्य खण्डत्रयं कृत्वा फलानि पृथगानीय ऐक्यं कृत्वास्य फलोपपत्तिर्दर्शनीया खण्डत्रयदर्शनम्।

प्रथमस्य भुजकोटिकर्णाः। ५। १२। १३। द्वितीयतस्यविस्तृतिः। ६। दैर्घ्यं। १२। तृतीयस्य भुजकोटिकर्णाः। १६। १२। ३०। अत्र त्रिभुजयोर्भुजकोटिघातार्द्धं फलम् यथा प्रथमक्षेत्रे फलम्। ३०। द्वितीये। ७२। तृतीये। ९६। एषामैक्यं सर्व्वक्षेत्रफलम्। १९८।

अथान्यदुदाहरणम्। पञ्चाशदेकसहिता वदनं यदीयं भूः पञ्चसप्ततिमिता प्रमितोऽष्टषष्ट्या। सव्याभुजोद्विगुणविंशतिसम्मितोऽन्यसास्मिन् फलं श्रवणलम्बमिती प्रचक्ष्वन्यासः वदनम्। ५१। भूमिः। ७५ भुजौ। ६८

अत्र फलावलम्बश्रुतीनां ज्ञानार्थं सूत्रं वृत्तार्द्धम्। ज्ञातेऽथ लम्बे श्रवणः श्रुतौ तु लम्बः फलं स्यान्नियतन्तु तत्र। कर्णस्यानियतत्वाल्लम्बोऽप्यनियतैत्यर्थः।

लम्बज्ञानाय करणसूत्रं वृत्तार्द्धम्। चतुर्भुजान्तस्त्रिभुजेऽवलम्बः प्राग्वद्भुजौ कर्णमुजौ मही भूः।। अत्र लम्बज्ञानार्थं सव्यभुजाग्राद्दक्षिणभुजमूलगामी इष्टः कर्णः सप्तसप्ततिमितः कल्पितस्तेन चतुर्भुजान्तस्त्रिभुजं कल्पितं तत्राऽसौ कर्णएकोभुजः। ७७। द्वितीयस्तु सव्यभुजः। ६८। मूः सैव। ७५। अत्र प्राग्वल्लब्धोलम्बः ३०८ / ५

लम्बे ज्ञाते कर्णज्ञानार्थं सूत्रं वृत्तम्। यल्लम्बलम्बाश्रितबाहुवग्र्गविश्लेषमूलं कथिताऽबधा सा। तदूनभूवर्ग्गसमन्वितस्य यल्लम्बवर्ग्गस्य पदं स कर्णः।।

अत्र सव्यभुजाग्राज्ञम्बः किल कल्पितः ३०८ / ५ तदूनभूवर्ग्गसमन्वितेत्यादिना जातः कर्णः। ७७।

द्वितीयज्ञानार्यं सूत्रं वृत्तद्वयम्। इष्टोऽत्र कर्णः प्रथमं प्रकल्प्यस्त्र्यस्रे तु कर्णोभयतः स्यिते ये। कर्णं तयोः क्ष्मामितरौ च बाहू प्रकल्प्य लखायवधे च साध्ये अबाधयोरेकककपम्प्पयोर्य्यत्स्यादन्तरन्तत्कृतिसंयुतस्य। ल- म्बैक्यवर्गस्य पदं द्वितीयः कर्णोभवेत्सर्वचतुर्भुजेषु।।म्यासः

अत्र चतुर्भुजे सव्यभुजाग्राद्दक्षिणभुजमूलगामिनः कर्णस्य मानं कल्पितम्। ७७। तत्कर्णरेखावच्छिन्नस्य क्षेत्रस्य मध्ये कर्णरेखोभयतोये त्र्यम्ने उत्पन्ने तयोः कर्णं भूमिं तदितरौ च भुजौ प्रकल्पा प्राग्वल्लम्बः आ बाधा च साधिता। तद्वशेन लम्बः।। ६०।। द्वितीय लम्बः।। २४।। आबाधयो। ४५। ३२। रेकककुप्स्थयो रन्तरस्य। १३। कृते। १६९। र्लम्बैक्य। ८४। कृतेश्च ७०५६ योगः। ७२२५। तस्य पदं। ८५। द्वितीयकर्णप्रमाणम्

अत्रेष्टकर्णकल्पने विशेषोक्तिसूत्रं सार्द्धवृत्तम्।

कर्णाश्रितस्वल्पभुजैक्यमुर्वीं प्रकल्प्य तच्छेषभुजौ च बाहू। साध्योऽबलम्बोऽथ तथान्यकर्णः स्वोर्व्याः कथंचिच्छ्रवणीन दीर्घः।। तदन्यलम्बान्न लघु स्तथेदं ज्ञात्वेष्टकर्णः सुधिया प्रकल्प्यः।। चतुर्भुजं हि एकान्तरकोणयोराक्रम्य सङ्कोच्यमानं त्रिभु जत्वं याति तत्रैककोण लग्नलघुभुजयोरैक्यं भूमि रितरौ भुजौ च तल्लम्बादूनः सङ्कोच्यमानः कर्णः कथञ्चिदपि न स्यात् तदितरोभूमेरधिकोन स्यादेवमुभयथापि एतदनुक्तमपि बुर्द्धमता ज्ञायते। विषमचतुर्भुजफलानयदाय करणसूत्रं वृत्तार्द्धम्। त्र्यस्रेतु कर्णोभयतः स्थिते वे तयोः फलैक्यं फलमत्र नूनम्। अनन्तरोक्तक्षेत्रान्तस्त्र्यस्रयोः फले। ९२४। २३१। अनयोरैक्यं। ३२३४। तस्य फलम्।

समानलम्बस्याबाधादिज्ञानाय करणसूत्रं वृतद्वयम्। समानलम्बस्य चतुर्भुजस्य मुखोनभूमिं परिकल्प्य भूमिम। भुजौ भुजौ त्र्यस्रवदेव साध्ये तस्याबधे लम्बमितिस्ततश्च।। अबाधयोना चतुरस्रभूमिस्तल्लम्बवर्ग्गेक्यादं श्रुतिः स्यात्। समानलम्बे लघुदोःकुवीगान्मुखान्यदोःसंयुतिरल्पिका स्यात्।।

उदाहरणम्। द्विपञ्चाशन्मितव्येकचत्वारिंशन्मितौ भुजौ। मुखन्तु पञ्चविंशत्या तुल्यं षष्ट्या मही किल।।। अतुल्यलम्बकं क्षेत्रमिदं पूर्व्वैरुदाहृतम्। षट्पञ्चाशत्त्रिषष्टिश्च नियते कर्णयोर्म्मिती।। फर्णौ तत्राऽपरौ ब्रूहि समलम्बञ्च तच्छ्रुती।।

अत्र वृहत् कर्णं त्रिषष्टिमितं प्रकल्प्यात्र जातः प्राग्वदन्यः कर्णः। ५६।

अथ षट्पञ्चाशत्स्थाने द्वाद्विंशन्मितं कर्णं। ३२। प्रकल्प्यन्यासः

प्राग्वत्साध्यबाने कर्णे जातं करणीखण्डद्वयं। ६२१। २७००। अनयोर्मूलयो २४ ५१ २३ २४ २५ २५ रैक्यं द्वितीयः कर्णः ७२ २२ २५न्यासः अथ तदेव क्षेत्रञ्चेत्समलम्बम्। तदा सुखोतभूमिं (अत्र क्षेत्रे लम्बांशहारयोः षट्शते पतिते) न्यासः

अत्राबाधे जाते ३ / ५ १७२ / ५ लम्बश्च करणीगतोजातः ३८०१६ २५ आसन्नमूलकरणेन जातः ३८ ६२२ ६२५

अयं तत्र चतुर्भुजे समलम्बः लघ्वाऽऽबाधोनितसमभूमेर्लम्बस्थ च वर्गयोगः। ५०४९। अयं कर्णबर्गः एवं वृहदाबाधातोद्वितीयकर्णवर्गः। २१७६। अनयोरासन्नमूलकरणेन जातौ कर्णौ ७१ / १ / २०। ४६१३ / २० एवं चतुरस्रे तेष्वेव बाहुष्वन्यौ कर्णौ बहुधा भवतः एवमनियतत्वेऽपि नियतावेव कर्णावानीतौ ब्रह्मगुप्ता द्यैस्तदानयनं यथा।

कर्णाश्रितभुजघातैक्यमुभयथाऽन्योऽन्यभाजितं गुणयेत्। योगेन भुजप्रतिभुजहत्योः कर्णौ पदे विषमेन्यासः

कर्णाश्रितभुजवातेति एकवारमनयो। २५। ३९ र्घात। ९७५। स्तथा। ५२। ६०।ऽनयोर्घातः। ३१२०। तयोर्द्वयोरैक्यम्। ४०९५। तथा द्वितीय वारम्। २५। ५२। अनयोर्घाते जातम्। १३००। तथा द्वितीयवारम्। ३९। ६०। अनयोर्घाते। २३४०। घातयोर्द्वयोरैक्यम्। ३६४०। भुजप्रतिभुज। ५२।। ३९। घातः। २०२८। पश्चात्। २५। ६०। अनयोर्बधः। १५००। तयोरैक्यम्। ३५२८। अनेनैक्येन। ३६४०। गुणितं जातं पूर्ब्बैक्यम्। १२८४१९२०। प्रथमकर्णाश्रितभुजघातैक्येन। ४०९५। भक्तं लब्धम्। ३१३६। अस्य मूलम्। ५६। एकः कर्णः तथा द्वितीय कर्णार्थं प्रथमकर्णाश्रितभुजघातैक्यं। ४०९५। भुजप्रतिभुजबधयोगः ३५२८ गुणितं जातम्। १४४४७१६०। अन्यकर्णाश्रितघातैक्येन। ३६४०। भक्तं लब्धम्। ३९६९। अस्य मूलं। ६३। द्वितीयः कर्णः। अस्य कर्णानयनस्य प्रक्रियागौरवं लघुप्रक्रियादर्शनद्वारेणाह। अभीष्टजात्यद्वयबाहुकोटयः परस्परं कर्णडताभुजाइति। चतुर्भुजे यद्विषमं प्रकल्पितं श्रुती तु तत्र त्रिभुजद्वयात्ततः।। बाह्वोर्बधः कोटिवधेन युक् स्यादेका श्रुतिः कोटिभुजाद्बधैक्यम्। अन्या लघौ सत्यपि साधनेऽस्मिन् पूर्ब्बैः कृतं यद्बहु तन्न विद्मः।।

जात्यक्षेलद्वयस्यन्यासः एतयोरितरेतरकर्णहताभुजाः कोटयः, इतरेतरकर्ण हताः कोटयोभुजाइति कृते जातं। २५। ६०। ५२।। ३९। तेषां महती भूर्लघु मुखमितरौ बाहू इति प्रकल्प्य क्षेत्रदर्शनं इमौ कर्णौ महतायासेनानीतौ। ६३। ५६। अस्यैव जात्यद्वयस्योत्तरोत्तरभुजकोट्यो र्घातौ जातौ। ३६। २०। अनयोरैक्यमेकः कर्णः। ५६। बाह्वोः। ३। ५। कोट्योश्च। ४। १२। घातौ। १५। ४८। अनयोरैक्यमन्यः। ६३। एवं सुखेन श्रुती स्यातां अथ यदि पार्श्वभुजमुखयोर्व्यत्ययं कृत्वा न्यस्तं क्षेत्रम्न्यासः

तदा जात्यद्वयकर्णयोर्बधः। ६५। द्वियकर्णः।

अथ सूचीक्षेत्रीदाहरणम्। क्षेत्रे यत्र शतत्रयं। ३००। क्षितिमितिस्तत्त्वेन्दु। १२५। तुल्यं मुखं बाहू खोत्कृतिभिः। २६०। शरातिधृतिभि। १९५। स्तुल्यौ च तत्र श्रुती। एका खाष्टयमैः। २८०। समा तिथिगुणै। ३१५। रन्याऽथ तल्लम्बकौ तुल्यौ गोधृतिभि। १८९। स्तथाजिनयमै। २२४। र्योगाच्छ्रवोलम्बयोः।। तत्खण्डे कथयाधरे श्रवणयोर्योगाच्च लम्बाबधे तत् सूची निजमार्गवृद्धभुजयोर्योगाद्यथा स्यात्ततः। साबाधं वद लग्वकञ्च भुजयोः सूच्याः प्रमाणे च के सर्व्वं गाणितिक! प्रचक्ष नितरा क्षेत्रेऽत्र दक्षोऽसि चेत्।सूच्याबाधा १५३६ / १७ सूच्यावाधा ३५६४ / १७ (अत्रचित्र १ प्रथमपीठे २५२ इति शुद्धम् १५८ इत्यश्रुद्धम्)

भूमानं। ३००। मुखं। १२५। बाहू। २६०। १९५। कर्णौ। २८०। ३१५। लम्बौ। १८९। २२४।

अथ सन्ध्याद्यानयनाय करणसूत्रं वृत्तम्। लम्ब तदाश्रितबाह्वोर्मध्यं सन्ध्याख्यमस्य लम्बस्य। सन्ध्यो ना भूः पीठं साध्यं यस्याधरं खण्डम्।। सन्धिर्द्विस्थः परलम्बश्रवणहतः परस्य पीठेन। भक्तोलम्बश्रुत्योर्योगात्स्यातामधःखण्डे”

लम्बः। १८९। तदाश्रितभुजः। १९५। अनयोर्मध्ये यल्लम्बलम्बाश्रितबाहुवर्ग्गेत्यादिनाऽऽगताऽऽबाधा सन्धिसंज्ञा। ४८। तदूनितभूरिति द्वितीयाऽऽबाधा सा पीठसंज्ञा। २५२।

एवं द्वितीयलम्बः। २२४। तदाश्रितभुगः। २६०। पूर्बवत् सन्धिः। १३२। पीठम्। १६८। खण्डं साध्यम्।

अथाद्यलम्बस्य। १८९ अधःखण्डं साध्यम्। अस्य सन्धिः। ४८। द्विःस्थः। ४८। परलम्बेन।। २२४। श्रवणन च। २८०। पृथग्गुणितः। १०७५२।। १३४४०। परस्य पीठेन। १६८ भक्तः।

एवं द्वितीयलम्बस्य।। २२४।। सन्धिः।। १३२।। परलम्बेन १८९।। कर्णेन च ३१५ पृथग्गुणितः परस्य पीठेन २५२।। भक्तोलब्धं लब्धाधःखण्डम् ९९।। श्रवणाधःखण्डञ्च १६५।। अथ कर्णयोर्योगादधोलम्बज्ञानार्थं सूत्रं वृत्तम्। लम्बौ भूधौ निजनिजपीठविभक्तौ च वंशौ स्तः। ताभ्यां प्राग्वच्छ्रुत्योर्य्योगाल्लम्बः कुखण्डे च।।लम्बौ।। १८९।। २२४।। भू ३०० तौ जातौ ५६७२००।। स्वस्वपीठाभ्यां २५२, १६८ भक्तौ एवमत्र लब्धौ वंशौ।। २२५। ४००।। आग्याम् अन्योऽन्यमूलाग्रगसूत्रयोगादित्यादिकरणेन लब्धः कर्णयोगादधोलम्बः। १४४। भूखण्डे च। १०८। १९२। अथ सूच्याऽऽबाधालम्बभुजज्ञानार्थं सूत्रं वृत्तत्रयम्। लम्बहृतोनिजसन्धिः परलम्बगुणः समाह्वयोज्ञेयः। समपरसन्ध्योरैक्यं हारस्तेनोद्धृतौ तौ च।। सम परसन्धा भूघ्नौ सूच्याऽऽबाधे पृथक् स्याताम्। हारहृतः परलम्बः सूचीलम्बोद्धृतौ सूच्याः। एवं क्षेत्रक्षोदः प्राज्ञैस्त्रैराशिकाज्ज्ञेयः।।

अत्र किलायं लम्बः। २२४। अस्य सन्धिः। १३२। अयं परलम्बेन। १८९। गुणितो। २२४।ऽनेन भक्तो जातः समाह्वयः ८९१ / ८। अस्य परसन्धेश्च ४८। योगोहारः १२७५ / ८ अनेन भू। ३००। घ्नः समः २६७३०० / ८ परसन्धि १४४०० / १ श्च भक्तो जाते सूच्याऽऽबाधे ३५ ६४/१७। १५३६ / १७ एवं द्वितीयलम्बस्य १८९ सन्धिः ४८ परलम्बेन २२४ गुणितः १०७५२ स्वलम्बेन १८९ भक्तः) द्वितीयसमाह्वयः ५१२ / ९ (उक्तरीत्या) द्वितीयोहारः १७००/९ अनेन ३०० भूघ्नःस्वीयःसमः १५३६०० / ९ परसन्धिश्च ३९६०० / १ भक्तोजाते सूच्याऽऽबाधे १५३६ / १७ ३५६४ / १७। परलम्बः। २२४। भूमि। ३०० गुणोहारेण १७०० / ९ भक्तोजातः सूचीलम्बः ६०४८ / १७ सूचीलम्बेन भुजौ। १९५। २६०। गुणितौ स्वस्व लम्बाभ्यां। १८९। २२४। यथाक्रमं भक्तौ जातौ स्वमार्गवृद्धौ सूचीभुजौ ६२४० / १७ ७०२० / १७

एवमत्र सर्वत्र भागहारराशिं प्रमाणं गुण्यगुणकौ तु यथायोग्यं फलेच्छे प्रकल्प्य सुधिया त्रैराशिक मूह्यम्।।

अथ वृत्तक्षत्रे करणसूत्रं वृत्तम्। व्यासे भनन्दाग्नि। ३९२७। हते विभक्ते स्ववाणसूर्य्यैः। १२५०। परिधिः स सूक्ष्मः। द्वाविंशतिघे विहृतेऽथ शैलैः। ७। स्थूलोऽ थवा स्याद्व्यवहारयोग्यः।।

उदाहरणम्। विष्कम्भमानं किल सप्त यत्र तत्र प्रमाणं परिधेः प्रचक्ष्व। द्वाविंशातय त्परिधिप्रमाणं तद्व्याससङ्ख्याञ्च सखे! विचिन्त्य।।न्यासः व्यासमानं। ७। लब्धं नरिधि मानं २१ १२३९ १२५० स्थूलोवा परिधिर्लब्धः। २२। अथवा परिधिताव्यासानयनाय न्यासःगुणहारविपर्य्ययेण व्यासमानं सूक्ष्मं ७ ११ ३९२७ स्थूलं वा। ७।

वृत्तगोलयोः फलानयने करणसूत्र वृत्तम्। वृत्त क्षेत्रे परिधिगुणितव्यासपादः फलं यत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम्। गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं षड्भिर्भक्तं भवति नियतं गोलगर्भे वनाण्यम्।।

उदाहरणम्। यद्व्यासस्तुरगैर्मितः किल फलं क्षेत्रे समे तत्र किं व्यासः सप्तमितश्च यस्य सुमते! गोलस्य तस्यापि किम्। पृष्ठे कन्दुकजालसनिभफलं गोलस्य तस्यापि कि मध्ये ब्रूहि घनं फलञ्च विमलाञ्चेद्वेत्सि श्रीलावतीम्।।वृत्तक्षेत्रफलदर्श नाय न्यासः व्यासः। ७। परिधिः २१ १२३९ १२५० क्षेत्रफलम् ३८ २४२३ ५०००गोलपृष्ठफलदर्शनाय न्यासः व्यासः। ७। गोलपृष्ठफलम् १५३ ११७३ १२५०गोलान्तर्गतवनफसदर्शनाय न्यासः व्यासः। ७। गोलस्यान्तर्गतं घनफलम् १७९ १४८७ २५००

अथ प्रकारान्तरेण तत्फलानयने करणसूत्रं सार्द्धवृत्तम्। व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्रभक्ते। रुद्राहते शक्रहृतेऽथ वा स्यात् स्थूलं फलं तद्व्यवहारयोग्यम्।। घनीकृतव्यासदलं निजैकविंशाशयुग्गोलघनं फलं स्यात्।।

व्यासः। ७। अस्य वर्गे। ४९। भनवाग्निनिघ्ने पञ्चसहस्रभक्ते तदेव सूक्ष्मं फलम् ३८ २४२३ ५०००

अथवा व्यासस्य वर्गे। ४९। रुद्राहते ११। ५३९। शक्रहृते १४ लब्धं स्थूलं फलम् ३८ १ २ घनीकृतव्यासदलं ३४३/२ निजैकविशांशयुक् गोलस्य घनफलं स्थूलं १७९ २ ३

शरजीवानयनाय करणसूत्रं सार्द्धवृत्तम्। ज्याव्यासयोगान्तरघातमूलं व्यासस्तदूनोदलितः शरः स्यात्। व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीह जीवा। जीवार्द्धवर्गे शरभक्तयुक्ते व्यासप्रमाणं प्रवदन्ति वृत्ते।।

उदाहरणम्। दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता सखे!। तत्रेषुं वद वाणाज्ज्यां ज्यवावाणाभ्याञ्च विस्तृतिम्।। १८०।। न्यासःव्यासः। १०। ज्या। ६। योग। १६। अन्तरं। ४। घातः। ६४। मूलम्। ८। एतः दूनोव्यासः। २। एतदूदलितः। १। जातः शरः। १।

व्यासात्। १०। शरोनात्। ९। शर। १। सङ्गुणात्। ९। मूलम्। ३। द्विनिघ्नं जाता जीवा। ६।

एवं ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानयनं यथा जीवा। ६। र्द्ध। ३। वर्ग्गे। ९। शर। १। भक्ते। ९। शर। १। युक्ते जातोव्यासः। १०।

अथ वृत्तान्तस्त्र्यस्रादिनवास्रान्तक्षेत्राणां भुजमानानयनाय करणसूत्रं वृत्तत्रयम्। त्रिद्व्यङ्काग्निनभश्चन्द्रै १०३९२३। स्त्रिवाणाष्टयुगांष्टभिः। ८४८५३। वेदाग्निवाणखाश्वैश्च। ७०५३४। खखाभ्राभ्ररसैः। ६००००। क्रसात्।। बाणेषुनखवाणैश्च। ५२०५५। द्विद्विनन्देषुसागरैः। ४५९२२। कुरामदशवेदैश्च ४१०३१। वृत्तव्यासे समाहते।। खखखाभ्रार्क्क। १२००००। सम्भक्ते लभ्यन्ते क्रमशोभुजाः। वृत्तान्तस्त्र्यस्रपूर्ब्बर्वाणां नवास्मान्तं पृथक् पृथक्।।

उदाहरणम्। सहस्मद्वितयव्यासं यद्वृत्तं तस्य मध्यतः। समत्र्यस्रादिकानां मे भुजान्वद पृथक् पृथक्।। अथ वृत्तान्तस्त्रिभुजे भुजमानानयनाय न्यासःव्यासः।। २०००।। त्रिद्व्यङ्काग्निनभ श्चन्द्रौ। १०३९२३। र्गुणितः। २०७८४६००० खखखाभ्रार्कै। १२००००। र्भक्ते लब्धं त्र्यस्रे भुजमानम् १७३२ १ वृत्तान्तश्चतुर्भुजे भुजमानानयनाय २०।सान्यः व्यासः। २०००। त्रिवाणाश्वयुगाष्टभि। ८४८५३। र्गुणितः। १६९७०६०००। खखखाभ्रार्कै। १२०००० र्भक्ते लब्धं चतुरस्रे भुजमानम् १४१४ १३ वृत्तान्तःपञ्चभुजे भुजमानानयनाय ६०न्यासः व्यासः। २०००। वेदाग्निवाणखाश्वै। ७०५३४ र्गुणितः।। १४१०६८०००।। खखखाभ्रार्कै १२०००० र्भक्ते लब्धं पञ्चास्रे भुजमानम् ११७५ १७ ३० वृत्तान्तःषद्भुजे भुजमानानयनाय न्यासःव्यासः २०००। खखाभ्राभ्ररसै ६०००० र्गुणितः १२००००० खखखाभ्रार्कै १२०००० उक्ते लब्धं षडस्रे भजमानम्। १००० वृत्तात्तःसप्तभुजमाननयनाय न्यासःव्यासः २०००० वाणेषुनवाणै ५२०५५ र्गुणितः।। १०४११०००० खखाभ्रार्कै १२०००० र्भक्ते लब्धं सप्तास्रे भुजमानम् ८६७ ११ ३० वृत्तान्तरष्टभुजे भुजमानानयनाय न्यासःव्यासः २००० द्विद्विनन्देषुसागरै ४५९२२ र्गुणतः।। ९१८४४०००।। ख० खखाभ्रार्कै १२००० र्भक्ते लब्धमष्टास्रे भुजमानम् ७६५ ११ ३० वृत्तान्तर्नवभुजे भुजमानानयनाय न्यासः

व्यासः २००० कुरामदशवेदै। ४१०३१। र्गुणितः ८२०६२०००। खखाभ्रार्कै। १२००००। र्भक्ते लब्धंनवास्रे भुजमानम् ६८३ ११ २० एवमिष्टव्यासादेभ्योऽन्याअपि जीवाः सिध्यन्तीति तास्तु गोले ज्योत्पत्तौ वक्ष्ये। अथ स्थूलजीवाज्ञानार्थं लघुक्रियया करणसूत्रं वृत्तम् चापोननिघ्नपरिधिः प्रथमाह्वयः स्यात्पञ्चाहतः परिधिवर्ग चतुर्थभागः। आद्योनितेन खलु तेन भजेच्चतुर्घ्नव्यासाहतं प्रथमाप्तमिह ज्यका स्यात्। उदाहरणम्। अष्टादशांशेन वृतेः समानमेकादिनिघ्नेन च यत्र चापम्। पृथक् पृथक्तत्र वदाशु जीवां खार्कैर्मितं व्यासदलञ्च यत्र। न्यासः(अत्रचित्रे ४ जीवामानं २२४ इत्यशुद्धम् १५४ इतिशुद्धम्)

व्यासः।। २४०।। अत्र किलाङ्कलाघवाय विंशतेः सा र्द्धार्कशतांशमिलितः सूक्ष्मपरिधिः ७५४ अस्याष्टादशांशः ४२ अत्राप्यङ्कलाघवाय तयोरष्टादशांशयुतोगृ- हीतः। अनेन पृथक् पृथगेकादिगुणितेन तुल्ये धनुषि कल्पिते ज्याः साध्याः।

अथवाऽत्र सुखार्थं परिधेरष्टादशांशेन परिधिं धनूंषि चापवर्त्त्य ज्याः साध्यास्तथाऽपि ताएव भवन्ति। अपवर्त्तिते न्यासः परिधिः १८ चापानि च। १। २। ३। ४। ५। ६। ७। ८। ९। यथोक्तकरणेन लब्धाजीवाः। ४२। ८२। १२०। १५४। १८४। २०८। २२६२३६। २४०।

अथ चापानयनाय करणसूत्रं वृत्तम्। व्यासाब्धिवातयुतमौर्व्विकया विभक्तोजीवाङ्घ्रिपञ्चगुणितः परिधेस्तु वर्गः। लब्धोनितात्परिधिवर्गचतुर्थभागादाप्ते पदे वृतिदलात्पतिते धनुः स्यात्।।

उदाहरणम्। विहिताइह ये गुणास्ततोवद तेषा मधुगा धनुर्मितिमु। यदि तेऽस्ति धनुर्गुणक्रियागणिते गाणितिकातिनैपुणम्।।

न्यासः। ४२। ८२। १२०। १५४। १८४। २०८।। २२६। २२६। २४०। सएवापवर्त्तितपरिधिः। १८

जीवाद्व्रिणा (२१/२) पञ्चभि। ५। श्च परिधे। १८। र्वर्गो ३२४ गुणितः। १७०१०। व्यासा। २४०। ब्धि। ४। घात। ९६०। युतमौर्विकयानया। १००२। विभक्तोलब्धो। १७।ऽत्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधिकसहस्रांशयुतोगृहीतोऽनेनोनितात्परिधि। १८। वर्ग। ३२४। चतुर्थभागात्। ६४। पदे प्राप्ते। ८। वृति। १८। दलात्। ९। पतिते। १। जातं धनुः। एवं जात–नि धनूंषि। १। २। ३। ४! ५। ६। ७।। ८। ९। एतानि परिधिष्वष्टादशांशेन गुणितानि स्युः”

तत्र लीलावतीप्रदर्शितप्रथमक्षेत्रे कर्णस्यभूजकोटिवर्गयोग मूलात्मकत्वं यदुक्तं तत्रोपपत्तिः प्रदर्श्यते। समचतुर्भुजे हि क्षेत्रे “समश्रुतौ तुल्यचतुर्भुजे च तथायते तद्भुज कोटिघातः” इत्यनेन चतुर्हस्तमितभुजस्य कोटिर्त्वन कल्पितस्य इतरतथाविधभुजेन गुणिते १६ हस्तमितं क्षत्रफलम् अतस्तद्भुजस्य क्षेत्रफलस्य १६ हस्तस्य मूलं ४ हस्तात्मकोभुजः। एवं त्रिहस्तमितकोटेर्भुजरूपतया कल्पनेन समचतुर्भुजक्षेत्रकरणे उक्तरीत्या तत्फलं ९ हस्ताः क्षेत्रफलं कोटिरूपभुजस्य तन्मूल ३ हस्तरूपता। अनयो र्योगः २५ हस्ताः, यस्य च क्षेत्रस्य कर्ण्णरूपभुजत्वेन कल्पने समचतुर्भुजकरणे पूर्व्वोक्तं २५ हस्तमितफलं तुल्यं भवति तादृशसमचतुर्भुजे क्षेत्रे २५ अङ्कस्य मलरूपा कर्णमितिः। तथाहि पञ्चहस्तमितसमचतुर्भुजक्षेत्रे भुजकोटिरूपचतुर्भुजत्वेन कल्पनेन समचतुर्भुजेत्रफलयोः १६, ९, हस्तात्मकयोः समावेशः इत्यतः भुजकोटिवर्गयोगमूलरूपता कर्ण्णस्य युक्ता। एवमन्यत्रापि उपपाद्यमिति बहवः। अन्यथाप्यत्रोपपत्तिः प्रदर्श्यते भुजं कोटिं कर्ण्णञ्च व्यासस्थानायं कृत्वा वृत्तार्द्धक्षेत्रकरणे तत्र भुजव्यासक क्षत्रस्य “व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्रभक्ते। रुद्राहते शक्रहृतेऽथ वा स्यात् स्थूलं फलमिति” रीत्या भुज ४ रूपव्यासस्य वर्गे १६ रुद्र ११ गुणिते १७६। शक्र १४ हृते १७६/१४ स्थूलंफलं तदर्द्धं १७६/२८, वृत्तक्षेत्रार्द्धस्य स्थूलं फलम्। एवं कोटिरूप ३ व्यासवर्गः ९। ११ गुणितः ९९। शक्र १४ भक्तः, ९९/१४ तदर्द्धं ९९/२८ तस्य क्षेत्रफलम् अनयोर्योगः २७५/२८ इदं कर्णव्यासकवृत्तक्षेत्रार्द्धफलतुल्यम् तादृशफलेन कर्ण्णमानानयनञ्च गुणहारादिव्यत्ययेन कार्य्यं यथा २७५/२८ शक्र १४ गुणितः २७५। २। रुद्र ११ भक्तः २५/२ एतच्च तत्क्षेत्रफलंतच्च द्विगुणितं २५ तस्य मूलं ५ कर्ण्णः। एवं सूक्ष्मफलं तु मुजकोटिकर्ण्णव्यासके वृत्तक्षेत्रे व्यासस्य वर्गे भनवाग्नि ३९२७ गुणिते ५००० भक्ते भवति तत्रोक्तरीत्या भुजकोटिव्यासकक्षेत्रे फलयोग तुल्यता कर्ण्णव्यासकवृत्तक्षत्रफलस्येति कल्प्यम्। अयमेव पक्षः भास्कराचार्य्यस्याभिमतः कर्णस्य भुजकोटिवर्गयोगमूलात्मकत्वेन तेनाभिधानात् यथानिर्द्दिष्टवृत्तक्षेत्र फलस्य व्यासवर्गघटितत्वेन तेनामिधानाच्च। अतस्तथा प्रत्यभिज्ञायते इत्यस्माभिः नवोनः उपपत्तिपथ उद्भावितः।

वृत्तान्तर्गतसमत्रिकोणानां ये भुजा उक्तास्तेषां तथा मानत्वे उपपत्तिर्दर्श्यते। तत्र क्रमज्याशब्दे २३०३ पृ० सिद्धान्तोक्ताः २४ अर्द्धजीवा दर्शिताः। तत्र चक्रकला २१६०० तुल्यः परिधिः। ताश्च कलाः “व्यासे भनन्दाग्नि३९२७ हते विभक्ते खवाणसूर्य्यैः १२५० परिधिः स सूक्ष्मः” इत्युक्तरीत्या वैपरीत्येन खवाणसूर्य्य १२५० हताः २७००००००। भनवाग्नि ३९२७ भक्ताः। ६८७६ व्यासस्तदर्द्धं ३४३८ इयमन्तिमज्या त्रिज्येति चोच्यते। तत्रानुपातार्थं चक्रकलातुल्य २१६०० परिधिवृत्तस्यान्तः स्थत्रिकोणादीनां क्रमेण भुजाः साध्यन्ते। तत्र चक्र कलानां २१६०० क्रमेण त्रिचतुरादिभिर्भक्तानामर्द्धानि क्रमेण चापार्द्धानि स्युः। तानि च ३६००। २७००। २१६०। १८००। १५४३। १३५०। १२००। क्रमेण एतत्कलामितानि। “तत्त्वाश्विभक्ताअसवः कला वा यल्लब्धसंख्या गतशिञ्जिनी, सा। गतैष्यजीवातरशेषघातात् तत्त्वाश्विलब्ध्या सहितेपिसता स्यात्” इत्युक्तारीत्या ताः कलाः क्रमेण तत्त्वाश्वि २२५ भक्ताः क्रमेण त्र्यस्रे १६ चतुरस्रे। १२ पञ्चास्रे ९। १३५। शेषः षडस्रे ८। सप्तास्रे ६। १९३। शेषः अष्टास्रे ६। नवास्रे ५। ७५ शेषः तथाच त्रिकोणे क्रमज्यासु पठिता षोडशी २९७७। अर्द्धजीवा। चतुरस्रे तत्रोक्ता द्वादशी २४३१ पञ्चकोणे तत्रोक्ता नवमी १९१० गता एष्या दशमी २०९३। तयोरन्तरं १८३। शेषकला १३५ तयोर्घातः २४७०५ तत्त्वाश्वि २२५ भक्तो लब्धिः ११० अनया सहिता गतजीवा। २०२०। इयं अर्द्धजीवा। षडस्रे तत्रोक्ता अष्टमी १७। ९। सप्तास्रे षष्ठी जीवा १३१५ गता। एष्या १५ २० तयोरन्तरं २०५। शेषकलाः १९३ अनयोर्घातः ३९५६५। तत्त्वाश्विभक्ते १७५ लब्धिः अनया युक्ता गतजीवा १४९० इयं सप्तास्रे अर्द्धजीवा। अष्टास्रे षष्ठी १३१५। नवास्रे पञ्चमी ११०५ गता एष्या १३१५ तयोन्तरं २१० शेषकला ७५। तयोर्घातः २२५० तत्त्वाश्विभक्तः लब्धिः १० अनया सहिता गतजीशा ११०५। १११५ नवास्रे अर्द्धजीवा। एताद्विगुणाः क्रमेण चक्रकला २१६०० तुल्य परिधिकवृत्ते समत्र्यस्रादीनां भुजाः यथा ५९५४। ४८६२। ४०४०। ३४३८। २९८०। २६३०। २२३०। क्रमेण भुजाः। यदि चक्रकलापरिधिव्यासार्द्धे ३४३८। क्रमेण एते भुजाः तदा फलेच्छयोः समानजातीयत्वकरणेन षष्टिगुणितप्रकृतव्यासार्द्धे क इत्यनुपाते फल द्विगुणितं किञ्चिन्यूनाधिका षष्टिगुणिते १२०००० व्यासे त्रिद्व्यङ्गाग्निनभश्चन्द्रादयः क्रमेणाङ्काःलब्धाः। यदि खखखार्क १२०००० व्यासवृत्ते एते १०३९२३। ९४८५३। ७०५ ३४५। ६००००। ५२०५५। ४५९२२। ४१०३१। क्रमेण भुजाः तदा इष्टव्यास २००० वृत्ते के इत्यनुपातेन उक्तानि फलानि भुजमानानि स्युरिति

अत्र वृत्तान्तर्गंतं त्रिकोणञ्च समत्रिकोणं तत्र सर्वेषां भुजानां तुल्यत्वात्। तथाहि परिधितृतीयांश रूपाणां सर्व्वचापांशानां तुल्यतया तुल्यचापांशेषु जीवास्थानीयभुजानां तुल्यत्वौचित्वात्। अन्यान्यक्षेत्रेषूपपत्तिर्लीलावतीटीकायां दर्शिता विस्तरभयान्नोल्लिखिता। ९ स्थानमात्रे “धर्म्मक्षेत्रे कुरुक्षेत्रे” गीता। तत्र केदारे “यादृशं तूप्यते वीजं क्षेत्रे कालोपपादिते” येऽक्षेत्रिणो वीजवन्तः परक्षेत्रे प्रवापिणः” मनुः कलत्रे “अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः” याज्ञ० देहे “इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते” गीता। क्षेत्रज्ञः “क्षेत्रक्षेत्रज्ञयोरेवम्”। “गीता क्षेत्रेष्वेवमजोऽयमात्मा” श्रुतिः तीर्थस्थाने “प्रविशन्तस्तु तत्क्षेत्रं सर्वे स्यु र्विष्णुमूर्त्तयः”। उत्कलख०। क्षेत्र विद्यतेऽस्य इनि क्षेत्रिन्, ठन् क्षेत्रिक क्षेत्रस्वामिनि त्रि० “फलं त्वनभिसन्धाय क्षेत्रिणां वीजिनां तथा” कुर्व्वन्ति क्षेत्रिणोयद्वद् प्रत्यक्ष क्षेत्रिकस्यार्थः” “क्षेत्रिकस्यैव तद्वीजम्” मनुः। एतस्मिन्नुपपदे कर्म्मभूते कर्त्तरि कृञः टः। क्षेत्रकरक्षेत्रकारिणि त्रि० स्त्रियां ङीप्।

***