क्षप = क्षपे अद० चुरा० उभ० सक० सेट्। क्षपयति ते अचिक्षपत् त। क्षपयाम् बभूव आस चकार चक्रे। “अरण्ये काष्ठवत् त्यक्त्वा क्षपयेयुस्त्र्यहं ततः” मनुः

क्षप = सहने चुरा० इदित् उभ० सक० सेट्। क्षम्पयति ते अचक्षम्पत् त। क्षम्पयाम् बभूव आस चकार चक्रे। अयं मित् “तेन इणि अक्षम्पि–अक्षाम्पि। णमुलि क्षम्पं क्षम्पं–क्षाम्पं क्षाम्पम्” अनुपधाया अपि वा दीर्घः।

क्षप् = स्त्री चु० क्षप–क्विप्। रात्रौ “स क्षपः परि षस्वजे” ऋ० ८। ४१। ३। “क्षपोरात्रीः भा० “क्षप उस्रा वरिवस्यन्तु देवाः” ६। ५२। १५।

क्षप = पु० चु० क्षप–कर्म्मणि अच्। उदके निघ०

क्षपण = पु० क्षपयति विषयरागं क्षप–ल्यु। बौद्धसंन्यासिनि दिगम्बरे स्वार्थे क। तथार्थे “एकः क्षपणक। शाकाहर्त्ता तत्र क्षपणक। दश शाकाशाः। यत्र अपणक! दश शाकाशास्तत्र क्षपणक। का शाकाशा” उद्भ० “स पथि नग्नं क्षपणकमपश्यत् “भा० आ० ७८९ श्लो० “नग्नक्षपणकेदेशे- रजकः किं करिष्यति” पञ्चत० भावे ल्युट्। २ क्षेपणे “सव्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् “भुक्त्वातोऽन्यतमस्यान्नममत्या क्षयणं त्र्यहम्” मनुः कर्त्तरि ल्यु। ३ क्षपके त्रि० “चरितानि यत्र गायन्ति लोकशमलक्षपणानि भक्ताः” भाग० ३। १५। ७० श्लो०

क्षपणी = स्त्री क्षप–कर्म्मणि ल्युट् ङीप्। क्षेपण्याम् अमरटी०

क्षपण्यु = क्षप–बा० अन्यु। अपराधे शब्दमा०।

क्षपा = स्त्री क्षपयति चेष्टाम् क्षप–अच्। १ रात्रौ २ हरिद्रायां ह अमरः “क्षपातमस्काण्डमलीमसं नभः”। “प्रतिक्षपं हर्म्म्यतलेषु यत्र” माघः “दिनक्षपामध्यगतेव सन्ध्या” रघुः।

क्षपाकर = पु० क्षपां करोति कृ–ट। १ चन्द्रे २ कर्पूरे च अमरः क्विप् क्षपाकृदयत्र। “विशदाश्मकूटघटिताः क्षपाकृतः” माघः

क्षपाचर = पुंस्त्री० क्षपायां चरति चर–ट। १ राक्षसे “निर्याणे च मतिं कृत्वा निधायासिं क्षपाचरः” भा० व० २८८ अ०। स्त्रियां जातित्वात् ङीष्। २ रात्रि चरमात्रे त्रि०

क्षपाट = पु० स्त्री० क्षपायासटति अट–पचा० अच्। १ राक्षसे “ततः क्षपाठैः पृथुपिङ्गलाक्षैः” भट्टिः स्त्रियां ङीष्।

क्षपानाथ = पु० ६ त०। १ चन्द्र २ कर्पूरे च “क्षिप्रं क्षपानाथ इवाधिरूढः” माघः क्षपापत्यादयोऽप्यत्र।

क्षम = सहने भ्वादि० आत्म० सक० वेट्। क्षमते अक्षमिष्ट अक्षंस्त चक्षमे क्षान्तः क्षात्तिः। क्षमिता क्षन्ता। “इन्द्र त्वा यज्ञः क्षममाण मानट्” ऋ० १०। १०३। ६। योनित्यं क्षमते तात! बहून् लोकान् स विन्दति” भा० व० १०३५ श्लो०। “कार्पण्यात् साधुभावाच्च कुन्ती राजन्न चक्षपे” भा० आ० १५७ अ०। “ऋते रवेः क्षालयितुं क्षमेत कः” माघः “कुरुस्थ्यं भीरु! यत्तेभ्योद्रुहद्भोऽपि क्षमामहे” ट्टिः। षित् क्षमा “तेजः क्षमा वानैकान्तम्” माघः पैदिके तु नि० क्षमति क्षमिति। इति पा।

क्षम = सहने दिवा० पर० सक० सेट् शमादि० इरित्। क्षाम्यति अक्षमत् अक्षनीत्। चक्षाम “कामं क्षाम्यतु यः क्षमी” माघः।

क्षम = न० क्षम–अच। १ युद्धे। २ शक्ते, “रुषितुं सहितुं रणे–काकुत्स्थं भीरु! कः क्षमः” भट्टिः आत्मकर्भ क्षयं देहस्” रघुः “प्रियासु बालासु रतक्षमासु” च नैप्र० ४ क्षमावति त्रि० “अतोऽत्र ३ हिते, किञ्चित् भवतीं बहुक्षमाम्” कुमा०।

क्षमता = स्त्री० क्षमस्य भावः तल्। १ योग्यतायां, शब्दनिष्ठे २ अर्थ्यकाशनसामर्थ्ये च “श्रुतिर्द्वितीया च क्षमता च लिङ्गम्” भट्टकारिका।

क्षमा = स्त्री क्षम अङ्। “बाह्ये वाध्यात्मिके चैव दुःखे चौत्पातिके क्वचित्। न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता” ‘आक्रुष्टोऽभिहतो वापि नाक्रोशेन्न च हन्ति वा। अदुष्टैर्वाङ्मनःकायैस्तितिक्षोः सा क्षमा मतेतिं’ चोक्त लक्षणायाम् तितिक्षायाम् चित्तवृत्तिभेदे, “आक्रुष्टोऽभिहतो यस्तुनाक्रोशेन्न हनेदपि। अदुष्टैर्वाडमनोकार्यै स्तितिक्षुश्च क्षमा स्मृता” मात्स्पे १२० अ०। “विभागशीलः सततं क्षमायुक्तोदयान्वितः गृहस्थः स्यात् क्षमायुक्तो न गृहेण गृही भवेत् “क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः। अध्यात्मनिष्ठता पिज्ञानं ज्ञानमेतद् व्राह्मनलक्षणम्। विगर्हातिक्रमो हिंसाबन्धबधात्मनाम्। अन्यमन्युसमुत्थानां दोषाणां वर्ज्जनं क्षमा” कूर्म्म पु० १४ अ०। २ भूमौ च। अमरः। क्षान्तौ अव्य० क्षस्वरा०। पृपो० क्षाम् क्ष्मा क्षा क्षमि क्षामा इत्यादयोऽपि निघ० क्षमायां धवायां “क्षामं तुभ्यं हक्षा अणु क्षत्त्रं महना मन्यत द्यौः” ऋ० ४। १७। १ “द्यौरृष्वाज्जनिमन्त्रेजत्क्षाः” ४। २२। ४ “अजोन क्षां दाधार पृथिवीम्” ऋ० ४। ६७। ५ “क्षांदासायोपवर्हणीं कः” १। १७४। ६ “सुवृद्रथो वर्तते यन्नभि क्षाम्” १। १८३। २ “दिवि क्षमा च” ५। ५२। ३। “क्षमा मन्महे रपो विश्वं नो अस्तु भेषजम्” अथ० ६। ५७। ३ “अधिक्षमि विषुरूपं यदस्ति” ऋ० ७। २७। ३ “अग्निर्यद्रोधति क्षमि” ऋ० ४। ४३। ६। “स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च” १। १००। १५ “द्यावाक्षामा” ऋ० १। ९६। ५ “तुरगरसयति र्नौततौगः क्षमा” वृ० र० उक्ते ३ त्रयोदशाक्षरपादके छन्दोभेदे स्त्री “दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा” नमोऽस्तु ते” ४ इत्युक्ते दुर्गाशक्तिभेदे ५ राधिकासहचरीभेदे “मया पूर्व्वन्तु त्वं दृष्टो गोप्या च क्षमया सह” “क्षमा देहं परित्यज्य लज्जया पृथिवीं गता” ब्रह्मवैपु० प्रकृतिखं० ९ अ०। ६ खदिरे राजनि०

क्षमाज = पु० क्षमातोजायते जन + ड ५ त०। १ मङ्कले २ नरकातुरे ३ पूजातमाने त्रि० क्षमाजातादयोऽत्यत्र

क्षमादंश = पु० क्षमायाः दंश इव। शिग्नुपक्षे राजनि०

क्षमापि = क्षमं क्षनान्वितं करोति क्षम–णिच स या० पुक् दी र्घश्च। क्षमापयति ते अचि(च)क्षमापत् त क्षमापयाम्– बभूव आस चकार चक्रे। “तन्निमित्तं ब्राह्मणं क्षमापयति हेतुवचनोक्त्या” छा० उ० भा०। “क्षमापय महाभागं ततः शान्तिर्भवष्यति” भाग० ९। ४। ५२ श्लो०

क्षमाभुज् = पु० क्षमां भुनक्ति भुज–अवने क्विप्। नृपे “मुरवैरिवक्ष उरसि क्षमाभुजः” माघः। क। क्षमाभुजोऽप्यत्र

क्षमावत् = त्रि० क्षमा + अस्त्यर्थे मतुप् मस्य वः। क्षमायुक्ते। “एकः क्षमावतां दोषो द्वितीयोनोपपद्यते। यदेनं क्षमवा युक्तमशक्तं मन्थते जनः” गरु० पु० ११४ अ० स्त्रियां ङीप्

क्षमितृ = त्रि० क्षम–तृच्। साढरि सहनशीले अमरः

क्षमिन् = त्रि० क्षम–ताच्छील्ये घिनुण। क्षमाशीले “कामं क्षाम्यतु यः क्षमी” माघः “अक्रूरः पेशलो दक्षोदक्षिणः क्षमिणां वरः” विष्णुस० स्त्रियां ङीप्।

क्षय = पु० क्षि–क्षये क्षि–निवासगत्योर्वा भावादो यथायथम् अच्। त्रिवर्गात्तर्गते नीतिवेदिनां राज्ञाम् १ अष्टवर्गा पचये। अष्टवर्गश्च। “ऋषिर्वणिक्पथोदुर्गं सेतुकुञ्जर बन्धनम्। धात्वाकरः करादानं सैन्यानाञ्च निवेशनम्। अष्टवर्गः स्मृतो राज्ञाम्” भरतः। “क्षयस्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” अमरः। क्षयः अष्टवर्गस्यापचयः तस्यैवोपचयः वृद्धिः, स्थानं तस्य उपचयापचयहीनतया स्थितिः” २ प्रलये तस्मिन् सर्व्वेषां क्षयात्तथात्वम्। ३ अपचये सच भावविकारभेदः यास्कोक्तः यथा “षड् भावविकारा भवन्तीति कार्ष्णायणिः जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति। जायत इति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधति, अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं, वर्धत इति स्वाङ्गाभ्युच्चयं, सांयौगिकानां कम्मणा वर्धते विजयेनेति वा वर्धते श रीरणेति वा, अपक्षीयत इत्यनेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति”। ४ गृहे अमरः ५ यक्ष्मरोगे यक्ष्मरोगस्य क्षयसंज्ञाकारणं यथा “क्रियाक्षयकरत्वाच्च क्षय इत्युच्यतेबुधैः। राज्ञयन्द्रमसो यस्मादभूदेष महामयः। तस्मात्तं राजयक्ष्मति केचिदाहुर्मनीषिणः” सुश्रु०। “रक्तपित्तात्भवेत् कासः कासात् संजायते क्षयः” वैद्यकम् “राजयक्ष्मपरिहाणिमाययौ” इत्युपक्रमे “राज्ञि तत् क्षणमभूत् क्षयातुरे” रघुः। ६ रोगमात्रे राजनि०। षष्टिवर्षन्तर्गते षष्टितमे ७ वर्षे तल्लक्षणं ज्यो० त०। भवि० पु० “मेदिनी लभते देवि! सर्वभूतं चराचरम्। देशभङ्गञ्च दुर्भिं क्षये संक्षीयते प्रजा। सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा। दुर्भिक्षं जायते वोरं क्षये संवत्सरे प्रिये!। कौमुदीनर्म्मदाद्याश्च यमुनानर्म्मदातटम्। वि- न्ध्यायां सैन्धवश्चापि विनश्यति न संशयः। सिंहलो मध्यदेशश्च कालञ्जरस्तथैव च। क्षये क्षयन्ति सर्वाणि नान्यथा वरवर्णिनि।”। ता० ब्राह्मणोक्ते ८ स्तोत्रसंघे ८ देवसंघे च यथा “रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता वृहस्पतये स्तुत” ता० व्रा० “तैतीरीयाणां पञ्चमकाण्डोक्तब्राह्मणे रश्मिरिति मन्त्र णामादित्यादिसृष्टि हेतुत्वाभिधानादादित्यादिपरतया रश्म्यादिशब्दाव्याख्ययाः तत्तु ब्राह्मणमुत्तरत्रोदाहरिष्यते। हे आदित्य! त्वं रश्मिरसि रश्मियुक्तोऽसि देवा यस्मिन् क्षियन्ति निवसन्ति इति स्तोत्रसंघः क्षयः तस्मै क्षयाय तत्सङ्घाय तत्प्राप्त्यर्थं हे आदित्य! त्वां स्मरामीति शेषः। ततः क्षंयं देवसङ्घञ्जिन्व प्रीणय क्षयशब्दस्य देवविषयत्वं तैत्तिरीयास्तृतीयकाण्डोक्तब्राह्मणे समामनन्ति “रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्याह देवे क्षय इति” भा०। ज्योतिषोक्ते ९ द्विसंक्रान्तियुक्ते शुक्लप्रतिपदाद्यमावस्यान्ते चान्द्रे मासे यथाह सि० शि० “असंक्रान्तिमासोऽधिमासः स्फुटं स्याद्द्विसंक्रान्तिमासः क्षयाख्यः कदाचित्। क्षयः कार्त्तिकादित्रये नान्यतः स्यात् तदा वर्षमध्येऽधिमासद्वयं च”।

“यस्मिन् शशिमासेऽर्कसंक्रान्तिर्नास्ति सोऽधिमास इति प्रसिद्धम्। तथा यत्र मासे संक्रान्तिद्वयं भवति स क्षयमासो ज्ञेयः। यतः संक्रान्त्युपलक्षिता मासाः। अत एकस्मिन् मासे संक्रान्तिद्वये जाते सति मासयुगलं जातम्। स क्षयमासः कदाचित् कालान्तरे भवति। यदा भवति तदा कार्त्तिकादित्रय एव। तदा क्षयमासात् पूर्वं मासत्रयान्तर एकोऽधिमासोऽग्रतश्च मासत्रयान्तरितोऽन्यश्चासंक्रान्तिमासः स्यात्। अत्रोपपत्तिः। चन्द्रमासप्रमाणमेकोनत्रिंशत् सावनदिनान्येकत्रिंशत् घटिकाः पञ्चाशत् पलानि २९। ३१। ५०। तथार्कमासस्त्यिंशद्दिनानि षड्विंशतिर्घटिकाः सप्तदशपलानि ३०। २६। ७। एतावद्भिर्दिवसैरविर्मध्यगत्या राशिं गच्छति। यदार्कगतिरेकषष्टिः कलास्तदा सार्धैकोनत्रिंशता दिनै २९। ३० राशिं गच्छति। अत श्चान्द्रमासादल्पोऽर्कमासस्तदा स्यात्। एवं रविमासस्य परमाल्पता २९। २०। ४०। सा चैकषष्टिर्गतिर्वृश्चिकादित्रयेऽर्कस्य। स ईदृशोऽल्पोऽर्कमासो यदा चन्द्रमासस्यानल्पस्यान्तःपाती भवति तदैकस्मिन् मासे संक्रमणद्वयसुपपद्यो। अत उक्तं क्षयः कार्त्तिकादित्रय इति। पूर्वं किल भाद्रपदेऽर्कसंक्रान्तिर्जाता ततोऽर्कगतेरधिकत्वान्मार्गशीर्षो द्विसंक्रान्तिः। ततः पुनर्गतेरल्पत्वाच्चैत्रोऽप्यसंक्रान्तिर्भवति। ततो वर्षमध्येऽधिमासद्वयमित्युपपन्नम्” प्रमिता०। मेषादिषु सूर्य्यस्य गतिभेदात् भोगकालसावनदिनादिक मुच्यते । मे । वृ । मि । क । सि । क । तु । वृ । ध । म । कु । मी । ३० । ३१ । ३१ । ३१ । ३० । २९ । २९ । २९ । २९ । २९ । २९ । ३० । ५५ । २४ । ३७ । २८ । २ । २९ । ५७ । २७ । १५ । २४ । ४९ । २१ । ३३ । ५६ । ३२ । ३५ । ५२ । ४ । २ । ३९ । ३ । ० । ४३ । ३१ “इदानीं गणकानां प्रतीत्यर्थं क्षयमासकालान् गतागतान् कतिचिद्दर्शयति स्म” प्रमिता०। “गतोऽब्ध्यद्रिनन्दै ९७४ र्मिते शावकाले तिथीशै १११५ र्भविष्यत्यथाङ्गाक्षसूर्यैः १२५६। गजाद्र्यग्निभूमि १३७८ स्तथा प्रायशोऽयं कुवेदेन्दु १४१ वर्षैः क्वचिद्गोकुभिश्च १९।

“स्पष्टम्। अत्रोषपत्तिः। यदा किलैकविंशतिः शुद्धिस्तदा भाद्रपदोऽधिमासः। तस्मिन् जाते कार्त्तिकादित्रये क्षयमासः संभाव्यते। सा च तथविधा शुद्धिः कुवेदेन्दु १४१ वर्षान्तरे काले पुनर्भवति। किन्तु सत्रिभागाभिः षड्भिर्घटिकाभिरधिका भवति। कदाचिदेकोनविंशत्या वर्षैस्तादृशी भवति। तत्र त्रिभागोनाभिश्चतुर्दशघटिकाभिरधिका भवति। कुवेदेन्दुवर्षेभ्यस्तथकोनयिंशतिवर्षेभ्योद्विधाव्दा द्विरामैः खरामैश्च भक्ता इत्यादिना लब्धेष्वधिमासेषु शेषतिथिषु शून्यं पथमस्थाने सत्र्यंशाः षड्घटिकाः स्युः ६। २०। द्वितीये वित्र्यंशाश्चतुर्द्दश १३। ४०। अत उक्तं प्रायशोऽयं कुवेदेन्दुवर्षैः क्वचिद्गोकुभिश्चेति। प्रागायतश्चेत्यर्थादुक्तं स्यात्” प्रमिता०। कालमा० उक्तं सि० शि० वाक्यं व्याख्यायविशेषोऽभिहितः “स्फुटमानेन योऽयमसक्रान्तः सः स्फुटोऽधिमासः तेनैव मानेन यो द्विसंक्रान्तियुक्तः स क्षयाख्यः स च कार्त्तिकमार्गशीर्षपौषेष्वेव त्रिष्वन्यतमोभवति नान्येषु माघादिषु नवसु एवंविधक्षयमासयुक्ते वर्षे क्षयमासात् पूर्वेषु त्रिषु मासेषु मध्ये कश्चिदधिमासो भवति क्षयमासादूर्द्ध्वमपि मासत्रयमध्येऽपरोऽधिमासः। तदेवंविधमेकवर्षस्थं मल मासद्वयं चिरेण कालेन यदा कदाचिदायाति नत्वेकाधि मासवत् पुनः पुनः क्षयसासः समायाति तत्त्रितयागमन कालः सिद्धान्तशिरोमणौ दर्शितः। “गतोऽब्ध्यद्रीत्यादि (बाक्यं प्रागुदाहृतम्) अस्यायमर्थः। चतुःसप्तत्यधिकन- वशतसंख्याकैर्वर्षैः परिमिते शाककाले कश्चिदुक्तमासत्रयोपेतो वत्सरोगतः। यथोक्तसंख्या चाब्ध्यद्रिनन्दैरित्यनेन पदेन विवक्षिता। अब्धयश्चत्वारः अद्रयः सप्त नन्दा नव। एतत्संख्यात्रयगमका अङ्का गणकप्रसिद्ध्या प्रातिलोम्येन लिखिता यथोक्तसंख्यायां पर्य्यवस्यन्ति। तिथीशैरित्यत्रापि तिथयः पञ्चदश ईशा एकादश तत्र गणकैरङ्केषु प्रक्षिप्तेषु पञ्चदशाधिकशतयुक्तसहस्रसंख्या सम्पद्यते। तावद्भिःशकवर्षैर्मिते काले, कश्चिदुक्तमासत्रययुतः संवत्सरः। अङ्गाक्षसूर्य्यैरित्यत्राङ्गानि षट् अक्षाणीन्द्रियाणि पञ्च सूर्य्या द्वादश तत्राङ्कप्रक्षेपे षट्पञ्चाशदधिकशतद्वयोपेतसहस्रसंख्या सम्पद्यते। तावद्भिर्वत्सरैर्मिते शककाले यथोक्तमासत्रयोपेतः कश्चित्संवत्सरः। तस्य चोदाहरणम्। पूर्ब्बोदाहृत ईदृश संवत्सरः प्राचीनोभावी वा संवत्सरः। तत्र भाद्रपदवहुलामावास्यायां कन्यासंक्रान्तिस्तत ऊर्द्ध्वम् असंक्रान्तमेकमास मतीत्य उत्तरयीर्मासयोः क्रमेण तुलावृश्चिकसंक्रान्ती तत ऊर्द्ध्वमेकस्मिन्नेव मासे शुक्लप्रतिपदि धनुःसंक्रान्विः ततऊर्द्ध्वं दर्शे मकरसंक्रान्तिः। तत ऊर्द्ध्वं कुम्भसंक्रान्तिः समनन्तरे मासे दर्शे। तत ऊर्द्ध्वं ससंक्रान्तिमासमतीत्योत्तरस्यां शुक्लप्रति पदि मीनसंक्रान्तिरेवं च एकस्मिन्नेववत्सरे द्वावसंक्रान्तौ मासौ एकोद्विसंक्रान्तिमास इति यथोक्तमासत्रयं सम्पद्यते। गजाद्यग्निभूमिरित्यत्रापि गजा अष्टौ, अद्रयः सप्त, अग्नवस्त्रयः भूरेका तत्राङ्कप्रक्षेपे सत्यष्टसप्नत्यधिकशतत्रयोपेतसहस्रसंख्या सम्पद्यते। तावर्द्भिर्वत्सरैर्मिते शाककाले कश्चिदुक्तविधः सम्पत्स्यते वत्सरः। कुवेदेन्दुवर्षैरित्यत्र कुरेकः वेदाश्चत्वारैन्दुरेकस्तत्राङ्कप्रक्षेपेणैकचत्वारिंशदधिकशतसंख्या भवति एतावद्भिर्वर्षेः क्वचित्पूर्व्वोत्तरक्षयमासयोर्व्यवधानं भवति गोकुभिश्चेत्यत्र नपुंसकवर्जितेषु स्वरान्तेषु गण्यमानेष्वोकारो नवमः सम्पद्यते। कुरेका तत्राङ्कप्रक्षेये सति एकोनविंशतिर्भवति तावद्भिर्वत्सरैः क्वचित्पूर्वोत्तरयोः क्षयमासयोर्व्यवधानमिति। अत्र द्विसंक्रान्तियुक्तस्य क्षय संज्ञायामुपपत्तिरुच्यते। यदा धनुःस्थे रवौ दर्शपूर्त्तिस्तदा तस्य मेषादिस्थवचनेन मार्गशीर्षत्वं प्राप्तम्। तथा सति पूर्वोदाहृते द्विसंक्रान्ते मासे धनुःस्थे रवौ दर्शो न समाप्तः मकरस्थे तु रवौ समाप्तः। अतः पौषमासत्वं तस्य सम्पन्नम्। तथा च मार्गशीर्षस्य तत्र लुप्नत्वात् तस्य क्षयसंज्ञा युक्ता। अत एवैकमास- ग्रासित्वादंहसः पापस्य पतिरिति व्युत्पत्त्या स एवांहस्पतिसंज्ञयापि व्यवह्रियते। स च व्यवहारो वार्हस्पत्यज्योतिर्ग्रन्थे दृश्यते “यस्मित् मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा। संसर्पांहस्पती मासावधिमासश्च निन्दितः” इति तत्र क्षयमासात्प्राचीनोयोऽसंक्रान्तः स संसर्पस्तस्यासंक्रान्तत्वेनेतराधिमासवत् कर्मानर्हः सन् सम्यक् सर्पतीति संसर्पः। तस्य कर्मानर्हत्वप्राप्ति रेवं स्मर्य्यते “सिनीवालीमतिक्रम्य यदा संक्रमते रविः। रविणा लङ्घितो मासोह्यनर्हः सर्वकर्म्मस्विति”। तदपवादश्चैवं स्मर्य्यते। “मासद्वयेऽव्दमध्ये तु संक्रान्तिर्न यदाभवेत्। प्राकृतस्तत्रं पूर्वः स्यादधिमासस्तथोत्तरः” इति संक्रान्तिरहितयोर्द्वयोर्मासयोर्यः पूर्वोऽसंक्रान्तः स प्राकृतः शुद्ध्वः। कर्म्मार्ह इत्यर्थः। अस्मिन्नेवार्थे जावालिः “एकस्मिन्नेव वर्षे चेद्द्वौ मासावधिमासकौ। प्राकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लुचः” इति। अतः संसर्पत्वं तस्योपपन्नम्। असंक्रान्तमासद्वयमध्यवर्त्तिनः क्षयमासस्यांहस्पतित्वनिरुक्तिः पूर्वमेव दर्शिता। तदुत्तरभाविनोऽ संक्रान्तस्य कालाधिक्यादधिमासत्वम्। त एते त्रयोऽपि ज्योतिःशास्त्रप्रसिद्धा विवाहादौ निन्दिताः। यथोक्त प्रकारेणांहस्पतिनाम्नः क्षयमासस्य द्वितीयसंक्रान्तिप्रयुक्तनामसम्भवे सति शुद्धमासवत् स्वातन्त्र्यान्न पूर्वोत्तरमासशेषत्वशङ्कावकाशः”। मुहु० चि० पी० तादृशमासत्रयस्य माङ्गल्यकर्म्मसु वज्यतोक्ता यथा “गृहप्रवेशगोदानस्थानासनमहोत्सवम्। न कुर्य्यात् मलमासे तु संसर्पेऽंहस्पतौ तथा” मरीचिः “यदा क्षयमासी भवति तदा पूर्ब्बोत्तरावधिमासौ भवतः तत्र पूर्वः संसर्पः द्वितीयोऽंहस्पतिः मासः” वाप्यादिषु वर्ज्जनीये “शिशुत्वैज्यसितयोर्न्यूनाधिनासे तथा” मुहु० चि०। अपचये। “सर्वपार्थिव धनान्यपि क्षयम्” माघः” क्षयं वृद्धिञ्च बणिजा पण्यानामविजानता” या० स्मृ० गृहे “दधतोऽसुलभक्षयागमाः” मावः “अवेक्ष्य निरये चैव यातनाश्च यमक्षये” मनुः। १० नाशे “कालोऽस्मि लोकक्षयकृत् प्रवृत्तः”। “कुलक्षये विनश्यन्ति कुलधर्म्माश्च शाश्वताः” गोता। “अन्वष्टकासु वृद्धौ च गयायां च क्षयाहनि” उ० त० भवि० पु०

क्षयङ्कर = त्रि० क्षयं करोति कृ–ख। क्षयकारके। “शत्रुपक्षक्षयङ्करः”। भा० आ० २६६० श्लो०

क्षयज = पु० क्षयात् जायते जन–ड। कासभेदे। यथा

“विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्। घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः। कुपिताः क्षयजं कासं कुर्य्युर्देहक्षयप्रदम्। स गात्रशूलज्वरदाहमोहान् प्राणक्षयञ्चोपलभेत कासी। शुष्यन् विनि ष्ठीवति दुर्ब्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्। तं सर्व लिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति। वृद्धत्वमासाद्य भवत्यथोवै याप्यन्तमाहुर्भिषजस्तु कासम्” “क्षयजे क्षयमासाद्य कर्त्तव्यो वृंहणोविधिः” इति च सुश्रुतः। क्षयात् कासः। क्षयकासोऽप्यत्र।

क्षयतरु = पु० क्षयस्य क्षयहेतुस्तरुः अश्वघासादिवत् चतुर्थ्य र्थे ६ त०। स्थालीवृक्षे राजनि०

क्षयथु = पु० क्षि–अथुच्। कासरोगे हेम०।

क्षयनाशिनी = स्त्री क्षयं रोगं नाशयति नश–णिच्–णिनि ङीष्। १ जीवन्तीवृक्षे शब्दमाला। २ क्षयरोगनाशके त्रि०।

क्षयपक्ष = पु० क्षीयते चन्द्रोऽस्मिन् क्षि आधारे अच् कर्म्म०। कृष्णपक्षे। “चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” ज्यो० उक्तेस्तस्य तथात्वम्।

क्षयमास = पु० कर्म्म०। द्विसंक्रान्ते चान्द्रे० मासे क्षयशब्दे दृश्यम्।

क्षयरोग = पु० क्षयहेतुः रोगः। यक्ष्मरोगे “क्रियाक्षयकरत्वाच्च क्षय इत्यभिधीयते” सुश्रुतः स विद्यतेऽस्य इनि। तद्रोगयुक्ते त्रि० “राजहा क्षयरोगी स्यादेषा तस्य च निष्कृतिः। गोभूहिरण्यमिष्टान्नजलवस्त्रप्रदानतः। घृतधेनुप्रदानेन तिलधेनुप्रदानतः। इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति” शाता०।

क्षयवायु = पु० क्षयस्य प्रलयस्य वायुः। प्रलयवायौ “युष्मानचेतन् क्षयवायुकल्पान् इति” भट्टिः

क्षयिन् = त्रि० क्षयो राजयक्ष्माऽस्त्यस्य इनि। १ राजयक्ष्मयुक्त २ चन्द्रमसि पु० चन्द्रस्य यक्ष्मरोगश्च काश्यपशापात् तत् कथा राजयक्ष्मशब्दे दृश्या। राज्ञश्चन्द्रममोयस्मादभूदेष महामयः। तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः” सुश्रु० “क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च” मनु, “श्वित्रिकुष्टि कुले जातां क्षविणां मनुजेश्वर!”! भा० आनु० १०४ अ०। क्षि–ताच्छील्ये इनि, ३ क्षयशीले त्रि० “स तु तत्समवृद्धिश्च न चाभूत् ताविव क्षयी” रघुः

क्षयिष्णु = त्रि० क्षि–बा० इष्णुच्। क्षयशोले “स्वस्वेदक्षयिष्णु मायामयशूकरस्य” भाग० ६। १३। २४ अन्तर्भूतण्यर्थोऽत्र।

क्षय्य = त्रि० क्षेतुं शंक्यः क्ष–शक्यार्थे यत् “क्षय्यजय्यौ शक्यार्थे पा० नि०। क्षतुं शक्ये। शब्दक० क्लीवोक्तिः प्रामादिकी

क्षर = सञ्चलने भ्वा० पर० अक० सेट्। क्षरति अक्षारीत्। चक्षार क्षरितः क्षरन् क्षारः। “इयं त इन्द्र! राति क्षरति सुन्वतः” ऋ० ८, १३, ४। “मधु क्षरन्ति सिन्धबः” मधुसूक्तम्। “यज्ञोऽनृतेन क्षरति तपः क्षरति कीर्त्तनात्” “इन्द्रियाणां हि च सर्वेषां यद्येकं क्षरतीन्द्रियम्। तेनास्य क्षरति प्रज्ञा” मनुः। “त्वत्प्रसादान्महादेव! तपोमे न क्षरेत वै” भा० व० ७०११ श्लो०। आर्षत्वात् पदव्यत्ययः। “अक्षारिषुः शरास्त्राणि तस्मिन् रक्षःपयोधराः” भट्टिः ज्वला० क्षरः क्षारः। उपसर्गपूर्वस्तु तदुपसर्गद्यीत्यार्थयुक्ते चलने। आङ्पूर्ककः णिजन्तस्तु आक्षारणे ६०२ पृ० दृश्यम्। सञ्चननञ्च मोचनं स्रवणं चलनं स्यन्दनञ्च तत्र मोचने सक० अन्यत्र अक०। तत्र मोचने “मधु क्षरन्ति सिन्धबः”। “स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः” किरा०। स्रवणे “तपः क्षरतीत्यादि प्रागुक्तम्। वेदे नि० तिपि क्षरिति।

क्षर = न० क्षरति स्यन्दते मुञ्चति वा क्षर–जला० वा अच्। १ जले २ मेघे पु० मेदि०। ३ चले त्रि० ४ देहे “द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” गीतोक्तेषु ५ सर्वप्राणिषु तेषां स्वोपाध्यन्तःकरणचलनेन औपाधिकचलनवत्त्वात्तथात्वम् भा० अनु० १७ अ० जीवानां क्षरणप्रकार उक्तो यथा “आयुःकीर्त्तिकराणीह यानि कृत्यानि सेवते। शरीरग्रहणे यस्मिंस्तेषु क्षीणेषु सर्वशः। आयुःक्षयपरीतात्मा विपरीतानि सेवते। बुद्धिर्व्यावर्त्तते चास्य विनाशे प्रत्युपरियते। सत्वं बलञ्च कालञ्च विदित्वा चात्मनस्तथा। अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवात्। यदाऽयमतिकष्टानि सर्वापयुपनिषेवते। अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन। दुष्टान्नामिषपानञ्च यदन्योन्यविरोधि च। गुरु चाप्यभितं भुङ्क्ते नातिजीर्णेऽपि वा पुनः। व्यायाममतिमात्रञ्च व्यवायञ्चोपसेवते। सततं कर्म्मलोभाद्वा प्राप्तं वेगं विधारयेत्। रसाभियुक्तमन्नं बा दिवास्वप्तञ्च सेवते। अपक्वान्नागते काले स्वयं दोषान् प्रकोपयेत्। स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्। अपि वोद्बन्धनादीनि परीतानि व्यवस्यति। तस्य तैः कारणैर्ज्जन्तोः शरीरं च्यवते तदा। जीवितं च्यवमानं तद्यथावदुपधारय। ऊष्मा प्रकुपितः काये तीव्रवायुसमी- रितः। शरीरमनुपर्य्येत्य सर्वात् प्राणान् रुणद्धि वै। अत्यर्थं बलवानूष्मा शरीरे परिकोपितः। भिनत्ति जीवस्थानानि कर्म्माणि विद्धि तत्त्वतः। ततः सवेदनो जीवः सद्यः प्रच्यवते क्षरात् (देहात्)। शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्म्मसु। वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम!। जाता मरणसंविग्नाः सततं सर्वजन्तवः। दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ! गर्भसंक्रमणे चापि कर्म्मणामतिसर्पणे। तादृशीमेव लभते वेदनां मानवः पुनः। भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः। यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति। शैत्यात् प्रकुपितः काये तीव्रवायुसमीरितः। यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः। स गच्छत्यूर्द्ध्वगो वायुः कृच्छान्मुक्त्वा शरीरिणम्। शरीरञ्च जहात्येवं निरुच्छासश्च दृश्यते। स निरूष्मा निरुच्छासो निःश्रीको हतचेतनः। ब्रह्मणा सम्परिष्वक्तो मृत इत्युच्यते नरः। स्रोतोभिर्य्यैर्विजानाति इन्द्रियार्थान् शरीरभृत्। तैरेव च विजानाति प्राणानाहारसम्भवान्। तत्रैव कुरुते काये यः स जीवः सनातनः। तथा यद्यद्भवेद्युक्तं सन्निपाते क्वचित् क्वचित्। तत्तन्मर्म्म विजानीहि शास्त्रदृष्टं हि तत्तथा। तेषु मर्म्मषु भिन्नेषु ततः स समुदोरयन्। आविश्य हृदयं जन्तोः सत्त्वञ्चास्य रुणद्धि वै। ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन। तरसा संवृतज्ञानः संवृतेष्वेव मर्म्मसु। सजीवो निरधिष्ठानश्चाल्यते मातरिश्वना। ततः स तं महीच्छासं भृशमुच्छस्य दारुणम्। निष्क्रामन् कम्पयत्याशु तच्छरीरमचेतनम्। स जीवः प्रच्युतः कायात् कर्म्मभिः स्वैः समावृतः। अभितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते। ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः। इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः। यथाऽन्धकारे खद्योतं लीयमानं ततस्ततः। चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः। पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा। च्यवन्तं जायमानञ्च योनिञ्चानुपवेशितम। तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः। कर्म्मभूमिरियं भूमिर्य्यत्र तिष्ठन्ति जन्तवः। ततः शुभाशुभं कृत्वा लभते सर्वदेहिनः। इहैवोच्चावचान् भोगान् प्राप्नुवन्ति खकर्म्मभिः। इहैवाशुभकर्म्माणः कर्म्मभिर्निरयं गताः। अर्वाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः। तस्मात् सुदुर्लभो मोक्षे रक्ष्यश्चात्मा ततोभृशम्। ऊर्द्ध्वन्तु जन्तवो गत्वा ये तु स्थानेष्ववस्थिताः। कोर्त्यमानानि तानीह त- त्त्वतः सन्निवोध मे। तच्छ्रुत्वा नैष्ठिकीं बुद्धिं विन्देथाः कर्म्मनिश्चयम्। तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम्। यत्र विभ्राजते लोके स्वभासा सूर्य्यमण्डलम्। स्थानान्येतानि जानीहि जनानां पुण्यकर्म्मणाम्। कर्म्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः। तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः। न च तत्रापि सन्तोषो दृष्ट्वा दीप्ततरां श्रियम्। इत्येता गतयः सर्वाः पृथक् ते समुदीरिताः। उपपत्तिन्तु वक्ष्यन्ति गर्भस्याहमतः परम्। तथा तन्मे निगदतः शृणुष्वावहितो द्विज!”। ११ अज्ञाने च “क्षरं त्वविद्या च स्मृतं तु विद्या” श्वेताश्व० उ०। १२ परमेश्वरे “सदसत्क्षरमक्षरम्” विष्णुस०। “सर्वं खल्विदं ब्रह्मेति” श्रुतेस्तस्य सर्वभूतमयत्वात्तथ त्वम्। “कार्य्यकारणरूपं तु नश्वरं क्षरमुच्यते” इत्युक्तयोः १३ कार्य्यकारणयोः।

क्षरे(र)ज = त्रि० क्षरे जायते जन–ड वा सप्तम्या लुक्। मेघजाते

क्षरण = न० क्षर–भावे ल्युट्। १ स्रवणे २ मोचने च “क्षरणात् क्षणनाद्वा क्षारः” सुश्रुतः “अङ्गुलीक्षरणसन्नविर्त्तकः। कर्त्तरि ल्यु। ३ क्षरणशीले त्रि०।

क्षरिन् = पु० क्षर–इनि। १ वर्षाकाले हेमच०। २ क्षरणयुक्ते त्रि० स्त्रियां ङीप्।

क्षल = शोधने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। क्षालयति ते क्षलति अचिक्षलत् त अक्षालीत्। क्षालयाम् बभूव आस चकार चक्रे चक्षाल। ज्वला० क्षलः क्षालः। “ऋते रवेः क्षालयितुं क्षमेत कः” माघः। “क्षालित मपि हृदयं मलिनं शोकोर्म्मिभीः क्रियते” प्रबो०। क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेनो निकृन्तति” हितो०। भ्वादिस्तु चाले चयने कवि० इति भेदः। प्राद्युपर्ग पूर्व्वस्तत्तदुपसर्गद्योत्यार्थयुक्तशोधने। “गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा” भा० वि० १७ अ०। “सुखं प्रक्षालयेत्ततः” स्मृतिः।

क्षव = पु० क्षु–भावादौ अप्। १ क्षुते (हा~चि) २ राजिकायां (राइसर्षा)। अमरः। ३ कासे शब्दरत्ना०।

क्षवक = पु० क्षु–करणे अप् संज्ञायां क। १ राजिकायाम् २ अपामार्गे ३ भूताकाशे च राजनि०।

क्षवकृत् = पु० क्षवं करोति कृ–क्विप्। क्षुपभदे (छिकनी) भावप्र०।

क्षवथु = पु० क्षु–अथुच्। १ क्षुते (हा~चि)। २ कासे च मेदि०। क्षुतलक्षणं सुश्रुते उक्तं “घ्राणाश्रिते मर्मणि संप्रदुष्टे यस्यानिलोनासिकया निरेति। कफानुयातो बहुशः सशब्द स्तं रोगमाहुः क्षवथुंविधिज्ञाः”। “उद्घाततोयः क्षवथुर्निरेति” सुश्रुतः। क्षतजशब्दे २३५६ पृ० उदा०

क्षवपत्रा = स्त्री क्षवः क्षुतहेतुः पत्रं यस्याः। द्रोणपुष्प्याम् राजनि० तत्पत्राघ्राणे हि क्षुतं जायते। क्षरपत्त्रेति वा पाठः।

क्षविका = स्त्री क्षवः क्षुतं साध्यतयाऽस्त्यस्य ठन्। वृहतीभेदे राजनि०।

क्षात्त्र = न० क्षत्रस्य कर्म्म भावो वा–अण्। “शौर्य्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म्म स्वभावजम्” गीतोक्ते १ क्षत्रियकर्म्मणि। तस्येदमण्। २ तत्सम्बन्धिनि त्रि० “आत्मकर्म्मक्षमं देहं क्षात्रोधर्म्म इव श्रितः” रघुः। क्षत्तॄणां समूहः अण्। ३ तत्समूहे न० “शतं क्षात्त्र संगृहीतानाम् पुत्राः” शत० ब्रा० १३, ४, २, ५, “क्षत्तारः कोषाध्यक्षाः तेषां समूहः क्षात्त्रम्” भा०।

क्षात्त्रि = त्रि० क्षत्त्रस्यायं जातिभिन्न इञ्। क्षत्त्रसम्बन्धिनि जातौ तु क्षत्त्रिय इत्येव।

क्षान्त = त्रि० क्षम–कर्त्तरि क्त। १ सहिष्णौ केनचित्पीडनेऽपि सामर्थ्ये सति तत्प्रतीकारपराङ्मुखे। कर्म्मणि क्त। २ सोढे। ३ निर्वैरो निर्वृतिः क्षान्तो निर्मन्युः कृतिरेव च। विघसो मातृवर्त्ती च व्याधाः परमधार्म्मिकाः” हरिव० २१ अ० उक्ते सप्तव्याधमध्ये ३ व्याधभेदे। ते च गुरोर्गोहरणात् क्रमेण मृगचक्रवाकादियोनिमाप्ताः तत्रैव तत्कथा। क्षान्ताशब्दे परे प्रिया० कर्म्मधारये न पुंवत्। परमाक्षान्ता। उत्करा० चतुरर्थ्यां छ। क्षान्तीय तन्निर्वृत्तादौ त्रि०। ४ ऋषिभेदे पु०। क्षान्तस्य गोत्रापत्यम् अश्वा० फञ्। क्षान्तायन तदृषिगोत्रापत्ये पुंस्त्री०

क्षान्ति = स्त्री क्षम–भावे क्तिन्। क्षमायाम् सामर्थ्ये सत्यप्यपकारिणीऽप्यपकाराचिकीर्षायाम्। “क्षान्त्या शुध्यन्ति विद्वांसः” मनुः। “शमोदमस्तपः शौचं क्षान्तिरार्ज्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजम्” गीता “शमोदमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम्। ज्ञानं दयाच्युतात्मत्वं सत्यञ्च ब्रह्म लक्षणम्” भाग० ७। ११। २२

क्षान्तु = पु० क्षम–तुन् वृद्धिश्च। १ क्षमाशीले उणादिकोषः २ पितरि पु० संक्षिप्तसा०

क्षाम = त्रि० क्षै–कर्त्तरिक्त। १ क्षीणे २ अल्पे शब्दरत्ना० “क्षामोविवर्णवक्त्रश्च नखैःकिञ्चिच्छिनत्त्यपि”। “क्षामेण मृदुकोष्ठेन मन्दाग्निना” सुश्रुतः “क्षामच्छायं भवनमधुना यद्वियोगेन नूनम्” “मध्येक्षामा चकितहरिणीप्रेक्षणा नि- म्ननाभिः” मेघ०। अतिसूक्ष्मत्वात् ३ परमेश्वरे “नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः” विष्णुस०। “क्षामा भिन्दन्तो अरुणीरपव्रन्” ऋ० ४। २। १६। ३ धरायां स्त्री निघ०। भावे क्त १ क्षवे न०

क्षामन् = त्रि० क्षै–मनिन्। १ क्षयशीले २ पृयिव्यां निघ०। “कृशा क्षामन् रुरुच उषसो न भानुना” यजु० १७, १०, “तेन इन्द्रः पृथिवी क्षाम वर्द्धन्” ऋ०५, ५१, ११। हिरण्ययं शकुनं क्षामणि स्थाम्” ९, ८५, ११

क्षामवत् = त्रि० क्षामं दोषक्षयः साध्यतयाऽस्त्यस्य मतुप् मस्य वः। १ अग्निभेदे। “गृहदाहेऽग्नये क्षामवते पुरोडाशः” कात्या० श्रौ०। २ इष्टिभेदे स्त्री। “क्षामवत्यादिना यद्वत्कर्म्मणा पृतनापते!। दैवदोषादकरणे जाते दोषकदम्बके। होमेनैकेन दोषाणां सर्व्वेषां क्षयमादिशेत्”। एवञ्चैकप्रायश्चित्तेनानेकदोषक्षये क्षामवतीष्टिः सर्व्वत्र दृष्टान्तः” प्रा० त०।

क्षामास्य = न० क्षामस्य क्षयस्यास्यं स्थानम्। कुपथ्ये “अपथ्य सहितं रोग्यं क्षामास्यं परिकीर्त्तितम्” शब्दच०। क्षमस्यमिति वा पाठ पृषो०।

क्षार = त्रि० क्षर–ज्वला० बा ण। १ क्षरणशीले। २ लवणरसे ३ धूर्त्ते ४ लवणे ५ भस्मनि च पु० मेदि० ५ पुडे हेम० ६ टङ्कणे ७ सर्जिकाक्षारे पु० राजनि०। ७ विडलवणे ८ यवक्षारे च न० त्रिका०। चक्रदत्तोक्ते ९ भस्मभेदजाते औषधभेदे यथा “प्रणस्तेऽहनि नक्षत्रे कृतमङ्गतपूर्ब्बकम्। कालमुष्ककमाहृत्य दग्ध्वा भस्म समाहरेत्। आढकन्त्वेकमादाव जलद्रोणे पचेद्भिषक्। चतुर्भागावशिष्टेन वस्त्रपूतेन वारिणा। शङ्खचूर्णस्य कुडवं प्रक्षिप्य विपचत् पुनः। शनैःशनैर्मृदावग्नौ यावत् सान्द्रतनुर्भवेत्। सर्जिकायवशूकाभ्यां शुण्ठी मरिचपिप्पली। वचा चातिविषा चैव हिङ्गुचित्रकयोस्तया। एषां चूर्णानि निक्षिप्य पृथक्त्वेनाष्टमांशकम्। दर्व्या संघट्टितञ्चपि स्थापयेदायसे घटे। एष वह्निसमः क्षारः कीर्त्तिदः काश्यपादिभिः। तोये कालकमुष्ककस्य विपचेद्भस्माढकं षड्गुणे पात्रे लोहमये दृढे विपुलधीर्दर्व्या शनैर्घट्टयन्। दग्ध्वाग्नौ बहुशङ्खनाभिशकलान् पूतापशेषे क्षिपेत् यद्येरण्डजनालमेप दहति क्षारो वरो वाक्शतात्। प्रायस्त्रिभागशिष्टेऽस्मिन्नच्छषैच्छिल्यरक्तता। संजायते तदा स्राव्यं क्षाराम्भो ग्राह्यमिष्यते। तुर्य्येणाष्टमकेन षीडशभवेनांशेन संव्यूहितो मध्यः श्रेषठ् इति क्रमेण विहितः क्षारो- दकाच्छङ्खकः। योऽतिसान्द्रो नातितनुः क्षारपाक उदाहृतः। दुर्नामकादौ निर्द्दिष्टः क्षारोऽयं प्रतिसारणः। पानीयो यस्तु गुल्मादौ तं वारानेकविंशतिम्। स्रावयेत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे”। यवक्षारादिविशेषगुणाः सुश्रुते उक्ता यथा यवक्षारसर्जिकाक्षारपाकिमटड्कणक्षाराः। गुल्मार्शोग्रहणीदोषशर्कराश्मविनाशनाः। क्षारास्तु पाचानाः सर्वे रक्तपित्तकराः स्मृताः। ज्ञेयौ वह्निसमौ क्षारौ सर्जिकायावशूकजौ। शुक्रश्लेष्मविबन्धार्शोगुल् मप्लीहविनाशनौ। उष्णोऽनिलघ्नः प्रक्लेदी ऊषक्षारो बलापहः। मेदोघ्नः पाकिमः क्षारो मूत्रवस्तिविशोधनः। विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः। अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते”। मेदि न्युक्तं भस्म च शुष्ककदलीत्वगादिभस्म तच्च रजकस्य वस्त्रशोधकद्रव्यम्। “यथा क्षारोदचण्डनिर्नोदनाभिर्वासांसि शुद्धिमुपयन्ति” प्रा० त० हारीतः। कालभेदे वस्त्रे क्षारयोजननिषेधमाह स्मृतिः “द्वादश्यां पक्षयोरन्ते संक्रान्त्यां श्राद्धवासरे। वस्त्रं न पीडयेत्तत्र न च क्षारेण योजयेत्”। ततः उत्करा० चतुरर्थ्यां छ। क्षारीय तत्सन्निकृष्टदेशादौ त्रि०

क्षारक = पु० क्षर–ण्वुल्। १ अचिरजाते फले (उलि) अमरः। २ पक्षिमीनादिपिठके (स्वाचा) मेदि०। क्षाराय तद्योजनाय साधु कन्। ३ रजके शब्दमा०।

क्षारगुड = पु० क्षरेण पक्वः गुडः शा० त०। च० द० उक्ते क्षारपक्वे गुडभेदे यथा “पञ्चमूलं च त्रिफलामर्कमूलं शतावरीम्। दन्तीं चित्रकमास्फोतां रास्नां पाठां सुधां शठीम्। पृथग्दशपलान् भागान् दग्ध्वा भस्म समावपेत्। त्रिःसप्तकृत्वस्तद्भस्म जलद्रोणेन गालयेत्। तद्रसं साधयेदरनौ चतुर्भागावशेषितम्। ततो गुडतुलां दत्त्वा साधयेन्मृदुनाग्निना। सिद्धं गुडन्तु विज्ञाय चूर्णानीमानि दापयेत्। वृश्चिकालीं द्विकाकल्यौ यवक्षारं समां घचाम्। एतत् पञ्चपला मागाः पृथक् पञ्च पलानि च। हरीतकीं त्रिकटुक सर्जिकां चित्रकां वचाम्। हिङ्ग्वम्लवेतसाभ्याञ्च द्वे पले तत्र दापयेत्। अक्षप्रमाणां गुटिकां कृत्वा खादेद्यथाबलम्। अजीर्णं जरयत्येष जीर्ण्णे सन्दीपयत्यपि। भुक्तं भुक्तञ्च जीर्य्येत पाण्डुत्वमपकर्षति। प्लीहार्शःश्वयथञ्चैव श्लेष्मकासमरोचकम्। मन्दाग्निविषमाग्नीनां कफे कण्ठोरसि स्थिते। कुषठानि च प्रमेहश्चां गुलमञ्चाशु नियच्छति। ख्यातः क्षारगुडो ह्येष रोगयुक्ते प्रयोजयेत्”।

क्षारतैल = न० चक्र० उक्ते कर्णशूलनिवारके १ पक्वतैलभेदे यथा “बालमूलकशुण्ठीनां क्षारी हिङ्गु सनागरम्। शतपुष्पवचामुष्कं दारुशिग्रुरसाञ्जनम्। सौवर्च्चलं यवक्षारः सर्जिकोद्भिदसैन्धवम्। भूर्जग्रन्थिविडं मुस्तं मधुशुक्तं चतुर्गुणम्। मातुलुङ्गरसश्चैव कदल्या रस एव च। तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम्। बाधिर्य्यं कर्णनादश्च पूयस्रावश्च दारुणः। पूरणादस्य तैलस्य क्रिमयः कर्णमंश्रिताः। क्षिपं विनाशं गच्छन्ति कृष्णात्रेयस्य शासनात्। क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्। मधुप्रधानं शुक्तन्तु मधुशुक्तं तथोषरम्। जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम्। मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत्। मासेन तज्जातरसं मधुशुक्तमुदाहृतम्”। गारुडे १९८० अ० इत्थमेव। तत्रोक्ते निर्लोमतादिसाधने २ तैलभेदे च यथा “शुक्तिशम्बू कशङ्खानां दीर्घवृन्तात् समुस्ककात्। दग्ध्वा क्षारं समादाय खरमूत्रेण गालयेत्। क्षाराष्टभागं विप्रचेत् तैलञ्च सार्षपं बुधः। इदमन्तःपुरे देयं तैलमात्रेषु पूजितम्। विन्दुरेकः पतेद्यत्र तत्र रोमापुनर्भवः। मदनादिव्रणे देयमश्विभ्याञ्च विनिर्म्मितम्। अर्शसां कुष्ठरोगाणां पामादद्रुविचर्च्चिकाम्। क्षारतैलमिदं श्रेष्ठं सर्वक्लेदहरं परम्।”

क्षारत्रय = न० ६ त० “सार्ज्जिकश्च यवक्षारः टङ्कणक्षारएव च क्षारत्रयञ्च त्रिक्षारम् क्षारत्रितयमेव च” राजनि०। उक्ते शारद्रव्यत्रये

क्षारदला = स्त्री क्षारोदलेऽस्याः। चिल्लीशाके क्षुद्रवास्तुके राजनि०

क्षारदशक = न० ६ त०। “शिग्रुमूलकपलाशचूक्रिका चित्रकार्द्रक सनिम्बसम्भवैः। इक्षुशैखरिकमोचिकोद्भवैः क्षारपूर्वदशकं प्रक्लीर्त्तितम्” राजनि० उक्ते दशविधक्षारद्रव्ये

क्षारदेश = पु० क्षारप्रधानोदेशः शा० त०। क्षारप्रधाने देशे “जीवनं जीवनं हन्ति प्राणान् हन्तिं समीरणः। किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिका” उद्भटः

क्षारद्र = पु० क्षारप्रधानोद्रुः। घण्टापारुलिवृक्षे रत्नमा०

क्षारनदी = स्त्री क्षारप्रधाना नदी। नरकविशेषस्थे नदीभेदे

क्षारपत्र = पु० क्षारः पत्रेऽस्य। वास्तूकशाके राजनि० वा कप्। तत्रार्थे हेमच०

क्षारपाक = पु० सुश्रुतोक्ते क्षारद्रव्यस्य पाकमेदे तत्र क्षार भेदस्य गुणप्रयोगादिकमुक्त्वा तत्पाकविधिरुक्तो यथा “अथातः क्षारपाकविधिमध्याय व्याख्यास्यामः। शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमश्छेद्यभेद्यलेखकरणात्त्रिदोषघ्नत्वाद्विशेषक्रियावचारणाच्च। तत्र क्षरणात् क्षणनाद्वा क्षारः। नानौषधिसमवायात्त्रिदोषन्नः शुक्लत्वात्सौम्यस्तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा स खल्वाग्नेयौषधिगणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्रः पाचनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामयकफकुष्ठविषमेदस मुपहन्तापुंस्त्वस्य चातिसेवितः। स द्विविधः प्रतिसारणीयः पानीयश्च। तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुकिलासमण्डलभगन्दरार्बुददुष्टव्रणनाडीचर्म्मकीलतिलकालकव्यङ्गमशकवाद्व्यविद्रधिकृभिविषार्शःसूपदिश्यते सप्तसु च मुखरोगेपूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भेषु तिसृषु च रोहिणीष्वेतेषु चैवानुशस्त्रप्रणिधानमुक्तम्। पानीयस्तु गरगुल्मोदराग्निशूलाजीर्ण्णारोचकानाहशर्कराश्मर्य्याभ्यन्तरविद्रविकृमिविषार्शःसूपयुज्यते। अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिवालवृद्धदुर्बलभ्रममदमूर्द्व्यातिमिरपरीतेभ्योऽन्येभ्यश्चैवंबिधेभ्यः। तञ्चेतरक्षारवदृध्वा परिस्रावयेत्तस्य विस्तारोऽन्यत्र। सच त्रिविधोमृदुर्मध्यस्तीक्ष्णश्च। तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वाभिमन्त्य्रानेन मन्त्रेण। अग्निवीर्य्य! महावीर्य्य! मा ते वीर्य्यं प्रणश्यतु। इहैव तिष्ठ कल्याण! मम कार्य्यं करिष्यसि। मम कार्य्ये कृते पश्वात् स्वर्गलोकं गमिष्यसि। श्वेतपुष्परक्तपुष्पसहस्रं ज्रहुयात्। खण्डशः प्रकल्प्याथ निर्व्वाते देशे निचितं कृत्वा सुधाशर्कराश्च प्रक्षिप्य तिलनालैरादीपयेदथोपशान्तेऽग्नौ तद्भत्म पृथग्गृह्लीयाद्भस्मशकर्राश्च। अथानेनैव विधानेन कुष्टजपलाशाश्वकर्ण्णपारिभद्रकविभीतकारग्बधविल्वकार्क्कस्नुह्यपामार्गपाटलानक्तमालवृषकदलीचित्रकपूतीकेन्द्रदृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थान् गुञ्जाथतस्रश्च कोशातकीः स मूलफलपत्रशाखा दहेत्। ततः क्षारद्रोणमुदकद्रोणैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिवारान् विस्राव्यमहति कटाहे शनैर्दर्व्या विवट्टयन् बिपचेत्। स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विसृज्य च पुसरग्नावधिश्रयेत्। तत एव च क्षारोदकात् कुडवमध्यर्द्धं वाऽपनयेत्। ततः कटशर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीर ग्नवर्ण्णा। कृत्याऽऽयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसंमितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य सततमप्रमत्तश्चैनमवघट्टयन् विपचेत्। स यथा नातिसान्द्री नातिद्रवश्च भवति तथा प्रयतेन। अथैनमवगतपाकमवतार्य्यानुगुप्तमायसे कुम्मे संवृतमुखे निदध्यादेष मध्यमः। एष एवाप्रतीवापः पक्वः संव्यूहितो मृदुः। प्रतिवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकाप्रबालतालपत्री विडमुवर्चिकाकनकक्षीरीहिङ्गुवचाविषाः समाः श्लक्ष्णचूर्ण्णाः शुक्तिप्रमाणाः प्रतिवापः। स एव सप्रतिवापः पक्वः पाक्यस्तीक्ष्णस्तेषां यथाव्याधिवलमुपयोगः। क्षीणबले तु क्षारोदकमावपेद्धलरक्षणार्थं। भवतश्चात्र। नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः। अभिघ्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः। अतिमार्दवशैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः। सान्द्रताऽपक्वता हीनद्रव्यता दोष उच्यते। तत्र क्षरसाध्यव्याधिव्याधितमुपवेश्य निर्वा ते देशेऽसम्बाधेऽग्रोपहरणीयोक्तेन विधानेनोपसम्भृतसम्भारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य पिच्छलयिता शलाकया क्षारं पातयित्वा वाक् शतमात्र मुपक्षिपेत्। तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम्। तत्राम्लवर्गः शमनः सर्पिर्म्मधुकसंयुतः। अथ चेत् स्थिरमूलत्वात् क्षारं दग्धं न शीर्य्यते। इदमालेपनं तत्र समग्रमवचारयेत्। अम्लकाञ्जिकवीजानि तिलान्मधुकमेव च। प्रपिष्य समभागानि तेनैवमनुलेपवेत्। तिलकल्कः समधूको घृताक्तो व्रणरोपणः। रसेनाम्लेन तीक्ष्णेन वीर्य्योष्णेन च योजितः। आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति। एवं चेत्मन्यसे वत्स! प्रोच्यमानं निबोध मे। अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत्। कटुकस्तत्र भूयिष्ठो लवणानुरसस्तथा। अम्लेन सह संयुक्तः स तीक्ष्णलवणी रसः। माधुर्य्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति। माधुर्य्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः। तत्र सम्यग्दग्धे विकारोपशमो लाघवमनाम्राबश्च। हीनदग्धे तोदकण्डूजाद्ध्यानि व्याधिवृद्धिश्च। अतिदग्धे दाहपाकरागसावाङ्गमर्दक्लमपिपासामूर्च्छा दुर्म्मरणं वा। क्षारदग्धव्रणन्तु यथादोषं यथाव्याधि चोपक्रमेत्। तथा नैतेषु क्षारकृत्याः। तद्यथा दुर्बलबा लस्थविरभीगसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धज्वरिप्रमेहीरःक्षतक्षीणतृष्णामूर्च्छोपद्रुतक्लीवापवृत्तोद्वृत्तफलयोनयः। तथां मर्म्मशिरास्नायुधमनीसन्धितरुणा- स्थिसेवनीगलनाभीनखान्तरशोफस्रोतःस्वल्पमांसेपुच प्रदेशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात्। तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रभस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं क्षारो न साधयति”।

क्षारभूमि = स्त्री क्षारयुक्ता भूमिः। क्षाराम्बुधिसमीपस्थभूम

क्षारमध्य = पु० क्षारोमध्येऽस्य। अपमार्गे रत्ना०

क्षारमृत्तिका = स्त्री क्षारसंयुक्ता मृत्तिका। उषरस्थाने। अमरः।

क्षारमेलक = पु० क्षाराणां मेलःसंघः स्वार्थेक। क्षारसमूहे राजनि०

क्षारमेह = पु० मुश्रुतोक्ते पित्तजे मेहभेदे “पित्तान्नीलहरिद्राम्लक्षारमञ्जिष्ठाशोणितमेहाः षट् याप्याः” सुश्रु० “क्षारमेहिनं त्रिफलाकषायम्” सुश्रुतः

क्षारवृक्ष = पु० क्षारप्रधानोवृक्षः। मुष्ककवृक्षे राजनि०

क्षारश्रेष्ठ = न० क्षारः श्रेष्ठोऽत्र। १ पलाशे २ मुष्कके च राजनि०

क्षारषट्क = न० ६ त०। “धावापामार्गकुटजलाङ्गलीतिल मुष्ककैः। क्षारैरेतैस्तु मिलितैः क्षारषट् कादिकोगणः। राजनि० उक्ते क्षारद्रव्यषट्के।

क्षारसमुद्र = पु० क्षारप्रधानः समुद्रः। लवणसमुद्रे “सीता तु व्रह्मसदनात् केशराचलादिशिखरेभ्योऽधोधः प्रस्रवन्ती गन्धमादनमूर्द्धमु पतित्वाऽन्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रमभि प्रविशति” भाग० ५, १७८,। क्षारसिन्धु क्षाराम्बुधिप्रभृतयोऽप्यत्र “भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं जम्बुद्वीपं प्राहुराचार्थ्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः” सि० शि०।

क्षारसूत्र = न० चक्र० द० उक्ते क्षारभाविते सूत्रभेदे “भावितं रजनीचर्ण्णैः स्नुहीक्षीरे पुनः पुनः। बन्धनात् सुदृढं सूत्रं भिनत्त्यर्शोभगन्दरम्”।

क्षारागद = पु० सुश्रुतोक्ते औषधभेदे यथा “धवाश्वकर्णतिनिशपलाशपिचुमर्द्दपाटलिपारिभद्रकाम्रोडुम्बरकरहाटकार्जुनककुभसर्ज्जकफीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरविल्वमहावृक्षारुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्व्वातिल्वकेक्षुरकगोपघण्डारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेद्दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचकमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचोत्पलसारिवाविडङ्गगृहधूमानन्तासोमसरलावाह्लीकगुहाकोशाम्नश्वेतसर्षपलवणप्लक्षनिचुलकवर्द्धमानवञ्जुलपुत्त्रश्रेणीसप्तपर्णदण्डकैलबालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरि- द्रावचाचूर्णानि लोहानाञ्च समभागानि ततः क्षारवदागतपाकमवतार्य्य लोहकुम्भे निदध्यात्। अनेन दुन्दुभिं लिम्पेत् पताकातोरणानि च। श्रवणाद्दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्युते। एष क्षारागदो नाम शर्करास्वश्मरीषु च। अर्शःसु वातगुल्मेषु कासशूलोदरेषु च। अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे। शोफे सर्व्वसरे चापि देयः श्वासे च दारुणे। एष सर्वविषार्त्तानां सर्वथैवोपयुज्यते। तथा तक्षकमुख्यानामयं दर्पाङ्गुशोऽगदः”।

क्षाराच्छ = न० क्षारेणाच्छम्। सामुद्रलवणे हारा०।

क्षारिका = स्त्री क्षर–ण्वुल टाप् अतैत्त्वम्। क्षुधायां हारा०

क्षारित = त्रि० क्षर–णिच्–क्त। १ अपवादग्रस्ते, प्राप्तदोषे, अमरः २ स्राविते मेदि०

क्षारोद(क) = पु० क्षारौदकेऽस्य वा उदादेशः। लवणससद्रे “क्षारोदेक्षुरसोदसुरोदवृतोदक्षीरोददधिमण्डोदशुद्धोदाः सप्त जलधयः” भाग० ५। १०। २५ श्लो० “क्षारोदधिरप्यत्र “जम्बुद्वीपोऽयं यायत्प्रमाणविस्तारस्तावता क्षारोदधिः” भाग० ५। २०। २ श्लो०

क्षाल = त्रि० क्षल–शोधने ज्वला० १ कर्त्तरिण। शोधनकर्त्तरि

क्षालन = न० क्षल–भावे ल्युट्। शोधने “स्त्रीशूद्रौ प्रयतौ नित्यं क्षालनाच्च करौष्ठयोः” आ० त० ब्रह्मपु० “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” नीतिसा०

क्षालित = त्रि० क्षल–क्त। १ शोधिते कृतप्रक्षालने च। “क्षालितं नु शमितन्नु बधूनां द्रावितुं नु हृदयं मधुवारैः” मावः

क्षि = क्षये अक० ऐश्वर्ये सक० भ्वा० पर० अनिट्। क्षयति अक्षेयीत् चिक्षाय क्षीयात्। क्षीणः क्षितिः। क्षयः। क्षयन् क्षेतुम् भावे दैन्ये आकोशे च निष्ठातस्य वा नः दीर्घो वा। तत्र दैन्ये क्षितं क्षीणं वा तपस्विना। आक्रोशे क्षितायुः क्षीणायुः भूयात्। “क्षयन्तमस्य रजसः पराके” ऋ० ७, १००, १५, “यस्मिन् क्षयन्ति षडुर्व्वीः” अथ० १३, ३, १, “ताहि मध्यं भराणामिन्द्राग्नी अधिक्षितः” ऋ० ८, ४०, ३, कर्म्मकर्त्तरि क्षीयते “अपक्षीयते नश्यति” यास्कः “क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे” कठो०। “शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा। तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्” मनुः

क्षि = हिंसायां स्वा० पर० सक० अनिट्। क्षिणोति, क्षिणुतः क्षिण्वः–क्षिणुवः। अक्षैषीत्। चिक्षाय। “खटिनी क्षिणोति” नैष०। “यन्मां तुदन्वाक्यशल्यैः क्षिणोषि” भा० व० ३४ अ०। “सिंहीवैनं भूत्वाक्षिणोति” शत० व्रा० ३। ५। १। २५। अयं क्रादिरपि तत्रार्थे। “क्षिणामि ब्रह्मणामित्रान्” अथ० ३। १९। ३।

क्षि = वासे अक० गतौ सक० तु० प० अनिट्। क्षियति। अक्षैषीत् चिक्षाय। “अन्तरीक्षं पृथिवीं क्षियन्ति” तैत्ति० ३, १, १, ७, “मत्स्यं न दीन उदनि क्षियन्तम्” ऋ० १०, ६८, ८, वेदे गणव्यत्ययात् क्वचित् शपीलुक्। “जयति क्षेति पुष्यति” ऋ० ७। ३२। ९। “क्षेति क्षेमोभिः साधुभिः” ८। ७३। ९।

क्षि = त्रि० क्षि–बा० डि। १ निवासे २ गतौ ३ क्षये च मेदि०।

क्षिण = हिंसायां तना० उभ० सक० सेट्। क्षिणोति क्षिणुते अक्षणीत् अक्षणिष्ट। चिक्षणचिक्षिणे।

क्षित = त्रि० क्षि–हिंसायां कर्म्मणि क्त। १ हिंसिते। भावेक्त २ हिंसायां न०

क्षिति = स्त्री क्षि–निवासे आधारे क्तिन्। १ भूमौ, “निपीय यस्य क्षितिरक्षिणः कथाम्” नैष०। भावे क्तिन्। २ निवासे क्षि–क्षये भावे–क्तिन्। ३ क्षये, कर्त्तरि क्तिच्। ४ रोचनाख्योगन्धद्रव्ये शब्दच०५मनुष्ये निघ०।।” इन्द्र! प्रराजसि क्षितीः” ऋ० ८, ६, २६ “क्षितोर्मनुष्यान्” भा०! “प्रजासु ता नः क्षितीः करतमूर्ज्जयन्तीम्” ऋ० ७, ६६, २, “ध्रुवासु क्षितिषु क्षियन्तः” ऋ० ७, ८८, ७, “पञ्च क्षितीर्मानुषीर्वोधयन्ती” ७, ७९, १। “क्षितीर्हि सा” अथ० १२, ५, १६। क्षि क्षये आधारे क्तिन्। ६ प्रलयकाले मेदि०। क्षितिशब्दनिरुक्तिः ब्रह्मवै० पु० प्रा० ख० ७ अ०। “महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता”। अस्मिन्पक्षे कर्त्तरि क्तिच् इति भेदः।

क्षितिकण = पु० ६ त०। धूलौ त्रिका०।

क्षितिकम्प = पु० ६ त० क्षितिधराणां चलननिमित्ते भूमेः कम्पे तत्र विशेषः अद्भुतसागरे, “मेषे वृश्चिकभे गजः प्रचलति व्यासादिभिः कथ्यते, चापे मीनकुलीरभे च वृषभे सत्यं चलेत् कच्छपः। यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नगस्तेषामेकतमो यदि प्रचलति क्षौणी तदा कम्प्ते। कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगो। सर्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे। प्रथितनरेश्वरमरणं व्यसनान्याग्नेयमारुतयोः। क्षद्भयमतिवृष्टिभिरुपपीड्यन्ते जनाश्चापि। त्रिचतुर्थपञ्चमदिने मासे पक्षे त्रिपञ्चके। भवति यदा भूकम्पः प्रधाननृपनाशनं कुरुते”। “क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गः” भट्टिः।

क्षितिक्षम = पु० क्षितौ क्षमते क्षम–अच्। स्वदिरवृक्षे राजनि०

क्षितिक्षित् = पु० क्षितिमीष्टे क्षि ऐश्वर्य्ये क्विप्। भूमीश्वरे- राजनि। “अपदान्तरञ्च परितः क्षितिक्षिताम्” माघः। मही क्षदादयोऽप्यत्र।

क्षितिज = पु० क्षितेर्जायते जन–ड। १ मङ्गले “क्षितिजान्तर्दशां गतः” ज्यो०। २ नरकासुरे। ३ भूनागे उपरसभदे र जनि०। ४ महीरुहे वृक्षे च। ५ भूमिजाते त्रि० सि० शि० गोलबन्धाधिकारोक्ते ६ वृत्तक्षेत्रभेदे यथा पूर्वापरं विरचयेत् सममण्डलाख्यं याम्योत्तरं च विदिशोर्वलयद्वयं च। ऊर्ध्वाध एवमिह वृत्तचतुष्कमेतदावेष्ट्य तिर्यगपरं क्षितिजं तदर्धे” सि० शि०। “एकं पूर्वापरमन्यद्याम्येत्तरं तथा कोणवृत्तद्वयमेवं वृत्तचतुष्टयमूर्द्धाधोरूपमावेष्ट्य तठर्द्धे वृत्तं क्षितिजाख्यं निवेशयेत्। अत्र याम्योत्तरवृत्त उत्तरक्षितिजादुपरि पलांशान्तर एकं ध्रुवचिह्नं कार्य्यम्। दक्षिणक्षितिजादधोऽन्यत्। इदानीमुन्मण्डलमाह” प्रसि०। “पूर्वापरक्षितिजसंगमयोर्विलग्नं यास्ये ध्रुवे पललवैः क्षितिजादधःस्थे। सौम्ये कुजादुप र चाक्षलवैर्ध्रुवे तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” सि० शि०। “समवृत्तक्षितिजयोर्यौ पूर्वापरौ संपातौ तयोर्घ्रुवचित्तयोश्च सक्तं यन्निबध्यते तदुन्मण्डतसंञ्चम्। दिनरात्र्योर्वृद्धिक्षयौ तद्वशेन भवतः” प्ररि०।

क्षितिजन्तु = पु० क्षितेर्जनरिव। भूभागे उपरसभेदे राजनि०।

क्षितिदेव = पु० क्षितौ देवैव पूज्यत्वात्। ब्राह्मणे क्षितिदेवतापयोऽपि तत्रार्थे। “अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः” आ० त० पराशरः।

क्षितिधर = पु० क्षितिं धारयति धृ–णिच् अच् ह्रस्वः। १ पर्व्वते “क्षितिधरपतिकन्यामाददानः करेण” कुमा०। २ कूर्म्मवासुकिदिग्गजेषु च हला०।

क्षितिनाग = पु० क्षितिजातो नागः। उपरसभेदे भूनागे राजनि०।

क्षितिनाथ = पु० ६ त०। भूमिपाले राजनि क्षि तपत्यादयोऽप्यत्र। “क्षितिपतिमण्डलमन्यतो वितानम्” रघुः।

क्षितिप = पु० क्षितिं पाति पा–क। भूपाले राजनि “क्षितिपः क्षयितोद्धृतान्धकः” माघः। “क्षितिपसमाजमगात् स्वयंवरस्थम्” रघुः। “अहंयुनाऽयुथ क्षितिपः शुभंयुः” भट्टिः।

क्षितिपाल = पु० क्षितिं पालयति पालि–अण् उप० स०। महीपालके राजनि “शिलोच्चयोऽपि क्षितिपालमुच्चैः” रघुः। ण्वुल। क्षितिपालकोऽप्यत्र। “कृताकृतेभ्यः क्षितिपालभाग्भ्यः भट्टि। “क्षतिपालं भजन्ते यानि दूतप्रेषणादीनि तेभ्यः क्षितिपालभागभ्यः” जयर०। अत्र शब्दक० क्षिति- पालभाक्शब्दस्य राजार्थकत्वकल्पनमतीव प्रामादिकम्।

क्षितिपुत्र = पु० ६ त०। १ मङ्गलग्रहे २ नरकासुरे च तयोस्तत्पुत्रत्वकथा आवनेयशब्दे ८२६ पृ० कुजशब्दे २०६ ०पृ० दर्शितां “स मानुषेण मानेन क्षितिपुत्रः (नरकासुरः) शतं समाः” कालिकापु० ३८ अ०। क्षितितनयादयोऽप्यत्र।

क्षितिमृत् = पु० क्षितिं बिभर्त्ति धारयति पालयति भृ धारण पोषणयोः क्विप। भूधरे १ पर्वते “क्षितिभृदिव क्षितिकम्पकीर्णङ्कङ्गः” भट्टिः। २ महीपाले राजनि। “अधुना धनैः क्षितिभृतेऽतिभृताः” किरा० भूभृदादयोऽप्यत्र। “प्रमथितभूमृतः प्रतिपदं मथितस्य भृशं महीभृता” माघः।

क्षितिरन्ध्र = न० ६ त०। गर्ते शब्दचि०।

क्षितिरुह = पु० रोहति रुह–क ७ त०। दृक्षे हेम०। “क्षितिरुहपल्लपपुष्पकर्ण्णपूरे” माघः।

क्षितिवदरी = स्त्री क्षितौ सक्ता वदरी। भूवदर्य्याम् राजनि०

क्षितिवर्द्धन = त्रि० क्षितिं वर्द्धयति वृघ–णिच् ल्यु। मृते शवे त्रिका०। “करोमि क्षितिवर्द्धनम्” भट्टिः।

क्षितिव्युदास = पु० क्षितिं व्युदस्यति वि + उद् + अस–अण् उप० स०। गर्त्तस्थगृहे शब्दचि०

क्षितीश = पु० क्षितिमीष्टी ईश–अण्। भूमीश्चरे नृपे “आसमुद्रक्षितीशानाम्” रघुः “पश्यध्वं मे वीर्य्यमद्य क्षितीशाः” भा० व० १९२ अ०। १ विष्णो च “देवकोनन्दनः स्वष्टाक्षितीशः पापनाशनः” विष्णुस०।

क्षितीश्वर = पु० ६ त०। भूमीश्वरे नृपे “तदाननं मृतसुरभि क्षितीश्वरः” “कौशिकेन स किल क्षितीश्वरः” रघुः।

क्षित्यदिति = स्त्री क्षितौ स्मदितिः। क्षितौ अदितेरवतारे देवक्यां वसुदेवपत्न्याम। तत्कथा च हरिव० ५६ अ०। “या च सा सुरभिनाम अदितिश्च सुरारणी। उभे ते तस्य वै भार्य्ये सह तेनंव यास्यतः। ताभ्यां सह स गोपत्वे कश्यपो भुवि रंस्यत। तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः। वसुदेव इति ख्यातो गोषु तिष्ठति भूतले। गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः। तत्रासौ गोष्वभिरतः कंसस्य परदायकः। तस्य भार्य्याद्वयञ्चैव अदितिः सुरभिस्तथा देवकी रोहिणी चैवपसुदेवस्य धीमतः। तत्रावतर लोकानां भावाथ मधुसूदन!। विष्णु० प्रति ब्रह्मोक्तिः।

क्षित्वन् = पु० क्षि–क्वनिप् तुक् च। भयौ उज्ज्वतदत्तः

क्षिद्र = पु० क्षिद–रक्। १ रोगेऽसूर्य्ये २ विषाणे च संक्षिप्तसा०।

क्षिप = प्रोरणे तुवा० उभ० सा० अनिट। क्षिपति–ते अक्षै- पसीत् अक्षिप्त। चिक्षेप चिक्षिपे। क्षिप्तः क्षेपकः। क्षेप्ता क्षिप्त्वा क्षिपः क्षिपन्। “क्षिपत्येकेन वेगेन पञ्चवाणशतानि च” भा० व० १०१८ श्लो०। “सुशर्म्मा सायकांस्तीक्ष्णान् क्षिपते च पुनः पुनः” भा० वि० ३३ अ०। “पदाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजन” रामा० १। ११ अ० “यणिन् क्षप्स्यसि शक्तिञ्च स एकोन भविष्यति” भा० आ० ६७ अ० “स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि” भा० व० २८१ अ० “चिक्षेप मारीचोरसि” रासा० वा० ३२ स०। आक्षेपे च “चिक्षेप च स तं धीमान् वाग्भिरुग्रामिरच्युतम्” भा० आश्व० ३५ अ०। प्रेरणे क्वचित् स्वार्थे च णिच् क्षेपयति ते अचिक्षिपत् तअति + अत्यन्तक्षेपे। “सन्धिमुक्तमुत्पिष्टं श्लिष्टं विवर्त्तित मवक्षिप्तमतिक्षिप्तं तिर्य्यक् क्षिप्तमिति षड्विधम्” “अतिक्षिप्ते द्वयोःसन्ध्योरतिक्रान्तता वेदना” सुश्रुतः।अधि–तिरस्कारे “तस्मादेतैरधिक्षिप्तः संहेतासंज्वरः सदा” मनुः। “त्वं नाधिक्षेप्तु मर्हसि” भा० व० ९९ अ०। अधिक्षेपशब्दे विवृतिः।अव + अधःक्षेपणे “अवक्षिप दिवो अश्मानमुच्चाः” ऋ० २, ५३, ५ अवक्षेपणशब्दे विवृतिःआ + आकर्षणे “आक्षिप्य केशान् वेगेन वाह्वोर्जग्राह पाण्डवम्” भा० वि० ७५० श्लो०। भत्र्सने। आक्षेपशब्दे ६०३ पृ० विवृतिः। “आक्षिपन्तं प्रभां भानोः” भा० आ० ११०३। “आक्षिप्तत्तोमिव प्रभां शशिनः स्वेन तेजसा” भा० व० २१४७ श्लो०।परि + आ + आकृष्य तन्धने। “पर्य्याक्षिपत् काचिदुदारबन्धम्” कुमा०।उद् + ऊर्द्वक्षेपणे। “वलिमाकाश उत्क्षिपेत्” मनुः “शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्” भा० आ० ११२६ श्लो० उत्क्षेपणशब्दे १०८६ पृ० विवृतिःनि + नितरां क्षेपणे निधाने च। “अन्नं भूमौ श्वचाण्डाल वायसेभ्यश्च निक्षेपेत्” याज्ञ०। गात्राणि कान्तासु च निक्षिपन्तः” रामा० ५। ११ निक्षेपशब्दे विवृतिःनिस् + निशेषेण क्षेपे। “मक्षिकाव्रणजातस्य निःक्षिपन्ति यदा कृमीन्” सुश्रुतः।परि + परितः क्षेपे। “गङ्गास्रोतःपरिक्षिप्तम्” कुमा०।प + प्रंकर्षेण क्षेपे “नामेध्यं प्रक्षिपेदग्नौ” मनुःप्रति + प्रतिरूपक्षेपे। “अन्तः सिराणां श्वसनः स्थितोदृष्टिं प्रतिक्षिपन्” सुश्रु०। अधिक्षपे निवारणे प्रेरणे चवि + विशेषेण क्षेपे “विक्षिप्यमाणाः धनुषा नरेन्द्राः” भा० आ० ७०२२ श्ला०। वायुकृते उणादे, विक्षिप्तचित्तः। योगा- न्तरायकरणे चित्तवृत्तेरन्यत्र सञ्चारे च “अस्वण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यालम्बनं क्षिपः” वेदान्तसा० “लये संबोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः” तत्रस्था कारिकासम् + सम्यकक्षेपे विस्तीर्ण्णस्य सङ्कोचापादने व्यापारे “आतपात्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः। “संक्षिप्तैः प्रतिसंस्कृतैः” अमरः। “संक्षिप्तसारमाचष्टे” संक्षिप्तसा०

क्षिप = प्रेरणे दिवा० प० सक० अनिट्। क्षिपयति–ते अक्षेप्सीत्। चिक्षेप। “शत्रुघ्नान् युधि हस्तिग्नोगिरीन् क्षिप्यन्नकृत्रिमान्” “वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्रमिन्द्रजित्” भट्टिः। उपसर्गभेदेनार्थविशेषः तौदादिकवत्।

क्षिप् = स्त्री क्षिप–क्विप्। अङ्गुलौ निरु०। “दश क्षिपः पूर्ब्बं सीमजीजनन्” ऋ० ३, २३, ३, हलन्तत्वात् वा टाप्। “हिन्वन्ति धीराः दशभिः क्षिपाभिः ऋ० ९, ९७, ५७,

क्षिप = त्रि० क्षिप–क। १ क्षेपके। भावे भिदा० अङ् टाप्। क्षिपा। २ क्षेपणे स्त्री।

क्षिपक = त्रि० क्षिप–क क्षिपः ततः अज्ञातादौ कन्। क्षेपके स्त्रियां टापि क्षिपका० नात इत्त्वम्। ततः निर्वृत्तादौ प्रेक्षादि० चतुरर्थ्याम् इनि। क्षिपकिन् तन्निर्वृत्तादौ त्रि० स्त्रियां ङीप्।

क्षिपकादि = पु० पा० उक्ते कापि इत्त्वनिषेधनिमित्ते शब्द गणभेदे स च गणः। क्षिपका धुवका चरका सेवका करका चटका अवका लहका अलका कन्यका ध्रुवका एडका” आकृतिगणः।

क्षिपण = न० क्षिप–भावे बा० क्युन्। क्षेपणे जटा०

क्षिप(णि)णी = स्त्री क्षिप्यतेऽनया क्षिप–अनि किच्च वा ङीप्। १ नौकादण्डे (दा~ड) अमरटीका। कर्म्मणि अनिं। २ जालभेदे ३ आयुधे च उज्ज्वल ४ वडिशे शब्दचि०। ५ अध्वर्य्यौः संक्षिप्तासा०। भावे अनि। ६ क्षपणे “उ तस्य वाजी क्षिपणि तुरण्यति” ऋ० ४। ४०। ४। इमामुदाहृत्य “क्षिपणिं क्षेपणम्” इति २। २८। निरुक्तोक्तम्

क्षिपणु = पु० क्षिप–अनुङ् १ वाते त्रिका० २ व्याधे “मृगाइव क्षिपणोरीयमानाः” यजु० १७। ९४। “क्षिपणेः क्षिपति हिनस्ति क्षिपणुर्व्याधः” वेददी०

क्षिपण्यु = पु० क्षिप–कन्युच्। १ वसन्ते उज्जल० २ देहे पु० ३ सुरभिगन्धे पु० ३ तद्वति त्रि० मेदि०

क्षिपति(स्ति) = पु० क्षिप–वा० करणे अति(स्ति)। लाहौ निव०

क्षिप्त = त्रि० क्षिप–क्त। १ प्रेरिते, २ त्यक्ते, ३ विकीर्णे ४ अवज्ञाते, ५ रागद्वेषादिवशाद्विषयासक्ते चित्ते, ६ बायुरोगग्रस्ते च। ७निहिते निधानरूपेण स्थापिते “क्षिप्तः समीरैः सरितां पुरः पतत्” “केशरी निष्टुरक्षिप्तमृगयूथो मृगाधिपः” माघः “तिरस्कृता विप्रलब्धाः शप्नाः क्षिप्ता हता अपि” भाग० २। १८। ४८। “क्षिप्ता अवज्ञाताः” श्रीधरः। “आलस्यं क्षिप्तचित्तताम” भा० स० ५ अ०। “कृतस्य भेषजमथो क्षिप्तस्य भेषजीम्” अथ० ६। १०९। ३। ८ रात्रौ स्त्री हला०

क्षिप्तकुक्कुर = पुंस्त्री कर्म्म०। अलर्के (क्षेपा कुकुर) स्त्रियां ङीष्।

क्षिप्तयोनि = त्रि० क्षिप्ता योनिर्मातृरूपोत्स्थानमस्य। क्षिप्तमापृके स्वभर्त्त्रनासक्तमातृके। “क्षिप्तयोनिरिति चैके” आश्व० गृ० सू० १, २३, १८ “क्षिप्तयोनिर्नाम यस्य माता स्वभर्त्तरि नावतिष्ठते” नारा० वृत्तिः। तस्य (तत्कर्त्तृकम्) आर्त्त्विज्यं न कार्य्यमित्यनुषङ्गः

क्षिप्नु = त्रि० क्षिप–क्नु क्षुभ्रा० न णत्वम्। क्षेपणशीले त्रि०

क्षिप्र = न० क्षिप–रक्। १ शीघ्रे क्रियाविशेषणत्वे क्लीवता “क्षिप्रं ततोऽध्वन्यतुरङ्गयायी” भट्टिः। २ तद्वति त्रि०। “अति क्षिप्रेव विध्यति” ऋ० ४। ८। ८। “पुष्याश्विन्यभिजिद्धस्ता लघु क्षिप्रं गुरुस्तथा” ज्यो० उक्ते पुष्यादिषु ३ नक्षत्रेषु “रिक्ताभौमघटान् विना च विपणी मित्रध्रुवक्षिप्रभे” मुहु० चि० ४ शीघ्रगे त्रि० “ऋतज्येन क्षिप्रेण धन्वना” ऋ० २। २४। ५। ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः। क्षेपिष्ठ क्षेपीयस् अतिशयशीघ्रे त्रि० “वायुर्वै क्षेपिष्ठा देवता” श्रुतिः इयसुनि स्त्रियां ङीप्। क्षेपीयसी।

क्षिप्रकारिन् = त्रि० क्षिप्रं करोति कृ–णिनि। (चालाक) शीघ्रक्रियाकारके।

क्षिप्रपाकिन् = पु० क्षिप्रं शीघ्रं पच्यते पच–बा० घिणुन्। (गन्धभादिलिया) १ द्रुमभेदे रत्नमा०। २ शीघ्रपाकवति त्रि०

क्षिप्रहोम = पु० क्षिप्रं हूयते हु–मन्। सायं प्रातःकर्त्तव्ये होमे तद्विवृतिः सं० त० “द्विविधा होमा याज्ञिकप्रसिद्धाः क्षिप्रहोमास्तन्त्रहोमाश्च। तत्र क्षिप्रहोमाः क्षिप्रं हूयन्त इति व्युत्पत्त्या सायंप्रातर्होमादयः। तन्त्रहोमाश्च परिसमूहनबर्हिरास्तरणाद्यङ्गविस्तारयुक्ताः। अत्र ये समिद्धविस्कास्तन्त्रहोमाः यश्च सुखप्रसवार्थं सोष्यन्तीहोमस्तेषु येषाञ्च वैश्वदेवसायंप्रातर्होमादीनामेतदिध्माख्यं द्रव्यं उपरि पश्चात् अथ इध्मानुकल्पयेत इत्यनेन सूत्रेणोक्तं तेषु वा तत्सदृशेषु क्षिप्रहोमेषु इध्मस्य निवृत्तिर्भवेदिति”। तत्र विशेषमाह व्यासः “दग्धे गृहे न कुर्वीत क्षिप्रहोमे त्विदं द्वयम्” द्वयं परिसमूहनमास्तरणं चेति। “विरूपक्ष च न जपेत् प्रणवञ्च बिवर्जयेत् “क्षिप्रहोमेषु अव्राह्मणेषु सायं प्रातःशेष्यन्तीहोमादिषु ब्राह्मणम्” इमं स्तोममर्हते इत्यादिमन्त्रकरणं वा परिसमूहनं न कुर्य्यात्”।

क्षिया = स्त्री क्षि–क्षये भावे भिदा० अङ्। १ अपचये अमरः २ धर्म्मव्यतिक्रमे सि० कौ०। “हेति क्षियायाम्” “क्षियाशीः प्रयोगेषु तिङाकाङ्क्षम्” पा० “क्षयायां धर्म्मव्यतिक्रमे सि० कौ० यथा “स्वयं ह रथेन याति ३ उपाध्यापं पदातिं गमयति” उदा० अत्राद्यतिङ् प्लुतः।

क्षिव = निरसने भ्वा० पर० सक० सेट्। क्षेवति अक्षेवीत्। चिक्षेव उदित्। क्षिवित्वा क्ष्यूत्वा क्ष्यूतः क्ष्यूतिः। निरसनं फूत्कार इति भट्टमल्लः मुखेन श्मेष्मादेर्वमनमित्यन्ये

क्षिव = निरसने दिवा० पर० सक० सेट्। क्षीव्यति अक्षेवीत् चिक्षेव। उदित् क्षेबित्वा क्ष्यूत्वा।

***