क्लेश = पु० क्लिश भावे घञ्। उपतापे दुःख क्लिश्नन्ति क्लिशबाधते कर्त्तरि अच। पातञ्जनोक्तेषु अविद्यादिषु पञ्चषु। “क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” पात० सू०। “अविद्यादयः क्लेशाः” भा०। “क्लिप्नन्ति खल्वमी पुण्यं सांसारिकं विविधदुःखप्रहारेणेति” विवरणम्। अविद्यादीनां यथाक्लेशहेतुत्वात् तच्छब्दवाच्यत्वम् तया तेषां निरोधोपायश्च तत्रेव साधनपादे दर्शितो यथा “अथ के क्लशाः कियनोवेति” मा० “अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः पञ्च क्लेशाः” सू०।“इति पञ्च विपर्य्यया इत्यर्थः। ते स्पन्दमाना गुणाधिकारं दृढयन्ति परिणाममवस्थापयन्ति कार्य्यकारणस्रोतौन्नमयन्ति परस्परानुग्रहतन्त्रीमूत्वा कर्म्मविपाकं चाभिनिर्हरन्ति” भाष्यम्।“पृच्छति अथेति। अविद्येति सूत्रेण परिहारः। अविद्यादयः क्लेशाः। व्याचष्ट पञ्च विपर्य्यया इति। अविद्या तावाद्वपर्य्यय एव अस्मितादयोऽप्यविद्योपादानास्तदविनिर्भागवर्त्तिन इति विपय्ययाः। ततश्चाविद्यासमुच्छेदे तेषामपि समुच्छेदोयुक्त इति भावः। तेषामुच्छेतव्यताहेतुं संसारकारणत्वमाह ते स्पन्दमानाः। समुदाचरन्तो गुणानामधिकारं दृढयन्ति बलबन्तं कुर्व्वन्ति अतएव परिणाममवस्थापयति अव्यक्तमडदहङ्कारपरम्परया हि कार्य्यकारणत्रोत उन्नमयन्ति द्वद्भावयन्ति। यदर्थं सर्व्वमेतत् कुर्वन्ति तद्वर्श० ति परस्परेति। कर्म्मणां विपाको जात्यायुर्भोगलक्षणः पुरुषार्थ तममी क्लेशा अभिनिर्हरन्ति निप्पादपन्ति। किं प्रत्येकं? नेत्याह परस्परानुग्रहेति कर्म्मभिः क्लराः क्लेशैश्च कर्माणीति” वाचस्पतिविवरणम्।“अविद्याक्षत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्” सू० “अत्राऽविद्या क्षेत्रं प्रसवभूमिरुत्तरेपामस्मितादीनां चतुर्विधकल्पितानां प्रसुप्ततनुपिच्छिन्नोदाराणाम्। तत्र का प्रमुप्तिः? चेतसि शक्तमात्रपतिष्ठानां वीजभावोपगमः तस्य प्रबोध आलम्बने संमुखीभावः प्रसंख्यानवतो दग्धक्ले शवीजस्य संमुखीभूतेऽप्यालम्बतेनाऽसौ पुनरस्ति दग्धवीजस्य कतः प्ररोहृ इति। अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते तत्रैव सा दग्धवीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति सतां क्लेशानां तदा वीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिर्दग्धवीजानाम् अप्ररीहश्च। तनुत्वमुव्यते प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तोति विच्छिन्नाः कथं? रागकाले क्रोधस्यादर्शनात्। न हि रागकाले क्रोधः समुदाचर त रागश्च क्वचित् दृश्यमानो विषयान्तरे नास्ति, नैकस्यां स्त्रियां चैत्रोरक्त इति अन्यासु स्त्रीषु विरक्तः, किन्तु तत्र रागोलब्धवृत्तिः, अन्यत्र भविष्यद्वृत्तिरिति स हि तदा प्रसुप्ततनुर्विच्छिन्नोभवति। विषये यो लब्धवृत्तिः स उदारः। सर्व्वएवै ते क्लेशविषयत्वं नातिक्रामत्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारोवा क्लेशः? इति, उच्यते सत्यमेवैतत् किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वं यथैव प्रतिपक्षभावमातोनिवृत्तं तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्तम् इति सर्व्वे एवामी क्लेशा अविद्याभेदाः कस्मात्? सर्व्वेषु अविद्यैवाभिप्लवते यदविद्यया वस्त्वाकार्य्यते तदेवानुशेरते क्लेशाः विपर्य्यासप्रत्ययकाले उपलभ्यन्ते क्षीयमाणां चाविद्यामनुक्षीयन्त इति” भा०।“हेयानां क्लेशानामविद्यामूलत्वं दर्शयति अविद्याक्षेत्रमित्यादि। तत्र का प्रसुप्ति रति स्वोचितामर्थक्रियामकुव तां क्लेशानां सद्भावे न प्रमाणसस्तीत्यभिप्रायः पृच्छतः। उत्तरं चेतसीति। मा नामार्थक्रियां कार्षुः क्लेशाः विदेहप्रकृतिलयानां वीजभाव प्राप्तास्तु ते शक्तिमात्रण सन्ति क्षोर इव दधिनोऽविवेकख्यातेरन्यदस्ति कारणं तद्बन्ध्यतायाम् अतोविदेहप्रकृतिलया विवेकख्याति विरहिणः प्रसुप्तक्लेशा न यावदवधिकालं प्राप्नुवन्ति, ततः प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषुतेषु विषयेषु संमुत्रीभवन्ति। शक्तिमात्रेण प्रतिष्ठा येषां ते तथोक्ताः। तदनेनोत्पत्तिशक्तिरुक्ता वीजभाबोपगम इति च कार्य्यशक्तिरिति। ननु विवेकख्यातिमतोऽपि क्लेशाः कस्मान्न प्रसुप्ताः? इत्यत आह प्रसंख्यानवत इति। चरमदेहो न तस्य देहान्तरसुत्पत्स्यते यदपेक्षयास्य देहः पूर्व इत्यर्थः। विदेहादिष्वित्यर्थः नान्यत्र ननु सतो नात्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेन विषयसंमुखीभावेन क्लेशाः प्रबुध्यन्ते इत्यत आह सतामिति। सन्तु क्लेशाः दग्धस्तेषां प्रसङ्ख्यानाग्निना वीजभाव इत्यर्थः। क्लेशप्रतिपक्षः क्रियायोगस्तस्य भावनमनुष्ठानं तेनोपहवास्तनवः अयवा स यगज्ञानमविद्यायाः प्रतिपक्षः, भेददर्शनमस्मिमाया माध्यस्थ्य रागद्वेषयोः, अनुवन्धवुद्धिनिवृत्तिरभिनिवेशस्येति। विच्छित्तिमाह तथेति। क्लेशानामन्यतमेन समुदाचरताऽभिभवाद्वाऽत्यन्तविषयसेवया वा विच्छिद्यविच्छिद्य तेन तेनात्मना समुदाचरन्ति आविर्भवन्ति वीजीकरणाद्यु पयोगेन वाभिभावकदौर्बल्येत् वेति। वीपसया च विच्छदममुदाचारयोः पीनःपुन्यं दर्शयता यथाक्तात् प्रतुप्तात् भेद उक्तः। रागेण वा समुदाचरता विजातीयः क्रोधीऽभिभयते सजातीयेन वा विषयान्तरवर्त्तिना रागेणैव विषयान्तरवर्त्ती रागोऽभिभूयत इत्याह रागेति भविष्यद्वलेस्त्रयी गतिः यथायोगवेदितव्येत्याह। सहीति भविष्यद्वृत्तिक्लेशमात्रपरामर्शि सर्वनाम। न चैत्ररागपरामर्शि तस्य विच्छिन्नत्वादेवेति। उदारमाह विषय इति। ननु उदार एव पुरुषान् क्लिश्नातीति भवतु क्लेशो अन्येत्वकि श्ननः कयं क्लेशा? इत्यत आह। सर्व एवैतेइति क्लेशविषधत्वं क्लेशपदवाच्यत्वं नातिक्रामन्ति उदारतामाप द्यमानाः अतएव तेऽपि हेयाइति भावः। क्लेशत्वेनैकतां सन्यमानश्चोदयति कस्तार्ह? इति। क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदाद्विशेष इति परिहरति उच्यते सत्यमिति स्यादेतदविद्यतो भवन्तु क्लेशाः, तथाप्यविद्यानिवृत्तौ कस्मान्निवर्त्तन्ते? न खलुपटः कुविन्दनिवृत्तौ निवर्त्तते इत्यत आह मर्वएवेति भेदाइव भेदास्तदविनिर्भागवर्त्तिन इति यावत् कस्मात्? इति प्रश्नः। उत्तरं सर्वे ष्वति तदेव स्फुटयति यदिति आकार्य्यते समारोप्यते शेषं सुगमम् “प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम्। विच्छिन्नोदारूपाश्चक्लेशाविषयसङ्गिनामिति” संग्रहः” विव०। “क्लेशप्रहाणमिह लब्धसवीजयोगाः” “क्लेशकर्मफल भोगवर्ज्जितम्” माघः। “दाशरथ्योः क्षणक्लेशः” रघुः “क्लेशः फलेन हि पुनर्नवतां निधते” कुमा० “यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम्” मनुः। “तत्याजननिरेवास्तु जननीक्लेशकारिणः” माघः २ कोपे ३ व्यवसाये मेदि०। तयोरपि तद्धेतुत्वात्तथात्वम्। “अथे क्लेशतमसोः” पा० हन्तेःड। क्लेशापहः पुत्र

क्लेशक = त्रि० क्लिश–वुञ्। क्लेशशीले “ण्वुला सिद्धे वुञ्विधानं ताच्छील्यादिषु वासरूपन्यायेन तृजादयो न सि० कौ०। तेन क्लेशितेत्यादि असाधु। कर्त्तरि णिनिस्तु भवत्यव। “निःश्वासेनाधरकिसलपक्लशिना विक्षिप- न्तीम्” माघः ताच्छील्ये इत्युक्ते कर्त्तरि तृच् भवत्येव तेन “विद्वांस्तथेव यः शक्तः क्लिश्यमानो न कुप्यति। अनाशयित्वा क्लेष्टारं परलोके च नन्दति” भा० व० ३९ अ०

क्लैतकिक = न० क्लीतकेन निर्वृत्तम ठञ्। मद्ये शब्दचन्द्रिका।

क्लोमन् = न० क्लुगतौ मनिन्। हृदयस्याषोभागे दक्षिण कुक्षिस्थे मांसपिण्डाकारे पदार्थे “तस्याधोवामतः प्लीहा फुप्फुसश्च दक्षिणतो यकृत् क्लोम” सुश्रुतः। “वपावसावहननं नाभिः क्लाम यकृत् प्लिहा” या०। अवहनन फुप्फुषः प्लीहा आयुर्वेदप्रसिद्धः तौ च मांसपिण्डाकारौ सव्यकक्षिगतौ। यकृत् कालकं, क्लाम मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ” मिता०। “वृक्कयोः प्लीह्नि यकृति हृदय क्लोम्नि वा तथा। श्वासो यकृति तृष्णा च पिपासा क्लोमजेऽधिका। नामीष्टहृदय क्लोमनिवद्धास्त्वष्टादश” कण्ठहृदयनेत्रक्लेमनाडीषु मण्डलाः” शुष्कक्लोमगलाननः” इति च सुश्रुतः। सर्व्वे नान्ता अदन्ताः स्युरित्युक्ते क्लोममप्यत्र भरतः। क्लोम च पिपासास्थानमिति वैद्यकम्। अतएव सुश्रुते पिपासा क्लोमजेऽधिका इत्युक्तम् “निष्कुतीत्य क्लोम” दशकुमा० “वल्मीकान् क्लोमभिः” यजु० २५, ८, अस्य पुंस्त्वमपि। “यकृत् क्लोमानं वरुणोभिषज्यन्” यजु० १९, ८५

क्लोश = पु० क्रोश + रस्यलः। भये। “सिन्धूरिव प्रवण आशुया यतो यदि क्लोशमनुष्वनि” ऋ० ६, ४६, १४, क्लेशेति भयनाम” भा०

क्व = अ० किम् + अ किमः कुः। कस्मिनित्यर्थे “के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः” सा० द० “स्थायं स्थायं क्वचिद्यान्तं क्रान्त्वा च क्रन्त्वास्थितं क्वचित्” भट्टिः क्वशब्दौ स्वार्थान्वितयोर्महदन्तरं सूचयतः। “क्वसूर्य्यप्रमवो वंशः क्व चाल्पविषया मतिः” रघुः। सूर्य्यवंशकवि प्रज्ञयोर्विषयविषयिभावोऽत्यन्तमसम्भवीति गम्यते। एवमन्य त्रापि यथायथमूडम्। ततो भवार्थे त्यप् त्यक् वा कृत्य कस्मिन् भधे अर्थे त्रि०। ततः स्वार्थे क टापि। क्वत्यिका। मुग्धवोधमते अस्मात् चिच्चनौ क्वचित् क्वचन। “क्वचित् क्वचित् विवरणे गूढभावः प्रकाश्यते” विवरणटीका। “क्वचन पतनयोग्यं देशमन्विष्यताधः” नैष०। अमरमते द्वे पदे इति भेदः तयोः समासे कादाचितकपदसिद्धिः

क्वङ्गु = पु० कु + अगि उन्। कङ्गौ (काङ्नी) धान्यभेदे हेमच०

क्वण = अव्यक्तशब्दे भ्वा० पर० अक० सेट्। क्वणति अक्वाणीतक्वणीत् चक्वाण। ज्वला० क्वणः क्वाणः। कणितम्। विलोलघण्टाक्वणितेन नागाः” रघुः “दुःसहा हि परिक्षिप्तः क्वणद्भिरलिगाथकैः” अक्वाणिषुश्च्युतोत्साहाः” चक्वणाशङ्कितोयोद्धम्” “विभूषणानां क्वणितञ्च षट्पदः” भट्टिः “किञ्चित्कणाकिन्नरमध्युव स” कुमा० उगप्रादिपूर्वः वीणायाः शब्दे अमरः। णिच् क्वणयति।

क्वण = पु० क्वण–अप्। १ वीणायाः शब्दे, अमरः २ ध्वनिमात्रे हेमच०। कर्त्तरि अच्। ३ शब्दकारके त्रि०

क्वणन = न० क्वण–भावे ल्युट्। १ वीणायाः शब्दे (कनकन) इति २ शब्दभेदे। कर्त्तरि ल्यु। ३ क्षुद्रहण्डिकायां (छोटहाडि) त्रिका०।

क्वथ = निष्पचने (क्वाथशब्दोक्तपाकभेदे) भ्वा० पर० सक० सेट्। क्वथति एदित् अक्वथीत् चक्वाथ क्वाथः। क्वथ्यमानः। णिच् क्वाथयति “जलाशयेषु तप्तेषु क्वथ्यमातेषु वह्निना” भा० आ० ३२६ अ० “पक्षान्तयोर्वाप्यश्नीयात् यवागूं क्वथितां सकृत्” मनुः

क्वथित = त्रि० क्वथ–क्त। १ अतिशयपक्वे व्यञ्जनादौ, २ दशमूलपा चनादौ च हेमच०। भावप्र० क्वथितजलगुणा उक्तायथा “क्वथितस्य जलस्य शीतलीकृतस्य विशेषमाह सुश्रुतः। “शृताम्बु तत् त्रिदोषघ्नं यदन्तर्वाप्यशीतलम्। अरूक्षमनभिष्यन्दि कृमिवृट् ज्वरहृल्लवु। धारापातेन विष्टम्भि दुर्ज्जरं पवनाहतम्। भिनत्ति श्लष्मसंघातं मारुतञ्चपकर्षति। अजीर्णं जरयत्याशु पीतमुष्णोदकं निशिः” अन्तर्वाष्पशीतलम् पिहितमेव शीतलम्”

क्वथिता = स्त्री भावप्र० उक्ते (कडी) इतिख्याते पदार्थे “स्थाल्यां घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत्। अवलेहनसंयुक्तं तक्रन्तत्रैव निःक्षिपेत्। एषा सिद्धा समरीचा कथिता कथिता बुधैः। अवलेहनम्। (अरिहन) इति लोके। “क्वथिता पाचनी रुच्या लघ्वी वह्निपदीपनी। कफानिलविबन्धप्नी किञ्चित्पित्तप्रकोपिणी। अलीकमत्स्याः शुष्का वा किं वा क्वथितया पुनः। वृंहणा रोचना वृष्या वल्या वातगदापहा। कोष्ठशुद्धिकरी शुक्ता किञ्चित्पित्तपकोपनी। अर्द्दिते सहनुस्तम्भे विशेषेण हिता स्मृतौ”।

क्वल = पु० कु + अल–अच्। प्रौढवदरफले “कुवलं यत् पूतीकै र्वा पर्णवल्कैर्वातञ्च्यात् सौम्यं तद्यत् क्वलेराक्षसं तत् तद्यत् तण्डुलर्वैश्चदेवं तद्यदातञ्चनेन मानुषं तद्यद्दध्ना यत् मेन्द्रदध्नातनक्ति सन्द्रत्वाय” इति तैत्ति० २। ५। ३। ५ “सोमव- ल्लीसमानाया लतायाः खण्डाः पूतीकाः। पलाशकाष्ठ स्यांशाः पर्णवल्काः। प्रौढबदरफलानि क्वलाः। ईषदम्लतक्रम तञ्चनं पूतीकादिभिराञ्चनं सोमप्रियम्” भा०।

क्वाण = पु० क्वण भावे घञ्। १ शब्दे उपनिप्रादिपूर्ब्बकतु वीणायाःशब्दे अमरः। ज्वला० कर्त्तरि ण। २ शब्दकर्त्तरि त्रि०

क्वाथ = पु० क्वथ–करणे घञ्। १ अतिदुःखे हेम०। दुःखेन हि चित्तं क्वय्यमानमिव भवतीति तस्य तथात्वम् वैद्यकोक्ते जलादेः पाकभेदे यथा भावप्रकाशे “पानीयं षोडशगुणं क्षुण्णं द्रव्यपले क्षिपेत्। मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम्। कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम्। ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत्। चतुर्गुणमतश्चोर्द्धं यावत्प्रस्थादिकं जलम्। षोडशिकं षोडशगुणम्। “तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम्। शृतः क्वाथः कषायश्च निर्यूहः स विगद्यते”। क्वाथपानमात्रामाह “मात्रोत्तमा पले तत् स्यात् त्रिभिरक्षैस्तु मध्यमा। जघन्या च पलार्द्धेन स्नेहकाथौषधेषु च। तन्त्रान्तरे “क्वाथ्यद्रव्यपले वारि द्विरष्टगुणमिव्यते। चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम्। दीप्तानलं महाकायं पाययेदञ्जलिं जलम्। अन्ये त्वर्द्धं परित्यज्य प्रसृतिं तु चित्किसकाः। क्काथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम्। पारम्पर्योपदेशेन वृद्धवैद्याः पलद्वयम्”। अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया गुरुत्वात् दीप्तानलं महाकायं पलद्वयं पाययेन्मध्यमाग्नि मल्पकायं पलमात्रं पाययेत् मात्रोत्तमा पलेनस्यादित्यादि वचनात्। “काथे क्षिपेत् सिताश्चां शैश्चतुर्थाष्टमषोडशैः। वातपित्तकफातङ्के विपरीतं मधु स्मृतम्। जीरकं गुग्गुलुं क्षारं लवणं च शिलाजतु। हिङ्गु त्रिकटुकं चैव क्वाथे शाणोन्मितं क्षिपेत्। क्षीरं घृतं गुडं तैलं मूत्रं चान्यत् द्रयं तथा। कल्क चूर्णा दकं क्वाथे निःक्षिपेत् कर्षसंमितम्। तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः। औषधं हेमरजतमृद्भाजनपरिस्थितम्। पिवेत् प्रसन्नहृदयः पीत्वा पात्रमधोमुखम्। बिधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत्”। क्वाथसेवनप्रकारादि भावप्र० दर्शितं यथा “तत्रानुक्ते प्रभातं स्यात्कषायेषु विशेषतः। मुखयभैषज्यसम्बन्धो निषिद्धस्तरुणज्वरे। तोयपेयादिसंस्कारे त्वदोषं तत्र भेषजम्”। मुख्यभेषजं क्वाथः तस्य सम्बन्धः पानम्। यतआह “न कषायं प्रशंसन्ति नराणां तरुणे ज्वरं। कषायेणाकुलीभता दोषा जेतुं सुदुस्तराः”। आकुलीभूताः प्रवृद्धाः स्वमार्गं परिन्यज्य इतस्ततेगताः। अत्र कषायशब्देन क्वाथो गृह्यते। उक्ताश्च क्वाथस्य पर्य्यायाः। “शृतं काथःकषायश्च निर्य्यूहः स निगद्यत, इति। “तोयपेयादिसंस्कारे निर्द्दोषं तत्र भेषजमिति”। तत्र तरुणज्वरे भेषजम् मुख्यभेषजं क्वाथरूपं न तु कल्कनमुद्दिश्य कषायः प्रतिषिध्यत इति कल्कनं तोयपेयायवाग्वादिकम्। ननु “स्वरसश्च तथा कल्कः काथश्च हिमफाण्टकौ। ज्ञेया कषायाः पञ्चैते लघवः स्युर्यथोत्तरम्” इति वचनात् स्वरसादयोऽपि कथं न निषिध्यत्ते। तत्राह “तत्र यस्तु कषायः स्यात्स वर्ज्ज्यस्तरुणज्वरे” इति। चतुर्थमागावशेषकरणेनाष्टमभागशेषकरणे च कषायवर्णः कषायरसश्च स्यात्। स कषायः क्वाथः स तरुणज्वरे निषिद्धः। कषायस्य लक्षणमाह, “पादशिष्टः कषायः स्यात्”। अतः षडङ्गादिस्तरुणज्वरे न निषिद्धः पाकादूर्द्धपाके चोक्तलक्षणाभावेन कषायत्वाभाबात्। अथ तरुणज्वरे कषायस्य दोषमाह “दोषा वृद्धाःकषायेण स्तम्भितास्तरुणज्वरे। स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्”। कषायेण स्तम्भिता प्रवृत्तये निवारिताः। यत आह कषावरसगुणात् “कषायः स्तम्भनः शीतोरूक्षः पित्तकफापहः” इत्यादि। स्तभ्यन्ते आध्मानं कुर्वन्ति न विपच्यन्ते सुखेन न विपच्यन्ते दुःखं दत्त्वाविलम्बेन विपच्यन्ते इति यावत्”।

क्वाथोद्भवः = न० क्वाथादुद्भवति उद् + भू–अच्। तुल्याञ्जने अमरः।

क्वेल = कम्पे अक० गतौ सक० प० सेट् कबि०। क्वेलति अक्वेलीत् ऋदित् चङि अचिक्वेलत् त।

क्ष = पु० क्षि–बा० ड। १ संवर्त्ते २ राक्षसे ३ नरसिंहे ४ विद्यति ५ क्षेत्रे ६ क्षेत्रपाले ७ नाशे च मेदि०। तस्य वाचकशब्दाः तन्त्रशास्त्रे वर्ण्णाभिधाने उक्ता यथा “क्षः कोपस्तुम्बुकः कालोरूक्षः संवर्त्तकः परः। नृसिंहोविद्युता माया महातेजा युगान्तकः। परात्मा क्रोधसंहारौ वर्णात्तो मेरुवाचकः। सर्वाङ्गः सागरः कामः संयोगान्तस्त्रिपूरकः। क्षेत्रपालो महाक्षोभी मातृकान्तोऽनलः क्षयः। मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः। छायापुत्रश्च संघातोमलयश्रीर्ललाटगः” अत्र संयोगान्त इत्युक्तेः शब्दकल्पद्रुमेक्षकारस्य वर्ण्णान्तरत्वकल्पनम् लोकशास्त्रविरुद्धत्वादतीव प्रामादिकम्। तथाहि अस्य कषयाः संयागजत्वेन कादित्वम। पृथग्वर्ण्णत्वे चक्षमे चुक्षोद चिक्षेपेत्यादिकपदं न सिद्ध्येत् असंयक्ततया हलादिशेषाप्रसक्तौ कवर्गादित्वाभावेन चुत्वाप्रसक्तेः। किञ्च संयुक्तवर्ण्णात् पूर्ब्बस्य गुरुत्वेन “निपीय यस्य क्षितिरक्षिणः कथाम्” नैषधे “लाङ्गूलविक्षप विसर्पिशोभैः कुमारादौ काव्ये च “गजारूढोयातिक्षितिपतिरित्यादौ” “दक्षिणे कालिकेति” च भैवरतन्त्रोक्त कालीस्तवे च सर्वत्र तत्पूर्ब्बस्य गुरुत्वे सत्येव छन्दोनुगुणता असंयुक्तवर्ण्णत्वे सर्बत्र छन्दोभङ्गः स्यात्। न च तस्यासंयुक्ततया क्वचिदपि तत्पूर्ब्बस्य लघुत्वं दृष्टम्। अतएव कविकल्पद्रमे” “स्वदाद्यन्तादिमक्रमः” इति प्रतिज्ञाय कादिष्वेव क्षकारादिधातुपाठः मेदिन्यादौ कोषेऽनि तथैव कादिषु तस्य पाठः। तन्त्रेतु कषयोः संयोगजत्वेऽपि मातृकावर्ण्णानामेकपञ्चाशत्संख्यापरिपूर्त्त्यै लकारवत् पृथक कीर्त्तनं न्यासादिकार्य्यार्थं “पञ्चाशल्लिपिभिर्माला विदिता सर्व्वकर्मसु। अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता। क्षर्णं मेरुमुखं तत्र कल्पयेनमुनिसत्तम!। अनया सर्त्रमन्त्राणां जपः सर्वसमृद्धिदः” इति गोतमतन्त्रोक्तजपाङ्गमालाकल्पनार्थञ्च न वर्ण्णान्तरत्वार्थम्। एवं सर्वसामञ्जस्ये वर्णान्तरत्वकल्पनं लोकशास्त्रविरुद्धत्वादुपेक्ष्यम्। “विशेषं कथयाम्यद्य प्रोच्चार्य्याः कण्ठतः स्वराः। ऋद्वयं जिह्वया मूर्द्ध्ना ऌद्वयं दत्तजिह्वया। मुखस्थानाद्धलोवाच्याः क्षकारः कण्ठघातजः” इति वरदातन्त्रे १० पटले तस्य कण्ठस्थानोच्चर्य्यत्वीक्तिरपि आद्यककाराभिप्रायेण द्रष्टव्या। “अतएव षान्ताः स्युर्यदि वा क्षान्ता वर्ण्णानामनुरोधतः। पृथक् क्रमेण वक्ष्यन्ते तथाऽप्येते समन्वयात्” विश्वप्रकाशे तस्य उभयरूपतासमन्वय उक्तः। तत्समन्वयश्चौक्तरीत्या बोध्यः। एतेन वङ्गानां खतुल्यत्वेन मैथिलानां च तस्य छकारत्वेनोच्चारणं प्रामादिकमेव।

क्षज = कृच्छ्रजीवने इदित् चुरा० उभ० अक० सेट्। क्षञ्जयति ते अचक्षञ्जत् त। क्षञ्जयां बभूव आस चकार चक्रे।

क्षज = बधे भ्वा० आ० सक० सट् घटा०। क्षजते अक्षजिष्ट। चक्षजे षित् क्षजा। क्षजयति ते अचिक्षजत् त।

क्षज = गतौ दाने च भ्वा० आत्म० इदित् सक० सेट्। क्षञ्जते अक्षञ्जिष्ट चक्षञ्जे। कर्म्मणि क्षञ्ज्यते घटा० क्षञ्जयति इणि अक्ष(क्षा)ञ्जि णमुलि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् अनुपधाया अपि दीर्घः

क्षण = वघे तना० उभ० सक० सेट्। क्षणोति क्षणुते। अक्ष णीत् अक्षणिष्ट। चक्षाण चक्षणे। उदित् क्षणित्वा क्षत्वा। क्षतिः क्षतः। क्षणः। नान्तत्वमतेऽपि रूपं तुल्यम् विचि क्षन् इति भेदः।

क्षण = पु० क्षणोति दुखं क्षण–अच्। १ उत्सवे २ मुर्हूर्त्तात्मक कालस्य द्वादशांशे त्रिंशत्कलारूपे कालांशभेदे अमरः ३ प्रशस्त मुहूर्त्ते दीपिका “ध्रुवमृदुचरवर्गे वाजिहस्ता समेतैः क्षणमुदयमथैषां सत्सु केन्द्रस्थितेषु” नाडीद्वया त्मके ४ मुहूर्त्तरूपे कालांशे सि० शि० तद्वाक्यं १७८८ पृष्ठ दर्शितम्। ५ निमेषक्रियाबच्छिन्नकालस्य चतुर्थभागे शब्दचि० तादृशार्थाभिप्रायेण “क्षणादिः स्यादुपाधितः” भाषा० व्या० मुक्तावलीवाक्यं तच्च कालशब्दे १९८५ पृ० दर्शितम्। ६ निर्व्यापारस्थितौ अमरः ७ अवसरे ८ मध्ये ९ पराधींनतायां हेमच०। तत्र उत्सवकालभेदयोः “क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना” माघः। उत्सवे “गार्हस्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत्” उ० त० ब्रह्मपु०। “क्षणमुतसवम्” उ० त० रघु०। कालांशे “क्व नु मां क्षणभिन्नसौहृदः” “स्थिताः क्षणं पक्ष्मसु ताडिताधराः” कुमा०। अवसरे “स्थानं नास्ति क्षणोनास्ति नास्ति प्रार्थयिता नरः। तेन नारद! नारीणां सतीत्वमुपजायते” “दीयते स्म शयितुं शयनीये न क्षणः क्षणदयाऽपि बधूभ्यः” माघः। अत्र क्षणदयापि न क्षणो दत्तैति उत्सवार्थत्वेन विरोधस्य कालविशेषार्थत्वेन परिहारात् विरोधभासः। “नीता रात्रिः क्षणैव मया सार्द्धमिच्छारतैर्या” मेघः

क्षणक्षण = अव्य० बा० प्रकारे–द्वित्वम्। क्षणमात्रे त्रिका०

क्षणतु = पु० क्षण–भावे बा० अतु। क्षते विदरणादौ हेम०

क्षणद = पु० क्षणं यात्रादिमर्हूत्तं उतसवं वा ददाति दा–क। १ मौहूर्त्तिके गणके मेदि० २ जले न० हेम०। ३ रात्रौ ४ हरिद्रायाञ्च स्त्री अमरः “क्षणदापायशशाङ्कदर्शनः” रघुः “न क्षणः क्षणदयापि बधूभ्यः” माघः

क्षणदाकर = पु० क्षणदां करोति हेतौ ट। निशाचरे चन्द्रे “आरुह्य नार्य्यः क्षणदासु यत्र” माघः

क्षणदाचर = पु० स्त्री क्षणदायां चरति चर–ट। निशाचरे राक्षसे “सान्त्विता धर्म्मराजेन प्रसेदुः क्षणदाचराः” भा० व० ५५ अ०। “सानुप्लवः प्रभुरपि क्षणदाचरणाम्” रघुः। स्त्रियां जातित्वात् ङीष्। २ निशाचरे खगादौ त्रि० स्त्रियां ङीप्।

क्षणदान्ध्य = न० क्षणदायामान्ध्यम्। रात्रिकाणत्वे। “म्रो तोजं सैन्धवं कृष्णां रेणुकाञ्चापि पेषयेत्। अजमूत्रैण ता वर्त्त्यः क्षणदान्ध्याञ्जने हिताः” सुश्रुतः

क्षणद्युति = स्त्री क्षणं द्युतिरस्याः। क्षणप्रभायां विद्युति।

क्षणन = न० क्षण–भावे ल्युट। बधे हनने अमरः

क्षणनिःश्वास = पुंस्त्री० क्षणात् मुहूर्त्तात् निःश्वासोऽस्य। शिशुमारे (शोशक) शब्दरत्ना० स्त्रियां जातित्वात् ङीष्।

क्षणप्रभा = स्त्री क्षणं प्रभाऽस्याः। विद्युति चञ्चलायाम् अमरः

क्षणभङ्ग = पु० क्षणात्परः भङ्गः ५ त०। सर्व्वषां भावानां क्षणिकत्वे क्षणनश्वरत्वे। स च सर्व्व० द० दर्शिगोयथा।“तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधरपटलं सन्तश्चामी भावा इति। न चयमसिद्धो हेतुः अर्थक्रियाकारित्वलक्षण सत्त्वस्य नीलादिक्षणानां प्रत्यक्षसिद्धत्वात् व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापकक्रमाक्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्धत्वाच्च। तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्ति “परस्परविरधे हि न प्रकारान्तरस्थितिः। नैकतापि विरुद्धानामुक्तिमात्रविरोधतः इति न्यायेन व्याघातस्योद्भटत्वात्। तौ च क्रमाक्रमौ स्थायिनः सकाशाद्व्यावर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयन्तौ क्षणिकत्वपक्ष एव सत्त्वं व्यवस्थापयत इति सिद्धम्। नन्वक्ष णकस्यार्थक्रियाकरित्वं किं न स्यात्? इति चेत् तदयुक्तं विकल्पासहत्वात् तथा हि वर्त्तमानार्थक्रियाकरणकाले अतीतानागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति? न वा?। आद्ये तयोरनिराकरणप्रसङ्गः समर्थस्य क्षेपायोगात् यत् यदा यत्करणसमर्थं तत् तदा तत्करोत्येव यथा सामग्री स्वकार्य्यं समर्थश्चायं भाव इति प्रसङ्गानुमानाच्च। द्वितीयेऽपि कदापि न कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थक्रियाकारित्वस्य, यत् यदा यन्न करोति तत् तदा तत्रासमर्थं यथा शिलाशकलमङ्कुरे, न चैवं वर्त्तमानार्थक्रियाकरणकाले वृत्तवर्त्तिष्यमाणे अर्थक्रियेकरोतीति तद्विपर्य्ययाच्च। ननु क्रमवत्सहकारिलाभात् स्थायिनः अतीतानासतयोः क्रमेण क्रमणमुपपद्यते इति चेत् तत्रेदं भवान् पृष्टो व्याचष्टां, सहकारिणः किं भावस्योपकुर्वन्ति? न वा?। नो चेत् नापेक्षणीयास्ते अकिञ्चित्कुर्व्वतां तेषां तादार्थ्यायोगात्। उपकारकत्वशक्षे सोऽयमुपकारः किं भावाद्भिद्यते? न वा?। भेदपक्षेआगन्तुकस्यैव तस्य कारणत्व स्यात् न भावस्याक्षणिकस्य आगन्तुकातिशयान्क्वयव्यतिरेकानुविधायित्वात् कार्य्यस्य। तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्म्मण्यस्ति तयोः फलम्?। चर्म्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेटसत्फलः” इति। ०अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करोतीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणो न जह्यात् प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं कार्य्यं कुर्य्यात् स्वभावस्वानपायात्। किञ्च सहकारिजन्योऽतिशयोऽतिशयान्तरमारभते? न वा? उभयथापि प्रागुक्तदूषणपाषाणवर्षणप्रसङ्गः। अतिशयान्तरारम्भपक्षे बहुमुखानवस्थादौस्थ्यमपि स्यात्। अतिशये जनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परापातैत्येकानवस्थाऽऽस्थेया। तथाहि सहकारिभिः सलिलपवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकमभ्युपेयम् अपरथा तदभावेऽव्यतिशयः प्रादुर्भवेत्, वोजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते अन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रसज्येत। तस्मादतिशयार्थमपेक्ष्यमाणैःसहकारिभिरतिशयान्तरमाधेयं वीजे, तस्मिन्नप्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य वीजस्य जनकत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता। अथोपकोरः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षः कार्य्यं जनयति तत्सापेक्षो वा। प्रथमे वीजादेरहेतुत्वमापतेत्। द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे अतिशय आधेय एवं तत्र तत्रापोति वीजादिजन्यातिशयनिरातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा भवे। एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्म्मिण्युपकारान्तरमाधेयमित्यु पकाराधेयवीजातिशयाश्रयातिशयप रम्परापातैति तृतीयानवस्था दुरवस्था स्यात्। अथ भावाद्भिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति फलितं ममापि मनोरथद्रुमेण। तस्मादक्षणिकस्यार्थक्रिया दुर्घटा। नाप्यक्रमेण घटते विकल्पासहत्वात्। तथाहि युगपत्सकलकार्य्यकरणसमर्थः स भावस्तदुत्तरकालमनुवर्त्तते न बा। प्रथमे तत्कालवत् कालान्तरेऽपि तावत्कार्य्यकरणमापतेत्। द्वितीये स्थायित्वपत्याशा मूषिकभक्षितवीजादावङ्कुरादिजननप्रार्थनामनुहरेत्। यत् विरुद्धधर्म्माध्यस्त तन्नामा यथा शीतोष्णे विरुद्धर्म्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः। न चायमसिद्धो हेतुः स्थायि- नि कालभेदेन सामर्थ्यासामर्थ्ययोः प्रसङ्गतद्विपपर्य्यय सिद्धत्वात्। तत्रासामर्थ्यसाधकौ प्रसङ्गतद्विर्य्ययौ प्रागुक्तौ सामर्थ्यसाधकावभिधीयेते यद्यदा यज्जननासमर्थं तत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम् असमर्यश्चायं वर्त्तमानार्थक्रियाकरणकाले अतीतानागतयोरर्थकिययो रिति प्रसङ्गः यद्यदा यत् करोति तत्तदा तत्र समर्थं यथा सामग्री स्वकार्य्ये, करोति चायमतीतानागतकाले तत्कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विपर्य्ययः। तस्माद्विपर्क्ष क्रमयौगपद्यव्यावृत्त्या व्यापकानु पलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्य्ययबलात् गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम्। तदुक्तं ज्ञानश्रिया “यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमी सत्ताशक्तिरिहार्थकर्म्मणि मिते सिद्धेषु सिद्धा न सा। नाप्येकैव विधान्यथा परमतेनापि क्रियादिर्भवेत् द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यतीति”। न च कणभक्षादिपक्षकक्षी कारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं, सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात्। न च तत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः, प्रयोजकगौरवापत्तेः अनुगतत्वाननुगतत्वविकल्पपराहतेश्च सर्षपमहीधरादिषु विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतगणेषु गुणवच्चाप्रतिभासनाच्च। किञ्च सामान्यं सर्व्वगतं, स्वाश्रयसर्व्वगतं वा? प्रथमे सर्ववस्तुसङ्करप्रसङ्गः अपसिद्धान्तापत्तिश्च यतः प्रोक्त प्रशस्तपादेन “स्वविषयसर्वगतसिति” किञ्च विद्यमाने वटे वर्त्तमानं सामान्यमन्यत्र जायमानेन सम्बध्यमानं तस्मादागच्छत् सम्बध्यते अनागच्छद्वा आद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुपपत्तिः। किञ्च विनष्टे घटे सामान्यमवतिष्ठते? विनश्यति? स्थानान्तरं गच्छति? वा प्रथमे निराधारत्वापत्तिः, द्वितीये नित्यत्ववाचोयुक्त्ययुक्तिः, तृतीये द्रव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्तत्वात् सामान्यमप्रामाणिकम्। तदुक्तम् “अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि। तस्मादचलतः स्थनाद्घृत्तिरित्यतियुक्तता। यत्रासौ वर्त्तते भावस्तेन सम्बध्यते न तु। तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम्। न याति न च तत्रासीदस्ति पश्चान्नचांशवत्। जहाति पूर्वं नाधारमहो व्यसनसन्ततिरिति”। अनुवृत्त प्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन”। विवरणेपन्यासे चायं पक्षः पूर्ब्बपक्षीकृत्य दूषितो यथा “अथैवं वटादिषु क्षणिकत्वं साध्येत विमताः उपान्त्यादयो घटसत्ताक्षणाः स्वस्वानन्तरक्षणभाविघटनाशव्याप्ताः घटसत्ताक्षणत्वादन्त्यघटक्षणवदिति” तन्न विमतो घटनाशक्षणो घटसत्तावान् कालत्वात् सम्मतवदित्याभासमानत्वात्। अत्र घटाभावानुभवविरोध इति चेत् तर्हि क्षणिकत्वानुमानेऽपि सोऽयं घट इति प्रत्यभिज्ञाविरोधोऽस्त्येव। ननु सर्वे भावाः क्षणिकाः अर्थक्रिया कारित्वात् व्यतिरेकेण शशविषाणवत् विपक्षे स्थायिनोऽर्थ क्रियानुपपत्तिर्बाधिका। न च स्थायिनएव पदार्थस्य निमित्तसंयोगादन्यथाभूतस्यार्थक्रियापूर्ब्बकं कार्य्यमुत्पादयितुं सामर्थ्यं न क्षणिकस्येति काव्यम् किमसौ स्थायी पदार्थ एकमेव कार्य्यमुत्पादयेत्? उत युगपदनेकानि? अथवा क्रमेणानेकानि?, तत्र प्रथमद्वितीययोः कृतं स्था यित्वेनासत्कार्य्योत्पादनस्य क्षणिकेनैव सिद्धेः। न तृतीयः समर्थस्य क्षेपायोगात्। अतोभावानामेकस्मिन्नेव क्षणेऽर्थक्रियाकारित्वं सत्त्वमिति, नैतद्युक्तं त्वन्मते अर्थ क्रियायादुर्निरूपत्वात्। किमर्थक्रिया नाम संविदां स्वगोचरज्ञानजननं? किंवा क्षणान्तरोत्पादनम्? आदोऽपि स्वसन्ताने तज्जननं? पुरुषान्तसन्ताने वा? सर्वज्ञसन्ताने वा? नाद्यः संविदां स्वप्रकाशत्वेन तदसम्भवात्, अस्तु तर्हि द्वितीयः, देवदत्तसवेदनं हि स्वप्रकाशमपि यज्ञदत्तसंवेदनस्य विषयत्वाज्जनकं भविष्यतीति, तदसत् न तावत् प्रत्यक्षज्ञानस्य विपयतया जनकमिति शक्यं वक्तूं, न हि पुरुषान्तरज्ञानं प्रत्यक्षतया क्वचिद्दृष्टं। नाप्यनुमानज्ञानविषयतया जनकं त्वया पुरुषान्तरप्रत्यक्षज्ञानमेव विषयजन्यमित्यङ्गीकारात्। ननु तर्हि तृतीयोऽस्तु सर्वज्ञस्य हि प्रत्यक्षज्ञानं सर्वपुरुषगतसंवेदनानि विषयीकुर्वत् तैर्जन्यते, मैवं तथासति सोपप्लवैः सांसारिकसंवेदनैरीश्वरसंवेदनमप्युपप्लुतं स्यात् तन्मते ज्ञानज्ञेययोरसेटात्। अथ ईश्वरज्ञानमुपप्लुतमपि नोपप्लवदोपं भजते तत्त्वज्ञानेनोपप्लवस्य बाधादिति चेत् मैवं न तदेव ज्ञानं सोपप्लवं बाधते उपप्लवस्येकस्मिनेव क्षणे प्राप्तिबाधयोरसम्भवात् नापि ज्ञानान्तरमुत्पाद्य उपप्लवं बाधितुं क्षमते पूर्ब्बज्ञानोपप्लवस्य ज्ञानान्तरा विषयत्वात् विषयत्वे पूर्व्वज्ञानान्तरम्प्युपप्लुतं सत् कथं वाधकं स्वात्? नचोपप्लवांशं विहाय संवेदनांशस्यैवेश्वरज्ञामं प्रति विपयतया जनकत्वं, तस्मिन् सत्युपप्लवानमिज्ञः कथमीश्वर उपदिशेत्। नापि क्षणान्त्रोत्पादनमर्थक्रियेति द्वितीयः पक्षः, त्वत्प्रक्रियया चरमक्षणस्यासत्त्वप्रसङ्गात् तथा हि विज्ञानानि स्थायित्वकल्पनया द्रव्यगुणादिदोषैर्विषयैश्चोपप्लुतानि पूर्ब्बपूर्ब्बसजातीयविज्ञानलक्षणेभ्यः संस्कारेभ्य उत्तरोत्तराण्युत्पद्यन्ते तत्र सर्वमिदं क्षणिकमिति भावनया स्थायित्वकल्पना निवर्त्तते स्वलक्षणमिति भावनया द्रव्यगुणादिकल्पना नश्यति दुःखमिति भावनया रागादिदोषप्रवृत्तिसुखदुःखोपप्लवाः क्षीयन्ते, शून्यमिति भावनया विषयोप्लवविगमः। ततश्च भावनाभेदैश्चतुर्विधैश्चतुर्विधसंस्कारविरोधिभिश्चतुर्विधोपप्लवे क्रमेण मन्दीकृते भावनाप्रकर्षस्यान्त्यभूतादुपान्त्य प्रत्ययात् सर्वोपप्लवविरहि विज्ञानमुत्पद्यत तच्च संस्कार सन्तानान्त्याच्चरमक्षण इति गीयते, तस्य च कार्य्याभावादसत्त्वापत्तौ तथैव क्रमेण पूर्ब्ब पूर्ब्बज्ञानानामप्यसत्त्वं प्रप्नुयात्। चरमक्षण ईश्वरज्ञानस्य जनकस्तद्वियत्वादितिचेत् तर्हि चरमक्षणसर्वज्ञज्ञानयोर्विशुद्धतया तुल्यस्वभावयोरेकसन्तानत्वं स्यात् तल्यस्वभावयोः कार्यकारणभावस्यैकसन्तानलक्षणत्वात् ततश्च सन्तानाविच्छेदादनिर्मोक्षः स्यात्। सर्वज्ञसन्तानप्रवेशएव मोक्ष इति चेत् एवमपि चरमक्षणस्य ईश्वरज्ञानविषयत्वं दुर्निरूपमिति, तज्जनकत्वं दूरापास्तं, भेदे हि सति संविदो र्वषयविषयिभावः नचेत भेदोऽस्ति। न तावत् संवित् संविदन्तरात् संविदाकारेण भिद्यते तथासति वैलक्षण्यसिद्धये प्रतियोगिनोऽसंवित्त्व प्रसङ्गात् नाप्यसंविदाकारेण धर्म्मिणोरसंवित्त्वप्रसङ्गात् तस्माच्चरमक्षणस्य सर्वज्ञज्ञानोत्प दनलक्षणयाऽर्थक्रियया सत्त्वं दुःसम्पादम्। यद्यस्यर्थक्रिया कल्प्येत तदापि सा किं कारणस्य सत्त्वं सम्पादयति? उत प्रतीतिम्? नाद्यः कार्य्यात पूर्वमेव कारणस्य सत्त्वात अन्यथा कारण त्वायोगात्। द्वितीये तत् कार्य्यं स्वकार्य्येण प्रतिभासितं सत् कारणप्रत्यायकं तदपि तथैवेत्यनवस्था स्यात्। संवित् स्वयमेव स्वात्मान प्रकाशयतीति नानवस्थेति चेत् तर्ह्यर्थक्रिया प्रतीतिहेतुरिति पक्षोहीयेत। स्वयमेव स्यार्थक्रियेति वदन आत्माश्रयंदुनिर्वारम्। तदेवं न सत्त्वेनार्थक्रियाकारित्वं किन्तु स्वाभाविकः कश्चिद्धर्मः, तथा चैकस्मिन् क्षणेऽर्थक्रियां कृत्वा पुनस्तूष्णींभूतस्यापि स्थायिनः सत्त्वं न विरुध्यते। यदुक्तं स्थायिनः क्रमेणानेककार्य्योत्पाद कत्वं नास्ति समर्थस्य क्षेपायोगात् इति तदसत शक्तस्या पि सहकारिसन्निधानविशेषव्रमापेक्षया कार्य्यक्रमौपपन्नः लोके तथैवानुभकात्। अथ मतम् शक्तस्य सहकार्य्य- पेक्षाया अप्ययुक्तत्वात् अशक्ता एव सर्वे पदार्थाः परस्परापेक्षया सामग्रीं जनयन्ति सा च शक्ता कार्य्यमुत्पादयति, तदप्ययुक्तं सामग्रीं प्रत्यपि शक्तत्वे पदार्थानामन्योन्यापेक्षा न युक्ता अशक्तत्वे च तदजनकत्वात् निष्फलाऽन्योन्यापेक्षेति अनपेक्षैव सर्वत्र स्यात्। मा भूत्तर्हि कस्यापि सहकार्य्यपेक्षति चेत् न अनुभवविरोधात्। नचानुभवोभ्रान्तः, बाधाभावात्,। यद्यपि शक्तस्याशक्तस्य वाऽ पेक्षा न युक्तेत्युक्तं तथापि शक्तत्वाशक्तत्वविनिर्मुक्तवस्तु मात्रस्य सहकार्य्यपेक्षा स्यात् न्यायस्यास्य त्वयाप्यङ्गी कार्य्यत्वत्। तथा हि कार्य्यसत्त्वेऽसत्त्वहानिः असत्त्वे चासंबद्धता कारणबिशेषेण कार्य्यविशेषस्य समवायानिरूपणात् सर्वं सर्वस्मादत्पद्येतेति परेण चोदिते सत्त्वासत्त्वसम्बद्धत्वासंबद्धत्वविशेषं विमुच्य नियतपूर्ब्बभाबि कारणं नियतो त्तरभावि कार्यमिति त्वया निरूपणीयम् अन्वयव्यतिरेकौ तत्र निरूपकौ स्त इति चेत् सहकारिण्यपि तौ स्त एव तस्मादस्त्येव सहकार्यपेक्षा तत्कृतस्योपकारबिशेषश्चिन्त्यताम्। यत्त्वत्रेकदेशी मन्यते अन्वयव्यतिरेकसिद्वा भूम्युदकादिसह कारिणो वीजाख्ये कारणे विशेषमुच्छूनताख्यं जनयन्ति ततस्तद्वीजमुङ्कुराख्ये कार्ये शक्तम् अन्यथामुपकारी भूम्यादिर्वीजेन नापेक्ष्येतेति, तदसत् वीजं स्वगतविशेषोत्पत्तौ शक्तं न चेत् सहस्रसन्निधानमपि न तं जनयेत् ततोनाङ्कुरोत्पादनेऽपि शक्ष्यति। अथ शक्तं तदापि यदि सहकारिसहकृतः विशेषान्तरं प्राप्योच्छूनतायां शक्नुयात् तदाऽनवस्था स्यात्। अथ तदप्राप्यैव तत्र शक्तं तदाङ्कुरेऽपि विशेषमन्तरेणैव शक्तं स्यात्। अथ मतम् अङ्कुरोत्पत्ति रुच्छूनत्वजन्मपूर्ब्बिका उच्छूनतोत्पत्तिस्तु सहकारि सन्निधिमात्रसाध्या तथैव दृष्टत्वादिति चेत् न तथासति शक्तिमता कारणेन स्वात्मन्यनुपकुर्वन्नपि सहकार्यपेक्ष्यत इति त्वयैव स्वमतव्याघात आपादितः स्यात्। तस्मान्नैक देशिपक्षो युक्तिसहः। नन्वत एवास्मन्मतमादरणीयं न हि वयं तद्वत्कारणस्वरूपे सहकार्युपकारं ब्रूमः किं तर्हि क्षणिकान्मूलकारणादुत्पद्यमानं कार्यं सहकारिण मपेक्षते कार्यस्य बहुकारणसाध्यत्वादिति ब्रूमः। यद्यपि स्थायिकारणमतेऽप्येतावत् समानं तथापि तन्मते थावत् कारणसत्त्वं नैरन्तर्य्येण कार्योत्पत्तिर्दुर्वारा नियामकाभावात्। न च सहकारिसम्बन्धो नियामकः सम्बन्धस्यापि यावत्सम्बन्धिसत्त्वं भवितव्यत्वात्। न च तस्य सम्बन्धान्तरं नियामकम् अनवस्थापातात्। न च वाच्यं क्षणिकपक्षेऽपि न कारणसत्त्वक्षणे कार्यंजायते तयोर्यौग पद्यप्रसङ्गात् अन्यदा जन्माङ्गीकारे चानियमापत्तिरिति, कारणान्तरक्षणस्य कार्यनियामकत्वात् अतः क्षणिकत्वपक्षएव श्रेयान्, मैवं सर्वत्र हि कार्यकारणभावो व्याप्ति बलेन निश्चेतव्यः तत्र किं त्वन्मते कार्य्यकारणव्याप्ति र्धूमाग्निव्यक्त्योः? उत तत्सन्तानयोः?। नाद्यः क्षणिकयोर न्वयव्यतिरेकबुद्धिद्वयकालावस्थानायोगात्। द्वितीयेऽङ्गारावस्थादप्यग्नेर्धूमोजायेत तत्सन्तानपातित्वाविशेषात् काष्ठाभावात्तदा जन्मनेति चेत् तस्यापि स्वसन्ताने विद्यमानत्वात् नचाग्निकाष्ठयोः सम्बन्धाभावः सन्तानद्वयनित्यत्वेन तस्याप्यनिर्व्वाव्यत्वात्। सम्बन्धः सम्बन्धान्तरपूर्ब्बक त्वात् न सदातन इति चेत् न अनवस्थापत्तेः त्रिचतुरकक्षाविश्रान्त्यभ्युपमेन नानवस्था इति चेत् तर्हि स्थायिकारणाभ्युपगमेऽप्यनवस्थाया। सुपरिहरत्वान्नोक्तदोषः। ननु स्थिरकारण उपकारकत्वाङ्गीकारे यदि स्थायित्ववादी स्वमतमपि समीकुर्यात् तर्हि तन्नाङ्गीकुर्म्म इति चेत् धूमकाष्ठयोः कार्यसहकारिणोरुपकार्योपकारकभावस्यान्वयव्यतिरेकसिद्धस्यावर्ज्जनीयत्वादन्वयव्यतिरेकयोश्चोपकार्योपकारकभावसाधकत्वं मूलकारणतत्कार्ययोरग्निधूमयोर्दृष्टं तस्मादुपकारके सहकारिणि मतद्वयेऽप्यपेक्षा समाना। तथा च क्षणिकपक्षं यथैकस्य वह्नेः सहकारिभेदात् देशभेदाच्च युगपदनेककार्यममभ्युपेयते वह्निः स्वदेशे वह्न्यन्तरं जनयति उपरिष्टाद्धूमम्, अधस्ताद्भस्म, पुरुषे विज्ञानञ्चेति तथा स्थायिपक्षेऽप्येकस्य कारणस्य कालभेदात् सहकारिभेदाच्चानेककार्यजनकत्वत् तत्र क्रमकारित्वं किं न स्यात्। नचेताबता क्षणिकस्था यिवादिनोर्मतसाङ्कर्यं शङ्कनीपं पूर्वस्य प्रतिकर्म्मव्यवस्थवादस्यान्ते निराकृतत्वात्। तदेवमतिदुष्टं क्षणिक विज्ञानवादिमतमुपेक्ष्य कूटस्थनित्यचैतन्ये सर्व्वमध्यस्ततया प्रतीयत इत्ययमेव वेदान्तवादोऽतिनिर्दोषत्वादादरणीय” इति। आत्मतत्त्वविवेके च “अथ बाधकं भवदात्मानि क्षणभङ्गोवेत्यादिना” पञ्चविप्रतिपत्तीनाद्भावितानां मध्ये प्रथमविप्रप्रतिनिरासेऽस्य विवृतिर्दृश्या

क्षणभङ्गुर = त्रि० क्षणं प्राप्य भङ्गुरः। क्षणमात्रेण विनाशशालिनि “यदि पुनरमी किमपि नाहमाभ्पदमस्ति किञ्चिदपि वस्तु स्थिरं, विश्वमेव क्षणभङ्गुरम्, अलीकंवेत्यवधार येरन् न किञ्चिदपि कामयेरन्, न चाकामयमानाः केचिटपि प्रवर्त्तन्ते” आत्मत० शिरोमणिः

क्षणरामिन = पुंस्त्री० क्षणेक्षणे रमते रम–णिनि। पारावते शब्दमा०

क्षणिक = त्रि० क्षणः स्वसत्ता व्याप्यतयाऽस्त्यस्य ठन्। क्षणमात्र स्थायिनि। तल्लक्षणञ्च आत्मतत्त्वविवेकव्याख्याने रघुनाथ शिरमण्युक्तम् यथा “क्षणिकत्वञ्च स्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे सति कादाचित्कत्वम् उत्पत्तिमत्त्वंवा। उत्पत्तिश्च स्वाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षण सम्बन्धः। क्षणश्च स्वाधेयपदार्थप्रागभावानाधारः समयः वसिद्धिस्तु विधेर्नैर्यायिकानां प्रागभावे चरमध्वं से च, निषेधस्य बौद्धानामलीके, स्वाधिकरणसमयप्रागम्भावाधिकरणक्षणावृत्तित्वं क्षणिकत्वमिति तु ज्यायः”। अत्र गदाधरव्याख्या कादाचित्कशब्दे १८८२ पृ० दर्शिता अत्र कादाचित्कत्वं सत्त्वे सति किञ्चित्कालवृत्त्यभाबप्रतियोगित्वम्। “क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंस प्रतियोगित्वम्” मुक्ताव०। २ विद्युति स्त्री हेम०

क्षणित = त्रि० क्षणः संजातोऽस्य तार० इतच्। जातक्षणे

क्षणिन् = त्रि० क्षणः विश्रान्तिकालः उत्सवोवाऽस्त्यस्य इनि। क्षणात् १ विश्रान्ते २ उत्सवान्विते च। “तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम्” भा० स० १२ अ०। स्त्रियां ङीप् सा च ३ रात्रौ शब्दर०

क्षणेपाक = पु० क्षणे पच्यते पच–कर्म्मणि घञ् न्यङ्क्वा कु अलुक्स०। क्षणेन पच्यमाने पदार्थे।

क्षत् = स्त्री० क्षण–भावे सप० क्विप। हनने २ विदारणे ३ पीडने च क्षत्त्रम्।

क्षत = त्रि० क्षण–क्त। १ विदारिते २ पीडिते ३ घर्षिते च। “रवोरवष्टम्भमयेन पत्रिणा हृदि क्षतोगोत्रभिदप्यमर्षणः” रघुः। ४ क्षतियुक्ते “रुद्राणामपमूर्द्धानः क्षतहुङ्कार शंसिनः” कुमा० “क्षततिमिरेषु दिग्बधूमुखेषु” भट्टिः क्षतयोन्या अपि स्त्रियाः” “कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता” इति च नारदः। विदारणञ्च शस्त्रादिभिरवयवविमागः, “अङ्गुलीवोरगक्षता” रघुः। सर्पेण दशनेनाङ्गुल्याविदारणात्तथात्वम्। भावे क्त। ५ विदारणे न० “नखक्षतानीव वनस्थलीनाम्” कुमा० “अनलङ्कृतोऽपि सुन्दर! हरसि मनोमे यतः प्रसभम् किं पुनरलङ्कृतस्त्वं नखरक्षतैस्तस्याः” सा० द०। ६ घर्षणे “क्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया” माघः। उपचारात् तत्कार्य्ये ७ दुःखादौ “क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दोभुवनेषु रूढः” रघः उपचारात् (घा) इति प्रसिद्धे स्रवद्रक्त पूयादौ ८ ब्रणे हेमच० “प्रकुपितास्तु दोषामेढ्रममिपन्नामांसशोणिते प्रदूष्य कण्डूं जनयन्ति तत्र कण्डूयनात् क्षतं समपजायते क्षते दुष्टमांसजाः प्ररोहाः पिच्छिल रुधिरस्राविणो जायन्ते कूर्चकिणोऽभ्यन्तरमुपरिष्टाद्वा” सुश्रु० “यस्तु क्षतेषूपयुज्यते स भूयःकल्क इति संज्ञां ल भते” सुश्रु० व्रणशब्दे विवृतिः क्षतनिमित्तमरणेऽशौचभेदमाह शु० त० व्याघ्रः “क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा। आ सप्ताहात्त्रिरात्र स्यात् दशरात्रमतः परम्। शस्त्रघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते। अशौचं प्राकृतं तत्र सर्व्ववर्ण्णेषु नित्यशः”। “अत्र शस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारिभाधिकशस्त्रघातपरमपि। यथा देवीपु० “पक्षिमत्स्यमृगैर्ये तु दंष्ट्रिशृङ्गिनखैर्हताः। पतनानशनप्रायैर्वज्राग्निविषबन्धनैः। मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः”। अन्यथा क्षतं विना पतनादिभिविलम्बमृतानां दिनग्रहणेऽनध्यवसायः स्यात्। न च शास्त्रीये व्यवहासेऽन्तरङ्गत्वेन पारिभाषिकग्रहणस्यैव युक्तत्वमिति वाच्यम् श्राद्धे पारिभाषिकापारिभाषिकशस्त्रघातग्रहणवदत्रापि तथा युक्तत्वात् पारिभापिकत्वादेव न प्रकरणनियमः” शु० त०

क्षतकास = पु० ५ त०। क्षतजाते कासभेदे “पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः” भावप्र०। कासशब्दे २०४२ पृ० विवृतिः

क्षतघ्न = पु० क्षतं हन्ति हन हेतौ–क। (कुकुरसो~गा) १ क्षुपभेदे। शब्दच०। २ लाक्षायां स्त्री हेम०।

क्षतज = न० क्षतात् जायते जन–ड। १ रुधिरे “अमरः स च्छिन्नमलः क्षतजेन रेणुः” रघुः “क्षतजकणवर्षबभ्रुणा च भ्रमता” काद० २ पूये हेम०। ३ क्षतजातमात्रे त्रि०। सुश्रुतोक्ते ४ कामभेदे कासशब्दे तद्विस्तार उक्तप्रायोऽपि स्पष्टार्थं सुश्रुतवाक्यमत्रोदाह्रियते यथा “उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः। कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः। धूमोपघाताद्रजसस्तथेव व्यायामरूक्षान्ननिषेवणाच्च। विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथेव। प्राणोह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यकोषः। निरेति वक्त्रात्सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु। स वातपित्तप्रभवः कफाच्च क्षतात्तथान्यः क्षयजोऽपरश्च। पञ्चप्रकारः कथितोभिषग्भिर्विवर्द्धितो यक्षविकारकृत् स्यात्। भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः। स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि। हृच्छङ्खमूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः। प्रसक्तवेगश्च समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः। उरोविदाहज्वरवक्त्रशेषंरभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः। पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः। विलिप्यमानेन मुखेन सीदन् शिरोरुगार्त्तः कफपूर्णदेहः। अभक्तनगगौरवसादयुक्तः कासेद्भृशं सान्द्रकफः कफेन। वक्षोऽतिमात्रं विहतञ्च यस्य व्यायामभाराध्ययनाभिघातैः। विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजःस उक्तः। अतिव्यवायभाराध्बयुक्ताश्वगजविग्रहैः। रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत्। स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्। कण्ठेन रुजतात्यर्थं विभिन्नेनैव चोरसा। सूचीभिरिव नीक्ष्णाभिस्तुद्यमानेन शूलिना। दुःखस्पर्शेन शूलेन मेदपीडाभित पिना। पर्वभेदज्वरश्वासतृष्णावैस्वर्य्यपीडितः। पारावतैवाकूजन् कासवेगात् क्षतोद्भवात्”।

क्षतजव्रण = पु० भावप्र० उक्ते व्रणभेदे “पृथक् समस्तदोषोत्या रक्तजागन्तुजौ तथा। व्रणशोथाः षडेते स्युःसंयुक्ताः शोथलक्षणैः। (शोथलक्षणैः पूर्वोक्तैः) विशिष्टं रूपमाह। “विषमं पच्यते वातात पित्तोत्थश्चाचिरञ्चिरम्। कफजः पित्तवच्छ्वोथो रक्तागन्तु समुद्भवौ”। अत्र रक्तजेत्युक्तेः क्षतजव्रणैत्येव शब्दस्यौचित्यात् शब्दकल्पद्रुमे क्षतव्रणशब्दकलपनं प्रामादिकम् भावप्र० उक्ते ५ पिपासाभेदे स्त्री यथा“भयश्रमाभ्यां बलसंक्ष्याद्वा ऊर्द्ध्वं चित पित्तविवर्द्धनैश्च। पित्तं सवातं कुपितं नराणां तालु प्रपन्नं जनयेत् पिपासाम्। स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः। तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथान्याऽऽमसमुद्भवा च। भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्ब्बशस्तु”। नराणां चितं स्वस्थान एव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैः कष्ट्वम्लोष्णादिभ्रिः कुपितं भयश्रमाभ्यां बलसंक्षयादुपवासादेश्च वातः कुपितः। तद्द्वयस् ऊर्द्ध्वं प्रसरत् तालु प्रपन्नं सत् पिपासां जनयेत्। न केवलं तालुन्येव दूषिते तृष्णा भवति। किन्तु जलवाहिस्रोतःस्वपि अत आह स्रोतःस्वित्यादि। नन्वत्र बहुवचनं न युक्तम्। यतो जलवहे द्वे स्रोतसी सुश्रुतेनोक्ते। उच्यते। तयोरेवाजेकप्रतानयोगान्न दोषः। अपांवाहिषु स्रोतःस्विति जिह्वादेरप्युपलक्षणम् यत आह चरकः “रसवाहि नीश्च घमनीर्जिह्वा हृदयगलतालु क्लोम च। संशोष्य नृणां देहेषु कुरुतस्तृष्णामतिप्रबलौ पित्तानिलाविति। संख्यामाह तिस्र इत्यादि। तृष्णायाः सामान्यलक्षणमाह। “सततं यः पिबेत्तोयं न तृप्ति मविगच्छति। मुहुः काङ्क्षति तोयन्तु तं तृष्णर्ज्ञितना दिशेत्”। क्षतजामाह “क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु”। क्षतस्य शस्त्रादिक्षतयुक्तस्य रुक् पीडा”।

क्षतविध्वंसिन् = पु० क्षवं विध्वंसयति वि + ध्वन्स–णिच्–णिनि ६ त०। वृद्धदारकवृक्षे शब्द च०

क्षतव्रत = पु० क्षतं ब्रतमस्य। गृहीतव्रतत्यागिनि अवकीर्णिनि अमरः तत्प्रायश्चित्तमाह प्रायचित्तविवेके “अथावकीर्ण्णिप्रायश्चित्तम् “अथावकीर्णी मैथुनेन क्षतव्रतः यथाह याज्ञवल्क्यः “अवकीर्णी भवेद्गरुता ब्रह्मचारी तु योगितमिति” प्रायश्चित्तमाहाङ्गिराः “अवकीर्णा{??}मित्तञ्च ब्रह्महत्याव्रतञ्चरेत्। स्वरचर्म्मवासाः षण्मासांस्तथा मुच्येत किल्विषात्”। अवकीईर्ण्णमवकीर्ण्णताभावे क्तः। अत्र सार्द्धसप्तधेन्वः। इदं प्रमादसम्पन्ने एतद्विषय एव याज्ञवल्क्यः “अवकीर्ण्णी भवेद्गात्वा ब्रह्मचारी तु योषितम्। गर्द्धभं पशुमालभ्य नैरृतं स विशुद्ध्यति”। प्रयत्नात् स्त्रियमुत्साह्य प्रवृत्ते तु मनुः “एत स्मिन्नेव संप्राप्ते वसित्वा गर्द्दभाजिनम्। सप्ताहानाचरेद्भैक्ष्यं स्वकर्म्म परिकीर्त्तयन्। तेभ्यो लब्धन भैक्ष्येण वर्त्तयन्नैककालिकम्। उपस्पृशंस्त्रिषवणम्वदेन स विशुद्ध्यति”। एतद्विषयएवाभ्यासे शातातपः “अथातो–” वकीर्ण्णिप्रायश्चित्तं व्याख्यास्यामः “ब्रहचारी यद्यवकीर्य्येत चतुर्थकालमब्दं भैक्ष्यं चरेदेवंपूतोभवतीतितथा पैठीनसिरपि “अवकीर्ण्णी गर्द्धभाजिनं वसेत् संवत्सरं प्राजापत्यं चरेत्” शङ्खलिखिताभ्यान्तु विकल्प एवोक्तः। तद्यथा “सप्तरात्रेणावकीर्य्येत भैक्षाग्निकार्य्येकुर्व्वन् सद्यः कामादुतसर्गे रेतसोऽन्यत्र स्वप्नात् तत्र प्रायश्चित्तं महाव्याहृतिभिर्जुहुयात् ओङ्ककारपूर्व्विकाभिः संवत्सरं वा नक्तं भैक्षञ्चरेत् चतुर्थकाले मितभुग्गायत्रीं तरत्समानुगाञ्जपेदिति”। गायत्रीमपि संवत्सरं जपेदित्यर्थः। महाव्याहृतिहोमश्च लघुत्वादातिदेशिकावकीर्ण्णित्वेन भैक्षाग्नित्यागे स्त्रियं विना कामात् सकृद्रेतस्त्यागे व्यवतिष्ठते, स्त्रियं विनापि कामाद्रेतस उत्सर्गे प्रमादगमने च वशिष्ठः “ब्रह्मचारी चेत् स्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽग्नौरक्षोदैवतं गर्द्धभं पशुमालभेत नैरृतं वा चरुं निर्व्वपेत् तस्य जुहुयात् कामाय स्वाहा कामकामाय स्वाहा। नैरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहा इति एतदेव रेतसः प्रयत्रोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु च”। आसमावर्त्तनाद्रेतो विसर्गे दिवास्वप्नेचाभ्यासे ज्ञेयम्। पशोरभावे नैरृतं चरुं निर्वपेदित्यर्थः। एतच्चामावास्यायां कर्त्तव्यमित्याह बौधायनः। “अथावकीर्ण्ण्यमावस्यायां निश्यग्निमुपसमाधाय संपरिस्तीर्य्य दार्व्वीं हौमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहुयात्”। अत्र च व्रतान्तरेष्वित्यभिदधता वशिष्ठेन द्वादशाहादिकव्रतेषु पुण्यार्थचान्द्रायणादिषु च यथातिदिष्टं तथाचैतदतिदिष्टमविशेषात्। अतएव “कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः। अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः” इति मनुना सामान्येनैवावकीर्णिलक्षणमन्वकारि अकामतो रेतसः स्रावे मनुः “स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः। स्नात्वार्कमर्च्चयित्वातु पुनर्भ्वमित्यृचं जपेत्”। ब्रह्मचारिणोगुरुदारगमने तु तद्गमनोक्तप्रायश्चित्तेनैव गुरुणा लघ्ववकीर्ण्णिप्रायश्चित्तं कृतम्भवेत्। यथा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयकावगोरण प्रायश्चित्तं सम्पद्यत”।

क्षतहर = न० क्षतं हरति हृ–हेतौ ट। क्षतहरणहेतौ १ अगुरुचन्दने शब्दच०। २ क्षतहारकमात्रे त्रि०

क्षताशौच = न० क्षतनिमित्तमशौचम्। व्रणादिक्षतकृते स्मृत्युक्ते अशौचे। “सव्रणः सूतकी सूयी मत्तोन्मत्तरजत्वलाः। मृतबन्धुरबन्धुश्च वर्ज्यान्यष्टौ स्वकालतः” प्रा० त० देवलः। अशुचित्वमप्याह तत्रैव सएव। “दन्तलग्नमसंहार्यं लेपं मन्येत दन्तवत्। न तत्र बहुशः कुर्यात् यत्नमुद्धरणे पुनः। भवेदशौचमत्यन्तं तृणवेधात् व्रणे कृत। तृणवेधादित्युपलक्षणं व्रणहेतुक्षतमात्रस्य। अस्यापवादः “चन्द्रसूर्यग्रहे चैव मृतानां पिण्डकर्म्मणि। महातीर्थे तु संप्राप्ते क्षतदोषो न विद्यते” प्रा० त० पुलस्त्यः। मृतानां पिण्डकर्म्मणि निरवकाशत्वात् चितापिण्डोदकदानादौ। संप्राप्ते नियतवासादिना सम्यक्प्राप्ते।

क्षति = स्त्री क्षण–क्तिन्। १ हानौ, २ अपचये ३ क्षये च। “हयानां न क्षतिः काचिन्न रथस्य न मातलेः” भा० व० १७२ अ०। “द्विषां क्षतीर्या प्रथमे शिलीमुखाः” किरा०

क्षतोदर = क्षतजाते उदररोगभेदे उदरशब्दे ११५० पृ० विवृतिः। शल्यमित्यादि तत्रत्यं सुश्रुतवाक्यं भावप्र० व्या- ख्याय चरकमुनि सम्मतिप्रदर्शनेन विशेष उक्तो यथा “शल्यं कण्टककर्करादि। अन्नोप हतं भुक्तं यत् अन्नं भिनत्ति तथा अन्यथा आगतं भोजनं विना आगतं, शर्क राभिरितरथापि यदन्नं मिनत्ति तत्। उपलक्षणम्। जम्भणमत्यशनं वा यदन्त्रम्भिनत्ति। यतौक्तञ्चरकेण शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः। भिद्येतान्त्रं यदा भुक्तं जृम्भयात्यशनेन चेत्”। तस्मात् भिन्नादन्त्रात्। गुदतस्तु भूयः अन्त्रात्संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः। दाल्यति विदार्य्यत एव। पदसिद्धिरार्षत्वात्। एतत् क्षतोदरन्तन्त्रान्तरे परिस्राव्युदरम्प्रदिष्टम्”

क्षत्तृ = पु० सौ० क्षद–संभृतौ संज्ञायाम् तृच् अनिट्। १ सारथौ २ द्वाःस्थे ३ क्षत्रियायां शूद्रेण जाते वर्णसङ्करे पुंस्त्री० अमरः स्त्रियां ङीप्। ४ दासीपुत्रे ५ नियुक्ते ६ वेधसि पु० मेदि० ७ मत्स्ये संक्षिप्तसा०। उपधादीर्घविधौ क्षत्तृशब्दस्य पृथग्ग्रहणात् औणादिकतृजन्तस्यान्यस्य निषेधेऽपि दीर्घः क्षत्तारौ “क्षत्तारौ ते प्रजापते। ताविहावतां स्फातिम्” ३, २४, ७, “यत् क्षत्तारं ह्वयत्या” अथ० ९, ६, ४९, आविक्षितस्याग्निः क्षत्ता विश्वेदेवाः सभासदः” शत० व्रा० १३, ५, ४, ६, “विविक्त्यै क्षत्तारम्” यजु० ३०, १३,। “क्षत्रिया मागधं वैश्यात् शूद्रात् क्षत्तारमेव च” या० उक्तेः “शूद्रादायोगवः क्षत्ता चण्डालश्चाधमोनृणाम्। वैश्य राजन्यविप्रासु जायन्ते वर्ण्णसङ्कराः। एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ। क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्येऽपि जन्मनि” मनूक्तेश्च क्षत्रियायां विप्राज्जात इति अमरमतत्वेन शब्दक० उक्तिः प्रामादिकी। “क्षत्ता स्यात् सारथौ द्वाःस्थे, क्षत्रियायाञ्च शूद्रजे” इति नानार्थेऽमरोक्तेः मनुयाज्ञवल्वाक्यादिसंवादाच्च “माहिष्योऽर्य्यक्षत्रिययोः क्षत्तार्य्याशूद्रयोः सुतः” इत्यमरोक्तौ अर्य्याशूद्रजातस्य क्षत्तृत्वोक्तावपि तत्र अर्य्या स्वामिनी योग्यत्वात्तत्र क्षत्रिया, तेन न पूर्व्वापरविरोध इति भानुदीक्षितव्याख्या। अतएव मेदिन्याम् “क्षत्ता शूद्रक्षत्रियाजे प्रतीहारे च सारथौ। भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान्”। तस्य वृत्तिमाह मनुः “क्षत्त्रुग्र पुक्वसानां तु बिलौकोबधबन्धनम्”। तत्र दासीपुत्रे “ततः प्रीतमनाः क्षत्ता (विदुरः) धृतराष्ट्रं विशाम्पते!। उवाच दिष्ट्या कुरवोवर्द्धन्त इति विस्मितः। वैचित्रवीर्य्यस्तु नृपो निशम्य बिदुरस्य तत्” भा० आ० २०० अ०। विदुरस्य दासीपुत्रत्वं विदुरशब्दे वक्ष्यते “ततोऽपश्यत् विदुरं तूर्ण्णमारादभ्यायान्तं सत्यसन्धः स राजा। अथाब्रपीत् भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यते न समेत्य?” भा० व० ५ अ०। द्वःस्थे। “तत द्वास्थः प्रविश्यैवेत्युपक्रमे “ततो हृष्टो मत्स्यराजः क्षत्तारमिदमव्रवित्” “क्षत्त्रारं कुरुराजस्तु शनैः कर्णमुपाजपत्” इति च भा० वि० ६८ अ०। सारथु “जानयुतिर्हपौत्रायण उपशुश्राव सह संजिहान एव क्षत्तारमुवाच” “सह क्षतान्विच्य नाविदमिति” “सह क्षत्ताऽविदमिति” च छा० उप०। ८ कोषाध्यक्षे च “अथ क्षत्ता पालागलीमभिमेथति” शत० व्रा० १३। ५। २। ८ “क्षतासन्निधितः कोषाध्यक्षः” भा०

क्षत्त्र = पुंन०। क्षतस्त्रायते त्रै–क ५ त० क्षद–संभृतौ कर्त्तरि त्र वा अर्द्धर्चा०। १ क्षत्रिये “यस्य व्रह्म च क्षत्त्रं च उमे भवति ओदनः” श्रुतिः “यत्र ब्रह्म च क्षत्त्रञ्च सम्यञ्चौ चरतः सह” यजु०२०। २५। “क्षत्त्रं क्षतयजातिः” वेददी० “क्षतात् किल त्रायते इत्युग्रः क्षत्त्रस्य शब्दोभुवनेषु रूढः” रघुः। अत्र मल्लि० “क्षणु हिंसायामिति धातोः सम्पदादित्वात् क्विप् गमादीनामिति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम् क्षतः न शात् त्रायते इति क्षत्त्रः सुपीति योगविभागात् कः। तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति क्षतादित्यादिना। उदग्रः उन्नतः क्षत्त्रस्य क्षत्त्रवर्णस्य वाचकः शब्दः क्षत्त्रशब्द इत्यर्थः क्षतात् त्रावते इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः खलु नाश्वकर्णादिवत् केवलरूढः किन्तु पङ्कजादिवत् योगरूढः”। “नाब्रह्म क्षत्त्रमृध्नोति नाक्षत्त्रं ब्रह्म बर्द्धते। ब्रह्मक्षत्त्रञ्च संयुक्तमिहामुत्र च वर्द्धते” मनुः। क्षद्यते संभ्रियते राज्ञा, क्षद–कर्म्मणि त्र। २ राष्ट्रे “क्षत्त्रं वा एष प्रपद्यते योराष्ट्रं प्रपद्यते क्षत्त्रं राष्ट्रम्” शत० व्रा०। २२। क्षत्त्रस्य कर्म्म अण्। तत्कर्म्मणि, “क्षात्त्रं द्विजत्वञ्चपरस्परार्थम्” भट्टिः तस्येदमण्। क्षात्त्र तत्सम्बन्धिनि त्रि० “क्षात्त्रं कर्म्म स्वभावजम्” गीता ३ उदके ४ धने च निघ० ५ देहे उणादिको० ६ तगरे न० राजनि०

क्षत्त्रकर्म्मन् = न० ६ त०। “शौर्य्यं तोजोधृतिर्दाक्ष्यम् युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षत्रकर्म्म स्वभावजम्” गीतीक्ते कर्म्मभेदे। अत्र क्षात्त्रं कर्म्मेति वा पाठः

क्षत्त्रधर्म्म = पु० ६ त०। स्मृत्याद्युक्ते क्षत्त्रियस्य धर्म्मभदे। यथाह हारीतः “राज्यस्थः क्षत्त्रियश्चापि प्रजा धर्म्मेण पालयन्। कुर्य्या दध्ययनं स यग्यजेद्यज्ञान् यथाविधि। दद्याद्दानं द्विजातिभ्योधर्म्मबुद्धिसमन्वितः। स्वभार्य्यानिरतेनित्यं षड्भागार्हः सदा नृपः। नी तशास्त्रार्थकुशलः सन्धिविग्रहतत्त्ववित्। देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा। धर्म्मेण यजनं कार्य्यमधर्म्मपरिवर्जनम्। उत्तमां गतिमाप्नोति क्षत्त्रियोऽप्येवमाचरत्”।

“त्रीणि राजन्यस्याध्ययनं शस्त्रेण च प्रजापालनं स्वधर्मस्तेन जीवेत्” वशिष्ठः। पद्मपु० स्वर्गखण्डे २६ अ० “क्षत्त्रियस्यापि यो धर्म्मस्तं ते वक्ष्यामि पार्थिव!। दद्याद्राजा न याचेत यजेत न च याजयेत्। नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्। नित्योद्युक्तो दस्युवधे रणे कुर्य्यात् पराक्रमम्। ये तु क्रतुभिरीजानाः श्रुतवनश्च पार्थिवाः। ये तु युद्धे विजेतारस्ते तु लोकजितो नृपाः। अविक्षतशरीरो हि संगराद्यो निवर्त्तते। क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम्। क्षत्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः। नास्य कृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात्। दानमध्ययनं यज्ञो राज्ञां श्रेयोऽभिधीयते। तस्माद्राज्ञा महाराज! योद्धव्यं धर्म्मशीलिना। प्रजाः स्वेषु च धर्म्मेषु स्थापवेत महीपतिः। धर्म्म्यास्येव हि कर्म्माणि कारयेत् सपतं प्रजाः। परमां सितिमाप्नोति नृपतिः परिपालनात्। कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते। राजन्यानां करादानं विना वैवाहिकञ्च यः। प्रतिग्रहः स निन्द्योऽत्र परत्र चासुखप्रदः। युद्धे पलायनञ्चैव तथा कातरताऽर्थिषु। अपालनं प्रजानाञ्च दाने धर्म्मे विरक्तता। अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः। अमात्यानामसम्मानस्तेषां कर्म्मानवेक्षणम्। भृत्यानाञ्च परीहासो निषिद्धं क्षत्त्रजन्मनाम्। राजन्यस्तु महाराज! यथा क्षेममवाप्नुयात्। तत् शृणुष्व तवाख्यास्ये धर्म्मसंग्रहतत्परः। वेदानधीत्य धर्म्मेण राजशास्त्राणि चानघ!। सत्तानादीनि कर्म्माण कृत्वा सोभं निषेव्य च। पालयित्वा प्रजाः सर्व्वा धर्म्मेण जयतां पर। राजसूयाश्वमेधादीन् मखानन्यांस्तथैव च। आहृत्य च यथा पाठं विप्रेभ्यो दत्तदक्षिणः। संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु। स्थापयित्वा प्रजापालं पुत्त्रं राज्ये च पार्थिवः। अत्यगोत्रं प्रशस्तं वा क्षत्त्रियं क्षत्त्रियर्षभ!। अर्च्चयित्वा पितॄन् सम्यक् पितृयज्ञे यथा- विवि। देवान् यज्ञैरृषीन् वेदैरर्च्चयित्वा प्रयत्नतः। अन्तकाले च सम्प्राप्तेय इच्छेदाश्रमान्तरम्। सोऽनुपूर्व्याश्रमानराजन्! गत्वा सिद्धिमवाप्न यात्। राजर्षित्वेन रान्नेन्द। भैक्षचर्य्याध्वसेवया। अपेतगृहधर्म्मोऽपि चरेज्जीवितकाम्यया। न चनन्नाष्ठकं कर्म्म त्रयाणां भूरिदक्षिणम्। चतुर्णां राजशार्द्दूल! प्राहुराश्रमवासिनाम्। बाह्वायत्तं क्षत्त्रियैर्मानवानां लोकश्रेष्ठं धर्म्ममासेवमानैः। सर्व्वे धर्म्माः सोपधर्म्मास्त्रयाणां राज्ञो धर्म्मा दति वेदात् शृणोमि। एवं धर्म्मात्राजधर्म्मेषु सर्व्वान् सर्व्वावस्थं संप्रलीनान्निबोध। अन्यश्रमानल्पफलात् वदन्ति धर्म्मानन्यान् वेदविदोमनुक्याः। महाश्रमः बहुकल्याणरूपं क्षात्त्रं धर्मं नेतरं प्राहुरार्य्याः। सर्व्वे धर्माः राजधर्मप्रधानाः सर्व्वे धर्माः पाल्यमानाश्चरुन्ति। सत्यं त्यागो राजधर्म्मेषु राजंस्त्यागं धर्म्मञ्चाहुरग्र्यं पुराणम्। मज्जेत्त्रयीदण्डनीतौ क्षतायां, सर्व्वे धर्म्माः प्रक्षयेयुर्व्विरुद्धाः। सर्वे धर्म्माश्चाश्रमाणां क्षताः स्वुः क्षात्त्रे त्यक्ते राजधर्म्मे पुराणे। सर्वे त्यागा राजघर्म्मेषु चीक्ताः सर्वा विद्या राजधर्म्मेषु युक्ताः। सर्वे लोका राजधर्म्मो प्रविष्टा यथा जीवाः प्राकृतैर्बध्यमानाः। धर्म्मश्रुतानामुपपीडनाय एवं धर्म्मा राजधर्म्मैर्विमुक्ताः। चातुराश्रम्यधर्म्माश्च यतिधर्म्माश्च प्रार्थिव!। लोकवेदोत्तरश्चैव क्षात्त्रे धर्म्मे समाहिताः। सर्वाण्येतानि धर्माण क्षात्त्रे राजन्यसत्तम!। अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम्। क्षात्रेणैव हि धर्मेण प्रत्यक्षं क्रियते नृप!। द्विजार्च्चनं क्षत्त्रियाणां तथा नारायणाच्चनम्। राज्यानां पालनञ्चैव रणे निर्भयता तथा। नित्यं दानं ब्राह्मणेभ्यः शरणागतरक्षणम्। पुत्त्रतुल्यं प्रजानाञ्च दुःखिनां परिपालनम्। शस्त्रास्त्राणाञ्च नैपुण्यं रणे शौर्य्यं तयैव च। तपश्च धर्मकृत्यञ्च यत्नतः कुरुते मुदा। पण्डितं नोतिशास्त्रज्ञं नित्यञ्च परिपालयेत्। समामध्ये वासयेच्च नित्यं सद्भिश्च संयुतः। हस्त्यश्वरथपादातं सेनाङ्गञ्च चतुष्टयम्। पालयेत् यत्नतो नित्यं यशस्वी च प्रतापवान्। रणेऽरिमन्त्रितश्चैव दानेनाभिमुखो भवेत्। रणे यो वा त्यजेत् प्राणान् तस्य स्वर्गो यशस्करः”। विस्तरस्तु भा० शा० राजधर्म्मे

क्षत्त्रधर्म्मन् = पु० नहुषम्रातुरनेनसीवंश्ये संकृतेः पुत्रे १ नृपनेदे। “संकृतेरपि धर्म्मात्मा क्षत्त्रधर्म्मा महायशाः। अनेनसः समाख्याताः क्षत्त्रवृद्धस्य मे शृणु” हरिवं० २९ अ० क्षर्त्त्रस्य। धर्म्मा। २ क्षत्त्रियस्य धर्म्मणि युद्धादौ। क्षत्त्रं तत्सम्बन्धी धर्म्मो यस्य अनिच् समा०। ३ क्षत्त्रियधर्म्मयुते। “शास्त्रेणाभिमुखोयस्तु वध्यते क्षत्रधर्म्मणा” मनुः

क्षत्त्रधृति = पु० क्रतुभेदे “क्षत्त्रधृतिः” “तदुभयत एके त्रिष्टोमज्योतिष्टोमौ” कात्या० श्रौ० १५। ९१। २४। २५। “ततोमासान्ते श्रावण्याम् क्षत्त्रधृतिसंज्ञः क्रतुर्भवति। कुर्ब्बन्ति एके उपरिष्टात्। अत्र च वैशाखामावास्ययां पशुबन्धौ, ज्यैष्ठमासपौर्णमास्यां केशबपनीयः, आषाढ्यां व्युष्टिद्विरात्रः, श्रावण्यां क्षत्रधृतिः” भाद्रपदाश्वयुजयोस्त्रिष्टोमज्यौतिष्ठोमौ, कार्त्तिक्यां सौत्रामणीति” कर्कः।

क्षत्त्रबन्धु = पु० क्षत्त्रं राष्ट्रं बन्धुरिवास्य। १ क्षत्रिये “ब्राह्मणं कुशलं पृछेत् क्षत्त्रबन्धुमनामयम्”। “आ द्वाविंशात् क्षत्त्रबन्धोण चतुविंशतेर्विशः” मनुः। क्षत्त्रस्य बन्धुरिव। २ क्षत्त्रियतुल्ये अपकृष्टक्षत्त्रिये। “क्षत्त्रबन्धुः सचानार्य्यो रामः परमदुर्म्मतिः” रामा० ल० ३३ अ०

क्षत्त्रभृत् = पु० क्षत्त्रं बिभर्त्ति भृ–क्विप्। क्षत्त्रियभरणकर्त्तरि अग्निभेदे। “अग्निर्ब्राह्मण्वानग्निः क्षत्त्वभृत्” आश्व० श्रौ० ४। १। २२। “विराडग्ने क्षत्त्रभृदा दिहीह” यजु० २७। ७। क्षत्त्रं भर्त्तव्यत्वेनास्त्यस्य मतुप् मस्य वः। क्षत्त्रवत् तत्रैव।

क्षत्त्रवनि = सु० क्षत्त्रं वनति “छन्दसि वनसनरक्षिमन्थाम्” पा० कर्म्मण्युप पद्ये इन्। १ क्षत्त्रजातिभागिनि। “ब्रह्म वनि त्वा क्षत्रवनि रामस्तोषवनि” यजु० २७। सुपां सु लुगिति” पा० सर्वत्र अमो लुक्। क्वचित् कर्म्मणि वाच्येऽपि इनि। २ क्षत्त्रस्येव्य “ध्रुवमसि पृविवीं दृंह ब्रह्मवनि त्वा क्षत्त्रवनिः” यजु० १। १७। “क्षत्रेण वन्यते पुरोडाशनिष्पत्त्यर्थं क्षत्रवनि” वेददी०

क्षत्त्रविद्या = स्त्री ६ त०। धनुर्वेदे। तस्य व्याख्यानः ऋगयना० अण्। क्षात्त्रविद्य १ तस्याव्याख्याने ग्रन्थे तां वेत्ति अधीते वा अण्। “विद्यालक्षणकल्पान्ताच्चेति वक्तव्यमु वार्त्ति० विद्यान्तत्वेन ठञि प्राप्ते “अङ्गक्षत्त्रधर्म्मत्रिपूर्व विद्यान्तान्नेति” वार्त्ति० ठञो तिषेधात् न ठञ्। क्षात्तवेद्य तद्विद्याध्येतरि तद्वेत्तरि च त्रि०।

क्षत्त्रवृक्ष = पु० क्षत्रः क्षत्रविशेषनामा वृक्षः। मुचकुन्दाख्ये वृक्षे राजनि० तस्य मुचकुन्दक्षत्त्रनामकत्तात्तथात्वम्।

क्षत्त्रवृद्ध = पु० आयुवंश्ये वृद्धशर्म्मनामान्तरके नृपभेदे “क्षत्त्रधर्म्मन् शब्दे दृश्यम्। “अनेनसः समाख्याता क्षत्त्रवृद्धस्य मे शृणु। क्षत्रवृद्धात्मजस्तत्र सुहोत्रोऽथ महायशाः” हरिवं० २९ अ० क्षत्रवृध् अप्यत्र। “यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः। नहुषः क्षत्त्रवृद्धश्च अजिराभश्च वीर्य्यवान्। अनेना इति राजेन्द्र! शृणु क्षत्त्रवृद्धोन्वयम्। क्षत्त्रवृद्ध सुतस्यासन् सुहोत्रस्यात्मजास्त्रयः” भाग० ९। १७ ३ क्षत्रेषु वृद्धः। २ श्रेष्ठक्षत्त्रिवे त्रयोदशय्स रुचिनामकस्य मनोः ३ पुत्रभेदे “त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः। चित्रसेनोविचित्रश्च नाभोधर्म्मभृतोधृतिः। सुनेत्रः क्षत्त्रवृद्धश्च सुतपानिर्भयो दृढः” हरिवं० ७ अ०

क्षत्त्रसव = पु० ६ त०। क्षत्त्रियकर्त्तव्ये यज्ञभेदे

क्षत्त्रान्तक = पु० ६ त०। परशुरामे “क्षत्त्रान्तकस्याभिभवेन चैव” भट्टिः ६ त०। क्षत्त्रान्तकारिन् अप्यत्र “महानन्दसुतः शुद्रागर्भोद्भवोऽतिलुब्धः परशुराम इव अपरोऽखिलक्षत्तान्तकारी भविता ततः प्रभृति शुद्रा भूपाला भविष्यन्ति” शु० त० विष्णुपु०

क्षत्त्रिय = पुंस्त्री० क्षत्त्रे राष्ट्रे साधु तस्यापत्यं जातौ वा घः। १ ब्राह्मणानन्तरवर्णे अमरः ठाप्। “नृपायां नृपसंसर्गात् प्रच्छन्नात् गूढजातकः। सोऽपि क्षत्त्रिय एव स्यादभिषेके च वर्ज्जितः” उशनसोक्ते नृपात् अपरणीतायां क्षत्त्रियजातिस्त्रियां गूढोत्पन्ने पुत्रे च”। पा० उक्तोघस्तु जातावेव अपत्यमात्रे इञ्। क्षात्त्रि क्षत्त्रजातेरपत्यमात्रे पुंस्त्री स्त्रियां वा ङीप्। स्वार्थे क। तत्रार्थे स्त्रियां टापि यपूर्वत्वात् वा अत इत्त्वम्। क्षत्त्रियिका क्षत्त्रियका। ततो भावे त्व क्षत्त्रियत्व न० तल् क्षत्त्रियता स्त्री तद्भावे। ब्राह्मणत्ववत् क्षत्त्रियत्वस्य जातिविशेषत्वेऽपि गुणविशेषेण शूद्रस्यापि क्षत्त्रियत्वादि भवति। “शूद्रयोनौ हि जातस्य सद्गुणाननुतिष्ठतः। वैश्वत्वं लभते ब्रह्मन। क्षत्त्रियत्वं तथैव च। आर्जवे वर्त्तमानस्य ब्राह्मण्यमभिजायते” भा० व० २११ अ०। सद्गुणाश्च तत्रैवोक्ताः। “शूद्रस्येति कर्म्मणि षष्ठी वैश्यत्वादि कर्त्तृ सद्गुणवन्तं वैश्यत्वादयः स्वयमायान्तीति गुणकृत एव वर्ण्णविभागो न जातिकृत इति भावः” नीलक०। तस्य पत्नी ङीष् वा आनुक्। क्षत्त्रियाणी क्षत्त्रियी अमरः। “अर्य्यक्षत्त्रियाभ्याम्” वास्वार्थे आनुक ङीष चेति सि० कौ०। पत्न्यान्तु ङीषेवेत्युक्तम्। जातौ तु योपधत्वात् न ङीष् किन्तु टाप्। क्षत्रिपा क्षत्तृशब्दे उदा०।

क्षत्त्रियहण = पु० क्षत्त्रियं हन्ति अच् णत्वम्। पर्शुरामे। “किं न वै क्षत्त्रियहणो हरतुल्यपराक्रमः। विदितः पुत्र! रामस्ते यतस्त्वं योद्धुमिच्छसि” भा० उ० १७९ अ०

क्षत्त्रियासन = न० “क्षत्त्रियासनमावक्ष्ये यत्कृत्वा धनवान् भवेत्। केशेन पादयुनलं बद्धा तिष्ठेदधोसुखः” रुद्रयामलोक्ते आसनभेदे

क्षद = संभूतौ पेषणे भक्षणे च सौ० आ० सक० सेट्। क्षदते अक्षदिष्ट क्षत्त्रः। “तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन् वार्हत्युक्षाणं वा वेहतं वा क्षदन्त एवमेवास्मा एतत्” ऐत० ब्रा० १। १५ “शतं मेषान् वृक्ये चक्षदानम्” ऋ० १। ११६। १६। “तस्मै वृतं सुरां मध्बन्नमन्नं क्षदामहे” अथ०। १०। ६। ५

क्षद्मन् = न० क्षद–भक्षणे–मनिन्। १ उदके २ अन्नेच निघ० “दादृहाणो वज्रमिन्द्रो गभस्त्योःक्षद्मेव तिग्ममसनाय संश्यत्” ऋ० १। १३०। ४ “क्षद्मेवार्थेषु तर्तरीथ उग्रा” ऋ० १०। १०६। १७

क्षन्तृ = त्रि० क्षम–तृच्। क्षमाशीले सहिष्णौ अमरः “ये क्षन्तारो नाभिजल्पन्ति चान्यान्” भा० अ०। १०२ अ०।

क्षन्तव्य = त्रि० क्षम–तव्य। १ सोढव्ये “तदेतत् क्षन्तव्यं न खलु पशुरोषः ससुचितः” कर्पूरस्तवः, भावे क्त कर्त्तव्य २ क्षमायां न० “क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्य्यिणां नृणाम्”। मनुः “सर्व्वथा वर्त्तमानस्य राज्ञोह्यस्मद्विधैः सदा। क्षन्तव्यं पुत्र!” भा० अ० ४१ अ०

***