क्री = क्रये (मूल्यदानेन द्रव्यग्रहणे) क्य्रा० उभ० सक० अनिट्। क्रीणाति क्रौणीते अक्रैषीत् अक्रेष्ट। चिक्राय चिक्रिये क्रेतव्यः क्रयणीयः क्रेयः क्रयार्थे प्रसारिते क्रव्यः क्रायकं क्रेता क्रीणन् क्रीणानः। क्रीतः क्रीत्वा विक्रीय। क्रेतुम्। कर्म्मणि क्रीयते अक्रायि आक्रयिषाताम्–अक्रेषाताम्। चिक्रिये। “कैमं दशभिर्ममेन्द्रं, क्रीणाति धेनुभिः” ऋ० ४, २४, १०, “शुक्रं त्वा शुक्रेण क्रीणामि” यजु० ४, २६,। “क्रीणीयाद्यस्त्वपत्यार्थं मात्रापित्रोर्यमन्विकात्” मनुः “कच्चित् सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्” भा० स० कच्चिदध्यायः। “सोमं राजानमक्रीणंस्तस्मात् प्राच्यां दिशि क्रीयते” ऐत० १, १२, “शूद्रानीतैः क्रयक्रीतैः (जलैः) कर्म्म कुर्व्वन् पतत्यधः” स्मृतिः। अनुशयशब्दे उदा०।अप्र + मूल्यादिदानेन वशनयने। “सा चेदस्मै न दद्यात् काममेनामपक्रीणीयात्” शत० ब्रा० १४, ९, ४, ७, “तदा एनां स्वपत्नीं वस्त्राभरणभोग्यादिदानेन कामं यथाशक्तिवैभवमपक्रीणीयात् वशं नयेत्” भा०।अभि + अभिलक्ष्यीकृत्य विक्रये संस्कारविशेषे च। “एकं वा एष क्रीययाणोऽभिक्रीयते छन्दसामेव राज्याय” शत० ब्रा० ३, ३, २, ३, “एषः क्रीयमाणः क्रयेण सम्पाद्यमागः सोमः एकं वै एकं खलु प्रयोजनमभिलक्ष्य विक्रीयते अभिषबादिना स्वात्मना संस्क्रियते वा” भा०।अव + धनादिना वशनयने। “ब्राह्मणं क्षत्रिय वा सहस्रेण शताश्वेभावक्रीय” सांङ्ख० श्रौ० सू० १५, १०, १०,आ + इवत्क्रये। “भार्य्यां शुल्काक्रीताम्” दशकुमा०उप + सामीप्येन क्रये। “घटादीनुपक्रीय” हितो०।निस् + (र्) विक्रये क्रयानुरूपमूल्यदाने च। “न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्य्या विमुच्यते” मनुः। “निष्क्रयोविक्रयः” उ० त० रघु०। “भोः केशव! मदीयस्त्वमद्भिर्दत्तोऽसि सत्यया। स त्वं मामनुगच्छस्व कुरुष्व यद्व्रवीम्यहम्। प्रथमः कल्प इत्येवमब्रवीन् मधुसूदनः। व्रजन्तमनुवव्राज नारदञ्च जनार्द्दनः। परिहासान् बहुविधान् कृत्वा मुनि वरस्ततः। तिष्ठस्य गच्छामीत्युक्ता परिहासविचक्षणः। अपनीय ततः कण्ठात् पुष्पदामैनमव्रवीत्। कपिलां गां सवत्सां मे निष्क्रयार्थं प्रवच्छ मे। तिलं कृष्णाजिभं शूर्पं प्रयच्छ तप्तकाञ्चनम्। एषोऽत्र निष्क्रयः कृष्ण! विहितो वृषकेतुना” हरि० १३५ अ० ३ निष्कृतौ। “तपोदानोपहारेषु व्रतेषु नियमेषु च। इज्याध्यायनधर्म्मेषु योनाऽऽसक्तः स निष्क्रयः” वसिष्ठःपरि + नियतकालं भृत्या स्वीकारे अनियतकालस्वत्वोत्पादकात् क्रयात् तस्य नियतकालत्वेन न्यूनता। तद्योगे करणस्य वा सम्प्रदानसंज्ञा। शतेन शताय वा परिक्रीतः” सि० कौ०। “सम्भोगाय परिक्रीतः कर्त्ताऽस्मि तव नाप्रियम्” भट्टिः “भक्त्यै मुक्तिः परिक्रीता सद्भिर्षिष्णोरुषाऽरिभिः” मुग्ध०। “कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्” भट्टिः। क्रयशब्दे २३०५ पृ० दर्शितम् जै० सूत्रवाक्यादि उदा०।वि + मूल्यग्रहणेन स्वस्वत्वध्वंसपरस्वत्वापादकव्यापारे “वस्नेव विक्रीणावहा इषमूर्ज्जं शतक्रतो!” यजु० ३, ४९, विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः” मनुः अनुशयशब्दे भूरि उदा०।सम् + सम्यक् क्रये “न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्” भा० आ० १६० अ०। “परिव्यवेभ्यः क्रियः” पा० अकर्त्तृपामिन्यपि क्रियाफले तङ्।

क्री = त्रि० क्री–क्विप्। क्रेतरि कारकोपदत्वेऽपि संयोगोपधत्वात् नयण्, किन्तु इयङ्। यवक्रियौ यवक्रिय इत्यादि।

क्रीड = खेलने भ्वा० पर० अक० सेट्। क्रीडति अक्रीडीत्। चिक्रीड क्रीडिता। क्रीडितव्यः क्रीड्यः क्रीडकः क्रीडिता। क्रीडः। क्रीडा। क्रीडितः। क्रीडनं क्रीडितुम्। क्रीडित्वा विक्रीद्व्य। “एष सोमो अधित्वचि गवां क्रीडत्यद्रिभिः” ऋ० ९, ६६, २६, “माता च पिता च तेऽग्रे वृक्षस्य क्रीडतः” यजु० २३, २५, चिक्रीड चैव प्रजहास चैव” भा० व० १०४२ श्लो० “क्रीडारसं निर्विशतीव नाल्ये” कुमा। अस्मादर्षे प्रयोगे तङपि दृश्यते। ब्रह्मशङ्करशक्राद्यैर्देववृन्दैः पुनः पुनः। क्रीडमे त्वं मरव्याघ्र। बालः क्रीडनकैरिव” भा० व० ५०४ श्लो० अन्वाद्युपसर्गे ततद्व्योत्यार्थविशिष्टे क्रीडने तत्र “क्रीडोऽनुसंपरिभ्यश्च” पा० एम्यः चकारात् आङश्च तङ् साध्वनुक्रीडमानानि पस्य वृन्दानि पक्षिणाम्” भट्टिः। आक्रीडमानोहृष्टात्म श्रीमान् वायुसुतोययौ” भा० व० १४६ अ०। “फलान्यादत्स्व चित्राणि परिक्रीडख सानुषु” भट्टिः। “मरुतस्तमभितः परिचिक्रीडुः” शत० व्रा० २, ५, २, २०, आर्षस्तङभावः। समस्तु अकूजने अव्यक्तशब्दामावे एव तङ। “समोऽकूजने” वार्त्तिककृता नियमात् “हरः संक्रीडमानश्च उमया सह पर्व्वते” रामा० आ० ४७, १०, तेनास्य कूजनार्थताऽपि किन्तु तत्र न तङ् “संक्रीडति चक्रम्” सि० कौ०। “तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम्। समाः संक्रीडतां तेषाम्” भा० आ० २०९ अ०। अत्र आर्षः तङभावः।

क्रीड = पु० क्रीड–घञ्। परीहासे शब्दरत्ना०।

क्रीडक = न० क्रीड–ण्वुल्। १ क्रीडाकारके। २ द्वाःस्थे सेवके त्रिका०।

क्रीडचक्र = न० “इदं क्रीडचक्रं सदीर्घं समस्तैर्यकारैः समेतम्” वृ० र० उक्ते छन्दोभेदे।

क्रीडन = न० क्रीड–भावे–ल्युट्। १ खेलायाम् “उदकक्रीडनं नाम कारयामास भारत!” मा० आ० १२८ अ०। “बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि” महाना०। करणे ल्युट्। २ क्राडासाधने। “यथा हिरण्याक्ष उदारविक्रमोमहामृधे क्रीडनवन्निराकृतः” भाग० ३, १९, १४, स्वार्थे क। तत्रार्थे “क्रीडसे त्वं नरव्याघ्र! बालः क्रीडनकैरिव” भा० व० १२ अ०।

क्रीडनीय = त्रि० क्रीड–करणे वा० अनीयर् क्रीडनाय साधु छ वा। क्रीडसाधने। “क्रीडतः कीडनीयानि ददुः पक्षिगणांश्च ह” भा० अनु० ८६ अ०।

क्रीडा = स्त्री क्रीड–भावे अ। १ परीहासे २ खेलने च “क्रीडारसं निर्विशतीव बाल्ये” कुमा०। “आत्मरतिरात्मक्रीडआत्ममिथुन आत्मानन्द छा० उप०। “तोयक्रीडानिरत युवतिस्नानतिक्तैर्मरुद्भिः” मेघ० “क्रीडायासश्रमशमपटवः” माघः। क्रीडागृह, क्रीडाशैल, क्रीडोद्यानादयः क्रीडार्थ गृहादौ। क्रीडासचिव नर्म्मसचिवे

क्रीडाताल = पु० “एकएव प्लुतोयत्र क्रीडातालः स कथ्यते” इति संगीतदामोदरोक्ते तालभेदे।

क्रीडानारी = स्त्री क्रीडायाः क्रीडार्थं नारी अश्ववासादिवत् चतुर्थ्यर्थे ६ त०। क्रीडार्थायां वेश्यारूपायां नार्य्याम्। “वेश्या निवेशिता वीर! द्वारवत्यां सहस्रशः। सामान्यास्ताः कुमापाणां क्रीडानार्य्यो महात्मंनाम्” हरि० १४७ अ०।

क्रीडायान = न० क्रीडार्थं य नम् चतुर्थ्यर्थे ६ त०। पुष्परथे शब्दचि०

क्रीडारत्न = न० क्रीडाया रत्नमिव। रतौ त्रिका०

क्रीडारथ = पु० क्रीडायाः क्रीडार्थो रथः चतुर्थ्यर्थे ६ त०। पुष्परथे “क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः” भा० आ० ५३ अ०

क्रीडारसातल = न० श्रीगदितलक्षणयुते उपरूपकमेदे यथा “प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम्। प्रसिद्धनायकं गर्भविमर्षाभ्यां विवर्ज्जितम्। भारती वृत्तिबहुलं श्रीतिशब्देन संयुतम्। मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम् यथा क्रीडारसातलम्” सा० द०

क्रीडि = त्रि० क्रीड–इन्। क्रीडके। “आ क्रीडयो न मातरं तुदन्तः” ऋ० १०। ९४। १४।

क्रीडिन् = त्रि० क्रीड–बा० ताच्छील्ये इनि। १ क्रीडाशीले २ वायुभेदे पु० “क्रीडिभ्यः संसृष्टान् मरुद्भ्यः” यजु० २४। २६ “क्रीडी च शाकी चाज्जेषी” यजु० १७। ८५ “क्रीडी सदाक्रीडाशीलोमरुत्” वेददी०।

क्रीडु = त्रि० क्रीड उन्। क्रीडाकारके। “क्रीडुर्मखो न मंहयुः पवित्रं सोम! गच्छसि” ऋ० ९। २०। ७

क्रीत = त्रि० क्री–कर्म्मणि क्त। १ मूल्यदानेन स्वत्वास्पदीभूते कृते। “शूद्रानीतैः क्रयक्रीतैः (जलैः) कर्म्म कुर्व्वन् पतत्यधः” स्मृतिः। २ गौणपुत्रभेदे पु०। “क्रीतश्च नवमः सयेन क्रीतः” विष्णु ंसं०। भावे क्त। ३ क्रये न० क्रीतानुशयः। पुत्रभेदास्तल्लक्षणानि च योगीश्वरेण दर्शितानि यथा “औरसो धर्म्मपत्नीजस्तत्समः पुत्रिकासुतह्। क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा। गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः। कानीनः कन्यकाजातो मातामहसुतोमतः। अक्षतायां क्षतायां वा जातः पौन र्भवः सुतः। दद्यान्माता पिता वा यं स पुत्रोदत्तको भवेत्। क्रीतश्च ताभ्यां विक्रीतः, कृत्रिमः स्यात् स्वयंकृतः। दत्तात्मा तु स्वयन्दत्ती गर्भे विन्नः सहोडजः। उत् सृष्टो गृह्यते यस्तु सोऽपविद्धोभवेत् सुतः”। “अदूरबान्धवमिति देशभाषाविप्रकृष्टस्य प्रतिषेधः एवं क्रीतस्वयन्दत्तकृत्रिमेष्वपि योज्यं समानन्यायत्वात्। क्रीतस्तु विक्रीतः मातापितृभ्यां पूर्व्ववत् तथैकं पुत्रं ज्येष्ठञ्च वर्जयित्वा आपदि। सवर्ण इत्येव यत्तु मनुनोक्तम् “क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्। स क्रीतकः सुतस्तस्य सदृशोऽसदृशोपिऽवेति” तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयं न ञात्या “सजातीयेष्वयम्प्रोक्तस्तनयेषु मर्या विधिः” इत्युप संहारात्” मिता०। स्वार्थे क। तत्रार्थे। “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा। स्वयं दत्तश्च शौद्रश्च षडदायादबान्धवाः” इति मनूक्तेः तस्य पिवृमावृभिन्नदायानधिकारित्वम्। दत्तकर्मामांसामते “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम च” पराशरेण कलिधर्म्मप्रस्तावे चतुर्ण्णामेव ग्राह्यताया उक्तेः दत्तकचकामते “दत्तौरसेतरेषाञ्च पुत्रत्वेन परिग्रहः” इत्यादि पुराणे दत्तौरसभिन्नानां कलौ वर्ज्यत्वोक्तेश्च क्रीतपुत्रस्य न कलौ कर्त्तव्यता।

क्रीतानुशय = पु० क्रीते क्रये अनुशयः। “क्रयविक्रयानुशयश्च” इति मनुक्ते अष्टादशविवादान्तर्गते विवादभेदे अनुशयशयशब्द १८६ पृ० तद्विवृतिर्दृश्या। अधिकं वीरमित्रोदये दर्शितं यथा

“अथ क्रीतानुशयोव्यवहारपदम्। तत्स्वरूपमाह नारदः “क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहु मन्यते। क्रीतानुशय इत्येतद्विवादपदसुच्यते” इति। न बहु मन्यते–सम्यगसम्यगिति पूर्ब्बं न विचार्य्य गृहीत मित्यर्थः। क्रीतं परीक्षणीयमित्याह वृहस्पतिः “परीक्षेत स्वयं क्रीतमन्येषाञ्च प्रदर्शयेत्। परीक्षितं बहुमतं ग्रहीता न पुनस्त्यजेदिति”। अन्येषां पण्यगुणदोषविदामिति शेषः। नारदोऽपि “क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः। परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनरिति”। चर्मादीनां परीक्षा सद्यः कार्या तथा च व्यासः “चर्म्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च। वसुकुप्यहिरण्यानां सद्य एव परीक्षणमिति”। अत्र वसुशब्देन रूप्यं गृह्यते। कुप्यं रूप्यहेमव्यतिरिक्तं त्रपुसीसादिकम्। तथा च हेमरूप्ये प्रस्तुत्याहामरसिंहः “ताभ्यां यदन्यत्तत्कुप्यमिति”। क्रीतपण्यद्रव्यविशेषेण परीक्षणकालावधिमाह भारदः “त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वाह्यमेव तु। मुक्तावज्रप्रबालानां सप्ताहं स्यात्परीक्षणम्। द्विपदामर्द्ध्वनासन्तु पुंसान्तद्द्विगुणं स्त्रियाः। दशाहं सर्ववीजानामेकाहं लोहवाससाम्। अतोऽर्वाक्पण्यदोषस्तु यदि सञ्जायते क्वचित्। विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यमवाप्नुयादिति”। त्र्यहात् क्रयदिनादारभ्येति शेषः। पञ्चाहादित्यादावप्येवमेव शेषोऽवगन्तम्यः। त्र्यहं विक्रेतृप्रतिदेयमित्यादिविधिदर्शनात् त्र्यहाद्दोह्यमित्यादि परीक्षणं प्रीतिदोह्यादिदव्यविषयमिति गम्यते इति स्मृति चन्द्रिका। दोह्यं महिष्यादिकम् वाह्यं बलीवर्दादिकम्। मुक्ताग्रहणं रत्नोपलक्षणम्। द्विपदाम्पुंसान्दासानामित्यर्थः। तद्द्विगुणं मासादित्यर्थः स्त्रियादास्याइत्यर्थः। पूर्ब्बोदाहृतचर्म्मकाष्ठेत्यादिव्यासवचनेन भक्षणाद्यर्थं गृहीतानां धान्यादीनां सद्यःपरीक्षणाभिधानात् सर्ववीजानामित्यत्र वीजशब्दोवृद्ध्यर्थं गृहीतधान्यपरः। अन्यथा सद्यःपरीक्ष्यत्वप्रतिपादकव्यासवचनविरोधः स्यात्। अतोऽर्वाक् त्र्यहादेरभ्यन्तर इत्यर्थः। कात्यायनोऽपि “भूमेर्दशाहोऽनुशयः क्रेतुर्विक्रेतुरेव चेति”। भूमेर्गृहक्षेत्रादिरूपाया अनुशयः परावर्त्तनयोग्यः कालः परीक्षाकाल इति यावत्। यथोक्तपरीक्षाकालातिक्रमे दोष दर्शने न प्रतिदानमित्याह स एव “अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम्। क्रीतन्तत् स्वामिने देयम्पण्यं कालेऽन्यथा न त्विति”। अविज्ञातं परीक्षाशैथिल्यात्तत्त्वतोऽपरिज्ञातम्। दुष्टं विभाबितं दोषवत्तया ज्ञातमित्यर्थः। काले परीक्षाकाले। अन्यथा तत्कालात्यये दुष्टतया परिभावितमपि तत् स्वामिने न देयम्। अविज्ञातन्तु यत्क्रीतमित्यनेन यत् क्रयात् प्राक् अपरीक्ष्य क्रीतन्तत् परीक्षासमये दोषदर्शने परावर्त्तनीयम्। यत्तुपरोक्ष्य गृहीतं तन्न परावर्त्तनीयमिति। दर्शितमर्थं नारदआह “क्रीत्वा नानुशयं कुर्य्याद्बणिक्पण्यविचक्षणः। क्षयं वृद्धिञ्च जानीयात् पण्यानामागमन्तथा। क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः। परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत् पुनरिति”। अनुशयं पश्चात्तापम्। पण्यानां अश्वादीनां अस्मिन्देशे मूल्यहानिरस्मिन्देशे तदाधिक्यमिति क्षयवृद्धी एतद्देशसम्भवमित्यागमञ्च क्रयात् प्रागेव जानीयादित्यर्थः। दोषदर्शनमन्तरेण परीक्षाकाल एव प्रत्यर्पणे विशेषमाह कात्यायनः “क्रीत्वा चानुशयं पश्चात् त्यजेद्दोषादृते नरः। अजुष्टमेव काले तु स मूल्याद्दशमं बहेत्। क्रीत्वा गच्छन्ननुशयं क्रयी हस्तमुपागते। षद्भागन्तस्य मूल्यस्य दत्त्वा क्रीतं त्यजेन्नरः” इति। अजुष्टमनभिभुक्तम्। काले परीक्षाकाले अत्र मूल्यदशमभागदानं यदुपभुज्यमानमपि न नश्यति भूम्यादिकं तद्विषयम् उपभोगविनश्वरवीजादिविषयं षड् भागदानमिति व्यवस्था ज्ञेया। ननु विजानताऽप्यनुशयो न कार्यः “क्रीत्वा नानुशयम् कुर्य्यादिति” निषेधसद्भावादिति चेत्सत्यं अपवादस्य सत्त्वात् स चापवादोदर्शितो नारदेन “क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी। विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतमिति”। मन्यत इत्यनेन वस्तुतो दोषाभाव उक्तः। द्वितीयादिदिवसे प्रत्यर्पणे विशेषमाह स एव “द्वितीयेऽह्नि ददत् क्रेता मू- ल्यात्त्रिंशांशमाहरेत्। द्विगुणं तु तृतीयेऽह्नि परतः केतुरेव तदिति”। परतः तृतीयाहात् परतः क्रेतुरेव तत् क्रीत्वा अनुशयादिकं न कुर्य्यादित्यर्थः। यत्तु मनुवचनम् “क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्। सोऽन्तर्दर्शाहात्तद्द्रव्यं दद्याच्चैवाददीत वेति” तदुपभोगे नश्वरछत्रगृहयानशयनादिविषयम्। यत्तू पभोगेन विकारप्रापितं सदोषसपि तत् परीक्षाकालमध्येऽपि न प्रतिदेयमित्याह नारदः “परिभुक्तन्तु तद्वासः कृष्णरूपं मलीमसम्। सदोषमपि तत् क्रीतं विक्रेतुर्न भवेत्पुनरिति”। वासोग्रहणमुपलक्षणमिति मदनरत्ने। वासोविषयतैवास्योति माधवीये। पण्यानां देशकाले उपचयापचयौ ज्ञातव्यावित्याह नारदः “क्षयं वृद्धिञ्च जानीयात्पण्यानामागमन्तथेति”। अश्वादिपण्यानामस्मिन् कालेऽस्मिन्देशे च क्षयं वृद्धिं वा जानीयात्तथागमं कुलीनत्वादिज्ञानार्थम् उत्पादकजन्मभूम्यादिकञ्च जानीयादित्यर्थः। क्रयकाले मूल्यक्षयवृद्धिदोषदर्शनमन्तरेण क्रोतविक्रीतयोः पत्यर्पणे पुनर्ग्रहणे दण्डमाह याज्ञवल्काः “वृद्धिं क्षयं वा बणिजा पण्यानामविजानता। क्रीत्वा नानुशयः कार्य्यः कुर्वत् षट्भागदण्डभागिति”। वृद्धिं मूल्यवृद्धिम् अविजानता क्रेत्रा एवं मूल्यक्षयमविजानता विक्रेत्रेत्यर्थः। परीक्षाकालातिक्रमेण प्रत्यर्पणे दण्डमाह मनुः “ग्रहणे तु दशाहस्य न दद्यान्नापि दापयेत्। आददानो ददच्चैव राज्ञा दण्ठ्यः शतानि षडिति”। दशाहग्रहणं परीक्षाकालस्य पूर्ब्बोक्तस्योपलक्षणम्। सर्वमेतत्परिभाषणमृते परिभाषण तु तदनुसारेणैव प्रतिदानं तदभावादिकं मन्तव्यम्”। क्रयानुशयोऽप्यत्र।

क्रुञ्च् = पुंस्त्री० क्रुन्च–क्विन् “दधृगित्यादि०” पा० नि० नलोपाभावः (को~चघक) १ वकभेदे अमरः स्त्रियां टाप्। २ हंसे च “अद्भ्यः क्षीरं व्यापिबत् क्रुङ्ङाङ्गिरसोधिया। ऋतेन सत्यमिन्द्रियम्” यजु० १९। ७३ “आङ्गिरसः अङ्गानां रसः प्राणोयथा क्रुङ् हंसोभूत्वा धिया प्रज्ञया अद्भ्यः सकाशात् क्षोरं दुग्धमपिबत् पिबति संसृष्टाभ्यां क्षीरोदकाभ्यां क्षीरमेब हंसः पिबतीति जातिस्वभावः” वेददी०।

क्रुञ्च = पुंस्त्री० क्रुन्च–अच्। (को~चवक) वकभेदे अमरः “वायवे बलाका इन्द्राग्निभ्यां क्रुञ्चान्” यजु० २४। २२ “कलविङ्को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा, वाचे क्रुञ्चः” यजु० २४। ३१ स्त्रिथां संयोगोपधत्वात् टाप्। पुंयोगे तु अजा० टाप्। टावन्तः। २ वीणाभेदे स्त्री शब्द- रत्ना०। ततः चतुरर्थ्यां नडादि० छ कुख्रस्वश्च। क्रुञ्चकीय तत्सन्निकृष्टदेशादौ। क्रुञ्चा वीणास्त्यस्य क्रुञ्चावकी अस्त्यत्र वा मतुप् यवादि० न मस्य वः। क्रुञ्चामत् तद्युक्ते त्रि० ३ क्रौञ्चपर्व्वते पु० हेमच०। स्वार्थे अण्। क्रौञ्च स्वनामख्याते पर्व्वतेक्रौञ्चदारणः। वकभेदे च “ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुदर्शनम्” “यत् कौञ्चमिथुनादेबमबधीः काममोहितम्” रामा० आ० २ स०। स्त्रियां तु अणन्तत्वात् ङीप्। “निशम्य रुदर्ती क्रौञ्चीमिदं वचनमब्रवीत्” रामा० आ० २ स०

क्रुड = निमज्जने घमीभावे च तु० कुटा० प० अक० सेट्। क्रुडति अक्रुडीत चुक्रोड–क्रोडः।

क्रुथ = हिंसने क्य्रा० प० सक० सेट् चान्द्राः। क्रुथ्नाति अक्रोथीत् चुक्रोथ। क्रोथः।

क्रुध = कोपे दिवा० पर० अक० सोपसर्गः सक० अनिट्। क्रुध्यति मृत्यभभिक्रुध्यति ऌदित् अक्रुधत्। चुक्रोध–क्रोद्धा क्रीत्स्यति। क्रोद्धव्यम् क्रोध्यम् क्रोधनीयम् क्रोद्धा क्रोधी क्रुद्धः। क्रुध्यन् क्रोधः। क्रुद्ध्वा संक्रुध्य “चुक्रोध पुरुषादकः” भा० आ० १५३ अ० “द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः” भाग० ६, ४, ५, अत्र तङ् आर्षः शक्त्यादौचानश् वा। “क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः” भट्टिः “क्रोधं विभो! संहर संहरेति” कुमा०। “क्रुधद्रुहेर्य्यासूयार्थानां यं प्रति कोपः” पा० कोपविषयस्य संपदानता। अरये क्रुध्यति। “क्रुधद्रुहोरुपसृष्टयोः कर्म्म” पा० सोपसर्गस्य तस्य सम्प्रदानस्य कर्म्मता “कुध्यन्तं न प्रतिक्रुध्येत्” मनुः। “भृत्यमभिक्रुध्यति” सि० कौ० अन्वाद्युपसर्गात् परस्तु तत्तदुपसर्गद्योत्यार्थयुक्तक्रोधे सक०प्रति + वैपरीत्येन क्रोधने सक० “क्रुध्यन्तं न प्रतिक्रुध्येत्” मनुः

क्रुध् = स्त्री क्रुध–सम्प० भावे क्विप्। कोपे कामव्याघात हेतुके चित्तवृत्तिभेदे अमरः “इतिक्रुधाऽऽक्रुश्यत तेन केतकम्” नैष०। हलन्तत्वात् वा टाप् क्रुधा

क्रुध्मिन् = त्रि० क्रुध–बा० मिनि किच्च। क्रोधयुक्ते “शुभ्रो वः शुष्मः क्रुध्मी मनांसि” ऋ० ७। ५६। ८

क्रुन्च(ञ्च) = कौटिल्ये, अल्पीभावे च अक० पर० सेट्। क्रुञ्चति अक्रुञ्चीत् चुक्रोञ्च। क्रुञ्चः क्विन् क्रुड् अत्र “चोः कुः” पा० चवर्गान्तत्वेन कुत्वप्राप्तौ दधृगिव्यादिना क्विनं विधाय “क्विन् प्रत्ययस्य कुः” पा० क्विनन्तस्य पृथक् क्रुत्वविधानात् संयोगान्तलोपात् प्राक् कुः। भावे क्रच्यते अक्रुञ्चि। केचित्तुदधृगादिसूत्रे क्रुञ्चामिति निर्द्देशत् क्रुञ्चेति ञो- पधे सौत्रं धातुमाहुः तन्मते भावे क्रुञ्च्यते इत्येव। एतन्मते क्र्वङ् इत्यत्र क्विनि नलोपाभावे न निपातकल्पना

क्रुन्थ = क्लेशे श्लेषे च क्य्रा० पर० अक० सेट् हलायुधः। क्रुथ्नाति अक्रुन्थीत् कुक्रुन्थ अयमपाणिनीयः

क्रुमु = त्रि० क्रम–उन् वेदे पृषो०। सर्व्वत्र क्रमणंशीले “क्रुमुर्मा वः सिन्धुर्निरीरमत्” ऋ० ५। ५३। ९। “क्रुमुः सर्व्वत्र क्रमणशीलः” भा०

क्रुमुक = पु० क्रम–उक वेदे पृषो०। गुवाके “क्रुमुकमपि कुर्य्यात् एषा वा अग्नेः प्रिया तनुः यत्क्रुमुकः” तैत्ति० ५। १०९। ५

क्रुश = रोदने अक० आह्वाने आक्रोशे च सक० भ्वा० प० अनिद्। क्रोशति अक्रुक्षत्। चुक्रोश क्रोक्ष्यति। क्रोष्टा क्रुष्टः क्रोशन् क्रोशः क्रोशनः क्रोष्टुः। “रसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते” ऋ० १०। १४६। ४ “वृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु” ऋ१०। ९४ ४ “एष क्रोशति दात्यूहस्तं शिखी प्रतिकूजति” रामा० अयो० ५६ अ०। कर्म्मणि क्रुश्यते अक्रोशि “इतिक्रुधाक्रुश्यत तेन केतकम्” नैष० अत्याद्युपदर्गात् परस्तु तत्तद्द्योत्यार्थयुक्ते रोदनादौअनु + दयायाम् अनुरोदने च सक०। अनुक्रोशा (दया) “न तायुमनुक्रोशन्ति क्षितयोभरेषु” ऋ० ४। ३८। ५ “किमनुक्रुश्य वैकल्यमुत्पादयसि मेऽनघ!” भा० अनु० ५ अ०आ + अप्रियकथने सक०। “शतं ब्राह्मणमाक्रुश्य क्षत्रियोदण्डमर्हति” मनुः। “प्रत्याक्रोशेदिहाक्रुष्टः” भा० अनु० ४५६२ श्लो०। “आक्रुष्टः पुरुषः सर्व्वं प्रत्याक्रोशेदनन्तरम्” भा० व० १९१ श्लो०। “हा प्रिये! क्वासि नष्टासि व्याक्रोशन्न्यपतत् क्षितौ” रामा० आ० ८६ अ०उद् + उच्चराह्वाने सक० “उदक्रोशन् स पाण्डवान्” भा० आ० ७४८ श्लो०। उच्चैरोदने च अक०

क्रुश्वन् = पुंस्त्री क्रुश–क्वनिप्। शृगाले उज्ज्वल० स्त्रियां ङीप् रश्चान्तादेशः क्रुश्वरी।

क्रुष्ट = न० क्रुश–भावे क्त। १ रोदनरवे। कर्म्मणि क्त। २ कथिताप्रिये ३ आहूते च त्रि०।

क्रूड = क्रुडवत्। क्रूडति अक्रूडीत् चुक्रोड “तस्य रेतः परापतत् तदग्निर्योनिनोपागृह्णादयसा तदक्रूडयत्तत्क्रूड्यमानं गवि न्यदधत् तदिद पयः” श्रुतिः।

क्रूर = त्रि० कृत–रक् धातोः क्रूः। १ निर्दये २ कठिने अमरः ३ हिंसके ४ उग्रे च मेदि०। “तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया” रघुः। “तस्मिन्नुपायाः सर्व्वेनः क्रूरे प्रतिहतक्रियाः” कुमा०। “दृढकारी मृदुर्दान्तः क्रूराचा- रैरसंवसत्” मनुः। तस्य भावः ष्यञ् क्रौर्य्य न०, तल् क्रूरता स्त्री, त्वक्रूरत्व न०, निर्द्दयत्वे हिंसने काठिन्ये उग्रत्वे च। “ओजोऽथ युग्मं विषमः समश्च क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च। चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः” दोपिकोक्ते मेषादिषु मध्ये ५ विषमराशौ पु० “अर्द्धोनेन्द्वर्कसौराराः पापाः सौम्यास्तथा परे। पापयुक्तोबुधः पापोराहुकेतू च पापदौ” ज्योति० उक्ते ६ ग्रहभेदेच “यथा दृष्टफला क्रूरास्तथा सौम्याः शुमप्रदाः। क्रूरयुक्तः पुनः सौम्योज्ञेयः क्रूरफलप्रदः” “इदञ्च सौम्यक्रूराणां फलं स्थानवशात् समम्। एतदेव फलं विद्धि सौम्यैः क्रूरैर्विपर्य्ययात्” “ग्रहाः सौम्यास्तथा क्रूरा वक्राः शीघ्रोचनीचगाः” इति “तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण यत्। सर्व्वेषु शुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः। न नन्दति विवाहे च यात्रायां न निवर्त्तते। रोगाद्विमुच्यते रोगी वेधवेलाकृतोद्यमः। रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः” “क्रूरावक्रा महाक्रूरा इति च ज्यो० त० पापग्रहार्थ परतया क्रूरशब्दप्रयोगात्। क्रूरवेधप्रकारस्तु चक्रशब्दे सर्व्वतोभद्रचक्रे वक्ष्यते। ७ रक्तकरवीरे पु० ८ श्येनपक्षिणि ९ कङ्कपक्षिणि च पुंस्त्री० राजनि० स्त्रियां जातित्वात् ङीप्। १० रक्तपुनर्णवायां स्त्री राजनि०

क्रूरकर्म्मन् = त्रि० क्रूरं हिंसकं कर्म्म यस्य। १ हिंसाकर्म्मकारिणि “क्रूरकर्म्मकृताञ्चैव शतशोगुरुतल्पगः” मनुः। २ कटुतुम्बिनीवृक्षे पु० राजनि०।

क्रूरकोष्ठ = त्रि० क्रूरं कठिनं कोष्ठं यस्य। धातुवैषम्बकृते बद्धकोष्ठाशये। “क्रूरकोष्ठस्यावितीक्ष्णाग्नेरल्पनौषधमल्पगुणं वा भक्तवत् पाकमुपैति तत्र समुदीर्ण्णदोषा यथाकालमनिर्ह्रियमाणा व्याधिं बलबिभ्रमञ्चापादयन्ति” सुश्रु०।

क्रूरगन्ध = पु० क्रूर उग्रोगन्धोऽस्य। १ गन्धके राजनि० २ तीक्ष्णगन्धमात्रे त्रि० क्रूरः गन्धएकदेशोऽस्याः टाप्। कन्थारीकृक्ष तीक्ष्णकण्टकायाम् राजनि०।

क्रूरदृश् = त्रि० क्रूरा दृग् यस्य, क्रूरं पश्यति दृश–क्विन् २ त० स० वा। १ पिशुने खले २ शनैश्चरग्रहे पु० मेदि०। ३मङ्गलग्रहे “आरोवक्रः क्रूरदृक् चावनेयः” ज्यो० त०। कर्म्म०। नील० ता० उक्ते स्थानविशेषस्थितानां ग्रहाणां स्थानविशेषे ४ क्षुताख्यदृष्टौ रिपुदृष्टौ स्त्री। ३५५ पृ० अरिशब्दे विवृतिः। क्रूरस्य ग्रहविशेषस्य दृक। ५ पापग्रहदृष्टौ स्त्री।

क्रूरधूर्त्त = पु० क्रूरः कृष्णत्वात् तत्सदृशः धूर्त्तः। कृष्णधत्तूरके राजनि०

क्रूरप्रसादन = त्रि० क्रूरमपि प्रसादयति प्र + सद + णिच्–ल्यु। भक्ते सेवके शब्दचि०।

क्रूरराविन् = पुंस्त्री० क्रूरमुग्रं रौति रु–णिनि। द्रोणकाके राजनि० स्त्रियां ङीप्।

क्रूरलोचन = पु० क्रूरं लोचनमस्य। शनिग्रहे हारा० तद्दृष्ट्याहिंसकत्वात् तस्य तथात्वम्। यथा च तद्दृष्ट्या घातकत्वं तथा इभाननशब्दे ९८१ पृ० उक्तम्

क्रूराकृति = त्रि० क्रूरा आकृतिर्यस्य। १ कठिनमूर्त्तिके २ रावणे पु० शब्दमा०। कर्म्म०। ३ कठिनायां मूर्त्तौ स्त्री

क्रेङ्कित = न० क्रेङ्केत्यव्यक्तं शब्दं करोति णिच्–भावे क्त। क्रेङ्केत्यव्यक्तशब्दभाषणे “निरुध्यमाना चक्रेण चक्री क्रेङ्कितभाषणैः” काशीख०

क्रेणि = त्रि० क्री–नि। क्रेतरि–शस्यक्रेणिः उज्ज्वलद०

क्रेय = त्रि० क्री–कर्म्मणि यत्। क्रेतव्ये अमरः

क्रैडिन = त्रि० क्रीडी मरुत् देवताऽस्य अण् वेदे नि० नलोपाभावः। क्रीडिदैवत्ये साकमेधीये तृतीयाहे प्रातःसवनिके अण्डद्वयशिश्नरूपे हविषि। “शिश्नान्येवास्य क्रैडिनं हविः शिश्नैर्हि क्रीडतीवायमेवावाङ् प्राणः” शत० ११, ५, २, ४ “अण्डौ लिङ्गं चेति त्रीणि शिश्नानि” भा० “तृतीयेऽहन्युपांश्वन्तर्यामौ हुत्वा पौर्ण्णादर्व्वं प्रातः सवनिकेषु क्रैडिनम्” आश्व० श्रौ० ९। २। १५ तद्द्रव्यमधिकृत्य इष्टिः छ। क्रैडिनीया इष्टिभेदे सा च इष्टिः द्यात्या० श्रौ० ५, ७, १ सूत्रादौ दर्शिता। तस्याः पद्धतिश्च संक्षेपेण कर्कभाष्ये दर्शिता यथा “अथ क्रैडिनीया द्विहविष्केष्टिरुच्यते तत्र मरुद्भ्यः क्रीडिम्यः सप्तकपालः, अदित्यै चरुः, इमे हविषी समानतन्त्रे भवतः प्रतीष्ट्युद्धरणपक्षे क्रैडिन्यादित्येष्ट्यर्थमिष्ट्यद्धरणे क्रैडिन्यादित्येष्टिभ्यामहं यक्ष्ये इति। वरणे षात्रासादने सप्तकपालानि एका चरुस्थाली, दक्षिणा अन्वाहार्यः शतावदानानन्तरम्, मेक्षणम् विंशतिरिध्मकाष्ठानि पुरोडाशपात्र्येका अन्यत्सर्वं प्रकृतिवत्। ग्रहणे मरुद्भ्यः क्रीडिभ्यो जुष्टम्, अदित्यै जुष्टम्। प्रोक्षणे मरुद्भ्यः क्रीडिभ्यस्त्वा जुष्टम् अदित्यै त्वा जुष्टम्। नानावीजपक्षे तद्द्भर्मा उक्ताः एकवीजपक्षे करणान्ते विभज्यालम्भः इदं मरुता क्रीडिनाम्; इदमदित्याः। प्राणदाने मरुतः क्रीडिनो गच्छ, अदि तिं गच्छ, सप्तदशेन वज्रेणेत्यवबाधने। उत्तमप्रयाजे इदमग्नये सोमाय मरुन्न्यः क्रीडिभ्योऽदित्यै देवेभ्य इत्यादि। प्रधान- यागे मरुद्भ्यः क्रीडिभ्योऽनुब्रूहि मरुतः क्रीडिनो यज इदं मरुद्भ्यः क्रीडिभ्यः, अदित्याअनुघ्रूहि अदितिं यज इदमदित्यै, मेक्षणेन चरोरवदानम्। स्यिष्टकृदादि पुरोडाशस्य प्राशित्रेडाव्यतिरिक्तं न भवति चरोस्तु सर्वं भवत्येव। व्यूहने मरुतां क्रीडिनामदित्या उज्झितिम् मरुतः क्रीडिनोऽदितिस्तमपनुदन्तु। प्रस्तरहोमे इदमग्नये सोमाय मरुद्भ्यः क्रीडिभ्योऽदित्यै देवेभ्य इति। अन्यत्कर्मापवर्गान्तं प्रकृतिवत् इति”

क्रैव्य = पु० क्रिवीणां पञ्चालानां राजा बा० ञ्य। क्रिविदेश राजभेदे क्रिविशब्दे उदा०

क्रोञ्च = पु० क्रुञ्च अच् वा० गुणः। “कैलासे धनदावासे क्रौञ्चः क्रोञ्चोऽभिदीयते” इति वृहद्धारावल्युक्ते क्रौञ्चपर्व्वते क्रोञ्चदारणः कार्त्तिकेयः इति रायमुकुटः

क्रोड = पुंस्त्री० क्रुड–घनीभावे संज्ञायां घञ्। १ शूकरे “क्रोडकुलदश्यमानभद्रमुस्तारसामोदः” काद० “नदी सैबालदिग्धाङ्गं हरिश्मश्रुजटाधरम्। लग्नौ शङ्खनखैर्गात्रैः क्रोडैश्चित्रैरिवार्पि तम्” भा० अनु० ५० अ०। २ भुजयोरन्तरे (कोल) न० स्त्री० अमरः “कुपितकपिकपोलक्रोडताम्रस्तमांसि” उद्भटः ३ वृक्षकोटरे “हा हा हन्त तथापि जन्मविटपिक्रोडे मनोधावति” उद्भटः। घनीभूते ४ वक्षोमध्यभागे पु० “इन्द्रस्य क्रोडोऽदित्यै पाजस्यम्” यजु० २५, ८ “क्रोडस्य घनीभूतवक्षोमध्यभागपरता वेददीपे उक्ता। क्रोडं तु वक्षोभुजान्तरे देहाशभेदः। “हृदयं जिह्वां क्रोडं सव्यसकिथ पूर्वनडकं पार्श्वे यकृत् वृक्कौगुदमध्यं दक्षिणा श्रोणिरिति जौहवानि” कात्या० श्रौतसू० ६, ७, ६ “क्रोडं बक्षोभुजान्तरम्” कर्क “शेषमिडापात्र्यामासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणि वर्ज्जम्” कात्या० श्रौतसू० ६, ८, १३,। ५ अश्वानामुरसि ६ उत्तरस्थग्रामभेदै शब्दचि० ७ वाराहीकन्दे पु० राजनि० ८ शनिग्रहे पु० मेदिनिः

क्रोडकन्या = क्रोडस्य शूकरस्य कन्येव प्रियत्वात्। वाराहीकन्दे राजनि०।

क्रोडचूडा = स्त्री क्रोडे चूडा यस्याः। सहाश्रावणिकावृक्षे (वड थुलकुडि) राजनि०

क्रोडपत्र = न० क्रोडे उपचारात् मध्ये स्थितं पत्रम् ७ त०। ग्रन्थलेखने भ्रमात् क्रुटितग्रन्धस्य परिपूरणाय ग्रन्यस्थपत्रयोर्मध्ये चिह्नविशेषेण लिखित्वा स्थापिते पत्रे।

क्रोडपर्ण्णी = क्रोडे कण्टकमध्ये पर्ण्णं यस्याः गौरा० ङीष्। कण्टकारिकायाम् शब्दच०

क्रोडपाद = पुंस्त्री क्रोडे पादोऽस्य। कच्छपे हेम० क्रोडाङ्घ्रि प्रभृतयोऽप्यत्र।

क्रोडादि = पु० पाणिन्युक्ते उपसर्ज्जनस्वाङ्गे ङीष्निषेध निमित्ते शब्दगणे स च गणः “क्रोड नख खुर शाखा उखा शिखा बाल शफ शूक” क्रोडादिराकृतिगणः तेन भग गल घोण इत्यादयोऽपि ग्राह्याः

क्रोडी = स्त्री क्रोड + जातौ, गौरा० वा ङीष्। १ वराहजातिस्त्रियां २ वाराहीकन्दे च राजनि०।

क्रोडीकरण = न० क्रीड + च्वि + कृ–भावे ल्युट्। आलिङ्गने हला०

क्रोडीमुख = पुंस्त्री क्रोड्याः शूकर्य्यामुखमिव मुखमस्य। गण्डके (गाण्डार) राजनि० स्त्रियां जातित्वात् ङीष्।

क्रोडेष्टा = स्त्री क्रोडस्य इष्टा प्रिया। मुस्तके (मुथा) राजनि०

क्रोथ = पु० क्रुथ–हिंसने भावे घञ्। हनने हेमच०

क्रोध = पु० क्रुध–भावे घञ्। १ परापकाराय चित्तवृत्तिभेदे, परानिष्टाभिलाषेण अनिष्टविषयद्वेषहेतुके चित्तवृत्तिभेदे। क्रोधश्च रौद्ररसस्य स्थायिभावः “रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः” सा० द० “कामएव कुतश्चित् पराहतः क्रोरूपेण परिणमते स च रजोगुणकार्य्यः “कामएष क्रोधएष रजोगुणससुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्” गीतोक्तेः “यस्त्वया पृष्टोहेतुरेष काम एव। ननु क्रोधोऽपि पूर्वं त्वयोक्तः “इन्द्रियस्येन्द्रियस्यार्थे” इत्यत्र, सत्यं नासौ ततः पृथक् किन्तु क्रोधोऽप्येषएव, कामएव हि केनचित् प्रतिहतः क्रोधात्मना परिणमते। पूर्व्वं पृथक्त्वेनोक्तोऽपि क्रोधः कामज एवेत्यभिप्रायेणैकीकृत्योच्यते जोगुरणात् समुद्भवतीति तथा” श्रीधरः। तस्य कामजत्वमपि “सङ्गात् संजायते कामः कामात् क्रोधोऽमिजायते” गीतायामक्तम्। तत्कार्य्याणि उक्तानि “न कर्म्म क्रोधान्धः प्रभवति विघातुं रणमृते” “अन्धीकरोति भुबनं बधिरीकरोति धीरं सचेतनमचतनतां नयेत् क्रुत्। कृत्यं न पश्यति नचात्महितं शृणोति धीमानधीतमपि न प्रतिसन्दधाति” नीतिशा० “क्षमैव क्रोधविजये समर्थेति विवेकिनः। क्रोधः कार्य्यविभङ्गाय तस्मात्तं क्षमया जयेत्” शकुनशा० स च मृदुमध्याधिमात्रभेदेन त्रिधेति पा० साधन पादे ३४ सू० भा० स्थितम् “क्रोधं विभो! संहर संहरेति” कुमा०। “क्रोधे क्षत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरः” सा० द०। “क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्” वेणी०। “विषमस्थं जगत्सर्व्वं व्याकुलं समुदाहृतम्। जनानां जायते भद्रे! क्रोधे क्रोधः पर- स्परम्” इत्युक्तलक्षणे षष्टिवर्षान्तर्गते अष्टत्रिंशत्तमे २ बर्षभेदे पु०।

क्रोधकृत् = त्रि० क्रोधं करोति कृ–क्विप्। क्रोधकारिणि २ परमेश्वरे पु० “क्रोधहा क्रोधकृत् कर्त्ता विश्वबाहुर्महीधरः” विष्णुसं० असाधून् प्रति क्रोधकर्तृत्वात् तस्य तथात्वम् “श्रुति स्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्त्तते। आज्ञाच्छेदी मम द्वेषी नरके प्रतिवर्त्तते” इति श्रुतिस्मृत्युदितकर्म्माना चरणे ईश्वरद्विष्टत्वोक्तेः तस्य तादृशान् प्रति क्रोधकर्तृत्वम्। तच्च प्राणिनां स्वादृष्टविशेषात् भवति

क्रोधज = त्रि० क्रोधात् जायते जन–ड ५ त०। १ क्रोधजाते २ मोहे पु० मोहस्य क्रोधजत्वं गीतायामुक्तं यथा “क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः” क्रोधजाते द्विविधव्यसनान्तर्गते व्यसनाष्टके च यथाह मनुः “पैशुन्य साहस द्रोहईर्ष्यासूयार्थदूषणम्। वा गदण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः”

क्रोधन = क्रुध–युच्। १ क्रोधशोले अमरः “यद्रामेण कृतं तदेव कुरुते द्रौणायनिः क्रोधनः” वेणी० “वागदुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च। स्वसूमः पितृवर्त्ती च नामभिः कर्म्मभिस्तथा। कौशिकस्य सुता आसन् शिष्याः गर्गस्य भारत!” हरि० २१३ अ० उक्ते गर्गशिष्ये २ कौशिकपुत्रभेदे। “रोगोमरणदुर्भिक्षं विरोधोत्तरसङ्कुलम्। क्रोधने विषमं सर्वं समाख्यातं हरप्रिये!” इत्युक्तलक्षणे षष्टिसंत्सरान्तर्गते उनषष्टितमे ३ वर्षभेदे। “असिताङ्गोरुरुश्चण्ड उल्मत्तःक्रोधनस्तथा” इति तन्त्रोक्ते ४ भैरवभेदे च पु०।

क्रोधमूर्च्छित = त्रि० क्रोधोमूर्च्छितो बहुलीभूतोऽस्य ३ त० वा। १ अतिकोपने “एवमुक्ता तु पार्थेन उर्व्वशी क्रोधमूर्च्छिता” भा० व० ४६ अ० ५ त०। २ चोरनामगन्धद्रव्ये पु० शब्दर०

क्रोधवर्द्धन = त्रि० क्रोधं वर्द्धयति वृध–णिच् ल्यु ६ त०। १ कोपस्य वर्द्धके अनिष्टसूचकवाक्यादौ २ असुरभेदे पु० “चन्द्रहन्ता क्रोधहन्ता क्रोधबर्द्धन एव च” हरि० २६३ अ० असुरकथने। स एव भारतयुद्धकाले दण्डधारनृपत्वेनाविर्भूतः यथा “क्रोधबर्द्धन इत्येव यस्त्वन्यः परिकीर्त्तितः। दण्डधारैति ख्यातः सोऽभवन्मनुजर्षभः” भा० आ० ६७ अ० अशावतारे

क्रोधहन् = पु० क्रोधं हन्ति हन्–क्विप्। १ विष्णौ “क्रोधहा क्रोधकृत् कर्त्ता विश्वबाहुर्महीधरः” विष्णुसं० “साधूनां क्रोधं हन्तीति क्रोधहा” भा०। २ कोपघातके त्रि०

क्रोधहन्तृ = त्रि० क्रोधं हन्ति हन–तृच् ६ त०। १ कोपघातके २ असुरभेदे पु० सच वृत्तासुरस्यावरजः। “क्रोधहन्तेति यस्तस्य (वृत्तस्य) बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ” भा० आ० ६७०। ३ असुरभेदे पु० क्रोधवर्द्धनशब्दे दृश्यम्

क्रोधसम्भव = त्रि० सम्भवत्यस्मात् सम् + भू–अपादाने अप् क्रोधः सम्भवोऽस्य। कोपजाते “क्रोधात् भवति संमोहः” गीता० भावे अप् ६ त०। २ कोपोत्पत्तौ “मार्ज्जारमूषिकास्पर्शे आक्रुष्टे क्रोधसम्भवे” क्रोधसम्भवे कोपोत्पत्तौ” श्रा० त० रघुनन्दनः।

क्रोधालु = त्रि० क्रुध–बा० आलुच्। कोपशीले “क्रोधालुर्विपुलबलो निशाघिहारी” सुश्रुतः

क्रोधिन् = त्रि० क्रुध–णिनि। कोपयुक्ते मारुतप्रकृतेरेव तथात्वं भवति यथाह सुश्रुतः “सप्त प्रकृतयो भवन्ति। दोषैः पृथक्३ द्विशः ३ समस्तैश्च?। शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः। प्रकृतिर्जाथते तेन तस्या मे लक्षणं शृणु। तत्र जागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्य्यनार्य्यो आन्धर्व्वचित्तः स्फुटितकरचरणोऽति सूक्षश्मश्रुनखकेशः क्रोधी दन्तनखखादी च भवति। अधृतिरदृढसौहृदः कृतघ्नः कृशषरुषो धमनीततः प्रलापी। द्रुतगतिरटनोऽनवस्थितात्मा वियदपि गच्छति सम्भ्रमेण सुप्तः। अव्यवस्थितमतिश्चलदृष्टिर्मन्द रत्नधनसञ्चयमित्रः। किञ्चिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः”।

क्रोश = पु० क्रुश–भावे घञ्। १ रोदने २ आह्राने च। क्रोशति यतः अपादाने घञ्। “हस्तेश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितीयेन तेषाम्” लीला० व० उक्ते८००० सहस्रकरमिते अध्वपरिमाणे “चतुर्हस्तोधनुर्दण्डो नालिका तद्युगेन च। क्रोशोधनुः सहस्रेण गव्यूतिश्च चतुर्गुणा” हेमा० दा० मार्क० पु० उक्तेः, “गव्यूतिः स्त्री क्रोशयुगम्” अमरोक्तेश्च तस्य गव्यूतेरर्द्धमानता प्रतीयते हेमाद्रि० दा० आदित्य पुराणे च “धनुःसहस्रे द्वेचापि गव्यूतिरुपदिश्यते” इत्युक्त्या तु गव्यूतेर्द्विसहस्रधनुर्मितत्वात् तदर्द्धत्वेन चतुःसहस्रहस्तमितत्वमपि क्रोशस्य कार्य्यविशेषे गृह्यते इति भेदः। ३ मुहूर्त्ते “दशदण्डे तु या पूजा तत्सर्व्वमक्षयं भवेत्। षष्ठे क्रोशे महेशानि! तत्सर्व्वममृतोपमम्। सप्तमे क्रोशके देवि! द्रव्यतुल्यं न संशयः। अतःपरं महेशानि। विपतुल्यं न संशयः” इति शक्तिस० त० ६ पटले। “क्रोशार्द्धं प्रकृतिपुरस्सरेण गत्वा” रघुः

क्रोशताल = पु० क्रोशं व्याप्य तालः शब्दोऽस्य। ढक्कायां हारा०

क्रोशध्वनि = पु० क्रोशं व्याप्य ध्वनिरस्य। ढक्कायां हारा०

क्रोशयुग = न० ६ त०। क्रोशद्वयमिते गव्यूतौ अमरः

क्रोशिन् = त्रि० क्रुश–णिनि। शब्दकारके उपमानपूर्व्वकतया समासे क्रोशिनि परे पूर्व्वपदस्याद्युदात्तता। उष्ट्रकोशी

क्रोष्टु = पुंस्त्री क्रुश–तुन्। १ शृगाले अमरः अस्य अस बुद्धौ सर्व्वनामस्थाने परे नित्यं तृतीयादावचि वा, स्त्रियां तु नित्यं तृज्वत्। क्रोष्टा क्रोष्ट्रारौ हे क्तोष्टो!। क्रोष्टून्। क्रोष्ट्रा क्रोष्टुना क्रोष्टुभ्यामित्यादि स्त्रियां ङीप् क्रोष्ट्री। “क्रोष्टा मायोरिन्द्रस्य गौरमृगः” “यजु० २४, ३२ “शार्द्दूलस्य गुहां शऊन्यां नीचः क्रोष्टाऽभिमर्दति” भा० आ० २१३ अ० २ यदुवंश्ये नृपभेदे पु०। “क्रोष्टोस्तु शृणु राजेन्द्र! वंशमुत्तममव्ययम्। यदोर्वंशधरस्याय यज्वनः पुण्यकर्म्मिणः। क्रोष्टोर्वंशं हि श्रुत्वेमं सर्व्वपापैः प्रमुच्यते। यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः” “गान्धारी चैव माद्री च क्रोष्टोर्भार्य्ये बभूवतुः” हरि० ३५ अ० स्वार्थे क। शृगाले “क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा” भा० आ० १४० अ०। क्रोष्टुकपुच्छिका। क्रोष्टुर्गोत्रापत्यम् कुञ्जा० च्फञ् क्रोष्टुः क्रोष्टञ्च। क्रौष्टायन ततः स्वार्थे अस्त्रियां ञ्यः। क्रौष्टायन्य तद्गोत्रापत्ये पुंसि स्त्रियान्तु न ञ्यः। जातित्वात् ङीष् क्रौष्टायनी।

क्रोष्टुकपुच्छिका = स्त्री क्रोष्टुकस्य शृगालस्य पुच्छमिव पुष्प मस्त्यस्य ठन्। १ पृश्निपर्ण्याम् (चाकुलिया) (रामवासक्) इत्यमरटीकायां स्वामी २ गोलोमिकायाम् राजनि०

क्रोष्टुकमेखला = स्त्री क्रोष्टुकस्य मेखलेवास्त्यस्याः अच्। पृश्निपर्ण्यां (चाकुलिया) रत्नमा०

क्रोष्टकर्ण्ण = पु०। ग्रामभेदे सोऽभिजनोऽस्य तक्षशिला० अञ्। क्रौष्ठुकर्ण्ण पित्रादिक्रमेण तद्ग्रामवासिनि स्त्रियां ङीप्

क्रोष्टुकशिरस् = न० “वातशोणितजःशोफः जानुमध्ये महारुजः। शिरःक्रोष्टुकपूर्वन्तु स्थूलं क्रोष्टुकमूर्द्धवत्” सुश्रुतोक्ते वातजे रोगभेदे। क्रोष्टुकशिरःखञ्जपङ्गुलवातवेदनासु इत्यादि” “गृध्रसीविश्चाची क्रोष्ठुकशिरःखञ्जेत्यादि सुश्रु०

क्रोष्टुपाद = पु० ऋषिभेदे तस्य गोत्रापत्यम् इञ्। क्रौष्टुपादि तद्गोत्रापत्ये अस्त्रियां बहुत्वे यस्का० तस्य लुक्। क्रोष्टुपादाः स्त्रियान्तु क्रौष्ट्रपाद्यः। एवं क्रोष्टुमान, क्रोष्टुमायशब्दौ ऋषिभेदयोः तदपत्ये इञ् बहुषु अस्त्रियाम् यस्कादि० तस्य लुक्।

क्रोष्टुपुच्छिका = स्त्री क्रोष्टुःपुच्छमिवास्त्यस्याः ठन्। पृश्निपर्ण्याम् (चाकुलिया) रत्नमा०

क्रोष्टुपुच्छी = स्त्री क्रोष्टोः पुच्छमिव पुच्छमस्याः ङीष्। पृश्निपर्ण्ण्याम् (चाकुलिया) शब्दरत्ना०

क्रोष्टुफल = पु० क्रोष्टोः प्रियं फलमस्य। इङ्गुदीवृक्षे राजनि०

क्रोष्टुविन्ना = स्त्री क्रोष्टुना विन्ना प्राप्ता पुष्पाकारेण ३ त०। पृश्निपर्ण्याम् (चाकुलिया) अमरः। (विरालछाञि) २ वृक्षे भरतः।

क्रोष्टेक्षु = पु० क्रोष्टुः प्रियं इक्षुः पृषो०। श्वेतेक्षौ राजनि०

क्रोष्ट्री = स्त्री क्रोष्टुजातिस्त्री क्रोष्टुस्त्वज्वत् ऋदन्तत्वात् ङीप्। २ शृगालजातिस्त्रियाम् तत्प्रियत्वात् २ श्वेतभूमिकुष्माण्डे अमरः। ३ कृष्णविदार्य्यां ४ लाङ्गल्याम् च मेदि०

क्रौञ्च = पुंस्त्री० कुदृ + वार्थे प्रज्ञा० अण्। (को~चवक) वकभेदे स्त्रियाम् अणन्तत्वात् ङीप्। “निशम्य रुदतीं क्रौञ्चीम्” रामा० बा० २ अ०। स्त्रियां टाप् इति वदन् भरतश्चिन्त्यः। अजादिषु क्रुञ्चशब्दस्यैव पाठात् तदप्रवृत्तेः। २ हिमवतः पौत्रे पर्व्वतभेदे “घनुर्विकृष्य व्यसृजद्वाणान् श्वेते महागिरौ। बिभेद स (कार्त्तिकेयः) शरैः शैलं क्रौञ्चं हिमवतः सुतम्” भा० व० २२४ अ०। तस्य हिमवत्पौत्रत्वेऽपि सन्तानाभिप्रायेण सुतत्वोक्तिः। तस्य हिमवत्पुत्रमैनाकपुत्रत्व हरिवं० १८ अ० उक्तं यथा “एतेषां मानसी कन्या मेना नाम महागिरेः। पत्नी हिमवतः श्रेष्ठा यस्यां मैनाक उच्यते। मैनाकस्य सुतः श्रीमान् क्रौञ्चोनाम महागिरिः। पर्व्वतप्रवरः पुत्रो नानारत्नसमन्वितः”। ३ द्वीपभेदे ४ असुरभेदे। “क्रौञ्चे (द्वीपे) क्रौञ्चोहतोदैत्यः क्रौञ्चाद्रौ हेमकन्दरे। स्कन्देन युद्ध्वा सुचिरं चित्रमायी सुमायिना। स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्म्मणा। केतुतामगमत्तस्य नाम्ना क्रौञ्चः स उच्यते” मृगेन्द्रसंहिता। क्रौञ्चदैत्यश्च मयदानवपुत्रः यथाह हरि० ४७ अ० “मयो ददर्श मायावी दानवान्दिवि दानवः। स शिलाजालविततां गण्डशैलादृहासिनीम्। पादपोत्कृष्टकूटाग्रां कन्दराकीर्णकाननाम् सिंहव्याघ्रगणाकीर्णां नदन्तीं दैत्ययूथपैः। ईक्षार्मृगगणाकीर्णां पवना घूर्णितद्रुमाम्। निर्म्मितां स्वेन पुत्त्रेण क्रौञ्चेनदिवि कामगाम्। प्रथितां पार्व्वतीं मायां ससृजे स समन्ततः”। “षण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, काद० ५ कुररीखगेराजनि०। ६ अर्हतां ध्वजभेदे ७ राक्षसमेदे च पु० हेम०। क्रौञ्चद्वीपस्थानञ्च “भूमेरर्द्धं क्षारसिन्धोरुदकस्थं जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपषटकस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः” इत्युपक्रमे- जम्बुद्वीपमुक्त्वा। “शाकं ततः शाल्मममत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च। द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति” सि० शि० उक्तम्। तद्विवृतिः विष्णुपु० “घृतोदश्च समुद्रोवै क्रौञ्चद्वीपेन संवृतः। क्रौञ्चद्वीपो महाभाग। श्रूयताञ्चापरो महान्। कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः। क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः। तम्नामानि च वर्षाणि तेषाञ्चक्रे महीपतिः। कुशलो मन्दगश्चोष्णः पीवरोऽथान्धकारकः। मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने!। तत्रापि देवगन्धर्व्वसेविताः सुमनोरमाः। वर्षाचला महाबुद्धे! तेषां नामानि मे शृणु। क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः। चतुर्थोहरशैलश्च स्वभाभिर्भासयन्नभः। देवावृत् पञ्चमश्चैव तथान्यः पुण्डरीकवान्। दुन्दुभिश्च महाक्रौञ्चो द्विगुणस्ते परस्परम्। द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा। वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च। निवसन्ति निरातङ्काः सह देवगणैः प्रजाः। पुष्कराः पुष्कला धन्यास्तिष्याख्याश्च महामुने!। ब्राह्मणाः क्षत्त्रिया बैश्या शूद्राश्चानुक्रमोदिताः। तैस्तत्र नद्यो मैत्रेय! या पीयन्ते शृणुष्व ताः। सप्त प्रधाना शतशस्तथान्याः क्षुद्र निम्नगाः। गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा। ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः। तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्जनार्द्दनः। योगी रुद्रस्वरूपस्तु इज्यते यज्ञसन्निधौ। क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च। आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः। दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः। क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामते!”। “तथा वहिः क्रौञ्चद्वीपो द्विगुण्णः स्वमनेन क्षीरोदेन परित उपकॢप्तः। वृतो यथा कुशद्वीपो घृतोदेन। यस्मिन् क्रौञ्चो नाम पर्वतराजोद्वीपनामनिर्वर्त्तक आस्ते। योऽसौ गुहप्रहरणोन्मथितस्वकुञ्जोऽपि क्षीरोद्रेनाभिषिच्यमानो भगवता वरुणेनाभिगुप्तोविभयो वभूव। तस्मिन्नपि प्रैयव्रतो घृतपृष्ठेनामाधिपतिः स्वे द्वीप्रे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगबतः परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम। आम्रोमधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति वृतपृष्ठसुताः। तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः। शुक्लो वर्द्धमानो भोजन उपवर्हणो नन्दोनन्दनः सर्वतोभद्र इति। अभया अमृतौघा आर्य्यका तीर्थवती पवित्रवती शुक्लेति। यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषर्षभद्रविणदेवकसज्ञावर्षपुरुषा आपोमयं देवमपांपूर्णेनाञ्जलिना यजन्ते” भाग० ५, २०, १३, अन्यथोक्तं कल्पभेदादविरुद्धम्। ८ सामभेदे न० “क्रौञ्चानि भवन्ति” श्रुतिः तच्च साम गेयगाने १५ प्र० २ यार्द्धे ८, ९ गानम्। क्रौञ्चपर्वतश्च द्विविधः विष्णुपुराणोक्तक्रौञ्चद्वीपान्तर्गतः श्वेतगिरेः सन्निकृष्टस्थः हिमवत्पौत्ररूपश्च तमेव प्रकृत्य “प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम्” मेघदूते वर्ण्णितम्”। क्रौञ्चादिव हंसनिवहो निर्ज्जगाम गुणगुणः” काद०

क्रौञ्चदारण = पु० क्रौञ्चं पर्व्वतं दारयति दृ–णिच् ल्यु। १ कार्त्तिकेये अमरः तद्दारणकथा क्रौञ्चशब्दे भा० व० २२४ अ० वाक्यस्था। २ परशुरामे च तत्कथा क्रौञ्चरन्ध्रं शब्देदृश्या

क्रौञ्चपदा = “क्रौञ्चपदा भ्मौ स्भौ ननना न्गाविषुशरवसुमुनि विरतिरिह भवेत्” वृ० र० उक्ते पञ्चविंशत्यक्षरपादके छन्दोभेदे

क्रौञ्चपदी = स्त्री भारतोक्ते तीर्थभेदे “अश्मपृष्ठे पयस्याञ्च निरविन्दे च पर्व्वते। तृतीयां क्रौञ्चपद्याञ्च व्रह्महत्यां विशुध्यति” भा० आनु० २५ अ०

क्रौञ्चपुर = न० यदुवंश्यसारमनृपनिर्म्मिते पुरभेदे “सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत्। चम्पकाशोकबहुलं वि पुलं ताम्रमृत्तिकम्। वनवासीति विख्यातः स्फीतोजन पदो महान्। पुरस्य तस्य तु श्रीमान् द्रुमैः सर्वर्त्तुकैर्वृतः। हरि० ९५ अ० “ततः सह्याचलयुतं सहार्य्येणाहमक्षयम्। आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम्। करवीर पुरञ्चैव रम्यं क्रौञ्चपुरं तथा” ९६ अ० “तां (खट्वाङ्गीम्) तीर्त्त्वा निम्रगां तत्र तांश्च दृष्ट्वा तपोधनान्। रम्यं क्रौञ्चपुरं नाम गमिष्यामः पुरोत्तमम्” ०६ अ०

क्रौञ्चबन्धम् = अव्य० क्रौञ्चमिव बद्ध्वा “बन्धः संज्ञायायाम्” पा० णमुल् कसादिषु यथाविध्यनुप्रयोगः। क्रौञ्चमिव बद्ध्वा बद्ध इत्यर्थे

क्रौञ्चरन्ध्र = न० क्रौञ्चस्य रन्ध्रम्। मानसस्थहंसनिर्गममार्गे क्रौञ्चपर्व्वतस्थे रन्ध्रे “हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम्” मेघ०। “मानसस्थायिनोहसाः क्रौञ्चरन्ध्रेण सञ्चरन्ते इत्यागमः” मल्लि० क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगणः” काद०। तच्च रन्ध्रं परशुरामेण कृतं गथा मेघदूतव्याख्याने मल्लिनाथआह “पुरा किल भगवतो देवात् धूर्ज्जटेः धनुरुपनिषदम् अधीयानेन भृगुनन्दनेन स्कन्दस्य स्पर्द्धया क्रौञ्चं शिखरिणम् अतिनिशितविशिखमुखेन हेलया मृत्पिण्ड भेदं भित्त्वा ततः क्रौञ्चभेदादेव सद्यःसमुज्जृम्मिते कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालम् आप्लावितमिति” कथा श्रूयते”।

क्रौञ्चसूदन = पु० क्रौञ्चं मयदैत्यसुतं सुदयति सृद–णिच–ल्यु। कार्त्तिकेये तस्य तथात्वं क्रौञ्चशब्दे मृगेन्द्रसंहितावा क्यात् ज्ञेयम् “स ते स्कन्दः प्रसीदतु” इत्युपक्रमे “रम्यद्रिव्यवपुर्देवः पातु त्वां क्रौञ्जसूदनः” सुश्रुते उक्तम्। क्रौञ्चनिसूदकादयोऽप्यत्र “ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिसूदकम्। सरस्वत्यामुपस्पृश्य विमानस्थो विराजते” भा० व० ८४ अ०

क्रौञ्चवत् = पु० क्रौञ्चाः वकभेदा बाहुल्येन सन्त्यत्र मतुप् मस्य वः। पर्व्वतभेदे “कैलासं क्रौञ्चवन्तं च तथाद्रिं गन्धमादनम्” हरि० २०२ अ०। क्रौञ्चयुक्तमात्रे त्रि० स्त्रियां ङीप्।

क्रौञ्चादन = न० अद्यते कर्म्मणि ल्युट् ६ त०। मृणाले २ चिञ्चोटके (चे~चको) ३ घेञ्चुलिकायां (घे~चु) मेदिनि० ४ पिप्पल्यां शब्दरत्ना० पद्मवीजे स्त्री० राजनि० ङीप्।

क्रौञ्चाराति = पु० क्रौञ्चस्य दैत्यभेदस्यारातिः। १ कार्त्तिकेये हला० २ परशुरामे च शब्दमाला क्रौञ्चरिपुप्रभृतयोऽप्यत्र।

क्रौञ्चारण्य = न० जनस्थानात् क्रोशत्रयान्तरे दण्डकारण्य पार्श्ववर्त्तिनि वनभेदे “ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ। क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ” रामा० आर० ६९ अ०। “ततः पूर्व्वेण गत्वा च त्रिक्रोशं भ्रातरावुभौ। क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तिके” तत्रैवोक्तेः तस्य मतङ्गाश्रमात् त्रिक्रोशान्तरितपश्चिमस्थत्वम्।

क्रौशशतिक = त्रि० क्रोशशतादभिगमनमर्हति ठञ्। १ क्रोशशतादागन्तरि भिक्षौ। क्रोशशतं गच्छति ठञ्। २ क्रोशशतगन्तरि त्रि०। उभतः स्त्रियां ङीप्।

क्रौष्ट्रायण्य = पुंस्त्री० प्रकृतिग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् क्रोष्त्र्या गोत्रापत्यम् कुञ्जा० च्फञ् ततः स्वार्थे अस्त्रियाम् ञ्य। क्रौष्ट्रायण्यः क्रोष्टु गोत्रोत्पन्नस्त्रियागोत्रापत्ये। बहुषु यस्का० लुक। क्रौष्ट्रायणाः तद्गोत्रापत्येषु। ततः अरीहणा० चतुरर्थ्याम् वुञ्। क्रौष्ट्रायणक तन्निवृत्तातौ त्रि०।

क्रौष्टुकि = पुंस्त्री० क्रोष्टेव स्वार्थे क तस्यापत्यम् इञ्। १ क्रोष्टु- कर्षेरपत्ये स्त्रियां ङीप्। २ ऋषिभेदे पु०। “तत्को द्रविणोदाः? इन्द्र इति क्रौष्टुकिः” निरुक्त० ८, २

क्लथ = बधे वा चुरा० उभ० पक्षे म्बा० प० सेट घटादि०। क्लथयति ते क्लथति, अचिक्लथत् अक्लाथीत् अक्लथीत्। क्लथयांबभूवं आस चकार चक्रे चक्लाथ। मध्ये धृतस्यापवर्त्तने च। “पौष्णो विष्पन्दमाने मारुतः क्लथन्” यजु० ३९, ५, “क्लथनं मध्ये धृतस्यापवर्तनम्” वेददीपः

क्लद = रोदने अक० आह्वाने सक० इदित् भ्वा० पर० सेट्। क्लन्दति अक्लन्दीत्। चक्लन्द। क्रन्द्यते

क्लद = वैकल्ये दि० आत्म० अक० सेट् घटादि०। क्लद्यते अक्लादष्ट चक्लदे। क्लदयति त अचिक्लदत् त।

क्लद = रोदने भ्वा० उभ० इदित् अक० सेट्। क्लन्दति ते अक्लन्दीत् अक्लन्दिष्ट। चक्लन्द चक्लन्द। क्लन्द्यते “याः क्लन्दास्तमिषीचयोऽक्षकामामनो मुहः ताभ्यो गन्धर्वपत्नीभ्योऽप्सराभ्योऽकरं नमः” अथ० २, २, ५

क्लप = अव्यक्तवाक्ये चुरा० उभ० अक० सेट् घटा०। क्लपयतिते अचिक्लपत्–त। क्लपयां बभूव आस चकार चक्रे

क्लम = ग्लानौ दिवा० पर० अक० सेट् शमा०। क्लाम्यति अक्लमीत् चक्लाम। उदित् क्लमित्वा–क्लान्त्वा। क्लान्तः। घञ् न वृद्धिः क्लमः। क्लम्यते अक्लमि। “क्लमं ययौ कन्दुकलीलयाऽपि या” “अह्नाय सा नियमजं क्ललमुत्ससर्ज” कुमा० “न चक्लाम न विव्यथे” भट्टिः “तपः क्लमं साधयितुं य इच्छति” शकु०

क्लम = ग्लानौ भ्वा० पर० अक० सेट्। क्लमति इरित् अक्लमत् अक्लमीत् चक्लाम। क्लमित्वा। क्लमितः।

क्लम = पु० क्लम–भावे घञ् अवृद्धिः। “योऽनाय सः श्रमोदेहे प्रवृद्धः श्वाससङ्गतः। क्लमः स इति विज्ञेय इन्द्रियार्थ प्रवाधकः”। भावप्र० उक्ते श्रमभेदे।

क्लमथ = पु० क्लम–अथच्। आयासे अमरः।

क्लमिन् = त्रि० क्लम–घिनुण् अवृद्धिः। क्लान्तियुक्ते।

क्लव = भये दिवा० आत्म० अक० सेट् घटादि०। क्लंव्यते अक्लविष्ट। चक्लवे। क्लवयति। वि–वैकल्ये विक्लवः।

क्लान्त = त्रि० क्लम–क्त। श्रमार्त्ते।

क्लान्ति = स्त्री क्लम–क्तिन्। परिश्रमे “क्लान्तिच्छिदोवनवनस्पतयस्तदानीम्” मावः।

क्लिद = आर्द्रीभावे दिवा० पर० अक० वेट्। क्लिद्यति। इरित्। अक्लिदत्–अक्लेदीत्–अक्लैत्सीत्। चक्लाद। क्लेदः। क्लिद्यन् क्लेदी। क्लेदयति ते। अचिक्लिदत् त। “तेन क्लिद्यति व्रणः” सुश्रु०। “सुवेशं पुरुषं दृष्ट्वा भ्रातर यदि वा सुतम्। योनिः क्लिद्यति नारीणाम्” हितो०। “लुट्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च” भट्टिः। “कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्” भा० आ०१३५। “नचैनं क्लेदयन्त्यापो न शोषयति मारुतः। अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता। “रक्तैरचिक्लिदद्भूमिम् सैन्यैश्चातस्तरद्धतैः” भट्टिः। उपसर्गविशेषपूर्शकस्तु तत्तदुपसर्गद्योत्यार्थविशिष्टे क्लेदे।

क्लिद = रोदने इदित् भ्वा० उभ० अक० सेट्। क्लिन्दति ते अक्लिन्दीत् अक्लिन्दिष्ट। चिक्लिन्द चिक्लिन्दे। क्लिन्दितः। परिदेवने शोके सक० आत्म०। क्लिन्दते चैत्रम्” सि० कौ०।

क्लिन्न = त्रि० क्लिद–कर्त्तरि क्त। आर्द्रे (भिजे) क्लिदधातौ उदा०

क्लिन्नवर्त्मन् = न० “अरुजं बाह्यतः शूनमन्तःक्लिन्नं स्रवत्यपि। कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते” सुश्रुतीक्ते नेत्रावयवभेदवर्त्माश्रये रोगभदे।

क्लिब = पु० क्लप् क्विप् पृषो०। लोके। “ओं क्रतो! स्मर क्लिवेस्मर कृतं स्मर” यजु० ४०, १५, “क्लवे कॢप्ताय लोकायस्मर” माधवः। “कल्पते भोगाय क्लप् लोकः तस्मै स्मर जशादेश आर्षः छन्दस्युभयथेति” पा० “पदान्तत्वात्” वेददी०

क्लिश = उपतापे दिवा० आ० अक० उपतप्तीकरणे सक० सेट् पा०। किश्यते अक्लेशिष्ट। क्लिशित्वा क्लिष्ट्वा। क्लिशितः क्लिष्टः। कविकल्पमते अयमुभयपदो तेन “क्लिश्यन्नपि हि मेधावी” प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्लवीति” नृपात्मजौ चिक्निशतुः समीतौ” भट्टिः साधुः सकर्म्मकत्वे “इन्द्रियैः कामवृत्तैस्तु क्लिश्यसे प्राकृतोयथा” रामा० ति० १६, २७, अकर्म्मकत्वे “। क्लश्यते हि जनः सर्व्वः तरमाणः पुनः पुनः” भा० व० १३५ अ०। “चिर क्लिशित्वा मर्म्मावित्” भट्टिः परस्मैपदित्वे “त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्” मनुः। “हिमक्लिष्टप्रभावानि ज्योतींषीव मुखानि वः” कुमा०। “क्लेशः फलेन हि पुनर्नवतां निधत्ते” कुमा०। उपसर्गपूर्ब्बकस्तु तत्तदुपसर्गविशेष्यद्योत्यार्थोपतापे

क्लिश = बाधने सक० क्र्या० ऊदित् वेट्। क्लिश्नाति अक्लेशीत् अक्लिक्षत् चिक्लेश। क्लिष्टः। क्लेशः लिशित्वा क्लिष्ट्वा। क्लिशितः क्लि ष्टः “इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्” कुमा०। “अयं मां सुदृढ क्षुद्रः कौरवाणां यशोहरः। क्लिश्नाति नाहं तत् सोढुं चिरं शक्ष्यामि कौरव!” भा० स० ६७। “असुरस्तारकोनाम त्वया दत्तवरः प्रभो!। सुरानृषींश्च क्लिश्नाति कधस्तस्य विधीयताम्” भा० आनु० ८५ अ० “किश्नन्निवास्य भुजमध्यमुरःस्थलेन” रघुः। अत्र मल्लिनाथः क्लिश्नन्निति पठित्वा क्लिश्नातिरयं सकर्म्मकः “क्लिश्नातिभुवनत्रयमिति दर्शनादिति व्याचख्यौ। तेन टीकापुस्तके क्लिश्यन्निति पाठः प्रामादिकएव। उपसर्गविशेषात्तु तत्तदुपसर्गद्योत्यार्थयुक्ते बाधने। परि + सर्व्वतोबाधने। “परिक्लिश्यमाने” पा०।

क्लिशित = त्रि० क्लिश–क्त वा इट्। १ क्लेशयुक्ते २ उपतापिते च

क्लिष्ट = त्रि० क्लिश–क्त वा इडभावः। १ केशयुक्ते २ पीडिते च। ३ पूर्ब्बापरविरुद्धार्थके वाक्ये न० अमरः

क्लिष्टा = स्त्री क्लिष्टं क्लेशः अस्त्यस्याम् अच्। पातञ्जलोक्ते चित्तवृत्तिभेदे यथा “वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” सू० “क्लेशहेतुकाः कर्म्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति। अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्काराः वृत्तिभिरेव क्लिश्यन्ते संस्कारैश्च वृत्तय इति एव वृत्तिसस्कार चक्रमनिशमावर्त्तते तदेवम्भूतं चित्तमवसिताधिकारमात्म कल्पेनावतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश्च पञ्चधा वृत्तयः” भा० “स्यादेतत् पुरुषो हि शक्ये, उपदिश्यते। न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यो, न च सहस्रेणापि पुरुषायुषैरलमिमाः कैश्चित् परिगणयिंतुमसख्याताश्च कथ निरोधव्या इत्याशङ्क्य तासामियत्तास्वरूपप्रतिपादनपर सूत्रमवतारयति ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य व्र्त्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः। वृत्तिरूपोऽवयव्येकः। तस्य प्रमाणादयोऽवयवाः पञ्च ततस्तदवयवाः पञ्चतय्यः पञ्चावयवा वृत्तिर्भवति ताश्च वृत्तयश्चैत्रमैत्रादि चित्त–भेदात् बह्व्य इति बहुवचनमुपपन्नम् एतदुक्तं भवति चैत्रो वा मैत्रो व काश्चित्सर्व्वेषामेव तेषां वृत्तयः पञ्चतय्यः एव नाधिकैति! चित्तस्येति चैकवचनं जात्यभिप्रायं चित्तानामिति तु द्रष्टव्यम्। तासामवान्तरविशेषमनुष्ठानोपयोगिनं दर्शयति। क्लिष्टाऽक्लिष्टा इति। अक्लिष्टा उपादेयाः क्लिष्टा निरोद्धव्यास्ता अपि परेण वैराग्येणेति। अस्य व्याख्यानम्। क्लेशहेतुका इति। क्लेशाः अस्मितादयो हेतवः प्रवृत्तिकारणं यासां वृत्तीनान्तास्तथोक्ताः। यद्वा पुरुषार्थं प्रधानस्य रजस्तमोमयीनां हि वृत्तीनां क्लेशकारित्वेन क्लेश्यैव प्रवृत्तिः क्लेशः क्लिष्टम् तदासामस्तीति क्लिष्टा इति। यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिरतएव कर्म्माशयप्रचयक्षेत्रीभूताः प्रमाणादिकाः। खल्वयं प्रतिपत्त्यर्थमवसाय तत्र सक्तोद्विष्टो वा कर्म्माशयमाचिनोतीति भवन्ति धर्म्माधर्म्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा इति अक्लिष्टा व्याचष्टे ख्यातिविषया इति। विधूतरजस्तमसो बुद्धिसत्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः ख्यातिस्तया विषयिण्या तद्विषयं सत्वपुरुषविवेकमुपलक्षयति तेन सत्वपुरुषविवेकविषया यतः अतएव गुणाविकार विरोधिन्यः कार्य्यकरणं हि गुणानामधिकारो विवेकख्यातिपर्य्यवसानञ्च त दति चरिताधिकाराणां तु गुणानामधिकारं विरुन्धति इति अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः। स्यादेतत् वीतरागजन्मादर्शनात् क्लिष्टवृत्तय एव सर्व्वप्राणभृतां न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टवृत्तयः। नचामूषां भावेऽपि कार्य्यकारिता विरोधिमध्यपातित्वात्। तस्मात् क्लिष्टानामक्लिष्टाभिर्निरेधस्तासां च वैराग्येण परेणेति मनोरथमात्रमित्यत आह। क्लिष्टप्रवाहेति। आगमानुमानाचार्य्योपदेशपरिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रान्तरे तत्र पतिताः स्वयमक्लिष्टाएव यद्यपि क्लिष्टप्रवाहपतिताः। न स्वलु विशालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि व्राह्मणः किरातो भवति। अक्लिष्टच्छिद्रेष्विति निर्दशनम्। क्लिष्टान्तर्वर्त्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः स्व संस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्या ह तथाजातीयका इति। अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा इत्यर्थः। तदिदं वृत्तिसंस्कार, अक्रमनिश मावर्त्तते आनिरोधसमाधेः तदेवंभूतञ्चित्तं निरोधावस्थं संस्कारशेषं भूत्वात्मकल्पेनाबतिष्ठत इत्यापाततः। प्रलयं वा गच्छतीति परमार्थतः। पिण्डीकृत्य सूत्रार्थमाह। ता इति षञ्चधेत्यर्थकथनमार्थंन तु शब्दवृत्तिव्याख्यानं तयपः प्रकारेऽस्मरणात्। ताः स्वसंज्ञाभिरुद्दिशति” विव० “प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” सू० “निर्द्देशे यथावचनं विग्रहश्चार्थे द्वन्द्वसमास इतरेतरयोगः। यथाऽनित्याऽशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्येत्युक्तेऽपि न दिङ्मोहालातचक्रादिविभ्रम व्युदस्यन्ते। एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्त्यन्तरसद्भावशङ्कान व्युदस्येति तन्निरासाय वक्तव्यं पञ्चतस्य इति एतावत्य एव वृत्तयोनापराः सन्तीति दर्शितं भवति” विव०

क्लिष्टि = स्त्री क्लिश–क्तिन्। १ क्लेशे २ सेवायां च धरणिः।

क्लीत = पु० सुश्रुतोक्ते अग्निप्रकृतिके कीटभेदे। “क्लीतः कृमिसरारी च” सुश्रुतः कीटशब्द विवृतिः

क्लीतक = न० क्लीव–क्विप् नि० वलोपः कियं तकति हसते अच्। मधूके (यष्टिमधु)। अमरः। “तत्र क्लीतकाश्वमारगुञ्जा सुगन्धगर्गरककरघाटविद्युदिघाविजयानीत्यष्टौ मूलविषाणि” सुश्रुतः। २ करञ्जवीज “आत्मनि मन्त्रान् संनमयेत्” “एकक्लीतकेन” आश्व० गृ० ३, ८, ७, ८, “करञ्जवीजस्य यत्रैकं वीजं तदेकक्लीतकम्” नारा० वृ०।

क्लीतकिका = स्त्री क्रीतादागतः कन् क्रीतकः विक्रयः निन्दायां ठन् रस्य लः। नील्यामोषधौ अमरः। नील्याः विक्रयस्य निनिन्दितत्वमाह मिता० आपस्तम्बः” “रोमकूपे यदा गच्छेद्रसो नील्यास्तु कस्यचित्। त्रिवर्णेषु च सामान्यात्तप्तकृच्छ्र विशोधनम्। पालनंविक्रयश्चैव तद्वृत्त्या चोपजीवनम। पतनञ्च भवेद्विप्रे त्रिभिः कृच्छ्रै र्व्यपोहति”

क्लीतनक = न० क्लीतं कीटभेदं नुदति नुद–बा० ड संज्ञायां कन्। मधूलिकायाम् अतिरसायाम् राजनि०।

क्लीब(व) = वैकल्ये अप्रागल्भ्ये च भ्वा० आत्म० अक० सेट्। क्लीब (व)ते अक्लीबि(वि)ष्ट। चिक्लीबे(वे)क्लीबि(वि)त्वा। पा० मते अयं पवर्ग्यान्त्यः कविक० मते अन्त्यस्थान्त्यः। ऋदित् चङि अचिक्लीब(व)त् त।

क्लीब(व) = पु० न०। क्लीब(व)–क। पुंस्त्रीभिन्ने तृतीयप्रवृतौ षण्डे। स च “न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति। मेढ्रं चोन्मादशुक्राभ्यां हीनः क्लीवःस उच्यते” इति कात्यायनोक्तलक्षणः। स च चतुर्द्दशविधः नारदेन दर्शितोयथा। “चतुर्द्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः। चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात्। निसर्गषण्डो१ऽनण्डश्च २ पक्षषण्ड ३ स्तथैव च। अभिशापात् गुरो ४ रोगात् ५ देवक्रोधत् ६ तथैव च। ईर्ष्याषण्ड्य ७ स्तथाऽऽसेक्यो ८ वातरेता ९ मुखेभगः १०। आक्षेप्ता ११ मोघवीजश्च १२ शालीनो १३ऽन्यापति १४ स्तथा। तत्राद्यावप्रतीकार्य्यौ पक्षाख्यं मासमाचरेत्। अनुक्रमात्त्रयस्याथ कालः संवत्सरः स्मृतः। ईर्ष्या षण्डादयोयेऽन्ये चत्वारः समुदाहृताः। त्यक्तव्यास्ते पतितवत् क्षतयोन्या अपि स्त्रियाः। आक्षेप्तृमोघवीजाभ्यां कृतेऽपि पतिकर्मणि। पतिरन्यः स्मृतोनार्य्या वत्सरार्द्धं प्रतीक्ष्य तु। शालीनस्यापि दृष्टस्त्रीसंयोगादुच्छ्रयेत् ध्वजः। तं हीनवेगमन्यस्त्रीबालाद्याभिरुपाचरेत्। अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति। लभेत स्वाम्यं भर्त्तानोएतकार्य्यं प्रजाकृते। अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं वीजिनो नराः। क्षेत्रं वीजवते देयं सवीजी क्षेत्रमर्हति” अत्र “नष्टे मृते प्रव्रजिते क्लीवे वा पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते” इति क्लीवपतिपरित्यागे प्राप्ते क्लीवस्य चिकित्स्याचिकित्स्यत्वभेदेन द्वैविध्यमुक्त्वा चिकित्स्यस्य कालविशेष पर्य्यन्तं सुश्रुताद्युक्तवाजीकरणादिना उपचर्य्यता अचिकित्स्यस्य तु सर्वथा त्याज्यता दर्शिता। तत्र निसर्गषण्डः मनूक्तो मातापित्रोः समवीर्य्यजातः। अनण्डः अण्डहीनः छिन्नाण्डः कृतक्लीवश्च तौ द्वौ अप्रतीकार्य्यौ अचिकित्स्यौ। पक्षाख्य पक्षव्यापकषण्ड मासमाचरेत् चिकित्सेत्। त्रयस्य गुरोरभिशापरोगदैवकोपकृतकक्लैव्यस्य सवत्सर चिकित्स्यत्वम्। ईर्ष्याषण्डादयस्तु चत्वारः अचिकित्स्यत्वात् पतिततुल्यत्वेन सर्वथा त्याज्याः न तत्र कालप्रतीक्षा। आक्षप्ता वीजस्य ईषत्क्षेप्ता दर्शनमात्रादिना स्खलितवीर्य्यः मोघवीर्य्यः अपत्योत्पादनायोग्यवीजः एतौ द्वौ षण्मासं चिकित्स्यौ शालीनस्य तु चिकित्स्यत्वेन अत्याज्यता। अन्यपतेस्तु सर्वथा त्याज्यता। अत्र क्षतयोन्या इति विशेषणात् क्लीवपतित्यागवचनं वागदत्ताविषयमिति कल्पनं निरस्तम्। नष्टे मृतेइत्यादिवचनं युगान्तरविषयम् “दत्तायाश्चैव कन्यायाः पुनर्दानं वरस्य च” इत्यादित्यपुराणे कलिवर्ज्यधर्म्मेष्वभिधानात् इति माधवाचार्य्यः। अन्ये तु कलिधर्म्मप्रकरणे पराशरेण तथविधानात् स्मृतेः पुराणात् बलवत्त्वेन कलावपि तत्प्रवृत्तिरित्याहुः। साम्प्रदायिकास्तु वेदार्था नुभवजन्यमुनिप्रणीतवाक्यस्य व स्मृतित्वेन पुराणान्तर्गतधर्म्मविधायकनिषेधवाक्ययोरपि स्मृतित्वात् “द्वैधे बहूनां वचनमिति” न्यायेन बहूनां तयासम्मत्यभावात् शिष्टाचारविरोधाच्च पराशरवाक्यमनादृत्य बहुसम्मत एव पक्ष आदरणीय इत्याहुः। इर्ष्याषण्डादिलक्षणं सुश्रुतोक्तम्। सुश्रुते तु नपुंसकोत्पत्तिकारणसहितास्तद्भेदा अन्यथा दर्शिता यथा “पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो भवेत्। स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम्। यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः। स योनिशेफसोर्गन्धमाघ्राय लभते बलम्। स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुं- वत् प्रवर्त्तते। कुम्भीकः स च विज्ञेय ईर्ष्यकं शृणु चापरम्। दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते। ईर्व्यकः स च विज्ञयः षण्डकं शृणु पञ्चमम्। यो भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते। ततः स्त्रीचेष्टिताकारो जायते षण्डसंज्ञितः। ऋतौ पुरुषवद्वापि प्रवर्त्तेताङ्गना यदि। तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता। आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा। सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसंज्ञितः। अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः। हर्षात् स्पुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत्”। तस्य दायानधिकारिता अनंशशब्दे १४३ पृ० उक्ता। तत्राय विशेषः। “क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः। अन्धोऽचिकित्स्यरोगाद्याभर्त्तव्याः स्युर्निरंशकाः” या० व्याख्या मिता० “एतेषां विभागात् प्रागेव दोषप्राप्तावनंशत्वत्वं न पुनर्विभक्तानां, विभागोत्तरकालमप्यौषधादिना दोषनिर्हरणे भागप्राप्तिरस्त्येव “विभक्तेषु सुतोजातः सवर्ण्णायां विभागभाक्” इत्यस्य समानन्यायात्। क्लीवान्धौ यदि जन्मत आरभ्य तदा विभागानर्हावेव यदि त्वत्तरा तदा, तदपगमश्चेदौषधादिना, तर्हि “दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितादिति” रीत्या विभागार्हावेवेत्युक्तम्”। अत्रविशषः क्लीवादीनामनंशत्वात्तत्पुत्राणामप्यनंशत्वे प्राप्त इदमाह” मिता० “औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः”। या० “एतेषां क्लीवादीनामौरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिक्लेव्यादिदोषरहिता भागहारिणः, अंशग्राहिणो भवन्ति। तत्र क्लीवस्य क्षेत्रजः पुत्रः सम्भवत्यन्येषामौरसा अपि। औरसक्षेत्रजयोर्ग्रहणं इतरपुत्रव्युदासाथम्। क्लीवादिदुहितॄणां विशेषमाह निता०”। “सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः”। या० “एतेषां क्लीवादीनां सुता दुहितरो यावद्विवाह संस्कृता न भवन्ति तावद्भरणीयाः। चशब्दात्संस्कार्याश्च। क्लीवादिपत्नीनां विशेषमाह मिता० “अपुत्रायाषितश्चैषां भर्तव्याः साधुवृत्तयः। निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च” या०। “एषां क्लीवादीनामपुत्राः पत्न्यः साधुवृत्तयः सदाचाराश्चेद्भर्तव्या भरणीयाः। व्यभिचारिण्यस्तु निर्वात्याः। प्रतिकूलास्तथैवच निर्वास्याभवन्ति भरणीयाश्चाव्यभिच रिण्यश्चेत्। न पुनः प्रातिकूल्यमात्रेण भरणमपि न कर्त्तव्यम्” मिता० वीरमित्रोदये विशेष “क्लीवादीनामपि दारपरिग्रहेण पुत्रस म्भव उक्ती मनुना “यद्यर्थिता तु दारैः स्यात् क्लीवादीनां कथञ्चन। तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति”। तन्तुरपत्यम्। नच क्लीवादेरुपनयनाभावेन पतितत्वात् कथं दारसम्बन्ध इति वाच्यम्। उपनयनानर्हतया अनुपनीतत्वे शूद्रवदपतितत्वात्”। एतच्चिन्त्यं “मुखेभगाश्च ये केचित् क्लीवप्राया नपुंसकाः। व्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः। महापातकिनो ये च पतितास्ते प्रकीर्त्तिता” शु० त० ब्रह्मपु० क्लीवस्य पतितत्वोक्तेः। केचित्तु तत्र उत्तरार्द्धे “पतितानां न दाहःस्यान्नान्त्येष्टिर्नास्थिसञ्चयः पातः कर्त्तव्यो नचाश्रु नाशौ च मुदकक्रिया” इत्युक्तेरशौचाद्यभावाङ्गमिदं पातित्यंनान्यत्र। अतएव अनंशिगणनायां याज्ञवल्क्यादिभिः पतितात् पृथक् क्लीवस्य कीर्त्तनं सङ्गच्छते इत्याहुः। मनुनाऽस्यापाङ्क्तेयत्वमुक्तम् “आचारहीनः क्लीवश्च नित्ययाचनकस्तथा” इत्युपक्रमे “एतान् विगर्हिताचारानपाङ्क्तेयान्द्विजाधमान्” इति। “अस्योत्पत्तौ कारणमुक्तं मनुना। “पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिक स्त्रियाः। साम्येऽपुमान् पुंस्त्रियौ वा क्षीणाल्पे च विपर्य्ययः” “पुंसोवोजे अधिकेऽयुग्मास्वपि पुत्रो जायते स्त्रीवीजेऽधिके युग्मास्वपि दुहितैव। अतोवृष्याहारादिना निजवीजाधिक्यं भार्य्यायाश्चाहारलाघवादिना विजाल्प त्वमवगम्यायुग्मास्वपि पुत्रार्थिना गन्तव्यमिति दर्शितं स्त्रीपुंसायोस्तु वीजसाम्येऽपुमान् नंपुसकं जायते पुंस्त्रियाविति यमौ निःसारेऽल्पे चोभयोरेव वीजे गर्भस्यासम्भवः” कुल्लू०। कर्त्तव्यकर्म्मसु २ निरुद्साहे ३ अधीरे ४ विक्रमहीने अमरः तस्य भावः ष्यञ्। क्लेव्य न०। तल् क्लीवता स्त्री। त्व क्लीवत्व न० तद्भावे “मा क्लेव्यं गच्छ कौन्तेय! नैतत्त्वय्युपपद्यते” गीता। “पुनरक्लावतया प्रकाश्यताम्” रघुः। “अक्लीवतया धैर्य्येण” मल्लि०। “कोहि धर्म्मोऽस्ति ते भीष्म! ब्रह्मचर्य्यमिद वृथा। यद्धारयसि मोहाद्भा क्लीवत्वाद्वा न संशयः” भा० स० ४० अ०। क्लैव्यञ्च पुंस्त्वेन्द्रियोपघातः अशक्तिशब्दे ४७३ पृ० उदा०। जातस्य क्लीवताकारणं च सुश्रुतेदर्शितं यथा “शुक्रवहेद्वे धमन्यौ तयोर्तूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च”। “क्लीवरूपांस्तिरीटिनः” अथ० ८, ६, ७, क्लीवैवाचरति ङ्यः क्विप् वा। क्लीवायते। क्वा- वपि आत्म० क्लीबते मुग्ध०। ४ शब्दनिष्ठधर्म्मभेदे तद्विवृतिः शब्दार्थरत्ने यथा “लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्म्मएव तद्विशेषश्च पुंनपुंसकत्वादिः। तथा हि सर्व्वेषां त्रिगुणप्रकृतिकार्य्यतया शब्दानामपि तथात्वे न गुणगतविशेषाच्छब्देषु लिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थमभ्य धायि। विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुसंकत्वं सत्वस्याधिक्ये पुंस्त्वम्, रजआध्यिक्ये स्त्रीत्वमिति। एवञ्च लिङ्गस्य शब्दधर्म्मत्वेऽपि शब्देन सहार्थाभेदारोपात् असति वाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्व्वत्र तस्य विशेषणत्वम् शाब्दवोधे शब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौचित्यात् “न सोऽस्ति प्रत्ययीलोके यः शब्दानुगमादृते” इतिप्रागुक्तेः “शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा। नो चेत् श्रोत्रादिभिः सिद्धोऽप्यसावर्थेऽवभासते” इतिहर्य्युक्तश्च शब्दाना नामार्थतावगतेः। तथा प्रातिपदिकार्थः। अभेदविवक्षायां तु श्रोल्त्रादिभिरेव सिद्धः ज्ञातः सत् अर्थे प्रकारतया भासते इति तदर्थः। युक्तञ्चैतत् पुंलिङ्गः शब्दैतिव्यवहारात् “स्वमोर्नपुंसकादिति” पा० सूत्रे शब्दस्यैव नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च लिङ्गस्य शब्दधर्म्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्रनिर्द्देशासङ्गत्यापत्तेश्च। तथा अर्थभेदाच्छब्दभेदवत् लिङ्गभेदादपि शब्दभेदैति कल्प्यते प्रागुक्तधर्म्म विशेषरूपभेदकसद्भावात्। उक्तञ्च भाष्ये “एकार्थे शब्दान्यत्वा द्दृष्टं लिङ्गान्यत्वमिति”। एवञ्च तटादिशब्दानामगेकलिङ्गत्वव्यवहारः समानानुपूर्व्वीकत्वेनैव वस्तुतस्तषां भिन्नानामव भिन्नलिङ्गत्वमिति दिक्”। “अकारादि क्षकारान्तान् क्लीवहीनान् लिखेत्ततः। ॠऋवर्ण्णद्वयं ऌॡ द्वयं क्लीबं प्रचक्षते” अकडमचक्रे तन्त्रसारोक्ते ऋकारादिवर्णचतुष्के च

कॢ = गतौ आ० भ्वा० सक०अनिट्। क्लवते अक्लोष्ट चुकॢवे

कॢप्त = त्रि० कृप–क्त। १ रचिते २ कल्पिते ३ विहिते ४ निर्म्मिते च शब्दच० “पतिंवरा कॢप्तविवाहवेषा” कॢप्तेन सोपान पथेन मञ्चम्” रघुः। ५ वापिते च “कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः” मनुः।

कॢप्तकीला = स्त्री कॢप्तं कीलमत्र। (पाट्टा) इतिख्याते। निर्द्दिष्टकरग्रहणार्थं दत्तभूमिशस्यग्रहणोपयोगिस्वत्वज्ञापके पत्रभेदे त्रि०।

क्लेद = पु० क्लिद–भावे घञ्। १ आर्द्रतायाम्। सा च जलवि कारभेदः यथाह या० “रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्द्दवम्”। “रसादुदकात् रसमेन्द्रियं शैत्यमङ्गानां, स्नेहं स्निग्वताम् सृदुतासहितं क्लेदमार्द्रताम्” मिता०। देहस्थः क्लेदश्च श्लेष्मकार्य्यः क्लेदनशब्दे विवृतिः। “तदञ्जनक्लेदसमाकुलाक्षम्” “स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया” रघुः। २ पूतीभावे शब्दचि० “पदस्थितस्य पद्मस्य बन्धू वरुणमास्करौ। पदाच्च्युतस्य तस्यैव क्लेदक्लेशकराबुभौ”

क्लेदक = त्रि० क्लेदयति क्लिद णिच् ण्वुल्। १ क्लेदकारके देहस्थकफे क्लेदनशब्दे विवृतिः। २ क्लेदकारके जलादौ त्रि०। देहस्थदशवह्निमध्ये ३ वह्निभेदे अग्निशब्दे ५० पृ० पदार्थादर्शवाक्यम् दृश्यम्। जलस्य क्लेदकत्वेऽपि तत्र अग्नेः साहचर्य्यादेव तथात्वम्।

क्लेदन् = पु० क्लेदयति क्लिद–णिच्–कनिन् (चन्द्रे उणा०)

क्लेदन = पु० क्लेदयति क्लिद–णिच् ल्यु। क्लेदकारके देहस्थे श्लेष्मभेदे तद्विवृतिः भावप्रकाशे “कफस्यैतानि नामानि क्लेदनश्चावलम्बनः। रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतः। अथ क्लेदनादीनां स्थानान्याह “आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु। स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्टत्यनुक्रमात्”। र्दाषाणां सकलशरीरव्यापिनामपि पञ्च पञ्च स्थानानीति बाहुल्याभिप्रायेणेक्तानि। तथाच वागभटः “इति प्रायेण दोषाणां स्थानान्येकीकृतात्मनाम। व्यापिनामपि जानीयात् कर्म्माणि च पृथक् पृथक्”। चरकश्च “ते व्यापिनोऽंप हृन्नाभ्योरधोमध्योर्द्ध्वसंश्रयाः” इति। अथ तत्तत्स्थानगतस्य श्लेष्मणः कर्म्माण्याह “क्लेदनः क्लेदयत्यन्नमात्मशक्त्यापराण्यपि। अनुगृह्णाति च श्नष्मस्थानान्यदक कर्म्मणा”। अयमर्थः क्लेदनोऽन्नं क्लेदयति तेन संहतमन्नं भेदं प्राप्नोति। अपराण्यपि श्लेष्मस्थानानि हृदयादीनि मार्गेण गत्वा तत्र तत्र हृदयालम्बनसन्धा रणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसंश्लेषणाद्युदक कर्म्मभिरनुगृह्णानि उपकरोति। तथा च “रसयक्तात्मवीर्य्येण सृदयस्थावलम्बनम्। त्रिकसन्धारणं चापि विदधात्यवलम्बनः”। त्रिकं शिरोबाहुद्वयसन्धिः। “उभावपि ततः सौम्यौ तिष्ठतश्चान्तिके यतः। ततो “रसान्विजानीयात् रसनारसनौ समौ”। रसना ररुनेन्द्रियं ण्सनः कण्ठस्थकफः। “स्नेहनः स्नेहदानेन समस्तन्द्रियतर्पणः। श्लेष्मणः सर्व्वसन्धीनां संश्लेषं विदधात्यसौ”। २ क्लेदकारक जलादौ त्रि०।

क्लेदु = पु० क्लिद–उन्। १ चन्द्रे उज्ज्वल० २ सन्निपाते त्रिका०

***