क्रम = पादविक्षेपणेन गतौ भ्वा० पर० सक० सट्। अस्य सार्व्व- धातुके वा श्यन् सेडमन्तत्वात् अतिङि णिति ञिति चिणि परे न वृद्धिः। कर्त्तरि क्रम्यति क्रामति। क्रम्येत्–क्रामेत्। क्रम्यतु क्रामतु। अक्रम्यत् अक्रामत्। अक्रमीत्। चक्राम। क्रमिता कम्यात् क्रमिष्यति। अक्रमिष्यत्। कर्म्मणि क्रम्यते। अक्रमि। णिचि इण्ण मुलो र्वा वृद्धिः। क्रमयति–ते। अचिक्रमत्–त। कर्म्मणि क्रम्यते। अक्र(क्रा)मि। क्र(क्रा) मितासे क्रमयितासे। कृत्सु क्रमणीयम्। क्रमितव्यम् क्रम्यम् क्रमणम्। क्रमकः। क्रमी। क्रमिता। क्रान्तिः। क्रमितुम्। उदित् क्रमित्वा क्रान्त्वा। संक्रम्य। क्रमं क्रमम्। णिचोणमुलि वा वृद्धिः क्र(क्रा)मं क्र(क्रा)मम्। क्रम्यन् क्रामन्। क्रमिष्यन् क्रमिष्यमाणः। ण्यन्तस्य क्रमयिता क्रमितः। क्रमयितुम्। क्रमयितव्यम्। क्तिन्नास्ति युच् क्रमणा। क्रम–यन् माणः क्रमयिष्यन्। कर्म्मणि क्रम्यमाणः। क्र(क्रा)मिष्यमाणः। क्रमयिष्यमाणः। सनि चिक्रमिषति आत्म० चिक्रंसते। “समुद्रात् पश्चिमे पूर्वं दक्षिणादपि चौत्तरा। क्रामत्यनुदिते सूर्य्ये वाली व्यपगतक्लमः” रामा० कि० ८० अ०। “देवा इमाल्लो~कानक्रमन्त” शत० व्रा० ६। ७। २। १० “विष्णुस्त्वा क्रमताम्” यजु० १। ९। “पादेनाक्रम्यारोहतु” वेददी०। “हत्वा रक्षांसि लवितुमक्रमीन्मारुतिः पुनः” भट्टिः “वृतोद्विजाग्र्यैरभिपूज्यमानः चक्राम वज्रीव दितेः सुतेषु” भा० आ० १९३ अ०। “क्रमं वबन्ध क्रमितुं सकोपः” “क्रन्त्वा क्रन्त्वा स्थितं क्वचित्” भट्टिः। परोपक्रमवत् अप्रतिवन्धादौ आत्म०। “न तत्र क्रमते मृत्युर्नजरा न च पावकः” भा० आनु० ८३ अ०। “हरेर्यदक्रामि पदैककेन खम्” नैषधे अक्रामीत्यसाधु। स्वार्थेणिचिकथञ्चित् साधु इत्यन्ये। निष्ठायां नेट् क्रान्त इत्यादि कौटिल्ये यङ् चंक्रम्यते नागः। “सोऽपि चंक्रम्यमाणः कूपे पपात” भा० आ० ७०० श्लो०।अति + अतिक्रमणे उल्लङ्घने सक०। “स नदीः पर्वतांश्चापि सलिलानि सरांसि च। अचिरेणातिचक्राम खेचरः खे चरन्निप” भा० आ० ४६५२ श्लो०। “अत्यक्राममिमान् मासां स्तद्बधं परिचिन्तयन्” रामा० युद्ध० ८८ अ०।अभि + अति + आभिमुख्येनातिक्रमणे सक०। “न दिष्टमभृतिक्रान्तुं शक्यं बुद्ध्या बलेन च” भा० स० १०५१ श्लो०।वि + अति + वैपरीत्येन क्रमणे। “तदन्तः पुरमासाद्य व्यतिचक्राम तं जनम्” रामा० बाल० ७० अ०। विशेषेण अतिक्रमे च। “स लोकानाहिताग्नीनामृषीणां पुण्यकर्म्मणाग। देवानाञ्च व्यतिक्रम्य ब्रह्मलोकमवाप ह” रामा० आर० ९ अ०। “एवं हि सुमहान् कालोव्यत्यक्रामत तस्य वै” भा० अनु० ४५५ श्लो०। “विवाहे च व्यतिक्रमः” उद्वा० त०सम् + अति + सम्यगतिक्रमणे। “अवन्तीमृक्षवन्तञ्च समतिक्रम्य पर्वतम्” भा० व० २३१ श्लो०अधि + आधिक्येन क्रमणेअनु + परिपाट्या क्रमणे। “श्रद्धा रतिर्भक्तिरनुक्रमिष्यति” भा० ३। २५। २५५। “महर्षिभिरनुक्रान्तं धर्म्मपन्थानमास्थितः” रामा० उ० ४७ अ०। “परिपाटी ह्यनुक्रमः” अमरः।अप + अपसरणे अक० “हित्वा सेनामपचक्राम चापि” भा० आ० १। १७७ श्लो०।अभि + आभिमुख्येन गमने सक० “तमभिक्रम्य सर्वेऽद्य वयं वाऽर्थामहे वसु” भा० व० ८३१ अ०। “प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः” भा० अनु० ६०४७० “आरम्भे च “नेहाभिक्रमनाशोऽस्ति” गीता अभिक्रमः आरभ्यमाणः।अव + अपसरणे हिंसने च सक०। “अवक्रामन्तः प्रपदैरमित्रान्” ऋ० ६। ७५। ७। “अषक्रामन्तः हिंसन्तः” भा०।अनु + अव + अनुगमने प्रवेशे च सक०। “एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति” शत० व्रा० १४। ७। २। १। “मृतिकाले हृदयस्थां बुद्धिमेवान्वागच्छति” भा०।आ + बलपूर्वकास्कन्दने। “आकामन्नागभवने तदा नागकु, मारकान्” भा० आ० ५०१८ श्लो०। “आरोहणे च आक्रान्तिसम्मानितपादपीठम्” कुमा०। उद्गमे अक० तत्र दीप्त्यान्वितस्योद्गमे आत्म०। “भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते जलम्। तावद्गर्भं विजानीयात्तदूर्द्ध्वं तीरमुच्यते” प्रा० त० दानधर्म्मः। एवं सूर्य्य आक्रमते इत्यादि। अन्यत्र आक्रामति। अत्यादिपूर्वकस्याङस्तु तत्तदर्थविशिष्टारोहणादिद्योतकता। “सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुःउत् + उदये अक०। “यज्ञस्य शींर्षाच्छिन्नस्य उदक्रामत्” शत० व्रा० १४। १। २। १३। ऊर्द्ध्वक्रमणे च “न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते” श्रुतिः। “कस्मिन्नुत्क्रान्ते सर्व्वमिदमुत्क्रान्तम्” श्रुतिः। “तान् कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्” भा० आ० ३२ अ०। “विष्वङ्ङन्या उत्क्रमणे भवन्ति” छा० उप०। उल्लङ्घने सक०। उत्क्रमः। –वेपैरीत्येन क्रमणे अक० “क्रमोत्क्रमान्मेषतुलादिमानम्” ज्यो० त०अनु + उद् + उत्क्रमणानुसरणे सक०। “प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” शत० ब्रा० ७। २। ३।वि + उद् + वैपरीत्येन विशेषेण च लाङ्घने सक० ऊर्द्ध्वं गतौ अक० “इन्द्रियाणि वीर्य्याणि व्युदक्रामन्” शत० व्रा० १२। ७। १। ९। “व्युत्क्रान्तरजसोऽमलाः” भा० अनु० १३१९ श्लो०। “व्युत्क्रमात् प्रेतश्राद्धानि योमोहात् धर्म्ममोहितः” ति० त० देवलः।उप + आरम्भे सक० आत्म०। उपक्रमते आरभते इत्यर्थः। “उपक्रमस्व पुरुरूपमाभर वाजम्” ऋ० ८। १। १४। “उपक्रमोपसंहारौ” वेदान्तसा०। “योयस्य विहितः कालः कर्म्मणस्तदुपक्रमे। तिथिर्याऽभिमता सा तु कार्य्या नोप क्रमोज्झिता” बौधा०। गत्यर्थमात्रद्योतकत्वे नात्मनेपदम् “मागधेषूपचक्राम भगवांश्चण्डकौशिकः” भा० स० १८ अ०। अप्रतिबन्धे उत्साहे वृद्धौ च आत्म०। ऋचि उपक्रमते बुद्धिः न प्रतिहन्यते इत्यर्थः अध्ययनाय उपक्रमते उत्सहते। उपक्रमन्ते शास्त्राणि स्फीतानि भवन्ति इत्यर्थः। एवंपरापूर्वकस्य केवलस्य च एष्वर्थेषु अकर्म्मकता आत्मनेपदञ्च। अन्योपसर्गपूर्वकत्वे तत्तदर्थेषु, परोपपूर्व्वस्यार्थात्तरे च न तङ्। उपसर्गराहित्ये अन्यार्थेऽपि वा तङ्। कामति क्रमते इति। आङि तु ज्योतिरुद्गमने आत्मनेपदमिति भेदः। विपूर्वकस्य विशेषो वक्ष्यते समादिपूर्व्वकोपशब्दस्य तत्तदर्थविशिष्टारम्बद्यो तकता। वक्तुं समुपचक्रमे।नि + नितरां क्रमणे अवश्यक्रमणे। “कर्म्मन् वाजी न्यक्रमीत्” ऋ० ९। ३६। १। “न्यक्रमीत् नितरामक्रमीत्” भा०अनु + नि + अनुक्रमणे। “सप्तपदान्यनुनिक्रामति” शत० ब्रा० ३। ३। १। १।निर्(स्) + निम्मरणे “जिगीषया महीं पाण्डुर्निरक्रामत् पुरात् प्रभो!” भा० आ० ११३ अ०। अस्य क्वचिदात्मनेपदित्वम् “वातापे! निष्क्नमस्वेति पुनः पुनरुवाच ह” भा० व० ९९ अ०।अभि + निर्(स्) + आभिमुख्येन निःसरणे। “अभिनिष्क्रामति द्वारम्” पा०। “स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम्” सि० कौ० “प्रविश्य चाभिनिष्क्रान्तं सुग्रीवं वानरर्षभाः” रामा० किष्कि० २५ अ०वि + निर्(स्) + विशेषेण निःसरणे “यथा प्रविश्यान्तरमन्तकस्य को वै मनुष्योहि विनिष्क्रमेत” भा० व० १०२७३ अ०।परा + वलेनाक्रमणे आत्म० सक०। “यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम्” अथ० १०। ७। ११। अप्रतिबन्धादौ उपोपसर्गवत्। तत्रोत्साहे “पानीयार्थे पराक्रान्ता यत्र ते भ्रातरोहताः” भा० महा० ९१ श्लो०। पराक्रनः।परि + भ्रनणे अक०। “परिक्रामति संसारे चक्रवत् बहुवेदनः” भा० व० २०८ अ०। परितोगमने सक०। “परिक्रामति यः सर्वाल्लो~कान् संत्रासयन् बलात्” भा० ८६। १३। ३०।सम् + परि + सम्यक् वेष्टनाकारेण परितो गमने सक० “बहूनि संपरिक्रम्य तीर्थान्यायतनानि च” भा० आ० १२ श्लो० पर्य्यटने अक०प्र + आरम्भे आत्म०। “प्रचक्रमे वक्तुमनुज्भितक्रमः” रघुः। अनारम्भे तु न आत्म० “विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रानन्ति” भाग० ५ २२। १७ श्लो०।प्रति + प्रतिरूपक्रमे सक० “यं स्रुवेण प्रतिक्रामति” शत० व्रा० ३। ४। ४। ९। प्रतिकूलक्रमणे निवृत्तौ अक०। “भद्रे! प्रतिक्राम नियच्छ वाचम्” भा० व० २६८ अ०।वि + पादविहरणे अक० आत्म०। “साधु विक्रमते वाजी” सि० कौ० “त्रेधा विष्णुरुरुगायोवित्तक्रमे” तैत्ति०। पादाकरणके तु न तङ्। वाजिना विक्रामति। “ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः” भा० आ० १८ अ०। इत्यत्र न तङ् “ततएनं महादेवः पीड्य गात्रैः सुपीडितम्। तेजसा व्यक्रमद्रोषात् चेतस्तस्य विमोहयन्” भा० व० ३९ अ०। दीर्घाभाव आर्षः। वीर्य्यातिशयेन पराक्रमे अक०। “ते यूयं त्वरिताः सर्वे विक्रमध्वं प्लवङ्गमाः” रामा० किष्कि० ५८ अ०। तङ् आर्षः। एवं “ताञ्च विक्रमसे जेतुम्” भा० स० १९६ श्लो० तङ् आर्षः। “वेः पादविहरणे” पा० योगविभागाद्वा क्वचिदन्यत्रापि तङ् इत्यन्ये।अधि + वि + आधिक्येन पराक्रमे “यजमानायाविविक्रमस्व” कात्या० २३। ३। १।निर् + वि + विशेषेण निःसरणे। “भित्त्वा कुक्षिं निर्विचकाम विप्रः” भा० आ० ७६ अ०सम् + एकत्रस्थितस्यान्यत्र संचरणे सक० “कार्मुकं तु परित्यज्य झषं (मृगम्) संक्रमते रविः” ति० त० भवि० पु०। “रविसंक्रान्तिरेव च” तत्रैव। “जीवः संक्नमतेऽन्यत्र कर्म्मबन्धनिबन्धनः” भा० व० २० ८ अ०। तङार्षः। “औपसर्गिकरोगाः सक्रामन्ति नरान्नरम्” सुश्रु०। “संक्रामन्ति हि पापानि तैलविन्दुरिवाम्भसि” पराशरः “कालोह्ययं संक्रमितुं द्वितीयम्” रघुः। सम्यक् क्रमणे सक० “संक्रामन्तौ बहून् देशान् शैलाच्छैलं वनाद्वनम्” रामा० आर० ७६ अ०।अनु + सम् + आनुरूप्येण आनुपूर्व्येण च संक्रमणे। “इष्टापूर्त्त मनुसंक्राम विद्वन्!” अथ० १८। २। ५।उप + सम् + सामीप्येन संक्रसणे सक० “सविशेषणे हि विधि- निषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे” दीधितौ न्यायवाक्यम् “एतमन्नमयात्मानमुपसंक्रामति” तैत्ति०प्रति + सम् + प्रतिकूलसङ्क्रमणे निवृत्तौ “तावन्न संसृतिरसौ प्रतिसंक्रमेत” भाग० ३। ९। १० श्लो०। “प्रतिसंक्रामयद्विश्वम्” ४। २४। ४९ श्लो० प्रतिसंक्रामयत् निवर्त्तयत्।

क्रम = पु० क्रम–भावकरणादौ यथायथं घञ् मान्तत्वादवृद्धिः। १ पादविक्षेपे २ पादे हेमच० अर्थानां नैयत्येन ३ पूर्वापरावस्थाने। ४ कल्पे अनुष्ठाने अमरः ५ सामर्थ्ये (सामर्थ्यहेतुकव्यापारे) ६ आक्रमणे च मेदि०। ७ वेदसंहितानुसारिपाठतद्विलोमरूपे पाठभेदे। ऋग्वेदशब्दे तत्स्वरूपभेदादिकं १४११ पृ० चरणव्यूहवाक्यतद्भाष्याभ्यां दर्शितम्। ८ विष्णौ “ईश्वरोविक्रमी धन्वी मेधावी विक्रमः क्रमः” विष्णुस०। ‘क्रमणात् प्राणरूपेण गगनात्। क्रमणहेतुतया। (प्राणिगमनसाधनपादविन्यासहेतुभूतरथ्यादिप्रकाशनाधिष्ठातृसूर्य्यादिदेवरूपतया) वा क्रमः” भा० ९ परिपाट्यां यथोचित सन्निवेशे मेदि०। शेषशेषिभावे अधिकृताधिकारे वा सत्येव वैदिककर्म्मणोरनुष्ठाने पौर्वापर्य्यरूपक्रम ग्रहणमिति शा० भा० स्थितम् तन्नियामकश्च श्रुत्यर्थपाठप्रवृत्तिकाण्डमुख्यभेदात् षड्विधः तस्य च कर्म्मविशेषे विशेषेण ग्राह्यता तद्विवृतिः मीमांसा ५ अ०। १ पा० भाष्ययोर्दर्शिता यथा “श्रुतिलक्षणमानुपूर्व्यं तत्प्रमाणत्वात्” जै० १ सू० “चतुर्थेऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तं, तन्न विस्मर्त्तव्यम्, इह इदानीं क्रमनियमलक्षणम् उच्यते, तत् श्रुत्यर्थ पाठप्रवृत्तिकाण्डमुख्यैर्वक्ष्यते, श्रुत्यादीनाम् च बलाबलम्। आदितस्तु श्रुतिक्रसश्चिन्त्यते,–किं यथाश्रुति पदार्थानाम् क्रमआस्थेयः, उत अनियमेन?–इति। किं पाप्तम्?–एकत्वात् कर्त्तुः, अनेकत्वाच्च पदार्थानाम्, अवश्यम्भाविनि क्रमे लाघवात् प्रयोग आश्रुभावाच्च अनिमः–इत्येवं प्राप्ते ब्रूमः

“श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात्–इति श्रुतिर्ग्रहणम् अक्षराणां, तन्निमित्तं यस्य क्रमस्य, स साधु क्रमः। शुतिगमाणका हि वैदिका अर्थाः नैषामन्यत् प्रमाणमस्ति (१। १। २ सू०)–इत्युक्तम्। किम् इह उदाहरणम्?। सत्रे दीक्षाक्रमं विधत्ते, ‘अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारं, ततो होतारं ततस्तं प्रतिप्रस्थाता दीक्षयित्वा अर्द्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः, ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षय- ति, अग्नीध्रं ब्रह्मणः, प्रतिहर्त्तारम् उद्गातुः, अच्छावाकं होतुः ततस्तमुन्नेता दीक्षयित्वा पादिनो दोक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः, ततस्तमन्यो ब्राह्मणो सुब्रह्मस्योदीक्षयति, ब्रह्मचारी वा आचार्य प्रेषितः–इति। अनियमेन क्रमः कर्त्तव्यो, यथा पूर्वः पक्षः, यथा तर्हि सिद्धान्तः, एष एव क्रमः कर्त्तव्यः–इति। तत्र आह, अन्याय्यं श्रुतिवचनम्–इति। उच्यते, –किमयं न साधुः? न न साधुः–इति ब्रूमः। न्याय्यं तर्हि न ब्रूमः,–न साधुः क्रमः–इति, किं तर्हि?–उक्तस्य पुनर्वचनमन्याय्यम्–इति। उच्यते,–साधोर्वचनं बहुशोऽष्युच्यमानं न्याय्यमेव, असाधोस्तु सकृदप्यन्याय्यम्। आह सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनम् इति, उच्यते भवति अविस्मरणमपि प्रयोजनम् इत्युक्तम्। वृत्तिकारेण तत् कार्यम्–इति चेत्। सूत्रकारस्याप्यविशेषो वृत्तिकारेण। (१ म वर्णकम्)

अथवा अर्थान्तरमेव इदम् तत्र हि अन्य एव संशयो विचारो निर्णयश्च,–श्रुतिप्रमाणकोधर्मः अन्यप्रनालकोवा? इति संशयः। प्रत्यक्षादीनाम् अधिगम्यनिमित्तत्वात् न तत्प्रमाणकः, अतीन्द्रियत्वाच्चोदनालक्षणः–इति विचारः। चोदनालक्षणः एव–इति निर्ण्णयः। इह तु सिद्धे तत्प्रमाण्ये व्यवहारक्रमस्य साधुत्वावधारणम्(। २ य वर्णकम्)

अथ वा श्रुतिविचारोऽयं–किं पदार्थाः कर्त्तव्याः? इति विधानम्? किं वा क्रमो विधीयते?–इति। अनेकार्थविधानानुपवत्तेः क्रमे अनुवादः, पदार्थानां विधिः, अवदानवाक्येष्विव पादार्थविधानं श्रुत्या, क्रमविधानं वाक्येन, तस्मात् न क्रमो विधीयते–इयि पूर्वः पक्षः। ननु अवदानवाक्येषु क्रमो विधीयते सत्यं विधीयते, पाठेन, न श्रुत्या, ये ऋत्विजस्ते यजमानाः “इति तु दीक्षायाः प्राप्तत्वात् क्रमविधानार्था श्रुतिः–इति सिद्धान्तः। तस्मात् अपुनरुक्तम्–इति” (३ म वर्णकम्)। भाष्यम् “अर्थाच्च” २ सू० “किम् एष एव उत्सर्गः? उत न, सर्वत्र श्रुतिवशेनैव भवितुमर्हति–इति उक्तं हि,–“चोदनालक्षणोऽर्थोधर्मः”

एवं प्राप्ते ब्रूमः–अर्थाच्च (सामर्थ्याच्च) क्रमो विधीयतेइति, गुणभूवोहि पदार्थानां क्रमोभवति, यच्च यस्य निर्वर्त्यमानस्य उपकरोति, स तस्य गुणभूतः, यस्मिंश्चाश्रीयमाणे पदार्थः एव न सम्पद्यते, न स गुणभूतः विनापि तेन, न वैगुण्यम्। एवं प्रयक्षक्रमस्य गुणभावो यत्र, तत्र अर्थेन स एवाश्रयितव्यः। यथा “जाते वरं ददाति, जातमञ्जलिना गृह्णाति जातमभिप्राणिति”–इति अर्थात् पूर्वमभिप्राणितव्यम् ततः अञ्जलिता गृहीतव्यः, ततो वरोदेयः,–इति, तथा विमोकः पूर्वमाम्नातः, पश्चात्तद्योगः, अर्थात् विपरीतः कार्यः। याज्यानुवाक्ये तु विपर्ययेण आम्नाते, विपर्ययेण कर्त्तव्ये, न अत्र पाठक्रमोमीयते, यतो देवतेपलक्षणार्थाऽनुवाक्या, प्रदानार्था याज्या, “अग्निहोत्रम् जुहोति” –इति पूर्वमाम्नातम्, “ओदनं पचति”–इति पश्चात्, असम्भवात् पूर्वमादनःपक्तव्यः। प्रैषप्रेषार्थौतु विपर्ययेण आम्नातौ, तौ च विपर्य्ययेण कर्त्तव्यौ” माष्यम् “अनियमोऽन्यत्र” ३ सू० अन्यस्मिन् विषये क्रमस्य नियमो नास्ति, यथादर्शपुर्णमासयोर्याजमानानां प्रयाजानुमन्त्रणादीनाम् नानाशाखान्तरसमाम्नातानाम् “वसन्तमृतूनाम् प्रीणामि”–इत्येवमादीनाम्, “एको धर्म,–इत्येवमादीनाञ्च” भा० “क्रमेण वा नियामकता क्रत्वेकत्वे तद्गुणत्वात्” ४ सू० “दर्शपुर्णमासयोराम्नातम्”–“समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजति स्वाहाकारं यजति”–इति। तत्र संशयः–किम् अनियतेनैव क्रमेण एषाम् अष्टष्ठानम्? उत यः पाठक्रमः स एव नियम्येत?–इति। किंप्राप्तम्?–नियमकारिणः शास्त्रस्याभावात् अनियमः–इति। एवं प्राप्ते ब्रूमः–क्रमेण, एव नियम्येत एकस्मिन् क्रतौ–इति। कुतः?। तद्गुणत्वात्, तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा, स्नायात् अनुलिम्पेत, भुञ्जोत–इति च क्रमेण अनुष्ठानम् अवगम्यते, वाक्यात् पदार्थानाम्, यथा चादृष्टार्थेषु उपदिश्यमानेषु, कश्चित् ब्रूयात्,–“देवाय धूपो देयः पुष्पाण्यवकरितव्यानि चन्दनेनानुलेप्तव्यः उपहारोऽस्मै उपहर्त्तव्यः” एवं कृते देवस्तुष्यति,–इति, तमन्यः प्रतिब्रूते, नैतदेवं, न प्रथमं धूपो दातव्यः, प्रथमं पुष्पाणि अवकरितव्यानि–इति, एवं मन्यते–धूपदानस्य प्राथम्यम् अनेन उक्तम्–इति। तस्मात् वाचनिक एषाम् एष क्रमः–इति” भा० “अशाब्द इति चेत्, स्याद्वाक्यशब्दत्वात्। ५ सू०

इति चेत्, पश्यसि, “अथैवं गम्यमाने अशाब्दः एव क्रमः। कथं? पदार्थपूर्वको वाक्यार्थः पदेभ्यश्च पदार्था एव अवगन्यन्ते न क्रमः। स्यात् एतदेवं, यदि पदार्थानाम् समूहस्य श्रकणं प्रत्यायकम् अर्थस्य स्यात्, न तु समुदायः प्रत्यायकः, –इत्युक्तं “तद्भूतानां कियार्थेन समाम्नायः” (१। १। २५ अ०) इत्यत्र। तस्मात् क्रमस्य वाचकशबदाभावात् व्यामोह एष क्रमोऽवगम्यते। एवं चापूर्वासत्तिरनुग्रहीष्यते, इतरथा सापि विप्रकृष्येत वटीयन्त्र इव। दर्शयिष्यति च”–“हृदयम्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षसः,–इति। यदि नियामकः पाठक्रमः ततो न विधातव्यनेतत नियामके हि पाठकमे पाठक्रमात् एव प्राप्नुयात्” भा० “अर्थकृते वानुमानं स्यात्, क्रत्वेकत्वे परर्थत्वात् स्वेन त्वर्थेन सम्बन्धः, तस्मात्स्वशवदमुच्येत” ६ सू० “एकस्मिन् क्रतावेकत्वात् कर्तुः, अनेकन्मिन् पदार्थेऽर्थकृतत्वात् क्रमस्य, तत्र एष एव क्रमो नियम्येतानुमानेन। कुतः? परार्थत्वात् वेदस्य, परार्थो हि वेदो यद्यत् अनेन शक्यते कर्त्तुम्, तस्मै–तस्मै प्रयोजनाय एष समाम्नायते, शक्यते च अनेन पदार्थो विधातुम्, शक्यते च क्रियाकाले प्रतिपत्तुम्। तस्मात् वेदः पदार्थांश्च विधातुम् उपादेयः, क्रियाकाले च प्रतिपचुम्, न शक्यते विशेषः–विधातुमयं समाम्नायते, न प्रतिपत्तुम्–इति, अवम्यमाने विशेषे उभयार्थम् उपादीयते–इति गम्यते। प्रतिपत्तुं च अनेन क्रमेण शक्यते, नान्येन, अत एव च कृत्वा पाठक्रमापचारे, विनष्ट–इत्युच्यते, इतरथा हि यत् यस्य प्रयोजनं, तस्मिन् निर्वर्त्त्यमाने एव किं नष्टं स्यात्, अदृष्ट कल्प्येत, तच्च। अन्याय्यं दृष्टे सति। तस्मात् स्वशब्दः क्रमः–य एव पदार्थानां वाचकः शब्दः स एव क्रमस्यापि” भा० “तथा चान्यार्थर्दर्शनम्” ७ सू० “एवं च अन्यार्थं दर्शयति”–“व्यत्यस्तमृतव्या उपदधाति”। “व्यत्यस्तं षोडशिनं शंसति”। “आश्विनो दशमो गृहते तं तृतीयं जुहोति”–इति, यदि अनियमेन उपधानं शंसनं च, व्यत्यस्तवचनम् अनर्यकं स्यात्, न हि कथञ्चित् अव्यत्यासः–इति। तथा आश्विनस्य तृतीयस्य होमानुवादो न अवकल्पेत, यदि पाठक्रमेण नियमः–इति। तथा“अभिचरता प्रतिलोमं होतव्यम्” प्राणानेव अस्य प्रतीचः प्रतियैति”–इति क्वचित् प्रतिलोमं विदवदनुलोभं दर्शयति, तदुपपद्यते, यदि पाठक्रमेण प्रयोगः, इतरथाः सर्व्वमनुलोमं स्यात् प्रतिलोमदर्शनं नोपपद्येत! तथा “चतुर्थोतगयोः प्रतिसमानयति”–इति, उक्त सति, “अतिहायेडोवर्हिः प्रतिसमानयति,–इति उच्यते तेन वर्हिषः चतुर्थतां दर्शयति, सा पाठक्रमे नियामकेऽव कल्पते” भा० “प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्” ८ सू० “वाजपेये “सप्तदश प्राजापत्यान् पशून् आलभते”–इति श्रूयते। तेषु पशुषु चोदकप्राप्ताःप्रोक्षणादयो धर्माः, तत्र प्रथमः पदार्थो यतः कुतश्चिदारब्धव्यः द्वितीयादिषु भवति संशयः,–किं तत एव द्वितीयोऽपि पदार्थ आरब्धव्यः? उत द्वितीयादिषु अनियमः?–इति। किं तावत् प्राप्तम्? नियमकारिणः शास्त्रस्याभावात् अनियमः–इति। एवं प्राप्ते, ब्रूमः,–यतः पूर्व आरब्धः, ततएव द्वितीयादयोऽपि पदार्था आरब्धव्याः–इति। कुतः एतत्?। ‘तदुपक्रमात्’ सर्वे हि पदार्था प्रधानकालात् न विप्रक्रष्टव्याः, प्रधानं हि चिकीर्षितं, कृतं वा तेषां निमित्त, सहवचनं हि भवति”–‘पदार्थैः सह प्रधानं कर्त्तव्यम्’– इति। वहुपदार्थसमाम्नानात्तु अवश्यम्भावी विपकर्षः, तथापि तु यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुम्, तावद्भिर्व्यवधानम् अवश्यं कर्त्तव्यम्। ततोऽभ्यविकेन न व्यवधातव्यम्–इति, यदि द्वितीयं पदार्थमन्यत आरभेत, ततोऽधिकैरपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत!। ‘ननु तथा सति कश्चिदलपैर्व्यवहितो भविष्यति’। उच्यते,–अनुमतानां व्यवधायकानां त्यागेन कश्चित् अभ्यधिको गुणो भवति–इति तस्मात् यतः पूर्वयदार्थ आरब्धः तत एव उत्तर आरम्भणीयः–इति” भा० “मर्वमिति चेत्” ९ सू० “इति चेत् पश्यसि, प्रधानाविप्रकर्षेण प्रयोगवचनानुग्रहः–इति, सर्वं तर्हि–गुणकाण्डम् एकस्मिन् अपवर्जयितव्यं, यथा सौर्यादिषु” भा०। “नाकृतत्वात्” १० सू०। “नैतदेवम्, सहप्रयोगे एवहि ग अनुष्ठितः स्यात्” भा०। “क्रत्वन्तरवदिति चेत्”। ११ सू० “अथ यदुक्तं,–यथा क्रत्वन्तरेषु सौर्यादिषु–इति, तत् परिहर्त्तव्यम्” भा० “नासमवायात्” १२ सू० “न तेषामर्थात् क्रमः प्राप्नोति, यो नियम्येत, अङ्गाश्रयो हि नियमो भवितुमर्हति, अनङ्गासमाश्रयस्य स्वयमङ्गता कल्प्येत” भा० “स्थानाच्चोत्पत्तिसयोगात्” १३ सू० “एकविंशेन कतिरात्रेण प्रजाकामं याजयेत्, त्रिणवेनाजस्कामं, त्रयस्त्रिंशेन प्रतिष्ठाकामम्” इत्येवमादि श्रूयते। तत्र आगमेन सङ्ख्यापूरणम्–इति वक्ष्यते। तत्र आगमे क्रियमाणे, किम् अनियमजक्रमाः संर्व्वा ऋच आगमयितव्याः? उत काण्डक्रमेभ्यः? इति। किं प्राप्तम्?अनियमेन–इति। कुतः? अतिरात्रे त्रिणवादि शब्दार्थेनैताः प्राप्नुवन्ति, तत्र एतासां प्राप्नुवतीनाम् प्राठक्रमो नास्ति–इति। एवं प्राप्ते उच्यते,–यदासां सामाम्नाये स्थानं, तेनैता अत्र नियम्यन्ते याः पूर्वं सामाम्नाताः, ताः पूर्वमेव प्रयोक्तव्याः, आनुपूर्व्यस्य हि दृष्टमेतत् प्रयोजनम्, यदुत्तरस्फुरणं, तदपि चिकीर्षितमेव–इति। त्रिणवादिशब्दैः अतिरात्रे यौगपद्येन आसां प्रप्तेः पाठक्रमस्य अविषयः–इति अधिकरणान्तरम् –इति भवति मतिः। समाम्नायपाठक्रमादेव अत्र नियमः–इति पुनरुक्ततागम्यते–इति अन्यथा वर्ण्यते” १ मव० “साद्यस्क्रे श्रूयते,–सह प्रशूनालमते,–इति अत्र एषोऽर्थः समधिगतः”–सवनीयकाले त्रयाणाम् आलम्भः –इति। अथ अत्र पाठक्रमात्, किम् अग्नीषोमीयः पूर्वम् आलब्धव्यः? उत स्थानक्रमात् पूर्वं सवनीयः इति। कुतः?। पाठक्रमात्। एवं प्राप्ते ब्रूमः,–सवनीयः पूर्वं, “स्थानात्, यदि पूर्वम् अग्निषोमीयः स्यात्, सवनीय स्थानं व्याहन्येत! “आश्विनं गृहीत्वा त्रिवृता यूपं परिवीय” इति। “ननु इतरथापि पाठक्रमोबाध्येत, बाध्यतां, तस्य हि प्रतिषेधार्थः सहशब्दः समाम्नातः, अप्रतिषिद्धं च आश्विनग्रहस्थानम्, तन्न बाधितव्यम्” (२ वर्ण्णकम्) भा० “मुख्यक्रमेण वाङ्गानां तदर्थत्वात्” १४ सू० “स्वारस्वतौ भवतः एतत् वै द्विदैवत्यं मिथुनम्”–इति श्रूयते। तत्र सन्देहः,–किं स्त्रीदैवत्यस्य प्रथमं धर्माः? उत पुंदैवत्यस्य?–इति। नियमकारिणः शास्त्रस्य अभावात् अनियमः,–इति प्राप्ते ब्रूमः,–मुख्यक्रमेण वा नियमः स्यात्–इति स्त्रीदैवत्यस्य हि पूर्वं याज्यानुवाक्ययोः समाम्नानं, “प्रणो देवी सरस्वती”–इति। तस्मात् स्त्रीदैवत्यस्य पूर्वं प्रदानेन मवितव्यम्, तस्मात् स्त्रीदैवत्यस्य पूर्वं धर्माः कार्याः, तथा हि प्रधानकालता भवति अङ्गानाम्, इतरथा, यैः पादर्थैर्व्यवधानं सामर्थ्यात् अनुज्ञातं तेभ्योऽधिकैरपि व्यवधानं स्यात्”। भा० “प्रकृतौ तु स्वशब्दत्वात् यथाक्रमं प्रतीयेत” १५ सू०

“दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, ततः आज्यस्य। तत्र सन्देहः,–किम् अग्नीषोमीयधर्माणाम्, मुख्यक्रमेण पूर्वम् आज्यस्य धर्माः कर्त्तव्याः! उत यथाप ठम्?–इति। मुख्यक्रमानुग्रहेण आज्यस्य पूर्वम्,–इति प्राप्ते ब्रूमः,–प्रकृतौ यथापाठं प्रतीयेत, स्वशब्दो हि तेषां पाठक्रमः, सः अन्यथा क्रियमाणो बाधितः स्यात्, सहत्वस्य पुनरुपसङ्ग्राहकः प्रयोगवचनः खक्रमेण पदार्थे सन्निकृव्यकार्ण न बाधितो भविष्यति। अपि च पाठक्रमे स्वशब्दः,–“स्वाध्यायोऽध्येतव्यः” मुख्यक्रमेण प्रयोगवचनैकवाक्यता सूक्ष्मा” भा०

“मन्त्रतस्तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्मात् उत्पत्तिदेशः सः” १६ मू०

“दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरो ब्राह्मणस्य। तत्र सन्देहः–कतमः पाठो बलीयान्?–इति। उच्यते,–अनियमः, नियमकारिणः शास्त्रस्य अभावात्–इति।

एवं प्राप्ते ब्रूमः,–मन्त्रपाठो बलीयान्। कुतः? पयोगरूपसामर्थ्यात्–प्रयोगाय मन्त्रस्य रूपसामर्थ्यं, तदस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्यमानस्य क्रमो दृष्टाय भवति। "ननु च ब्राह्मणपाठस्य अपि तदेव प्रयोजनम्’। उच्यते–उत्पत्तिदेशः सः’–अपरमपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं मविष्यति” भा० “तद्वचनाद्विकृतौ यथाप्रधानं स्यात्” १७ सू० “अस्ति अध्वरकल्पा नामेष्टिः,–‘आग्नावैष्णवम् एकादशकपालं निर्वपेत्, सरस्वती आज्यभागा स्यात् वार्हस्पत्यश्चरुः’–इति। तत्र सन्देहः–किम् आग्नेयविकारस्य वार्हस्पत्यस्य पूर्वं धर्माः कार्य्याः, चोदको बलवत्तरः, प्रयोगवचनात्, उत उपांश्रयागविकारस्य प्रयोगवचनो बलवत्तरः, चोदकात्?–इति। किम् प्राप्नम्?‘विकृतौ’ अस्यां ‘यथाप्रधानं स्यात्’ ‘तद्वचनात्’–तेषां साक्षाद्वचनक्रमो विकृतौ, तेन सन्निहितानाम् उपसंहारकः प्रयोगवचनो हि प्रत्यक्षः, तद्भर्माणां च आनुमानिकः चोदकेन हि स प्राप्तः। तस्मात् प्रत्यक्षः प्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिको बाध्यते भा० “विप्रतिपत्तौ वा प्रकृत्यन्वयाद्यथाप्रकृति” १८ सू० मुख्याङ्गक्रम–विप्रतिपत्तौ वा यथा प्रकृतौ, तथैव विकृतौ भवितुमर्हति–इति। कुतः?। ‘प्रकृत्यन्वयात्’ यादृशाः प्रकृतौ षर्माः, तादृशा एव विकृतौ भवितु- मर्हन्ति–इति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत् कुतः स्युः?। चोदको हि प्रयोगवचनात् बलत्तरः, स हि उत्पादयति प्रापयति च। प्रापितान् अभिसमोक्ष्य प्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमित्तक उत्तरकालं पूर्वप्राप्तं न बाधितुमर्हति चोदकं, प्रत्य, क्षोऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तानेवोपसंहरिष्यति। तस्मात् पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्य” भा०। एतच्च स्पष्टतया तत्त्ववोधिन्यां दर्शितं यथा

“अग्निहोत्रं जुहोति यवागूं पचतीत्यादौ अनुष्ठेयानामनुष्ठानक्रमनियमोऽस्ति नवेति। तत्र न क्रमनियमः तत्प्रापकप्रमाणाभावादिति प्राप्ते क्रमनियमप्रापकाण्याह श्रुत्यर्थपठनस्थानमुख्यप्रावर्त्तिकाः क्रमाः। १ श्रुतिरानन्तर्य्यबोधकमथशब्दक्त्वाप्रत्ययादिकम्। २ अर्थः प्रयोजनं, ३ पठनं पाठक्रमः ४ स्थानं स्वस्थानस्थितिः, यथा आश्विनक्रत्वहसामीप्यं सवनीयपशोः,। स्थानं स्वोत्पत्तिवाक्यमिति केचित्। ५ मुख्यं प्रधानं कर्म्म। ६ प्रवृत्तिः प्रवर्त्तनक्रमः। प्रावर्त्तिकेति तद्धितेन प्रवृत्तिगम्यत्वाभिधायकेन श्रुत्यादिपदानां श्रुतिगम्यत्वादिपरत्वं सूचितं तथा च श्रुत्यादीनि क्रमप्रापकाणीति। अत्र श्रुत्यादीनां क्रमप्रापकताबोधकसूत्राणि बहूनि उक्तानितानि च ग्रन्थगौरवभयात् निखिव्यमाणसूत्रार्थविवेचनेन व्यक्तीभविष्यत्त्वाच्च न लिखितानि। तत्र श्रुतितोय था “द्वादशाहसत्रयागे “अध्वर्युर्गृहपतिं दीक्षयित्व ब्रह्माणं दीक्षयति ततौद्गातारं ततो होतारमिति” आनन्तर्य्यार्थकक्त्वाप्रत्ययेन क्रमोबोध्यते। यथा वा “हृदये स्याग्रेऽवद्यति, अथ जिह्वायः अथ वक्षसः” इति अथशब्देन। अयं च क्रमोऽन्येभ्यो बलवान् शब्दलभ्यत्वात्। एवमेषां पूर्व्वत उत्तरोत्तरं दुर्ब्बलं बोध्यम्। नन्वथादि शब्दादुपस्थितस्यापि क्रमस्य धात्वर्थरूपक्रियात्वाऽभावेन कथं विधेयत्वं तदिदमुक्तं प्रापकप्रमाणाभावादिति चेदुच्यते यथा दध्ना जुहोतीत्यादौ अक्रियारूपं दधिद्रव्यं क्रियाविशेषणं सद्विधोयते दधिसाधनकं होमं कुर्य्यादिति तथा इदमनेन क्रमेण कर्त्तव्यमिति क्रियाविशेषणतया क्रमोविधीयते। तथा च सूत्रम् “श्रुतिलक्षण्यमानुपूर्व्वंतत्प्रधानत्वात्” आनुपूर्व्यं श्रुतिगम्यं विधिगम्यं तस्य क्रमस्य प्रधानत्वात् दध्यादिवत् क्रियाविशेषणत्वेन विधेयत्वात। तच्च क्वचित् श्रुतशब्दादथादितः क्वचिच्चार्थादितोऽनुमानादिति विशेषः। इत्थञ्च श्रुतिगम्यं श्रुति शब्दलभ्यमित्यर्थः सूत्रबौध्य इति भावः। श्रुतिगम्यं श्रुतिलभ्यमानुपूर्व्यं ग्राह्यमिति शेषः। “अथ अध्वर्य्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति” इत्यादौ दीक्षैव विधीयते श्रुतितस्तद्विध्यवगमात् क्रमस्तु वाक्यार्थो न विधेय इति। तद्विध्यवगमाभावात् तदुक्तं “वाक्यार्थो विधिरन्याय्यः श्रुत्यर्थविधिसम्भवे। तस्माद्दीक्षाविधिः पाठाद्दीक्षाणां प्राप्यते क्रमः”। उच्यते। द्वादशाहसत्रे य एव यजमानास्तएव ऋत्विजः” इति व्रह्मादीनां सर्वेषामृत्विजां यजमानत्वेन यजमानदीक्षां विधिप्राप्तामनूद्य अनेनाप्राप्तक्रमएव विधीयते। तदुक्तं “सर्वेषां यजमानत्वात् दीक्षप्राप्तेरचोदनात्। क्रमस्तु नान्यतः प्राप्त इति सोऽत्र विधीयते”।

“अर्थाच्चेति” सूत्रम्। २ अर्थात् यथाग्निहोत्रं जुहोति यवागुं पचतीत्यत्र यवागूपाकस्य होमः प्रयोजनं तच्च होमानन्तरपाके सति न सम्भवति होमोऽपिच यवागूं विना न निष्पद्यत इति पाकानन्तरं होमः। अतएव गृहपत्यादिदीक्षासु पाठप्राप्तक्रमस्यैवादृतत्वात् इंहापि होमपाकयोः पाठप्राप्तक्रमोग्राह्य इति निरस्तं पाठक्रमग्रहणे विहितार्थानिष्पत्तेः। न च जुहोतीत्यस्य सामान्यप्राप्ताज्यादिद्रव्यकत्वमिति द्रव्यान्तरेण होमः यवागूपाकस्य च ऋत्विग्भक्षादिरूपप्रयोजनान्तरं कल्पनीयम् अथवा यवागूमित्यस्य जुहोतीत्यनेनान्वयात् पचतीत्यस्य कर्म्मान्तरमध्याहार्य्यमिति वाच्यं तत्कल्पकाभावात् गौरवात् विलम्बोपस्थितेः। द्वितीये यवाग्वाहोमद्रव्यत्वाङ्गीकारेणार्थक्रमस्याभ्युपगमाच्च यवागूं जुहोतीत्यन्वये पाकं विना यवाग्वाअसम्भवेन पाकस्यावश्यकत्वाच्च। अत एवार्थक्रमः पाठक्रमाद्बलवान् जुहोतीत्यनेनाकाङ्क्षितद्रव्यान्तरसाध्यहविरादिना होमनिश्चयात् तत्र प्रवृत्तिः यवागूपाकस्य च प्रयोजनान्तरमवगव्य तदर्थं पाके प्रवृत्तिरिति तादृशावगमस्य कल्पनासापेक्षत्वेन विलम्बितत्वात् आसत्तिवशात् यवागूमित्यनेन जुहोतीत्यस्यान्वयात् यवागूपाकस्य होमप्रयोजनकत्वात्तस्य झटित्यवगमात्। अर्थात् युक्तेरिति कश्चित् तन्न। पठन स्थानादीनामपि युक्तिलभ्यत्वेन विभागानुपपत्तेः। अतएव प्रयोजनवशात्तु नियम इति शास्त्रदीपिका। माधवाचार्य्यस्तु “यवागूं पचति यवाग्वाग्निहोत्रं जुहोतीति श्रुतिमभिधाय तृतीयया यवाग्वाहोमसाधनत्वमवगम्यत इत्याह।

३ पठनाद्यथा “समिधोयजति तनूनपातं यजतीत्यादिषु दर्शपौर्ण्णमासाङ्गप्रयाजादिषु क्रमपठितानां क्रमेणानुष्ठानम्। नन्वत्र गृहपत्यादिदीक्षायामिव क्रमबोधकशब्दाभावात् यवागूपाकस्येव साध्याभावाच्च कथं क्रमनियम इति चेत् न, तथैव लोकप्रतिपत्तेः। तथा च सूत्रं “क्रमेण वानियम्येत क्रत्वेत्वे तद्गुणत्वात्”। तदुक्तं “यथापाठमनुष्ठानं तथैव प्रतिपत्तितः। स्मृतिप्रयोगवेलायां वाक्यैरेव च कर्म्मणाम्”। आसनं स्वागतमित्यादिषु क्रमपाठस्थेषु आसनादिषु गन्धपुष्पादिषु तथैवानुष्ठानं लौकिकाः प्रतिपद्यन्ते। अयं स्थानादिक्रमतोबलवान् तदपेक्षया शीघ्रोपस्थितेः।

४ स्थानाद्यथा। साद्यस्क्रनामकः कश्चिद्यागविशेषः ज्योतिष्टोमविकृतिः। तत्र श्रूयते “सह पशूनालभते” इति तत्र च प्रकृतियागज्योतिष्ठोसे अग्नींषोमीयपशुरावसथ्यपूर्ब्बदिने आलभ्यते, सवनीयः पशुः सूत्यादिने प्रातःसवने आश्विनग्रहग्रहणादूर्द्ध्वमालभ्यते तथा च श्रुतिः “आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीय सवनीयसाग्नेयं पशुमुपाकरोतीति” अनुबन्ध्यपशुरावसथ्यादूर्द्ध्वमालभ्यते विकृतौ सायस्क्रे त्रयोऽपि पशवः सहालभ्यन्ते सहालभनमेकस्मिन् सवनीयस्थाने सूत्यादिने आलभनं तत्र च प्रकृतौ ज्योतिष्टोमे अग्नीषोमीयस्य प्रथममुपाकरणं ततोविकृतावपि अग्नीषोमीयस्य प्रथममुपाकरणनिति प्राप्ते “स्थानाच्चोत्पत्तिसंयोगात्” उत्पत्तिसंयोगात्। उत्पत्तिवाक्यात् प्राप्तात् स्थानात् उपाकरणस्थाने प्रथमं सवनीयपशोरालभनीयत्वेन सवनीयपशोः स्थानप्राथम्यात्। तथाचोक्तं सह पशुना आदृतपरिपाट्या पशुना सह कार्य्यः” अयम्भावः सवनीयपशोः स्थानमपि ग्रहसमीपम् अन्ययोस्तु अन्यत्, तत्र प्रकृतौ “आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयपशुमुपाकरोतीति” श्रूयते त्रिवृता कुशमेखलया त्रिरावृत्त्या परिवीय संवेष्ट्य इत्यर्थः। अत्र प्रकृतौ तथा श्रुतेस्तदतिदेशात् विकृतावपि सवनीय पशूपाक णात् पूर्व्वमाश्विनग्रहो ग्राह्यः। ततश्च गृहीते तस्मिन् समोपे स्वस्थानस्थितस्य सवनीयपशोरेव प्रथममुपस्थितिस्तस्मैव प्रथममुपाकरणं न तु प्रकृतौ प्रथम मुपाकरणमग्नीषोमीयपशोः, तस्य प्रथममनुपस्थितेः इतरयोः सहोपाकरणानुरोधात् स्वस्थानात् सवनीयप शोः स्थानादितरयोरपि स्वस्थानभ्रष्टयोः ततोः प्रथममुपस्थापकामावात् प्रकृतिदृष्टक्रमेणालभनम्। तदुक्तम् “आश्विनग्रहणेनासौ पर्य्युपास्थाप्यते यतः। इतरश्चलितः स्यानान्नोपस्थाप्येत केनचित्। तयोस्तु प्रकृतौ दृष्टः क्रमोग्राह्योमनीषिभिः”। यत्तुस्थानक्रभो यथा एकोद्दिष्टे पार्व्वणधर्म्मातिदेशात् कुशासनदानाद्य नुष्ठानं तत्र पार्व्वणे यस्मिन् स्थाने यत् क्रियते तस्य एकोद्दिष्टऽपि तथेत्युदीच्येनोक्तं तन्न शास्त्रदीपिकादि मीमांसानिबन्धाननादृत्य स्वकपोलरचितत्वात् स्थान षदार्थमुख्यार्थत्यागात् मुख्यार्थत्वे स्थानस्यैव लाभेन क्रमालाभात् “प्रकृतिवद्विकृतिरिति न्यायेनैव तल्लाभात् स्थानक्रमानुपयोगाच्चेत्यलमाग्रहेण। मुख्यक्रमादयं बलवान्। ५ मुख्याद्यथा। चित्रयागे सप्तहविषां मध्ये चतुर्थपञ्चमावित्थमाम्नायेते “सारस्वतौ भवतः” इति एतद्विदैवत्यं मिथुनमिति” वाक्यशेषात् स्त्रीपुंदैवत्यं यागद्वयं विहितं तच्च सरस्वती च सवस्वांश्चेति समासे “पुमान् स्त्रिया” इति सूत्रेणैकशेषात् देवतार्थेन प्रत्ययाल्लभ्यते तयोश्च यागयोर्निर्व्वापादयो धर्म्माविधिप्राप्ताः तत्र स्त्रीयागम्य पुंयागस्य वा प्रथमं निर्वापः कार्य्य इति संशयः। अत्रश्रुत्यर्थपठनंस्थानप्रवृत्तीनां अन्यतमस्यापि प्रक्रमाभावा दनियमात् स्वेच्छया कर्त्तव्य इति प्राप्ते आह “मुख्यक्रमेण वाङ्गानां तदर्थत्वात्” सू०। मुख्यस्य प्रधानस्य क्रमेणाङ्गानां क्रमोग्राह्यः तदर्थत्वात् अङ्गानां प्रधानार्थत्वात् प्रधानोद्देश्यकप्रवृत्तिसाभत्वादिति यावत् हौत्रकाण्डे याज्यानुवाक्ये “प्रणोदेवी सरस्वतीति” पूर्वमाम्नातं “पार्थिवांशः सरस्वतः” इति पश्चादाम्नातमिति याज्यानुवाक्यापाठक्रमात् स्त्रीदेवताकस्य होमस्य प्रथममनुष्ठानं पश्चाच्च पुंदेवताकस्यानुष्ठानं प्रतीयते अतस्तदङ्गनिर्वापादीनामपि तथैव पौर्वापर्य्यं युक्तमिति भावः। नन्वत्रयेन क्रमेण याज्यानुवाक्ययोः प्रवृत्तिस्तेलैक निर्वापादीनामपीति प्रावर्त्तिकनियमसम्भवे किनिति मुख्यक्रमादपि नियमः सन्मवतीति चेदुच्यते दर्शपौर्ण्णमासयोः सान्नाय्यस्य दधिरूपहविषोधर्म्माः शाखाप्रहरणादयः पूर्वं प्रवर्त्तन्ते तत्राग्नेयस्य धर्म्मानिर्वापादयः याज्यानुवाक्ययोस्तु पाठयशात् प्रथममाग्नेयहोमः पश्चात् सान्नाव्यस्येति विपरीता प्रदृत्तिः तत्र किंमुख्यक्रमात् प्रथममाग्नंयस्याभिघारणादित्रयाणां मध्ये आग्नेयस्य प्रथमं प्रवृत्तिः? किंवा भूतभाविप्रवृत्ति- द्वयवशादनिमम इति प्राप्ते मुख्यक्रमाभिधानम्। तस्मात्तत्र मुख्यक्रमादाग्नेयस्य प्रथममभिघारणम् एवञ्च सति अङ्गप्रधानयोर्यावदनुज्ञातमेव व्याधानं स्यादितरथा तु पश्चाद् भाविप्रधानस्य प्रथमं क्रियमाणमङ्गं प्रधानेनात्यन्तव्यवहितं स्यान्मुख्य क्रमेण नियमे। इयांश्च विशेषः सुख्यक्रमे प्रधानप्रवृत्तिरङ्गानां नियमकारणं, प्रवृत्ति क्रमे त्वङ्गानां मिथः प्रत्यासत्तिरिति।

६ प्रवृत्तेर्यथा वाजपेये “सप्तदश प्राजापत्यान् पशूनालभेतेति” श्रूयते तेषाञ्चोपाकरणनियोजनादयः संस्कारा विहिता उपाकरणं प्रोक्षणं नियोजनं यूपेबन्धन तत्र चेदृशे पशावुपक्रसः ईदृशे च समाप्तिरिति नियमकारिणः शास्त्रस्याभावात् ऐच्छिकेन क्रमेणोपाकरणसंस्कारः उत उपकृतानाञ्चयूपे नियोजनसंस्कारः पश्चात् कर्त्तव्यः? इति तत्रापि नियम कारिणां श्रुत्यर्थपठनादीनामभावान्नास्ति क्रमनियमः ऐच्छिक एव क्रम इति प्राप्ते आह “प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्” सू० तुल्यकालानामेककाल प्रवृत्तानां गुणानामङ्गानामुपाकरणादीनां प्रवृत्त्या उपा करणप्रथमसंस्कारे स्वेच्छातः प्रवृत्तेः तत्क्रमेण तवुपक्रमात् प्रथमोपाकृतपशुक्रमात् प्रवृत्तिक्रमोग्राह्यः। अत्रब्रूमः स्वेच्छातोयस्य पशोः प्रथममुपाकरणं क्रियते तस्यैव प्रथमनियोजनादि कार्य्यं, तदनन्तरं तदुत्तरोपाकृतस्य नियोजनमेवेत्यपरापरस्यापीत्यर्थः। प्रथमगुणारम्भत्यागे कारणाभावात्। अयमभिप्रायः प्रावर्त्तिकक्रमस्वीकारे प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्म्मध्ये पश्वन्तरेष्वनुष्ठितैरुपाकरणैः षोडशभिरेव व्यवधानं भवति तच्चाभ्यनुज्ञातं सप्तदशे विधानात् प्रावर्त्तिकं कमं परित्यज्य पश्वन्तराणां पूर्ब्बं नियोजनं कृत्वा पश्चात् प्रथमपशोर्शियोजषं यदि क्रियते तदा द्वात्रिंशद्भिः पदाथैर्व्यवधानं स्यात् तच्च नाभ्यनुज्ञातम् तदुक्तम्, “प्रवृत्त्या वा नियम्येत प्रत्यासत्तेरनुग्रहात्। अन्यथा व्यवधानं स्यादनुज्ञाताधिकैर पीति”। कात्यायनश्रौतमूत्र १। ५। १ सूत्रादौ तद्भाव्ये च क्रमविशेषा स्तेषां बलाबलञ्चीक्तं यथा

“कर्मणामानुपूर्व्यं न युगपद्भावात्” १ सू०। आनुपूर्व्यं पौवापर्य्यं क्रम इत्यनर्थान्तरम् कर्मणामिति अग्न्यन्वधानादीनामङ्गकर्मणामनुष्ठाने आनुपूर्व्यं न भवति क्रमनियमो न भवति। कुतः? युगपद्भावात् अतस्तान्यङ्गानि यदा प्रधानेनापेक्ष्यन्ते तदा युगपद्भावेनैव यौगपद्येनैव सहैव सम्वन्धं प्राप्नुवन्ति न क्रमेण। ततश्चैषां नियमेन क्रमेणामुष्ठाने कारणाभावात् कर्तुरेकत्वादवश्यम्भाविनि क्रमे येन केनचिदनियतेन क्रमेणानुष्ठानम्” भा०

“अर्थनिर्वृत्तेश्च” २ सू०। “येन केनचितक्रमेणाङ्गानुष्ठाने क्रियमाणे अर्थनिर्वृत्तिरङ्गकलापनिष्पत्तिः सुखेनैव भवति नियतक्रमेण क्रियमाणे तु नियतक्रमस्यानागतस्य वस्तुतः प्रतीक्षणेन बिलम्बाद्बहुना कालेन स्यात् तथा सति प्रयेगे प्राशुभावो न स्यात् प्रधानप्रत्यासत्त्या कालो ह्यङ्गानां विहितः अङ्गानां नियतक्रमेणानुष्ठाने च सोऽपि अतिक्रान्तः स्यादिति तस्मादङ्गानुष्ठाने क्रमनियमो नेति पूर्वः पक्षः। सिद्धान्तमाह” भा० “स्याद्वानुपूर्व्यनियमः श्रुत्यर्थक्रमेभ्यः” ३ सू०। वाशब्दः “पूर्बपक्षनिरासार्थः। अग्न्यन्वाधानादीनामङ्गकर्मणामानुपूर्व्यनियमः स्यात् अनु ष्ठाने क्रमनियमोभवेत् नानियमः। केभ्यः प्रमाणेभ्यः श्रुत्यर्थक्रमेभ्यः श्रुतेः अर्थात्क्रमाच्च। १ श्रुतेस्तावत् यथा द्वादशाहे सन्ने “तेषां गृहपतिः प्रथमो दीक्षते” (शत० ब्रा० १२। १। १। १) “अथ ब्रह्माणं दीक्षयति अथोद्गातारम् अथ होतारमित्यादि” नात्र ब्रह्मादीनां दीक्षा विधीयते यजमानत्वादेव तस्याः प्राप्तेः क्रमस्य त्वन्यतः पाप्त्यभावात् स एवात्र विधीयते। तथा “तस्मादेप दशमो ग्रहो गृह्यते तृतीय एव वषट्क्रियते” इति शत० ब्रा० (४। १। ५। १६) अयमपि श्रुतिक्रम एव। २ अर्थादपि क्रमोऽवगम्यते तद्यथा पेषणसंयवनयोरवघातपेषणयोश्च “अग्निहोत्रं जुहोति यवागूं पचतीति” क्रमेण श्रुतेऽपि अर्थात् पूर्वं पाकस्ततोहोम इति होमद्रव्यं हि यवागूः तदुत्पत्त्यर्थः श्रुत्या लिङ्गेन च पाकः। स च पश्चात् क्रियमाणोऽवर्थकः स्यात् होमोऽप्यसति द्रव्ये न निर्वर्तेतातः पक्त्वा होमः कार्य्यः। ३ क्रम ४ पाठक्रमः। स च द्विपिधः श्रुतिपाठक्रमो मन्त्रपाठक्रमश्च, उभयविधोऽपि क्रमनियमे कारणं भवति, नियतेन हि क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च वर्तेते। तत्रैवमवगम्यते येन क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च तेनैव क्रमेणानुष्ठानमिति क्रमान्तरेणानष्ठाने त्ववगतस्य क्रमस्य त्यागः अनवगतस्य क्रमस्योपादानमित्यसंगतं स्यात् तस्मात् पाठक्रमादपि क्रमनियमोऽङ्गकर्म्मणां भवतीति” कर्कभाप्यम् “प्राकृतं च विकृतौ” ४ सू०। “अतोऽपि कारणात् पाठक्मेणाङ्गकर्मणामनुयनं भवति यतो विकृतौ प्राकृतमेवक्रमं श्रुतिरनुवदति यथा महापितृयज्ञे “स तत एव प्राक्गृह्णाति स्तम्बयजुर्हरति” इत्यादिना “स यज्ञोपवीती भूत्वाज्यानि गृह्णातीत्येवमन्तेन” (शत० ब्रा० २। ६। १। १२) अत्राज्यग्रहणे यज्ञोपवीतित्वविधिपरे वाक्ये प्राकृतं क्रमं दर्शयति यदि पाठक्रमेणानुष्ठानं न स्यात् तदानेनैव क्रमेणानुवादो न स्यात्। अपरे त्वन्यथा व्याचक्षते प्राकृतं च विकृतौ, विकृतौ प्राकृतवैकृतयोः कर्मणोः संनिपाते प्राकृतं पूर्वं कर्त्तव्यम् पश्चात् वैकृतमिति। तद्यथा “प्रकृतौ प्रास्यतृणं चक्षुष्पा” इत्यात्मानमालभेत” इति (कात्या० ३। ६। १५) प्रस्तरतृणानुपहरणानन्तरमात्मालम्भ उक्तः विकृतौ च “प्रहृत्य तृणं तेन चरतीति” कात्या० (४। ४। ११) तृणानुप्रहरणानन्तरं वाजिनयाग उक्तः तत्र पूर्बं प्राकृतमात्मालम्भोदकस्पर्शरूपं कृत्वा पश्चाद्वाजिनयागः कर्तव्यः। तथा प्रकृतौ हविरासादबोत्तर कालं हविरालम्भात्मालम्भोदकालम्भाः विहिताः विकृतौ च “आसाद्य हर्वीष्यग्निं मन्थति” इत्यग्निमन्थनम्, (शत० ब्रा० ३। ४। १९) हविरासादनोत्तरकालं विहितम् तत्र पूर्वं प्राकृता हविरालम्भात्मालम्मोदकालम्भाः, पश्चाद्वैकृतमग्निमन्थनम्। एवम् “अथासाद्य स्रुचोऽप उपस्पृश्य राजानं प्रपादयति” (शत० ब्रा० २। ६। ३। १७) इत्येतदप्यूदाहार्यम्, अत्रापि पूर्वं प्राकृताहविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतं सोमप्रपादनादि। तथा पितृयज्ञे परिषेकात् प्रागिडाभक्षणमार्जनपवित्रप्रतिपत्तिदक्षिणादानान्यत एव सिद्धानि। सुत्यायां च सवनीयपुरोडाशानां निर्वपनादूर्द्ध्वभावितः प्रागलङ्करणाद् ये पदार्थाः तेषां प्राक्प्रचरणीयहोमादतएवानुष्ठानं सिद्धम्। अतएव पशो प्राकृतं पूर्वमित्यस्य बाधनाय यत्नं करोति “उत्तराघारमाघार्यं पशुं पूर्वं समनक्तीति” (कात्या० ६। ४। २ सू०) अत्र पूर्वमित्यनेन प्राकृतध्रुवासमञ्जनात् पूर्वं पशुसमञ्जनं विदधाति। तस्मात्समी चीनमेतद्व्याख्यानम्। अथ क्रमप्रमाणानां विरोधे बलाबलं निर्णीयते। यत्र पाठक्रमार्थक्रमयोर्विरोधो भवति तद्यथा। स वै “पर्णशास्वया वत्सानपाकरोति तामाच्छिनत्तीति” (शत० व्रा० १। ७। १। १। २) पाठक्रमः अर्थस्त्वनेन क्रमेण न सिध्यति न ह्यच्छिन्नया वृक्षस्थया शाखया वत्सापाकरणं कर्तुं शक्यते वत्साकापरणायैव च छेदनमिति तत्र किं पाठक्रमाध्यवसानम्? उतार्थक्रमादिति? संशये आह” कर्कमाष्यम्

“विरोधेऽर्थस्तत्परत्वात्” ५ सू० “पाठक्रमार्थक्रमयोर्विरोधे अर्थक्रमएव बलीयान् न पाठक्रमः। कुतः? तत्परत्वात् पाठस्यार्थपरत्वात् अर्थार्थत्वात् कार्यसिद्ध्यर्थत्वादित्यर्थः। तेन पूर्वं छेदनम् पश्चात्तया छिन्नया शाखया वत्सापाकरणमिति। अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरोधो भवति तद्यथा “संस्थिते यज्ञे ब्राह्मणं तर्पयितवै ब्रूयादिति” (शत० ब्रा० १। ७। ३। २८) श्रुतिः कर्मणि समाप्ते प्रैषं विदधाति पाठक्रमात्तु स्विष्टकृतः पश्चात् प्राशित्रावदानाच्च पूर्वमिति तत्र केन क्रमेणानुष्ठानमिति? संशये सत्याह” भा० “श्रुतिः क्रमादानुमानिकत्वात्” ६ सू० “क्रमादिति श्रुतिपाठ क्रमाच्छ्रुतिर्बलीयसी तेन श्रुतिप्रतीतक्रमेणैव संस्थिते कर्मणि प्रैषोच्चारणम् न पाठक्रमेण। कुतः आनुमानिकत्वात् पाठक्रमण्य अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्, प्रत्यक्षा हि श्रुतिः संस्थिते यज्ञे इति। पाठक्रमे त्वनुमानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैव क्रमेण पाठ इति। दुर्वलं च प्रत्यक्षादनुमानम्। अतः श्रुतिक्रमेणानुष्ठानमिति सिद्धम्। एवम् “तस्मादेष दशमो ग्रहो गृह्यते तृतीय एव वषट्क्रियते” (श० ब्रा० ४। १। ५। १६) इत्येतदप्यत्रोदाहयणम् किं श्रुतिमन्त्रपाठात्तृतीयस्थाने गृह्यते? उत श्रुतिबलाद्दशमे? इति तत्र श्रुतिबलात्तु दशमेइति सिध्यति। अथ यत्र चोदनापाठक्रमस्य मन्त्रपाठक्रमस्य च परस्परं विरोधो भवति। यथाज्याधिश्रयणे “सोऽसावाज्यमधिश्रयतीषे त्वेति” धिश्रयणं विधाय तदनन्तरमेव “तत्पुनरुद्वासयत्यूर्जे त्वेति” (शत० ब्रा० १। २। २। ६ ) चोदनापाठक्रमः। मन्त्रपाटे आज्याधिश्रयणमन्त्रानन्तरं “घर्मोऽसि विश्वायुरित्यादिम् (यजु० १। २२) पत्नीसन हनमन्त्रान्तं मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र “ऊर्जे त्वोत” पठितः। पूर्वाधिकरणे हि क्रमाच्छुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम् अत्रोभयोः प्रत्यक्षत्वात्किं चोदनापाठक्रमेणाज्योद्वासनं कर्तव्यमुतमन्त्रपाठक्रमेणेति संशये सत्याह” भा० “मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात्” ७ सू०। “मन्त्रचोदनयोरिति मन्त्रपाठचोदनापाठयोर्विरोधे मन्त्रबलम् मन्त्रपाठएव चलवानित्यर्थः। कुतः? प्रयोगित्वात् मन्त्राणाम्, मन्त्रा हि कर्म्मकाले प्रयुज्यन्ते पठ्यन्ते न चोदना वाक्यानि अतो मन्त्रपाठः पदार्थानां सन्निकृष्टः चोदनापाठस्तुविप्रकृष्टः। तथा हि समिधो यजति” (शत० ब्रा० १। ५। ३। ९।) इत्यनेन पदार्थो विहितः सोऽनुष्ठानवेलायां येन वाक्येन विहितस्तद्वाक्यं स्मारयति तेन वाक्येन स्मृतेनानुष्ठानवेलाया स्वपदार्थः स्मारितः सन्ननुष्ठीयते, इतीतरेतराश्रयं स्थात् अर्थेन वाक्यं स्मार्य्यते वाक्येन चार्थ इति नैष दोषः सामान्यविशेषभेदात् सामान्येन हि दार्शिकमङ्गं कर्त्तव्यमित्यवगम्यते विशेषस्मरणार्थं विधायकं वाक्यमालोचयति तेन चालोचितेन पश्चात्तदर्थविशेषः स्मारितोऽनुष्ठीयते अनुष्ठितश्चासौ झटित्येव द्वितीयं पदार्थ न स्मारयति अर्थानां ग्रन्थानपेक्षेण रूपेण पौर्वापर्य्यस्यानवकॢप्तत्वात् किं तर्ह्यनुष्ठानोत्तरकालं योऽसौ कृतस्तमालोचयति समिद्यागोऽयं कृत इति स चालोच्यमानो येन समिधो यजतीत्यनेन (शतपथ) १। ५। ३। ९। ब्राह्मणवाक्येन विहितस्तत्स्मारयति तच्च स्मृतं स्वादुत्तरम् “तनूनपातं यजतीत्येतत् स्मारयति कुतः? पाठात् ततः परं हि तत्पठितमिति तद्ब्राह्मणं पुनः पदार्थं विदधाति विधिरेव तस्य कार्य्यम् न स्मृतिः अनुष्ठानवेलायां तदेव ब्राह्मणं विधिव्यापारं कृत्वा चिरनिवृत्तव्यापारं प्रयोगकालाद्बहिर्मूतं स्मारकमपेक्षितम्। अयं मन्त्रपाठाद्ब्राह्मणपाठे विप्रकर्षः। मन्त्रः पुनरन्तःक्रतु प्रयुज्यमानः परिसमाप्यमान उत्तरं मन्त्रं पर्युपस्थापयति। स चोत्तरो मन्त्रः पर्य्युपस्थाप्य उत्तरं पदार्थं पर्य्युपस्थापयन्नेव पर्य्युपतिष्ठते। तस्मात्तत्रालोचनान्तरापेक्षाभावान्नास्ति विप्रकर्षः। एतदुक्तं भवति स्मारकक्रमेण तावदनुष्ठानक्रमः न च मन्त्रे अनन्यार्थे सति ब्राह्मणस्य स्मारकत्वम् अप्रयुज्यमानतया सामर्थ्याभावात्। न हि निर्वपामीतिवन्निर्वपेदिति पदमुच्चारितमनुष्ठानौपयिकमनुष्ठेयप्रकाशनं करोति किं तु सम्बन्धिमात्रतया प्रयोगबहिर्भूतं सत् अनेन वाक्येनेदं विहितमत एतत्करोमीत्येवमालोचनेन स्मारकं भवति। मन्त्रस्तु प्रयुज्यमान एवाभिधानत एव स्मारक इति सन्निकृघृः। विप्रकृष्टाच्च सन्निकृष्ट बलवदित्येवं प्राप्तेआह” माष्यम् “न समत्वात्” ८ सू०। “मन्त्रपाठ एव बलवान् यदुक्तं तन्न कुतः? समत्वात् मन्त्रपाठचोदनापाठयोः। कथमुभयोः समता उच्यते मन्त्रः कर्मणि करिष्यमाणस्य कर्म्मणः स्मरणार्थं प्रयुज्यते, चोदना तु कर्मणो विधायिका अत एव चोदनायाः प्रवृत्तिः पूर्व्वम् यतः पदार्थे विहिते सति पश्चात्तत्स्मरणार्थे मन्त्रः प्रयुज्यते अतः सममेवैतदिति प्राप्ते सिद्धान्तमाह” भा० “गुणानां तु भूयस्त्वात्” ९ सू०। “तुशब्दः पूर्वपक्षनिरासार्थः। नैतदुभयं समम् किन्तु मन्त्रपाठ एव बलवान्। कुतः? मन्त्रेषु गुणानां भूयस्त्वात् गुणानां बाहुल्यात् यतः चोदनापाठापेक्षया मन्त्रेषु बहवो गुणाविद्यन्ते। तद्यथा कर्मकाले उच्चारणे पदार्थस्मारके यतो मन्त्रा अर्थवादादिकृतव्यवधानरहिताः क्रमेण पठ्यन्ते तेनोत्तरमुत्तरं पदार्थं झटिति स्मारयितुं शक्नुवन्ति नैवं चोदनापाठः विधेयार्थस्तावकवाक्यसंदर्भव्यवहितत्वेन मन्त्रवत्स्मारयितुमशक्तत्वात्। न च कर्मकाले तस्योच्चारणं विहितं मन्त्रवत्। श्रुतिरपि मन्त्राणां गुणभूयस्त्वमाह “तस्मादेतदृषिणाभ्यनूक्तमित्यादिना(शत० ब्रा० १। ७। ४। ४।)यो हि स्वप्रतिपादितस्यार्थस्य प्रामाण्यार्थमन्यस्योक्तिं प्रदर्शयति स आत्मापेक्षया उत्कृष्टस्यैव दर्शयति नानिकृष्टस्य तेन गूणभूयस्त्वं मन्त्रेषु अतो मन्त्रपाठ एव बलवानिति सिद्धम्। पदार्थानां क्रमनियमे श्रुयादीनि त्रीणि प्रमाणान्युक्तानि तेषां विरोधे बलाबलं चोक्तम् अथेदं चिन्त्यते। यत्र बहूनि प्रधानानि सह क्रियन्ते यथा दर्शपूर्णमासयोराग्नेयोपांशुयाजाग्नीषोमीयैन्द्राम्नादीनि यथा चातुर्मास्यपर्वसु वाजपेयेऽतिरात्रपशुवशापृश्निसप्तदशप्राजापत्येषु च तत्रारादुपकारकाण्यङ्गानि सर्वेषां तन्त्रेण क्रियन्तेइति। वक्ष्यति कर्मणां युगपद्भावस्तन्त्रमित्यत्र(कात्या० १। ७। १।) तेन न तेषु क्रमन्विन्ता संनिपत्योपकारकाणि तु द्रव्यसंस्काररूपाणि प्रतिप्रधानभेदेन कर्त्तव्यानि तत्र चिन्त्यते तानि कि कैकस्य सर्वाणि कृत्वापरस्य कर्त्तव्यानि? किं वा समान एकैकः पदार्थः सर्वेषां कर्त्तव्यः? इति। तत्रैकैकं प्रधानमत्यवहितानि स्वाङ्गान्यपेक्षते तत्राङ्गानां प्रधानकालत्वस्य न्याय्यत्वादेकैकस्मिन् गुणकाण्डमपवृञ्ज्यात इतरथा हि पदार्थानुसमये सति स्वप्रधानाद्विप्रकृष्येरन् यद्येकस्यासादनं कृत्वापरस्य तदेव क्रियते तदा पूर्वस्यासादनयोर्व्यवायः स्वात् सहवचनं त्वारादुपकारकसाहित्यमात्रेणाप्युपपद्यते तस्मात्काण्डानुसमयएवेति प्राप्तेआह” भा० “तुल्यसमपापे, सामान्यपूर्वमानुपूर्व्ययोगात्” १० सू०। “तुल्यसमवाये तुल्यानां प्रधानानां सह प्रयोगे द्रव्यसस्काररूपाणि सनिपत्योपकारकाण्यङ्गानि सामान्यपूर्वं कर्त्तव्यानि पूर्वः पूर्वः पदार्थः सर्वेषां समानः सडशः कर्त्तव्यः। तद्यथा बहुषु हविःषु प्रथभं सर्वेषां विभस्मीकरणम् ततः सर्वेषां पात्रीस्थापना ततः सर्वेषां तत्र व्यभिधारः ततः सर्वेषां पात्रीपूपस्तारः ततः सर्वेषामुद्वासनम् ततः सर्वेषां वेद्यामासादनम् ततः सर्वेषामालम्भः इत्येवं पदार्था समवः कर्त्तव्यः। यद्येकैकस्मिन् गुणकाणा- मपवृज्यते तथा सति क्रमेण प्रयोगात् प्रयोगवाक्यावगतस्य साहित्यस्य बाधः स्यात् न हि वचनेनाविशेपतः साहित्यमवगम्यमानं काल्पनिकेन प्रधानासत्तिमात्रेणारादुपकारकविषयमात्रं कल्पयितुं शक्यते। तस्मात्पदार्थानुसमयः। कुतः? आनुपूर्व्ययोगात् पदार्थानां तन्मन्त्राणां च एवं क्रियमाणे पदार्था आनुपूर्व्येण अनक्रनेण युज्यन्ते तन्मन्त्राश्च अन्यथोत्तरपदार्थकरणानन्तर पूर्व्वेषु क्रियमाणेषु आनुपूर्व्ययोगो न स्यात्। “पौर्णमास्यां पौर्णमास्या यजेत” इत्यनेन वाक्येन पौर्णमासीशब्द बोध्यानां तत्सग्बद्धानां त्रयाणां यागानां साङ्गानामेककालप्रयोगोऽवगम्यते अतो यस्मिन्नेव क्षणे एकस्याधिश्रयणं कर्तव्यमापतति तस्मिन्नेवापरस्याधिश्रयणं कर्तव्यं सदशव्यतया केवलं न क्रियते द्वितीये तु क्षणे न कश्चिद्धेतुर्येन पूरोडाशान्तरं नाधिश्रियेत अतः प्रथमं पदार्थं सर्व्वेषां कृत्वा ततोद्वितीयादिः पदार्थः सर्व्वेषां कर्त्तव्यः। एवं बहुषु पधानेषु सर्व्वत्र पदार्थानुसमय एव न्याय्योन काण्डानुसमयो इति स्थितम्। यत्र तु प्रधानविरोधो भवति पदार्थानुसमये क्रियमाणे। तत्र काण्डानुसमय ए वेति वाचनिकेन साहित्येन पदार्थानुसमयः प्राप्तोऽपि प्रधानविरोधात्त्यक्तव्यः। पुरोडाशाङ्गं ह्यधिश्रयणादयः तदङ्गं च क्रमः पदार्थानुसमयरूपः तदाश्रयणे च सुतप्त कपालसंयोगात् पुरोडाशशोषप्रसङ्गः। न चाङ्गानु रोधेन प्रधानबाधोयुक्तः। तेनातिबहुषु हविःष्वेकैकस्य पुरोडाशस्याधिश्रयणं प्रथनमद्भिरभिमर्शनं चेत्यन्तं काण्डानुसमयः कार्यः। यत्र तु नास्ति प्रधानबाघः द्वित्रिचतुरादिहविःषु, तत्र भवतु पदार्थानुसमयः। दाह सम्भवशङ्कायां तु उद्वासनमपि व्युत्क्रमेण कार्य्यम् यदुक्तम् पूर्व्वस्य पदार्येकृते तस्मिन्नेव द्वितीयस्य क्रियमाणे पूर्व्वस्य व्यवधानमिति तत् सहत्वविधिबलात् परिह्रियते। एवं च सति वाजपेये आग्नेयैन्द्राग्नसारस्वती वशापृश्निसप्तदशप्रजापत्येपु द्वाविंशतिसंख्येषु पशुष्वेकविंशत्या पदार्थेः समानासमानजातीयैर्व्यवधानमिष्यते न न्यूनाधिकेः। अन्ये त्वसमानजातीयैरेव। अनेनैव मुख्यक्रमप्रावृत्तिकक्रमावुक्तौ भवतः। तथाहि यत्र बहूनि प्रधानानि भवन्ति तत्र यो मुख्यानां प्रधानानां क्रम स्तेनैव क्रमेण तदङ्गानां क्रमोभवति यथा पौर्णमासेष्ठ्यां प्रथममाग्नेययागः ततोऽग्नीषोमीययागः अत आग्नेपस्य प्रथमं ग्रहणम् ततोऽग्नीषोमीयस्य, एवं प्रोक्षणादावपि। अयं मुख्यक्रमः अनेन क्रमेण यद्यङ्गा न्यनुष्ठीतन्ते तदाङ्गाना नियता प्रधानप्रत्यासत्ति रनुगृहीता भवति एवं ह्यङ्गप्रधानयोर्यावदनुज्ञातमेव व्यवधानं भवति इतरथा तु पश्चाद्भाविनः प्रधानस्य प्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्वात्।

अथ प्रवृत्तिक्रम उच्यते यत्र बहूनि हवींषि भवन्ति समानदैवतानि यथा वाजपेये पशवः तत्र चोपा करणादयः संनिपातिनः प्रतिपश्वावर्तनीयाः। तेषां चावृत्तिर्नैकस्य पशोः कार्त्स्न्येन कृत्वा परस्यापि तथैव क्रियन्त इत्येवम्। किं तर्हि? सर्व्वेषामुपाकरणं यतः कुतश्चित् पशोरारभ्य कृत्वा ततः सर्व्वेषां नियोजन मित्युक्तम्। तत्र प्रथमे पदार्थे उपाकरणे अनियम एव यतः कुतश्चित् पशोरारभ्य कर्त्तव्यः। द्वितीयश्च पदार्थो नियोजनरूपः किं प्रथमो यत आरब्धः तत एवारम्भणीयः? उत तत्राप्यनियम एवेति? तत्र क्रमनियमकारणानां श्रुत्यर्थपाठानामभावदनियमे प्राप्ते उच्यते प्रवृत्त्यैव नियमः। प्रथमः पदार्थो येन क्रमेण कृतः सएव क्रम उत्तरेष्वपि नियोजनादिषु नियम्यते। कुतः? पदार्थैः सह प्रधानं कर्त्तव्यमिति वचनात् सर्व्वेपदार्थाः प्रधानकालान्न विप्रक्रष्टव्याः कथं? पदार्थैः सह प्रधानस्य वचनम् यावता “दर्शपूर्णमासाभ्यां यजेत प्राजापत्यैश्चरन्तः” इत्यादिषु प्रघानमात्रं श्रूयते उच्यते, समीहितं भावयेद्यागेनेत्थमिति हि यजेतेत्यस्यार्थः। तत्र यस्यामेव वेलायां स्वर्गो भावने कर्तृत्वं प्रतिपद्यते तस्मिन् क्षणे करणेतिकर्त्तव्यते अपि व्याप्रियेते। अयमर्थः नात्र प्रधानं कर्तव्यं श्रूयते किंतु प्रधानेन स्वर्गः कार्य इति करणविभक्तिनिर्देशाद्यागेनेष्टं कार्यमस्मिन्काले कुर्यादिति तेन स्वकार्यं सेतिकर्तव्यताकेन कर्तुं शक्यते नान्यथा। तस्मात्त्रितयस्य फलकरणेतिकर्तव्यत्वस्य युगपद्यजेतेत्मनेन कर्तव्यतयोच्यते। ततोऽ न्यथा करणेतिकर्तव्यताकत्वमेव न स्यात् न हि पश्चाद्भावि करणं भवति। तथा भविष्यति भाव्ये भूते च करणे असावेव दोषः न हि विनष्टं करणं भवतीति। तथा करणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे अयमेव दोषः। न हि विनष्टमनागतं वानुग्राहकं भवति। तेन शब्दवस्तु भ्यामेककालतैषां तयाणाम्। ततः प्रधाने सेतिकर्तव्यताके एकस्मिन् क्षणे सह कर्तव्ये प्राप्ते सति एकः कर्ता बहूनि प्रधानानि इतिकर्तव्यतो वा असमर्थः कर्तु, यौगपद्येनेत्यवश्यम्मावी कियानपि विप्रकर्षः। ईदृशेनापि विप्रक- र्षेण सहैव पदार्थाः कृता भवन्ति। प्रयोगवचनो हि यावतः पदार्थातनुष्ठापयति तावद्भिरवर्जनीवतया यावान् कालो व्याप्यते तावानेकः कालः तावति च काले सर्वेषां कालो विधीयते न त्वेकस्मिन् क्षणे अशक्यार्थविधिप्रसङ्गात्। तेन प्रत्यासत्तिरेतेषां साहित्यम् नैकक्षणवर्तित्वम्। यद्येवम् प्रयोगवचनेनैव क्रमस्य सिद्धत्वात् श्रुत्यादिभिः किं क्रियते? अनियतक्रमेणानुष्ठानं प्राप्नोतीति क्रमनियमे तेषां व्यापारः। यस्मात्प्रयोगविधिर्नैकक्षणवर्त्तित्वं विधत्ते प्रत्यासत्तिमात्रम्। तस्मात् प्रधानं चिकीर्षितगमनागतं कृतं वा तेषां प्रधानार्थानामनुष्ठापकम्! करिष्यमाणेन कृतेन वा प्रधानेन प्रत्यासत्तिमात्रमङ्गानां तत्साहित्यम् नैकक्षणवर्तित्वम्। तत्राग्न्यन्वाधानादीनां करिष्यमाणं प्रधानं निमित्तम् स्विष्टकृदादीनां तु कृतम्। तेनैवमवस्यम्भाविनि विप्रकर्षे केचित्पदार्थाः क्षणव्यवहिताः प्रधानेनापेक्ष्यन्ते केचिद्द्वाभ्यां क्षणाभ्यां व्यवहिताः केचिद्बहुभिरिति। एवं वाजपेयपशुष्वपि अग्न्यम्बाधानादि प्रागुपाकरणात् साधारण्यं सर्वपशूनां सह अनुभूतम्। उपाकरणादयोऽपि संनिपत्योपकारकास्तन्त्रेणाविभवादावर्तयितव्या अपि साहित्येनैव पशुभिरनुभवितव्याः। यदैकस्योपाकरणम् तदैवेतरेषामपि कुतः? सहचोदितत्वात्पशूनां साङ्गानाम्। तत्रैव सहानुभवितव्ये सति यस्य पशोः प्रथममुपाकरणं क्रियते तस्य प्राकृतेन पाटेन यद्यपि द्वितीयः पदार्थो नियोजनरूपः स्थाप्यते तथापि सहवचनादेव एकविंशतिक्षणव्यवहितं द्वितीयं पदार्थमाकाङक्षति। द्वितीयस्तु पशुर्विंशत्योपाकरणक्षणैर्व्यवहितमेकेन प्रथमस्य पशोर्नियोजनक्षणेन च व्यवहितं स्वीयं द्वितीयं पदार्थमाकाङ्क्षति। एवं तृतीयादयोऽपि पशवः सजातीयविजातीयव्यवहितानात्मीयान् पदार्थानपेक्षते। अन्त्यस्तुविजातीयैः पूर्वोपाकृतानामेकविंशतेः पशूनां नियोजनक्षणैर्व्यवहितमेव द्वितीयं पदार्थमपेक्षते। तदेवं संनिपत्योपकारकागालोच्य ईदृशी एकविंशतिक्षणव्यवधानापेक्षा प्रधानानां नवति। ततश्च यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुं तावद्भिर्व्यबधानमगत्यावश्यं कर्त्तव्यम् अतोऽभ्यधिकैस्तु न व्यवधातव्यम्। यद्येकं पदार्थमेकस्य कृत्वा द्वितीयोऽपि पदार्थस्तस्यैव क्रियते ततः सहवधनं नोपपद्येत। एवं सर्वत्र तृती यादिष्वपि पदार्थेषु योज्यन्। प्रथमपदार्थक्रम एव द्वितीयादिष्वपि समाश्रयितव्यः इतरथा केषां चन ब- हूत्यप्यधिकैरपि क्षणैर्व्यवहितानि स्युः। न च तद्युक्तम्। न चैवं केषांचिदल्पैर्व्यवधानं गुणो भविष्यतीति वाच्यम् यथाधिकैर्व्यवधानेऽश्रुतकरणम् एवं न्यूनैरपि व्यवधाने अश्रुतकरणमेव। तस्मादेकविंशतेः पशूनां साहि त्यसम्पत्तये प्रयेगविधिनायं क्रमः पदार्थानां मिथ एकविंशतिक्षणव्यवधानात्मकोऽपेक्षितः। स न्यूनेरधिकैश्च व्यववाने बाध्येत। अतः सर्वेषां तुल्यप्रत्यासत्तिसिद्धये प्रथमपदार्थक्रम एव द्वितीयादिष्वाश्रयणीय इति सिद्धम्। अत्राङ्गानां मिथः प्रत्यासत्तिर्नियमकारणम् मुख्यक्रमे तु अङ्गानां प्रधानप्रत्यासत्तिरिति विशेषः। मुख्यक्रमप्रवृत्तिक्रमयोर्विरोधे च मुख्यक्रमो बलीयान्। तद्यथा दर्शपूर्णमासयोः सांनाय्यधर्माः शाखाच्छेदनादयः पूर्वं प्रवर्त्तन्ते पश्चादाग्नेयधर्माः, प्रदानं त्वाग्नेयस्य प्रथमम् पश्चात्सांनाय्यस्य ततः स्विष्टकृदवदानं प्रयाजशेषाभिघारणं प्राणदानं वेद्यामासादनादिकं च कि प्रकृत्तिक्रमात् सांन्ताय्यस्य पूर्वं मवति? उत मुख्यक्रमादाग्नेयस्ये ति? संदेहादनियमे प्राप्ते मुख्यक्रमो बलीयानित्युच्यते। अस्मिन्हि आश्रीयमाणे अल्पीयांसः प्रथमपदार्थाः प्रधानाद्विप्रकृध्यन्ते अन्ये सर्वे संनिकृष्टा भवन्ति प्रवृत्तिक्रमे तु बहूनां विप्रकर्षः। पूर्वं तु मुख प्रवृत्तिभ्यां बलीयसा पाटक्रमेण मुख्यक्रमो बाध्यते प्राणदानादिषु पाठक्रमाभावात् प्रवृत्तिक्रमो मुख्यक्रमेण बाध्यते। अथ स्थानप्रमाणनुच्यते। साद्यस्क्रे “सह पशूनालभेत” इति (शत० २२, ३, २८,) श्रूयते साहित्यं च सवनीयस्य स्थाने। तत्र किमुपाकरणादौ अनियमः? अथवाग्नीषोमीयस्य प्रथममुपाकरणम्? अथवा सवनीयस्येति?। तत्र नियमकारणाभावादनियमे प्राप्ते प्रकृतिवद्वाग्नीपोमीयस्य प्राथम्ये प्राप्ते उच्यते सवनोयस्वव प्रथममुपाकरणम्। अग्नीषोमप्रणयनानन्तरमग्नीषोमीयस्योपस्थानम्। स तेनोपस्थितोऽपि सहालभ्यवचनेन तत्स्थानाच्चलितत्वादननुष्ठितोऽत्र तु न तस्य किंचिदुसस्थापकमस्ति। सवनीयस्तु स्वस्थानादप्रचलितः सन्नाश्विनग्रहणादुपस्थितत्वात्तदनन्तरमुपाक्रियते। ततः साहित्यवचनादितरोपाकरणम्। अतः सवनोयस्यैव प्राथम्यम। इतरयोस्तु कथं क्रमः? अनिपम एव तयोरुपस्थाने विशेषाभावात्। अथवा प्रकृतिदृष्ट पौर्वापर्यमसति बाधेऽनुग्रहीतव्यमित्यग्नीषोमीयमुपाकृत्यानूबन्ध्योपाकरणमिति। तदेवं श्रुत्यथपठनस्थानमुख्यप्रवृत्तिसंज्ञानि षट प्रमाणानि क मनियमकारीण्यक्तानि तेषां परस्परविरोधे च पूर्वं–पूर्वं बलवत् उत्तरमुत्तरं च दुर्बलमिति। तदुक्तम् “श्रुत्यर्थपठनस्थानमुख्यासत्तिप्रवृत्तिभिः। एकाख्यातगृहीतानां नियतः कर्मणां क्रमः। विरोधे पारदौर्बल्यमेतेषामपि पूर्ववदिति” भा० (पूर्व्ववत् श्रुतिलिङ्गादिवत्) क्रमस्य विनियोगसाधनता जै० सू० भाष्ययोर्दर्शिता यथा “क्रमश्च देशसामान्यात्” ३। ३। १२ सू० “अथ किमेतावन्त्येव विनियोगकारणानि?। न,–इत्य च्यते। किं च क्रमश्च देशसामान्यात्, क्रमवतामानुपूर्व्येणोपदिश्यमानानां यस्य पर्याये यं धर्ममामनति तस्य तं प्रति आकाङ्क्षा अनुमीयते, सत्यामाकाङ्क्षायामेकवाक्यभावः, तस्मात् ततो विनियोगः–इति। किमिहोदाहरणम्? किं च प्रयोजनम्?। आनुपूर्व्यवतां यागानामनुमन्त्रणेष्वाम्नातेषु उपांशुयाजस्य क्रमे “दब्धिर्नामासीति” समाम्नातः, तस्य आकाङ्क्षामुत्पाद्य तेन एकवाक्यतां यात्वा तत एव विनियोगमर्हति–इति, तथा च ऐन्द्राग्नं कर्म वियातसजातस्य अस्ति भ्रावृव्यवतः, तस्य याज्यानुवाक्यायुगलमप्याम्नायते ऐन्द्राग्नम्, “इन्द्राग्नी रोचनादिवः प्रवर्षणिभ्यः”–इत्येकम्, अपरं “इन्द्राग्नी नवतिं पुरः श्लथद्वृत्तम्”–इति। तत्र लिङ्गाद्विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वं युगलं पूर्व्वस्य ऐन्द्राग्नास्य, उत्तरमुत्तरस्य–इति, एतत् उदाहरणम् प्रयोजनञ्च” भा० क्रमप्रकरणयोरेकत्र समवाये प्रकरणं बलीयः। क्रमसमाख्ययोस्तु क्रमो वलीययान् “श्रुति–लिङ्ग वाक्य–प्रकरण–स्थान–समाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्” सू०। “श्रुतिर्द्वितीया क्षमता च लिङ्गं वाक्यं पदान्येव तु संहतानि। सा प्रक्रिया या० कथमित्यपेक्षा स्थानं क्रमो योगबलं समाख्या” पार्थसारथिमिश्रैर्विनियोगसाधकानां श्रुत्यादीनां लक्षणोक्त्या स्थानशब्दस्य क्रमवाचकतावगतेः। विवृतमेतत् तत्त्वबोधिन्यां यथा “योगबलं प्रसिद्धावयवशक्ति–समाख्या योगार्थेन प्रवृत्तं पदम्। यथा हौत्रमाध्वर्य्यवमौद्गात्रमिति। दर्शपौर्ण्णमासादिषु याज्ययाजकपाठादयोघर्म्मा ऋग्वेदोक्ताहौत्र संज्ञकाः, दोहननिर्व्वापादयो यजुर्व्येदोक्ता, आध्वर्य्यव संज्ञकाः, स्तोत्रपाठादयः सामवेदोक्ता औद्गात्रसंज्ञकाः पदार्था उक्ताः। तत्रास्यैते धर्म्मा इति नियामकाभावात् स्वेच्छया सर्व्वेषां सर्व्वकरणप्रसक्तौ होतु- रिदं हौत्रमिति प्रकृतिप्रत्ययरूपावयवशक्तिलभ्यार्थ योगवलरूपसमाख्यया हौत्रादिकर्त्तव्यत्वं प्रतीयते। एवं, हौत्रं जुहोति औद्गात्रं जुहोतीत्यादौ” हौत्रादेर्होमकर्वृत्वं प्रतीयते। होता ऋग्वेदी अध्वर्थुर्य्यजुर्व्वेदा उद्गाता सामवेदी “अध्वर्त्यूद्गावृहोतारोयजुःसामर्ग्विदः क्रमादिति” कोषात्। न च समुदाये शक्तिः प्रमाणाभावात् अतएवोक्तं भट्टपादैः “पाकन्तु पचिरेवाह कर्त्तारं प्रत्ययोऽप्यकः। पाकशिष्टः पुनः कर्त्ता वाच्योनान्यस्य कस्यचित्”। पाकशिष्टः पाकविशिष्टः”

शवरभाष्ये उदा० यथा “अथ प्रकरणस्य क्रमस्य च विरोधे किमुदाहरणम्। राजसूयप्रकरणेऽभिषेचनी यक्नमे शौनःशेफाख्यानादि आम्नातं, यदि प्रकरणं बलवत् सर्वेषां, तदङ्गम्, यदि क्रमः, अभिषेचनीयस्यैव। किं तावत्प्राप्तम्?–तुल्यबले एते कारणे–इति। कुतः?। न तावत् विशेषमुपलभामहे, नावगच्छाम इदं वलीयः–इति। तस्मात् तुल्यवले एते कारणे–इति। अपि च प्रकरणं वाक्येन बाधितं, तस्मात् बाध्येत क्रमेणापि–इति”। “एवं प्राप्ते ब्रूमः,–प्रकरणं क्नमात् बलीयः। कुतः!। अर्थविप्रकर्षात्। कोऽत्रार्थविप्रकर्षः!। प्रकरणवतः साकाङ्क्षत्वात् तत्सन्निधानाम्नातेन परिपूर्णेनाप्यवकल्पेत एकवाक्यत्वम्, न तु क्रमवतः, क्रमेण आम्नातेन, अनेकस्याम्नायमानस्य सन्निधिविशेषाम्नानमात्रं हि क्रमः तत्र सन्निधिविशेषाम्नानसामर्थ्यात् क्रमवतः सन्निधावाम्नातस्यानुपलभ्यमानमेव आकाङ्क्षावत्त्वमस्ति –इत्यवगन्तव्यम्। प्रकरणे तु प्रकरणवतः प्रत्यक्षम्, न च प्रकरणवता क्रमवता च यौगपद्येन एकवाक्यता सम्भवत्याम्नातस्य–इति विरोधः। तत्र प्रकरणे प्रत्यक्षं साकाङ्क्षत्वं, क्रमआनुमानिको बाधितुमर्हति। साकाङ्क्षत्वात् एकवाक्यत्वम्, एकवाक्यत्वादभिधानसामर्थ्यं, सामर्थ्यात् श्रुत्यर्थः–इति सन्निकृष्टः प्रकरणस्य श्रुत्यर्थो, विप्रकृष्टः, क्रमस्य। तस्मात् क्रमप्रकरणयोः प्रकरणं बलवत्तरम्–इति”। “अथ यदुक्तं,–वाक्येनापि हि तत् बाधितम्, अतोऽम्येनापि तत् बाधितव्यम्–इति, नैतत्, बाधितस्यानुग्रहो न्याय्यो, न बाधितं बाधितव्यम्–इति”।

अथ क्रमसमाख्ययोर्विरोधे किमुदाहरणं! किं बलवन्तरम्!–इति। पोरोडाशिकम्–इति समाख्याते काण्डे सान्नाथ्यक्रमे “शुन्धध्वं दैवाज्याय कर्मणे”–इति शुन्धनार्थो मन्त्रः समाम्नातः। तत्र सन्दिहते, किं समाख्यानस्य बलीयस्त्वात् पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, (मन्त्रः) उत क्रमस्य बलीयस्त्वात् सान्नाय्यपात्राणाम्?–इति। किं तावत्प्राप्तम्?–तुल्यबले एते कारणे स्याताम्। कुतः? अविशेषात्, यदि वा समाख्यैव बलीयसी, बाधितो हि क्रमः प्रकरणेनापि इति”। “एवं प्राप्ते ब्रूमः,–क्रमो बलीयात्। कुतः?। अर्थविप्रकर्षात्। कः पुनरत्रार्थविप्रकर्षः?। निर्ज्ञाते प्रकरणेने केनापि सहैकवाक्यत्वे यत् सन्निधावाम्नायते, तत्र आकाङ्क्षा परिकल्प्यते, नैकवाक्यतेत्यवगम्यते, लौकिकश्च शब्दः समाख्या, न च, लोक एवंविधेषु अर्थेषु प्रनाणम्। तस्मात् क्रमो बलीयान्”

विवृतमेतत् तत्त्वबोधिन्यां यथा

“स्थानप्रकरणयोर्यथा। पश्विष्टिसोसयागाबहवः परस्परनिरपेक्षेणापि प्रत्येकं फलवन्तः समप्राधान्याः। ते च मिलिता राजसूयः। तन्मध्येऽभिषेचनीयाख्यः कश्चित् सोमयागविशेषः तत्सन्निधौ अक्षदेवनादिकं श्रूयते। यथा “अक्षैर्दीव्यति राजन्यं जिनाति शौनःशेफमाख्यापयतीति” जिनाति जयति। शौनःशेफं वह्वृच ब्राह्मणे आम्नातं शुनःशेफमुनिविषयमुपाख्यानमिति माधवाचार्य्यः। एतेन शुनः शेफमुनेश्चरित्रं पुराणप्रसिद्धमित्युदीच्यव्याख्यानं निरस्तं, वैदिके कर्म्मणि वैदिकोपाख्यानस्यैवोचितत्वाच्च “शौनः शेफं शृणोतीति” पाठकल्पनमपि कल्पनमेव माधवचार्य्यादिभिर्वेदज्ञैराख्यापयतीत्यस्य लिखितत्वात्। तत्र च सान्निध्यरूपस्थानबलात् अक्षदेवनादेरभिषेचनीयाङ्गत्वं लभ्यते प्रकरणात्तु सर्व्वयागात्मकराजसूयस्य इति कर्त्तव्यताकाङ्क्षया अक्षदेवनादयोविहिता इति। प्रकरणबलात् राजसूयाङ्गत्वमक्षदेवनादेः राजसूयश्च बहुयागात्मक इति तत्र सर्व्वेषामङ्गत्वं, सर्व्वाङ्गत्वञ्च राजसूयघटकीभूतसर्व्वयागजन्यफलशिरस्का पूर्ब्बोपकारद्वारा सर्व्वोपकारकत्वम्। अत्र चाकाङ्क्षायाः कॢप्तत्वाद्वाक्यलिङ्गश्रुतिरूपत्रितयकल्पनं व्यवधानम् अभिषेचनीयस्याक्षदेवनादेराकाङ्क्षा नास्ति तस्य ज्योतिष्टोमविकृतित्वेन प्रकृतिवद्विह्नतिम्यायात् अतिदिष्टैः प्रकृतीभूत ज्योतिष्टोमाङ्गैरेवेतिकर्त्तव्यताकाङ्क्षानिवृत्तेरिति सन्निधिपाठबलात् आकाङ्क्षामुत्थाप्य तद्द्वारा वाक्यलिङ्ग श्रुतीनां कल्पनीयतया चतुर्भिर्व्यवहितमङ्गत्वज्ञानमिति प्रकरणाद्विलम्बेन ज्ञापकं स्थानं दुर्व्वकमिति। तस्वात् प्रकरणात् सर्व्वयागात्मकराजसूयाङ्गमक्षदेवनादिकमिति। ननु सर्व्वाङ्गमभिषेचनीयाङ्गमेव वा उभयथापि राजसूये तेषां कर्त्तव्यत्वाद्विचारोऽयमनुपयुक्त इति। न च प्रत्येकराजसूये प्रत्येकयागकाले तेषामनुष्ठानार्थं विचार इति वाच्यं तथा सति प्रत्येकाङ्गत्वेन प्रत्येकजन्यकलिकापूर्ब्बोपकारकतया फलशिरस्कापूर्ब्बानुपकारकत्वात् राजसूयाङ्गत्वानुपपत्तेः। न च कलिकापूर्ब्ब द्वारैव फलशिरस्कापूर्ब्बोपकारकत्वमिति वाच्यं तत्तदङ्गा पूर्वाणां प्रत्येकं षट्त्वस्य तोषाञ्च षट्कलिकापूर्ब्बं प्रतिकारणत्वस्य कल्पनायां महागौरवात्। तस्माद्राजसूयाङ्गत्वेनाक्षदेवनादीनां सकृदेनुष्ठानं तत्तदङ्गापूर्ब्बद्वारा फल शिरस्कापूर्व्वोपकारकत्वं लाघवादितिचेत् सत्यं अक्षदेवनादीनाभभिषेचनीयाङ्गत्वे यत्र प्रधानतया स्वतन्त्रेणाभिषेचनीयानुष्ठानं तत्राप्यक्षदेवनादिकरणापत्तेर्वारणार्थं विचारारम्भात्। अतएवाकाङ्क्षायाः कल्प्यत्वं स्थानप्राप्तौ दोष इति सङ्गच्छते अन्यथा राजसूयाङ्गत्वेना भिषेचनीयेऽपि तस्याः क्लप्तत्वात्। एवञ्चाभिषेचनीय सन्निधौ पाठस्तत्काले कर्त्तव्यताज्ञापनार्थमिति ध्येयम्। स्थानसमाख्ययोर्यथा। बहुमन्त्रानुक्त्वा “एतत् पौरोडाशिकं काण्डम्” इत्युक्तं पुरोडाशमन्त्रकाण्डे च “शुन्धध्वं दैवाज्याय कर्म्मणे देवयाज्ययै” इति मन्त्रः पठितः तत्र च शुन्धध्वमिति मन्त्रलिङ्गात् पात्रशोधने मन्त्रस्य विनियोग प्रतीयते स च पुरोडाशस्येदं पौरीडाशिकमिति प्रकृति प्रत्ययार्थरूपसमाख्याबलात् पुरोडाशकाण्डोक्तानामुच्छृङ्खलयज्ञादीनामपि कृत्स्न पुरोडाशपात्रशोधने प्रतीयते अथ च सान्नाय्यहोससन्निधाने मन्त्रः श्रूयते यथा “सान्नाय्यान् ग्रहान् गृह्णाति” शुन्धध्वं दैवाज्याय कर्म्मणे देवयाज्यायै सान्नाय्येन जुहोति” इत्यादिदध्योदनरूपसन्निधानपाठात् स्थानबलात् सान्नाय्यपात्रशोधनाङ्गत्वम्। तथाहि पौरोडाशिकमित्यत्र प्रकृत्या पुरोडाश उच्यते तद्धितेन च मन्त्रादिकलापरूपं काण्डमुच्यते तद्धितवाच्यकाण्डपदार्थमन्त्रादेः पुरोडाशसम्बन्धित्व तु न कस्यापि पदस्यार्थः, किन्तु समभिव्याहारलभ्यम्। तदुक्तम् “नैतदेवं समाख्या हि न सम्बन्धाभिधायिनी। पाकं हि पचिरेवाह कर्त्तारं प्रत्ययोऽप्यकः। पाकयुक्तः पुनः। कर्त्ता वाच्योनैकस्य कस्यचित्”। तथा च पौरडाशिकपदस्य तन्ममन्त्रसान्निध्यं विना तद्धितवाच्यकाण्डपदार्थे मन्त्रे पुरोडाशसम्बान्धत्व न लभ्यतं समाख्यान्यथानुपपत्त्या पौरोडाशिकपदस्य मन्त्रसान्निध्यं कल्पनीयमन्यथा समाख्याया अकिञ्चित्करत्वम्। सांनाय्यहोमस्यापि पुरोडाशकाण्डपातितया तत्सम्बन्धेऽपि समाख्यासम्भवाच्चेति सान्नाय्येन मन्त्रस्य सान्निध्यं कल्प्यमिति प्रकरणादिकल्पनाचतुष्टयमात्रव्यवहितमिति सिद्धं समाख्यातः स्थानं बलवदिति। तदुक्तम्। “एकद्वित्रिचतुःपञ्चवस्त्वन्तरप्रकाशनम्। लिङ्गादीनाञ्च वैषम्यं श्रुत्यपेक्षं विधीयते। बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा। मध्यमानान्तु बाध्यत्वं बाधकत्वन्त्वपेक्षया”। स्थानसमाख्ययोर्विरोधे पार्थसारथिमिश्रमाधवाचांर्य्यदेवनाथप्रभृतिभिरेवं व्याख्यातम्”। पौर्व्वापर्य्यरूपक्रमोद्विविधः कालिकोदैशिकश्च तत्र वैदिककर्म्मानुष्ठाने श्रुत्यादिभिः यः क्रमोनियमितः स सर्व्वोऽपि कालिकः। दैशिकस्तु “क्रमान्मेषादयः, स्मृताः” एव इत्यादौ राशिचक्रपूर्व्वापरदेशस्थितत्वात्तेषां दैशिकक्रमवत्त्वम्। “वृत्तानुपूर्व्व्ये च नचातिदीर्घे” कुमा० इत्यत्रापि दैशिकक्रमः। क्वचित् उपदेशक्रमेण पदार्थानां क्रमवत्त्वम् यथा “वर्ण्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा” या० स्मृ०। अत्र ब्राह्मणादीनां वर्ण्णानां चतुर्ण्णां क्रमेणोपदेशात् तत्क्रमेण ब्राह्मणादीनाम् क्रमिकत्वम्। एवं “तासां वर्ण्णक्रमेणैव ज्यैष्ठ्यं पूजा च वेश्म च” मनुवाक्ये “अध्वर्य्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्” इत्यमरवाक्येच उपदेशक्रमात् क्रमवत्त्वम्। गर्भाधानादीनां संस्काराणासपदेशक्रमेणैव क्रमिकत्वम् क्वचित् पदार्थगतोत् पत्त्यादिक्रमेणापि पदार्थक्रमोऽभि धीयते इत्याद्यूह्यम्। सं एवम् लक्षक्रमव्यङ्ग्य असंलक्ष्यक्रमव्यङ्ग्य इत्यादावपि तथात्वम्। अत्र क्रमणे “सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः” भा० व० ११८७ श्लो०। “न्यवर्त्ति तैरर्द्धनभःकृतक्रमैः” नैष०। पादे “पदानि त्रीणि दैत्यैन्द्र! सम्मितानि पदा मम” इत्युपक्रमे “त्रिभिः क्रमैरसन्तुष्टोद्वीपेनापि न पूर्य्यते” भाग० ८। १९। १९। बलिं प्रतिवामनोक्तिः। “अपि क्रमैरिमाल्लोकान् विश्वकायः क्रमिष्यति” तत्रैव २६ श्लो बलिं प्रति शुक्रोक्तिः। सामर्थ्ये “क्रर्भ बबन्ध क्रमितुं सकोष” भट्टिः क्रमं सामर्थ्यं बबन्ध चकार क्रमितं क्रमं यत्सामर्थ्यं तच्चकारेत्यर्थः” जयम०। सानथ्यहतुव्यापारविशेष एव क्रमशब्दार्थ इति तु न्याय्यम्। अतएव न क्रमः सज्जीकृत आसीत्” “त्वया स- ज्जीकृतक्रमेण स्थातव्यम्” “तद्ग्रहणार्थं मया क्रमः सज्जीकृतः” “सिंहोऽपि क्रमं कृत्वा निः सृतः” इति च पञ्चत० तत्परतैव। परिपाट्याम् “प्रचक्रमे वक्तुमनुज्झितक्रमः” रघुः “नेत्रक्रमेणोपरुरोध सूर्य्यम्” रघुः। नेत्रक्रमेणांशुपरिपाट्या” मल्लि०। आनुपूर्व्ये “क्रमाच्चतस्रश्चतुरोर्ण्णवोपमाः” “रघुः क्रमाद्यौवनभिन्नशैशवः” रघुः। आनुपूर्ब्बी च वस्तुभेदात् भिन्ना तत्र शब्दस्यानुपूर्वी अव्यवहितोत्तरोच्चार्य्यमाणत्वम् इतरस्य तु अव्यवहितो त्तरकालवर्त्तित्वम् यथा प्रथमं शैशवं ततोयौवनं ततो जरेति वयोविशेषाणां, विद्यानान्तु वेदपूर्ब्बकत्वमितरविद्यानां तथात्वात्। एवं पदार्थगतानुपूर्व्यविशेषः यथायथमूह्यः। सच अयुगपद्भावः। “अर्थक्रियाकारित्वं च क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्ति” सर्व्व० स० बौ० द०। “क्रमज्ञानं क्रमाभिधानव्याप्तम्” दायभागः। अनुष्ठाने। “इत्थमस्य विततक्रमे क्रतौ” माघः “विततक्रमे विततानुष्ठाने” मल्लि०। १० विन्यासे “उत्क्रान्तवर्ण्णक्रमधूसराणाम्” रघुः। “उत्क्रान्तवर्ण्णक्रमाः शीर्ण्णवर्ण्णविन्यासाः” मल्लि०। ११ पङ्के च न० “क्रमः शक्तौ परीपाट्यां क्रमं चरणपङ्कयोरितिविश्वोक्तेः पादे क्लीवतापि।

***