वाचस्पत्यम्
क्न to क्रप
links:
Menu अ–ह
Prev कोश–कौ
Next क्रम
क्न
क्रतु
क्रत्व
क्रथ
UpasanaYoga
.org

क्नथ = बधे वा० चु० उभ० पक्षे भ्वा० पर० सक० सेट् घटादि। क्नथयति–ते क्नथति अचिक्नथत्–त अक्नथीत्–अक्नाथीत्। क्नथयां–बभूव आस चकार–चक्रे–चक्नाथ।

क्नस = दीप्तौ कौटिल्ये च दिवा० पर० अक० सेट्। क्रस्यति अक्नसीत्–अक्नासीत् चक्नास। घटा० क्नसयति–ते। अचिक्रसत्त उदित् क्नसित्वा–क्नस्त्वा।

क्नस = दीप्तौ वा० चु० उभ० पक्षे भ्वा० अक० सेट् घटादि क्नसयति–ते। क्नसति। अचिक्नसत्–त अक्नसीत्–अक्नासीत् क्नमयां बभूव आसचकार चक्रेचक्रासाउदित् क्रसित्वा–क्नस्त्वा। “म्य् ह्वृतौ क्नस् कुसिकि च भासने कुस्य इर्श्लिषि” वोपदेवव्याख्याने “परोऽनुवन्धः पूर्वेषामेकवाक्यस्थधातुषु” इति तदुक्तिमाश्रित्य भ्रान्त्या दुर्गादासेन क्नस इदित्त्वमुक्तम् तच्चिन्त्यम्। पा० धातुप्राठे चुरादिषु “त्रसिपिसि कुसि दशि कुसीत्यादिनां कुसेरेवेत्वमुक्तेः दिवादिषु च क्नुसु ह्वरणदीप्त्योरित्युक्तेः वटादौ च जनीजृष क्नसु रञ्ज इति पाठाञ्च इदित् क्नसधातोरदर्शनात्। अतः परानुबन्धस्य को स्येवात्र प्रवृत्ति दनात्व वा चुरादित्वम् अन्यथा कुसिवत् क्नसीत्येव मूलकृत् पठेत्। न च तथाऽपाठि अतस्तस्य नेदित्त्वम्।

क्नूय = दुर्गधे आर्द्रीमावे शब्दे च भ्वा० आत्म० अक० सेट्। कूयते अक्नूयिष्ट चुक्नूय। णिचि क्नोपयति ते। अस्य चेलार्थककर्म्मण्वुपपदे णमुल् चेलङ्गोपम् वस्त्रक्नोपम्। “यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृधे मदनेन” माघः। “वस्त्रं क्नोपयित्वा परिषिच्येत्यर्थः” मल्लि०। अभि + अतिव्याप्त्या आर्दीभावकरणे पतीभावकरणे च सक० “आपो वै सर्वमन्नं ताभिर्हीदमभिक्रूयमिवादन्ति” शत० ब्रा० १४। १। १। १४। यान्तत्वात् ताच्छील्ये नातोयुच् किन्तु तृच्। क्नूयिता इत्येव।

क्मर = कोटिल्ये मा० पर० अक० सेट्। क्मरति अक्मा(क्म)रीत् चक्मार।

क्य = त्रि० कः प्रजापतिस्तस्मै हितः यत्। प्रजापतिहिते। “वेत्थ चत्वारि क्यानां क्यानीति” प्रश्ने “एतान्येव चत्वारि क्यानां क्यानि” शत० ब्रा० १०। ३। ४। २। ४। भा० तथार्थतोक्ता

क्याम्बू = स्त्री क्यं प्रजापतिहितमस्तुयत्र ऊङ्। दूर्वाभेदे “क्याम्बूरत्ररोहतु शाण्डदूर्वा व्यल्कशा” अथ० १८। ३। ६।

क्रंश = प्रकाशने भ्वा० सक० सेट् क्रंशति अक्रंशीत् चक्रांश। “क्रंशतेर्वा प्रकाशयतिकर्म्मणः। निरुक्तकारः २। २५।

क्रकच = पु० क्र इति कचति शब्दायते कच–शब्दे अच। १ ग्रन्थिलाख्ये वृक्षे मेदि०। २ दारुदारणास्त्रे करपत्रे (करात) पु० न० अमरः। ज्योतिषोक्ते ३ योगभेदे च। तल्लक्षणञ्च “षष्ठ्यादितिथयो मन्दात् विलोमं क्रकचः स्मृतः” इति “यथा शनौ षष्ठी, शुक्रे सप्तमी, गुरावष्टमी, बुधे नवमी, भौ मे दशमी, सोमे एकादशी, रवौ द्वादशी, एते योगाः क्रकचख्या ज्ञेयाः पीयू० धा०। यदाह नारदः “त्रयोदश म्युर्मिलने संख्ययोस्तिथिवारयोः” क्रकचो नाम योगोऽयं मङ्गलेष्वतिगर्हिनः”

क्रकचच्छद = पु० क्रकच इव छदो यस्य। केतकीवृक्षे त्रिका० क्रकचदलादयोप्यत्र

क्रकचपत्र = पु० क्रकच इव पत्रमस्य। १ साकवृक्षभेदे राजनि० २ केतकीवृक्षे च।

क्रकचपाद(ट्) = पु० क्रकचमिप पादो यस्य वा अन्त्यलोपः। कृकलासे हारा०

क्रकचपृष्ठी = स्त्री क्रकच इव पृष्ठं यस्याः ङीष्। (कै) मत्स्यभेदे। त्रिका०।

क्रकचव्ययद्वार = पु० लीलावत्युक्ते क्रकचच्छेद्यवस्तुनोवेतन ज्ञानार्थे तत्फलज्ञापके गणितभेदे यथा “क्रकचव्यवहारे करणसूत्रं वृत्तम्। पिण्डयोगदलमग्रमूलयोर्दैर्घ्यसङ्गुणितगङ्गुलाप्लकम्। दारुदारणपथैः समाहतं षट्स्वरेषुविहृतं करात्मकम्। उदाहरणम्। मूले नखा(२०)ङ्गुलमितोऽथ नृपा(१६)ङ्गुलोऽग्रे पिण्डः शताङ्गुलमितं किल यस्य दैर्घ्यम्। तद्दारुदारणपथेषु चतुर्षु किं स्याद्वस्तात्मकं वद सखे! गणितं द्रुतं मे। (तदाकारदर्शनचित्रम्) २० क्राकअंदारुविषमम् २६, १०० न्यासः पिण्डयोग ३६ दलं। १८। दैर्घ्येण १०० सङ्गुणितं १८००। दारुदारणपथैश्चतुर्भिगुणितं ७२००। षटस्वरेषु ५७६ विहृत जातं करात्मकंगणितं २५/२। क्रकचान्तरे करणसूत्रं सार्द्धवृत्तम्। छिद्यते तु यदि तिय्यपुक्तवत्पिण्डविस्तृतिहतेः फलं तदा। इष्टिकाचितिदृषच्चितिखातक्राकचव्यवहृतौ खलु मूल्यम्। कर्म्मकारजनसम्प्रतिपत्त्या तन्मृदुत्वकठिनत्ववशेन। उदाहरणम्। यद्विस्तृतिर्द्दन्त ३२ मिताङ्गुलानि पिण्डिस्तथा षोडश यत्र काष्ठे। छेदेषु तिर्य्यङ्गवसु प्रचक्ष्वकिं स्यात् फलं तत्र करात्मकं मे।। न्यासः विस्तारः ३२ पिण्डः। १६। पिण्डविस्तृतिहतिः (तदाकारचित्रम्।) ३२ १६ का क व्यं का ष्ठि स न न् १६ ३२ ५१२। दारुदारणमार्गैर्नवभिर्हता ४६०८। षट्स्वरेषु ५७६ विहृता जातं फलं हस्ताः। ८।”

क्रकचा = स्त्री क्रकचस्तदाकारोऽस्त्यस्याः अर्श० अच् टाप्। केतकीवृक्षे रत्नमा०।

क्रकण = पु० क्र इति कणति शब्दायते कण–अच्। (कयार) पक्षिभेदे अमरः स्त्रियां जातित्वात् ङीष्।

क्रकर = पु० क्र इति शब्दं कर्त्तुं शीलमस्य ताच्छील्ये ट। क्रकण (कयार) १ पक्षिणि अमरः स्त्रियां ङीष्। २ करीरवृक्षे ३ करपत्रास्त्रे च पु० ४ दीने त्रि० मेदि० “चोरयित्वा तु पत्रोर्ण्णं क्रकरत्वं नियच्छति” भा० अनु० १११ अ०। “चकोरकलविङ्कमयूरक्रकरेत्याद्युपक्रमे “विष्करालधवः शीतमधुराः कषाया दोषशमनाश्च” इति सामान्यत उक्त्वा “वातपित्तहरा वृष्या मेधाग्निवल वर्द्धनाः। लघवः क्रकराः हृद्यास्तथा चैवोपचक्रकाः” सुश्रु० तन्मांसगुणा उक्ताः।

क्रतु = पु० कृ–कतु। १ यूपसहिते, सोमसाध्ये यज्ञे, २ संकल्पे, ब्रह्मणोमानसे पुत्रे ३ ऋषिभेदे, ४ धैश्वदेवभेदे, ५ इन्द्रि येषु च। ६ विष्णौ तस्य सर्व्वयज्ञमयत्वेन सयूपयज्ञ रूपत्वमपीष्टं यथाह “यज्ञईज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः” विष्णुस०। “सर्व्वयज्ञस्वरूपत्वात् यज्ञः यूपसहितोयज्ञः क्रतुरिति” भाष्यम्। तेन क्रतुशब्दस्य यूपसहितयज्ञबोधकता। अतएव तत्तद्यागे यूपविशेषाः शतपथव्राह्मणादौ उक्ताः। तत्र सोमसाध्ययागाश्च त्रय क्रतवः “त्रीन् क्रतूनन्वाहाग्नेयमुषस्यमाश्विनम्” श्रुतौ “इत्य ग्नेयः क्रतुः अथोषस्यः” “अथाश्विनः” आश्व० सौ० ४। १३। ८। १४। १। १५। १। सूत्रेषु दर्शिताः। अन्येऽपि क्रतदीवेदेषु दर्शितास्ततएवा वगम्याः। संकल्पश्च कामनाधीनः चित्तवृत्तिभेदः यथोक्तम् “कामः क्रतुः कर्म्म जन्मेत्येवमेषां क्रमोभवेत्। पुंसोया विषयापेक्षा स काम इति भण्यते। सएव वर्द्धमानश्चेत् क्रतुत्वं प्रतिपद्यते”। “सचेरतिशयः काम्ये विषये क्रतुरीर्य्यते” इत्युक्ते ७ रुचेराधिक्ये च। ८ प्रज्ञायां निघ०। ९ स्तवनादिकर्म्मणि च। “पुरुष्टुत! क्रत्वा नः सस्ति” ऋ० ४। २१। १०। “क्रत्वा कर्म्मणा स्तुत्यादिहेतुना” भा०। क्रतुनामा मुनिश्च “ब्रह्मणोमानसाः पुत्रा विदिताः षण्महर्षयः। मरीचिरत्र्यङ्गिरारसौ पुलस्त्यः पुलहः क्रतुः” भा० आ० ६५ अ० उक्तः। “क्रतोरपि क्रियाभार्य्या वालिखिल्यानसूयत। ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा” भाग० ४। १। ३२। तद्वंशाद्युक्तम् “ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन् मरीचिमत्र्यङ्गिरसौ पुलस्व्यं पुलहं क्रतुम्। वसिष्ठञ्च महातेजाः सोऽसृजत् सप्त मानसान्” हरिवं० १ अ०। विश्वेदेवाश्च त्रयोदश यथा “आत्मार्थे चासृजत् पुत्त्रान् लोककर्तॄन् पितामहः। विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः। विश्वेशं प्रथमं नाम महातपसमात्मजम्। सर्व्वाश्रमपदं पुण्य नाम्ना धर्म्मंस सृष्टवान्। दक्षं मरीचिमत्रिञ्च पुलस्त्यं पुलहं क्रतुम्। वशिष्ठं गौतमञ्चैब भृगुमङ्गिरसं मनुम्। अथर्तभूता इत्येते ख्याताश्चैव महर्षयः। त्रयोदश सुता येषां वंशा वै संप्रतिष्ठिताः”। हरिवं० ३०४ अ० जटाधरेण तु “विश्वेदेवा दश स्मृता” इत्युक्तम्। गणदेवता शब्दे तन्मूलं वक्ष्यते। कल्पभेदादविरुद्धम् तत्र प्रज्ञा निश्चयः अध्यवसायः यथाह “अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मि~ल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत” छा० उ०। “कथमुपासीत। स क्रतुं कुर्वीत क्रतुर्निश्चयोऽध्यवसायश्च एवमेव नान्यथेति अविचलः प्रत्ययस्तं क्रतुं कुर्वीतोपासी तेत्यनेन व्यवहितेन सम्बन्धः। किं पुनः क्रतुकरणेन कर्त्तव्यं प्रयोजनम्? कथं वा क्रतुः कर्त्तव्यः? क्रतुकरणं धाभिप्रेतार्थसाधनं कथम्? इत्यस्यार्थस्य प्रतिपादनार्थमथेत्यादिग्रन्थः। अथ खल्विति हेत्वर्थः। यस्मात् क्रतुमयः क्रतुपायोऽध्यवसायात्मकः पुरुषो जीवः। यथाक्रतुर्यादृशः क्रतुरस्य सोऽयं यथाक्रतुर्यथाध्यवसायो यादृङ्निश्चयोऽस्मि~ल्लोके जीवन्निह पुरुषो भवति। तथेतोऽस्माद्देहात् प्रेत्य मृत्वा भवति। क्रत्वनुरूपफलात्मको भवतीत्यर्थः एवं ह्येतच्छास्त्रतो दृष्टम्। “यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरमित्यादि” यत एवं व्यवस्था शास्त्रदृष्टाऽतः स एवं जानन् क्रतुं कुर्व्वीत यादृशं क्रतुं वक्ष्यामस्तम्। यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलमतः स कत्तेव्यः क्रतुः” भा०। १० आषाढमासे चातुर्मास्यादियागारम्भकत्वात् तस्य तथात्वम् “वाजाय स्वाहा प्रसवाय स्वाहाऽपिजाय स्वाहा क्रतपे स्वाहा वसवे स्वाहाऽहर्पतये स्वाहाह्ने मुग्धाय स्वाहा मुग्धाय वैनंशिनाय स्वाहा, विनंशिन आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाघिपतये स्वाहा प्रजापतये स्वाहा” यजु० १८। २८। “वाजादीनि चैत्रादिमासानां नामानि तन्नाम गृहीत्वा होतव्यमित्यर्थः अन्नप्राचुर्द्याच्चैत्रोऽन्नरूपः, प्रसवायानुज्ञारूपाय जलक्रीडादौ अभ्यनुज्ञादानात् प्रसवो वैशाखः। अपिजाय अप्सु जायत इत्यपिजः सप्तभ्या अलुक् जलक्रीडारतत्वादपिजो ज्यैष्ठः। क्रतवे यागरूपाय चातुर्मास्यादि यागप्राचुर्य्यात् क्रतुरषाढः” वेददो०।

क्रतुदोषनुद् = पु० क्रतूनामिन्द्रियाठां दोषं नुदति क्विप्। प्राणायामे शब्दचि० “दह्यन्ते ध्मायमानानां धातूनाञ्च यथा मलाः। प्राणायामैस्तथा दोषाः शाम्यन्तीन्द्रियगो चराः” मनूक्तेस्तस्येन्द्रियदोषनाशकत्वम्

क्रतुद्रुह् = पु० क्रतवे द्रुह्यति द्रुह–क्विप्। १ असुरे जटाधरः नास्तिके च

क्रतुद्विष् = पु० क्रतवेद्वेष्टि द्विष–क्विप्। १ असुरे त्रिका० २ नास्तिके च।

क्रतुध्वंसिन् = पु० क्रतुं दज्ञयज्ञं ध्वंसयति ध्वन्स–णिच्णिनि। शिवे अमरः। वीरभद्रद्वारा तद्यज्ञध्वंसंनात्तस्य तथात्वम् तत्कथा काशी० ८९ अ० यथा “महावीरोऽसि रे भद्र! मम सर्व्वगणेष्विह। वीरभद्राख्यया त्वं हि प्रथितिं परमां व्रज। कुरु मे सत्वर कार्य्यं दक्ष यज्ञं क्षयं नय। ये त्वां तत्रावमन्यन्ते तत्साहाय्यविधायिनः। ते त्वयाप्यवपमन्तव्या व्रज पुत्त्र! शुभोदय!। इत्याज्ञां मूर्द्ध्निचाधाय स ततः पारमेश्वरीम्। हरं प्रदक्षिणीकृत्य जग्मिवानतिरंहसा। ततस्तदनुगान् शम्मुः स्वनिश्वाससमुद्भवान्। शतकोटिमितानुग्रान् गणानन्यानवासृजत्। ते गणा वीरभद्रं तं यान्तं केचित् पुरोगताः। केचित्तदनुगा याताः केचित्तत्पाश्वेतोययुः। अम्बरं तैः समाक्रान्तं तेजाविजितभास्करैः। शृङ्गाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै। आचूडमूलाः कैश्चिच्च विधृता वै शिलोच्चयाः। उत्पाट्य महतो वृक्षान् केचित् प्राप्तामख ङ्गणम्। कैश्चिदुत्पाटितायूपाः केचित्कुण्डान्यपूरयन्। मण्डपं ध्वंसयामासुः केचित् क्रोधपरा गणाः। अचीखगन् यज्ञवेदीः केचिद्वै शूलपाणयः। अभक्षयन् हवींष्यन्ये पृषदाज्यं पपुः परे। दध्वंसुरन्नराशींश्च केचित् पर्व्वतसन्निभान्। केचिद्वै पायसाहाराः केचिद्वै क्षीरपायिणः। केचित् पक्वान्नपुष्टाङ्गा यज्ञषात्रान्यचूर्ण्णयन्। अमोचयन् स्रुचां दण्डान् केचिद्दोर्दण्डशा लिनः। व्यभञ्जन् शकटान् केचित् पशून् केचिदलोलुपन। अग्निं निर्वापयामासुः केचिदत्यग्नितेजसः। स्वयं परिदधुश्चान्ये दुकूलानि मुदा युताः। जगृहुः केचन पुनारत्नानां पर्वतं कृतम्। एकेन च मगो देवः पश्यंश्चक्रे विलोचनः। पुष्णोदन्ताबहीसन्थः पातयामास कोपनः। यज्ञः पलायितो दृष्ट्वा केनचिन्मृगरूपघृक्। शिरोविरहितश्चक्रे तेन चक्रेण दूरतः”।

क्रतुपुरुष = पु० क्रतुः पुरुष इव। पुरुषाकारे क्रतुमये यज्ञवराहे। तद्रूपवर्णनञ्च हरिवं० २२४ अ० “वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः। अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः। अहरात्रेक्षणधरो वेदाङ्ग- श्रुतिभूषणः। आज्यनासः स्रुवतुण्डः सामषोषस्वनो महान्। सत्यधर्म्ममयः श्रीमान् क्रमविक्रमसत्कृतः। क्रियासत्रमहावोणः पुशुजानुर्म्मखाकृतिः। उद्गात्रन्त्रो होमलिङ्गो वीजौषधिमहाफलः। वाय्वन्तरात्मा सत्रस्फिक् विकृतः सोमशोणितः। वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्। प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः। दक्षिणाहृदयो योगी महासत्रमयो महान्। उपाकर्म्मौष्ठरुचकः प्रवर्ग्यावर्त्तभूषणः। नानाच्छन्दोगतिपथो गुह्योपनिषदासनः। छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः। भूत्वा यज्ञपराहोऽसौ द्रागधः पाविशद्गुरुः”। “रूपं तवैतन्ननु दुष्कृतात्मगां दुर्दर्शनं देव! यदध्वरात्मकम्। छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्। स्रुक्तुण्ड आसीत् स्रुव ईश! नासयोरिडो दरे चमसाः कर्णरन्घ्रे। प्राशित्रमास्ये ग्रसते ग्रहास्तु ते यच्चर्वणन्ते भगवन्नग्नितोत्रम्। दीक्षानुजन्मोपसदः शिरो धरं तेप्रायणीयोदयनीयदंष्ट्र!। जिह्लाप्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते। सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः! सत्राणि सर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः”। भाग० ३। १३ अ०। “यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति रूपमित्यादि चतुर्भिः छन्दांसि गायत्र्यादीनि यज्ञाङ्गभूतछन्दआद्यनुवादेन भगवदवयवता विधीयते बर्हिःशब्दे दीर्घाभाव आर्षः दृशि चक्षुषि चातुर्होत्रं हौत्रादिचतुष्टयं कर्म्म। स्रुक् जुहूः। तुण्डे मुखाग्रे। स्रुवोनासिकयोः। इडाभक्षण पात्रं चमसा ग्रहाश्च सोमपात्राणि। प्राशित्रं ब्रह्मभाग पात्रं ग्रस्यतेऽनेनेति ग्रसनं मुखान्तर्वर्त्ति च्छिद्रं चर्वणं भक्षणम्। दीक्षा दीक्षणीयेष्टिः। अनुजन्म वारं बारम् अभिव्याप्तिः। उपसदस्तिस्र इष्टयः शिरोधरं ग्रीवा। प्रायणीया दीक्षानन्तरेष्टिः उदयनीया समाप्तीष्टिः ते एव दंष्ट्रे यस्य। प्रवर्ग्यो महावीरः प्रत्युपसदः पूर्ब्बं क्रियते। सभ्योहोम रहितोऽग्निः आसबथ्यः औपासनाग्निः ततो द्वन्द्वैक्यं तव क्रतुरूपस्य शीर्षकं शिरः। चितयः इष्टकाचयनानि पञ्च असवः प्राणाः। प्रातःसवनादीनि अवस्थितिरासनं बाल्याद्यवस्था वा। अग्निष्टोमोऽत्यग्निष्टोमः उक्थः षोडशी वाजपेयोऽतिरात्रः आप्तोर्यामः इति सप्त संस्थाविभेदाः सप्त त्वडमांसादिधातवः। सत्राणि द्वादशाहादीनि वहुयागसङ्घातरूपाणि, असोमा–यज्ञाः ससोमाः क्रतवस्तद्रूपस्त्वं इष्टिर्यजनं अनुष्ठानञ्च तदेव बन्धनं यस्य सः” श्रीधरः।

क्रतुपशु = पु० क्रतोरङ्गं पशुः। अश्वे हारा० तस्य अश्वमेधे प्राशस्त्यात् तथात्वम्।

क्रतुप्रा = पु० क्रतून् कर्म्माणि प्राति प्रा–पूर्त्तौ क्विप्। कर्म्मपूरके “महश्चर्कर्म्यर्वतः क्रतुप्राः” ऋ० ४। ३९। २। “क्रतुप्राः कर्मणां पूरकः” भा०।

क्रतुभुज् = पु० क्रतुं क्रतुदेयं हविर्भुङ्क्ते भुज–क्विप्। देवे क्रतुदेयद्रव्यत्यागोद्देश्यत्वात्तेषामचेतनत्वेऽपि तद्भोगित्वं बोध्यम् चेतनत्वे तु तेषां मनुष्यादीनामिव भोगोनास्ति किन्तु दृष्टिमात्रेण यथाह “न वै देवा अश्नन्ति पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति” छा० उ०।

क्रतुराज् = पु० क्रतुषु राजते राज–क्विप्। १ अश्वमेधेयज्ञे तस्य सर्वयज्ञानां श्रेष्ठत्वात् तथात्वम्। “यथाश्वभेधः क्रतुराट् सर्वपापापनोदनः” मनुः २ राजसूये च शब्दचि०

क्रतुविक्रयिन् = त्रि० क्रतुं तत्फलं विक्रीणाति वि + क्रीणिनि। स्वकीयक्रतुफलस्य अन्यदीयत्वख्थापनेन ततोधनग्राहके। “पिशुनानृतिनोश्चापि क्रतुविक्रयिणस्तथा” मनुः।

क्रतुस्थला = स्त्री अप्सरोभेदे “पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ” यजु० १५। १५।

क्रतुस्पृश् = त्रि० क्रतुमिन्द्रियं स्पृशति क्विन्। इन्द्रियस्पर्शिनि “अपश्यन् हृदिस्पृक् क्रतुस्पृक्” आश्व० श्रौ० ५। १०५

क्रतूत्तम = पु० कतुषूत्तमः। राजसूययज्ञे त्रिका०।

क्रत्वर्थ = पु० क्रतवेऽयम् अर्थेन सह नित्यस० विशेष्यतिङ्गता च, क्रतुरर्थोयस्य वा। क्रतूपकारके। तल्लक्षणादिकञ्च जै० सू० भाष्ययोर्दर्शितं यथा “अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा” १ सू०। “तृतीयेऽध्याये श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोगलक्षणमुक्तम्। इह इदानीं क्रत्वर्यपुरुषार्थौ जिज्ञास्येते, –कः क्रत्वर्थः? कः पुरुषार्थः? इति, यापि प्रयोजकाप्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थपुरुषार्थजिज्ञासैव। कथम्?। अङ्गं क्रत्वर्थः, प्रधानं पुरुषार्थः, फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः, प्रयोजकः कश्चित् पुरुषार्थो,ऽप्रयोजकः क्रत्वर्थः। तस्मात् “क्रत्वर्थपुरुषार्थयोर्जिज्ञासा”–इति सूत्रितम्। तत्र अथातःशब्दौ प्रथमे एवाध्याये प्रथमसृत्रे वर्णितौ। अथेति प्रकृतं शेषविनियोगलक्षणमपेक्षते। अतः–इति क्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते। क्रतये यः, स क्रत्वर्थः, पुरुषाय यः, स पुरुषार्थः। जिज्ञासाशब्दोऽपि तत एव समधिगतः,–ज्ञातुमिच्छा जिज्ञासा–इति। तदेतत् प्रतिज्ञासूत्रम्,–“क्रत्वर्थपुरुषार्थयोर्जिज्ञासा”– इति”। (४। १। १) शवरभाष्यम् “यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽविभक्तत्वात्” सू० २। “अथ किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषाथः इति लक्षणं वाच्यं, तथा हि लवीयसी प्रतिपत्तिः, उपदेशे गरीयसी तदुच्यते,–यस्मिन् प्रीतिः पुरुषस्यं, (यस्मिन्कृते पदार्थे पुरुषस्य प्रीतिर्भवति) स पुरुषार्थः पदार्थः। कुतः?। तस्य लिप्सा अर्थेन च भवति, न शास्त्रेण, क्रत्वर्थो हि शास्त्रात् अवगम्यते, न अन्यथा, अविभक्तो हि पुरुषार्थः प्रीत्या, यो यः प्रीतिसाधनः स पुरुषार्थः। पुरुषार्थं लक्षिते तद्विपरीतः क्रत्वर्थः–इति क्रत्वर्थस्य लक्षणं सिद्धम् (१ वर्ण्णकम्)। एवं वा सूत्रं वर्ण्यते,–दर्शपूर्णमासयोराम्नायते,–‘अनतिदृश्यं स्तृणाति अनतिदृश्यमेवैनं प्रजया पशुभिः करो ति० इति तथा आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्, वत्सजानुम् पशुकामस्य वेदिं कुर्यात्, गोदी हनेन पशुकामस्य प्रणयेत्”–इत्येवमादीति। तत्र संशयः,–किम् एवञ्जातीयकाः क्रत्वर्थाः उत पुरुषार्थाः–इति। किं प्राप्तम्– क्रत्वर्थाः इति। कुतः? प्रत्यक्ष उपकारस्तेभ्यो दृश्यते क्रतोः, पुरीषहरणं वेदिस्तरणं च, तदुक्तं, (२। १। ३ सू०) द्रव्यगुणसंस्कारेषु वादरिः’–इति। तस्मात् क्रत्वर्थाःएवं प्राप्ते ब्रूमः, यस्मिन प्रीतिः पुरुषस्य स पुरुषार्थ एव इति, पीतिस्तेभ्यो निर्वर्त्त्यते, तस्मात् एते पुरुषार्थाः–इति। ‘ननु प्रत्यक्षः उपकारः क्रतोर्दृश्यते–इत्युक्तम्’। उच्यतेसत्यं दृश्यते, न तु क्रतोरुपकाराय एभ्यः सङ्कीर्त्तितेभ्यः, फलेभ्य एते श्रूयन्ते, न च य उपकरोति स शेषः, यस्तु यदर्थः श्रूयते, स तस्य शेषः–इत्युक्तं(३। १। २ सू०)‘शेषः परार्थत्वात्’–इति। (२ वर्णकम्) एवं वा, द्रव्यार्जनम् उदाहरणम्, इह द्रव्यार्जनंतैस्तै र्नियभैः श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य जयादिना, वैश्यस्य कृष्यादिना। तत्र सन्देहः,–किं क्रत्वर्थो द्रव्यपरिग्रहः उत पुरुषार्थ इति। किं प्राप्तम् क्रत्वर्थो नियमात्, यद्येष पुरुषार्थः स्यात्, नियमोऽनर्थको भवेत्, प्रत्यक्षेण एतत् अवगम्यते,–नियमादनियमाच्चार्जितं द्रव्यं पुरुषं प्रीणयति–इति, तस्मात् क्रत्वथुः कामश्रुतिभिश्चास्य सहैकवाक्यता दृष्टा, इतरथा, अनुमेयेन फलवाक्येन सहैकवाक्यतां यायात्। लिङ्गं चापि भवति,–’अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्, यस्याहिताग्नेः सतोऽग्निर्गृ हान् दहेत्, यस्य हिरण्यं नश्येदाग्नेयादीनि निर्वपेत्–इत्येवमादि तद्धि द्रव्योपघाते चोद्यते यदि द्रव्यपरिग्रहः कर्मार्थः तत एतदपि सति सम्बन्धे कर्मार्थम्–इत्युच्यते इतरथा असति सम्बन्धे कर्म्मार्यम्–इत्यनुमीयते फलं च अस्य कल्प्येत। तस्मात् यजतिश्रुतिगृहीतं द्रव्यार्जनं येन बिना यागो न निर्वर्त्त्यते, स यागस्य श्रुत्या परिगृहीतः–इति गम्यते। तस्मात् क्रत्वर्थः–इति। एवं प्राप्ते ब्रूमः,–पुरुषार्थः–इति। यस्मिन् कृते पदार्थे प्रीतिः पुरुषस्य भवति तस्मात् अस्य लिप्सा अर्थलक्षणा शरीरधारणार्था यस्य शरीरं ध्रियते व्यक्तं तस्यास्ति द्रव्यं शरीरिणां यागः श्रूयते तस्मात् विद्यमानद्रव्यस्य विनियोग उच्यते। न द्रव्यार्ञनं श्रुतिगृहीतं विनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य यागो निर्वर्त्त्यत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः। अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनं, तन्नान्यत्र विनियुज्येत तयार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात्। अपि च उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः, तत्र एतन्नोपपद्यते,–अपि वा एष सुवर्गाल्लोकाच्छिद्यते, यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वा अतिपातयेत्’–इति एवञ्च सति प्रयोगकालाद्बहिरेतदङ्गं सदनुपकारकं स्यात्। न च आधानवत् भवितुमर्हति, तत्र हि वचनं–वसन्तेऽग्निमादधीत–इति न चैतत् अङ्गम् अथ युदुक्तं–नियमवचनम् अनर्थकं पुरुषार्थे द्रव्यपरिग्रहे सति–इति। उच्यते, नैतावता पुरुषार्थता व्यावर्त्त्यतेप्रत्यक्षा हि सा, त्वया च परोक्षया युक्तिबुद्ध्या व्यपदि श्यते, न च परोक्षं प्रत्यक्षस्य बाधकं भवति, तस्मात् नियमवचनात् काममपरमदृष्टं कल्प्येत न तु दृष्टहानम् तस्मात् यत् पुरुषस्य प्रयोजनं प्रीतिः तदर्थं धनस्य अर्जनम्–इत्येवं च सति व्रीहिणा यागः कर्त्तव्यः प्रीत्यर्थमर्जितेन वा क्रत्वर्थमर्जितेन वा न अत्र कश्चित् विशेषः प्रीत्यर्थम् उपार्जितोऽपि व्रीहिः व्रीहिरेव, कर्मार्थम् उपार्जितोऽपि व्रीहिः व्रीहिरेव। तस्मात् न प्रयोगचोदनागृहीतं द्रव्यार्जनम्। अथ यदुक्तम्–अनुमेयेनाप्रकृतेन वा शव्देन युष्मत्पक्षे नियमख एकवाक्यता, अस्मत्पक्षे तु दृष्टेन प्रयोगपचनेन–इति नैष दोषः अस्मत्पक्षेऽपि दृष्टेन भुजिना न फलवचनेन। ‘कथं तर्हि–नियमाददृष्ट भवति–इति गम्यते’। यथैव भवदीये पक्षे। आह अस्मत्पक्षे फलवत एकवाक्यभावात् फलवत उपकरोति इति गम्यते’। उच्यते अस्मत्पक्षेऽपि फलवत एवैकवाक्यभावः, एतावांस्तु विशेषः–तव श्रुतं फलं मम तु दृष्टम्। अथ यत् लिङ्गम् उक्तं–गृहदाहादिषु कर्म श्रूयते–इति। तत्र उच्यते यद्यपि न क्रत्वर्थं द्रव्यार्जनं तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावाय वा क्षामवत्यादीनां विधानम् उपपद्यत एव। तस्मात् पुरुषार्थं द्रव्यार्जनं प्रीत्या हि तदविभक्तम्” भाष्यम् तत आरभ्य क्रत्वर्थाः पदार्थास्तत्र दर्शिताः ततएवावगम्याः

क्रत्वादि = पु० पाणिन्युक्ते सोः परतः स्थितस्य आद्युदात्ततानिमित्ते शब्दगणे। स च गणः “क्रतु दृशीक प्रतीक प्रतूर्ति हव्य भग”।

क्रत्वीश्वर = न० क्रतुता स्थापितमीश्वरलिङ्गम्। काश्याम् क्रतुना मुनिना स्थापिते शिवलिङ्गमेदे “वरणायास्तटे रम्ये क्रत्वीश्वरमनुत्तमम्। वाशिष्ठमीश्वरञ्चैव लभते वसतिंत्विह” काशी० १८ अ०

क्रथ = बधे भा० पर० सक० सेट् घटा०। क्रथति अक्रथीत्–अक्रा थीत्। चक्राथ, णिच्–क्रथयति–ते। अचिक्रयत् त

क्रथ = प्रतिहर्षे चु० उभय० सक० सेट् घटा०। क्राथयति–ते अचिक्रथत्–त। क्रथयां–बभूव आस चकार चक्रे

क्रथन = न० क्रथ–बधे ल्युट्। १ मारणे २ छेदने च “राजन्योच्चांसकूट क्रथनपटुरिति” प्रवीधचन्द्रोदयः। ३ दानवभेदे पु०। “क्रथनश्च महावीर्य्यः” भा० आ० ६७ अ०।

क्रथनक = पुंस्त्री क्रथने दन्तकरणककण्टकच्छेदने प्रसृतः कन्। उष्ट्रे अमरः स्त्रियां जातित्वात् ङीष्।

क्रथकैशि(शी)क = पु० ब० व० देशभेदे “सपाण्ड्यान् क्रथकैशीकान्” भा० स० १३० श्लो० “अथेश्वरेण क्रथकैशिकानाम्” “प्रत्युज्जगाम क्रथकैशिकस्तम्” रघुः। ह्रस्वमध्यात् संज्ञायां कन्। सितागुरुणि न० शब्दच०।

क्रद = रोदने वैकल्ये अक० आह्वाने सक० भ्वा० पर० इदित् सेट्। क्रन्दति अक्रन्दीत् चक्रन्द। भावे क्रन्द्यते क्रन्दितम्। अव्यक्तशब्दकरणे “अक्रन्ददाग्नः स्तनयन्निव द्यौः” यजु० १२। ६। अक्रन्दत् क्रन्दति विस्फूर्जति” वेददी०। “यदक्रन्दः प्रथमं जायमानः” यजु० २९, १२।अनु + क्रन्दनेनानुगमने सक० अनुक्रन्दति पुत्रम् क्रन्दनेनानुयातिअभि + आभिमुख्येन शत्रुप्रभृतेराह्वाने सक०। “अभिक्रन्दन् वृषायसे” ऋ० १०। २१। ८। “अभिक्रन्दन् आभिमुख्येन युद्धार्थं शत्रूनाह्वन्” भा०। “आभिमुख्येन शब्दकरणे अक०। “अभिक्रन्द स्तनय गर्भम्” ऋ० ५। ८३। ७। “अभिक्रन्द भूम्यभिमुखं क्रन्द शब्दाय” मा०।आ + आह्वानपूर्ब्धकरोदने सक०। “आक्रन्दत् भीमसेनं वै” भा० व० १५७ अ०। सम्यक्क्रन्दने च “आक्रन्दिषुः सखीनह्वन्” भट्टिः। “तदीयमाक्रन्दितमार्त्तसाधोः” रघुः।सम् + आ + सम्यगाह्वानपूर्ब्बकक्रन्दने “हा तात! धर्म्मराजेति समाक्रन्दन्महाभये” मा० आश्र० १०७३ श्लो०नि + यथानामशब्दोच्चारणे। “न्यकन्दीज्जन्म प्रब्रुवाणो यथास्य शब्दस्तथा नामेरयति वाचम्” निरु० ९। ४।प्र + स्तवने “प्र वः स्पडक्रन्त् सुविता यः” ऋ० ५। ५९। १। “अक्रन् स्तौति” भा० वेदे गणव्यत्ययात् शपीलुक्।वि + विशेषेण क्रन्दने। सम् सम्यक् क्रन्दने।

क्रद = वैकल्ये म्वा० आत्म० अक० सेट घटादि०। क्रदते अक्रदिष्ट चक्रदे णिच् क्रदयति। यङ् वेदे कनिक्रद्यते यङ लुकि कनिक्रत्ति कनिक्रदीति “उपस्थे वृषभः कनिक्रदत्” ऋ० ९। ७७। ५। “कनिक्रदत् शब्दं कुर्वन्” मा०।अनु + अनुगमने सक०। “संनशेयं क्षौणीरनुचक्रदे” ऋ० ८। ३। १०। “अनचक्रदे अनुगच्छति” भा०।

क्रन्द = निरन्तरशब्दकरणे चुरा० अक० उभ० सेट्। प्रायेणाङ्पूर्ब्बः आक्रन्दयति ते आचक्रन्दत् त। आक्रन्दयाम् बभूव आस चकार चके।

क्रन्दन = न० क्रदि–भावे ल्युट्। १ शोकादिनाऽश्रुपातहेतुव्यापारे रोदने शब्दरत्ना० योधवीरादेः २ आह्वाने च अमरः ३ विडाले पुंस्त्री शब्दमा०। स्त्रियां जातित्वात् ङीष्।

क्रन्दित = न० क्रदि–भावे क्त। रोदने अमरः। आह्वाने मेदि० योधानां चीत्कारशब्दकरणे शब्दरत्ना०।

क्रप = कृपायाम् भ्वा० अक० आत्म० सेट् घटादि। क्रपते अक्रपिष्ट चकपे णिचि क्रपयति ते। “उतस्तासुर्मधवन्नक्रपिष्ट” ऋ० ७। २०। ९। वेदेऽस्य क्वचित् सप्रसाणम्। “उतो द्यपन्त धीतयो देवानां नाम विभ्रतीः” ऋ० ९। ९९। ४। “विन्दन्त ज्योतिश्च कृपन्त धीभिः” ऋ० ४। १। १४। “मर्तानां चिदुर्वशीरकृपन्” ऋ० ४। २। १८। “विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्यः” ऋ० १०। २४। ५। “काविं कृपमाणमकृणुतं विचक्षे” ऋ० १। ११६। १४।

***