कॄ = विक्षेपे तुदा० पर० सक० सेट्। किरति अकारीत्। अकारिष्टाम् चकार चकरतुः चकरिव। करीता। क(रि)रीष्यति करी(रि)तव्यः कार्य्यः। कर्म्मणि कीर्य्यते अकारि अकारिषाताम् अकारि(क(रि)री) सात्राम् किरन् कीर्य्यमाणः। कीर्ण्णःकीर्ण्णिः करी(रि)तुभ्अनु + पश्चात् क्षेपे अनुकिरति अनुकीर्ण्णःअप + हर्पवासभक्षणार्थतया खनने तत्र चतुष्पाजन्तु–पक्षि कर्त्तृके आ० सुट् च। अपस्किरते हृष्टो वृषः भक्षार्थी कुक्कुटः। वासार्थी श्वा वा। हर्षाभावे तु न सृट् न वा तङ। अपकिरति कुसुमम्।अव + अधःक्षेपणे दूरतःप्रक्षेपे च सक० अवकिरति मलार्थे सुट् अवस्करः। व्रतात् पतने अक०। अवकीण्णींआ + समन्तात् क्षेपणे विस्तारे च सक० “आकीर्ण्णमृषिपत्नीना मुटजद्वाररोधिभिः” रघुःउद् + उत्खनने (गाडा) उत्कीर्ण्णशब्दे उदा०सम् + उद् + छेदने विदारणे हिंसायां च सक० “मणौ वज्रसमुत्कीर्णे” रघुःउप + छेदने सुट् च। उपष्किरतिपरा + सम्यक क्षेपे व्याप्तौ च सक० पराकीर्ण्णःप्र + प्रक्षेपे सक० नानाजातीयैर्मेलने। प्रकीर्ण्णम्प्रति + हिंसायाम् सुट् च। “उरोविदारं प्रतिचस्करे नखैः” माघःवि + विक्षेपे सक० “व्यवीर्य्यत त्र्यम्बकपादमूलेः कुमा०सम् + मिश्रणे। सङ्करः सङ्कीर्ण्णः

कॄ = हिंसने क्य्रादि० उभ० सक० सेट्। कृणाति अकारीत्। चकार चकरे करीता करो(रि)ष्यति ते। कीर्णः कीर्णिः

कॄ = विज्ञाने चुरा० आत्म० सक० सेट्। कारयते अचीकरत।

कॄत = संशये सशब्दे चु० उभ० सक० सेट्। कीर्तयति–ते अचकीर्त्तत्–त कविकल्पद्रुमः।

कॢप्त = त्रि० कृप–क्त। १ रचिते, २ नियते, “कॢप्तेन सोपानपर्थनेति” रघुः। ३ छिन्ने च। “कॢप्तकेशनखश्मश्रुः” मनुः

कॢप्तकील = स्त्री कॢप्तं कीलयति कीलि–अण्। व्यवस्थालि पौ त्रिका०

कॢप्तधूप = पु० कॢप्तोधूपोयेनं। सिह्णके जटा०

कॢप्ति = स्त्री कृप–भावे क्तिन्। १ कल्पने २ अवधारणे ३ नैयत्येच। “तेषां कॢप्तिमन्वितरे कल्पन्ते” शत० ब्रा० १२। १। १। ७ “संज्ञामूर्त्तिकॢप्तिस्त्रिवृत्कुर्व्वतः” शा० सू०

कॢप्तिक = त्रि० कॢप्तं मूल्यदानेन स्वत्वं देयत्वेनास्त्यस्य ठन् ततः आगतः कन् वा। २ क्रीते हला० तस्य मूल्यदानेन स्वत्वनैयत्यापादकतया तथात्वम्।

केकय = पु० ब० व० देशभेदे। “अतऊर्द्ध्वं जनपदान्निबोध गदतो मम” इत्युपक्रमे “उपावृत्तानुपावृत्ताः सुराष्ट्राः केकयास्तथा” भा० उ० ९ अ०। “उभौ भरतशत्रुघ्नौ केकयेषु परन्तपौ” रा० अ० ६७ अ० “केकयांस्ते गमिष्यन्तोहयानारुह्य सन्मतान्” रामा० अ० ६० अ० “तथा केकयराजानं वृद्धं परमधार्म्मिकम्। श्वशुरं राजसिहञ्च सपुत्रं तमिहानय” रामा० आ० १३। १४ “अयं केकयराजस्य पुत्रोवसति पुत्रक! त्वां नेतुमागतो वीरो युधाजित् मातुलस्तव” रामो० ११। १६। स च देशः वृ० स० कूर्म्मविभागे उत्तरस्यामुक्तः। “उत्तरतः कैलासः इत्युपक्रमे “केकयवसातियामुनभोग प्रस्थार्जुनायनाग्नीध्राः” इति। केकयानां राजा अण यादेरियादेशः। कैकेय तद्देशनृपे। बहुषु तस्य लुक्। केकयाः तद्देशनृपेषु ब० व०। सोऽभिजनोऽस्य अण्। कैकेय तद्देशवासिनि बहुषु तस्य लुक्। उपचारात् २ केकयनृपे पु० “सत्कृत्य केकयीपुत्रं केकयोधनमादिशत्” “सत्कृत्य केकयो राजा भरतस्य ददौ धनम्” रा० अ० ७। २१। १९। तस्यापत्यम् अण्। तदपत्ये पुंस्त्री० स्त्रियां तु भर्गा० न लुक्। कैकेयी “गच्छतातानुजाने त्वां कैकेयी सुप्रजास्त्वया” रामा० अ० ७०। १७। केकयात् जन्यजनकभावरूपपुंयोगे ङीप् केकयी। ३ केकयनृपकन्यायाम् स्त्री द्वापरयुगीये ४ नृपभेदे पु० “यदा तु पञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयञ्च” भा० भी० १२० अ० युधिष्ठिरं प्रति श्रीकृष्णोक्तिः

केकर = त्रि० के सूर्द्ध्नि करीतुं नेत्रतारां शीलमस्य कॄ–अच् अलुक् स०। निम्नोन्नताक्षियुक्ते १ पुरुषे (ट्येरा) अमरः “पित्राविवदमानश्च केकरो मद्यपस्तथा” मनुः पाठान्तरे। उपचारात् २ तथाचक्षुषि न० “तरक्षौ निहते चैव जायते केकरेक्षणः” शाता०। तद्धेतुतया तरक्षुबधौक्तः “चतुर्वर्ण्णस्तु केकरः” विश्वसारतन्त्रोक्ते चतुवर्ण्णात्मके ३ मन्त्रे पु० कमारशब्दे २१०६ पृ० विवृतिः

केका = स्त्री के मूर्द्ध्नि कायते कर्म्मणि ड अलुक्स०। मयूररवे अमरः “षड्जसंवादिनीः केकाः” रघुः। ततः अस्त्यर्थे इनिठनौ। केकिन् केकिक तद्युक्ते मयूरे पुंस्त्री इनौ स्त्रियां ङीप् ठनि टाप्

केकावल = पुंस्त्री० केकां रवभेदं वलते स्तृणाति वल–अच् केका + बा० अस्त्यर्थे वलच् वा। मयूरे शब्दच० स्त्रियां जातित्वात् ङीष्

केचन = अव्य० किमः + पुंजसिरूपं ततश्वन मुग्ध०। केचिदित्यर्थे एवं चित्–केचिदित्यप्यत्र। “ये नाम केचिदिह नः प्रथयन्त्यवज्ञाम्” मालतीमा०। पाणिनिमते द्विपदम् अतएव चिच्चनशब्दघटितमन्त्रान् पदकाराः द्विपदतया पेठुः

केचुक = न० कचु + स्वार्थे क पृषो०। कचुपदार्थे त्रिका०।

केणिका = स्त्री के मूर्द्ध्नि कुत्सितः अणकः स्त्रीत्वं लोकात्। पटकुट्याम् (तावु) पटमण्डपे हेमच०।

केत = मन्त्रणे निःश्रावणे (यथोचितभाषणे) च अद० चु० उ० सक० सेट्। केतयति ते अचिकेतत् त केतयाम् बभूव आस चकार चक्रे। केतितः सङ्केतः “क्षत्रधर्म्माणमप्याजौ केतयेत् कुलजं द्विजम्” भा० आनु० १५ ९५ “केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः” ननुः। सम् + इच्छाभेदे शब्दस्यार्थबोधकव्यापारे। “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” काव्यप्र० “साक्षात् सङ्केतितं योऽर्थम्” सा० द० अभिप्रायसूचके चेष्टाभेदे (इसारा) सक० “नामगृहीतं कृतसङ्केतम्” जय० “कान्तार्थिनी तु या याति सङ्केतं साऽभिसारिका” अमरः

केत = पु० कित–आधारे घञ्। १ निवासे “अब्जकुलिशाङ्कुश केतुकेतैः” भाग० १, १६, २६, भावे घञ्। २ वासे च “अवाङ् मुखाः पक्षिगणाः विशन्ति केतार्थमिवाशु वृक्षम्” भा० क० ४३३८। ३ प्रज्ञायां निरुक्त० ४ संकल्पे “देवासो अनु केतमायन्” ऋ० ४, २६, २,। “केतं संकल्पम्” भा०। ५ मन्त्रणे च। “आविष्टना पैजवनस्य केतम्” ऋ० ७, १८, २५, “केतं मन्त्रणम्” भा० ६ ज्ञातरि त्रि०। “प्रकेतोऽसि रुद्रेभ्यः” ताण्ड्य० ब्रा० १, १९, १०, प्रकेतः प्रकृष्टं ज्ञातासि” भा०। ७ ध्वजे पु०

केतक = पु० कित–निवासे ण्वुल्। “केतकः सूचिकापुष्पोजम्बुकः क्रकचच्छदः” इत्युक्तलक्षणे १ वृक्षे। २ तत्पुष्पे न०। “स्फुरितभृङ्गमृगच्छवि केतकम्” माघः। गौरादि० ङीष्। ३ केतकीत्यपि तद्वृक्षे स्त्री। “सुवर्ण्णकेतकी तुल्या लघुपुष्पा सुगन्धिनी” भावप्र०। “केतकः कटुकः स्वादुर्लघुस्तिक्तः कफापहः” भावप्र०। केतक्याः पुष्पम् अण् तस्य बहुलं लुक् लुकि स्त्रीप्रत्ययस्यापि लुक्। केतक ४ तत्पुष्पे न०। बहुलग्रहणात् पाटलादिवत् स्त्रीप्रत्ययस्य क्वचित् न लुक्। “केतकीपत्रगर्भा” अर्च्चयेदित्यमुवृत्तौ “न केतक्या सदाशिवम्” नैष० टी० मल्लिनाथधृतवाक्यम्। आ० त० शिवपूजनाधिकारे भविष्यपु० “केतकी चाति मुक्तञ्च कुन्दो यूथी मदल्लिका। शिरीषसर्ज्जबन्धूककुसुमानि विवर्ज्जयेत्”। एवं शिवपूजने तत्पुष्पस्य निषेधात् राजनि० शिवद्विष्टमिति तत्पर्य्याये उक्तम्। अतएव नैषधे “विनिद्रपत्रालिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनार्जितम्। दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम्” नैष० वर्ण्णितम् वर्ण्णितञ्च तस्याः क्रकचाकारपत्रावृतत्वादि यथा “वियोगभाजां हृदि कण्टकैः कटुर्निधीयसे कर्णिशरः स्मरेण यत्। ततोदुराकर्षतया तदन्तकृद्विगीयसे मन्मथदेहदाहिना। त्वदग्रसूचीसचिवः स कामिनो र्मनोभवः सीव्यति दुर्यशःपटौ। स्फुटञ्च पत्रैः करपत्रमूर्त्तिभिर्वियोगिहृद्दारुणि दारुणायसे। धनुर्म्मधुस्विन्नकरोऽपि भीमजापरं परागैस्तव धूलिहस्तयन्। प्रसूनधन्वा शरसात्करोति मामिति क्रुधाऽऽक्रुश्यत तेन कैतकम्”। कैतकमित्यत्र अणो न लुक्। पुष्पफलभिन्ने तु नाणो लुक्। “अगमत् कैतकं रजः” रघुः। केत + स्वार्थे क। ५ ध्वजे पु०। “सारोहायुधकेतकान्” भा० क० २४ अ० अत्र बहुब्रीहौ–कप् इति तु ज्यायः

केतन = न० कित–भावाधिकरणकर्म्मकरणेषु यथायथं ल्युट्। १ निमन्त्रणे, २ ध्वजे, ३ अम०। ४ चिह्ने, ५ गृहे हेमच०। ६ स्थाने शब्दरत्ना०। ७ कृत्ये मेदि०। तत्र निमन्त्रणे “प्रतिगृह्य द्विजोविद्वानेकोद्दिष्टस्य केतनम्” मनुः। “यावन्तः पतिताविप्रा जःडोन्मत्तास्तथैव च। दैवे वाप्यथ वा पित्र्ये तावन्ना र्हन्ति केतनम्”। मनुः वासे “न तत्र वृक्षच्छाया वा पानीयं केतनानि च” भा० व० १३३६९। ध्वजे। “भग्नं भीमेन मरुता भवतो रथकेतनम्” वेणी० “समाललम्बे वृषराजकेतनः” कुमा० “व्यद्रवन्त रणे भीता विकीर्ण्णायुधकेतनाः” भा० व० १४३००।

केतु = पु० चाय–तु क्यादेशः। १ प्रज्ञायां निरु० २ राहोरर्द्धदेहात्मके ग्रहभेदे ज्यो० ३ दीप्तौ हेमच० ४ पताकायां चिह्ने ५ ज्योतिषे प्रसिद्धे ६ उत्पातभेदे च वा ब० व० मेदि० तद्भेदश्च वृ० सं० ११ अ० उक्तो यथा “गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च। अन्यांश्च बहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः। दर्शनमस्तमयो वा न गणितविधिर्नास्य शक्यते ज्ञातुम्। दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात्। अहुताशेऽनलरूपं यस्मिंस्तत् केतुरूपमेवोक्तम्। खद्योतपिशाचालय मणिरत्नादीन् परित्यज्य। ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षास्ते। दिव्या नक्षत्रोत्था भौमाः स्युरतोऽन्यथा शिखिनः। शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम्। बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम् यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् उदयास्तमयैः स्थानैः स्पर्शैराधूमलैर्वर्णैः। यावन्त्यहानि दृश्यो मासास्तावन्त एव फलपाकाः। मासैरव्दांश्च वदेत् प्रथमात्पक्षत्रयात् परतः। ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरचिरसंस्थितः शुक्लः। उदितो वाऽप्यभिदृष्टः सुभिक्षसौख्यावहः केतुः। उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः। इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा। हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशिखाः। प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः। शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः। आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः। वक्रशिखा मृत्युसुता रूक्षा कृष्णाश्च तेऽपि तावन्तः। दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च। दर्पणवृत्ताकारा बिशिखाः किरणान्विता धराततनयाः। क्षुद्भयदा द्वाविंशतिरैशान्यामम्बुतैलनिभाः। शशिकिरणरजतहिमकुमुदकन्दकुसुमोपमाः सुताः शशिनः। उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः। ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः। अनियतदिक्सम्प्रभवो विज्ञेयो ब्रह्मदण्डाख्यः। शतमभिहतमेकसमेतमेतदेकेन विरहितान्यस्मात्। कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः। सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः। विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः। स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चराङ्गभवाः। अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः। विकचा नाम गुरुसुताः सितकतांराः शिखापरित्यक्ताः। षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पापाः। नातिव्यक्ताः सूक्ष्मा दीर्वाः शुक्ला यर्थष्टदिक्प्रभवाः। बुधजास्तस्करसञ्ज्ञाः पापफलास्त्वेकपञ्चशात्। क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः। नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः। त्रिंशत्त्य्रधिका राहोस्ते तामसकीलका इति ख्याताः। रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम्। विंशत्याधिकमन्यच्छतमग्नेर्विश्वरूपसञ्ज्ञानाम्। तीव्रानलभयदानां ज्वालामालाकुलतनूनाम्। श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः। अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः। तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ। द्वे च शते चतुरधिके चतुरम्रा ब्रह्मसन्तानाः। कङ्का नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः। शशिवत् प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः। पण्णवतिः कालसुताः कबन्धसञ्ज्ञाः कवन्धसंस्थानाः। चण्डा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः। शुक्ल विपुलैकतारा नव विदिशां केतवः समुत्पन्नाः। एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये। उदगायतो महान् स्निग्धमूर्तिरपरोदयी वसाकेतुः। सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते। तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः। स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय। दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः। प्राग्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोगकरः। प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः। नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः। अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रितया। गच्छेद्यथा यथोदक् तथा तथा दैर्घ्यमायाति। सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः। नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति। हन्यात् प्रयागकूलाद् यावदवन्तीं च पुष्करारण्यम्। उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम्। अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षेः। दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रीक्तः। प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च। क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ। स्निग्धौ सुभिक्षशिवदावथाधिको दृश्यते कनामा यः। दश वर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम्। श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः। विनिवर्ततेऽप सव्यं त्रिभागशेषाः प्रजाः कुरुते। आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः। ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते। ध्रुवकेतुरनियतगति प्रमाणवर्णाकृतिर्भवति विष्वक्। दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः। सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम्। गृहिणामुपस्करेषु च विनाशिनां दर्शर्न याति। कुमुद इति कुमुदकान्तिर्वारुण्यां प्राक्छिखो निशामेकाम्। दृष्टः सभिक्षमतुलंदश किल वर्षाणिस करोति। सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव। उदयन्नेव सुभिक्षं चतुरोमासान् करोत्यसौ सार्धान्। प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम्। जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया। नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य। भवकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मताकरः स्निग्धः। हरिलाङ्गूलोपमया प्रदक्षिणावर्तया शिखया। यावत एव मुहूर्तान् दर्शनमायाति निर्देशेन्मासान्। तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान्। अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामेकाम्। सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि। आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः। यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः। पश्चात् सन्ध्याकाले र्सवर्तो नाम धूम्रताम्रशिखः। आक्रम्य वियत्त्य्रंशं शूलाग्रावस्थितो रौद्रः। यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति। भूपांश्छस्त्रनिपातैरुदयर्क्षं चापि पीडयति। ये शस्तास्तान् हित्वा केतुभिराधूमितेऽथवा स्पृष्टे। नक्षत्रे भवति बधो येषां राज्ञां प्रवक्ष्ये तान्। अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात्। बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम्। औशीनरमपि सौम्ये ५ जलजाजीवाधिपं तथार्द्रासु। आदित्ये ७ऽश्मकनाथं पुष्ये मगधाधिपं हन्ति। असिकेशं भौजङ्गे ९ पित्र्ये १०ऽअङ्गं पाण्ड्यनाथमपि भाग्ये ११। औज्जयनिकमार्यम्णे १२ सावित्रे १३ दण्डकाधिपतिम्। चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिश त्तञज्ञः। काश्मीरककाम्बोजौ नृपती प्राभज्जने १५ न स्तः। इक्ष्वाकुरलकनाथो हन्येते यदि भवेद्विशाखासु। मैत्रे १७ पुण्ड्राधिपतिर्ज्येष्ठास्वथ सार्वभौमवधः। मूलेऽन्ध्रमद्रकपती जलदेवे २० काशिपो मरणमेति। यौधेयकार्जुनायनशिविचैद्यान् वैश्वदेवे २१ च। नैमिषनृपं २२ हन्यात् केकयनाथं २३ पाञ्चनदम् २४। सिंहलाधिपं २५ वाङ्गम् २६ किरातं २७ श्रवणादिषु षट्खिमान् क्रमशः। उल्काभिताडितशिस्वः शिवः शिवतरोऽभिवृष्टो यः। अशुभः स एव चोलावगाणसितहूणचीनानाम्। नम्रा यतः शिखिशिखाभिसृता यतो वा ऋक्षं च यत् स्पृशति तत्कथितांश्च दशान्। दिव्यप्रभावनिहतान् स यया गरुत्मान् भुङ्क्ते गतो नरपतिः परभोगिभोगान्”। केतुविशेषाणां कालविशेषादनन्तरमुदयः पराशरवाक्यादिषु ज्ञेयस्तानि यथा कपालकेतुः = “अथादित्यजानां कपालकेतुरुदयते अमावास्यायां पूर्ब्बस्यां दिशि सधूम्रार्च्चिशिखो नभसो विषयार्द्धचरो दृश्यते। पञ्चविंशवर्षशतं प्रोष्य त्रींश्च पक्षान् तृतिर्यस्य कुमुदकेतोश्चारान्ते स दृष्टएव। दुर्भिक्षानावृष्टिव्याधिभयं प्रत्युपद्रवान् सृजति। यावतो दिवसान् दृश्यते तावन्मासान्मासैः संवत्सरान् पञ्चप्रस्थं वर्षाधान्यस्यार्घं कृत्वा प्रजानामेकमुपयुङ्क्ते” परा०।

कालकेतुः = “अथदक्षयज्ञे रुद्रक्रोधोद्भवः कालकेतु स्त्रीणि वर्षशतानि नव च मासान् प्रोष्य उदयते। पूर्व्वेण वैश्वानरमार्गे इत्यमृतमयस्य मणिकेतोश्चारान्ते श्यावरूक्षं ताम्रारुणां शूलाकारसदृशीं शिखां कृत्वा नभसस्त्रिभागचारी स शस्त्रभयरोगदुर्भिक्षावृष्टिमरकैः यावन्मासान् दृश्यते तावद्वर्षाणि त्रिभागशेषां प्रजां कृत्वा शारदधान्यस्याढकमर्द्धें कृत्वा चास्तं ब्रजति” परा०। तथा च वृद्धगर्गः “ज्येष्ठा मूलमनुराधा या वीथी संप्रकीर्त्तिता। ताञ्च वीथीं समारुह्य केतुश्चेत् क्रीडते भृशम्। दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्कराम्। शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम्। पूर्व्वेण उदित श्चैव नक्षत्राण्युपधूपयेत्। घोरं प्रजासूत्सृजति फलं मासे त्रयोदशे। त्रिभागं नभसो नत्वा ततो गच्छत्यदर्शनम्। यावतो दिवसांस्तिष्ठेत् तावद्गर्षाणि तद्भयम्। शस्त्राग्निभयरोगैश्च दुर्भिक्षमरकैर्हताः। षूर्णमानाः प्रजाः सर्व्वा विद्रवन्ति दिशो दश”। चलकेतुः = “अथ पैतामहश्चलकेतुः पञ्चदशवर्षशतं प्रोष्य उदितः पश्चिमेनाङ्गुलिपर्व्वमात्रां शिखां दक्षिणाभिनतां कृत्वा कालकेतोश्चारान्ते नभसस्त्रिभागमनुचरन् यथा यथोत्तरां व्रजति तथा तथा शूलाग्राकारां शिखां दर्शयन् ब्राह्मं नक्षत्रमुपसृत्य मनाक् ध्रुवं व्रजन् राशिं सप्तषींन् संस्पृश्य नभसोऽर्द्धमात्रं दक्षिणमनु परिक्रम्य अस्तं ब्रजति। स स्वर्गे दारुणकर्म्मा स्वर्गप्राप्तित्वादेव वक्रास्तमभिनिहन्ति लोकमपि च। भूमिं कम्पयित्वा दश मासान् मध्यदेशे भूयिष्ठं जनपदमवशेपं कुरुते। तेष्वपि च क्वचित् क्वचित् शस्त्रदुर्भिक्षमरकव्याधिभयैः क्लिष्णात्यष्टादशमासानिति” परा० तथा गर्गः। “क्षुच्छस्त्रमरकव्याधिभयैः संपीडयेत् प्रजाः। मासान् दश तथाष्टौ च चलकेतुः सुदारुणः”। उद्दालकश्वेतकेतुः = गृहकेतुश्च “अथोद्दालकः श्वेतकेतुर्द्दशीत्तरं वर्षशतं प्रोष्य भद्रकेतोश्चारान्ते पूर्व्वस्यां दक्षिणाभिनतशिखोऽर्द्धरात्रकाले दृश्यस्तेनैव सह द्वितीयः कः प्रजापतिपुत्त्रः पश्चिमकेन गृहकेतुर्यूपसंस्थायी युगपद्दृश्येत। ततस्तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीडयेते। कः प्रजापतिपुत्त्रो यद्यधिकं दृश्यते तदा। दारुणतरं प्रजानां शस्त्रकोपं कुर्य्यात्। तथैव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौ भवतः” परा०।

काश्यपश्वेतकेतुः = “अथ काश्यपः श्वेतकेतुः पञ्चदश वर्षशतं प्रोष्योग्रः सोमसहजस्य वप्रकेतोश्चारान्ते श्यावरूक्षो नभसस्त्रिभागमाक्रम्यापसव्यं निवृत्योर्द्ध्वं प्रदक्षिणजटाकारशिखः स यावन्मासान् दृश्यते तावद्वर्षाणि सुभिक्षमावहति। मध्यदेशे आर्य्यगणानामदोनामोदीच्यै र्भूयिष्ठस्त्रिभागशेषां प्रजामवशेषयति” परा०। रश्मिकेतुः = “अथ रश्मिकेतुर्विभावसुजः प्रोष्य वर्षशतमावर्त्तकेतोश्चारान्ते उदितः कृत्तिकासु धूम्रकेतुः। अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानो धूमकेतुः पराभविष्यतां देशानां राज्ञां जनपदानाञ्च वृक्ष परपर्बतवेश्मध्वजपताकाशस्त्रवर्म्मायुधावरणरथनागोष्ट्रपुरुषशयनासनभाण्डेषु च दृश्यते। स एव दिवि म्निग्धो निर्म्मलः प्रदक्षिणशिखो गजंनागवीथीनामुत्तरेण व्रजन् सुभिक्षक्षेमारोग्यं चावहति। दशैकविंशतिद्विषष्टिशतधा वा दर्शनमिच्छन्ति मुनथो धूमकेतोस्तस्य च प्रागुदयान्निमित्तान्यर्वाचीनचलनमग्नेः प्रभा मत्स्यप्रधूपनं दिशां शीतोष्णविपर्य्यय इति व्यक्षिबाहुसम्भवश्च” परा०। जलकेतुः = “अथ जलकेतुः पैतामहः यश्च चलकेतोर्नवमासावशिष्टे कर्म्मणि कृते प्रवर्त्तयति। पश्चिमेनोदितः स्निग्धः सुजातोऽनुपश्चिमाभिनतः। स च शिखी नव मासान् क्षेमसुभिक्षारोग्याणि प्रजाभ्यो धत्ते अन्यग्रहकृतानां चाशुभानां व्याघातायेति”। परा० भवकेतुः = “अथ जलकेतोः कर्म्मसमाप्तौ धूम्रादयः शीतान्ताःअष्टौ प्रादुर्भवन्ति तत्र त्रयोदश चतुर्द्दशाष्टादश वर्षान्तात् दृश्यन्ते सुभिक्षाक्षेम्याविपर्य्यया विपरीताः क्षुद्रजन्तूनाञ्च बधाय, तेषामष्टानां कर्म्मण्यतीते भवकेतुर्द्दृश्यते। पूर्वेणैकरात्रं यावत् कृत्तिकानामन्तरतो वा तत्प्रमाणया स्निग्धपारुष्याभया सिंहलाङ्गूलसंस्थानया प्रदक्षिणताम्रया शिखयोदितः। स यावन्मूहूर्त्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षाय। रूक्षः प्राणहराणाञ्च रोगाणां प्रादुर्भावायेति” परा० आवर्त्तकेतुः = “अथावर्त्तकेतुः श्वेतकेतोः कर्म्मण्यतीतेऽपरेऽर्द्धरात्रेऽसव्योदितारुणाभया प्रदक्षिणेन ताम्रया शिखयोदितः। स यावन्मुहूर्त्तान् दृश्यते तावन्मासान् अतीव सुभिक्षं नित्ययज्ञोत्सवं जगत्” परा०संवर्त्तककेतुः “अथ संवर्त्तको वर्षसहस्रमष्टोत्तरं प्रोष्य पश्चिमेनास्तं गते सवितरि सन्ध्यायां दृश्यते तन्वीं ताम्ररूपां शूलाभां धूम विमुञ्चन्तीं दारुणां शिखां कृत्वा नभस्त्रिभाग माक्रम्य यावन्मूहूर्त्तान् निशि तिष्ठति तावद्वर्षाणि हन्ति परस्परं शस्त्रौघमपि पार्थिवाः। यानि नक्षत्राणि समाश्रयति यत्र वोदेति तानि दारुणतरं पीडयति तदाश्रितांश्च देशानिति”। परा०। तथा गर्गः “येषां नक्षत्रविषये रूक्षः सज्वाललोहितः। दृश्यते बहुमूर्त्तिश्च तेषां विद्यात् महाभयम्। अवर्षशस्त्रपारुष्यकोपं दुर्भिक्षमेव च। कुर्य्यान्नृपतिपीडाञ्च सचक्रपरचक्रतः। यत्र तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति। धूपयेद्वा स्पृशेद्वापि हन्याद्देशांस्तदाश्रयान्। यस्याभिषेकनक्षत्रं जन्मभं कर्म्मभं तथा। देशर्क्षं पीडयेद्वापि स शान्तिपरमो भवेत्। स्रिग्धः प्रसन्नो विमलः प्रदक्षिणशिखस्तथा। दृश्यते येषु देशेषु शिवं तेषु विनिर्द्दिशेत्” परा०सर्व्वशेषः। “यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभि योजयेत्। यतः शिखा यतो धूमस्ततो यावान्नराधिपः। प्रतिलोमोयतः केतुर्यथा ध्यायति पार्थिवः। सामान्यवाहनबलस्तन्नाशमधिगच्छति” परा० अथ मासविशेषेषु नामविशेषास्तत्फलन्याह समयामृते “चैत्रवैशाखयोर्म्मध्ये कौवेरांस्तु विनिर्द्दिशेत्। उच्छितैर्यूपवेदीभिरुच्छितैर्ध्वजतोरणैः। हविर्धूमाकुला तत्र दृश्यते च वसुन्धरा। ज्यैष्ठे चैव तथाषाढे वायुपुत्त्रांश्च निर्द्दिशेत्। वान्ति चैव तथा वाता महायुद्धं महाभयम्। श्रावणप्रौष्ठपदयोर्वारुणांस्तु विनिर्द्दिशेत्। आरोहयन्ति ते मेघान् पूर्णां कुर्य्युर्वसुन्धराम्। धान्यं सभार्घतां याति ईतयो न भवन्ति च। आश्विने कार्त्तिके चैव सूर्य्यपुत्त्रान् विनिर्द्दिशेत्। ततो दहति तीव्रांशुः सर्वान्नानि दिवाकरः। म्रियन्ते च तदा गावः श्वापदाश्च विशेषतः। मार्गशीर्षे च पौषे च वह्निपुत्त्रान् विनिर्द्दिशेत्। शीघ्रं भवति दुर्भिक्षं हाहाभूतमचेतनम्। माघे च फाल्गुने चैव यमपुत्त्रान् विनिर्द्दिशेत्। छर्द्दिर्ज्वरातिसारश्च ग्लानि श्चैवाक्षिवेदना”।

नक्षत्रभेदेन देशभेदे तदुपद्रवादि तत्रैवोक्तं यथा “कृत्तिका रोहिणी सौम्य पृथिव्या मध्यमुच्यते। केतवो ह्यत्र दृश्यन्ते आग्नेया दश पञ्च च। आग्नेयेषु च दृष्टेषु लोकानां संक्षयो भवेत्। नित्योद्विग्नाः प्रजाः सर्वा भवन्ति हि न संशयः। पुनर्व्वसुस्तथा पुष्यः पृथिव्याः पूर्ब्बमुच्यते। केतवो ह्यत्र दृश्यन्ते रौद्रा स्तेऽप्येकविंशतिः। यदा रौद्राः प्रदृश्यन्ते दुर्भिक्षं निर्द्दिशेत्तदा। घूर्णन्ते च प्रजाः सर्वा मृत्युक्षुद्रोगपीडिताः। अश्लेषा पित्य १० भाग्यानि ११ विद्याद्दक्षिणपूर्व्वतः। केतवो ह्यत्र दृश्यन्ते औद्दालकिसुता दश। सुभिक्षं क्षेममारोग्यं सुवृष्टिः शस्यसम्पदः। आर्य्यम्णादीनि १२। १३। १४ च त्रीणि विद्याद्दक्षिणभागतः। केतवो ह्यत्र दृश्यन्ते काश्यपेयाश्चतुर्द्दश। अनावृष्टिभयं घोरं प्रजानामतिदारुणम्। स्वाती विशाखा मित्रञ्च १७ भागो दक्षिण पश्चिमः। केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः। दुर्मिक्षं मरकं घोरमनावृष्टिस्तथैव च। उपद्रवश्च भूतानां तदा भवति दारुणः। ज्येष्ठा मूलमथाषाढा भाग उत्तरपश्चिमः। केतवो ह्यत्र दृश्यन्ते त्रय स्ते सोमसम्भवाः। सुभिक्षश्च सुवृष्टिञ्च मही यज्ञोत्सवाकुला। उत्तरा २१ श्रवणा चैव नक्षत्रं वसुदैवतम् २३। केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः। माहेयेषु च दृष्टेषु लोकानां संक्षयो ध्रुवम्। तदा राजसहस्राणां मही पिबति शोणितम्। वारुणञ्चैव २४ नक्षत्रं तथा भाद्रपदद्वयम्। केतवो ह्यत्र दृश्यन्ते वारुणास्त्रयएव ते। ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः। ऊर्म्मिकेतुर्यदा दृश्येत्तदाऽप्युदकजं भयम्। श्वैतकेतु र्यदा दृश्येत् श्वेतास्थिं कुरुते महीम्। तदा मानुषमां सानि भक्षयन्तीह मानुषाः। क्षुद्भयार्त्तं जगत् कृत्स्नं चक्रवद्भ्रमते तदा। धूमकेतुर्यदा दृश्येत्तस्य वक्ष्यामि कक्षणम्। स हन्ति शिखया योधान् राजानं मन्त्रिणं जनान्। रेवत्याश्वयुज १ ञ्चैव नक्षत्रं यमदैवतम् २। केतवो ह्यत्र दृश्यन्ते यमपुत्त्रास्त्रयोदश। यमपुत्त्रेषु दृष्टेषु लोकानां संक्षयो ध्रुवम्। चतुर्व्विधानां भूतानां संशयो जायते महान्”। तेषां शान्तिस्तत्रैवोक्ता यथा “केतूत्पाते तु सर्व्वस्मिन् सभये समुपस्थिते। महाशान्तिं प्रकुर्व्वीत विविधां भूरिदक्षिणाम्। धनं वा सर्व्व मुत्सृज्य मृत्योर्म्मुच्येत बन्धनात्। दद्याद्वा पृथिवीं सर्वां राजा शान्तिं नियच्छति। अकस्माद्दृश्यते केतु रुदयेऽस्तमयेऽपि वा। निहन्त्यन्तःपुरे राज्ञो ज्वरः पित्तोद्भवो भवेत्। दधिमधुघृताक्तानां पुष्पाणामयुतं ततः। जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये। भूषितं हेमरत्नाद्यैस्ततः सम्पद्यते शुभम्”। “ग्रहे रवीन्द्वोरवनीप्रकम्पे केतूद्गमे” इत्यादिना ज्यो० त० तदुद्गमेऽकाल उक्तः। “व्योम्नीव भ्रकुटीच्छलेन वदने केतुश्चकाराम्पेदम्” मावः नवग्रहमध्ये तस्य ग्रहत्वञ्च पी० धा० व्यवस्थापितं यथा “किं राहुकेत्वोर्ग्रहत्वाभावात् क्रूरग्रहत्वाभावाद्वा दृश्यग्रहत्वाभावाद्वा कर्त्तरी नास्ति नाद्यः। राहोर्ग्रहत्वं श्रुतिस्मृतिप्रामाण्यसिद्धम्। तथा हि। “स्वर्भानुर्हवा आसुरिः सूर्य्यन्तमसा विव्याधेति” माध्यन्दिनी श्रुतिः। कश्यपश्च “छिन्नोऽपि विष्णु चक्रेण सुधामयशिरास्तमः। केशवस्य वरेणासौ तथापि ग्रहताङ्गतः” इति। नारदोऽपि “अमृता स्वादनाद्राहुः शिरश्छिन्नोऽपि सोऽमृतः। विष्णुना तेन चक्रेण तथापि ग्रहताङ्गतः” इति। यद्यपि “अदृश्यरूपाः कालस्य मूर्त्तयो भगणाश्रिताः। शीघ्रमन्दोच्च पाताख्या ग्रहाणाङ्गतिहेतवः” इति सूर्यसिद्धान्ते पातानामदृश्यतोक्ता तथापि चन्द्रपातस्य ग्रहत्वं वाचनिकमेव। “स्वध्रुवे कुमुदिनीपतिपातं राहुमाहुरिह केऽपि तमेवेति, भास्कराचार्योक्तेश्च। अतएव राहोर्नैऋतदिक्स्वामित्वं दानञ्च संहिताकर्त्यभिरुक्तम्। राहोरर्द्धशरीरभागः केतुसंज्ञ इति पुराणप्रसिद्धम्। न द्वितीयः। ननु केन वचनेन राहुकेत्वोः क्रूरत्वमुच्यते। न च “क्षीणेन्द्वर्कयमाराः पापास्तैः संयुतः सौम्यः” इति वराहेणोक्तम् तदुपादानाभावात्। किञ्च पापग्रहत्वानभिधानाच्छुभग्रहत्वमेवावसीयते। न च “गुरुबुधशुक्राः सौम्याः सौरिकुजार्का निसर्गतः पापाः। शशिजोऽशुभसंयुक्तः क्षीणोऽपि निशाकरः पापः” इति कल्याणवर्मवाक्ये शुभग्रहमध्ये गणनाभावात् क्रूरत्वमिति वाच्यम्। पापग्रह मध्येऽपि गणना नास्तीति शुभग्रहत्वस्यापि सुवचत्वात्। उभयभ्रष्टत्वेन वा नरसिंहवज्जात्यन्तरस्यापि वक्तुं शक्यत्वादिति चेत्। सत्यम् “सूर्यभौमशनिराहुकेतवः पापसंज्ञखचराः क्षयिचन्द्रः। पूर्णचन्द्रगुरुशुक्रसोमजाः सर्वकर्मसु हि सौम्यखेचराः” इति वसिष्ठेन कण्ठतः क्रूरत्वाभिधानादस्ति क्रूरत्वम्। स्वरोदयेऽपि “बुधशुक्रेन्दुजीवाश्च सदा सौम्यग्रहामताः। शन्यर्कराहुमाहेयाः केतुः क्रूरग्रहा मताः” इति। न तृतीयः ननु स्वयमशक्तः कथं परान् साधयिष्यतीति न्यायात् सदा चाक्षुपदर्शनाभावमितस्य राहोः केतोर्वा फलदातृत्वा सामर्य्यादितिचेन्न अमावास्यायां प्रतिपदि वोत्पन्नस्य लग्नादिदुष्टस्थानस्थितचन्द्रस्यारिष्टमशुमफलजनकं भवन्मते निरर्थकमापद्येत। ननु “षष्ठेऽष्टमे चन्द्रः सद्योमरणाय पापसंदृष्टः। अष्टाभिः शुभदृष्टोमिश्रैर्वर्षैस्तदर्द्धेनेति” वराहोक्तेर्भविष्यतीति चेत् इहापि “स्वच्छन्दत्वं कदशनरतिर्वल्लभत्वं विशील्यं व्याधिः सुश्रीर्मतिरथ सुखं गर्भपातप्रवृत्तिः। द्यूतासक्तिर्भवति रविजे वैभवे वक्त्ररोगः स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंस्थे” इति वसिष्ठपद्ये शनिवदाहुकेत्वोः शुभाशुभफलदावृत्ववचनं किं वायसैर्भक्षितम्। सारावल्याञ्च “राहुश्चतुष्टयस्थो निधनाय निरीक्षितो भवति पापैः। वर्षैर्वदन्ति दशभिः षोडशभिः केचिदाचार्याः। अजवृषकर्कटलग्ने रक्षति राहुः समस्त पीडाभ्यः। पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पुरुषमिति” राहोः शुभाशुभफलाभिधानमस्ति। ननु वराहेण राहोः फलं कुत्रापि नोक्तमिति चेन्न “सोपप्लवे शशाङ्के सक्रूरे लग्नगे कुजेऽष्टमगे। मात्रा सार्द्धं म्रियते चन्द्रवदर्केण शस्त्रेणेति” वराहपद्येऽपि राहु केत्वोरन्यतराभिधानमस्ति! तथा हि किमिदं चन्द्रग्रहणं राहुसाहित्यकृतमुत केतुसाहित्यकृतमिति तत्र ग्रहणीयं, चन्द्रे लग्नगे सक्रूरे क्रूरसाहित्य मभिहितम् क्रूरास्तु सूर्यभौमशनय एव विवक्षिता इति चेत् सूर्यस्य तावद्योगाभावश्चन्द्रग्रहणे हि सप्तमराशिस्थत्वात्। भौमस्यापि योगः, कुजेऽष्टमग इत्युक्तेर्नास्ति। पारिशेष्याच्छनेरेव योगोवाच्यः। तत्र स्पष्टत्वार्थं शनिग्रहणमेव कस्मान्नाकारि। अतः सामान्यवाचिनः क्रूरशब्दस्य प्रयोगाद्राहुकेत्वोरन्यतरयोगोऽपि विवक्षितोऽपरस्य (सूर्य्यस्य) सप्तमराशिस्थत्वात्। योग एकराशिस्थत्वे स्यान्न तु भिन्नराशिस्थत्वे इति। एवं ग्रहणसम्बन्धिलग्नस्थसूर्यारिष्टेऽपि राहुकेत्वोरन्यतर योगो व्याख्येयः। अतएव “राहुस्तमोऽगुरसुरश्च शिखीति केतुरिति पर्यायाभिधानं कृतम्। विवाहपटलेऽपि “मरणं लत्ता राहोः कार्यविनाशं मृगोर्वदन्तीति” कण्ठतो राहुलत्ताऽप्युक्ता। तस्माद्वराहमतेऽपि राहुकेतुयोगो विवक्षित एव। एवं सति जातके यथा राहोः शुभाशुभफलदातृत्वं वचनाद्बोध्यते। तथा विवाहेऽपि प्रागुक्तवसिष्ठवाक्यादपि तत्र तुल्यन्यायत्वात् कर्त्तरीदोषे सत्यप्यदृश्यत्वे फलदातृता त्वयापि वक्तव्यैव। ननु “पापयोः कर्त्तरीकर्त्रोः शत्रुनीचगृहस्थयोः। यदा त्यस्तगयोर्वापि कर्तरी नैव दोषदेति” कश्यपाद्युक्ते रस्तङ्गतत्वेन राहुकेत्वोः कर्त्तरीदोषो नास्तीति चेत् भ्रान्तोऽसि शृणु। “सम्भवे व्यभिचारे च स्याद्विशेषणमर्थवदिति” न्यायादस्तङ्गतत्वविशेषेणं भौमस्य क्रूरयुक्तबुधस्य शनेर्वेति त्रयाणामेव सम्भवति न सम्भवति च। सूर्यस्तु नित्योदित एव राहुकेतू नित्यास्तमिताविति व्यभिचाराभावात्त्रयाणामेव विशेषणम्। किञ्च किमस्त गत्वं क्षितिजसन्निधिकृतमुत सूर्यसाघ्निध्यकृतं वेति। तत्र क्षितिजसन्निधिकृतं यत्तत् सूर्यादिसकलग्रहसाधारणम्। तथा सत्यस्तगतत्वविशेषणवैयर्थ्यं प्रागुक्तन्यायात्। राहोस्तु नारदादिवाक्याच्छिरोरूपमण्डलावगतेः “इन्द्वर्कमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने” इति वराहोक्तेस्तमोरूपत्वात्तादृक्स्वरूपानुपलब्धेरगोचरत्वपरम्। स्थानमप्यस्य चन्द्रविलमण्डक्रान्तिमण्डलस्वस्तिके, यदाह केशवाकेः “वेश्म चास्य शशभृद्विमण्डलक्रान्तिमण्डलमिलच्चतुःपथः” इति। अतएव न विद्यन्ते गावः किरणायस्येत्यगुरन्वर्थताप्यवसीयते। अथ यदि सूर्यसन्निधिकृतमित्युच्येतेति चेत् न इतरग्रहवद्राहोरप्युदयास्तप्रसिद्ध्यभावात्। किञ्च कालांशानभिधानात् कदोदितः कदास्तमितश्चेति निर्णेतुमशक्यत्वात्। एवं केतोरप्येतत् द्रष्टव्यम्। मनु केतूदयोह्युत्पातादौ प्रत्यक्षतोदृश्यत इति चेन्न तस्यानियतदिक्प्रभवत्वात् अनियतनक्षत्रप्रभवत्वाच्च। किञ्च केतूत्पातो हि लोके दुरदृष्टसूचकः अनियतेनं बहुना स्वल्पेनापि वा कालेन भवेत्। सूर्यसान्निध्यकृतोदयास्तौ तु नियतकालावेवेति तयोः केत्वोर्भेदः स्वीकर्त्तव्यः”

केतुक्षेत्रादिकं ज्यो० त० उक्तम् “सिंहस्त्रिकोणं धनुरुच्चसंज्ञं मीनीगृहं शुक्रशनी विपक्षौ। सूर्य्यारचन्द्राः सुहृदः समानौ जीवेन्दुजौ षट् शिखिनः परांशाः”। तद्व्यानवर्ण्णगोत्रदेशादि ग्रहयज्ञशब्दे वक्ष्यते। विंशोत्तरीय दशायां तद्दशामानं ७ वर्षाः तच्च दशाशब्दे वक्ष्यते। तस्य राशिभोगकालश्च १८ मासाः। “केतूपप्लवभौमन्दगतयः षष्ठे तृतीये शुभाः” ज्यो० त०। ७ दानवभेदे पु० केतुवीर्य्य शब्दे उदा० दृश्यम्

केतुकुण्डली = स्त्री पञ्चस्वरोक्ते जन्मनक्षत्रभेदवशेन जन्मावध्येकैकवर्षे एकैकग्रहविशेषस्वामित्वाज्ञापके चक्रभेदे सा च तत्रैव दर्शिता यथा “अर्को बुधः कुजोजीवः सोमः शुक्रस्तथैव च। राहुः शनैश्चरश्चैव ज्ञातव्या केतुकुण्डली। अर्कसौम्यान्तरे केतुः कुजजीवान्तरेऽपि च। सोमशुक्रान्तरे केतूराहुसीरान्तरे तथा। दद्यादुत्तरभाद्रादि अष्टाविंशतिऋक्षकम्। त्रीणि त्रीणि च रव्यादौ एकैकम् केतुषु स्मृतम्। जन्मर्क्षात् प्रतिनक्षत्रं जन्माद्यव्दे प्रकीर्त्तिताः”। अयमर्थः यदि २६। २७। १ नक्षत्रेषु जन्म तदा सूर्य्यः प्रथमं वर्षेशः। तदुत्तरंकेतुप्रभृतयः शन्थन्ताः २। भरण्यां जन्मनि केतुः प्रथमं वर्षेशस्ततः बुधादयः सूर्य्यान्ताः। ३। ४। ५ ऋक्षेषु वुधः प्रथमवर्षेशः ततः कुजादयः केत्वन्ताः। ६। ७। ८। कुजः प्रथमं ततः केत्वादयः बुधान्ताः। ९ ऋक्षे केतुः ततोजीवादयः कुजान्ताः १०। ११। २२ ऋक्षेषु जीवः ततः सीमादयः केत्वन्ताः। १३। १४। १५। सोमः ततः केत्वादयः जीवान्ताः। १६ ऋक्षे केतुः ततः शुक्रादयः सोमान्ताः। २७। १८। १९। ऋक्षेषु शुक्रः ततः राहुप्रभृतयः केत्वन्ताः। २०। २१। ०। २२ ऋक्षेषु राहुः ततः केत्वादयः शुक्रान्ताः २३ केतुः ततः शन्यादयःराह्वन्ताः। २४। २५। २६ ऋक्षेषुशनिः ततः सूर्यादयः केत्वन्ताः। सर्व्वत्र आरोहक्रमानन्तरमवरोहक्रमो ग्राह्यः। एवं द्वादशसु वर्षेषु तेषु पुनः सूर्य्यादीनां वर्षाः। ग्रहाणां फलविशेषस्तु केतुपताकाचक्रोक्तदिशोन्नेयः। अत्र च बहुषु स्थानेषु केतोरवस्थानेन केतुप्राधान्यात् केतुकुण्डलीत्वम्।

केतुधर्म्मन् = पु० त्रिगर्तेश्वरसूर्य्यवर्म्मानुजे नृपभेदे “केतुधर्म्मा तु तेजस्वी तस्यैवावरजोयुवा। युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना” भा० आश्व० ७४ अ०

केतुपताका = केतोः पताकेव। जन्मनक्षत्रभेदेन जन्मावध्येकैकेवर्षेशग्रहविशेषज्ञापके चक्रभेदे सा च पञ्चस्वरायां दर्शिता यथा “अर्केन्दू कुजसौम्यार्किगुरवः स्युर्यथाक्रमम्। राहुः सर्पो भृगुश्चेति पताकप्रभवा ग्रहाः। वामं केतुपताकायां कृत्तिकादिपरिभ्रमात्। जन्मर्क्षं खेचरे यत्र जन्माद्यब्दास्ततः क्रमात्। आदित्यसौरयोर्वेधो वेधश्चन्द्रसुरेज्ययोः। कुजराह्वोर्ज्ञभृग्वोश्च केतुः किञ्चिन्नविध्यति” फलमाह। “रवेरब्दे मनुष्याणां भवेत् सर्वत्र निष्फलम्। शिरःशूलं ज्वरोगेहदाहो विघ्नः पदेपदे”। र०। “चन्द्रस्याव्दे लभेद्रौप्यं सुवर्णाभरणानि च०। कृषिः फलवती सिद्धिः सर्वत्रान्यैश्च पूज्यते” च०। “संवत्सरे महीजस्य कालादिव बिभेति च। गृहदाहोऽर्थहानिश्च चौरतो रा- जतोऽपि वा” म०। “बुधस्याव्दे सुशय्यः स्यान्नानादेवाधिपो भवेत्। बु० स्वर्णरौप्यधनं दानं पुण्यकर्मणि मानसम्” बु०। मन्दस्याव्दे भवेदाहो बन्धनादि प्रपीडनम्। धनहानिः प्रहारश्च कलिः स्वजनबन्धुभिः” श। “नाकनाथगुरोरव्दे बहुलोत्पत्तिसम्पदः। कृष्णलोहितछत्नेण स्तुतो भवति भूतले”। वृ०। राहुकेत्वोः सदा बन्धो नौका विप्लवते जले। व्रर्ण हस्ते पदे देहे स्थानं कर्त्तुं क्षेमोन च”। रा० के०। “दानवेन्द्रगुरोरव्दे महद्भिर्विभवैर्वृतः। गजाश्ववाहनैर्युक्त उत्साहश्च दिने दिने” शु०। अन्येतु पठन्ति “रविर्भ्रामयते देशं नरं दूःखसमन्वितम्ः सन्तापरोगं शोकञ्च करोति कृशतां तनोः” र० “बहुवित्तसुखं नित्यं बन्धुमित्रसमागमम्। समस्तास्पदसं पूर्णं चन्द्रः कुर्य्यात् दिनेदिने” च०। “मङ्गलोहन्ति सद्भावं क्रूरकर्म्मणि योजयेत्। व्रणं रोगञ्च दुःखञ्च सन्तापञ्च मुहुर्मुहुः” म०। “अर्थलाभं जयं सौख्यं राजपूजाञ्च सम्पदम्। ददाति विपुलां लक्ष्मीं बुधो विद्यां वरश्रि यम्”। बु०। “रोगञ्चार्थविनाशञ्च कलहं भुजगाद्भयम्। स्थानत्यागं शनिः कुर्य्या ज्जीवनं प्रति संशयम्” श०। “सुवर्णमणिमाणिक्यरत्नादिविपुलंधनम्। कन्यारत्नसमायोगं गुरुः कुर्य्याद् दिने दिने” वृ०। “राहुःशोणितसंस्रावं रोगशोकादिसंकुलम्। विदेशगमनं कुर्य्यात् वह्निवारिभयान्वितम्” रा०। “विग्रहं बन्धुभिः सार्द्धं रोगशोकादिसङ्कलम्। व्याधिपीडां करोत्युच्चैः केतुर्वित्तविनाशनः” के०। “गजाश्ववाहनैर्युक्तं महद्भिर्विभवैर्वृतम्। वराङ्गनासमायुक्तं भृगुः कुर्य्याद्दिने दिने” शु०। “खयुग्मं” २० शून्यवाणौ ५० च वसुयुग्मञ्च २८ षट्शरौ ५६। रामाग्नी ३३ रामषट्के ६३। च विंशञ्च सप्ततिस्तथा। विंशमेतेऽन्तर्दिवसाः केतावर्कादिषु क्रमात्। शुभानां शोभना ज्ञेया अशुभानामशोभना। शुभानामशुभानाञ्च यत् फलं वत्सरे कृतम्। तत्फलं निर्द्दिशेत् सर्वं तेषामन्तर्दिनेष्वपि। वर्षे वर्षे रवेः स्वीयं प्रथमं दिनविंशकम्। ततश्चन्द्रस्य पञ्चाशदेवं शुक्रान्तमादिशेत्। विधोर्वर्षे विधोः स्वीयं प्रथमं वत्सरे दिनम्। ततो भौमस्य वस्वक्षि एवं रव्यन्तमादिशेत्। कुजस्याव्दे कुजस्यान्तरष्टाविंशं निजं दिनम्। ततो बुधस्य षट्पञ्चाशदेवं चन्द्रान्तमादिशेत्। बुधादीनाञ्च सर्वेषामेवमेव क्रमेण तु। कुर्य्यादन्तर्दशाभागं प्रोक्तया दिनसंख्यया”। ज्यो० त० तल्लेखनप्रकारो दर्शितो यथा

“रविश्चन्द्रः कुजः सौम्यः शनिजींवस्तमोभृगुः। इन्द्रेशाद्यष्टरेखासु मध्ये केतुरिमेऽव्दपाः। कृत्तिकादि त्रिरा वृत्तिर्यथा कैती मघा भवेत्” यथा ३ र०। ४ च०। ५ म०। ६ बु०। ७ श०। ८ वृ०। ९ रा०। १० केतुः। ११ शु०। १२ र०। १३ च०। १४ म० १५ वु० १६ श० १७ वृ० १८ रा० १९ केतुः २० शु०। २१ र० २२ च० २३ म० २४ बु० २५ श० २६ वृ० २७ रा० १ केतुः २ शु०। एवं जन्मनक्षत्रानुसारेण प्रथमादिवर्षेशा रव्यादयः शुक्रान्तां दशमादिषु पुनः रव्यादयः शुक्रान्ताः। एवं चन्द्रस्य प्रथमाव्दाधीशत्वे रव्यन्ताः एवं क्रमेण सर्व्वत्र योज्यम्

“पताका कुण्डली केतोः कुण्डली च वृहस्पतेः। सर्व्वत्र पापसंपोगे संशयो जायते महान्” पञ्चस्वरा

केतुमत् = त्रि० केतुरस्त्यस्य मतुस्। १ चिह्नादियुक्ते २ प्रज्ञानयुक्ते “केतुमद्दुन्धुभिर्वावदीति” ऋ० ६, ४७, ३०, “केतुमत् प्रज्ञानवत्” भा० स्त्रियां ङीप्। ३ काशीराजदिवोदासवंश्ये नृपभेदे पु०। “क्षेमस्य केतुमान् पुत्रः सुकेतुरस्य चात्मजः” हरिवं० २ अ० दिवोदासवंशोक्तौ। वासुदेवसहिष्याः मुनन्दाया निवासरूपे ४ प्रासादभेदे पु० “सुनन्दाया निवासोऽसौ प्रशस्तः सर्वदेवतैः। महिष्या वासुदेवस्य केतुमानिति विश्रुतः” हरिवं० १५७ अ० ५ धन्वन्तरिपुत्रभेदे “धण्वन्तरिर्दीर्घतमस आयुर्वेद प्रवर्त्तकः। यज्ञभुग्वासुदेवांशः स्मृतिमात्रार्त्तिनाशकः। तत्पुत्रः केतुमानस्य जज्ञे भीमरयस्तथा” भाग० ९१७। ५ ६ दानवभेदे। “तथा गगनमूर्द्धा च वेगवान् केतुमांश्चायः” भा० आ० ७ दानवोक्तौ। सुमालिनो राक्षमस्य भार्य्यायां स्त्री “सुमालिनोऽपि भार्य्यासीत् पूर्ण्णचन्द्रनिभानना। नाम्ना केतुमती राम!” रामा० उ० ४ स०। “असमे सजौ सगुरुयुक्ता केतुमती समे भरनगाद्गः” वृ० र० उक्तलक्षणे ८ विषमवृत्ते छन्दोभेदे स्त्री।

केतुमाल = पु०। १ आग्नीध्रनृपपुत्रभेदे २ तन्नामके जम्वुद्वीपस्थे वर्षभेदे। तद्विवृतिः उत्तरकुरुशब्दे १०९४ पृ०। कुरुशब्दे च २१२२ पृ० दृश्यम्। “मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते!। जम्बुखण्डे च तत्रैव महाजन पदोनृप।” भा० भी० ६ अ०। ३ अवन्तिदेशस्ये नदीभेदे स्त्री “अवन्तिषु प्रतीच्यां वै कीर्त्तयिष्यामि ते दिशः” इत्युपक्रमे “केतुमाला च मेध्या च गङ्गाद्वारञ्च भूमिप!” भा० व० ८९ अ०।

केतुमालि(लिन्) = पु० शम्बरदैत्यस्य सेनाधिपभेदे। “दुर्द्धरः केतुमाली च शत्रुहत्ता प्रमर्द्दनः” इत्युपक्रमे “एतैः परिवृतो योधैः शम्बरः प्रययौ तदा”। “तेनैव तस्य चिच्छेद केतुमालेः शिरस्तदा” हरिवं० १६४ अ०।

केतुरत्न = न० केतीः रत्नम्। वैदूर्य्यमणौ (लशुनिया) राजनि० तस्य तत्स्वामिकत्वात् तथात्वम्।

केतुवीर्य्य = पु० दानवमेदे। “विक्षोभणश्च केतुश्च केतुवीर्य्यः शतह्रदः” हरिवं० ३ अ० दानवोक्तौ।

केतुवृक्ष = पु० केतुभूतोवृक्षः। मेरोश्चतुर्द्दिक्षु वर्त्तमानविष्क्रम्भपर्वतमन्दरादीनां चिह्नरूपे वृक्षभेद। “विष्कम्भशैलाः किल मन्दरोऽस्य (मेरोः) सुगन्धशैलः (गन्धमादनः) विपुलः सुपार्श्वः। तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्ब जम्बूवटपिप्पलाख्याः” सि० शि०। “विष्कम्भारचिता मेरोर्योजनायतमुच्छ्रिताः। पूर्वण मन्दरोनाम दक्षिणे गन्धमादनः। विपुलः पश्विमे भागे सुपार्श्वश्चोत्तरे स्मृतः। कदम्बस्तेषु जम्बश्च पिप्पलोवट एव च। एकपदशशतायामाः पादपाः गिरिकेतवः” विष्णुपु०

केतुशृङ्ग = पु० पौरवे नृपभेदे। “बलबन्धुर्निरामर्द्दः केतुशृङ्गो वृहद्बलः” भा० आ० १ अ०

केदर = पु० के दृणाति दृ–अच् कैर्विदीर्य्यतेदॄ–अप् वा। १ वृक्षभेदे असरटीकायां भानुदीक्षितः। २ टेरके केकरे शब्दचि०

केदार = पु० के शिरसि दारोऽस्य केन जलेन दारोऽस्य वा नि० एत्त्वम्। हिमालयस्थे पर्व्वतभेदे तत्स्थे २ शिवलिङ्गभेदे न० तन्माहात्म्यादि स्कन्दपु० केदारखण्डे दृश्यं तस्यैव काशीक्षेत्रे आविर्भावात् काशीस्थे ३ लिङ्गभेदे च न० तत्कथा काशीख० ७७ अ० यथा “श्रीपार्व्वथुवाच। “नमस्ते देवदेवेश! प्रणमत्करुणानिधे!। वद केदारमाहात्म्यं भक्तानामनुकम्पया। तस्मिन् लिङ्गे सदा प्रीतिस्तव काश्यामनुत्तमा। तद्भक्ताश्च जना नित्यं देवदेव। महाधियः। श्रीदेवदेव उवाच। शृण्वपर्ण्णे!ऽभिधास्यानि केदारेश्वरसंकथाम्। समाकर्ण्ण्यापि यां पापोऽप्यपाषोजायते क्षणात्। केदारं यातुकामस्व पुंसोनिश्चितचेतसः। आजन्मसञ्चितं पापं तत्क्षण्णादेव नश्यति। गृहाद्विनिर्गते पुंसि केदारगतिनिश्चिते। जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत्। मध्यमार्गं प्रपन्नस्य त्रिजन्मजनित त्वघम्। गेहाद्विनिः सृतस्यापि निराशं याति निश्वसत्। सायं केदारकेदार केदारेति त्रिरुच्चन्। गेहेऽपि निवसन्नूनं यात्राफलमवा प्नुयात्। दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमन्यु च जन्मजन्मकृतात् पापान्मुच्यते नात्रसंशयः हरभ्या। ह्रदे स्नात्वा केदारेशं प्रपूज्य च। कोटिजन्मार्जितैः पापै र्मुच्यते नात्र संशयः। सकृत् प्रणम्य केदारं हरम्पापकृतोदकः। स्थाप्य लिङ्गं हृदम्भोजे प्रान्ते मोक्षं गमिप्यति। हरम्पापह्रदे श्राद्धं श्रद्धया यः करिष्यति। उद्धृत्य सप्त पुरुषान् स्वर्गलोकं गमिष्यति। पुरा रथन्तरे कल्पे यदभूदत्र तत् शृणु। अपर्ण्णे! दत्तकर्ण्णा त्वं वर्ण्णयामि तवाग्रतः। एकोब्राह्मणदायाद उज्जयिन्याइहागतः। कृतोपनयनः पित्रा ब्रह्मचर्य्यव्रते स्थितः। स्थलीं पाशुपतीं काशीं स विलोक्य समन्ततः। द्विजैः पाशुपतैः कीर्ण्णां जटामुकुटमण्डितैः। कृतलिङ्गसमार्च्चैश्च भूतिभूषितवर्ष्मभिः। भिक्षाकृतान्नसंतुष्टैः प्लुतै र्गङ्गोदकामृतैः। बभूवानन्दितमना व्रतं जग्राह चोत्तमम्। हिरण्यगर्भादाचार्य्यान्महत् पाशुपताभिधम्। स च शिष्योवशिष्ठोऽभूत् सर्व्वपाशुपतोत्तमः। स्नात्वा ह्रदे हरम्पापे नित्यं प्रातः समुत्थितः। विभूत्याऽहरहः स्नाति त्रिकालं लिङ्गमर्च्चयन्। नान्तरं स विजानाति शिवलिङ्गे गुरौ तथा। स द्वादशाव्ददेशीयोवशिष्ठो गुरुणा सह। ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम्। यत्र गत्वा न शोचन्ति किञ्चित् संसारि णः क्वचित्। प्राश्योदकं लिङ्गरूपं लिङ्गरूपत्थमागताः। असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः। गुरुर्हिरण्यगर्भाख्यः पञ्चत्वमगमत्तदा। पश्यतां तापसानां च विमाने सार्व्वकामिके। आरोप्य तं पारिषदाः कैलासमनयन् मुदा। यस्तु केदारमुद्दिश्य गेहादर्द्धपथेऽप्यहो। अकातरस्त्यजेत् प्राणान् कैलासे स चिरं वसेत्। तदाश्चर्य्यंसमालोक्य स वशिष्ठस्तपोधनः। केदारमेव लिङ्गेषु बह्वमंस्त सुनिश्चितम्। अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात्। अग्रहीन्नियमं चापि यथार्थं चाकरोत् पुनः। प्रतिचैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम्। विलोकयिष्येकेदारं वसन् वाराणसीं पुरीम्। तेन यात्राः कृताः सम्यव्षष्टिरेकाधिका मुदा। आनन्दकानने नित्यं वसता ब्रह्मचारिणा। पुनर्यात्रां स वै चक्रे मधौ निकटवर्त्मनि। परमोत्साहसंतुष्टः पलिताकलितोऽप्यलम्। तपोधनैस्तन्निघनं शङ्कमानैर्निवारितः। कारुण्यपूर्णहृदयैरन्यैरपि च सङ्गिभिः। ततोऽपि न तदुत्साहभङ्गोभूद्दृढचेतसः। मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम। इति निश्चितचेतस्के वशिष्ठे तापस शुचौ। अशूदान्नपरिपुष्टे तुष्टोऽहं चण्डिके!ऽभवम्। स्वप्ने मया ससंप्रोक्तो वशिष्ठस्तापसोत्तमः। दृढव्रत! प्रसन्नोऽस्मि केदारं विद्धि मामिह। अभीष्टं च वरं मत्तः प्रार्थयस्वाविचारितम्। इत्युक्तवत्यपि मयि स्वप्नो मिथ्येति सोऽब्रवीत्। ततोऽपि स मया प्रोक्तः स्वप्नोमिथ्या शुचिस्मिते!। भवादृशाममिथ्यैव स्वाध्यायवशवर्त्तिनाम्। वरं ब्रूहि प्रसन्नोऽस्मि स्वप्नशङ्कां त्यज द्विज!। तव सत्ववतः किञ्चिन्ममादेयं न किञ्चन। इत्युक्तं मे समाकर्ण्य वरयामास मामिति। शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः। यदि प्रसन्नो देवेश! तदा मे येऽनुगाइमे। सर्व्वे शूलिन्ननुग्राह्या एष एव वरोमम। देवि! तस्येदमाकर्ण्य परोपकृतिशालिनः। वचनं नितरां पीतस्तथेति तसुवाच ह। पुनः परोपकरणं तत्तपोद्विगुणी कृतम्। तेन पुण्येन स मया पुनः प्रोक्तोवरं वृणु। सवशिष्ठो महाप्राज्ञो दृढपाशुपतस्थितः। देवि। मे प्रार्थयामास हिमशैलादिह स्थितिम्। ततस्तत्तपसा तुष्टः कलामात्रेण तत्र हि। हिमशैले स्थितश्चात्र सर्व्वभावेन संस्थितः। ततः प्रभाते संजाते सर्व्वेषां पश्यतामहम्। हिमाद्रेः प्रस्थितः प्राप्तः स्तूयमानः सुरर्षिभिः। वशिष्ठं पुरतः कृत्वा सर्व्वसार्थसमायुतम्। हरम्पाप ह्रदे तीर्थे स्थितोऽहं तदनुग्रहात्। मत्परिग्रहतः सर्वे हरम्पापे कृतोदकाः। आराध्य मामनेनेव पुरुषाः सिद्धिमागताः। तदा प्रभृति लिङ्गेऽस्मिन् स्थितः साधकसिद्धये। अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः। तुषाराद्रिंसमारुह्य केदारं वीक्ष्ययत् फलम्। तत् फलं सप्तगुणितं काश्यां केदारदर्शने। गौरीकुण्डं यथा तत्र हंसतीर्थञ्च निर्म्मलम्। तथा मधुस्रवा गङ्गा काश्यां तदखिलं तथा। इदं तीर्थं हरम्पापं सप्तजन्माघनाशनम्। गङ्गायां मिलितं पश्चाज्जन्मकोटिशताघहम्। अत्र पूर्ब्बं तु काकोलौ युध्यन्तौ खान्निपेततुः। पश्यतां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ। गौरि! त्वया कृतं पूर्ब्बं स्नानमत्र महाह्रदे। गौरीतीर्थ ततः ख्यातं सर्वतीर्थोत्तमोत्तमम्। अत्रामृतस्रवा गङ्गा महामोहान्धकारहृत्। अनेकजन्मजनितं जाड्यध्वंसविधायिनी। सरसा मानसेनात्र पूर्ब्बन्तप्तं महत्तपः। अतस्तन्मानसं तीर्थं जने ख्यातिमिदं गतम्। अत्र पर्ब्बं जनः स्नानमात्रेणैव प्रमुच्यते। पश्चात् प्रसादितश्चाहं त्रिदशै र्मुक्तिदुर्दृशैः। सर्वे मुक्तिं गमिष्यन्ति यदि देवेह मानवाः। केदारकुण्डे सुस्नातास्तन्नश्छित्तिर्भविष्यति। सर्वेषा- मेव वर्णानामाश्रमाणां च धर्म्मिणाम्। तस्मात्तनुविसर्गेण मोक्षं दास्यसि नान्यथा। ततस्तदुपरोधेन तथेति च मयोदितम्। तदारभ्य महादेवि! स्नानात्, केदारकुण्डतः। समर्च्चनाच्च भक्त्या वै मम नामजपादपि। नैःश्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम्। केदारतीर्थे यः स्नात्वा पिण्डान् दास्यति चात्वरः। एकोत्तरशतं वंश्यास्तस्य तीर्णा भवाम्बुधेः। भौमवारे यदा दर्शस्तदा यः श्राद्वदोनरः। केदारकुण्डमासाद्य गयाश्राद्धेन किं? ततः। केदारं गन्तुकामस्य बुद्धिर्देया नरैरियम्। काश्यां स्पृश त्वं केदारं कृतकृत्यो भविष्यसि। चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च। त्रिगण्ड्रषीं पिबन् प्रातर्मल्लिङ्गमधितिष्ठति। केदारोदकपाने तु यथा तत्र फलं भवेत्। तथाऽत्र जायते पुंसां स्त्रीणां चापि न संशयः। केदारभक्तं संपूज्य वासोऽन्नद्रविणादिभिः। आजन्मजनितं पापं त्यक्त्वा याति ममालयम्। आषण्मासं त्रिकालं यः केदारेशं नमस्यति। तं नमस्यन्ति सततं लोकपाला यमादयः। कलौ केदारमाहात्म्य योऽपि कोऽपि न वेत्स्यति। योवेत्स्यति च पुण्यात्मा सर्वं वेत्स्यति स ध्रुवम्। केदारेशं सकृत् दृष्ट्वा देवि! मेऽनुचरो भवेत्। तस्मात् काश्यां प्रयत्नेन केदारेशं विलोकयेत्। चित्राङ्गदेश्वरं लिङ्गं केदारादुत्तरे शुभम्। तस्यार्च्चनान्नरोनित्यं स्वर्गभोगानुपाश्नुते। केदाराद्दक्षिणे भागे नीलकण्ठविलोकनात्। संसारोरगदष्टस्य तस्य नास्ति विषाद्भयम्। तद्वायव्येऽम्बरीषेशो नरस्तदवलोकनात्। गर्भवासं न चाप्नोति संसारे दुःखसङ्कुले। इन्द्रद्युम्नेश्वरं लिङ्गं तत्समिपे समर्च्य च। तेजोमयेन यानेन सस्वर्गभुवि मोदते। तद्दक्षिणे नरोदृष्ट्वा लिङ्गं कालञ्जरेश्वरम्। जराकालं विनिर्जित्य मम लोके वसेच्चिरम्। दृष्ट्वा कामेश्वरं लिङ्गमुदक् चित्राङ्गदेश्वरात्। सर्व्वत्र क्षेममाप्नोति लोकेऽत्र च परं दिवि। श्रीस्कन्दौवाच। देवदेवेन! विन्व्यारे! केदारमहिमा महान्। इत्याख्यायि पुराऽम्बायै मया तेऽपि निरूपितः। केदारेश्वरलिङ्गस्य श्रुत्वोत्पत्तिं कृती नरः। शिवलोकसवाप्नोति निष्पापोजायते क्षणात्”। लिङ्गपरत्वे न० केदारेशकेदारेश्वरादयोप्यत्र पु०। वदर्व्याश्रमस्याऽन्तिकस्थे ३ क्षेत्रभेदे “केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी” देवीगीता ४ भूमिप्रदेशभेदे अमरः “मतङ्गस्य च केदारस्तत्रैव कुरुनन्दन!” भा० व० ८४ अ०। “केदारे चेव राजेन्द्र! कपिलस्य महात्मनः” भा० ८३ अ०। जलनिवारणार्थे चतुःपार्श्वे सेतुबन्धयुक्ते ५ क्षेत्रे ६ आलवाले च मेदि० “यथा “तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति” वेदा० प०। “भूमावप्येककेदारे कालोप्तानि कृषीवलैः। नानारूपाणि जायन्ते वीजानीह स्वभावतः” मनुः “स्थानछेदस्य केदारमाहुः शल्यबतोमृगः” मनुः। केदारणां समूहः “केदाराद्यञ् च” “ठञ् कवचिनश्च” पा० यञ् वुञ् ठञ् च। केदारर्य्य कैदारक कैदारिक तत् समूहे न० “कैदारिकाणामभित समाकुलाः” माघः। अत्र केदारादिति निर्द्देशात् नि० एत्त्वम्। तस्येदमण्। कैदार तत्सम्बन्धिजलतण्डुलादौ त्रि० तद्गुणाः “केदारं क्षेत्रमुद्दिष्टं कैदारं तज्जलं स्मृतम्। कैदारं वार्य्यभिष्यन्दि मधुरं गुरु दोषकृत्” भावप्र०। “कैदारा वातवितपित्तघ्नाः गुरवः कफशुक्रलाः। कषाया अल्पवर्चस्काः मेध्याश्चैव बलावहाः” भावप्र० केदारशाल्यादिगुणा उक्ताः

केदारक = पु० केदारे भवः कन्। कृष्टक्षेत्रजाते ब्रीहि भेदे षष्टिककङ्गुकेत्युपक्रमे “कुरवककेदारकप्रभृतयः षष्टिकाः” सुश्रुतः। केदारशब्दे गुणाउक्ताः

केदारकटुका = स्त्री केदारस्य कटुकेव। कटुकाभेदे राजनि०

केदारखण्ड = पु० व्यासप्रणीते स्कन्दपुराणान्तरर्गते अवन्तिखण्डस्थकेदारमाहात्म्यप्रतिपादके ग्रन्थभेदे।

केदारज = त्रि० केदारात् जायते जन–ड। १ कृष्टभूमिजाते ब्रीहिभेदे केदारशब्दे तद्गुणा उक्ताः। २ पद्मकाष्ठे न० राजनि० केदारजातादयोऽप्यत्र

केन = न० केनेत्युप्रपक्रम्य प्रवृत्तम्। तलवकारोपनिषद्रूपे केनेषितमित्यादिके उपनिषद्भेदे “ईशा केन कठ प्रश्न मुण्डमाण्डूक्यतित्तिरिः” मुक्तिको० उपनिषच्छब्दे विवृतिः

केनती = स्त्री के सुखार्थं नतिः बा० ङीप् अलुक्स०। स्मरलीलायां त्रिका०।

केनार = पु० के मूर्द्ध्नि नारः नृ–वञ् अलुक्स०। १ कम्भिनामनरके हेम०। २ शिरसि ३ कपोले ४ सन्धौ च मेदि०।

केनिप = पु० के सुखे निपतति नि + पत–ड अलुक्स०। मेधाविनि निवण्टुः “यथा केनिपानामिनो वृधे” ऋ० १०, ४४, ४, “केनिपाना मेधाविनाम्” भा०। निघण्टौ अकेनिप इति वा पाठः। तत्रार्थे।

केनिपात = पु० के जले निपात्यते नि + पत–णिच्–कर्म्मणि अच्। (हाल)नौकात्तालनं काष्ठनिर्म्मिते पदार्था अरित्रं शब्दमा० तं हि जले पातयित्वा चालनेन नौकां चालतीति तस्य तथात्वम्। स्वार्थे क। तत्रार्थे अमरः।

केन्दु = पु० ईषत् इन्दुरिव कोः कादेशः। १ तिन्दुकवृक्षे शब्दरत्ना०। संज्ञायां कन्। (गाव) गालववृक्षे। “लघुद्वयं विरामान्तं ताले केन्दुकसंज्ञके” इति संगी० दा० उक्ते २ तालभेदे पु०

केन्दुवाल = पु० केजले इन्दोरिब अर्द्धेन्दोरिव वालश्चलनमस्य। अरित्रे (हाल) इति ख्याते नौकाचालने काष्ठभेदे। “अरित्रशब्दः केन्दु वालवाचकः” यजुर्वेददीपः

केन्दुविल्व = पु० गीतगोविन्दग्रन्थकारकजयदेवनिवासे ग्रामभेदे (केन्दली) “केन्दुविल्वसमुद्रसम्भवरोहिणीरमणेन” (जयदेवेन) गीतगो०।

केन्द्र = न० “वृत्तस्य मध्यं किल केन्द्रमुक्तम्। केन्द्रं ग्रहोच्चा न्तरमुच्यतेऽतः। यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्च वृत्तस्य सदैव केन्द्रम्” शि० सि० गोलाध्यायोक्ते १ वृत्तक्षेत्रस्य मध्यस्थाने २ ग्रहाणामुच्चस्थानान्तरे च। तदानयनप्रकारः तस्य समविषमादिसंज्ञाभेदौ च सू० सि० रङ्गनाथाम्यां दर्शितौ यथा “ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद्विशोध्य च। शेषं केन्द्रपदं तस्माद्भुजज्या कोटिरेव च” मू०। “ग्रहं राश्यादिकं मन्दोच्चात् प्रागानीतस्वकीयराश्यादिकं मन्दोच्चभागात् संशोध्योनीकृत्य शीघ्रात् प्रागानीतराश्यादि शीघ्रोच्चात्, चः समुच्चये ऊनीकृत्य शेषं राश्यात्मकं तथोच्चसम्बन्धेन केन्द्रं मन्दोच्चाद्धीनो ग्रहो मन्दकेन्द्रम्। शीघ्रोच्चाद्धीनो ग्रहः शीघ्रकेन्द्रं भवतीत्यर्थः। तस्मात् केन्द्रात् पदं राशित्रयात्मकं विषमं समं पदं ज्ञेयम्। त्रिराश्यन्तर्गतं चेत् प्रथमं विषमं पदम्। ततःषड्राश्यन्तर्गतं चेत् त्र्युनं केन्द्रं द्वितीयं समं पदम्। ततो नवराश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम्। ततो नवोनं चतुर्थं पदं सममित्यर्थः। तस्मात् पदाद्भुजस्य ज्या कोटिः कोटेर्ज्या। चः समुच्चये। एवकारात्तदाकारद्वयं साध्यमित्यर्थः। अत्रोपपत्तिः। उच्चस्थानाभिमुखमुच्चदैवतैर्ग्रहाणामाकर्षणोक्तेरुच्चाद्ग्रहः कियदन्तरेणेति ज्ञानार्थसुच्चहीनो ग्रहः केन्द्रमुच्चग्रहणवशात् तदाख्यम्। तत्र भगवता स्पेच्छया ग्रहादुच्चं यदन्तरेण तत् केन्द्रं कृतम्। उभयथा भुजकोट्योस्तुल्यत्वात्। द्वादशराश्यङ्किते वृत्ते उच्चस्थानाच्चतुर्विभागात्मक एकैको भागो राशित्रयात्मकः पदसंज्ञः। अथोच्चस्थानाद्ग्रहः कस्मिन् पदेऽस्तीति शून्यत्रिषण्णवोनं केन्द्रं कृतं, ज्यानां पदान्तर्गतत्वात्। ग्रहाधिष्ठितपदाद्भुजज्याकोटिज्ययोर्ज्ञानम्। तच्च ग्रहाणां राश्यंशकलाविकलादिस्थितिज्ञानार्थंस्पष्टताकरणसाधनं तत्रैव प्रसिद्धम्” रङ्ग०। एतत्साम्यात् लग्नावधिकद्वादशराशिषु त्रिराश्यन्तरस्थानरूपे लग्नचतुर्थसप्तमदशमस्थानरूपे २ स्थानचतुष्के। “लग्नाम्बुद्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम्। चतुष्टयञ्चात्र खेटो बली लग्ने विशेषतः” ज्यो० त०। केन्द्रगतग्रहबलञ्च बलशब्दे वक्ष्यते। केन्द्रगतग्रहवशादायुस्तु केन्द्रायुरित्यभिधीयते तच्चाकरे दृश्यम्। “आप्नोक्लिमगते चन्द्रे केन्द्रस्थे सुरपूजिते। योगः केन्द्र इति ख्यातो यातुरिष्टार्थसिद्धिदः” ज्योतिषोक्ते ३ यात्राशुभयोगभेदे पु०। केन्द्रं स्थानत्वेनास्त्यस्य इनि। केन्द्रिन् तत्स्थे ग्रहे

केप = चालने भ्वा० आत्म० सक० सेट। केपते अकेपिष्ट। ऋदित् केपयति ते अचकेपत्–त। प्रनिकेपते

केपि = त्रि० कु + पू–इन् पृषो०। “पुनाति कर्म्म कुत्सितं दुष्पूयं भवतीति” निरुक्तोक्ते निन्दितकर्म्मणि। “न ये शेकुर्यज्ञियां नावमारुहमीर्म्मैव ते न्यविशन्त केपयः” ऋ० १०, ४४, ६, “केपयः कुत्सितपूयकर्म्माणः” भा०।

केमद्रुम = पु० ज्योतिषोक्ते योगभेदे। स च योगः जातकपद्धतौ फलश्नङ्गभ्यां सहितोदर्शितोयथा। “शीतांशोर्धनगैर्भवेद्धि सुनफा रिप्फस्थितैः साऽनफा। युग्मस्थैरविवर्जितैर्दुरधरा केमद्रुमोऽतोऽन्यथा”। तत्फलम् “नृपर्त्येशजातोऽपि केमद्रुमभवोनरः। मलिनो दुःखितो नीचो निःस्वोदासः खलोभवेत्” तद्भङ्गस्तु तत्रैव “चन्द्रे केन्द्रगतेऽथवा ग्रहयुते सर्व्वैश्च दृष्टे विघौ सर्व्वैः कण्टकसंज्ञितैर्ग्रहयुतैः केमद्रुमोनेष्यते। लग्नाद्विधोर्वा वृद्धिस्थैः शुभैः सर्व्वं शुभं फलम्। द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति दरिद्रता”

केमुक = पु० के मूर्द्ध्नि अमयति अम–रोगे उक अलुक्स०। (के~उ) १ वृक्षभेदे। २ कन्दशाकभेदे न० भावप्र०। “केमुकं कुटकं पाके तिक्तं ग्राहि हिमं लघु। दीपनं पाचनं हृद्यं कफपित्तज्वरापहम्। कुष्ठकासप्रमेहास्रनाशनं वातलं कटु”। तत्र तद्गुणाउक्ताः तत्फलन्तु हविष्ये वर्ज्ज्यम् “फलं केमुकवर्ज्जितम्” स्मृतेः।

केयूर = पु० के बाहुशिरसि याति या–ऊर किच्च अलुक् समा०। (वाजु) (ताड) १ बाहुभूषणे अमरः। “विदूरे केयूरे कुरु करयुगे रत्नवलयम्” सा० द० “केयूरबन्धोच्छ्रसितैर्नुनोद” रघः। २ रतिबन्धभेदे पु० स च द्विधा। “स्त्रोजङ्घे चैव संपीड्य दोर्भ्यामालिङ्ग्य सुन्दरीम्। कारयेत् स्थापनं कामी बन्धः केयूरसंज्ञितः” स्मरदीपिका। “स्त्रीणां जङ्घान्तराविष्टो गाढमालिङ्ग्य सुन्दरीम्। कामयेद्विपुलं कामी बन्धः केयूरसंज्ञितः”। रतिमञ्जरी।

केरक = पु० ब० व०। देशभेदे। “एकपादांश्च पुरुषान् केरकान् वनवासिनः” भा० सभा० २० अ०। सहदेवदक्षिणदिग्विजये। अतः तद्देशस्य दक्षिणविभागस्थत्वम्।

केरल = पु० सगरेण म्लेच्छतां प्रापिते १ क्षत्रियभेदे। तत्कथा हरिवं० १४ अ०

“ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा। पह्नवांश्चैव निःशेषान् कर्त्तुं व्यवसितः किल। ते बध्यमाना वीरेण सगरेण महात्मना। वशिष्ठं शरणं गत्वाप्रणिपेतुर्म्मनीषिणम्। वशिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्यतिः। सगरं वारयामास तेषां दत्त्वाऽभयन्तदा। सगरः स्वाम्प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च। धम्मं जघान तेषां वै वेशान्यत्वं चकार ह। अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत्। यवनानां शिरः सर्वं काम्बोजानां तथैव च। पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः। निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना। शका यवनकाम्बोजाः पारदाः पह्नवास्तथा। कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः। सर्व्वे ते क्षत्त्रियास्तात! धर्म्मस्तेषां निराकृतः। वशिष्ठवचनाद्राजन्! सगरेणं महात्मना”। ३ तदधिष्ठानदेशभेदे ब० व०। स च दक्षिणस्थः वृ० सं० कूर्म्मविभागे १४ अ०। “दशपुरगोनर्द्दकेरलकाः” दक्षिण स्यामुक्तम् तत्रत्य पर्व्वतनद्यादि रर्घो वर्णितं यथा “तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः। रामास्त्रोत्सारितोऽप्यासीत् सह्यलग्न इवार्णवः। भयोत्सृष्टविभूषाणां तेन केरलयोषिताम। अलकेषु चमूरेणुः चूर्णप्रतिनिधीकृतः। मुरलामारुतोद्धूतमगमत् कतकं रजः”। ३ होरायां ४ ज्योतिर्ग्रन्थविशेषे च स्त्री गौरा० ङीष् शब्दरत्ना०। केरलज्योतिविद्यायाञ्च सङ्केतविशेषोदिग्मात्रं दर्श्यते। “वर्गवर्ण्णप्रमाणञ्च सस्वरं ताडितं मिथः। पिण्डसंख्या भवेत्तस्य यथाभागैस्तु कल्पना” गर्गसंहिता। अयमर्थः। अ क च ट त प य शा इत्यष्टौ वर्गास्तेषामेकादिसंख्या यथा अवर्गे १। कवर्गे २। चवर्गे ३। टवर्गे ४। तवर्गे ५। पवर्गे ६। यवर्गे ७। शवर्गे ८। वर्णसंख्या च प्रतिवर्गं भिन्ना यथा अवर्गे १६ वर्ण्णा यथा अ १ आ २ इ ३ ई ४ उ ५ ऊ ६ इत्यादि। कादौ पान्ते वर्गे च पञ्च पञ्चसख्या। यवर्गे ४ शवर्गे च ४। एवं च दाडिमफलनामप्रश्ने दकारस्य तवर्गत्वात् वर्गसंख्या ५ वर्ण्णसंख्या ३ मिलित्वा ८। डस्य वर्गसंख्या ४ वर्ण्णसंख्या ३ मिलित्वा ७। मस्य वर्गसंख्या ६ वर्णसंख्या ५ मिलित्वा ११ एवं वर्गवर्णसंख्या २६। दाडिमपदे आ इ अ इति स्वरत्रययुक्ते अवर्गसंख्या १ आरूपसंख्या २ मिलित्वा ३ एवं इ ४ अ २। मिलित्वा नवसंख्या तथा समष्टौ ३५। पश्चात् यथोक्तक्रिया कार्य्या। प्रश्नशब्दे तद्गणनादि फलं च वक्ष्यते। क्वचित् स्वरसंख्यामनादाय अन्यथा सङ्केतो दर्शितो यथा। “कादयष्टादयोऽङ्काः स्युः पाद्याः पञ्च तथा मताः। यादयोऽष्टौ ङनां शून्यं गणकैः परिकीर्त्तितम्” इत्युक्तिमनुरुध्य कालमा० “सौरवार्हस्पत्यसावनशशधरनाक्षत्रिकाः क्रमेण। मातुलपातालातुलवितुलविमलवरदाश्च संवत्साराः षञ्च” आयुर्वेदवाक्ये “गणकप्रसिद्धयाक्षरसंख्यया मातुलशब्दः पञ्चषष्ट्यधिकशतत्रयमाचष्टे तावद्दिवसपरिमितः कालः सौरः। पातालशब्द एकषष्ठ्यधिकशतत्रयमाचष्टे तावद्दिवसपरिमितः वार्हस्पत्यः। अतुलशब्दः षष्ट्यधिक शतत्रयमाचष्टे तावद्दिवसपरिमितः सावनः। विमलशब्दः श्रतुःपञ्चाशदधिमशतत्रयमाचष्टे तावद्दिनपरिमितश्चान्द्रः, वरदशब्दश्चतुर्विंशत्यधिकशतत्रयमाह तावद्दिवसपरिमितो नाक्षत्रिकः संवत्सरः” इत्युक्रम्। अस्यायमर्थः। मातुलशब्दस्य स्वरत्यागे मस्य पकारात् पञ्चमत्व तेन ५ संख्या गृह्यते। तकारस्य टादितः षष्ठत्वेन ६ संख्या लस्य यादो तृतीयत्वेन ३ संख्या अङ्कस्य वामागत्या तेषां यथाक्रमयोजने मातुलशब्दे ३६५ संख्या निष्पद्यते। एव पातालशब्दे पस्य आद्यत्वात् १ संख्या तकारस्य टादितः षष्ठत्वात् ६ स ख्या लस्य प्राग्वत् ३ संख्या। तेन पातालशब्द ३६१ संख्या। अतुलशब्दस्य नञादशाकारस्य शून्यवाचित्वात्०। तकारस्य ६ संख्या लस्य ३ संख्या। तेन ३६० संख्या। विमलशब्दे च वस्य यादौ चतुर्थत्वात् ४ संख्या सस्य प्राग्वत् ५ संख्या लस्य ३ संख्या यथा स्थानयोजने ३५४ संख्या। वरदशब्द व ४ र २ द ३ यथाक्रमयोजन ३२४ संख्या। ईदृशकेरलसङ्गेतमभिप्रेत्यैव मन्त्रविशेषपुटितसप्तशताजपस्य एकस्मिन्दिने करण्णासामर्थ्ये ३ माहात्म्यात्मकसप्तशत्या दिनावर्शषेषु माहात्म्यासंख्याविशेषपाठार्थं तदीकायां नागोजीं मद्देन “पाठोऽयं विफकारः” इत्युक्तम्। तस्यायमाशयः पस्य पादावेकत्वात् १ संख्या तेन प्रथमदिने १ माहात्म्यं पाठ्यम। ठस्य टादितः द्वितीयत्वात् २ संख्या तेन द्वितीयदिने द्वे माह्यत्म्ये। यस्य यादावाद्यत्वात् १ संख्या तेन तृतीयदिने १ माहात्म्यं पाठ्यम्। वकारस्य यादौ चतुर्थत्वात् ४ संख्या तेन चतुर्थदिने ४ माहात्म्यानि। फस्य पादौ द्वितीयत्वात् २ संख्या तेन पञ्चमदिने २ द्वेमाहात्म्ये। कस्य कादावाद्यसंख्यात्वात् १ संख्या तेन षष्ठे दिने एकमाहात्म्यम् रस्य यादौ द्वितीयत्वात् २ संख्या तेन सप्तमदिने २ माहात्म्येपाट्ये। एवं सप्तभिर्दिनैः त्रयोदश माहात्म्यानि जप्यानीति। केरलोक्तदशा तु दशाशब्दे वक्ष्यते

केरव = पुंस्त्री हंहे शब्दचि०। कैरवशब्दे व्युत्पत्तिर्दृश्या।

केल = चालने भ्वा० पर० सक० सेट्। केलति अकेलीत्। चिकेल। केलिः। ऋदित् णिचि अचिकेलत्–त।

केलक = पु० केल–ण्वुल्। खड्गधारादिनर्त्तके त्रिका०।

केला = विलासे कण्ड्वा० आ० अ० सेट्। केलायते अकेलायिष्ट केलायां बभूव आस चक्रे। केलायमानः

केलास = पु० केला विलासः सीदत्यस्मिन् सद–आधारे बा० ड। स्फटिके शब्दचि० तत्तुल्यवर्णत्वात्। कैलासः

केलि = पुंस्त्री० केल–इन्। १ परीहासे, अमरः २ क्रीडायां ३ पृथिव्यां शब्दमाला। “विहारे सह कान्तेन क्रीडितं केलिरुच्यते” सा० द० उक्तलक्षणे स्त्रीणां कान्तेन सह ४ विहारक्रीडनरूपे यौवनजालङ्कारे। एवं पुरुषस्य कान्तया सह ५ विहारक्रीडने च। “उपचारः क्रिया केलिः स्पर्शो भूषणवाससाम्। सहखद्वासनञ्चैव सर्व्वं संग्रहणं स्मृतम्” मनुः स्त्रीत्वे वा ङीप्। तत्र पुंस्त्वे “गोपालानन्वशात् केलीन्” मुग्धबो० स्त्रीत्वे “मालत्याः कुसुमेषु येन सततं केली कृता हेलया” भ्रमरा० “माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमम्” सा० द०। उभयत्र “कुमुदिनीकुलकेलिकलालसः “भ्रमरा०

केलिक = पु० केलिः प्रयोजनमस्य ठन्। अशोकवृक्षे राजनि०

केलिकदम्व = पु० केलेः केल्यर्थः कदम्बः। स्वनामख्याते कदम्बवृक्षभेदे।

केलिकला = स्त्रो केलिरूपा कला। १ केलिरूपायां कलायां केलिना कला यत्र। २ सरस्वतीवीणायां शब्दरत्ना०

केलिकिल = पु० केलिना किलति किल–क्रीडायां क। २ विदूषकरूपे नाट्ये शृङ्गारवयम्ये। २ शिवस्यानुचरभेदे कुद्माण्डके च हेमच०। ३ कामदेवपत्न्यां रतौ स्त्रा त्रिका० ४ परिहासकारके त्रि० “सतु केलिकलो विप्रोभेदशीलश्च नारदः” हरिवं० ३२०९ श्लो०

केलिकिलावती = स्त्री स्मरभार्य्यायां त्रिका०

केलिकीर्ण्ण = पुंस्त्री० केलिना कीर्ण्णोघूलिमिः। १ उष्ट्रे हेम० स्त्रियां टाप्

केलिकुञ्जिका = स्त्री० केलीनां कुञ्जिकेव। श्यालिकायां भार्य्या भागिन्यां त्रिका० तया सह केलिप्रादुर्भावात् तथात्वम्

केलिकोष = पु० केलीनां कोषैव। नटे शब्दरत्ना०

केलिगृह = न० ६ त०। १ केलिमन्दिरे २ रत्यादिगृहे च केलिमन्दिरादयोऽप्यत्र।

केलिनागर = पु० केलिप्रधानो नागरः शा० त०। भोग प्रधाने नागरे नायकभेदे जटाधरः

केलिमुख = पु० केलिः मुखमत्र। परीहासे त्रिका०

केलिरैवतक = न० हल्लीशलमणयुक्ते नाटकभेदे। हल्लीलक्षणमुक्त्वा “केलिरैतकम्” सा० द० उदाहृतम्

केलिवृक्ष = न० केलेः क्रीडार्थं वृक्षः। १ केलिकदम्बवृक्षे शब्दरत्ना०। केलेर्वृक्षैवाश्रवत्वात्। २ विदूषके शब्दमा०

केलिशुषि = स्त्री केलिना शुष्यति शुष बा० कि। धरित्र्या शब्दमा०

केलिसचिव = पु० केलौ सचिवः सहायः। नर्मसचिवे क्रीडाविषये मन्त्रिणि विदूषकादौ शब्दमा०।

***