वाचस्पत्यम्
कृषि to कृष्ट
links:
Menu अ–ह
Prev कृति–कृषा
Next कृष्ण–कृस
कृषि
कृषिक
UpasanaYoga
.org

कृषि = स्त्री कृष–इक्। शस्योत्पादतार्थं भूमिकर्षणरूपेवैश्यवृत्तिभेदे अमरः कृषिकम्म प्रकारादि कृषिपराशरे दर्शितं यथा तत्रादौ कृषिप्रशंसा “चतुर्व्वेदालयो ब्रह्मा व्रवीति कृषणं वचः। अलक्ष्म्या युज्यते सोऽपि प्रार्थमालायवान्वितः। एकयैव पुनः कृष्या प्रार्थको नैव जायते। कृष्यान्वितो हि लोकेऽस्मिन् भूयादेकश्च भूपतिः। सुवर्णरौप्यमाणिक्यवसनैरपि पूरिताः। तथाप प्रार्थयन्त्येव कृषकान् भक्ततृष्णया। कण्ठे हस्ते च कर्ण्णो च सुवर्णं यदि विद्यते। उपवासस्तथापि स्यादन्नाभावेन देहिनाम्। अन्नं प्राणा बलञ्चान्नभन्नं सर्व्वार्थसाधकम्। देवासुरमनुष्याश्च सर्व्वे चान्नोपजीविनः। अन्नन्तु धान्यसम्भूतं धान्यं कृष्या विना न च। तस्मात् सर्वं–परित्यज्य कृषिं यत्नेन कारयेत्। कृषिर्धन्या कृषिर्म्मोध्या जन्तूनां जीवनं कृषिः। हिंसादिदोषयुक्तोऽपि मुच्यतेऽतिथिपूजनात्। तेवार्च्चितं जगत् सर्व्वमतिथि र्येत पूजिनः। अर्च्चितास्तेन देवाश्च सएव पुरुषोत्तमः”।अथ कृषेः स्वयमवेक्ष्यतोक्तिः “फलत्थवेक्षिता स्वर्णं, दैन्यं सैवानवेक्षिता। कृषिः कृषिपुराणज्ञ इत्युवाच पराशरः”। अथ चान्ये मुनयआहुः “पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्। गोषु चात्मसमं दव्यात् स्वयमेव कृषिं व्रजेत्। कृषिर्गावो वाणविद्याः स्त्रियो राजकुलानि च। क्षणेनेवावसोदत्ति मुहूर्तमनवेक्षणात्। समर्थैय कृषिः कार्य्या लीकामां हितकाम्यया असमर्थो हि कृषको मिक्षामटति नोचयत्। गोहितः क्षेत्रगामी च कालज्ञो वीजतत्परः। वितन्द्रः सर्व्वशस्याट्यः षकको नावसीदति”।अथ वाहपोषणादिप्रकारः। “कृषिञ्च तादृशीं कुर्य्यात् यथा वाहान्न पीडयेत्। वाहपीडार्जितं शस्यं गर्हितं सर्वकर्म्मसु। वाहपीडार्जितं शस्यं फलितञ्च चतुर्गुणम्। वाहनिश्वासविफलः कृषको निः स्वतां व्रजेत्। गुण्डकैर्यवसैर्धूमै स्तधान्यैरपि पोषणैः। वाहाः क्वचिन्न सीदन्ति सायं प्रातश्च चारणात्”।अथ गोशालाविधानम्। “गोशाला सुदृढा यस्य शुचिर्गोमयवर्जिता। तस्य वाहा विवर्द्धन्ते पोषणैरपि वर्जिताः। शकृन्मूत्रविलिप्ताङ्गा वाहा यत्र दिते दिने। निःसरन्ति गवां स्थानात् तत्र किं पोषणादिभिः। पञ्चपञ्चायता शाला गवां वृद्धिकरी मता। सिंहस्याने कृता सैव गोनाशं कुरुते ध्रुवम्। सिंहगेहेऽर्षितां चैव गोशालां कुरुते यदि। प्रमादान्मन्दबुद्धित्वात् गवां नाशोभवेत्तदा। तण्डुलानां जलञ्चैव तप्तमण्डं झषोदकम्। कार्पासास्थितुषञ्चैव गोस्थाने गोविनाशकृत्। सम्मार्ज्जनीञ्च मुसलमुच्छिष्टं गोनिकेतने। कृत्वा गोनाशमाप्नोति तथा तत्राजबन्धने। गोमूत्रजालकेनैव तत्रावस्करभोचनम्। कुर्व्वन्ति गृहमेधिभ्यस्तत्र का वाहवासना। विलब्धिं गोमयस्यापि रविभौमशनेर्द्दिने। न कारयेत् भ्रमेणापि गोवृद्धिं यदि वाञ्छति। वारत्रयं परित्यज्य दद्यादन्येषु गोमयम्। विलभ्य शनिभौमेषु गवां हानिकरः स्मृतः। श्लेष्ममूत्रम्रीषाणि पङ्कानि च रजांसि च। न पतन्ति गवां यत्र तत्र लक्ष्मीः स्थिरा भवेत्। सन्ध्याकाले च गोस्थाने दीपो यत्र न दीयते। स्थानं तत् कमलाहीनं वीक्ष्य क्रन्दन्ति गोगणाः। हलमष्टगवं धर्म्म्यं षड्गवं व्यवसायिनाम्। चतुर्गवं नृशंसानां द्विगवञ्च गवाशिनाम्। नित्यं दशहले लक्ष्मीर्नित्यं पञ्चहले धनम्। नित्यञ्च त्रिहले भक्तं नित्यमेकहले ऋणम्। आत्मपोषणमात्रन्तु द्विहलेन च सर्व्वदा। पितुदेवातिथीनाञ्च पुष्ट्यर्थं सोऽ क्षभो भवेत्।अथ गोपर्वकथनम् “गोपूजां कार्त्तिके कुर्य्यात् लगुडपति पत्तिथौ। बद्ध्वा श्यामलतां स्कन्धे लित्वा तैलहरिद्रया। कुङ्कुमैश्चन्दनैश्चापि कृत्या चाङ्गे विलेपनम्। उद्यम्य लमुडं हस्ते गोपालाः कृतभूषणाः। ततो वाद्यैच नृत्यैश्च मण्डयित्वाऽम्बरादिभिः। भ्रामयेषुर्वृषं मुख्यं ग्रामे गोविन्नशान्तये। गवामङ्गे तदा दद्यात् कार्त्तिकप्रथमे दिने। तैलं हरिद्रया युक्तं मिलित्वा कुङ्कुमैः सह। तसलोहादिकं तत्र गवामङ्गे प्रदापयेत्। छेदनञ्च प्रकुर्व्वीत लाङ्गूले कचकर्णयोः। सर्वा गोजातयः सुस्था भवन्त्येतेन तद्गृहे। नानाव्याधिनिर्म्मुक्ता वर्षमेकं न संशयः”।अथ गवां यात्राप्रवेशकालादि। पूर्वात्रयं धनिष्ठाच इन्द्राग्निसौम्यवारुणाः। एते शुभप्रदा नित्यं गवां यात्राप्रवेशयोः। उत्तरात्रयरोहिण्यां शिनीवाली चतुर्द्दशी। पुष्यश्रवणहस्तेषु चित्रायामष्टमीषु च। गवां यात्रां न कुर्वीत प्रस्थानं वा प्रवेशनम्। पशवस्तस्य नश्यन्ति ये चान्ये तृणचारिणः। अर्कार्किकुजवारेषु नवां यात्राप्रवेशयोः। गमने गोविनाशः स्यात् प्रवेशे गृहिणो बधः”।अथ गोमयकूटोद्धारः “माघे गोमयकूटन्तु संपूज्य श्रद्धयान्वितः। सारं शुभदिनं प्राप्य कुद्दालैस्तीलयेत्ततः। रौद्रे संशोष्य तत् सर्वं कृत्वा गुण्डकरूपिणम्। फाल्गुने प्रतिकेदारे गर्त्तं कृत्वा निधापयेत्। ततो वपनकाले तु कुर्य्यात् सारविमोचनम्। विना सारेण यद्धान्यं वर्द्धते न फलत्यपि”।अथ हलसामग्रीकथनम् “ईशा युगो हलस्थाणुर्णिर्योल स्तस्य पाशिका। अड्डचल्लश्च शौलश्च पच्चनी च हलाष्टकम्। पञ्चहस्ता भवेदीशा स्थाणुः पञ्चवितस्तिकः। सार्द्वहस्तस्तु निर्योलो युगः कर्णसमानकः। निर्योलपाशिका चैव अड्डचल्लस्तथैव च। द्वादशाङ्गुलमानो हि शौलोऽरत्निप्रमाणकः। सार्द्धद्वादशमुष्टिर्वा कार्य्या वा नवमुष्टिका। हढा पच्चनिका ज्ञेया लौहाग्रा वंशसम्भवा। आबन्धो मण्डलाकारः स्मृत पञ्चदशाङ्गुलः। योक्त्रं हस्तचतुष्कञ्च रज्जुः पञ्चकरात्मिका। पञ्चाङ्गुलाविको हस्तो हस्तो वा फालकः स्मृतः। अर्कस्य पत्रसटशी पाशिका च नवाङ्गुला। एकविंशतिशल्यस्तु विद्धकः परिकीर्त्तितः। नवहस्ता तु मदिका(मै)प्रशस्ता कृषिकर्म्मसु। इयं हि हलसामग्री पराशरमुनेर्म्मता। सुदृढा कर्षकैः कार्य्या शुभदा कृषिकर्म्मणि। अडढा युज्यमाना सा सामग्री वाहनस्य च। विघ्नं पदे पदे कुर्य्यात् कर्षकाले न संशयः”।अथ हलप्रसारणकालादि “अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ। पुष्यश्रवणहस्तेषु कुर्य्याद्वलिपसारणम्। हलप्रसारणं कार्य्यं कर्षकैः शस्यवृद्धये। शुक्रेन्दुजीववा- रेषु शशिजस्य विशेषतः। भौमार्कदिससे चैव तथैव शनिवासरे। कृषिकर्म्मसमारम्भो राज्योपद्रवमादिशेत्। दशम्येकादशी चैव द्वितीया पञ्चमी तथा। त्रयोदशी तृतीया च सप्तमी च शुभावहा। शस्यक्षयः प्रतिपदि द्वादश्यां बधबन्धनम्। बहुविघ्नकरी षष्ठी कुहूः कृषकनाशिनी। हन्त्यष्टमी बलीवर्द्दात् नवमी शस्यघातिनी। चतुर्थी कीटजननी सर्वं हन्ति चतुर्द्दशी। वृषे मीने च कन्यायां युग्मे धनुषि वृश्चिके। एतेषु शुभलग्नेषु कुर्य्याद्वलप्रसारणम्। मेषलग्ने पशुं हन्यात् कर्कटे जलजात् भयम्। सिंहे चौरभयञ्चैव कुम्भे सर्पभयं तथा। मकरे शस्यनाशः स्यात् तुलायां प्राणसंशयः। तस्माल्लग्नं प्रयत्नेन कृष्यारम्भे विचारयेत्। शुभेऽर्के चन्द्रसंयुक्ते शुक्लयुग्मेन वाससा। शुक्लपुष्पैश्च गन्धैश्च पूजयित्वा यथाविधि। पृथिवीं हलसंयुक्तां पृथुञ्चैव प्रजापतिम्। अग्नेः प्रदक्षिणं कृत्वा भूरि दत्त्वा च दक्षिणाम्। फालाग्रं स्वर्णसंयुक्तं कृत्वा च मधुलेपनम्। अहेः क्रोडे वामपार्श्वे कुर्य्याद्वलप्रसारणम्। स्मर्त्तव्यो वासवो व्यासः पृथूरामः पराशरः। सम्पूज्याग्नं द्विजं देवं कुर्य्याद्वलिप्रसारणम्। कृष्णौ वृषौ हले श्लाघ्यौ रक्तौ वा कृष्णलोहितौ। मुखपार्श्वौ तयोःस्नाप्यौ नवन्या च घृतेन च। उत्तराभिमुखो भूत्वा इन्द्रायार्घ्यं निवेदयेत्। शुक्लपुष्पसमायुक्तं दधिक्षीरसमन्वितम्। सुवृष्टिं कुरु देवेश! गृहाणार्य्यं शचीपते!। निविष्टो विष्टरे भक्तः सस्थाप्य जानुनी क्षितौ। प्रणमेद्वासवं देवं मन्त्रेणानेन कर्षकः। वृषो महाकटिर्वर्ज्यश्छिन्नलाङ्गूलकर्णकः। सर्वशुक्लस्तथा वर्ज्यः कृषकैर्हलकर्म्मणि। हलप्रसारणं कार्य्यं नीरुगभिर्वृषकर्षकैः। छिग्नरेखा न कर्त्तव्या यथा प्राह पराशरः। एका तिस्रस्तथा पञ्च हलरेखाः प्रकीर्त्तिताः। एका जयकरी रेखा तृतीया चार्थसिद्धिदा। पञ्चमाख्या त या रेखा बहुशस्यप्रदायिनी। हलप्रबाहकाले तु कूर्म्ममुत्पाटयेद्घदि। गृहिणी म्रियते तस्य तथा चाग्निभयं भवेत्। फालोत्पाटे च मङ्गे च देशत्यागो भवेद्ध्रुवम्। लाङ्गलो भिद्यते वापि प्रभुस्तस्य विनश्यति। ईशाभङ्गोभवेद्वापि कृषको जीवनाक्षमः। भ्रातृनाशो युगे भग्ने शौले च म्रियते वृषः। योक्त्रच्छेदे च रोगः स्यात् शस्यहानिश्च जायते। निपाते कर्षकस्यापि कष्टं स्यात् राजमन्दिरे। हलप्रबाहकाले तु गौरेकः प्रपतेद्वदि। ज्वरातिसाररोगेण मानुषो म्रियते तदा। हले प्रवहमाने तु वृषो धावन् यदि व्रजेत्। कृषिभङ्गो भवेत्तस्य पीडा चापि शरीरजा। हलप्रवाहमात्रन्तु गौरेको नर्द्दते यदि। नासालीढं प्रकुर्वीत तदा शस्यं चतुर्गुणम्। प्रवाहान्मुक्तमात्रन्तु गौरेकः स्वनते यदि। अन्यस्य लेहनं कुर्य्यात् तदा शस्यं चतुर्गुणम्। हले प्रवहमाने तु शकन्मूत्रं यदा स्रवेत्। शस्यवृवृइः शकृत्पाते मूत्रे वन्या प्रजायते। हलप्रसारणं येन न कृतं मृगकुम्भयोः। कुतस्तस्य कृषाणस्य फलाशा कृषिकर्म्मणि। हलप्रसारणं नैवं कृत्वा यः कर्षणं चरेत्। केबलं बलदर्पेण स करोति कृषिं वृथा। मृत् सुवर्णसमा माघे कुम्भे रजतसन्निभा। चेत्रे ताम्रसमा ख्याता धान्यतुल्या च माधवे। ज्यैष्ठे मृदेव विज्ञेया आषाढे कर्द्दमाह्वया। निष्फला कर्कटे चैव हलैरुत्पाटिता तु या”। तथाच पराशरः। “हेमन्ते कृष्यते हेम। वसन्ते ताम्ररौप्यकम्। धान्यं निदाघकाले तु दारिद्र्यन्तु घनागमे”।अथ वीजस्थापनविधिः “माघे वा फाल्गुने वापि सर्ववीजस्य सङ्ग्रहः। शोषयेदातपे सम्यक् नीहारे विनिधापयेत्। वीजस्य पुटिकां कृत्वा निधानं तत्र शोधयेत्। वीजं निधानसंमिश्रं फलहानिकरं परम्। एकरूपन्तु यद्वीजं फलं फलति निर्भरम्। एकरूप प्रयत्नेन तस्माद्वीजं समाहरेत्। सुदृढं पुटकं बद्धा तृणं छिन्द्यात् विनिगतम्। अच्छिन्नतृणक ह्यस्मिन् कृषिः स्यात्तृणपूरिता। न वल्मीके न गोस्थाने न प्रसूतानिकेतने। न च बन्ध्यावति गेहे वीजस्थापनमाचरेत्। नोच्छिष्टः संस्पृशेद्वीजं न च नारी रजस्वला। न बन्ध्या गुर्विणी चैव न च सद्यःप्रसूतिका। घृतं तैलञ्च तक्रञ्च प्रदीपं लवणं तथा। वीजोपरि भ्रमेणापि कृषको नैव कारयेत्”। तथाच गार्ग्यः “दीपाग्निधूपसंसृष्टं वृष्ट्या चोपहतञ्च यत्। वर्जनीयं सदा वीज यद्गर्त्तेषु पिधापितम्। प्रोथितं वीजसंमिश्रं भ्रान्त्या न निवपेत् क्वचित्। निधानं गुण्डसंमिश्रं तद्वीजं बन्ध्यतां व्रजेत्। कृषाणसार केदारवृषलाङ्गलकादयः। सर्वे ते बन्ध्यतां यान्ति वीजे बन्ध्यत्वमागते। तिलधान्ययवादीनां विधिरेष प्रकीर्त्तितः। वीजेयत्नमतः कुर्य्यात् वीजमूलाः फलादयः”।अथ वीजवपनविधिः “वैशाखे वपनं श्रेष्ठं ज्यैष्ठे तु मध्यमं स्मृतम्। आषाढे चाधमं प्राहुः श्रावणे चाधमाधमम्। रोपणार्थन्तु वीजानां शुचौ वपनमु- त्तमम्। श्रावणे चाधमं प्रोक्तं भाद्रे चैवाधमाधमम्। उत्तरात्रयमूलेन्द्रमैत्रपैत्रेन्दुधातृषु। हस्ता यामथ रेवत्यां वीजवापनमुत्तमम्। विष्णुपूर्वविशा खासु यमरौद्रानिलाहिषु। वीजानां वपनं कृत्वा वीजं प्राप्नोति मानवः। वपने रोपणे चैव वारयुग्मं विवर्जयेत्। मूषिकाणां भयं भौमे मन्दे शलभकीटयोः। न वापयेत्तिथौ रिक्ते क्षीणे सोमे विशेषतः। एवं सम्यक् प्रयुञ्जानः शस्यवृद्धिमवाप्नुयात्। ज्यैष्ठान्ते त्रिदिनं सार्द्धमाषाढादौ तथैव च। वपनं सर्वशस्यानां फलार्थी कृषकस्त्यजेत्”। तथाच वराहः “वृषान्ते मिथुनादौ च त्रीण्यहानि रजस्वला। वीजं न वापयेत्तत्र जनः पापाद्विनश्यति। मृगशिरसि निवृत्ते रौद्रपादऽम्बुवाची भवति ऋतुमती क्ष्मा भास्करे त्रीण्यहानि। यदि वपति कृषाणः क्षेत्रमासाद्य वीजं न भवति फललाभो दारुणश्चात्र कालः। हिमेन वारिणा सिक्तं वीजं शान्तमनाः शुचिः। इन्द्रं चित्ते समाधाय स्वयं मुष्टित्रयं वपेत्। कृत्वा धान्यस्य पुण्याह कृषका हृष्टमानसाः। प्राङ्मुखाः कलसं कृत्वा पठेयुर्म्मन्त्रमुत्तमम्। ओं वसुधे! हेमगर्भासि बहुशस्यफलप्रदे!। वसुपूज्ये! नमस्तुभ्यं वसुपूर्णास्तु मे कृषिः। रोपयिष्यामि धान्यानां वृक्षवीजानि प्रावृषि। सुस्था भवन्तु कृषका धनधान्यसमृद्धिभिः। वासवो नित्यवर्षी स्यान्नित्यवर्षास्तु तोयदाः। शस्यसम्पत्तयः सर्वाः सफलाः सन्तु नीरुजः। इति प्रणम्य वसुधां कृषकान् घृतपायसैः। भोजयित्वा गृही भूरि निर्विघ्नां कुरुते कृषिम”।अथ मदिकादानम्। “वीजस्य वपनं कृत्वा मदिकां तत्र दापयेत्। विना मदि(मै)प्रदानेन सस्यजन्म न जायते”।अथ धान्यरोपणविधिः “वपन रोपणञ्चैव वीजं स्यादुभयात्मकम्। वपनं गदनिर्म्मुक्तं रोपणं सगदं विदुः। न वृक्षरूपधान्यानां वीजाकर्षणमाचरेत्। न फलन्ति दृढवीजा वृक्षाः केदारसंस्थिताः। हस्तान्तरं कर्कटे च सिंहे हस्तार्द्धमेव च। रोषणं सवधान्यानां कन्यायां चतुरङ्गुलम्”।अथ धान्यकट्टनम् “आषाढे श्रावणे चैव धान्यमाकट्टयेद्बुधः। अनाकृष्टन्तु यद्धान्यं यथा वीजं तथैव हि। भाद्रेच कट्टयेद्धान्यमवृष्टौ कृषितत्परः। भाद्रे चार्द्धफलप्राप्तिः फलाशा नैव चाश्विने। न बिलभूमौ धा- न्यानां कुर्य्यात् कट्टनरोपणे। न च सारप्रदानन्तु तृणमात्रन्तु शोधयेत्”।अथ धान्यनिस्तृणीकरणम् “निष्पन्नमपि यद्धान्यमकृत्वा तृणवर्जितम्। न सम्यक् फलमाप्तोति तृणक्षीण कृषिर्भवेत्। कुलीरभाद्रयोर्म्मध्ये यद्धान्यं निस्तृणं भवेत्। तृणैरपि तु सम्पूर्णं तद्धान्यं द्विगुणं भवेत्। द्विवारमाश्विने मासि कृत्वा धान्यन्तु निस्तृणम्। अथ पाकविकीनं हि धान्यं फलति माषवत्। तस्मात् सर्व्वप्रयत्रेन निस्तृणां कारयेत् कृषिम्। निस्तृणा हि कृषाणानां कृषिः कामदुघा भवेत्”।अथ भाद्रे जलमीचनम् “नैरुत्यार्थं हि धान्यानां जलं भाद्रे विमोचयेत्। मूलमात्रन्तु संस्थाप्य कारयेज्जजमोक्षणम्। भाद्रे च जलसम्पूर्णं धान्यं विविधबाधकैः। प्रपीडितं कृषाणानां न धत्ते फलमुत्तमम्”।अथ धान्यव्याधिखण्डनमन्त्रः “ओं सिद्धिः, गुरुपादेभ्यो नमः। स्वस्ति, हिमगिरिशिखरात् शङ्खकुन्देन्दुधबलशिखरतटात् नन्दनवनसङ्काशात् परमेश्वरपरमभट्टारक महाराजाधिराजश्रीमद्रामभद्रपादा विजयिनं समुद्रतटावस्थितनानादेशागतवानरकोटिलक्षाग्रगण्यं खरतरनखरातितीक्ष्णहस्तमूर्द्धलाङ्गूलं लीलागमनसमुद्धूतवातवेगाबधूतपर्व्वतशतं परचक्रप्रमथनं पवनसुतं श्रीहनूमन्तमाज्ञापवन्ति असुकग्रामे अमुकगोत्रस्य श्रीमतोऽनुकस्य अखण्डक्षेत्रे राता भोम्मा उदा गान्धिया भोम्भी गान्धी द्रोढी पाण्डरमुखी महिषामुण्डी धूलिशृङ्गा मण्डूका इत्यादयः तालजङ्घाः चटकशुकशूकरमृगमहिषमूषिकवराहपतङ्गादयः सर्व्वे शस्योपपातिनो यदि त्वदीयवचनेनू न त्यजन्ति तदा तान् वज्रलाङ्गूलेन ताडयिष्यसीति। ओं आं श्रीं ष्रीं नमः”।मतान्तरे धान्यव्याघिखण्डनमन्त्रः “ओं सिद्धिः, गुरुपादेभ्यो नमः। श्रीरामचन्द्रचरणेभ्यो नमः। स्वस्ति, हिमगिरिशिखरात् शङ्खकुन्देन्दुधबलशिलातटात् नन्दनवनसङ्काशात् परमेश्वरपरमभट्टारकमहाराजाविराजश्रीमद्रामभद्रपादाः कुशलिनः समुद्रतटावस्थितनानादेशागतवानरकोटिलक्षाग्रगण्यं खरतरनखरातितीक्ष्णहस्तमूर्द्ध्वलाङ्गूलं लीलागमनसमुद्धूतवातवेगाबधूतपर्वतशतं परचक्रप्रमथनं पवनसुतं श्रीमन्त” हनूमन्तमाज्ञापन्त्वदः, अमुकग्रामे अमुकगोत्रस्य श्री अमुकस्य अखण्डक्षेत्रे भोम्भा–भोम्भी–पाण्डरमुखी–गान्धी–धूलिशृङ्ग्यादिराग- च्छलेन त्रिपुटी नाम राक्षसी सप्त पुत्रानादाय विविधविघ्नं समाचरन्त्यवतिष्ठते, इदं मदीयशासनलिखनमवगम्य तां पापराक्षसीं सपुत्रबान्धवां वज्रदण्डाधिकलाङ्गूलदण्डैः खरतरनखरैश्च विदार्य्य दक्षिणसमुद्रे लवणाम्बुधौ खण्डशः प्रणिवेहि, यद्यत्र त्वया क्षणमपि विलम्ब्यते तर्हि त्वं केशरिणा पित्रा पवनेन मात्रा चाञ्जनया शप्तव्योऽसीत्यन्यथा नाहं प्रभुर्न त्वं भृक्ष इति ओं घ्रां घ्रीं घ्रः”। इमं मन्त्रं विल्वकण्टकेन केतकीदले लिखित्वा मुक्तकेशेनादित्यवारे क्षेमस्यैशान्यां शस्यमध्ये मञ्जरीषु बन्धयेत्। पाटान्तरञ्च लिखित्वाऽलक्तकेनैतन्मन्त्रं शस्येषु बन्धयेत्। न व्याधिकीटहिंस्राणां भयं तत्र भवेत् कचित्”।अथ जलरक्षणम्। आश्विने कार्त्तिके चैव धान्यस्य जलरक्षणम्। न कृतं येन मूर्खेण तस्य का शस्यवासना। यथा कुलार्यी कुरुते कुलस्त्रीपरिरक्षणम्। तथा संरक्षयेत् वारि शरत्काले समागते।अथ कार्त्तिकसंक्रान्त्यां नलरोपणम् “घटप्रवेशसंक्रान्त्यां रोपयेत्तु नलं तथा। केदारैशानकोणे च सपत्रं कृषकः शुचिः। गन्धैः पुष्पैश्च धूपैश्च शुक्लवस्त्रैर्विशेषतः। पूजयित्वा नलं तत्र पूजयेद्धान्यवृक्षकान्। दविभक्तञ्चनै वेद्यं पायसञ्च विशेषतः। ततो दद्यात् प्रयत्नेन तालाष्टिशस्यमेव च”। तत्र मन्त्रः। “बालकास्तरुणा वृद्धाः सन्ति ये धान्यवृक्षकाः। ज्येष्ठाश्चापि कनिष्ठा वा सगदा निर्गदाश्च ये। आज्ञया भीमसेनस्य रामस्य च पृथोपरि। ताडिता नलदण्डेन सर्व्वे स्युः समपुष्पिताः। समपुष्पत्वमासाद्य फलन्त्राशु च निर्भरम्। सुस्था भवन्तु कृषका धनधान्यसमन्विताः। रोपयित्वा नलं क्षेत्रे मन्त्रेणानेन च क्रमात्। धान्यवृद्धिं परां प्राप्य नन्दन्ति कृषका जनाः। नलन्तु घटसंक्रान्त्यां क्षेत्रे नारोपयन्ति ये। विपमा बन्ध्यपुष्पाश्च तेषां स्त्रुर्धान्यजातयः”।अथ मार्गे मुष्टिग्रहणम्। “ततो मार्गे तु सम्प्रासे केदारे शुभवासरे। धान्यस्य लवनं कुर्य्यात् सार्द्धमुष्टिद्वयं शुचिः। गन्धैः पुप्यैश्च धूपैश्च नैवेदौर्धान्यवृक्षकान्। पूजयित्वा यथान्यायमीशाने लवनं चरेत्। ततस्तन्मस्तके कृत्वा सम्मुखं शीर्षकान्वितम्। न स्पृष्ट्वा कमपि क्वापि व्रजेन्मौनेन मन्दिरम्। सप्तपद्यां ततः पादं दत्त्वा मुख्यनिकेतने। प्रविश्य स्थापयेत्तत्तु पुष्पगन्धादिपूजितम्। न मुष्टिग्रहणं कुर्य्यात् कदाचिद्धटपौषयोः। श्रेष्ठो मुष्टिग्रहो मार्गे धनघान्यफलप्रदः। सार्द्धं मुष्टिद्वयं मार्गे योऽच्छित्त्वा लवनञ्चरेत्। पदे पदे विफलता तस्य धान्यं कुतो गृहे। रौद्रे मघे तथा सौम्ये पुष्ये हस्तानिलोत्तरे। धान्यच्छेदं प्रशंसन्ति मूलश्रवणयोरपि। व्यतीपाते च भद्रायां रिक्तायां वैधृतौ तथा। भौमार्किबुधवारेषु मुष्टिसंग्रहणं त्यजेत्”। अथ = मार्गे मेधिरोपणम् “कृत्वा तु खलकं मार्गे समं गोमयलेपितम्। रोषणीया प्रयत्नेन तत्र मेधिः शुभेऽहनि। स्त्रीनाम्ना कृषकैः कार्य्या मेधिर्वृश्चिकभास्करे। मेधेर्गुणेन कृषकः शस्यवृद्धिमवाप्नुयात्। न्यग्रोधः सप्तपर्णो वा गाम्भारी शाल्मलिस्तथा। औदुम्बरो विशेषेण अन्योवा क्षीरवांस्तरुः। वटादीनामभावे तु कार्य्या स्त्री नामधारिका। वैजयन्तीयुता मेधिर्निम्वसर्षपरक्षिता। धान्यकेशरसंयुक्ता तृणमर्कटकान्विता। अर्च्चिता गन्ध पुष्पाभ्यां मेधिः शस्यसुखप्रदा। पौषे मेधिर्न चारोप्या क्रूराहे श्रवणे तथा। शस्यवृद्धिकरी मार्गे पौषे शस्यक्षयङ्करी। कपित्थविल्ववंशानां तृणराज्ञां तथैव च। मेधिः कार्य्या नरैर्नैव यदोच्छेदात्मनः शुभम्”।अथ पौषे पुष्ययात्राकथनम् “अखण्डिते ततो धान्ये पौषे मासि शुभे दिने। पुष्ययात्रां जनाः कुर्युरन्योन्यं क्षेत्रसन्निधौ। परमान्नञ्च तत्रैव व्यञ्जनैर्म्मत्स्यमांसजैः। निरामिषैस्तथा दिव्यैर्हिङ्गुमारीचसंयुतैः। दधिभिश्च तथा दुग्धैराज्यपायसमिश्रितैः। नानाफलैश्च मूलैश्च मिष्टपिष्टकयिस्तरैः। एभिः सुढौकितं कृत्वा तदन्नं कदलीदले। भोजयेयुर्जनाः सर्वे यथावृद्धपुरःसराः। आचम्य च ततस्तत्र चन्दनैश्च चतुःसमैः। अन्योन्यं लेपनं कुर्य्युस्तैलैः पक्वैः सुगन्धिभिः। कर्पूरवासितं दिव्यं ताम्बूलं गन्धधूपितम्। भक्षयेथुः प्रषूर्य्यास्यं परिधाय नवाम्बरम्। पुष्पैराभरणं कृत्वा नमस्कृत्य शचीपतिम्। गीतैर्वाद्यैश्च नृत्यैश्च कुर्य्युस्तत्र महोत्सवम्। ततस्तु हर्षिताः सर्वे मन्त्रं श्लोकचतुष्टयम्। हस्तसंपुटकं कृत्वा पठेयुर्वीक्ष्य भास्करम्। क्षेत्रे चाखण्डिते धान्ये तव देव! प्रसादतः। पुष्यन्तु मिलिताः सर्वे शस्यानि शुभकारकाः। मनसा कर्म्मणा वाचा ये चास्माकं विरोधिनः। ते सर्वे पशमं यान्तु पुष्ययात्राप्रभावतः। धान्यवृद्धिर्यशोवृद्धिः प्रवृद्धिः पुत्रदारयोः। राजसम्मानवृद्धिश्च गवां वृद्धिस्तथैव च। मन्त्रशासनवृद्धिश्च लक्ष्मीवृद्धिरहर्न्निशम्। अस्माकमस्तु सततं यावत् पूणी न वत्सरः। ततः प्रमुदिताः सर्वे व्रजेयुः स्वनिकेतनम्। न भोजर्न पुनः कुर्य्युस्तस्मिन्नहनि मानवाः। हिताय सर्तलोकानां पुष्ययात्रा मनोहरा। पुरा पराशरेणेयं कृता सर्वाथसा धिनी। तस्मादियं प्रयत्नेन पुष्ययात्रा विधानतः। सर्वविघ्नप्रशान्त्यर्थं कार्य्या शस्यस्य वृद्धये। पुष्ययात्रां न कुर्वन्ति ये जना धनगर्विताः। न विघ्नोपशमस्तेषां कुतस्तद्वत्सरे सुखम्। पौषे मासि ततः कुर्य्याद्धान्यच्छेदं विचक्षणः। मर्द्दयित्वा यथायोगमाढकेन प्रमापयेत्। सुप्रमाप्य च तद्धान्यं यथालाभं प्रबन्धयेत्। प्रमादेनापि पौषे त व्ययं तस्य न कारयेत्। मापनं सर्वशस्यानां वामावर्त्तेन कीर्त्तितम्। धान्यनां दक्षिणावर्त्तं मापनं क्षयकारकम्। वामावर्त्तेन सुखदं धान्यवृद्धिकरं परम्”।आढकलक्षणम् “द्वादशाङ्गुलकैर्म्मानैराढकः परिकीर्त्तितः। श्लेष्मातकाम्रपुन्नागकृतमाढकमुत्तमम्। कपित्थपर्कटीनिम्बजनितं दैन्यवर्द्धनम्”।अथ धान्यस्थापनम्। हस्ते स्वातौ च पुष्यायां रेवत्याञ्च प्रजापतौ। यममूलोत्तरे सौम्ये मघायाञ्च पुनर्वसौ। जीवे सोमे भृगोर्वारे निधने क्रूरवर्जिते। मीनलग्ने शुभे ऋक्षे धान्यस्थापनमुत्तमम्”। कृषिकर्त्तव्यतायां विशेषो वृहत्पराशरसं० दर्शितोयथा“अतःपुरं गृहस्थस्य कर्माचारं कलौ युगे। धर्मं साधारणं साक्षाच्चतुर्वर्णक्रमागतम्। युष्माकं सम्प्रवक्ष्यामि पाराशरप्रचोदितम्। षट्कर्मसहितोविप्रः कृषिवृत्तिं समाश्रयेत्। हीनाङ्गं व्याधिसंयुक्तं प्राणहीनञ्च दुर्बलम्। क्षुद्युक्तं तृषितं श्रान्तमनड्वाहं न वाहयेत्। स्थिराङ्गं नीरुजं तृप्तं शान्तं षण्डविवर्जितम्। अधृष्टं सबलप्राणमनड्वाहं तु वाहयेत्। वाहयेद्दिवसस्यार्धं पश्चात् स्नानं समाचरेत्। कुगवैर्न कृषिं कुर्य्यात्सर्वथा धेनुसंग्रहम्। बन्धनं पालनं रक्षा द्विजः कुर्य्यात्गृही गवाम्। वत्साश्च यत्नतो रक्ष्या वर्धन्ते ते यथाक्रमम्। न दूरे तास्तु मो क्तव्याश्चरणाय कदाचन। दूरे गावश्चरन्त्यो वै न भवनि शुभायनाः। प्रातरेव हि दोग्धव्या दुहाः सायं तथा गृही। दोग्धुर्विषर्य्यये नैव वर्द्धन्ते ताः कदाचन। अनादेयतृणं भुक्त्वा स्रवन्त्यनुदिनं पयः। तुष्टिकृद्देवतादीनां पूज्या गावः कथन्न ताः। यस्याः शिरसि ब्रह्मास्ते स्कन्धदेशे शिवः स्मृतः। पृष्ठे विष्णुस्तथा तस्थौ श्रुतयश्चरणेषु तु। या अन्या देवताः काश्चित्तस्या लोमसु ताः स्थिताः। सर्वदेवमयी गौस्तु तुष्येत्तद्भक्तितो हरिः। हरत्ति स्पर्शनात्पापं पयसा पोषयन्ति याः। प्रापयन्ति दिवं दत्ताः पूज्या गावः कथन्न ताः। यच्छफाहतभूमेस्तु उद्यतः पांशुसंचयः। प्रोथयेत् पुरुषस्येनो वन्द्या गावः कथन्न ताः। शकृन्मूत्रं हि यस्यास्तु पितुः पुनाति पातकम्। किमपूज्यं हि तस्या गोरिति पाराशरोऽ ब्रवीत्। गौरवत्सा न दोग्धव्या नचैव गर्भसन्धिनी। प्रसूता च दशाहार्वाग्दोग्धा चेन्नरकं ब्रजेत्। दुर्बला व्याधिसंयुक्ता पुष्पिता या द्विवत्सभूः। सा साधुभिर्न दोग्धव्या वर्णिभिः सुखमीप्सुभिः। कुलान्ते पुष्पिता गावः कुलान्ते बहवस्तिलाः। कुलान्ते चलचित्तास्त्री कुलान्ते वन्धुविग्रहः। एकत्र पृथिवी सर्वा सशैलवनकानना। तथा गौर्ज्यायसी साक्षादेकत्रोभयतोमुखी। यथोक्तविधिना यस्ता वर्णैः पाल्यास्तु पूजिताः। पालयेत् पूजयन्नेताः स प्रेत्येह च मोदते। दक्षिणाभिमुखा गाव उत्तराभिमुखा अपि। बन्धनीयास्तथैतास्तु न च प्राक्पश्चिमामुखाः। गोवृषवाजिशालायां सुतीक्ष्णं लोहदात्रकम्। स्थाप्यन्तु सर्वदा तस्यां गवि लुप्तविमोक्षणात्। नावो देयाः सदा रक्ष्याः पोष्याः पाल्याश्च सर्वदा। ताडयन्ति च ये पापा ये चाकर्षन्ति ता नराः। नरके पच्यन्तेऽङ्गानि श्वासेव च प्रपीडिताः। विसर्पन्तीं न दण्डेन पालकस्तां निवर्त्तयेत्। गच्छ गच्छेति तां ब्रूयान्मा माभैरिति वारयेत्। संस्पृशन् गां नमस्कृत्य कुर्य्यात्तान्तु प्रदक्षिणम्। प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा। त्रणोदकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम्। सोऽश्वमेधसमं पुण्यं लभते नात्र संशयः। पृथिव्यां यानि तीर्थानि समुद्राश्च सरांसि च। गवां शृङोदकस्नाने कलां नार्हन्ति षोडशोम्। कुतस्तेषां हि पापानि येषां गृहमलङ्कृतम्। सततं बालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम्। ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम्। तिष्ठन्त्येकत्र मन्त्राणी हविरेकत्र तिष्ठति। गोभिर्यज्ञाः प्रवर्तन्ते गोभिर्येवाः प्रतिष्ठिताः। गोभिर्वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः। सौरभेयास्तु तस्याग्रे पृष्ठतोऽप्यस्य ताः स्थिनाः। वसन्ति हृदये नित्यन्तासां मध्ये वसन्ति ये। ते पुण्यपुरुपाः क्षौण्वां नाकेऽपि दुर्लभाश्च ते। शृङ्गमूले स्थितो प्रह्मा शृङ्गमध्ये तु केशवः। शृङ्गाग्रे शङ्करं विद्यास्त्रयोदेवाः प्रतिष्ठिताः। शृङ्गाग्रे सर्वतीर्थानि स्यावराणि चराणि च। सर्वे देवाः स्थिता देहे सर्वदेवमयी हि गौः। ललाटाग्रे स्थिता देवी नासामध्ये तु षण्मुखः। कम्बलाश्वतरौ नागौ तत्कर्ण्णे तु व्यवस्थितौ। स्थितौ तस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ। दन्तेषु वसवश्चाष्टौ जिह्वायां वरुणः स्थितः। सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः। ऋषयो रोमकूपेष्र प्रस्नावे जाह्नवीजलम्। कालिन्दी गोमये तस्या अपरा देवतास्तथा। अष्टाविंशतिदेवानां कोट्या लोमसु ताः स्थिताः। उदरे गार्हपत्योऽग्निर्हृद्देशे दक्षिणस्तथा। मुखे चाहवनीयस्तु चावसथ्यस्तु च कुक्षिषु। एवं यो वर्त्तते गोषु ताडने क्रोधवर्जितः। महतीं श्रियमाप्तोति स्वर्गलोके महीयते। कुल्यं तस्या न लङ्घेत पूतिगन्धं न वर्जयेत्। यावजिजघ्रति तद्गन्धं तावत्पुण्यं प्रवर्द्धते। यो गां पयस्विनीं दद्यात्तरुणीं वत्ससंयुताम्। शिवस्यायतनं दत्तं दत्तन्तेन च विश्वकम्। उक्षा गौर्वेधसा सृष्टा तस्य ह्युत्पादनाय च। तैरुत्पादितशस्येन सर्बमेतद्धि धार्य्यते। यश्चैतान् पालयेत् यत्नात् वर्धयेच्चैव यत्नतः। जगन्ति तेन सर्वाणि साक्षात् स्युः पालितानि च। यावद्गोपालने पुण्यमुक्त’ पूर्वमनीषिभिः। उक्ष्णोऽपि पालने तेषां फलं दशगुणं भवेत्। जगदेतद्धृतं सर्वमनडुद्भिश्चराचरम्। वृष एष ह्यतोरक्ष्यः पालनीयस्तु सर्वदा। धर्मोऽयं भूतले साक्षाद्ब्रह्मणा हितकारिणा। त्रैलोक्यधारणायालमन्नानाञ्च प्रसूतये। अनादेयानि घासानि विध्वंसन्ति सकामतः। भ्रमिता भूतलं दूरमुक्षाणङ्को न पूजयेत्। उत्पादयन्ति शस्यानि मर्दयन्ति वहन्ति च। आनयन्ति दवीयःस्थनुक्ष्णोवा कोऽधिको भुवि। स्कन्धेन दूराच्च वहन्ति मारमन्नादिकानां न च भक्षयन्ति। स्वीयेन जीवेन परस्य जीवं रक्षन्ति पुष्णन्ति विवर्धयन्ति। पुण्यास्तु गावो वसुधातले मां विभ्रत्यलं पृष्ठगगर्भभारम्। भारः पृथिव्या दशताडिताया एकस्य चाष्णो ह्यपि साधुवाचः। एकेन दत्तेन वृषेग येन दत्ता भवेयुर्द्दश सौरभेयाः। दाने ह्यपीयं धरणी समा नो तस्माद्वृषात् पूजितमस्ति नान्यत्। उत्पाद्य शस्यानि तृणञ्चरन्ति तदेव भूयः सकलं वहन्ति। म भारखिन्नाः प्रवदन्ति किञ्चिदहोवृषाद्धार्यति जीवलोकः। तृतीयेऽह्नि चतुर्थे वा यदेवोक्षा दृढोभवेत्। तदा नसा न भेत्तव्या नैव प्राग्दुर्बलस्य च। नासावेधनकीलन्तु खादिरं वाथ शैंशपम्। द्वादशाङ्गुलकङ्कार्य्यन्तज्ज्ञैस्त्रीणि समे च वा। शाला द्विपानां वृषगोहयानां तां याम्यदिग्द्वारवतीं विदध्यात्। सौम्यां ककुब्द्वारवतीं सुशीभान्ते- षां शमिच्छन् हितमात्मनश्च। गावो वृषो वा हयहस्तिनो र्वा अन्येऽपि सर्वे पशवो द्विजेन्द्राः। याम्यामुखा नैव तु उत्तरादिङ्मुखांसकास्ते खलु बन्धनीयाः। शालाप्रवेशे वृषगोपशूना राजापि यत्नाद्धयकुञ्जराणाम्। होमञ्च सप्तार्चिषिशास्त्रयुक्तं कुर्य्याद्विधिज्ञो द्विजपूजनञ्च। लाङ्गलं = तत् प्रवक्ष्यामि यत्काष्ठं यत्प्रमाणतः। हलीशायास्तथा मानं प्रतोदस्य युगस्य च। चत्वारिंशत्तथाचाष्टावङ्गुलानि कुहः (हलः) स्मृतः। अथापामोऽङ्गुलैर्भाज्यो हलीशावेधतश्च यः। षोडशैव तु तस्याधः षड्विंशति रथोपरि। वेधस्तथा च कर्त्तव्यः प्रमाणेन षडङ्गुलः। अष्टाङ्गुलमुरस्तस्य वेधादूर्द्ध्वं प्रकल्पयेत्। ग्रीवा दशाङ्गुला चोर्द्ध्वं हस्तग्राहो ततः स्मृतः। अङ्गुलैश्चाष्टभिस्तत् स्याद्वेधः स्यात् प्रतिहारकः। तस्यावस्ताद्यच्चत्वारि स वेधश्चतुरङ्गुलः। प्रतिहारी शुभा कार्य्या तद्वेधस्त्र्यङ्गुलो भवेत्। पञ्चाङ्गुलमुरस्तस्याः सीरस्येति विभाजनम्। पृथुत्वं शिरसोधार्य्यं हस्ततलप्रमाणकम्। अङ्गुलानि तया चाष्टौ उरसः पृथुता स्मृता। बन्ध द्बहिः प्रतीहारी षड्त्रिंशदङ्गुला भवेत्। सुतीक्ष्णा लोहपाल्यस्य उक्ता दामादिदारकृत्। न सीरं क्षीरवृक्षस्य न विल्वपिचुमर्दयोः। इत्यादीनां हि कुर्वाणो न नन्दति चिरं गृही। प्राञ्जला सप्तहस्ता तु हलीशा विदुषां मता। तस्याः(ईशायाः)वेधः सवर्णायाः कार्य्योनववितस्तिभिः। प्लक्षाक्षयोर्न तत्कुर्य्यात् कीर्तिघ्नौ तौ प्रकीर्तितौ। प्रमादतस्तु ताः कुर्वन् सशस्यो नश्यते गृही। नीचोच्चवृषमानेन तजज्ञास्तां प्रवदन्ति हि। चतुर्हस्तं युगं कार्य्यं स्कन्धस्थानेऽर्धचन्द्रवत्। मेषशृङ्ग्याः कदम्बस्य सालधवद्रुमस्य च। सम्या (सा~पि)वेधाद्बहिः कार्य्या दशाङ्गुलप्रमाणिका। तन्माने च प्रबाली च तदन्तरदशाङ्गुलम्। प्रतोदविषमग्रन्थि र्वैणवश्च चतुःकरः। तदग्रे तु प्रकर्त्तव्या यवाकारा तु लोहवत्। हीनातिरिक्तं कर्त्तव्यं नैव किञ्चित्प्रमाणतः। कुर्य्यादनडुहां दैन्याददैन्यान्नरकं व्रजेत्। यथाऽभीष्टं यथाशोभं बाहकस्य प्रमाणतः। भूमेश्च कर्षणायालं तज्ज्ञाः सर्वं वदन्ति हि। योजन तु हलस्याथ प्रवक्ष्यामि यथा तथा। श्रेष्ठनक्षत्रसंयुक्ते पुण्येऽह्नि तद्विधीयते। यत्र दिने तु बुध्येत तत्र कार्य्यं विजानता। यत्र कृत्यं हितं चापि पुण्यं वा मनसि स्मरेत्। तत्र विद्वान् द्विजश्रेष्ठः पुण्येऽह्नि तद्विधीयते। मातृश्राद्धं द्विजः कृत्वा यथो- क्तविधिना गृही। द्रव्यकालानुसारेण कुर्वतो धर्म्मतः कृषिम्। प्रोल्लिखन् मण्डलं पुष्पधूपदीपैः समर्चयेत्। इन्द्राय च तथाश्विभ्यां मरुद्भ्यश्च तथा द्विजः। कुर्य्याद्बलिहृतिं विद्वान् उदकसञ्चयाय च। तथा कुमार्य्यै सीतायै अनुमत्यै तथा बलिम्। नमः स्वाहेति मन्त्रेण संवाञ्छन्नात्मनः शुभम्। दधिगन्धाक्षतैः पुष्पैः शमीपत्रैस्तिलैस्तथा। दद्याद्बलिं वृषाणाञ्च तथाज्यप्राशनं ततः। संघृष्य सीरफालाग्रे हेम्ना वा राजतेन वा। प्रलिप्य मधुसर्पिभ्यां कुर्य्याच्चैव प्रदक्षिणम्। अग्न्युक्ष्णोर्मण्डलं कुर्य्यात् कृत्वा सीरप्रवाहणम्। पुष्पं लाङ्गलकल्याणं कल्याणाय नमोऽस्त्विति। सीतायाः स्थापनं कुर्य्यात् पाराशरमृषिं स्मरन्। सीतां युञ्जत इत्याद्यैर्मन्त्रैः सीरं प्रवाहयेत्। दधिदूर्वाक्षतैः पुष्पैः शमीपत्रैश्च पुण्यदैः। सीतां पूज्य वशी भक्तैरक्तवस्त्रैर्विषाणके। सप्त धान्यानि चादाय प्रोक्ष्य पूर्वामुखो हली। तानि दत्त्वोक्षणः क्षेत्रे किरन् भूमीं कृषेद्विजः। न यवैर्न तिलैर्हीनं द्विजः कुर्य्याच्च कर्षणम्। तद्विहीनन्तु कुर्वाणं न प्रशंसन्ति देवताः। तिलमात्रच्युतं तोयं दक्षिणस्याम्पतेर्दिशि। तेन तृप्यन्ति पितरो यावन्न तिलविक्रयः। विक्रीणीते तिलान् यस्तु तर्पयेन्नर्षिदेवताः। विमुच्य पितरस्तन्तु प्रयान्तीव तिलैः सह। ऊषाजलं यवस्तम्बपत्रेभ्यो भूतले पतत्। पयोदधिघृताद्यैस्तु तर्पयेत् सर्व्वदेवताः। देवपर्ज्यन्यभूसीरयोगात् कृषिः प्रजायते। व्यापारात् पुरुषस्यापि तस्मात्तत्रोद्यतो भवेत्। शालीन् सशणकार्पासं वार्त्ताकुप्रभृतीनि च। वापयेत्सर्व्ववीजानि सर्ववापी न सीदति। चन्द्रक्षये पतिर्विप्रो यो युनक्ति वृषान् क्वचित्। तत्पञ्चदशवर्षाणि त्यजन्ति पितरो हि तम्। चन्द्रक्षये द्विजो विद्वान् यो भुङ्क्ते तु पराशनम्। भोक्तुर्मासार्जितं पुण्यं भवेदशनमस्य तत्। चन्द्रार्कयोस्तु संयोगे कुर्य्याद्यः स्त्रीनिषेवणम्। सरेतोभोजिनस्तस्य षण्मासं पितरोऽहिताः। चन्द्रक्षये च यः कुर्य्यान्नरस्तरुनिकृन्तनम्। तत्पर्णसङ्ख्यया तस्य भवन्ति भ्रूणहत्यकाः। वनस्पतिगते सोमे योऽप्यध्वानं व्रजेन्नरः। प्रभ्रष्टद्विजकर्म्माणं तं त्थजन्त्यमरादयः। वासांसीन्दुप्रणाशोयो रजकस्यामतिः क्षिपेत्। पिबन्ति पितरस्तस्य मासं वस्त्रजलन्तु तत्। सोमक्षये द्विजो याति यत्कालस्तु हुताशनम्। तदेव पितृशापाग्निदग्धो नरकमाविशेत्। अष्टमी कामभोगेन, षष्ठी तैलोपभोगतः। कुहूस्तु दन्तकाष्ठेन हिनस्त्यासप्तमं कुलम्। चन्द्राप्रतीतौः पुरुषस्तु दैवादद्यादगत्या यदि दन्तकाष्ठम्। नराधिराजैः सहितस्तु तेन घातः कृतः स्यात्पितृदेवतानाम्। तत्राभ्यज्य विषाणानि गावश्चैव वृषास्तथा। चरणाय विसृज्यन्ते आगतान्निशि भोजयेन्। य उत्पाद्येह शस्यानि सर्वाणि तृणचारिणः। जगत्सर्व्वं धृतं यैस्तु पूज्यन्ते किन्न ते वृषाः। येनैकेन प्रदत्तेन दत्तं गोदशकम्भवेत्। यद्रूपेण स्थितो धर्म्मः पूज्यन्ते किन्न ते वृषाः। पाल्याहि यत्नतस्ते वै वाहनीया यथाविधि। स याति नरकं घोरं यो वाहयत्यपालयन्। नाधिकाङ्गो न हीनाङ्गः पुष्पिताङ्गो न दूषितः। वाहनीयो हि शूद्रेण वाहयन् क्षयमाप्नुयात्। वर्जयेद्दुष्टदोषांश्च गावो वै दोहने नरः। पाल्या वै यत्नतः सर्व्वे पालयन् शुभमाप्नुयात्। अन्नार्थमेतानुक्षाणः ससर्ज परमेश्वरः। अन्नेनाप्यायते सर्व्वं त्रैलीक्यं सचराचरम्। अग्निर्ज्वलति चान्नार्थं वाति चान्नाय मारुतः। गृह्णाति चाम्भसां सूर्य्यो रसानन्नाय रश्मिभिः। अन्नं प्राणो बलं चान्न मन्नाज्जीवितमुच्यते। अन्नं सर्व्वस्य चाधारः सर्व्व मन्ने प्रतिष्ठितम्। सुरादीनां हि सर्व्वेषामन्नं वीजं परं स्थितम्। तस्मादन्नात्परं तत्त्वं न भूतं न भविष्यति। ट्यौः पुमान्, धरणी नारी, अम्मोवीजन्दिवश्च्युतम्। द्युधात्रीतोयसंयोगादन्नादीनां हि सम्भवः। आपोमूलं हि सर्व्वस्य सर्वमप सु प्रतिष्ठितम्। अतोऽमृतरसा ह्याप आपः शुक्रं बलं महः। सर्व्वस्य वीजमापो वै सर्व मद्भिः समावृतम्। सद्य आप्यायना ह्यापः आपो ज्येष्ठतरा ह्यतः। किञ्चित्कालं विनाऽन्नाद्यैर्जीवन्ति मनुजादयः। न जीवन्ति विना तास्तु तस्मादापीऽमृतं स्मृतम्। दत्तानि चाद्भिरेतस्यां किं न दत्तं क्षितौ भवेत्। तथान्नेन प्रदत्तेन सर्वं दत्तं भवेदिह। अतोऽप्यन्नार्थभावेन कर्त्तव्यं कर्षणं द्विजः। यथोक्तेन विधानेन लाङ्गलादिप्रयोजनम्। सीते! सौम्ये! कुमारि! त्वं देवि! देवार्चिते! श्रिये। सत्कृता हि यथा सिद्धा यथा मे सिद्धिदा भव। मरुत्सूनोर्विना नाम्ना सीतायाः स्थापनं विना। विनाभ्युक्षणरक्षार्थं सर्वं हरति राक्षसः। वापने लवने क्षेत्रे खले गन्त्रीप्रवाहणे। ऐष एव विधिर्ज्ञेयो धान्यानाञ्च प्रवेशने। देवतायतनोद्याननिपातस्थानगोव्रजान्। सीमाश्मशानभूमिञ्च घृक्ष- च्छायाक्षितिं तथा। भूमिं निखातयूपाञ्च अयनस्थानमेव च। अन्यामपि हि चावाह्यां न कर्षेत् कृषिकृत् धराम्। नोषरां वाहयेद्भूमिं वर्चाश्मकर्करीवृताम्। वाहयन्नप्रमत्तश्च न नदीपुलिनं तथा। यद्यसौ वाहयेल्लोभात् द्वेषाद्वापि हि मानवः। क्षीयते सोऽ चिरात्पापात् सपुत्रपशुबान्धवः। नरकं घोरतामिस्रं पापीयान् याति चैनसा। परकीयां योऽपहृत्य कृषिकृद्वाहयेद्धराम्। स भूमिस्थेन पापेन ह्यनन्तनरकं वसेत्। न दूरे वाहयेत् क्षेत्रं नचैवात्यन्तिके तथा। वाहयेन्न पथि क्षेत्रं वाहयन्दुःखभाग् भवेत्। क्षेत्रेष्वेवं वृतिं कुर्य्यात् यामुष्ट्रो नावलोकयेत्। न लङ्घयेत्पशुर्यां वा नाभीयाद्याञ्च शूकरः। बन्धश्च यत्नतः कार्य्यो मृगयुत्रासनाय च। अत्राप्युपद्रवं राजतस्करादिसमुद्भवम्। संरक्षेत्सर्वतो यत्नाद्यस्मात् गृह्णात्यसौ करात्। कृषिकृन्मानवस्त्वेवं मत्वा धर्म्मं कृषेर्ध्रुवम्। अनवद्यां शुभां स्निग्धां जलावगाहनक्षमाम्। निम्नां हि वाहयेद्भूमिं यत्र विश्रमते जलम्। वाहयेत्तु जलाभ्यर्णे पुष्टे ससेकसम्भवे। शारदमुच्चकैःस्थाने कलम्बं वापयेद्धली। अर्धाप्तकासु कार्पासं तदन्यत्र तु हैमनम्। वसन्तग्रीष्मकालीयमप्सु स्निग्धेषु तद्विदः। केदारेषु तथा शालीन् जलोपान्तेषु चेक्षवः। वृन्ताकशाकमूलानि कन्दानि च जलान्तिके। वृष्टिविश्रान्तपानीयक्षेत्रेषु च यवादिकान्। गोधूमांश्च मसूरांश्च खल्वान् खलु कुलत्थकाः। समस्निग्धेषु चोप्यानि भूमीजीवान् निजानता। तिला बहुविधाश्चोप्या अतसीशणमेव च। मृदम्बुजं जगत्सर्वं वापयेत्कृषिकृन्नरः। संपश्येच्चरतः सर्वान् गोवृषादीन् स्वयङ्गृही। चिन्तयेत्सर्वमात्मानं स्वयमेव कृषिं व्रजेत्। प्रथमं कृषिबाणिज्यं द्वितीयं योनिषोषणम्। तृतीयं विक्रयः प्रोक्तश्चतुर्थं राजसेवनम्। नखैर्विलिखने यस्याः ब्रूयुर्दोषं मनीषिणः। तस्याः सीरविदारेण किन्न पापं क्षितेर्भवेत्। तृणैकच्छेदमात्रेण प्रोच्यते क्षयमायुषः। असङ्ख्यकन्दनिर्वासादसङ्ख्यातम्भवेदघम्। यत्सेचनात् कीटवध स्तथा सङ्कर्षणादपि। अंहः कुक्वुटिकानाञ्च तदंहः कृषिजीविनाम्। बधकानाञ्च यत्पापं यत्पापं मृगयोरपि। कदर्य्याणाञ्च तत्पापं तत्पापं कृषिजीविनाम्। वर्णानाञ्च गृहस्थानां कृषिवृत्त्युपजीविनाम्। तदेनसो विशुद्ध्यर्थं प्राह सत्यवतीपतिः। द्वादशो नवमो वापि सप्तमः पञ्चमोऽपि वा। धान्यभागः प्रदातव्यो देहिनः क्षेत्रिणा ध्रुवम्। अश्मर्य्यद्यूतभूमौ च विट्पतिः क्षेत्रभुग्भवेत्। एकैकांशापकर्म्म स्याद्यावद्दशमसप्तमौ। ग्रामेशस्य नृपस्यापि वर्ण्णिभिः कृषिजीविभिः। स स भागः प्रदातव्यो यतस्तौ कृषिभागिनौ। व्यूढौ त्व श्व्यर्य्यमात्राया देयोंऽशः स्याच्चतुर्द्दशः। एकैकांशाप कर्म्म स्यात् यावद्दशमसप्तमौ। ब्राह्मणस्तु कृषिं कुर्वन्वाहयेदिच्छया धराम्। न किञ्चित् कस्यचिद्दद्यात्स सर्वस्य प्रभुर्य्यतः। ब्रह्मा वै ब्राह्मणानां स्यात्प्रभुस्त्वसृजदादितः। तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि। पशुपाल्याशनोत्पत्त्यै ऊरुभ्याञ्च तथा विशः। द्विजदास्याय पण्याय पद्भ्यां शूद्रमकल्पपत्। यत्किञ्चिज्जगतीसस्थं भूगेहाश्च गजादिकम्। स्वभावेनेह विप्राणां ब्रह्मा स्वयमकल्पयत्। ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ। न तयोरन्तरं किञ्चित्प्रजा धर्म्मेण रक्षयेत्। तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम्। ग्रामेशस्य नृपस्यापि किञ्चिन्मात्रमसौ बलिम्। अथान्यत्सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम्। संशुद्धः कर्षकोयेन स्वर्गलोकमवाप्नुयात्। सर्वसत्वोपकाराय सर्वत्र कृषिकृन्नरः। कुर्य्यात् कृषिं प्रयत्नेन सर्वसत्वोपजीव्यकृत्। सर्वस्य स्थितिकारुण्यात्स देवपितृभिः पुनः। मनुष्याणान्तु पोव्याय कृषिं कुर्य्यात् कृषीबलः। वयांसि चान्यसत्वानि क्षुत्तृष्णातो विमोचयन्। विमुक्तः सर्वपापेभ्यः स्कर्लोकस्तमवाप्नुयात्। चतुर्दिक्षु खले कुर्य्यात्प्राच्यामतिघनावृतिम्। सैकद्वारपिधानञ्च पिदध्याच्चैव सर्वतः। खरोष्ट्राजोरणादोंस्तु विशतस्तु निवारयेत्। शूकरान् श्वशृगालादिकाकोलूककपोतकान्। त्रिसन्ध्यं प्रोक्षणं कुर्य्यात् दानीयाभ्युक्षणाम्बुभिः। रक्षा च भस्मना कुर्य्याज्जलधाराभिरक्षणम्। त्रिसन्ध्यमर्चयेत्सीतां पराशरमृषिं स्मरन्। प्रेतभूतादिनामानि न वदेच्च तदग्रतः। सूतिकागृहवत्तत्र कर्त्तव्यं परिरक्षणम्। हरन्त्यरक्षितं यस्मात् रक्षांसि सर्वमेव हि। प्रशस्तोदिनपूर्वाह्णो नापराह्णेन सन्ध्ययोः। धान्योन्मानं सदा कुर्यात्सीतापूजनपूर्वकम्। यजेत खलभिक्षाभिः खलेरोहिण्यएव हि। भक्त्या सर्वं प्रदत्तं हि तत्समस्तमिहाक्षयम्। खलयज्ञाः पक्षिणां वै ब्रह्मणा निर्मिताः पुरा। भागधेयमथो कृत्वा तां गृह्लन्तीह मात्रिकाम्। शतकृत्वादयो देवाः पितरः सोमपादयः। सनकादिमनुष्याश्च ये- चान्ये दक्षिणाशनाः। तानुद्दिश्य च विप्रेभ्यो दद्याच्च प्रथमं हली। विवाहे स्वलयज्ञे च संक्रान्तौ ग्रहणेषु च। पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयम्। अन्येषामर्थिनां पश्वात्कारुकाणा पुनः पुनः। दीनानामप्यनाथानां कुष्ठिनां कुशरीरिणाम्। क्लीवान्धवधिरादीनां सर्वेषामपि दीयते। वर्णानां पतितानाञ्च द्युदृग्भूतानि तर्पयेत्। चाण्डालानां श्वपाकानां प्रीत्यात्थुच्चावचा ददत्। ये केचिदागतास्तत्र पूज्यास्ते विधिवद्द्विजाः। स्तोकशः सीरिमिः सर्वे वर्णिभिर्गृहमेधिभिः। दत्त्वा त्वनृतया वाचा क्रमेणाथ विसर्जयेत्। तत्कृत्वा स्वगृहं गच्छेच्छ्राद्धमभ्युदयं चरेत्। शरद्धेमन्तवसन्तनवान्नैः श्राद्धमाचरेत्। नाकृत्वा तत्तदश्नीयादश्नंस्तदघमश्नुते। कृष्या तूत्पाद्य धान्यानि खलयज्ञं समाप्य च। सर्वसत्वहितोद्युक्त इहामुत्र सुखी भवेत्। कृषेरन्योत्त धर्मं न लभेत् कृषितोऽन्यतः। न सुखं कृषितोऽन्यत्र यदि धर्मेण कर्षति। अवस्त्रत्वं निरन्नत्वं कृषितो नैव जायते। अनातिथ्यञ्च दुःखित्वं दुर्मनो न कदाचन। निर्धनत्वमसभ्यत्वं विद्यायुक्तस्य कर्हिचित्। अस्थानित्वमभाग्यत्वं न सुशीलस्य कर्हिचित्। वदन्ति कवयः केचित् कृष्यादीनां विशुद्धये। लाभस्यांशप्रदानञ्च सर्वेषां शुद्धिकृद्भवेत्। प्रतिग्रहचतुर्थांशं बणिग्लाभं तृतीयकम्। कृषितो विंशतिञ्चैव ददतो नास्ति पातकम्। राज्ञो दत्त्वा च षड्भागं देवतानां च विंशकम्। त्रयस्त्रिंशञ्च विप्राणां कृषिकर्मा न लिप्यते। कृष्या समुत्पाद्य य{??}दिकानि घान्यानि भूयांसि, मखं विधाय। मुक्तो गृहस्थोऽपि पराशरेण तस्यामयः कश्चिदवादि दोषः। देवा मनुष्याः पितरश्च सर्वे साध्याश्चयक्षाश्च सकिन्नराश्च। गावो द्विजेन्द्राः सह सर्वसत्वैः कृषां न तृप्तानि मनाग् दुरेति। यश्चैतदालोच्य कृषिं विदध्यात् लिप्येत पापैर्न स भूभवैश्च। सीरेण तस्यापि विदारितापि स्याद्भूतधात्री वरदानदात्री। षट् कर्माणि कृषिं ये तु कुर्युर्ज्ञानविधिं द्विजाः। ते सुरादिवरप्राप्ताः स्वर्गलोकमवाप्नुयुः। षट्कर्मभिः कृषिः प्रोक्तो द्विजानां गृहमेधिनाम्”। कृषिकार्म्मारम्भमुहूर्त्तादि मु० चि० पी० धा० दर्शितं यथा “मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनार्कं शनिं पापैर्हीन बलैर्विधौ जलगृहे शुक्रे विधौ मांसले। लग्ने देवगुरौहलप्रवहणं शस्तं न सिंहे घटे कर्काजैणधटे तनौ क्षय- करं रिक्तासु षष्ट्यान्तथा। एतेषु श्रुतिवारुणादितिविशा खोडूनि भौमं विना बीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नीन्दुरामेन्दवः। रामेन्द्वग्नियुग न्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिताद्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत्सन्ति च” मू० “मूलविशाखामघाभिः चरध्रुवमृदुक्षिप्रैश्च एकोनविंशतिनक्षत्रैर्हलप्रवहणं हलप्रवृत्तिं कुर्यात् यदाह नारदः “मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च। हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः”। विशेषमाह श्रीपतिः “मृदुध्रुवक्षिप्रचरेषु मूले मघाविशाखासहितेषु भेषु। हलप्रवाहं प्रथमं विदध्यान्नीरोगमुष्कान्वित सौरभेयैः”। नीरोगाः षीडारहिता मुष्का वृषणास्तैरन्विता ये सौरभेया वृषास्तैर्विदध्यादित्यर्थः। उक्तञ्चैतत् वृषाणां वृषणास्तु फलरूपा अतस्तादृशैर्वृषैः कृतं कर्षणं सफलं स्यात् चूर्णितवृषणैर्वृषैः कृतं कर्षणं निष्फलमेव भवति। तथाऽर्कं सूर्यवारं शनिवारं विना त्यक्त्वान्यवारेषु चन्द्रमङ्गलबुध वृहस्पतिशुक्रवारेषु हलप्रवहणं शुभम्। उक्तञ्च व्यवहारतत्त्वे “पूर्वाद्वीशयमाग्निभेऽर्कयमयोरिक्तासु नेष्टा कृषिरिति”। अथ सामान्यतोलग्नशुद्धिः तत्र पापग्रहैर्हीनबलैर्निर्बलैरुपलक्षिते लग्ने विधौ चन्द्रे शुक्रे मांसले बलिनि पुष्टे उदित इत्यर्थः। तत्र विधौ चन्द्रे जलगृहे जलराशिस्थे सति देवगुरौ लग्नस्थे च सति हलप्रवहणं शुभम्। उक्तञ्च रक्तमालायाम् “शक्तिशालिनि सितेऽथ शीतगौ दुर्बलैरसितभौमभास्करैः। आश्रिते शशिनि वारिभोदये लग्नवर्त्तिनि गुरौ कृषिक्रिया”। कश्यपोऽपि “गुरौ लग्नगते शुक्रे बलिन्यापोदये विधौ। शस्ता कृषिक्रिया तत्र दुर्बलैः क्रूरखेचरैः”। अथ विशेषतो लग्नशुद्धिः तत्र सिंहे धटे कुम्भे कर्के अजे मेषे एणे मकरे धटे तुलायाम् एषु लग्नेषु कृषिकर्म्म न शस्तं यतस्तत्क्षयकरं पीडाकरं तथा रिक्तासु चतुर्थीनवमीचतुर्दशीषु षष्ठ्याञ्च क्षयकरं तथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि न शस्तं कृषिकर्म्म। उक्तञ्च ज्योतिःसारसागरे “मेषलग्ने पशून् हन्ति कर्कटे जलजन्भयम्। सिंहे सस्यभयं ज्ञेयं तुलायां हलसंक्षयः। मकरे सस्यनाशः स्यात्कुम्भे चौरभयन्तथा। हन्त्यष्टमी बलीवर्दान् नवमी सस्यघातिनी। षष्ठी च कीटजननी पशून् हन्ति चतुर्दशी”। चतुर्थ्याम- पीदं फलं ध्येयम्। अथ वीजोप्तिमुहूर्त्तफणिचक्रहलचक्राणि शार्दूलविक्रीडितेनाह एतेष्विति। श्रुतिः श्रवणः बारुणं शततारका अदितिः पुनर्वसुः विशाखा प्रसिद्धा एतैरुडुभिर्नक्षत्रैर्विनैतेषु पूर्वोक्तननक्षत्रेषु मूलमवाध्रुवमृदुक्षिप्रधनिष्ठास्वातीषु पञ्चदशनक्षत्रेषु बीजोप्तिर्वीजवपनं शुभम्। उक्तं च रत्नमालायाम् “हस्ताश्विपुष्योत्तररोहिणीषु चित्रानु राधामृगरेवतीषु। स्वातीधनिष्ठासु मघासु मूले वीजोप्तिरुत्कृष्टफला प्रदिष्टा”। वसिष्ठेनाप्येतावन्त्येव नक्षत्राण्युक्तानि “धातृव्वये कौणपपैत्रपुष्ये हस्तत्रये त्र्युत्तरमैत्रभेषु। पौष्णे धनिष्ठास्वथ वाश्विनीषु वीजोप्तिरुत्कृष्टफलप्रदा स्यादिति”। कौणपोमूलम् नारदेनाप्युक्तानि “मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु। समूलभेषु बीजोप्तिरत्युत्कृष्टफलप्रदा”। कश्यपेनापि वसुवायुभनैरृत्यक्षिप्रध्रुवमृदूडुषु। सीतां स्मृत्वाथ वीजोप्तिरत्युत्कृष्टफलप्रदा”। अत्र मवा नोक्ता अत्र भौमोमङ्गलवारोनिषिद्धः अर्थात् सूर्यचन्द्रवुधगुरुशुक्रशनीनां वारेषु बीजोप्तिःशुभा। नेष्टा कृषिरित्यती नकारोऽत्रानुवर्त्तते तेन बीजोप्तिर्नेष्टेत्यर्थः। अत्र कालविशेषनिषेधोराज मार्त्तण्डे “रवौ रौद्राद्यपादस्थेभूमेः संजायत रजः। तस्माद्दिनत्रय तत्र वीजवापं परित्यजेदिति। अथ वीजीप्तौ फणिचक्रमुच्यते। अगुभतो न विद्यन्ते गावः किरणायस्यासावगुः यस्य स्वरूपाभावः। तस्य कुतस्तरां किरणाः तादृशोऽगूराहुस्तस्यभं नक्षत्र तस्मादित्यर्थः राह्वधिष्ठितनक्षत्रादष्टौ भानि असन्त्यसमीचीनानि, ततस्त्रीणि शुभानि, तत एकमशुभं ततस्त्रीणि शुभानि ततोप्येकमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं ततस्त्रीणि शुभानि ततश्चत्वार्यशुभानि। एवं वीजोप्तौ सप्तविंशति नक्षत्राणां शुभाशुभत्वभुक्तं उक्तञ्च नारदेन भवेद्भत्रितयं मूर्ध्निधान्यनाशाय राहुभात्। गले त्रयं कज्जलाय वृद्धये द्वादशोदरे। निस्तण्डुलत्वं लाङ्गूले भचतुष्टयमीरितम्। नाशोबहिःपञ्चके स्याद्बीजोप्ताविति चिन्तयेदिति”। राहुर्यस्मिन्नृक्षेऽस्ति तस्मान्नक्षत्रत्रयं मूर्ध्निमस्तके स्थाप्यं धान्यनाशकरं भवति। ततस्त्रयं गले स्थाप्यं कज्जलाय श्यामिकासम्पादकंस्यात्। ततो द्वादश भानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि तानि धान्यवृद्धये स्युः ततो नक्षत्रचतुष्टयं पुच्छे निस्तन्दुलत्वकरं स्यात् ततोऽ वशिष्टं बहिर्नक्षत्रपञ्चकं धान्यनाशकरं स्यात्। रत्न- मालायाभपि “मूर्ध्नि त्रीणि गले त्रयञ्च ऊठरे धिष्ण्यनि च द्वादश स्यात्पुच्छे च चतुष्टयं बहिरतोभानां स्थितं पञ्चकम्। क्ष्वेडं कज्जलमन्नवृद्धिरधिका निस्तण्डुलत्वं क्रमात् स्यादीतिप्रभवं भयञ्च फणिभाद्वीजोप्तिकाले स्फुटम्”। अत्रकेचित्। फणिभात् सूर्यनक्षत्रादितिव्याचख्युस्तत्र युक्तिः “सूर्यभादुरगःस्थाप्यः” इति स्वरोदयवाक्यैक वाक्यत्वात्, तन्न नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात् “राहोर्धिष्ण्यात्समारभ्य धिष्ण्येष्वष्टसु निष्फलमिति” कश्यपोक्तेश्च। “सूर्यभादुरगः स्याप्यः” इति तु स्वरोदयवचनं वीजरोपणविषयम्। तत्र लग्नशुद्धिमाह वसिष्ठः “भवरिपुसहजे पापैस्त्रिकोणकेन्द्रस्थितैश्च शुभैः। कथितेषु च धिष्ण्ये ष्वपि शुभलग्ने वीजवापनं कार्यमिति” अथ हलप्रवहणे चक्रमुच्यते हलेइति हले हलचक्रेऽर्कोज्झितात्सूर्यभुक्तान्नक्षत्रात्क्रमेण त्रीणि नक्षत्राणि असन्ति अशुभफलानि। ततोऽष्ट भानि सन्ति शुभफलदानि ततो नव भान्यसन्ति ततोऽष्टौ भानि सन्ति यथा सूर्य अर्द्रायां भुक्तभं मृगः तत आरभ्य त्रीणि मृगार्द्रापुनर्वसुभान्यशुभानि। ततः पुष्पाश्लेषामघापूर्वफाग्लुनीहस्तचित्रास्वातीनक्षत्राणि शुभानि। ततो विशाखानुराधाज्येष्ठामूल पूर्वाषाढोत्तरषाढाभिजिच्छवणधनिष्ठानक्षत्राणि अशुभानि। ततः शततारकापूर्वभाद्रपदोत्तरभाद्रपदारेवत्यश्विनीभरणीकृत्तिकारोहिणीनक्षत्राणि शुभानि। एवमष्टाविंशतिर्भानि भवन्ति यदाह वसिष्ठः “अकगतागतसंस्थभत्रितयं नेष्टमुभयतस्त्विष्टम्। षोडश धिष्ण्य नवकं शिष्टमनिष्टं च लाङ्गले चक्रे” इति। अर्केण गतं भुक्तम् आगरं भीग्यं सस्थमाक्रान्तम् एतद्भत्रितयं नेष्टं तत्त उभयतःषोडशधिष्ण्यं इष्टं यथा सूर्यभुक्तभात् प्राक्तनान्यष्टौ शभानि सूर्यभोग्यभादग्रेतनानि शुभानि स्युरित्यर्थः। शिष्टमुर्वरितं मध्यगतनक्षत्रनवकमनिष्टम् एव मत्राप्यष्टाविंशतिर्भानि। नारदोऽपि “हलादौ वृषना शाय भत्रयं सूर्यभुक्तभात् अग्रे ऋक्षत्रयं लक्ष्मौ सौख्य” पार्श्वस्थपञ्चकम्। शूलत्रयेऽपि नवकं मरणायान्यपञ्चकम्। श्रियै पुच्छे त्रयं श्रेष्ठंस्याच्चक्रे लाङ्गले शुभम्” इति। अम्यार्थः हलप्रवहणसमये सूर्यमुक्तनक्षत्रान्नक्षत्रत्रयं वृषनाशाय स्यात्। तदग्रे नक्षत्रयं लक्ष्म्यै स्यात् तदग्रे पार्श्वनक्षत्रपञ्चकं सौख्याय स्यात् तदग्रे शूलत्रयगतं नक्षत्रनवकं मरणाय स्यात् तदग्रेऽन्यत् पार्श्वस्थपञ्चकं श्रियै स्यात् तदग्रे पुच्छगतं नक्षत्रत्रयं श्रेष्ठं शुभफल- मिति। अनेनापि प्रकारेण मृगादीनि तान्येवाशुभाशुभानिं सम्भवन्ति। तत्र हलचक्राकृतिर्लिख्यते तत्र कश्यपः “त्रिष्वष्टसु नवर्क्षेषृ सप्तस्वर्कविमुक्तभात्। हानिर्वृद्धिः कर्तृमृत्युर्लक्ष्मीश्चैव यथाक्रममिति, हलनक्षत्रोक्त्यनन्तरमुक्तवान् अस्यायमर्थः अर्कविमुक्तभात्त्रिषु भेषु हानिः ततोऽष्टसु भेषु वृद्धिः ततोनवसु भेषु कर्त्तुर्नाशः, ततः सप्तसु भेषु लक्ष्मीप्राप्तिरिति यथाक्रमं फलं ज्ञेयम्। अत्र सप्तविंशतिनक्षत्रोक्तेरभिजिद्गणनानास्ति। नन्वत्र पञ्चनक्षत्रत्यागे कोहेतुरित्यत आह तदन्तरगत इति तच्छब्देन हलोर्ध्वदण्डशूलोर्द्ध्वदण्डावुच्येते तयोरन्तरगते मध्ये विद्यमाने पञ्चकपञ्चके श्रियै स्थाप्ये नक्षत्रदशकमिति यावत् तच्चान्यद्भत्रितयं हलदण्डोर्ध्वभागे शुभफलदं लेख्यम्” पी० धा० अत्र विशेषः ज्यो० त० तत्र कूर्म्मचक्रशब्दे दर्शितात् ज्यो० त० वाक्यात् परग्रन्थो यथा “कूर्म्माङ्गस्थदेशानाह। “मध्ये सारस्वतामत्स्याः शूरसेनाः समाथुराः। पञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्वयाः। मरुनैमिषबिन्ध्याद्रिपाण्ड्यघोषाः सयामुनाः। काश्ययोध्या प्रयागश्च गयावैदेहकादयः। पाच्यां मागधशोणौ च वारेन्द्रोगौडराढकाः। वर्द्धमानतमोलिप्तप्राग्ज्योतिषोदयाद्रयः। आग्नेय्यामङ्गवङ्गोपवङ्गत्रैपुरकोशलाः। कलिङ्गोड्रान्ध्रकिष्किन्धाविदर्भशवरादयः। दक्षिणेऽवन्तिमाहेन्द्रमलया ऋष्यमूककाः। चित्रकूटमहारण्यकाञ्चीसिंहलकोङ्कणाः। कावेरी ताम्रपर्णी च लङ्कात्रिकूटकादयः। नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः। जवनः पह्लवः सिन्धुः पारसिकादयो मताः। पश्चिमे हैहयास्ताद्रिम्लेच्छवासशकादयः। वायव्ये गुज्जराटश्च नाटजालन्धरादयः। उत्तरे चीननेपालहूनकैकेयनन्दराः। गान्धारहिमवत्क्रौञ्चगन्धमादनमालवाः। कैलासमद्रकाश्मीरम्लेच्छदेशाः खसादयः। ईशाने स्वर्णभौमश्च गङ्गाद्वारञ्च टङ्कनः। काश्मीरब्रह्मपुरककिरातादरदादयः”। देवलः। “सिन्धुसौवीरसौराष्ट्रास्तथा प्रत्यन्तवासिनः। अङ्गवङ्गकलिङ्गोड्नान् गत्वा संस्कारमर्हति” तीर्थयात्राव्यतिकेणेति द्रष्टव्यमिति मिताक्षरा। व्यासः “उषरा बहुला भूभिः पन्थानस्तस्कराहताः। सर्वे बाणिजिकाश्चैव भविष्यन्ति कलौ युगे। शस्यानिष्पत्तिरफला तरुणा वृद्धिशालिनः। भविष्यत्यफलोहर्षः क्रोधश्च सफलोनृणाम्। पुरुषाल्पं वहुस्त्रीकां तद्युगान्तस्य लक्षणम्”। तत्र ग्रामादिषु स्वनामफलम्। ज्योतिषे “अवर्गेऽष्टाविषुः के च, षट् चे, वेदाः टवर्गके। एवं ते सप्त, पे वर्गे, ये द्वयं, शे च वह्नयः। इत्थमष्टसु वर्गेषु याः संख्याः कथिताः क्रमात्। नाम्नि वर्गात् स्वराच्चैव प्रत्येकं तां प्रकल्पयेत्। एकीकृत्याष्टभिर्भक्ते शेषसंख्याध्वजादयः। ध्वजोधूम्रश्च सिंहः श्वा वृषभोरासभोगजः। ध्वाङ्क्षश्च क्रमतो ज्ञेयः फलं तत्र बलक्रमात्। ध्वाङ्क्षश्वधूम्रवृषभागजः सिंहोध्वजः खरः। यथोत्तरबला एते ज्ञातव्याः स्वरपारगैः। प्रभौ योधे पुरे देशे मित्रनारीगृहेषु च। बलात् प्रायोभवेल्लाभो न लाभोबलवर्ज्जितात्। अ गरुडः क मार्जारश्च सिंहः ट शुनीसुतः। त भुजङ्गः प आखुः स्यात् य वर्गेभः, श मेषकः। नामादिवर्णतोज्ञेया अष्टौ वर्गाः क्रमादमी। यद्वर्गभक्ष्यो यः प्रोक्तस्तस्मात्तस्य भवेत् क्षयः। ग्रामवर्गस्य ये भक्ष्यास्त्यज्यास्तद्ग्रामवासिनः। एवं दुर्गे रणे त्यज्या न कर्त्तव्या गडाधिपाः। अवर्गाद्यष्टकं ज्ञेयं प्रागाद्यष्टदेशां क्रमात्। स्ववर्मात् पञ्चमे स्थाने खण्डिर्भङ्गश्च जायते”। व्यासः “धनिनः श्रोत्रियोराजा नदी वैद्यश्च पञ्चमः। पञ्च यत्र न विद्यन्ते तत्र न दिवसं वसेत्”। मत्स्यपुराणे “फालकृष्टे तथा देशे सर्ववीजानि रोपयेत्। त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्य पि। ज्येष्ठा मध्या कनिष्ठा भूर्वर्ज्जनीयेतरा मता”! अथ लाङ्गलचक्रं स्वरोदये “लाङ्गलं दण्डिकायूपं योक्त्रद्वयसमन्वितम्। दण्डिकादि लखेद्भानि दिनेशाक्रान्तभादितः। दण्डिकाहलयूपानां द्विद्विस्थाने त्रिकं त्रिकम्। योक्त्रयोश्च त्रिकञ्चैव मध्ये मञ्चाप्रके द्वयम्। दण्डस्थे च गवां हानिर्यूपस्थे स्वामिनोभयम्। लक्ष्मीर्लाङ्गलयोक्त्रादौ क्षेत्रारम्भदिनर्क्षके”। अथ वीजोप्तिचक्रम्। “सूर्य्यभादुरगः स्थाप्यस्त्रिनाड्येकान्तरक्रमात्। मुखे त्रीणि गले त्रीणि भानि द्वादशतूदरे। पुच्छे चतुर्बहिः पञ्च दिनभाच्च फलं वदेत्। वदने चोचकं विद्यात् गलकेऽङ्गारकस्तथा। उदरे धान्यवृद्धिः स्यात् पुच्छे धान्यक्षयो भवेत्। ईतिरोगभयं राज्ये चक्रे वीजोप्तिसम्भवे”। सूर्य्यभात् सूर्य्यभुज्यमाननक्षत्रात् त्रिनाड्येकान्तरक्रमादिति यद्यश्विन्यां रविस्तदा तामारभ्य गणयेत्। त्रिनाडीषु अश्विनीभरणीकृत्तिका दत्त्वा रोहिणी बहिः कार्य्या मृगार्द्रापुनर्व्वसुमानि त्रिनाडीषु दत्त्वा पुष्योवहिः कार्य्यः एवं क्रमेणान्या लेख्याः। चोचकं शस्यशून्यताम्। ईतयः। “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः। प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः” वीजोप्तिः सम्भवः कारणमस्येति व्युत्पत्तिभाश्रित्य वीजरोपविषयमिति पी० वा० स्थितम्।

“वृषचक्रं वृषाकारं सर्व्वावयवसंयुतम्। लिखित्वा विन्यमेद्भानि वृषनामर्क्षपूर्व्वकम्। मुखाक्षिकर्णशीर्षेपु शृङ्गे स्कन्धे द्विकं द्विकम्। त्रीणि पृष्ठे द्वयं पुच्छेऽष्टौपादे तूदरे त्रिकम्। हलप्रवाहवीजोप्तिप्रारम्भादिदिन र्क्षकम्। यदङ्गेषु स्थितं तस्माद्वक्ष्ये सर्व्वं शुभाशुभम्। आस्ये हानिः सुखं नेत्रे कर्णे भिक्षाटनं तथा। शीर्षे धृतिस्तथा शृङ्गे सौख्ये स्कन्धे च मङ्गलम्। पृष्ठे कष्टं शुभं पुच्छे भ्रमः पादे सुखं हृदि। चन्द्रयोगादिदं प्रोक्तं वृषचक्रफलं बुधैः”। दीपिकायाम् “पूर्व्वाग्नियाम्यफणिपित्रशिवान्यभेषु विक्ताष्टमीविगतचन्द्रतिथिं विहाय। द्व्यङ्गालिगोसमुदये विकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः। हलप्रबाहवद्वीजपनस्य विधिः स्मृतः। चित्रायाञ्च शुभे केन्द्रे स्थिरस्वमनुजोदये”। भीमपराक्रमे “वामे कृष्णं वलीवर्द्दं दक्षिणे लोहितं न्यसेत्। उत्तराभिमुखोभूत्वा कर्षकः कृषिमारभेत्। हले तु योजिते यत्र क्षेत्रे ग्रामं करोति गौः। तत्र स्याद्द्विगुणं शस्यमवश्यं गर्गभाषितम्”। कृत्यचिन्तामणौ बलभद्रः “सुखदा प्रतिपच्चैव द्वितीया कार्य्यसाधिनी। आरोग्यदा तृतीया च चतुर्थीकोटकृत्सदा। पञ्चमी श्रीप्रदा नूनं षष्ठी च कलहप्रिया। सप्तमी स्थानदा भोग्या वृषं हन्ति तथाष्टमी। नवमी शस्यनाशाय् दशमी भूनिदा सदा। एकादशी तथा कुर्य्याद्धनं धान्यं मनोरथम्। द्वादशी प्राणसन्देहा सर्वसिद्धा त्रयोदशी। चतुर्द्दशी पतिं हन्ति पञ्च दश्येव निष्फला। अमावास्याष्टमीं षष्ठीं रिक्तां च परिवर्जयेत्। सौरिभौमदिने चैव कृष्यारम्भे धनक्षयः। प्राजेशविष्णुतिष्येषु पित्रकरोत्तरेषु च। अश्विनीवातपौष्णेषु मूलादितीन्दुभे तथा। वारे भानुजशुक्रे च जीवे शीतकरे तथा। लग्ने स्त्रीगोमीनयुग्मे च कृष्यारम्भं शुभं विदुः। ऐशान्य पुष्पनैवेद्यैः क्षेत्रपालञ्च पूजयेत्। सालङ्कारोहलधर स्रग्भिश्च पूजितं हलम्। दध्याज्यमधुभिः श्रेष्ठं फालाग्रञ्च प्रलेपितम्। कर्षं प्रावर्त्तयेत् प्राज्ञोनूतनेन ह- लेन च। हस्ताश्वितिष्यचन्द्रेषु ब्रह्मेन्द्रविष्णुवारुणे। वायव्येन्द्राग्निभे चैव रोहिण्यामुत्तरासु च। वारे जीवज्ञशुक्रे च सोमे दिनकरे तथा। युग्मे युवतिगोभीने शस्तं स्याद्वीजवापनम्”। राजमार्त्तण्डे “प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्याश्विनीपौष्णानुष्णमरीचयः शतभिषास्वातिर्विशाखा तथा। जीवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये शस्यानां वपने भवन्ति लवने शस्ते तिथौ रोपणे”। देवलः ‘गुरुसोमसूर्य्यशुक्राःक्षेम्याः सम्पत्कराः शुभाः। बुधार्किभूमिपुत्त्राश्च न भवन्ति फलप्रदाः। हन्ति मेषः पशून् सर्व्वान् स्वभावेनाथ वृश्चिकः। कर्कटे न भवेत् सौख्यं तुलायां न प्ररोहति। केशरी शस्यघाती स्यात् पार्थिवोपद्रवं धनुः। मकरे चैव कुम्भे च भयमेव विनिर्द्दिशेत्। गोस्त्रीमन्मथमीनेषु शस्यं सम्पद्यते महत्। प्रशस्ते चन्द्रतारे च शुचिः शुक्लेन वाससा। स्नात्वा गन्धैश्च पुष्पैश्च पूजयित्वा विधानतः। पृथ्वीञ्च ग्रहसंयुक्तां पूजयित्वा प्रजापतिम्। अग्निं प्रदक्षिणीकृत्य दीयते भूरिदक्षिणा। कृष्णौ वृषौ नियोक्तव्यौ नवनीतैर्घृतेन वा। मुखपार्श्वं तयोर्लिप्यात् फालाग्रं कनकैः स्पृशेत्। उत्तराभिमुखोभूत्वा क्षीरेणार्घ्यं प्रदापयेत्। ततः शुभकरः श्रीमान् कृषिकर्म्म समाचरेत्। वर्जयेद्भग्नशृङ्गञ्च क्षुरभग्नञ्च वर्जयेत्। विकलं छिन्नलाङ्गूलं कपिलं वृषभं तथा। हलप्रवाहणं कार्य्यं नीरुग्भिः कृषिकर्म्मकैः। हलादिभिर्दृढैः क्षेमं कुदृढैर्न शुभं वदेत्। वृषभायदि मुह्यन्ति तस्य विघ्नप्रदा भवेत्”। कृषिरिति शेषः। “तस्मात् सर्व्वप्रयत्नेन निर्व्विघ्नं कारयेत् सदा। एका जयकरी रेखा तृतीया चार्थदायिका। पञ्चमी या भवेद्रेखा बहुशस्यफला हि सा। अतऊर्द्ध्वं न कर्त्तव्यं महादोषस्ततोभवेत्। संपूज्याग्निं द्विजं देवं कुर्य्याद्धलप्रवर्त्तनम्। हेमनिघृष्टं फालाग्रं छिन्नरेखां न कारयेत्। स्मर्त्तव्या वसवश्चेन्द्रः पृथ्रामः सचन्द्रमाः। पराशरोबलभद्रः सर्वविघ्नप्रशान्तथे। हले प्रावाह्यमाणे। तु कूर्म्मौत्पद्यते यदि। गृहिणी म्रियते तस्य ततोऽग्नेश्च भयं भवेत्। लाङ्गलं भिद्यते चापि प्रभुस्तत्र विनश्यति। ईशाभङ्गीयदा कर्त्तुः संशयोजीवितस्य च। सुतनाशोयुगाभङ्गे समीने म्रियते सुतः”। समीने योक्त्रबन्धनकाष्ठद्वये। “योत्त्नाच्छेदे तु व्यासङ्गः शस्यहानिश्च जायते। हले प्रवाह्यमाणे तु गौरेकः प्रपतेद्यदि। प्रपतेन्मुक्तमात्रस्तु बन्धनं स प्रपद्यते। ज्वरातिसाररोगेण कृषिभङ्गं विनिर्दिशेत्। प्रवाहमुक्तमात्रस्तु ततोगौः प्रपतेत् यदि। वत्सानीढेन नर्देत्तु तदा शस्यं चतुर्गुणम्। हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः। इन्द्रं चित्ते निधायाथ स्वय मुष्टित्रयं वपेत्। कृत्वाचान्योन्यप्रोत्साहं कर्षकोहृष्टमानसः। प्राङ्मुखः कलसं गृह्य इमं मन्त्रमुदीरयेत्। त्वं वै वसुन्धरे सीते! बहुपुष्पफलप्रदे!। नमस्ते मे शुभं नित्यं कृषिं मेधांशुभे! कुरु। रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु। कर्षकास्तु भवन्त्यग्र्या धान्येन च धनेन च स्वाहा”। कृत्यरत्नाकरे ब्रह्मपुराणम् “चैत्रे च कृष्णपञ्चम्यां काश्मीरा च रजस्वला। नित्यं भवति तस्मात्तां कृत्वा शैलमयीं स्त्रियम्। अभ्यङ्गवस्त्रनैवेद्यैः पूजयेच्च दिनत्रयम्। पुष्पाकङ्कारधूपैश्च गोरसं वर्जयन्ति च”। काश्मीरा पृथ्वी। “अष्टम्याञ्च ततः स्नाप्य ताभिरेव गृहेगृहे। सुस्नाताभिः प्रहृष्टाभिर्जीवपत्नीभिरेव च। अनन्तरं द्विजैः स्नाप्य सर्वौषधियुतैर्जलैः। गन्धैर्वीजैस्तथा रत्नै फलैः सिद्धार्थकैस्तथा। स्नापयित्वा च तां देवीं गन्धैर्माल्यैश्च पूजयेत्। तन्निवेदितशिष्टन्तु प्राशितव्यं गृहे गृहे। अतःपरं स्नाता गर्भं गृह्णाति ऋतुमेदिनी”। तथा “ब्रह्मा विष्णुश्च रुद्रश्च काश्यपः सुरभी गृहे। इन्द्रः प्रचेताः पर्जन्यः शेषचन्द्रार्कवह्नयः। वलदेवो हलं भूमिर्वृषभो रामलक्ष्मणौ। रक्षोघ्नौ, जानकी सीता युगं गगनमेव च” सीता लाङ्गलपद्धतिः। युगं युगकाष्ठम्। “एते द्वाविंशतिः प्रोक्ता प्रजानां पतयः शुभाः। गोमङ्गले तु संपूज्याः कृष्यारम्भे महोत्सवे। अर्घ्येः पुष्पैश्च धूपैश्च माल्यै रत्नेः पृथक्पृथक्। हलेन वाहयेद्भूमिं स्वयं स्नातः स्वलङ्कृतः”। तथा। “उत्प्वा वौजन्तु तत्रैव भोक्तव्यं वान्धवैः सह”। वीजवपनं प्राजापत्यतीर्थेन यथाह हारीतः “कनिष्ठायाः पश्चात् प्राजापत्यमावपनं होमतर्पणे प्राजापत्येन कुर्य्यात्” इति। होमतर्पणे लाजहोमसनकादितर्पणे। राजमार्त्तण्डे पराशरः “नित्यं दशहले लक्ष्मीर्नित्यं पञ्चहले धनम्। नित्यञ्च त्रिहले भक्तं नित्यमेकहले ऋणम्”। “वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणीरवौ। अतःपरस्मिन्नधमं न जातु श्रावणे शुभम्”। ज्योतिषे “पूर्वभाद्रपदा मूलं रोहिण्युत्तरफल्गुनी। विशाखा शतभिषा वा घा न्यानां रोपणे वरा। सदोप्त्वा रजनीं नीलीं पुत्रवित्तैर्वियुज्यते। स्वयं जाते पुनस्ते द्वे पालयन्नैव दुष्यति। आरामे गृहमव्ये वा मोहात् सर्षपमावपत्। पराभवं रिपोर्याति ससाधनधनक्षयम्। निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता। कोविदारश्च सर्वत्र सर्वं निघ्नन्ति मङ्गलम्”। निशा हरिद्रा। कोविदारकोरक्तकाञ्चनः। “हेमाम्भसा वृक्षवीजं स्नातोमन्त्रेण रोपयेत्। वसुधेति सुसीतेति पुण्यदेति धरेति च। नमस्ते शुभगे! नित्यं द्रुमोऽयं वर्द्धतामिति। अरिष्टाशोकपुन्नागबकुलाम्रप्रियङ्गवः। माङ्गल्याः पूर्बमारामे रोपणीया गृहेषु च। अश्वत्थमेकं पिचुमर्दमेकं द्वौ चम्पको त्रीण्यथ केशराणि। तालाष्टकं श्रीफलसप्तकञ्च पञ्चाम्रवापी नरकं न पश्येत्”। दानरत्नाकरे देवीपुराणम् “ये च पापा दुराचाराः श्रीतरुच्छेदकारिणः। तेऽप्यवीच्यादिनरके पच्यन्ते ब्रह्मणोदिनम्। मृतास्ते जीव्यमानास्तु ब्रह्मघ्नाः कीर्त्तिता भुवि। तस्मिन् देशे भयं नित्यं राजानोन चिरायुषः। नच नन्दत्ययं लोको यत्र श्रीफलभेदिनः। श्रीतरुर्विल्वः। “लिखित्वा लक्तकेनापि मन्त्रं शस्येषु बन्धयेत्। न व्याविकीटहिंस्राणां भयं तत्र भवेत् क्वचित्। “सिद्धिः प्रचलतरङ्गतरलितमृदुतरसमीरणवनोद्देशे श्रीमद्रामभद्रपादाः कुशलिनः समुद्रतटे नानाशतसहस्रवानराणां मध्ये खरनखरपश्चार्द्धलाङ्गूलं पवनसुतं वायुवेगं परचक्रप्रमथनं श्रीमद्धनूमन्तमाज्ञापयन्ति अमुकस्याखण्डक्षेत्रे वाताभोम्भोगान्धीरुतीपाण्डरमुण्डीधूलीशृङ्गारतल्पाकृशराङ्गताफडिङ्गैलावानरागरुडामडकमहिषादिरोगम् खण्डयत क्षणमपि विलम्बं मा चरत यदि विलम्बं कारयत तदा युष्मान्शतखण्डं कारयामीति। घ्रां घ्रीं घ्रों श्रीरामाय नमः”। इति शस्येषु बन्धयेत्” “कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः” शु० त० पु०। वा ङीप् कृपीत्यप्यत्र। स्वार्थे क कृषिकाप्यत्र स्त्री। आधारे कि। भुवि २। कृषिर्भूवाचकः शब्द” भा०। कृष्णशब्दे दृश्यम्

कृषिक = पु० कृष–किकन्। फाले अम० कर्षके त्रि०।

कृषिजीविन् = त्रि० कृत्या जीवति जोव–णिनि। स्वयमखयं वा कृतया कृषिवृत्त्या जीविनि स्त्रियां ङीप्।

कृषिपराशर = पु० कृषिकर्त्तव्यताविधायकपराशरमतानुमारिनिबन्धमेदे।

कृषीवल = त्रि० कृषिरस्त्यस्य वृत्तित्वेन वलच् दीर्घः। कर्षके कृषिजीविनि। “कच्चित्तुष्टाः कृषीवलाः” भा० स० ५ अ०

कृष्कर = पु० अव्युत्पन्नं प्रातिपदिकम्। शिवे त्रिकाण्डशेषः

कृष्ट = त्रि० कृष–कर्म्मणि क्त। १ कृतकर्षणे क्षेत्रादौ “कृष्टजानामोषधीनां जातानां च स्वयं वने” मनुः कृष्टपच्यः भावे क्त। २ कर्षणे न० “न प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत्” या०। ततः दृढा० भावे इमनिच् ॠतोरः। क्रष्टिमन् कृष्टत्वे कर्षणे पु०

कृष्टपच्य = त्रि० कृष्टे क्षेत्रे स्वयमेव पच्यते पच–कर्म्मकर्त्तरि क्यप्। कृष्टक्षेत्रे–स्वयमेव पच्यमाने धान्यादौ “न कृष्टपच्यमश्नीयादकृष्टञ्चाप्यकालतः” भाग० ७। १२। १७। वानप्रस्थधर्म्मोक्तौ। शुद्धकर्स्पणितु ण्यदेव “कृष्टपाक्य इति” सि० कौ०

कृष्टि = पु० कृष–कर्त्तरि क्तिच् भावे क्तिन् वा। १ पण्डिते अमरः २ जनमात्रे निरु० “मानुषीणामेकः कृष्टीनामभवत् सहावा” ऋ० ६। १८। २ “विश्वानमत्त कृष्टयः” ऋ० ८। ६। ४।। “कृष्टयः प्रजाः” भा० “कृष्टीनां विचर्षणिः” ऋ० ६। ४५। १६ ३ कर्षणे स्त्री० त्रिका० ४ आकर्षणे च

कृष्टोप्त = त्रि० कृष्टे क्षेत्रे उप्तः। कृतकर्षणक्षेत्रे–कृतवपने ओषध्यादौ “घन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्तताश्रयाः। अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः” भा० आ० ९८ अ०।

***