कृति = स्त्री कृ–क्तिन्। १ पुरुषप्रयत्ने, २ कर्त्तृव्यापारे, “वृथा जातिस्तदायुष्मन्! कृतिर्यावन्न विद्यते” भा० व० १२४८३ श्लो० ३ विंशत्यक्षरपादके छन्दोभेदे “कृतिः प्रकृतिराकृतिः” वृ० र०। ३ क्रियायाम् मेदि० “श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदियादियम्” वैष० ४ नृपभेदे पु० “सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः। कृतिर्नामाऽच्यवत् स्वर्गादसत्यवचनात् सकृत्” मार्क० पु०। स च जनकवंश्यः “बहुलाश्वोघृतेस्तस्य कृतिरस्य महाबलः” भाग० ९। १३। १६ मैथिलवंश्यनृपोक्तौ। कृ बषे–क्तिन्। ५ हिंसायां मेदि० ६ विंशतिसंख्यायाम् कृतिकरः। कृत–बा० करणे इक्। ७ कर्त्तन्यां स्त्रो “हन्तेषु खादिश्च कृतिश्च संदघे” ऋ० १। १६४। ३ “कृतिः कर्त्तनी” भा०

कृतिकर = पु० कृतिसंख्यातुल्या विंशतिसंख्याः करा यस्य। रावणे शब्दमा०। तस्य विंशतिहस्तत्वात् तथात्वं कृति हस्तादयोऽप्यत्र पु०

कृतिन् = त्रि० कृतमनेन कृत–इष्टा० इनि १ कृतक्रिये कर्त्तरि अमरः, २ पुण्यवति शब्दमा० “कृती श्रुती वृद्धमतेषु धीमान्” भट्टिः “न स्वन्वनिर्जित्य रघुं कृती भवान्” रघुः। “तवैव नामास्त्रगतिः कृती त्वम्” “यस्य चेतसि वर्त्तेथाः स तावत् कृतिनां वरः” कुमा० “कान्तवक्त्रसदृशाकृतिं कृती” माघः “कृतिः कृतिमुदे” कृतिशब्दे नैष०

कृतिरात = पु० नृपभेदे “बहुलाश्वो धृतेस्तस्य कृतिरातो महा- वलः” भाग० ९। १३। १७ पाठान्तरम्

कृते = अव्य० कृ–क्विप् नि० एदन्तत्वम्। निमित्तार्थे “देवातिथ्यर्चनकृते” या

कृतेयुक = पु० पौरवे नृपभेदे। “ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः” भाग० ९। २०३। रौद्राश्वस्य घृताच्यामप् सर स्युत्पन्नदशपुत्रोक्तौ

कृतोदक = त्रि० कृतमुदकमुदककार्य्यं स्रानतर्पणादि येन। कृतस्नानादौ। “एवं कृतोदका भार्य्याः प्रवेक्ष्यन्ति गजाह्वयम्” भा० स० ७८ अ०

कृतौजस् = पु० १ कृतवीर्य्यभ्रातरि। कृतवीर्य्यशब्दे विवृतिः। कृतमोजोयेन। २ कृततेजस्के कृतपराक्रमे त्रि०।

कृत्त = त्रि० कृत + क्त। १ छिन्ने, २ चेष्टिते च हेम०

कृत्ति = स्त्री कृत्यते कृत–कर्म्मणि–क्तिन्। १ मृगादिचर्म्मणि कृत्तिवासाः। २ त्वचि भूर्ज्जपत्रे ४ कृत्तिकानक्षत्रे च मेदि० ५ गृहे निरु०

कृत्तिका = स्त्री कृन्तति उग्रत्वात् कृत–तिकन् किच्च। अश्विन्यादिषु तृतीये नक्षत्रे तस्याः क्षुरतुल्याकारत्वं षट्ता रात्मकत्वञ्च अश्लेषाशब्दे ४९७ पृ० दर्शितम् अन्येतु शकटाकारत्वमाहुः। सा च ३६० अंशात्मके राशिचक्रे २६। ४० अंशकलोत्तरम् १३। २० अंशकलात्मिका मेष वृषोभयराशिघटिका। तथा च तस्या आद्यचरणः मेषराशिघटकः अन्त्यचरणत्रयं वृषराशिघटकम्। अश्विन्यादयश्च सप्तविंशतिः दक्षसुता चन्द्रपत्न्यः। तत्र भरणी कृत्तिकाद्याः २। ३। ६। ९। १०। १२। १६। २१। २६ संख्यकाः सपत्नींरोहिणीं प्रति चन्द्रस्यातिशयानुरागदर्शनेन चन्द्रस्य भर्त्सनां कृतवत्यः। ततः चन्द्रेण ताः प्रति गमनाप्रशस्ततादिशापदानं कालिकापु० २० अध्याये उक्त तच्चे कालिकापुराणशब्दे २०१४ पृ० दृश्यम्। दक्षसुतानां च चेतनत्वात् कृत्तिकामिः षड्भिः कार्त्तिकेयस्य पोषणं कृतं कार्त्तिकेयशब्दे विवृतिः। तस्या अग्निरधिष्ठातृ देवः सा च मिश्रगणान्तर्गता “मिश्रोऽग्निः सविशाखभः, शुभकराः सर्व्वे स्वकृत्ये गणाः” ज्यो० त०! कृत्तिकानक्षत्रयुक्ता पौर्ण्णमासी अण् ङीप्, कार्त्तिकी सास्मिन् मासे पुनरण्। कार्त्तिक कार्तिक्यायुक्ते चान्द्रे मासभेदे पु०

कृत्तिकाञ्जि = पु० कृत्तिका शकटाकारा अञ्जिस्तिलकाठि चिह्नमस्य। अश्वमेधीये शकटाकारतिलकचिह्नयुक्ते अश्वभेदे “त्रिरूप एषोऽश्वः” इत्युपक्रमे “कृत्तिकाञ्जिः पुरस्तात्” शत० ब्रा०। १२। ४ “३ कृत्तिका शकटाकारा अञ्जिर्यंस्य” भा०

कृत्तिकातनय = पु० ६ त०। कार्त्तिकेये तस्य यथा तथात्वंतथा कार्त्तिकेयशब्दे १९५६ पृ० उक्तम्। कृत्तिकापुत्रादयोऽप्यत्र पु०

कृत्तिकाभव = पु० कृत्तिकायां नक्षत्रे भवः। चन्द्रे शब्दच०

कृत्तिवास = पु० कृत्तिं गजासुरचर्म्म वस्ते वस–आच्छादने अण् उप० स०। महादेवे कृत्तिवासेश्वरः

कृत्तिवासस् = पु० कृत्तिर्गजासुरचर्म्म वासोयस्य। महादेवे यथाच तस्य तद्वसनत्वं तथा काशी० ६८ अ० वर्ण्णितं यथा “कोलाहलो महानासीत् त्रात त्रातेति सर्वतः। महिषासुरपुत्रोऽसौ समायाति गजासुरः। प्रमथ्नन् प्रमथान् सर्वान् निजवीर्य्यमदोद्धतः। यत्र यत्र धरायां स चरणं प्रमिणोति हि। अचलान् दोलयाञ्चक्रे तत्र तत्रास्य भारतः। उरुवेगेन तरवः पतन्ति शिखरैः सह। तस्य दोर्दण्डवातेन चूर्ण्णाः स्युश्च शिलोच्चयाः। यस्य मौलिजसंधर्धात् वना व्योम त्यजन्त्यलम्। नीलिमानं न चाद्यापि जहुस्तत्केशसङ्गजम्। यस्य निःश्वाससम्भारैरुत्तरङ्गा महाब्धयः। नाद्याप्यमन्दकल्लोला भवन्ति तिमिभिः सह। योजनानां सहस्राणि नव यस्य समुच्छ्रयः। तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि। यन्नेत्रयोः पिङ्गलिमा तथा तरलिमा पुनः। विद्युता नोह्यतेऽद्यापि सोऽयमायति सत्वरः। यां यां दिशं समभ्येति सोऽयं दुःसह दानवः। नाद्य शमीभवेदस्य साध्वसादिव दिग्भयम्। ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः। अबध्योऽहं भवामीति स्त्रीपुंभिः कामनिर्जितैः। ततस्त्रिशूलहेति स्तमायान्तं दैत्यपुङ्गवम्! विज्ञायाबध्यमन्येन शूलेनाभिजवान तम्। प्रोतस्तेन त्रिशूलेन स च दैत्यः गजासुरः। छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम्। गजासुरौवा च। त्रिशूलपाणे! देवेश! जाने त्वां स्मरहारिणम्। तव हस्ते मम बधः श्रेयानेव पुरान्तक!। किञ्चिद्विज्ञप्तु मिच्छामि अवधेहि ममेरितम्। सत्यं ब्रवीमि नासत्यं मृत्युञ्जय! विचारय। त्वमेको जगतीबन्धो! विश्वस्योपरि संस्थितः। अहं तदुपरिष्टाच्च स्थितोऽस्मीति जितं मया। धन्योऽस्म्यनुगृहीतोऽस्मित्वत्त्रिशूलाग्रसंस्थितः। कालेन सर्व्वैर्मर्त्तव्यं श्रेयसे मृत्युरीदृशः। इति तस्य वचः श्रुत्वा देवदेव कृपानिधिः। प्रोवाच प्रहसन् शम्भुर्वटोद्भव! गजासुरम्। ईश्वर उवाच। गजासुर। प्रसन्नोऽस्मिमहापौरुषशेबधे!। स्वानुकूलं परं ब्रूहि ददामि सुमतेऽसुर!” इत्याकर्ण्ण्य स दैत्येन्द्रः प्रत्युवाच महेश्वरम्। गजासुर उवाच। यदि प्रसन्नोदिग्वासस्तदा नित्यं वसान मे। इमां कृत्तिं विरूपाक्ष! त्वत्रिशूलाग्निपाविताम्। सुप्रमाणां सुखस्पर्शां रणाङ्गणपणीकृताम्। इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला। सदैव निर्म्मला चास्तु सदैवास्त्वतिसङ्गलम्। महातपानलज्वालां प्राप्यापि सुचिरं विभो!। न दुग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः। यदि पुण्यवती नैषा नम कृत्तिर्दिगम्बर। तदा त्वदङ्गसङ्गीऽस्याः कथं जातो रणाङ्गणे। अन्यञ्च मेवरं देहि यदि तुष्टोऽसि शङ्कर!। नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम्” इतऊर्द्ध्वं कीत्तिवासश्वरशब्दे दृश्यम्।

कृत्तिवासेश्वर = न० काशीस्थे शिवलिङ्गभेदे कृत्तिवासशब्दे दर्शितात् काशीख० वाक्यादुत्तरग्रन्थेतत्कथा यथा “इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शङ्करः। वुनः प्रोवाच तं दैत्यं भक्तिनिर्म्मलमानसम्। ईश्वर उवाच। शृणु पुण्यनिधे! दैत्य! वरमन्यं सुदुर्लभम्। अविमुक्ते महाक्षेत्रे रणत्यक्तकलेवर!। इदं पुण्यशरीरं ते क्षेत्रेऽस्मिन् मुक्तिसाघने। मम लिङ्गं भवत्वत्र सर्वेषां मुक्ति दायकम्। कृत्तिवासेश्वरं नाम महापातकनाशनम्। सर्व्वेषामेव लिङ्गानां शिरोभूतभिदं वरम्। यावन्ति सन्ति लिङ्गानि वाराणस्यां महान्त्यपि। उत्तमं तावतामेतदुत्तमाङ्गवदुत्तमम्। मानवानां हितायात्र स्थास्येऽहं सपरिग्रहः। दृष्टेनानेन लिङ्गेन पूजितेन स्तुतेन च। कृतकृत्योभवेन्मर्त्यः संसारं न विशेत् पुनः। रुद्राः पाशुपताः सिद्धा ऋषयस्त्वत्त्वचिन्तकाः। शान्ता दान्ता जितक्रोधा निर्द्वन्द्वा निष्परिग्रहाः। अविमुक्ते स्थिता ये तु मम भक्ता मुमुक्षवः। मानापमानयोस्तुल्याः समलोष्टाश्मकाञ्चनाः। कृत्तिवासेश्वरे लिङ्गे स्थास्येऽहं तदनुग्रहात्। दशकोटिसहस्राणि तीर्थानि प्रतिवासरम्। त्रिकालमागमिष्यन्ति कृत्तिवासे न संशयः। कलिद्वापरसम्भूता नराः कल्मषवुद्धयः। सदाचार विनिर्मुक्ताः सत्यशौचपराङ्मुखाः। मायया दम्भलोभाभ्यां मोहाहङ्कृतिसंयुताः। शूद्रान्नसेविनो विप्रा जिह्वाला रतिलालसाः। सन्ध्यास्नानजपेज्यासु दूरीकृतमनोधियः। कृत्तिवासेश्वरं प्राप्य सर्व्वपाप विवर्ज्जिताः। सुखेन मोक्षमेष्यन्ति यथा सुकृतिनस्तथा। कृत्तिवासेश्वरं लिङ्गं सेव्यं काश्यां ततोनरैः। जन्मान्तर महस्रेषु मोक्षोऽन्यत्र सुदुर्लभः। कृत्तिवासेश्वरे लिङ्गे लभ्यस्त्वेकेन जन्मना। पूर्ब्बजन्म कृतं पापं तपोदानादिभिः शतैः। नश्येत्, सद्यो विनश्येत्तु कृत्तिवासेश्वरेक्षणात्। कृत्तिवासेश्वरं लिङ्गं येऽर्च्चयिष्यन्ति मानवाः। प्रविष्टास्ते शरीरे मे तेषां नास्ति पुनर्भवः। अविमुक्ते निवस्तव्यं जप्तव्यं शतरुद्रियम्। कृत्तिवासेश्वरोदेवो द्रष्टव्यश्च पुनः पुनः। सप्तकोटिमहारुद्रैः सुजप्तैर्यत् फलं लभेत्। तत् फलं लभ्यते काश्यां पूजनात् कृत्तिवाससः। माघकृष्णचतुर्द्दश्यामुपोष्य निशि जागरात्। कृत्तिवासेशमभ्यर्च्चेद्यः स यायात् परां गतिम्। शुक्लायां पञ्चदश्यां यश्चैत्र्यां कर्त्ता महोत्सवम्। कृत्तिवासेश्वरे लिङ्गेन स गर्भं प्रवेक्ष्यति। कथयित्वा तु देवेशस्तत्कृत्तिं परि गृह्य च। गजासुरस्य महतीं प्रावृणोत्तां द्दिगम्बरः। यत्र छत्रीकृतो दैत्यः शूलमारोप्य भूतल! तच्छूल पाटनाज्जातं तत्र कुण्डं महत्तरम्। तस्मिन् कुण्डे नरः स्नात्वा कृत्वा च पितृतर्पणम्। कृत्तिवासेश्वरं दृष्ट्वा कृतकृत्यतरोभवेत्” !।

कृत्नु = त्रि० कृ–क्त्नु। कारौ शिल्पिनि उणा० “बहुकर्म्मकरे च। “कृष्वा कृत्नो! अकृतम्” ऋ० ६। १८। १५। “कृत्नो! बहुलकर्म्मणां कर्त्तः” भा०

कृत्य = न० कृ–क्यप् तुक्च। १ कार्य्ये, व्याकरणप्रसिद्धे पाणिन्यादिपरिभाषिते २ तव्यादौ ण्यत्क्यप्तव्यानीयर्यत्केलिमाख्ये प्रत्यये। ३ कर्त्तव्ये त्रि० हेमच० “कृतकृत्यो विधिर्मन्ये” माघः। ४ विद्विष्टे त्रि०। मेदि० ५ धनादिभेद्ये त्रि० जटा० “कृत्याः पा० “तयोरेव कृत्यक्तखलर्थाः” “कृत्यैरधिकार्थचते” पा०। “कृत्याः षट् ते समाख्याताः क्यव्ण्यतौ भावकर्म्मणीः। तव्यानीयावलन्तात् यत् केलिमः कर्म्मकर्त्तरि” सुपद्म०। कृत्याः इत्यधिकारे तेषां विहितत्वात् तेषां तत्संज्ञत्वम्। कृत्यप्रत्ययस्तु धातुविशेषात् कर्म्मभावादौ विहितः। कृत्यञ्च वेदादिविहितावश्यकर्त्तव्याचारविशेषः। तदधिकारेणैव कृत्यचिन्तामणि कृत्यतत्त्वकृत्यरत्नाकरादयोग्रन्थ विशेषाः प्रवृत्ताः

कृत्यविद = त्रि० कृत्यं कर्त्तव्यं वेत्ति विद–क्विप्। कार्य्यज्ञे विधिज्ञे, “कृत्यविदित्युवाचेति” रघुः।

कृत्या = स्त्री० कृ–क्यप् टाप्। १ क्रियायां २ अभिचारक्रियाजन्ये अभिचारोद्देश्यनाशके २ देवादिमूर्त्तिभेदे च सा च वैदिकाद्यभिचारक्रियाजन्या अदृष्टविशेषनिर्वर्त्त्या देवादिमूर्त्तिरूपतयोत्पद्य अभिचारोद्देश्यं पुरुषं निहत्य नश्यतौति अथवेवदे प्रासद्धम्। “पञ्चकल्पमथर्वाणं कृत्याभिः परिवृहितम्” भा० शा० ३४४ अ०। कृत्याविशेषोत्पादनकथा भा० आनु० ९० अ० यथा

“इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह। तेषां वै प्रतिकर्त्तुञ्च सर्व्वेषामगमद्गृहम्। स गत्वा हवनीयेऽग्नौ तीव्रं नियममास्थितः। जुहाव संस्कृतैर्म्मन्त्रैरेकैकामाहुतिं नृपः। तस्मादग्नेः समुत्तस्यौ कृत्या लोकभयङ्करी। तस्या नाम वृषादर्भिर्य्यातुधानीत्यथाकरोत्। सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता। वृषादर्भिं नरपतिं किङ्करोमीति साऽब्रवीत्। वृषादर्भिरुवाच। ऋषीणां गच्छ सप्तानामरुन्धत्यास्त्रथैव च। दासीभर्त्तुश्च दास्याश्च मनसा नाम धारय। ज्ञात्वा नामानि चैवैषां सर्व्व्नेतान् विनाशय। विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव। सा तथेति पतिश्रुत्य यातुधानीस्वरूपिणी। जगाम तद्वनं यत्र विचेरुस्ते महर्षयः” “इन्द्रेण च सा नाशितेति तत्रैवान्ते उक्तम् यथा “रक्षणार्थञ्च सर्वेषां भवतामहमागतः। यातुधानी ह्युतिक्रूरा कृत्यैषा वो बधैषिणी। वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः!। दुष्टा हिंस्यादियं पापा युष्मान् प्रत्यग्निसम्भवा”। कृत्यानिवारणोपायमन्त्राश्च अथ० ५, १३, १४, उक्ता यथा “सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन्न सा। दिप्सौषधे! त्वं दिप्सन्तमव कृत्याकृतं जहि। अव जहि यातुधानानव कृत्याकृतं जहि। अथो यो अस्मान्दिप्सति तमु त्वं जह्योषधे!। रिश्यस्येव परीशांस परिकृत्य परि त्वचः। कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत। पुनः कृत्यां कृत्याकृते हस्तेगृह्य पराणय। समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्। कृत्याः सन्तुकृत्याकृते शपथः शपथोयते। सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः। यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने। तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या। यदि वासि देवकृता यदि वा पुरुषैः कृता। तं त्वा पुनर्णयामसोन्द्रेण सयुजा वयम्। अग्ने पृतनाषाट् पृतनाः सहस्व। पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि। कृतव्यधनि! विध्य तं यश्चकार तमिज्जहि। न त्वामचक्रुषे वयं बधाय सं शिशीमहि। पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश। बन्धमिवावक्रामी गच्छ कृत्ये! कृत्याकृतं पुनः। उदेणीव वारण्याभिस्कन्दं मृगीव। कृत्या कर्तारमृच्छतु इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति। सा तं मृग मिव गृह्णातु कृत्या कृत्याकृतं पुनः। अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम्। सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः”।

सुश्रुते चान्यप्रकारोऽत्र सामान्यतो दर्शितः यथा “कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च। रक्षाकर्म्म करिष्यामि ब्रह्मा तदनुमन्यताम्। नागाः पिशाचा गन्धर्व्वाः पितरो यक्षराक्षसाः। अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा। पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः। दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः। पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा। पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्वेऽपि सागराः। अग्नीरक्षतु ते जिह्वां प्राणान् वायुस्तथैव च। सोमो व्यान, मपानंते पर्जन्यः परिरक्षतु। उदानं विद्युतः पान्तु, समानं स्तनयित्नवः। बलमिन्द्रो बलपति र्मनुर्मन्ये मतिं तथा। कामांस्ते पान्तु गन्धर्व्वाः, सत्वमिन्द्रोऽभिरक्षतु। प्रज्ञां ते वरुणो राजा, समुद्रो नाभिमण्डलम्। चक्षुः सूर्य्यो, दिशः श्रोत्रे, चन्द्रमाः पातु ते मनः। नक्षत्राणि सदा रूपं, छायां पान्तु निशास्तव। रेतस्त्वाप्याययन्त्वापो, रोमाण्योषधयस्तथा। आकाशं खानि ते पातु, देहं तव वसुन्धरा। वैश्वानरः शिरः पातु, विष्णुस्तव पराक्रमम्। पौरुषं पुरुषश्रेष्ठो, ब्रह्मात्मानं, ध्रुवो भ्रुवौ। एता देहे विशेषेण तव नित्या हि दवताः। एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि। स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम्। स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्वतौ। स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः। पितामहकृता रक्षा स्वस्त्यायुर्वर्द्धतां तव। ईततयस्ते प्रशाम्यन्तु सदा भव गतव्यथः। इति स्वाहा। एतै र्वेदात्मकैर्म्मन्त्रैः कृत्याव्याधिविनाशनैः। मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि”। “ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचखुरुतैवं चिद्देवानमिभवेमेति, “तद्वै देवा अस्पृण्वत। तएतैः कृत्यां वलगानुदखनन्, यदा वै कृत्यामुत्खनन्ति” अत्र कश्चिद्द्विषन भ्रातृत्यः कृथां वलगान्निखनति” इति च शत० ब्रा० ३, ५, ४, २, ३, “यामयो यानि गेहानि शपन्त्यप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति न संशयः” मनुः

कृत्याकृत्य = न० द्वि० द्वन्द्व० १ कर्त्तव्याकर्त्तव्ययोः। सुश्रुतोक्ते २ व्रणचिकित्साङ्गे कर्त्तव्याकर्त्तव्यविशेषे च ते च कृत्याकृत्ये सुश्रुतेन दर्शिते यथा

“अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः। तत्र वयस्थानां दृढानां प्राणवतां सत्ववताञ्च सुचिकित्स्या व्रणा एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः। तत्र वयस्थानां प्रत्यग्रधातुत्वादाशु व्रणारोहन्ति। दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्य्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति। प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते। सत्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति। तस्मादेतेषां सुखसाधनीयतमाः। तएव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः। स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रु मुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः। अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्तःशल्याश्च दुश्चित्किस्याः। अधोभागाश्चोर्द्ध्वभागनिर्वाहिनो रोमान्त्रोपनखमर्म्मजङ्घास्थिसंश्रिताश्च। भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम्।

भवति चात्र। कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्। व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः। अवपाटिकानिरुद्धप्रकाशसन्निरुद्धगुदजठरग्रन्थिक्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिनां वा ये परिक्षतेषु दृश्यन्ते शर्करासिकतामेहवातकुण्डलिकाष्ठीलादन्तशर्करोपकुशकण्ठशालूकनिष्कोषणदूषिताश्च दन्तवेष्टाविसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः। साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा। घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्। यापनीयं विजानीयात् क्रिया धारयते तु यम्। क्रियायान्तु निवृत्तायां सद्य एव विनश्यति। प्राप्ता क्रिया धारयति याप्यव्याधितमातुरम्। प्रपतिष्यदिवागारं विष्क्रम्भः साधुयोजितः। अतऊर्द्ध्वमसाध्यान् वक्ष्यामः। मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापानवदुद्धृतौष्ठाः। केचित्कठिना गोशृङ्गवदुन्नतमृदुमांसप्ररोहाः। अपरे दुष्टरुधिरास्राविणस्तनुपिच्छिला स्राविणो वा मध्योन्नताः। केचिदवसन्नशुषिरपर्य्यन्ताः। शणतूलवत्स्नायुजालवन्तो दुर्दर्शा वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः। पीताऽसितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः क्षीणमांसानाञ्च सर्वतोगतयश्चाणुमुखा मांसबुद्बुंदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्याः। क्षीणमांसानाञ्च पूयरक्तनिर्वाहिणोऽरोचकाविपाकका- सश्वासोपद्रवयुक्ताः। भिंन्ने वा शिरः कपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौवा यत्रेति।

भवन्ति चात्र। वसां मेदोऽथ मज्जानं मस्तुलुङ्गञ्च यः स्रवेत्। आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसम्भवः। स मर्म्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते। विकारो योऽनुपर्य्येति तदसाध्यस्य लक्षणम्। क्रमेणोपचयं प्राप्य धातूननुगतः शनैः। न शक्यडन्मूलयितुं वृद्धो वृक्ष इवामयः। स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च। निहन्त्यौषधवीर्य्याणि मन्त्रान् दुष्टग्रहो यथा। अतो यो विपरीतः स्यात्सुखसाध्यः स उच्यते। अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः। त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकीसमः। अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते। कपोतवर्ण्णपतिमा यस्यान्ताः क्लेदवर्जिताः। स्थिराश्चिपिटिकावन्तो रोहन्तीति तमादिशेत्। रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम्। त्वक्सवर्ण्णं समतलं सम्यग्रूढं विनिर्द्दिशेत्। दोषप्रकोपाद्व्यायामादभिवातादजीर्णतः। हर्षात्क्रोधाद्भयाद्वापि व्रणो रूढोऽपि दीर्य्यति”।

कृत्यादूषणी = स्त्री कृत्या दूषतेऽनया दूषि–ल्युट् ङीप्। १ ओषधिभेदे। “अथो वलासनाशनाः कृत्यादूषणीश्च यास्त्वा इहायान्त्वोषधीः” अथ० ८, ७, १० “अनयाऽहमोषध्या सर्वाः कृत्या अदूदुषम्” १०, १, ४,। आङ्गिरसे २ जङ्गिडे ऋषिभेदे पु०। “अङ्गिरा असि जङ्गिड! रक्षितासि जङ्गिड!” इत्युपक्रमे “अक्षकृत्यास्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये। सर्वान् विनष्टतेजसोऽरसां जङ्गिडस्करत्” इत्याद्युक्त्वा “कृत्यादूषण एवायमतो अरातिदूषणः” इत्युक्तम्। अथ० १९, ३४, १,

कृत्यादूषि = पु० कृत्यां परकृताभिचारजा दूषयति दूषि–इन्। कृत्यानाशके जङ्गिडे मणिभेदे। अरण्यादन्य आभृतः कृव्या अन्योरसेभ्यः। कृत्यादूषिरयं मणिरथो अरातिदूषिः” अथ० २, ४, ५, ६,

कृत्रिम = न० कृ–क्त्रि त्रेर्मप् च। १ विड्लवणे, मेदि० २ काचलवणे, ३ तुरष्कनामगन्धग्रव्ये, ४ रसाञ्जने च राजनि०। ५ सिह्लके पु० मेदि० ७ क्रियया निष्पन्नमात्रे त्रि०। “सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः” “चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतानानाम्। मार्ज्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने” माघः। “कृत्रिमाकृत्रिमयोः कृत्रिसे कार्य्य- संप्रत्ययः” व्या० प०। द्वादशपुत्रमध्ये स्वयंकृते “सदृशं तु प्रकुर्य्याद्यं गुणदोषविचक्षणम्। पुत्रं पुत्रगुणोपेतं स विज्ञेयश्च कृत्रिमः” इति मनूक्ते ८ पुत्रभेदे पु०। सदृशं स्वजातीयं “सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः” उपसंहारात्। “कृत्रिमः स्यात् स्वयं कृतः” या०”। “कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिलोभनेनैव पुत्रीकृतः मातापितृविहीनस्तत्सद्भावे तत्परतन्त्रत्वात्” मिता०। कलौ तु “दत्तौरसेतरेषां च पुत्रत्वेन परिग्रहः” इति आदित्यपु० दत्तौरसभिन्नानां पुत्रताकरणनिषेधात् न तस्य कर्त्तव्यता एवञ्च “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च” कलिधर्म्म प्रतिपादक पराशरवचने क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिमपदपदस्य च दत्तकविशेषणत्वं कल्पनीयमिति दत्तचन्द्रिका गौडदेशीयानां तथाचारश्च। पराशरवचनस्थकृत्रिमपदं न यौगिकं किन्तु परिभाषिकस्वयंकृतविषयमेव अन्यथा दत्तकस्य कृत्रिमत्वविशेषणं व्यथं स्यात् अतः आदित्यपुराणवचनस्थदत्तपदस्य कृत्रिमोपलक्षणपरता युक्तेति कलौ कृत्रिमपुत्रस्यापि ग्राह्यतेति दत्तक मीमांसादयः। पाश्चात्त्यादिवहुदेशेष्वस्य प्रचारः। अनयोर्युक्तत्वायुक्तत्वसद्भावेऽपि आचारस्य बल्वत्त्वाद्व्यवस्था। अयञ्च “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धःस्यु र्दायादाबान्धवाश्च षट्” मनुना बन्धुदायहरत्वेनोक्तः। स्वार्थे क। तत्रार्थे। सिह्लके पु० जटाधरः,। तुरष्कनामगन्धद्रव्ये राजनि०।

कृत्त्रिमधूप = पु० कर्म्म० नानासुगन्धिद्रव्यसंयोगजाते दशाङ्गषोडशाङ्गादौ धूपे अमरः।

कृत्रिमपुत्र = पु० कर्म्म०। १ कृत्रिमे पुत्रभेदे। कृत्रिमसुतादयोऽप्यत्र। स्वार्थे क। तत्रार्थे वस्त्रादिरचितपुत्तलिकायाञ्च। “सा कन्दुकैः कृत्रिमपुत्रकैश्च” कुमा०

कृत्वन् = त्रि० कृ–ङ्वनिप् तुक् च। कर्त्तरि। “तदिन्द्राव आ भर येना दंशिष्ठ कृत्वने” ऋ० ८, २५, २४, स्त्रियां ङीप् रश्चान्तादेशः। “महासिवेम्नः सहकृत्वरी बहुम्–यशःपटं तद्भटचातुरीतुरी” नैष०।

कृत्वा = अव्य० कृ–कृतौ हिंसायां वा क्त्वा। १ विधायेत्यर्थे “कृत्वावकाशे रुचिसंप्रकॢप्तम्” भट्टिः। २ हिंसित्वेत्यर्थे च।

कृत्वी = स्त्री व्यासपुत्रशुकदेवस्य १ कन्यायाम्। “पराशर कुलोद्भूतः शुकोनाम महातपाः। भविष्यति युगे तस्मिन् (द्वापरे) महायोगी द्विजर्षभः। व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन्। स तस्यां पितृकन्यायां (पुलस्त्यकन्यायाम्) पीवर्य्यां जनयिष्यति। कन्यां पुत्रांश्च चतुरो योगधर्म्मान् महाबलान्। कृष्णं गौरं प्रभुं शम्भुं कृत्वीं कन्यां तथैव च। ब्रह्मदत्तस्य जननीं महिषीं त्वणुहस्य च” हरिवं० १८ अ०। “अणुहोनाम तस्यासीत् पुत्रः परमधार्म्मिकः। प्रादात् कन्यां शुक स्तस्मै कृत्वीं पूजितलक्षणाम्। सत्वशीलगुणोपेतां योगधर्म्मरतां सदा” हरिवं० २३ अ० वेदे स्वात्व्यादि० आतईत्त्वम्। २ कृत्वेत्यर्थे च। “अपागूहन्नमृतां मर्त्येभ्यः कृत्वी” ऋ० १०। १७। २। “कृत्वी कृत्वा” भा० “जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी” १०। १५। १२। ३ कर्म्मणि स्त्री० “निरु० “भ्रातरनु वः कृत्व्येमसि” ऋ० १। १६१। ३। “कृत्वा कर्ण्णणा एमसि एम” भा०

कृत्व्य = त्रि० कृत्वीं कर्म्म अर्हति यत्। कर्म्मार्हे कर्म्मकारके “अज्यसेऽग्ने राजी न कृत्व्यः” ऋ० ६। २। ८ “कृत्व्यः हविर्वहनादीनां कर्म्मणां कर्त्ता” भा०

कृत्स = न० कृन्तति कृणत्ति वा कृत–छेदने वेष्टने वा सः किच्च। जले २ समुदाये ३ पापे पु० सि० कौ०

कृत्स्न = न० कृत–क्स्न। १ सकले २ जले ३ कुक्षौ पु०। २ अशेषे त्रि० मेदि० “तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्” गीता। कृत्स्नस्य भाव ष्यञ्। कार्त्स्न्यन० तल्। कृत्स्नता स्त्री त्व कृत्स्नत्व। न० साकल्ये। “कार्त्स्न्यायत्त्योः सम्पद्यमाने सातिः। जलसात् सम्पद्यते

कृदर = पु० कृ–अरन् “कृदरादयश्च” उणा० नि०। कुसूले अन्नकोष्ठे उज्ज्वल०। २ दिशौत्तर च न० निरु०। ३ गृहे पु० निरु०।

कृधु = त्रि० कृत–उन् बा० कित् पृषो०। ह्रस्वे निरु०। “यदस्या अंहुर्भेद्याः कृधुस्थूलमुपातसत्” यजु० २३, २८, “प्रतीत्येन कृधुना तृपासः” ऋ० ४, ५, १४, कृधुना ह्रस्वेन” भा० “मम स्वनात् कृधुकर्ण्णो भयात्ते” ऋ० १०, २७, ३ स्वार्थे क। तत्रार्थे। ततः अतिशायने इष्ठन् ऋतोरः। क्रधिष्ठ। ईयसुन्। कृधीयस् अतिशयेनह्रस्वेत्रि० ईयसुनि स्त्रियां ङीप्। भावे इमनिच् क्रधिमन पु० अण् र्कार्द्धव न० ह्रस्वत्वे

कृन्तत्र = न० कृत–क्त्रन् मुम् च। लाङ्गले सि० कौ०।

कृन्तन = न० कृत–ल्युट् बा० मुम् च। १ छेदने कर्त्तने “कृन्तनं नस्वकेशानां छेदनञ्च वनस्पतेः। शावाशौचे न कर्त्तव्यं पठनं पाठनं तथा” नारदः। कर्त्तरि ल्यु मुम् च। २ छेदके त्रि० करणे ल्युट्। बा० मुम् च। ३ छेदनसाधने “नातः परं कर्म्मनिबन्धकृन्तनम्” भाग० ६, २, ४, स्त्रियां ङीप्। नखनिकृन्तनी

कृन्तविचक्षणा = स्त्री कृन्त (छिन्धि) विचक्षण! इत्युच्यते यस्यां क्रियायां मयू० स०। विचक्षणसम्बोधनककर्त्तनार्थनिदेशक्रियायाम्।

कृप = कल्पने (सम्प्रत्तौ) भ्वा० आत्म० लुङि लुटि ऌटि ऌङि च उभ० वृतादि अक० वेट्। अस्य ऋतः रकारस्थाने लः। कल्पते। अकल्पत्–अकल्पिष्ट–अकॢप्त। कल्प्तासि कल्पितासे कल्प्स्यति कल्प्स्यते–कल्पिष्यते। कल्पितव्यः–कल्प्त्व्यः कल्पनम् कल्पः। कॢप्तः कॢप्तिः। णिचि। कल्पयति ते अचकल्पत् त–अचीकॢपत् त। कल्पितः कल्पना कल्पयिता। “कॢपि सम्पद्यमाने” वार्त्ति०। एतद्योगे सम्पद्यमाने कर्त्तरि चतुर्थी। भक्तिर्ज्ञानाय कल्पते। “कल्पवित् कल्पयामास वन्यामेवास्य संविधाम्” “कॢप्तेन सोपानपथेन” रघुः। “रुचिसंप्रकॢप्तम्” भट्टिः “प्रजापतिकल्पितयज्ञभागम्” कुमां०। छेदने च सक० “कॢप्तकेशनखश्मश्रुः” मनुः “कल्पनं छेदनम्” कुल्लू०।अनु + प्रथमविधानप्रतिनिधीकरणे सक० “शक्तः प्रथमकल्पस्य योऽनुकल्पे प्रवर्त्तते” स्मृतिः।अव + अवधारणे “अनवकॢप्तावेवः” सि० कौ०।आ + भूषणे सक० आकल्पः भूषावि + कल्पि–संशये विकल्पयति संशेते इत्यर्थः।सम्–कल्पि इदं करिष्यामीत्येबंरूपे मानसव्यापारभेदे। “कामः सकल्पोविचित्सेत्यादि” श्रुतिः “मनसा संकल्पयति वाचाऽभिलपति” स्मृतिः। मानसकर्म्माभिलापने “संकल्पेन विना राजन्! यत्किञ्चित् करुते नरः” ति० त०।

कृप = दौर्बल्ये अद० चुरा० उभ० अक० सेट्। कृपयति ते अचिकृपत्त

कृप = युतौ चित्रीकरणे वा चुरा० पक्षे भ्वा० पर० सेट्। कल्पयति ते कल्पति अचकल्पअचीकॢपत्–त अकल्पीत्।

कृप = पु० चु० कृप–अच्। राजर्षिभेदे “यथा रुशमं श्यावकं कृपमिन्द्र! प्रावः” ऋ० ८, ३, १२, “रुशमं श्यावकं कृपं चैतन्नामकांस्त्रीन् राजर्षीन्” यथा प्रावः” भा०। कृपा अस्त्यस्य पालनसाधनत्वेन अर्श० अच्। शरद्वतो गातमस्य २ पुत्रे ३ तत्सुतायां स्त्री ङीप्। यथा च तयोरुत्पत्तिस्तन्नामता च तथा भा० आ० १३० अ० उक्तं यथा “कृपस्यापि मम ब्रह्मन्! सम्भवं वक्तुमर्हसि। शरस्तम्बात् कथ जज्ञ कथ वाऽस्त्राण्यवाप्तवान्। वैशम्पायन उवाच। महर्षेर्गोतमस्यासोच्छरद्वान्नाम गौतमः। पुत्रः किल महाराज! जातः सह शरैर्विभो!। न तस्य वेदाध्ययने तथा वुद्धिरजायत। यथाऽस्य बुद्धिरभबद्धनुर्वेदे परन्तप!। अधिजम्मुर्यथा वेदांस्तपसा ब्रह्मचारिणः। तथा स तपसोपेतः सर्व्वाण्यस्त्राण्यवाप ह। धनुर्वेदपरत्वाच्च तपसा विपुलेन च। भृशं सन्तापयामास देवराज स गौतमः। ततो जानपदीं नाम देवकन्यां सुरेश्वरः। प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव!। सा हि गत्वाश्रमं तस्य रमणीयं शरद्वतः। धनुर्वाणधरं बाला लोभयामास गौतमम्। तामेकवसनां दृष्ट्वागौतमोऽप्सरसं वने। लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्। सधनुश्च शरस्तस्य कराभ्यामपतद्भुवि। वेपथुश्चापि तां दृष्ट्वा शरीरे समजायत। स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्। अवतस्थे महाप्राज्ञो धैर्य्येण परमेण ह। यस्तस्य सहसा राजन्! विकारः समदृश्यत। तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत। धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च। स विहायाश्रमन्तञ्च ताञ्चैवाप्सरसं मुनिः। जगाम रेतस्तत्तस्य शरस्तम्बे पपात च। शरस्तम्बे च पतितं द्विधा तदभवन्नृप!। तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वजः। मृगयाञ्चरतो राज्ञः शान्तनोस्तु यदृच्छया। कश्चित् सेनाचरोऽरण्ये मिथुनं तदपश्यत। धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च। ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह। स राज्ञे दर्शयामास मिथुनं सशरं धनुः। स तदादाय मिथुनं राजा च कृपयान्वितः। आजगाम गृहानेव मम पुत्त्राविति ब्रुवन्। ततः संवर्द्धयामास संस्कारैश्चाप्ययोजयत्। प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्। गौतमोऽपि ततोऽभ्येत्य धनुर्वेदपरोऽभवत्। कृपया यन्मया बालाविमौ संवर्द्धिताविति। तस्मात्तयोर्नाम चक्रे तदेव स महोपतिः। गोपितौ गौतमस्तत्र तपसा समविन्दत। आगत्य तस्मै गोत्रादि सर्वमाख्यातवास्तदा। चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च। निखिलेनास्य तत्सर्वं पुह्यमाख्यातवांस्तदा। सोऽचिरेणेव कालेन परमाचार्य्यतां गतः। ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः। धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः। वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः”। “अहल्या कन्यका यस्यां शतानन्दस्तु गोतमात। तस्य नृत्यधृतिः पुत्रो धनुर्वेदविशारदः। शरद्वांस्ततसुतो- यस्य स्वर्वेश्यादर्शनात् किल। शरस्तम्बेऽपतद्रेतो मिथुनं तदभूत् श्रुतम्। तद्दृष्ट्वा कृपयाऽगृह्णाच्छान्तनुर्मृगयां चरन्। कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी” भाग० ९, २१०। स च रुद्रांशसम्भूतः यथाह “यस्तु राजन्। कृपोनाम ब्रह्मर्षिरभवत् क्षितौ। रुद्राणान्तु गणाद्विद्धि संभूतमतिपौरुषम्” भा० आ० ६७ अ०। म च चिरजीवी। “अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः। कृपः परशुरामश्च सप्तैते चिरजीविनः” पुरा०। “ततो दीर्घायुयं व्यासं रामं द्रौणिं कृपं बलिम्। प्रह्लादञ्च हनूमन्तं विभीषणमथार्चयेत्” ति० त० गर्गः। ४ कर्म्मणि च “यमासा कृपनीडं भासा केतुम् वर्द्धयन्ति” ऋ० १०, २०, ३, “कृपनीडं कर्म्मस्थानम्” भा०।

कृपण = त्रि० कृप–क्युन् न लत्वम्। अदातरि कदर्य्ये अमरः “कृपणेन समोदाता न कश्चिद्भुवि विद्यते। अनन्नन्नेव वित्तानि यत् परेभ्यः प्रयच्छति” व्यासः। “दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति” व्यासः। २ मन्दे त्रि० मेदि० “कूपणाः फलहेतवः” गीता। ३ महाव्यसनप्राप्ते दीने। “महद्वा व्यसनं प्राप्तोदीनः कृपण उच्यते”। रामा०। श्रेण्या० अभूततद्भावेऽर्थेऽस्य कृतादिभिः स०। कृपणकृतः। कृपणस्य भावः व्यञ्। कार्प्यण्य दीनतायां न० “कार्पण्यदोषोपहतस्वभावः” गीता। तल्। कृपणता स्त्री, त्व कृपणत्व न० तत्रार्थे। ४ दैन्ये न०। “वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः” शान्तिश०। सुखा० वेदनायाम् क्यङ्। कृपणायते दैन्यमनुभवतीत्यर्थः। सुखा० अस्त्यर्थे इनि। कृपणिन् दैन्ययुक्ते त्रि० स्त्रियां ङीप्। ५ क्रिमौ पु० मेदि०। कृतः पणोयस्य वेदे नि० तलोपः। ६ कृतपणे पणक्रीते दासादौ “एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणः” वृ० उ०। “कृपणः पणक्रीत इव दासादिः”। भा०

कृपा = स्त्री क्रप–भिदा० अङ् “कृपेः संप्रसारणञ्च” गणसू० संप्र०। अनुग्रहेच्छायां प्रत्युपकारानपेक्षया परदुःखप्रहरणेच्छायाम् अमरः “मिथुने कृपावती” कुमा०।

कृपाण = पु० कृपां नुदति नुद–ड संज्ञायां णत्वम्। १ खङ्गे अमरः। गौरा० ङीष्। २ कर्त्तर्य्याम् स्त्री अमरः। ३ छुरिकायाम् स्त्री मेटि०। स्वार्थे क। कृपाणक। खडगेपु० टाप् अत इत्त्वम्। कृपाणिका छुरिकायां स्त्री हेमच०

कृपाद्वैत = पु० बौद्धभेदे हेम०।

कृपालु = त्रि० कपां लाति ला–आदाने मित० डु। दयालौ कपायुक्ते अमरः।

कृपीट = न० कृप–कीटन्। १ उदरे २ जले च मेदि०। ३ वने ४ इन्धने च शब्दरत्ना०। कृपीटयोनिः।

कृपीटपाल = पु० कृपीटं पालयति पालि–अण् उप० द०। १ समुद्रे। २ केनिपाते नौकाङ्गे काष्ठभेदे च मेदि० ३ वायौ शब्दरत्ना० तस्य उदरवनयोःपालकत्वात् तथात्वम्।

कृपीटयोनि = पु० कृपीटस्य जलस्य योनिः कृपीटं काष्ठं योनि रस्य वा। बह्नौ अमरः “अग्नेरापः इति श्रुतेस्तस्य जल हेतुत्वात् काष्ठोद्भूतत्वाच्च तथात्वम्। तत्पुरुषे स्त्री इति भेदः

कृपीपति = पु० ६ त०। द्रोणाचार्य्ये शब्दमाला। तस्यास्तत्पतित्वकथा कृपशब्दे दृश्या।

कृपीसुत = पु० ६ त०। भारतप्रसिद्धे अश्वत्थाम्नि त्रिका० कृपीतनयादयोऽप्यत्र

कृ(क्रि)मि = पु० क्रम–इन् अतैत्त्वम् “भ्रमेः सम्प्रसारणञ्च” उ० इत्यतः सम्प्रसारणानुवृत्तौ सम्प्रवा। १ क्षुद्रजन्तुभेदे उज्ज्वल०। “लुम्पन्ति कीटकृमयः परितस्तथैते” नागार्ज्जनीये ऋकारयुक्तपाठः। २ लक्षायां ३ कृमियुक्ते ४ खरे गर्द्दभे च मेदि०। ५ रोगभेदे पु०। तन्निदानादि सुश्रुते उक्तं यथा “अथातः कृमिरोगमध्यायं व्याख्यास्यामः। अजीर्ण्णाध्यशनासात्म्यैर्व्विरुद्धमलिनाशनैः। अव्यायामदिवास्वप्नगुर्व्वतिस्निग्धशीतलैः। माषपिष्टान्नविदलविसशालूकषेरुकैः। पर्ण्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः। पललानूपपिशितपिन्याकपृथुकादिभिः। स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तञ्च कुप्यति। कृमीन् बहुविधाकारान् करोति विविधाश्रयान्। आमपक्वाशयस्तेषां प्रसवः प्रायशः स्मृतः। विंशतेः कृमिजातीनां त्रिविधः सम्भवः स्मृतः। पुरीषकफरक्तानि तेषा वक्ष्यामि लक्षणम्। अयवा वियवाः किप्पा श्चिप्यागण्डूपदास्तथा। चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः। श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च। तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि। शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसङ्क्षयाः। प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः। रक्ता गण्डूपदा दोर्घा गुदकण्डूनिपातिनः। शूलाटोपशकृद्भेदपक्तिनाशकराश्चते। दर्भपुष्पाः १ महापुष्पाः २ प्रलूना ३ टिपिटा ४ स्तथा। पिपीलिका ३ दारुणाश्च ६ कफकोपसमुद्भवाः। रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः। मूढधान्याङ्गुराकाराः शुक्लास्ते तनवस्तथा। मज्जादा १ नेत्रलेढार २ स्तालुश्रोतभुज ३ स्तथा। शिरोहृद्रोगवमथुप्रतिश्यायकराश्चते। केशरोमनखादाश्च ४ दन्तादाः ५ किक्किशा ६ स्तथा। कुष्ठजाश्र परीमर्प्पा ७ ज्ञेयाः शोणितसम्भवाः। ते सरक्ताश्र कृष्णाय स्रिग्धाश्च पृथयस्तथा। रक्ता- धिष्ठानजान् प्रायोविकारान् जनयन्ति ते। माषपिष्टान्नलवणगुडशाकैः पुरीषजाः। मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः। विरुद्धाजीर्णशाकाद्येः शोणितोत्था भवन्ति हि। ज्वरो विवर्णता शूलं हृद्रोगः मदसंभ्रमः। भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम्। दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्त्तिताः। केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्। एषामन्यतमं ज्ञात्वा जिघांसुः म्निग्वमातुरम्”। “तुदन्त्यामत्वचं र्दशा मशकामत्कुणादयः। रुदन्तं विगतज्ञानं क्रिमयः क्रिमिलं यथा” भाग०, ३, ३१, २८, स्वार्थे क तत्रार्थे “ततो भक्षयतस्तस्य फलात् कृमिरभूदणुः। सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्”। “एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्य तम्। कृमिकं प्राहसत्तूर्ण्णं मुमूर्षुर्नष्टचेतनः” भा० आ० ४३ अ०।

कृमिकण्टक = न० कृमौ कृमिरोगे कण्टकमिव तन्नाशक त्वात्। १ विडङ्गे २ चित्राङ्गे (चिता) ३ उदुम्बरे च मेदि० तेषां तन्नाशकत्वात् तथात्वम्।

कृमिकर = पु० कृमिं करोति कृ–ताच्छील्यादौ टच। कीटभेदे “कोष्ठागारी कृ(क्रि)मिकरोयस्य मण्डलपुच्छकः” सुश्रु० प्राणनाशनकीटोक्तौ

कृमिकर्ण्ण(क) = पु० कृमियुक्तः कर्ण्णोयत्र वा कप्। सुश्रुतोक्ते कर्ण्णरोगभेदे। “यदा तु मूर्च्छन्त्यथवापि जन्तवः सृजन्त्यपत्यान्यथवापि मक्षिकाः। तदञ्जनत्वात् श्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्ण्णकस्तु सः”। “कृमिकर्ण्णप्रतीनाहौ विद्रधिर्द्विविधस्तथा”। “कृमिकर्ण्णकनाशार्थं कृमिघ्नं योजयेद्विधिम्” इति च सुश्रु०।

कृमिकोषोत्थ = न० कृमेः कोषादुत्तिष्ठति उद् + स्था–क ५ त०। कौषेये (रेश्मी कापड) वस्त्रे अमरः।

कृमिग्रन्थि = पु० सुश्रुतोक्ते सन्धिगतरोगभेदे। तद्विवृतिर्यथा “अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः पूयालमः सोपनाहः स्रावः पर्वणिकालजी। क्रि(कृ) मि ग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नवेति” विभज्य क्रि (कृ)मिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डू कुर्य्युः कृमयः सन्धि जाताः”। मुश्रु०

कृमिघ्न = पु० कृमिं हन्ति हन–ताच्छाल्यादौ ढक् “हन्तेरत्पूर्बस्य” पा० नियमात् न णत्वम्। १ विडङ्गे अमरः २ पलाण्डौ (पेयाज) ३ कोलकन्दे ५ पारिभद्रे (पालिदामां दार) ६ भल्लातके (भेला) च राजनि० तेषां कृमिघाति- तया तथात्वम् ७ हरिद्रायां स्त्री० भावप्र० अजा० टाप्। ८ विडङ्गे स्त्री० ङीप् राजनि०

कृमिज = न० कृमिभिर्जन्यते कृमेर्जायते वा जन–ड। १ अगुरुणि अमरः। २ कृमिजातमात्रे त्रि० ३ लाक्षायां स्त्री० राजनि०

कृमिजग्ध = न० कृमिभिर्जग्धम्। उपचारात् तज्जाते अगुरुचन्दने राजनि०

कृमिजलज = पु० कृमिरिव जलजः। कृमिशङ्खे राजनि०

कृमिण = त्रि० कृमिरस्त्यस्य पामा० न णत्वञ्च। कृमियुक्ते

कृमिदन्तक = पु० कृमियुक्तोदन्तोऽत्र। दन्तरोगभेदे “कृष्णच्छिद्रश्चलः स्रावी ससंरम्भो महारुजः। अनिमित्त रुजोवातात् स ज्ञेयः कमिदन्तकः” तल्लक्षणम् “शौषिरो गलशालूकं कण्टका कृमिदन्तकः” क्षुद्ररोगगणनायाम् सुश्रु०

कृमिफल = पु० कृमयः फलेऽस्य। उदुम्बरे शब्दचिन्ता०

कृमिभोजन = पु० कृमिमिर्भुज्यतेऽत्र भुज–आधारे ल्युट् ६ त०। नरकभेदे तामिस्रान्धतामिस्राद्युपक्रमे “अन्धकूपकृमिभो जन इत्यादिना विभज्य भाग० ५। २६। २४ तत्स्वरूपाद्युक्तं यथा “यस्त्विह वा असंपिभज्याश्नाति यत् किञ्चनोपनमत निर्मितपञ्चयज्ञोवायमसंस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति। तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनोयावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं यातयते”। कृमिभक्षादयोऽप्यत्र विष्णुपु० तन्नामतयैव कीर्त्तनात्

कृमिमत् = त्रि० कृमि + अस्त्यर्थे मतुप् मोपधत्वेऽपि यवादि० न मस्यवः। कृमियुक्ते स्त्रियां ङीप्।

कृमिरिपु = ६ त०। विडङ्गे शब्दरत्ना०। कृमिशत्रुप्रभृतयोऽप्यत्र

कृमिल = त्रि० कृभिं लाति ला–क। कृभियुक्ते बहुप्रसवायां स्त्रियां स्त्री० हेमच०

कृमिलाश्व = पु० आजमीढवंश्ये नृपभेदे “आजमीढात्तु नीलिन्यां सुशान्तिरुदपद्यत। पुरुजातिः सुशान्तेश्च वाह्याश्वः पुरुजातितः। वाह्याश्वतनयाः पञ्च बभूतुरमरोपमाः। मुद्गलः सृञ्जयश्चैव राजा वृहदिपुस्तथा। यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः” हरिवं० ३२ अ०

कृमिलोदर = त्रि० कृमिं लाति ला–क तादृशरुदरमस्य। कृमियुक्तोदररोगभेदयुक्ते। “भुक्त्वाऽस्पृसंस्यसंस्पृष्टोजायते कृमिलोदरः” शाता०।

कृमिवारिरुह = पु० कृमिरिव वारिरुहः। कृमिशङ्खे राजनि०

कृमिवृक्ष = पु० कृमिप्रधानो वृक्षः। कोषाम्रे प्रावप्रकाशः।

कृमिशङ्ख = पु० कृमिरिव शङ्खः। शङ्खभेदे राजनि०

कृमिशुक्ति = स्त्री कृमिरिव शुक्तिः। जलशुक्तौ राजनि०

कृमिशैल = पु० कृमीणां शैल इव। बल्मीके। कृमिपर्व्वतादयोऽप्यत्र पु०

कृमीलक = पु० कृमीत् ईरयति जनयति ईर–ण्वुल् रस्य लः। वनमुद्गे राजनि०।

कृमुक = पु० क्रमुक + पृषो०। गुवाकवृक्षे तस्योत्पत्तिकथा शत० ब्रा० ६। ६। २। ११ “सा कार्मुकी स्यात्। देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवा अग्निमनीकं कृत्वा सुरानभ्यायं स्तस्यार्चिषः प्रगृहीतस्यासुरा अग्रं प्रावृश्चंस्तदस्यां प्रत्यतिष्ठत्स कृमुकोऽभवत्तस्मात् सस्वादु रसोहि तस्मादु लोहितो चिर्हि स एषोऽग्निरेव यत् कुमुकोऽग्निमेवास्मिन्न तत् सम्भूतिं दधाति”। कृमुकस्येयम् अण् ङीप्। कार्मुकी कुमुकसम्बन्धिन्यां समिधि स्त्री

कृव = कृतौ हिंसे च इदित् स्वा० प० सक० सेट् श्रौ कृ इत्यादेशः। कृणोति–अकृणोत् अकृण्वीत्। इदित्त्वात् कुण्व्यते इत्यत्र न नलोपः।

कृवि = पु० करोत्यनेन कृ–वि किच्च। तन्तुवयनसाधनद्रव्ये तन्त्रे (ता~त) सि० कौ०।

कृश = तनूकरणे दिवा० पर० सक० सेट्। कृश्यति इरित् अकृशत् अकर्शीत्। णिचि कर्शयति ते अचीकृशत्–त अचकर्शत्त। कर्शयाम् बभूव आस चकार चक्रे। कृशः।

कृश = त्रि० कृश–क्त नि०। १ अल्पे, २ सूक्ष्मे च। “आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः” ष्ठपवासकृशं तन्तु” “क्षत्रियञ्चैव सर्पञ्चब्राह्मणं वा बहुश्रुतम्। नावमन्येत वै भूयः कृशानपि कदाचन” मनुः “ब्राह्मणस्य सुरश्रेष्ठ! कृश वृत्तेः कदाचन” भा० आनु० ६२ अ०। सूक्ष्मे कृशोदरी। कृशस्य भावः इमनिच् क्रशिमत् तद्भावे पु०। ष्यञ्। कार्श्य न०। तल्। कृशता स्त्री, त्व “कृशत्व न० तद्भावे “त्वय्येवं कृशता कुतः” सा० द०। अतिशयेन कृशः इष्ठन् क्रशिष्ठ ईयसुन् क्रशीयस्। अतिशयकृशे त्रि० ईयसौ स्त्रियां ङीप्।

कृशर = पु० कृशमल्पमात्रां राति रा–क। “तिलतण्डुल संमिश्रः कृशरः परिकीर्त्तितः” स्मृत्युक्ते १ पक्वान्नभेदे हेमच०। (खिचडी) ख्याते २ पक्वान्नभेदे रत्री टाप् भावप्र० कृतान्नशब्दे लक्षणादि दृश्यम्। कृशरश्च शनैश्चराय गृहयज्ञे बलित्वेन देयः यथाह मत्स्यपुरा० “र{??}दनं रवेर्दद्यात् सोमाय घृतपायसम्। संयावकं कुजे दद्यात् क्षीरान्नं सोमसूनवे। दध्योदनञ्च जीवस्य शुक्राय तु घृतौदनम्। शनैश्चराय कृशरमाजमांसञ्च राहवे। चित्रौदनञ्च केतुभ्यः सर्व्वभक्ष्यैः समर्चेयेत्”।

कृशला = स्त्री कृशं कार्श्य लाति ला–क टाप्। केशे शब्दच०

कृशशाख = पु० कृशा शाखा यस्य। १ पर्पटे (पापडी) राजनि० २ ह्रस्वशाखान्विते त्रि०।

कृशाङ्गी = स्त्री कृण्मङ्गं यस्याः ङीष्। १ प्रियङ्गुवृक्षे शब्दचन्द्रिका २ सूक्ष्माङ्गयुक्ते त्रि० स्त्रियां ङीष्।

कृशानु = पु० कृश–आनुक्। १ वह्नौ २ चित्रकवृक्षे च अमरः। तस्य तन्नामकत्वात् “तस्मिन् कृशानुसाद्भूते” भट्टिः। ३ सोमपालके। “इत्कृशानोरस्तुर्मनसाह बिभ्युषा” ऋ० ९, ७७, २, “कृशानोः सोमपालस्यः” “कृशानुः सोमपालः सव्यस्य पदः” ऐत० ब्रा० ३, २६, भा०। “कृशानुरस्ता मनसा भुरण्यन्” ऋ० ४, २७, ३, “कृशानुरेतन्नामकः सोमपालः” भा०। ४ सव्यपार्श्वस्यरश्मिधारके च। “कृशानो! सव्यानायच्छ” ता० व्रा० “कृशानुर्नाम सव्यपार्श्वस्थानां रश्मीनां धारयितेति” भा०। ततः मत्वर्थे गोषदा० टन्। कृशानुक वह्नियुक्ते त्रि० तद्गणे कृशानुस्थाने कृशाकु इति वा पाठः कृशाकोश्च वह्निरेवाऽर्थः।

कृशानुरेतस् = पु० कृशानौ पवितं रेतोऽस्य। १ महादेवे अम रः। तस्य यथा वह्नौ तेजोनिषेकः तथा कालिकापु० ४७ अ० उक्तं कालिकापु० शब्दे २०५५ पु० तत्कथामात्रं दृश्यं विस्तरस्तु कालिकापुराणे दृश्यः। ६ त०। २ वह्ने स्तेजसि न०।

कृशाश्व = त्रि० कृशोऽश्वोऽस्य। १ ह्रस्वाश्वस्वामिनि। तृणविन्दुवंश्ये २ राजर्षिभेदे पु०। “तत् पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः। कृशाश्वात् सोमदत्तोऽभूत्” भाग० ९, २, २२, श्लो०। ३ दक्षजामावृभेदे पु० “कृशाश्वोऽर्चिषि भर्य्यायां धूमकेशमजीजनत्। धिषणायां वेदशिरं देवलं वयुनं मनुम्” भाग० ६६, १८, श्लो०। रामा० तु अन्यनामिकवोर्दक्षकन्ययोः तद्भार्य्यात्वमुक्तं यथा “मर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्म्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति। तेऽपि पुत्राः कृशानुस्य प्रजापतिसुतासुताः। नैकरूपा महावीर्य्या दीप्ति मलो जयावहाः। जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे। असुवातां च शस्त्राणि शतं परमभाखरम्। पञ्चाशतं सुतान् लेभे जया लन्धवरा वरान। बधायासुरसैन्यानामप्रमेयानुरूपिणः। सुप्रभाऽजनयच्च्यपि पु- त्रान् पञ्चाशतं पुनः। संहारान्नाम दुर्धर्षान्दुराक्रामान्बलीयसः। तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः। अपूर्वाणां च जनने शक्तो भयश्च धर्म्मवित्”। “देवि एतानि सरहस्यानि जृम्भकास्त्राणि यानि भगवतः कृशाश्वात् कौशिकमृषिमुपसंक्रान्तानि तेन च ताडकाबधे प्रसादोकृतार्न्याय्यस्य” उत्तरराम०। “व्यश्वः साश्वः कृशाश्वश्च शशविन्दुश्च पार्थिवः” भा० स० ८ अ० यमसभ्योक्तौ “धौन्धुमारिर्दृढाश्वश्च” इत्युपक्रमे “संहताश्वोनिकुम्भस्य पुत्रोरणविशारदः। अकृशाश्वकृशाश्वौ च संहताश्वश्च तौ नृप” हरिव० १२ अ० उक्ते धुन्धुषारवंश्ये ३ नृपभेदे च। ततः तेन प्रोक्तमधीयते नटसूत्रम् इनि। कृशाश्विन् तत्प्रोक्तनटसूत्राध्यायिषु ब० व०।

कृशिका = स्त्री कृशैव स्वार्थे क। आखुकर्ण्णीलतायां (उन्दुरकाणी) राजनि०।

कृष = विलेखने आकर्षणे च तुदा० आ० सक० अनिट्। कृषते। अकृक्षत–अकृष्ट। चकृषे चकृषिषे। क्रष्टा क्रक्षीष्ट क्रक्ष्यते। कर्षणम्। प्रनिकृषते।

कृष = विलेखने आकर्षणे च भ्वा० पर० सक० अनिट्। कर्षति अक्राक्षीत्–अकार्क्षीत्–अकृक्षत्। चकर्ष चकर्षिथ चकृषिव। क्रष्टा कृष्वात् क्रक्ष्यति। कर्म्मणि कृष्यते अकर्षि अकृक्षाताम् अकृषाताम्। कृष्यः कर्षणीयः क्रष्टव्यः। क्रष्टा कर्षकः कर्षी कर्षन् कृष्यमाणः। क्रक्ष्यन् क्रक्ष्यमाणः। कृष्टः कृष्टिः कृष्ट्वा अनुकृष्य। कर्षः कर्षणम्।अनु + पूर्वस्थितस्य पदादेः उत्तरवाक्ये योजनार्थे अनुसन्धाने अनुषङ्गे सक० अनुकर्षति। अनुकर्षशब्दे विवृतिःअप + हीनताकरणे स्वकालात् पूर्ब्बत्र काले करणे च सक० अपकर्षति अपकर्षसपिण्डनम्। अपकृष्टः। अपकर्षशब्दे विवृतिःअप + आ + निवर्त्तने सक०। “तमशक्यमपाक्रष्टुं निदेशात् स्वर्गिणः पितुः” रषुः।अभि + आभिमुख्येन कर्षणे सक० अभिकर्षति।अव + अधःस्थतया कर्षणे सक०। अवकर्षतिआ + विषयान्तरतोनयने सक०। आकर्षतिउद् + अतिशायने प्राधान्यप्रापणे स्वकालात् उत्तरकालकरणे आकर्षणे च सक०। उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे” रामा० ल० ३८, १४। उत्कर्षशब्दे विवृतिःनिस् + निर् + निस्मारणे निश्चये च सक०। निष्कर्षति “निक्रष्टुमर्थं चकमे कुबेरात्” रघुः। तदयं निष्वर्षःप्र + अतिशयेन कर्षणे उत्तमतावाने सक० प्रकर्षति प्रकृष्टः प्रकर्षः पाधान्थभवने अक० “इदं तु मम दीनस्य मनोभूयः प्रकर्षति” रामा० सु० १, १,सम् + सम्यक्र्षणे सक० सङ्कर्षणम्।सम् + आ + सम्यक्तया दूरपर्य्यन्तनयने सक०। समाकर्षति समाकर्षी। कृषधातुर्न्यादिपाठात् द्विकर्म्मकः। कर्षणञ्च भूमिसंयोजनेन बलेन देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः तेनास्य द्विव्यापारबोधकतया द्विकर्म्मकत्वम्। ग्राममजां कर्षति इत्यादौ अकथितञ्चेत्यादि पा० अजादेः कर्म्मत्वम्। अत्र प्रधाने कर्म्मण्येव वाच्ये लकारादयः। “प्रधाने नीकृष्वहाम्” भर्त्तृहर्य्युक्तेः। अजा ग्रामं कृष्यते। विलेखनञ्च विदारणं तत्रार्थे न द्विकर्म्मकतेति भेदः

कृषक = त्रि० कृष–क्वुन्! १ कर्षके कृषिशब्दे उदा०। २ फाले न० मेदि०। २ वृषे पु० हेम०।

कृषर = न० कृष–करन्। कृशरशब्दार्थे पृषो० कृसरोऽप्यत्र केचित्

कृषाण = त्रि० कृष–वा० आनक्। कर्षके कृषिशब्दे उदा०

***