कृ = कृतौ भ्वा० उभ० सक० अनिट् कविकल्प०। करति ते अकार्षीत् अकृत। चकार। भौवादिकस्यास्यापाणिनीयता

कृ = कृतौ तना० उभ० सक० अनिट्। करोति कुरुते कुर्य्यात्। करोतु कुरु अकरोत् अकार्षीत् अकृत। चकार कर्त्ता करिष्यतिते क्रियात् कृषीष्ट। कर्म्मणि क्रियते अकारिअकारिषाताम्कारयिषाताम्। कारक कर्त्ता कारी कुर्वन् कुर्ष्वाणः चक्रिवान् चक्राणः। डु–कृत्रिमः कृतः कृतवान् करणं कृतिः क्रिया कृत्या कृत्वा प्रकृत्य। कृत्यं कार्य्यः कर्त्तव्यः करणीयः। णिचि कारयति ते अचीकरत्तसनि चिकीर्षति ते यङि चेक्रियते यङ् लुकि चरि(री)करीति चरि(री) कर्त्ति चर्करीति चर्कर्त्ति

“कृञो हेतुताच्छील्यानुलोम्येषु” पा० “एषु द्योत्येषु करोतेष्टः स्यात्। अतः कूकमीति सः। यशस्करी विद्या। श्राद्धकरः वचनकरः” सि० कौ०

“दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्त्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्य्यत्तद्धनुररुष्षु” पा०।

“एषु कृञष्टः स्यात्। अहेत्वादावपि। दिवाकरः विभाकरः निशाकरः कस्कादित्वासः। भास्करः बहुकरः बहुशब्दस्य वैपुल्यार्थे संख्यापेक्षया पृथग्ग्रहणम् लिपिलिबिशब्दौ पर्य्यायौ। संख्या–एककरः। द्विकरः। कस्कादित्वात्सः। अहस्करः। नित्यम् समामेऽनुत्तरपदस्थस्येति षत्वम्। धनुष्करः। अरुष्करः। “किंयत्तद्बहुषु कृञोऽज्विधानमिति” वार्त्तिकम् किङ्करा। तत्करा। हेत्वादौ टम्बाधित्वा परत्वादच्। पुंयोगे ङीप्। किङ्करी। “कर्म्मणि भृतौ” पा०

“कर्म्मशब्दे उपपदे करोतेष्टः स्यात् भृतौ। कर्म्मकरो भृतकः। कर्म्मकारोऽन्यः” सि० कौ०

“न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु” पा०।

“एषु कुञष्टो न। हेत्वादिषु प्राप्तः प्रतिपिध्यते। शब्दकार इत्यादि”। “स्तम्बशकृतोरिन्” पा० “व्रीहिवत्सयोरिति वक्तव्यम्” वार्त्ति०। स्त्रम्बकरिव्रीहिः। शकृत्करिर्ष्वत्सः। वीहिवत्सयो किम् स्तम्भकारः। शकृत्कारः”। सि० कौ०

“सुकर्म्मपापमन्त्रपुण्येषु कृञः” पा० “सौ कर्म्मादिषु च कृञः क्विप्स्यात्। त्रिविधोऽत्र नियम इति काशिका। सकृत् कर्म्मकृत् पापकृत् मन्त्रकृत् पुण्यकृत्। क्विबेवेति नियमात्कर्म्म कृतवानि तिनिष्ठा न। कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः अत्र न क्विप्। भूत एवेति नियमात् मन्त्रङ्करोति करिष्यति वेति विवक्षायान्न क्विप्। स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप्। शास्त्रकृत्। भाष्यकृत्”। सि० कौ०अधि + अधिकारे आरम्भे सक० अधिकरोति अधिकृत्यअनु + सदृशीकरणे अनुकरोति। “शैलाधिपस्यानुचकार लक्ष्मीम्”अप + अपकारे अनिष्टाचरणे अपकरोति “रिपौ सान्त्वमपक्रिया” माघःअप + आ निवारखे सक०। अपाकरोति। “अयं प्रश्नः प्राधान्येनावाक्रियते” वृ० उ० भा०आ + आकारे अवयवसंस्थाने आकृतिः आकारःउद् + आ + उत्कालने सक० “उदाकरोति उत्कालयति “याज्ञकलक्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज सोमश्रवाः! इति ताहोदाचकार” वृ० उ०। “तागाः ह उदाचकार उत्कालितवानाचार्य्यगृहम्” भा०।उप + उपकारे सक० उपकरोति “उपकृतं बहु तत्र किमुच्यते” सा० द०। संस्कारे सक० सुट् च। उपस्करोतिउप + आ + आरम्भे उपाकरोति उपाकृत्य “श्रावण्यां प्रोष्ठ पर्द्या वा उपाकृत्य यथाविधि” मनुः पश्वादिसंस्कारे च उपाकर्म्मशब्दे उदा०।दुर्–दुष्टाचरणे दुष्कृतं दुष्कृतिः।नि + पराभवे सक० निकरोति (पराभवति) नीकरःनिस् + निर + शुद्धौ अक० निष्करोति निष्कृतिः (शुद्धिः)निर् आ + निवारणे सक० निराकरोति “निराकरिष्णू वर्द्धिष्णू वर्त्तिष्णू परितोरणम्” भट्टिः! “निराकरिष्णोर्वृजिनादृतेऽपि” रघुःपरा + निराकरणे सक०। पराकरोतिपरि + परिष्कारे सतोगुणान्तराधाने भूषणे च सक० सुट् च परिष्करोतिप्र + प्रस्तावे सक० प्रकरोति प्रकृत्य। आरम्भे च “प्रकृत जपविधीनामास्यमुद्रश्मिदन्तम्” माघः।प्रति + प्रतिकारे अतिष्टनिवारणे प्रतिकूलाचरणे च सक० प्रतिकरोति प्रतीकारः प्रतिक्रिया।वि + विभागे विकरोति “स त्रेधात्मानं व्यकुरुत” छा० उ०। “व्यकुरुत व्यभजद्” भा०। विकारे (अत्यथास्थितस्य वस्तुनोऽन्यथाभाके) अक० आ० वायुर्विकुरुते” सि० कौ०।वि + आ + प्रकाशने व्याकरोति “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्यकरवाणि” श्रुतिः। व्याख्याने व्याकृतम् पाणिन्याद्युक्तशब्दसाधुत्वाधायकसंस्कारभेदे च “शिक्षा कल्पोव्याकरणं निरुक्तं छन्दसां चितिः” वेदाङ्गोक्तौ “व्याक्रियाव्यञ्जनीया वा जातिः कापीह सा धुता” भर्त्तृ हरिः।वि + प्र + उपद्रवे सक० विप्रकरोति “तस्मिन् विप्रकृताः काले” कुमा०। “कमपरमवशं न विप्रकुर्य्युः” कुमा०।सम् + संस्कारे सतोगुणान्तराधाने सक० सुट् च। संस्करोति पात्रम्।सम् + परि उप + भूषणे अर्थे सुट्। संस्करोति परिष्करोति उपस्करोति अलङ्करोतीत्यर्थः। तत्पूर्व्वकाः समवायेऽर्थेच अक० सुट् संस्करोति उपस्करोति परिस्करोति संघीभवतीत्यर्थः उप + सतोगुणान्तराधाने विकारे आकाङ्क्षितवाक्यस्य पूरणे च सुट्। उपस्कृतं भुङ्क्तेविकृतं भुङ्क्ते। उपस्कृतं ब्रूते वाक्यमध्याहृत्य ब्रूते” सि० कौ०

अथ मतभेदेन कृञोऽर्थोनिरूप्यते तत्र वैयाकरणाः तस्य यत्नार्थकतानिराकरणेन व्यापारार्थकतामाहुः यथा वै० भू० सारे “व्यापारोभावना सैवोत्पादना सैव च क्रिया। कृञोऽकर्म्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते” मू०। “पचति पाकमुत्पादयति पाकानुकूला भावना तादृश्युत्पादनेत्यादिविरणाद्विव्रियमाणस्यापि तद्वाचकतेति भावः। व्यापारपदं फूकारादीनामयत्नानामपि फूत्कारत्वादिरूपेण वाच्यतां ध्वनथितुमुक्तम्। अतएव पचतीत्यत्राघःसन्तापनत्वफूत्कारत्वचूल्ल्युपरिधारणत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः। नचैबमेषां शक्यतावच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यम् रथो गच्छति जानातीत्यादौ च व्यापारत्वादिप्रकारकबोधोलक्षणयेति नैयायिकरीतिः साध्वी, शक्यतावच्छेदकत्वस्यापि लक्ष्यतावच्छेदकत्ववद्गुरुणि सम्भवात् तयोर्वैषम्ये वीजाभावात्। नच पचति पाकं करोतीति यत्नार्थकरोतिना विवरणाद्यत्नएवाख्यातार्थ इति वाच्यम्। रथोगमनं करोति वीजादिना अङ्कुरः कृत इति दर्शनात् कृञोयत्नार्थकताया असिद्वेः। किञ्च भावनाया अवाच्यत्वे घटं भावयती यत्रेव घटोभवतीत्यत्रापि द्वितीया स्यात् नचात्र घटस्य कर्तृत्वेन तत्संज्ञया कर्म्मासंज्ञायाताधान्न द्वितीयेति वाच्यम् अनुगतकर्तृत्वस्य त्वन्मते दुर्व्वचत्वेन घटस्याकर्तृत्वात्। कृत्याश्रयत्वस्य कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात्। धात्वर्थानुकूनव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात्। अपि च भावनाया अवाच्यत्वे धातूना सकर्म्मकत्वाकर्म्मकत्वविभाग उच्छिन्नः स्यात्। स्वार्थफलव्यधिकरणव्यापारवाचित्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वं भानियिवाच्यत्वमन्तरेणासम्भवि। अन्यतमत्वं तत्त्वमिति चेन्न एकस्यैवार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् तदेतदभिसन्धायाह कृञ इति। अयं भावः व्यापारावाच्यत्वपक्षे फलमात्र मर्थैति फलितम्। तथा च करोतीत्यादौ यत्नप्रतीतेस्तन्मात्रं वाच्यमभ्युपेयम्। तथा च यती प्रयत्नैतिवत् फलस्थानीययत्नवाचकत्वाविशेषादकर्मकतापत्तिः उक्तरीत्या दुर्वारेति। तथा च नहि यत्नः इत्यत्र फलस्थानीयत्वेनेति शेषः कृञः इति धातुमात्रोपलक्षणं सर्वेषामप्यकर्म्मकता सकर्मकता वा न स्यादिति भावः। अथ वा व्यापारोभावना इत्यर्द्धेन व्यापारस्य बाच्यत्वं प्रसाध्य फलांशस्यापि तत्साधयन् नैयायिकाभ्युपगत जानातिकृञादेः केवलज्ञानयत्नादिक्रियाणात्रवाचित्वं दूषयति कुञः इति। अयं भावः फलांशस्यावाच्यत्वे व्यापारएव धात्वर्थः स्यात्। तथा च स्वार्थफलव्यधिकरणव्यापारवाचित्वादिरूपसकर्मकत्वोच्छेदापत्तिः। नच कृञादौ सकर्म्मकत्वव्यवहारोभाक्तैति नैयायिकोक्तं युक्तम् व्यवहारस्य भाक्तत्वेऽपि कर्मणि लकारासम्भवात्। न हि तीरे गङ्गापदस्य भाक्तत्वेऽपि तेन स्नानादिकार्यं कर्त्तुं शक्यम्। एवञ्च नहि यत्न इत्यत्र यत्नमात्रमित्यर्थः”। अतएवाह। “किन्तूत्पादनमेवातः कर्म्मवत्स्यात् यगाद्यपि। कर्मकर्त्तर्य्यन्यथा तु न भवेत् तद्दृशेरिव” मू० “उत्पादनम् उत्पतिरूपफलसहितं यत्नादिकृञर्थैत्यर्थः। फलस्य वाच्यत्वे युक्त्यन्तरमाह अतैत्यादि। यतः कृञोयत्नमात्रार्थोनेष्यते अतः कर्मवत् स्यादिति पदेन “कर्मवत्कर्मणा तुल्यक्रियः” इति(पा०)सूत्रं लक्ष्यते। अवमर्थः यतएवास्योत्पादनार्थकता अतः पच्यते ओदनः णयनेवेतिवत् क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते। अन्यथा यत्नस्य कर्मनिष्ठत्वाभावात्तन्न स्यात् दृशिवत्। यथा दृश्यते घटः स्वयमेवेति न, दर्शनस्य घटावृत्तित्वात्तथा यत्नस्थापीति, तथा प्रयोगामुपपत्तेरिति”। नैयायिकास्तु व्यापारार्थकतानिराकरणेन यत्नार्थकतामाहुः थथा शब्दचिन्तामणौ “आख्यातस्य यत्नवाचकत्वादचेतने रथोगच्छतीत्यादौ चाख्याते व्यापारलक्षणा तथाह्याख्यातस्य पचतीत्यादौ यत्नोवाच्यः पचति पाकं करोतीत्यादियत्नार्थककरोतिना सर्व्वाख्यातविवरणाद्वृद्धव्यवहारादिव बाधकं विना विवराणादपि व्युत्पत्तेः। द्वन्द्वादिसमासस्य विग्रहेण विवरणादपि विग्रहार्थे न शक्तिग्रहः अन्यलभ्यत्वात् किंकरीतीति यत्नप्रश्ने पचतीत्युत्तरस्य यत्नार्थत्वं विनानुपपत्तेरित्याचार्य्याः। अत्र वदन्ति–आख्यातस्य करोतेश्च न यत्नार्थकत्वं रथोगच्छति जानाति यतते निद्रातीत्यत्र धात्वर्थानुकूलयत्नाभावेऽप्याख्यातपदप्रयोगात् गमनं करोतीति करोतिना तत्राख्यातविवरणाच्च अत्र व्यापारस्य करोत्यर्थत्वे चेतनेऽपि तथा। न च तत्राख्यातकरोत्योर्गौणत्वं मुख्ये बाधकाभावात्। अतएव प्रश्नोत्तरयोर्न यत्नार्थत्वं किन्तु क्रियावाचकत्वमेव कृञः, तेन किं करोतीति क्रियामात्रप्रश्ने पचति गच्छतीति क्रियाविशेषेणोत्तरमपि समञ्जसम्भवति”। ततः परोग्रन्थः कर्त्तृशब्दे १७१७ दर्शितोदृश्यः। तत्परस्तु“ननु प्रकृतेस्तदर्थत्वेऽपि प्रत्ययस्य न तदर्थत्वं दोषः एकोद्वौबहवःएषिषतीत्यत्रेव तत्सम्भवात्। यत्तु तत्र द्वितीयसंख्येच्छादिकल्पनावदिहापि द्वितीययत्नकल्पनमिति तन्न द्वितीययत्नेच्छादा विच्छायत्नाऽभावात्। वस्तुतस्तु प्रत्येकसामर्थ्यावधृतौ सम्भेदे उभयोपस्थितेरावश्येकत्वेन कस्याप्यनन्वयेऽप्यदोषात् पाकाय यतेत पाकं कुर्य्यादित्यत्र कृत्यर्थकाख्यातेऽपि तथैवान्वयादिति चेत् न एको द्वौ बहव इत्यत्र नामार्थस्य विभक्त्युपनीतसंख्यान्वयावगमायोग्यत्वात् लडादेर्यत्नसामर्थ्यानवधारणात् लिङः पचेतेत्यत्र कृतौ सामर्थ्यावधारणाच्च। अथायत्नार्थकधातुपराख्यातस्य यत्नार्थत्वं तेन यतत इति नानन्वयः अचेतने चाख्यातप्रयोगो गौणएव। न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता। यद्वाऽनुकूलयत्ने प्रवृत्तं पदं तदेकदेशेऽनुकूलमात्रे प्रवर्त्तते विशुद्धिमात्रं पुरस्कृत्य व्राह्मणे श्रोत्रियपदवत्। अचेतने तु मध्यमोत्तम पुरुषौ न भवतएव उपपदयोर्युष्मदस्मदोश्चेतनार्थत्वात्। भवतु वा गौण एव लोकस्यापर्यनुयोज्यत्वादिति चेत् न अचेतने आख्यातस्य मुख्यत्वे बाधकाभावेन गौण त्वाभावात् तस्मादाख्यातम्यानुकूलत्वेन व्यापारो वाच्यः” इति माट्टाः। तेन चेतनाचेतनयोर्धात्वर्थानुकूलव्यापारस्य सत्त्वादाख्यातप्रयोगोमुख्यएव। पथि श्रमशयानेऽपि पचतीति स्यात् श्रमशान्तिद्वारा शयनस्य पाकानुकूलव्यापारत्वात् तव यत्नविशेषस्येवानुकूलव्यापारविशेषस्य वाच्यत्वात् अन्यथा यत्नवाच्यत्वेऽपि तण्डुलानुकूलयत्नवति पचतीति स्यात् एवमचेतनेऽपि करोतिनाख्यातविवरणात् करोत्यर्थोऽपि व्यापारविशेषः। कथन्तर्हि चैत्रःपचतीत्यत्र पाकानुकूलताप्रतीतिः आक्षेपादिति चेन्न आख्यातार्थेन व्यापारेण संख्यया वा यत्नानपेक्षणात् तयोः प्रयत्नं विनापि सत्त्वात् नापि कर्त्त्रा, द्रव्यमात्रस्य कर्त्तृत्वात् यत्नवतश्च कर्तृत्वे आख्यातेन तदभिधाने यत्नस्याप्यभिधानात्। नापि धात्वर्थमात्रेण, तस्य यत्नं विनापि सत्त्वात् नापि यत्नोधात्वर्थः क्रियायास्तत्फलस्य वा धातुवाच्यत्वात् अन्यथा पाक इत्यत्रापि यत्नानुभवप्रसङ्गा दिति चेत् न धात्वर्थविशेषेण पाकादिना यत्नाक्षेपात् तस्य यत्नं विनानुपपत्तेः। अथ पचतीत्यत्र पाकयत्नवानिति विवरणात् यत्नार्थतेति चेत् तर्हि कर्त्त्रर्थतापि स्यात् न हि पाकयत्नैत्येव विवरणं पचतीत्यस्य, तत्पार्य्यविवरणन्तत् तच्चाक्षेपेणापि निर्व्वहतीति चेत् तुल्यं यत्नेऽपि कथन्तर्हि रथोगच्छति, विद्यते व्योमेति भावनानुभवैति चेत् न कथञ्चित्, भावनायाधात्वर्थान्वयायोग्यत्वेन त्वयापि तत्र गौणत्वाभ्युपगमादिति। उच्यते। चैत्रः पचतीत्यत्र पाकानुकूलयत्नानुभवावाद्यत्न एवाख्यातार्थोलाघवात् नत्वनुकूलो व्यापारः यत्नत्वापेक्षया व्यापारत्वस्योपाधित्वेन गुरुत्वात् नचाचेतन आख्यातार्थे मुस्यत्वार्थमनुगुणोव्यापार एवाख्यातवाच्यः मुख्यत्वसम्भवे त्यागायोगादिति वाच्यं शक्तिग्राहकेण लघुनि शक्ति परिच्छेदात् अचेतने प्रयोगस्य घृत्त्यन्तरेणापि सम्भवात्। मुख्यत्वार्थं शक्तिकल्पने च वृत्त्यन्तरोच्छेदः। एतन व्यापारवाचकस्याख्यातस्य यत्नसाध्यार्थरूपपच्यादिधातूपसन्धानेन व्यापारविशेषयत्नोपस्थापनमिति निरस्तं लाघवेन यत्नस्यैव शक्यत्वात् ननु यत्नोनाख्यातार्थः पाकत्वेन पाकस्य यत्नसाध्यत्वानुमित्या यत्नलाभादित्युक्तमिति चेन्न चैत्रो यत्नं कतीत्यतः पाकानुकूलवर्तमानयत्नवान् प्रतीयते। नच पाकस्य वर्त्तमानयत्नेन व्याप्तिरस्ति अतीतानागतयोर्व्यभिचारात्। न च धात्वर्थेनानुमिते यत्ने आख्यातेन वर्त्तमानतान्वयः सम्भवति यत्नस्यापदार्थत्वात् स्वार्थव्यापारस्य वर्त्तमानत्वबोधनेनाख्यातस्य पर्य्यवसि- तत्वाच्च। अथ चैत्रः पाकानुकूलवर्त्तमानव्यापारवानिति शाब्दबोधानन्तरं चैत्रः पाकानुकूलवर्त्तमानयत्नवान् चेतनत्वे सति पाकानुकूलवर्त्तमानव्यापारवत्त्वात् मैत्रवत्। अनुमानं विना च पाकयत्ने वर्त्तमानताभानमाख्यातस्य यत्ने शक्तिभ्रमादिति चेन्न यत्नाभावकालेऽपि तज्जन्य व्यापारस्य वर्त्तमानतया व्यभिचारात् किञ्च। व्यापारस्य वाच्यत्वं तल्लिङ्गकञ्च वर्त्तमानयत्नानुमानमिति कल्प नाद्वयमपेक्ष्य यत्न वाच्यत्वे लाघवात्। नचाचेतने आख्या तस्य व्यापारवाचकत्वाबधारणादेव कल्पनेति युक्तं गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोप पत्तेः। यत्नविगमदशायां तज्जन्यव्यापारकाले पचती त्यत्र वर्त्तमानव्यापाराभिधानमाख्यातेन लक्षणया। यथा रथोगच्छतीत्यत्र, अतोऽन्यलभ्यत्वान्न तदनुरोधेन व्यापारे शक्तिः। अन्यथा तवापि यत्नकाले पचतीति नस्यात् तस्मान्न लडाख्यातं यत्नावाचकं आख्यातत्वात् लिङाख्यातवत् तर्कश्चोक्त एव। एतेन फलानुकूलोव्यापा रोधात्वर्थः आख्यातवाच्या संख्यैव तेन चैत्रः पचति रथो गच्छतीत्यत्र चैत्ररथयोर्धात्वर्थानुकूलव्यापारवत्त्व प्रतीते र्मुख्य एव प्रयोगः। पचतीत्यत्र यत्नलाभोधार्त्वेना क्षेपात् विकॢत्त्यनकूलव्यापारस्य यत्नं विनानुपपत्ते रिति गुरुमतमपास्तं पचतीत्यत्र पाकानुकूलयत्नवर्त्तमान त्वस्याक्षेपादलाभेनाख्यातार्थत्वात्”। रत्नकोषकृतस्तु धात्वर्थो व्यापारः आख्यातार्थ उत्पादना सा चोत्पादकता सैव भावना पचतीत्यादावाख्यातस्य पाकमुत्पादयतीति विवरणात् धात्वर्थोत्पादकता च चेतनाचेतनयोरिति सर्व्वत्राख्यातप्रयोगो मुख्यएव। यतते जानातीत्यादावपि यत्नं ज्ञानमुत्पादयतीत्यर्थात् नतु व्यापारो यत्नोवाख्यातार्थः यतत इत्यादौ मुख्यत्वे सति गौणत्वस्यान्याय्यत्वात् आख्यातार्थविवरणकरोत्यर्थोऽप्युत्पादकतैव पाकं करोतीत्यादौ करोतीत्यस्योत्पादयतीति विवरणात् घटं करोतीत्यादौ कृञर्थ उत्पत्तिरेव गम्यते। अतएव किं करोतीतिं सामान्योत्पादनाप्राश्ने पचतीति पाकोत्पादनाविशेषेणोत्तरमात्रमपि समञ्जसम्। चैत्र उत्पादयतीत्यत्र धात्वर्थ एवोत्पादना चैत्रेणान्वेति आख्यातार्थोत्पादना त्वनन्वितैव उत्पत्तेरुत्पत्त्यभावात्। वस्तुतस्तूत्पादयतीत्यत्र धात्वर्थ एवोत्पादना अतोऽनुत्पादनार्थधातूत्तरवर्त्तिन आख्यातस्यानन्यलभ्यतयोत्पादना वाच्या” तन्मतञ्च शब्दचि० दूषितं विस्तरभयान्नोद्धृतम्। एवं दर्शितेषु मतेषु युक्तायुक्तत्वं सुघीभिर्भाव्यम्। ततः स्वार्थे–णिच् कारयति करोतीत्यर्थः। “दश वर्षसहस्राणि रामो राज्यमकारयदित्यादि” रामा०

कृ = बधे स्वादि उभ० सक० सेट्। कृणोति कृणुते अकार्षीत् अकृत। चकार। अस्य न सुट् सुड्विधौ तानादिकस्यैव ग्रहणात्।

कृक = पु० कृ–कक्। गले कण्ठे हेमच०

कृकण = पु० कृ इति कणति कण–शब्दे अच्। (कयार) १ क्रकर पक्षिणि, अमरः स्त्रियां ङीप्। क्षुतकारके २ देहस्थे वायुभेदे पाठान्तरम् ३ कृमौ हारा०।

कृकर = पु० कृ इति शब्दं करोति। क्षुतकारके देहस्थे १ वायौ। “कृकर(ण)स्तु क्षुते चैव जवाकुसुमसन्निभः” पदार्थादर्शे योगार्ण्णवः। २ शिवे त्रिका० ३ कृकणविहगे शब्दरत्ना० ४ चव्ये (चै) ५ करवीरेवृक्षे च राजनि०।

कृकला = स्त्री कृकं कृकाकारं लाति ला–क। पिप्पल्याम् राजनि०

कृकलास = पुंस्त्री कृकं कण्ठं लासयति लस–णिच् अच्। सरटे (का~कलास) पक्षिणि अमरः स्त्रियां जातित्वात् ङीष्। कृकलासस्यानिष्टसूचकत्वं तच्छान्तिश्च शान्तिशब्दे दृश्या त्रिका० तालव्यान्तः पाठः पृषो०। “ददृशुस्ते महाकायं कृकलासमवस्थितम्”। “खमावृत्योदपानस्य कृकलासः स्थितोमहान्” भा० आनु० ७० अ०। स्वार्थे क तत्रार्थे। स्त्रियां ङीष्। पृषो० कृकुलासोऽप्यत्र अमरटीका।

कृकवाकु = पुंस्त्री कृकेण वक्ति वच–परिभाषणे ञुण् कश्च। १ कुक्कुटे अमरः। २ मयूरे, ३ सरटे च मेदिनी। “कृकवाकोर्ध्वनिमाकर्ण्ण्य कल्ये” माघः।

कृकवाकुध्वज = पु० कृकवाकुर्मयूरः ध्वजोऽस्व। कार्त्तिकेये त्रिका०।

कृकाट = न० कृकं कण्ठमटति अण् उप० स०। घाटायाम् “इन्द्रः शिरो,ऽग्निर्ललाटं, यमः कृकाटम्” अथ० ९, ७, १,

कृकाटिका = स्त्री कृकं कण्ठमटति अट–ण्वुल् टाप् कापिअत इत्त्वम्। ग्रीवायामुन्नतदेशे अमरः “जत्रूर्द्ध्वं मर्म्माणि चतस्रोधमन्योऽष्टौ मातृका द्वे कृकाटिके”। “जानु कूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्त्तकृकाटिकाश्चेति सन्धिमर्म्माणि। “कुकुन्दरे कक्षधरे विधुरे सकृकाटिके” इति च सुश्रु०। “शिरोग्रीवयोः सन्धाने कृकाटिके नाम तत्र चलमूर्द्धता” सुश्रुते तत्स्थानमुक्तम्। “कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे” सुश्रु०।

कृच्छ्र = पु० न० कृत–रक् छोऽन्तादेशः उणा०। १ सान्तापनादिव्रते कृच्छ्रश्च नानाविधः मिता० दर्शितः यथा “गोमूत्रं गोमयं क्षीरन्दधि सर्प्पिः कुशोदकम्। जग्ध्वापरेऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्चरन्” या०। “पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि गव्यानि पञ्च द्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुषवसेदिति द्वैरात्रिकः सान्तपनः कृच्छ्रः सान्तपनञ्चोत्तरश्लोके पृथग्विधानादवगम्यते। कृच्छ्र इति चान्वर्थसंज्ञेयम् तपोरूपत्वेन क्लेशसाध्यत्वात्। गोमूत्रादीनाम्परिमाणं वक्ष्यते। यदा पुनः पूर्बेद्युरुपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकमेव पञ्चगव्यम्पीयते तदा ब्रह्मकूर्च इत्याख्यायते यथाह पराशरः “गोमूत्रङ्गोनयं क्षीरन्दधि सर्प्पिः कुशोदकम्। निर्दिष्टम्पञ्चगव्यन्तु पवित्रं कायशोधनम्। गोमूत्रन्ताम्रवर्णायाः, श्वेतायाश्चापि गोमयम्। पवः काञ्चनवर्णाया, नीलायाश्च तथा दधि। घृतञ्च कृष्णवर्णायाःसर्वं कापिलमेव वा। अलाभे सर्ववर्णानाम्पञ्चगव्येष्वयं विधिः। गोमूत्रमाषकास्त्वष्टौ गोमयस्य तु षोडश। क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्त्तिताः। गोमूत्रवद्वृतस्येष्टास्तदर्द्धन्तु कुशोदकम्। गायत्र्यादाय गोमूत्रं, गन्धद्वारेति गोमयम्। आप्यायस्वेति च क्षीरन्दधिक्राव्णेति वै दधि। तेजोऽसि शुक्रमित्याज्यन्देवस्य त्वा कुशोदकम्। पञ्चगव्यमृचा पूतं होमयेदग्निसन्निधौ। सप्तपत्रास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः। एतैरुद्धृत्य होतव्यम्पञ्चगव्यं यथाविधि। इरावती इदंविष्णुर्मानस्तोके च शंवतीः। एताभिश्चैव होतव्यं हुत्वा शेषं पिबेद्द्विजः। प्रणवेन समालोष्ट्य प्रनवेनाभिमन्त्र्य च। प्रणवेन समुद्धृत्य पिबेत्तत् प्रणवेन तु। मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत्। स्वर्णपात्रेण रौप्येण ब्रह्मतीर्थेन वा पुनः। यत्त्वगस्थिगतम्पापं देहे तिष्ठति मानवे। ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनमिति”। यदात्ये तदेव विमिश्रितम्पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यतिसान्तपनसंज्ञां लभते “एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतमिति” शङ्खस्मरणात्। जावालेन तु सप्ताहसाध्यं सान्तपनमुक्तम् “गोमूत्रङ्गोमयं क्षीरन्दधि सर्प्पिः कुशोदकम्। एकैकं प्रत्यहम्पीत्वा त्वहोरात्रमभोजनम्। कृच्छ्रः सान्तपनो नाम सर्वपापप्रणाशनः” इति। एषाञ्च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया। एवमुत्तरत्रापि व्यवस्था बोद्धव्या। महासान्तपनाख्यं कृच्छ्रमाह “पृथक् सान्तपनद्रव्यैः षडहः सोपवासकः। सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः” या० सप्ताहेनापवर्त्तितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः कथमित्यपेक्षायामुक्तम् पृथग्भूतैः षड्भिर्गोमूत्रादिभिरेकैकेनैकैकमहरतिवाहयेत्सप्तमञ्चोपवासेनेति। यमेन तु पञ्चदशाहसम्पाद्यो महासान्तपनोऽभिहितः “त्र्यहम्पिबेत्तु गोमूत्रन्त्र्यहं वै गोमयम्पिबेत्। त्र्यहन्दधि त्र्यहं क्षीरन्त्र्यहं सर्पिस्ततः शुचिः। महासात्तपनं ह्येतत्सर्वपापप्रणाशनमिति”। जावालेन त्वेकविंशतिरात्रनिर्वर्त्यो महासान्तपन उक्तः। “षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत्। त्र्यहञ्चीपवसेदन्त्यं महासान्तपनं विदुरिति”। यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य द्व्यहमुपयोगस्तदातिसान्तपनम् यथाह मनुः “एतान्येव तथा पेयान्येकैकन्तु द्व्यहं द्व्यहम्। अतिसान्तपनन्नाम श्वपाकमपि शोधयेदिति”। श्वपाकमपि शोधयेदित्यर्थवादः। इति महासान्तपनाति सान्तपने। पर्णकृच्छ्राख्यं व्रतमाह “पर्णोदुम्बरराजीवविल्वपत्रकुशोदकैः। प्रत्येकस्प्रत्यहम्पीतैः पर्णकृच्छ्र उदाहृतः” या०। “पलाशोदुम्बरारावन्दश्रीवृक्षपर्णानामेकैकेन क्वाथितमुदकम्प्रत्यहम्पिबेत् कुशोदकञ्चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्र। यदा तु पर्णादीनामेकीकृतानां क्वाथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः यथाह यमः “एतान्येव समस्तानि त्रिरात्रोपोवितः शुचिः। क्वाथयित्वा पिबेदद्भिः प्रर्णकूर्चोऽभिधीयते” इति। यदा तु विल्वादिफलानि प्रत्येकं क्वथितानि भासम्पीयन्ते तदा फलकृच्छादिव्यपदेशं लभते यथाह मार्कण्डेयः “फलैर्मासेन कथितः फलकृच्छो मनीषिभिः। श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा। मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम्। पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते। मूलकृच्छः स्मृतो मूलैस्तोयकृच्छ्रा जलेन तु” इति पर्णकृच्छ्रमेकादशविधम्। अथ तप्तकृच्छ्रं व्रतमाह “तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहम्पिबेत्। एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः” या०। दुग्धसर्पिसदकानान्तप्तानामेकैकम्प्रतिदिवसम्प्राश्यापरेद्युरुपवसेदेवंदिवसचतुष्टयसम्पाद्यो महातप्तकृच्छ्रः। एभिरेव समस्तैः सोपवासैर्द्विरात्रसम्पाद्यः सान्तपनवत्तपकृच्छ्रः। मनुना तु द्वादशरात्रनिवर्त्योऽभिहितः “तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्। प्रतित्र्यहम्पिबेदुष्णान् सकृत् स्नायी समाहितः” इति। क्षीरादिपरिमाणन्तु पराशरेणोक्तन्द्रष्टव्यम् “अपाम्पिबेत्तु त्रि- पलं द्विपलन्तु पयः पिबेत्। पलमेकम्पिबेत्सर्पिस्त्रिरात्रं चोष्णमारुतमिति”। त्रिरात्रं चोष्णमारुतमिति त्रिरात्रमास्यपूरणमुष्णोदकवाष्पं पिबेदित्यर्थः। यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः “त्र्यहं शीतं पिबेत्तोयन्त्र्यहं शीतं पयः पिबेत्। त्राहं शीतं घृतम्पीत्वा वायुभक्षः परन्त्र्यहमिति” यमस्मरणात्। इति तप्तकृच्छ्रश्चतुर्विधः। षादकृच्छ्रमाह “एकभक्तेन नक्तेन तथैवायाचितेन च। उपवासेन चैकेन पादकृच्छ्रः प्रकीर्त्तितः” या०। एकभक्तेन सकृद्भोजनेन दिवैव, नक्तेनेति पृथगुपादानात्। अतश्च दिवैव एकवारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति। तत्र दिवेति रात्रिव्युदासः एकवारमिति द्विवारादिव्युदासः। भोजनेनेत्यभोजनव्युदासः। एतच्च कृच्छ्रादीनां ब्रतरूपत्वात् पुरुषार्थभोजनपर्य्युदासेन कृच्छ्राङ्गभूतम्भोजनं विधीयते। तथा चापस्तम्बः “त्र्यहमनक्ताश्यदिवाशी च ततस्त्र्यहम्। त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किञ्चिदिति”। अत्र चानक्ताशीत्यनेन व्रते विहितणिनि ब्रत्ययेन नक्तपयुदासेन दिवाभोजननियमं दर्शयति। गौतमेनापीदमेव स्पष्टीकृतम् “हविष्यान् प्रातराशान् भक्त्वा तिस्रो रात्रीर्नाश्नीयादिति”। एवं नक्तभोजनविधावपि। न विद्यते याचितं यस्मिन् भोजने तदयाचितम् तेन कालविशेषानुपानाद्दिवारात्रौ वा सकृदित्येव तपोरूपत्वात् कृच्छ्राणां, द्वितीयभोजने तदनुपपत्तेः। अयाचितमिति न केवलं परकीयान्नयाचनप्रतिषेधोऽपि तु स्वीयमपि परिचारकभार्य्यादिभ्यो न याचितव्यम् प्रेषणाध्येषणयोः साधारणत्वाद्याच्ञायाः। अतः स्वगृहेऽपि भृत्यभार्य्यादयोऽनाज्ञाप्ता एव यदि भोजनमुपहरन्ति तर्हि भोक्तव्यं नान्यथा। अमुनैवाभिप्रायेणोक्तङ्गौतमेन “अथापरत्र्यहं न कञ्चन याचेतेति”। अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः “सायन्तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः। चतुर्विंशतिरायाच्याः परन्निरशनं स्मृतमिति”। आपस्तम्बेन त्वत्यथोक्तम् “सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिः स्मृताः। चतुर्विंशतिरायाच्याः परे निरशनायस्त्रः। कुक्कुटाण्ड प्रमाणास्तु यथा वा संविशेन्मुखमिति”। अनयोश्च कल्पयोःशक्त्यपेक्षो विकल्पः। आपस्तम्बेन तु प्राजापत्यं चतुर्द्धा विभज्य चतुरः पादकृच्छ्रान् उक्त्व्य वर्णानुरूपेण व्यवस्था कृता “त्र्यह निरशनं पादः पादश्चाया- चितंत्र्यहम्। सायं त्र्यहन्तथा पादः प्रातः पादस्तथात्र्यहम्। प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत्। अयाचितन्तु राजन्ये त्रिरात्रंब्राह्मणे स्मृतमिति”। यदा तु याचितोपवासात्मकत्र्यहद्वयानुष्ठानं तदार्द्धकृच्छ्रः सायव्यतिरिक्तापरत्र्यहत्रयानुष्ठानन्तु पादोनमिति विज्ञेयम् “सायंप्रातर्विनार्द्धः स्यात्पादोनं नक्तवर्जितमिति” तेनैवोक्तत्वात्। अर्द्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव दर्शितम् “सायंप्रातस्तथैकैकन्दिनद्वयमयाचितम्। दिनद्वयञ्च नाश्रीयात्कृच्छ्रार्द्धं तद्विधीयते” प्राजापत्यकृच्छ्रमाह “यथा कथञ्चित्त्रिगुणः प्राजापत्योऽय मुच्यते” या०। अयमेव पादकृच्छ्रः। यथाकथञ्चिद्दण्डकलितवदावृत्त्या स्वस्थानविवृद्ध्या वा। तत्राप्यानुलोम्येन प्रातिलोम्येन वा। तथा वक्ष्यमाणजपादियुक्तं तद्रहित वा त्रिरभ्यस्तः प्राजापत्योऽभिधीयते। तत्र दण्डकलितवदावृत्तिपक्षोवशिष्ठेन दर्शितः “अहः प्रातरहर्न्नक्तमहरकमयाचितम्। अहः पराकन्तत्रैकमेवञ्चतुरहोऽपरः। अनुग्रहार्थं विप्राणां मनुर्द्धर्मभृतां वरः। बालवृद्धातुरेष्वेव शिशुकृच्छ्रमुवाच हेति”। आनुलोम्येन स्वस्थान विवृद्धिपक्षस्तु मनुना दर्शितः “त्र्यहं प्रातः त्र्यहंसायंत्र्यहमद्यादयाचितम्। त्र्यहम्परञ्च नाश्नीयात् प्राजापत्यं चरन् द्विजः” इति। प्रातिलोम्यावृत्तिस्तु वशिष्ठेन दर्शिता। “प्रतिलोमञ्चरेत्पुष्ट कृच्छ्रं चान्द्रायणोत्तरमिति”। जपादिरहितपक्षस्तु स्रीशूद्रादिविषयोऽङ्गिरसा दर्शितः “तस्माच्छूद्रं समासाद्य सदा धर्म पथे स्थितम्। प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितमिति”। जपादियुक्तपक्षस्तु पारिशेष्याद्योग्यतया च त्रैवर्णिकविषयः स च गौतमेन दर्शितः। “अथातः कृच्छ्रान् व्याख्यास्यामोहविष्यान् प्रातराशान् भुक्त्वा तिस्रोरात्रीर्न्नाश्नीयादथापरन्त्य्रहं नक्तम्भुञ्जीताथापरन्त्र्यहं न कञ्चन याचेताथापरन्त्र्यहमुपबसेत्तिष्ठेदहनि रात्रावासीत क्षिप्रकामः सत्यंवदेदनार्यैर्न सम्भाषेत रौरवयौधाजपेन्नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शनमापोहिष्ठेति तिसृभिः पवित्रवतीभिर्मार्जयीत हिरण्यवर्णाः शुचियः पावका इत्यष्टाभिरथोदकतर्पणं नमोहनाय नमोमोहनाय नमोधन्वने तापसाय पुनर्वसवे नमः मौञ्ज्यायोर्म्याय वसुविन्दाय सर्वविन्दाय नमः। पाराय सुपाराय महापाराय पारटाय पारपाराय पारयिष्णवे नमः। रुद्राय प्रशुपतये म- हते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्व्वायाघनाशायोग्राय वज्रिणे घृणिने कपर्दिने नमः। सूर्यायादित्याय नमः। नीलग्रीवाय शितिकण्ठाय नमः। कृष्णायापिङ्गलाय नमः। ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्द्धरेतसे नमः। सत्याय पावकाय पावकवर्णायै कवर्णाय कामाय कामरूपिणे नमः। दीप्ताय दीप्तरूपिणे नमः। तीक्ष्णाय तीक्ष्णरूपिणे नमः। सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः। चन्द्रललाटाय कृत्तिवाससे नमः इति एतदेवोदित्योपस्थानमेता एवाज्याहुतयो द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयादग्नये स्वाहा। सोमाय स्वाहा। अग्नीषोमाभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो व्रह्मणे प्रजापतयेऽग्नये स्विष्टकृत इति। अन्ते ब्राह्मणभोजनमिति”। तत्र “तिष्ठेदहनिरात्रावासीत क्षिप्रकामः” इत्यस्यायमर्थः यस्तु महतोऽप्येनसः क्षिप्रमेकेनैव कृच्छ्रेण मुच्ये यमित्येवं कामयते असावहनि कर्माविरुद्धेषु कालेषु तिष्ठेद्रात्रावासीत। एवं रौरवयौधाजपसामजपौ नमोहनायेत्यादिभिस्त र्पणादित्योपस्थानादिकञ्चरुश्रपणादिकञ्च योगीश्वराद्यनुक्तंक्षिप्रकामः कुर्वीत। अतश्च योगीश्वराद्युक्तपाजापत्यद्वयस्थाने गौतमीयमनेकेतिकर्त्तव्यतासहितन्द्रष्टव्यम्। एवमन्यन्यापि च स्मृत्यन्ततरतो विशेषान्तराण्यन्वेषणीयानि। अतिकृच्छ्रमाह “अयमेवाति कृच्छ्रःस्वात्पाणिपूरान्नभोजनः” या०। एतद्धर्मक एव एकभक्तादिप्राजापत्यधर्मयुक्तीऽतिकृच्छ्रःस्यात्। इयां स्तु विशेषः आद्ये त्र्यहत्रये पाणिपूरणमात्रमन्नंभुञ्जीत न पुनर्द्वाविंशतिग्रासान्। अत्र च प्राप्तभोजनानुवादेन पाणिपूरान्नभोजनविधानादन्त्यत्र्यहेऽतिदेशप्राप्त उपवासोऽप्रतिपक्षएव। अत्रापि पादशो व्यवस्थापूर्ववदेव द्रष्टव्या। यत्तुमनुनोक्तम् “एकैकं ग्रासमश्नीयात्त्र्यहानि त्रीणि पूर्ववत्। त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रंचरन् द्विजः” इति तत्पाणिपूरणपरिमितादल्पत्वाच्छक्तविषयम्। छच्छ्रातिकृच्छ्रमाह “कृच्छ्रातिकृच्छ्रः पयसादिवसानेकविंशतिम्” या० एकविंशतिरात्रं पयसा वर्त्तनं कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम्। गौतमेन तु द्वादशरात्रमुदकेन वर्त्तनं कृच्छ्रातिकृच्छ्रौक्तः “अम्भक्षस्मृतीयः म कृच्छ्रातिकृच्छ्र” इति। अतश्च शक्त्यपेक्षयाऽनयोर्व्य वस्था। पराकमाह “द्वादशाहोपवासेन पराकः परि- कीर्त्तितः” या० ऋज्वर्थोऽयमर्द्धश्लोकः। सौम्यकृच्छ्रमाह “पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्। एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते”। पिण्याकोनिःसृततैल स्तिलस्तस्यौदननिस्रावोदस्विदुदकसक्तूनाञ्च पञ्चानामेकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपबसेदेवं सौम्याख्यः कृच्छ्रोऽभिधीयते। द्रव्यपरिमाणन्तु प्राणयात्रामात्रनिबन्धनमधिगन्तव्यम्। जावालेन चतुरहव्यापी सौम्यकृच्छ्रौक्तः “पिण्याकं सक्तवस्तक्रञ्चतुर्थेऽहन्यभोजनम्। वासोवैदक्षिणां दद्यात्सौम्योऽयं कृच्छ्रौच्यत” इति। तुलापुरुषाख्यं कृच्छ्रमाह “एषान्त्रिरात्रमभ्यासादेकैकस्य यथाविधि। तुलापुरुष इत्येष ज्ञेयः पाञ्चदशाहिकः” या० “एषां पिण्याकादीनाम्पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रोवेदितव्यः। अत्र पाञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः। यमेन त्वेकविंशतिरात्रिकस्तुलापुरुषौक्तः “आचाममथ पिण्याकं तक्रञ्चोदकसक्तुकान्। त्र्यहन्त्र्यहम्प्रयुञ्जानोवायुभक्षस्त्र्यहद्वयम्। एकविंशतिरात्रस्तु तुलापुरुष उच्यते” इति। अत्र हारीताद्युक्तेतिकर्त्तव्यता ग्रन्थगौरवभयान्न लिख्यते” मिता०। चान्द्रायणकृच्छ्रस्तु चान्द्रायणषब्दे वक्ष्यते। २ कष्टे दुःखे “अमन्त्रयत कृच्छ्वञ्च तस्याः सर्वः सभाजनः” रामा०। “महत् खलु कृच्छ्रमनुभूतं तत्रभवत्या” मालवा०। ३ कष्टसाधने ४ कष्टयुक्ते च त्रि० अमरः “इत्थञ्च देशाननुसञ्चरामः बनानि कृच्छ्राणि च कृच्छरूपाः” भा० व० ३४ अ०। “कृच्छ्रां प्राप स आपदम्” रामा०। ५ कष्टसाध्ये त्रि० “अमन्त्रयित्वा सचिवैः योऽर्थं कृच्छं नृपश्चरेत्” रामा०। “अतोऽत्यथा त्वसाध्यः स्यात् कृच्छ्रोऽयं मिश्रलक्षणः” सुश्रु०। ६ प्रजापत्यव्रते “विप्रदण्डोद्यमे कृच्छमतिकृच्छ्रं निपातने” मनुः। “तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपयनाययेत्” मनुः। “एकवर्षे गवि हते कृच्छ्रपादोविधीयते। अबुद्धिपूर्बं पुंसः स्याद्द्विपादस्तु द्विहायने। त्रिहायणे त्रिपादस्तु प्राजापत्यमतः परम्” प्रा० त० वृद्धप्रचेताः। “चतुर्हायणादौ प्राजापत्यविधानात् कृच्छ्रपदं प्राजापत्यपरम्” प्रा० त० रघु०। ७ पापे न० मेदि० ८ मूत्रकृच्छ्ररोगे पु० राजनि० कृच्छ्रं वेदयते सुखा० क्यङ् पापचिकीर्षायाम्। कृच्छ्रायते पापं चिकीर्षति। सुखा० अस्त्यर्थे वा मतुप् मस्य वः। कृच्छ्रवत् पक्षे इनि। किच्छ्रिन् तद्युक्ते त्रि० “सह कृच्छ्री बभूव” छा० उ०। स्त्रियां ङीप्। असत्वपरत्वे- ततोहेतौ पञ्चमी कृच्छ्रान्मुक्तः सत्वपरत्वे तृतीया कृच्छेण विषेणं मुक्तः। एतत्पञ्चम्या अलुक्स०।

कृच्छ्रसान्तपन = पु० न० सम्यक् तपनमत्र प्रज्ञाद्यण् कर्म्म०। व्रतभेदे कृच्छ्रशब्दे विवृतिः।

कृच्छ्रातिकृच्छ्र = पु० कृच्छ्रादपि अतिकृच्छ्रः अतिकष्टसाध्यत्वात्। व्रतभेदे कृच्छ्रशब्दे विवृतिः।

कृच्छ्रारि = पु० ६ त०। विल्वभेदे राजनि०। कष्टनिवारकत्वात्तस्य तथात्वम्।

कृच्छ्रार्द्ध = पु० व्रतभेदे कृच्छ्रशब्दे विवृतिः।

कृणञ्ज = पु० कुणञ्ज + पृषो०। कुणञ्जयशब्दार्थे राजनि०।

कृणु = पु० कृ–बा० नु णत्वम्। चित्रकरजातौ त्रिका०

कृत = संशब्दे चुरा० उभ० सक० सेट्। कीर्तयति ते अचिकीर्त्तत् त कीर्त्तयां बभूव आस चकार चक्रे। कीर्त्तिः कीर्त्तनम् कीर्त्तितः कीर्त्त्यन्। कीर्त्त्यते कीत्त्यमानः

कृत = छेदे तुदा० पर० सक० सेट् मुचादि। कृन्तति अकर्त्तीत् कर्त्तिष्यति–कर्त्स्यति ईदित् कृत्तः कृत्तिः। “न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति” हितो०। प्रनिकृन्तति णिचि कर्त्तयति ते अचीकृतत्–त अचकर्त्तत्–त सनि। चिकर्त्तिषति “शिरोऽतिरागाद्दशमं चिकीर्त्तिषुः” माघः। कर्त्तनं कर्त्तनी कृन्तनम्।

कृत = वेष्टे रुधा० पर० सक० सेट्। कृणत्ति कृन्तः अकर्त्तीत्। चकर्त

कृत् = पु० करोति प्रातिपदिकसंज्ञां कृ–क्विप्। १ प्रत्ययभेदे कृत्त्वंच धातुप्रकृतिकत्वे सति प्रातिपदिक संज्ञानिमित्तप्रत्ययत्वम्। धातोरित्यधिकारेण तद्विधानात् धातुप्रकृतिकत्वम् “कृत्तद्धितसमासाश्चेति” पा० तस्य प्रातिपादकसंज्ञावत्त्वम्। अतएवोक्तमभियुक्तैः “उणाद्यन्तं कृदन्तञ्च तद्धितान्तं समासजम्। नामसंज्ञा भवेत्तेषां स्वाद्युत्पत्तिस्ततः परम्” तद्धितव्युदासाय धातुप्रकृतिकत्वविशेषणम् तिङ् व्युदासाय प्रातिपदिक संज्ञानिमित्तत्वमिति “कर्त्तरि कृत्” पा०। “गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः” वार्त्ति०। “कृदभिहितोभावोद्रव्यवत् प्रकाशते” महाभाष्यम् “सप्तम्याः कृति बहुलम्” पा०। २ कर्त्तरि त्रि०

कृत = त्रि० कृ + कर्म्मणि क्त। १ सम्पादिते २ जनिते ३ अभ्यस्ते च। “कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम्। ब्रीह्यादि चाकृतं प्रोक्तमिति द्रव्यं त्रिधा बुधैः” कात्या० उक्ते ४ ओदानादौ हविषि न०। “कृतमनुमतं दृष्टं वा यै रिदं गुरु पातकम्” वेणीसं० ५ विहिते त्रि०। ६ फले न०। ७ सत्ययुगे न० तन्मानाद्युक्तं मनुना “चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम्। तस्य तावच्छती सन्ध्या सन्ध्याशश्च तथाविधः”। तेन ४८०० दिव्यवर्षास्तन्मानम् व्यक्तमुक्तं सू० सि० यथा “तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्। सूर्याव्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः। सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्। कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः। क्रमात् कृतयुगादीनां षष्ठोंशः सन्ध्ययोः स्वकः”। ततश्च मानुषमानेन १७२८००० वर्षास्तन्मानं। तदेतदुक्तं सि० शि० “खखाभ्रदन्तसागरैर्युगाग्नियुग्ममूगुणैः। क्रमेण सूर्य्यवत्सरैः कृतादयो युगाङ्घ्रयः। स्वसन्ध्यकातदंशकैर्निजार्क १२ भागसंमितैः। युताश्च तद्युतौ युगं रदाब्धयोऽयुताहताः” मू० “खखाऽभ्रदन्तसागरैरिति। रविवर्षाणां लक्षचतुष्टयेन द्वात्रिंत्सहस्राधिकेन चतुर्गुणेन कृतं नाम प्रथमो युगचरणः १७२८०००। त्रिगुणेन त्रेतासंज्ञो द्वितीयो युगचरणः १२९६०००। द्विगुणेन द्वापराख्यस्तृतीयः ८६४००। एकगुणेन कलिश्चतुर्थः ४३२०००। किंविशिष्टा एते युगचरणाः। स्वसन्ध्यकातदंशकैर्निजार्कभागसोमतैर्युताश्च। युगचरणप्रमाणस्य यो द्वादशांशस्तत्प्रमाणा तस्य चरणस्य सन्ध्या। सा चरणादौ भवति। तावांश्च सन्ध्यांशः। स चरणस्यान्ते। एवं स्वसन्ध्यासन्ध्यांशैः सह एते युगचरणाः कथिता इत्यर्थः। ततश्च कृतादौ सन्ध्यावर्षाणि १४४०००। कृतान्ते सन्ध्यांशः १४४०००। त्रेतादौ सन्ध्या १०८०००। त्रेतान्ते सन्ध्यांशः १०८०००। द्वापरादौ सन्ध्या ७२०००। द्वापरान्ते सन्ध्यांशः ७२०००, कलेरादौ ३६०० सन्ध्या तदन्ते ३६०० सन्ध्यांशः” प्रमि० “पदैश्चतुर्भिः सुकृतैःस्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे” नैष०। ३३४ पृ० अयशब्ददर्शिते ९ चतुरङ्कयुक्ते पाशकभेदे १० स्तोमभेदे च तत्रैवोदा० ११ पर्य्याप्ते त्रि० मेदि०। भावे क्त! १२ क्रियायां न० कृतपूर्ब्बी कटम् कृतपूर्व्विशब्दे विवृतिः। १३ दासभेदे पु० कृतदासशब्दे विवृतिः १४ चतुःसंख्यायां “युग्माग्नी कृतभूतानि” ति० त० निगमः। १५ साधिते पक्वे त्रि० कृतान्नम्।

कृतक = त्रि० कृतं करणं भावे क्त तत आगतः कन् कृतमेव खार्थे क कृन्तति स्वरूपं कृत–क्वुन् वा। १ कृत्रिमे करणाज्जाते। कृत्रिमस्य स्वरूपाच्छादकत्वात् तथात्वम्। “यद्यत् कृतकं तदनित्यमिति न्यायः। “शब्दोऽनित्यः कृतकत्वात्” मुक्ता० “एतेन विधिना छन्नः कृतकेन यथाऽनलः” भा० वि० २ अ०। “आर्य्यरूपसमाचारं चरन्तं कृतके पथि” भा० आनु० २६०७ श्लो० “कच्चिन्न कृतकैर्दूतैरित्यादि” कच्चिदध्यायशब्दे दर्शितम्। “कृतकं कामिनि चुक्षुवे मृगाक्ष्या” माघः। २ विड्लवणे न० अमरः।

कृतकर्म्मन् = त्रि० कृतं कर्म्म येन। १ दक्षे चतुरे कार्य्यक्षमे हेम०। २ कृतस्वकार्य्ये च “यावदस्तं न यात्येष कृतकर्म्मा दिवाकरः” रामा०। कर्त्तव्यताशून्ये ३ परमेश्वरे पु०। “इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः” विष्णु स० “कृतमेव न कर्त्तव्यं किञ्चित् कर्म्मास्य विद्यते धर्म्मात्मकं कर्म्म कृतं वा कृतकर्म्मा” भा०। कृतकार्य्यकृतकृ त्यादयोऽप्यत्र त्रि० “समूहकार्य्यआयतान् कृतकार्य्यान् विसर्ज्जयेत्” या० स्मृ०। “यथेष्टं गम्यतां तत्र कृतकार्य्यावयं त्वया” भा० आनु० ३८६२ श्लो०। “कृतकृत्योविधिर्मन्ये न वर्द्धयति तस्य ताम्” माघः। ५ ऋणत्रयाद्विमुक्ते संन्यासिनि। “ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः। वैकास्ति किञ्चित् कर्त्तव्यमस्ति चेन्न स तत्त्ववित्” इत्युक्त्या तस्य समाप्तकृत्यत्वात्तथात्वम् “कृतकृत्यस्तु संन्यस्य स्वात्ममात्ररतिर्भवेत्”। अकृतकृत्योहि मृत्योर्बिभेति यथाह “प्रायेणाकृत्यकृतत्वान्मृत्योरुद्विजते जनः” इति।

कृतकाल = त्रि० कृतः कालः समयोयेन। १ कृतावधौ शिष्यादौ। कर्म्म०। २ कृते समये पु० “कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर्गृहे” या०। कृतसमयादयोऽप्यत्र

कृतकोटि = पु० कृता कोर्टियेन। १ काश्यपमुनौ २ उपवर्षमुनौ

कृतक्रिय = त्रि० कृता क्रिया येन। कृतनित्यादिकार्य्ये “विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम्। वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः” मनुः।

कृतक्षण = त्रि० कृतः क्षणः समयो येन। लब्धावकाशे। “तमुतङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छानि यथोधपन्नमन्नमुपस्कृतम्” भा० आ० ३ अ०। कृतसमयादयोऽप्यत्र

कृतघ्न = त्रि० कृतं हन्ति हन–टक्। कृतोपकारस्यापकारके “शरणाशतदीनस्त्रीहिंसकान् संवसेन्न तु। चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्” या० स्मृ० “वालघ्नांश्च कृतत्नांश्च विशुद्धानपि धर्म्मतः। शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत्” मनुः “कृतघ्नानाह स्कन्दपुराणम् “भर्त्तृपिण्डापहर्त्ता च पितृपिण्डापहारकः। तस्माद्गृहीत्वा विद्याञ्च दाक्षणां न प्रयच्छति। पुत्रान् स्त्रियश्च योद्वेष्टि यश्चैतान् घातये- न्नरः। कृतस्य दोषं वदति सकामान्न करोति यः। न स्मरेच्च कृतं यश्च आश्रमान् यस्तु दूषयेत्। सर्वांस्तानृषिभिः सार्द्धं कृतघ्नानब्रवीन्मनुः” “ब्रह्मघ्ने च सुरापे च चौरे च गुरुतल्पगे। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः”। “तस्मात् पित्रादिगुरोः कृतस्य सत् कर्म्मणैति शेषः। सकामान्न करोति उपकर्त्तॄनिति शेषः” प्रा० त० रघुनन्दनः।

कृतघ्नोपाख्यान = न० कृतघ्नविशेषस्योपाख्यानम्। भारतशान्ति पर्व्वान्तर्गते १६८ अध्यायमारभ्य १७३ अध्यायपर्य्यन्ते ग्रन्थे नाडीजङ्घशब्दे विवृतिः। “कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। अश्रद्धेयः कृतघ्नोहि कृतघ्ने नास्ति निष्कृतिः। मित्रद्रोहो न कर्त्तव्यः पुरुषेण विशेषतः। मित्रध्रुक् नरकं घोरमनन्तं पतिपद्यते। कृतज्ञेन सदा भाव्यं मित्रकार्य्येण चैवह। मित्राच्च लभते सर्व्वं मित्रात् पूजां लभेत च। मित्राद्भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते। सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः। परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः। मित्रद्रोही कुलाङ्गारः पापकर्म्मा नराधमः। एष धर्म्मभृतां श्रेष्ठ! प्रोक्तः पापो मया तव। मित्रद्रोही कृतघ्नोवै किंभूयः श्रोतुमिच्छसि”। भा० आ० १७३ अ०

कृतच्छिद्रा = स्त्री कृतं छिद्रं यस्याम्। कोषातकीलतायाम्। राजनि०।

कृतज्ञ = त्रि० कृतं कृतोपकारं जानाति ज्ञा–क। १ कृतोपकार ज्ञातरि २ तत्प्रत्युपकारके। “कृतज्ञेन सदा भाव्यम्” भा० शा० १७३ अ०। ३ कुक्कुरे पु० मेदि० स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप्। कृतं कार्य्यं जगत् जानाति ज्ञा–क, कृतं कार्य्यं ज्ञआत्मा यस्य वा। ४ परमेश्वरे पु० “महर्षिः कपिलाचार्य्यः कृतज्ञोमेदिनोपतिः” विष्णु स० “कृतज्ञतामस्य वदन्ति सम्पदः” किरा०।

कृतत्रा = स्त्री कृतं त्रायते त्रै–क। त्रायमाणालतायां राजनि०

कृतदास = पु० कर्म्म०। एतावत्कालं त्वद्दास इत्यभ्यु गमिते पञ्चदासदासान्तर्गते दासभेदे दासाश्च पञ्चदशविधाः मिता० दर्शिता यथा “गृहजातस्तथा क्रीतोलब्धोदायादुपागतः। अनाकालभृतस्तद्वदाहितः स्वामिना च यः। मोक्षितोमहतश्चर्णाद्युद्धप्राप्तः पणेजितः। तवाहमित्युपगतः प्रव्रज्यावसितः कृतः। भक्तदासञ्च विज्ञेयस्तथैव बडबाहृतः। विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः” या०। “गृहे दास्यां जातो गृहजातः १ क्रीतो मूल्येन २। लब्धः ३ प्रतिग्रहादिना। दायादुपागतः पित्रादिदासः ४। अनाकालभृतो दुर्भिक्षे योदासत्वाय मरणाद्रक्षितः ५। आहितः स्वामिना धनग्रहणेनाधितां नीतः ६। ऋणमोचनेन दासत्वमभ्युपगतः ऋणदासः ७। युद्धप्राप्तः समरेविजित्य गृहीतः ८। पणेजितः यद्यस्मिन् विवादे पराजितोऽ हन्तदा त्वद्दासो भवामीति परिभाष्य जितः ९। तवाहमित्युपगतः तवाहन्दास इनि स्वयम्प्रतिपन्नः १०। प्रव्रज्यावसितः प्रव्रज्यातश्च्युतः ११। कृतः एतावत्कालं त्वद्दास इत्यभ्युपगमितः १२। भक्तदासः सर्वकालम्भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः १३। बडवाहृतः बडवा गृहदासी तया हृतस्तल्लोभेन तामुद्वाह्य दासत्वेन प्रविष्टः १४। य आत्मानं विक्रीणीते स आत्मविक्रेता” १५। इत्येवम्पञ्चदश प्रकारा” ः।

कृतधी = त्रि० कृता सम्पादिता धीर्येन। शास्त्राभ्याससंस्कृततान्तःकरणे, स्थिरचित्ते, “कृतधीः किं पभाषेतेति” “कृतधीर्मुनिरुच्यते” गीता।

कृतध्वज = पु० नृपभेदे “कुशध्वजस्तस्य पुत्रस्ततो धर्म्मध्वजोनृपः धर्म्मध्वजस्य द्वौ पत्रौ कृतध्वजमृतध्वजौ” भाग० ९, १०, १३,

कृतपुङ्ख = पु० कृतः अभ्यस्तः पुङ्खः तद्युक्तोवाणो येन। शराभ्यासनिपुणे अमरः।

कृतपूर्व्वी = त्रि० कृतं पूर्व्वमनेन “सपूर्ब्बाच्च” पा० इनि। कृतपूर्व्वकर्म्मके तद्बोधप्रकारः सरलायामस्माभिनिर्रूपतो यथा

“कृतपूर्बी कटं भुक्तपूर्बी ओदनमित्यादिमहाभाष्यकारप्रयोगा दृश्यन्ते तत्र च कृतं पूर्बमनेनेति विग्रहे “सह सुपा” इति पा० समासे पूर्व्वादिनिरितीनेरनुवृत्तिमता “सपूर्बाच्चेति” पा० सूत्रेण इनिर्विहितः तत्र यदि कृतमिति कर्मणि क्तः स्यात् तदा तस्य कटादिकर्म्मरूपविशेषणतया सापेक्षत्वेन पूर्वादिपदेन समासो न स्यात् एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात् न वृत्तिसम्भवः। भाष्यप्रामाण्याच्च तत्र वृत्तौ सत्यामेषा रीतिराकलनीया तयाहि प्रथमं कर्माविवक्षयाऽकर्मकत्वेन भावे क्तप्रत्यये विहिते तदन्तेन पूर्वस्य “सह सुपेति” पा० समासे कृत तत्पूर्वकात् पूर्बशब्दादिनिप्रत्ययो भवति। पश्चाच्च कर्त्तृकृतक्रियायाः कर्माकाङ्क्षायां कटादिकर्मणोऽन्वयः एतदेव हरिणा दर्शित यथा “अकर्मकत्वे सत्येव क्तान्ते भावाभिधायिनि। पश्चात् क्रियावता कर्त्त्रा योगो भवति कर्मणा। अविग्रहा गतादिस्था यथा ग्रामादिकर्म्मभिः। क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थितेति”। गमनकर्तृवाचकगतादिमध्यपातिनी गमनक्रिया कर्त्तृविशेषणत्वेनोपस्थिता यथा अविग्रहा असुबोधा तथा कृतपूर्वकर्त्तृवोधककृतपूर्विमध्यपातिन्यपीति तदर्थः”।

कृतप्रणाश = पु० कृतयोः पुण्यापुण्ययोर्भोगमन्तरेण प्रणाशो नाशः। कृतहानौ दोषभेदे। स च दोषविशेषः कृतप्रणाशाकृताभ्यागमौ दोषौ जीवस्यानित्यत्वे प्रसक्तौ” शा० सू० भा० दर्शितौ

कृतफल = न० कृतं फलमस्य। १ कक्वोले २ कोलशिम्ब्यां टाप् स्त्री राजनि०

कृतब्रह्मन् = त्रि० कृतं ब्रह्म स्तोत्रं येन। कृतस्तोत्रे “वनवद्वनुष्मतः कृतब्रह्मा” ऋ० २, २५, १,

कृतम् = अव्य० कृत–बा० कमु। अलमर्थे, निषेधे च।

कृतमाल = पु० कृता मालास्य। १ आरग्बधे, (सोन्दाल) २ कर्णिकारे च अमरः। ३ कर्ण्णिकारवृक्षे ४ नदीभेदे स्त्री राजनि०। ५ कृतमाल्ये मालाकरे त्रि०।

कृतमुख = त्रि० कृतं संस्कृतं मुखं यस्य। पाण्डते अमरः

कृतरय = पु० १ निमिवंश्ये नृपभेदे “मेरोः प्रतीपस्तस्माच्च जातः कृतरथो यतः” माग० ९, १३, १, श्लो०। ३ सम्पादितरथे रथकारे त्रि०

कृतलक्षण = त्रि० कृतानि लक्षणान्यस्य। १ गुणैर्विख्याते अमरः। २ कृतचिह्ने च “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्त व्याः कृतलक्षणाः” मनुः।

कृतवर्म्मन् = पु० कृतवीर्य्यभ्रातरि कनकनृपात्मजे। “कनकस्य तु दायादाश्चत्वरो लोकविश्रुताः। कृतवीर्य्यः कृतौ जाश्च कृतवर्म्मा तथैवच। कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्य्यादथार्जुनः” हरिवं ३१ अ०। यदुवंश्ये २ क्षत्रियभेदे “समीपुत्रः प्रतिक्षतः प्रतिक्षत्रस्य चात्मजः। स्वयंभोजः, स्वयंभोजाद् हृदिकः सबभूव ह। तस्य पुत्रा बभूबुर्हि सर्व्वे भीमपराक्रमाः। कृतवर्म्माग्रजस्तेषां शतधन्वा तु मध्यमः” हरि० वं० ३९ अ० “रामे भारं समासज्य युयुधाने च वीर्य्यवान्। अक्रूरे विपृथौ चापि गदे च कृतवर्म्मणि” हरिवं० ११३ अ०

कृतविद्य = त्रि० कृता अभ्यस्ता विद्या येन। अभ्यस्तविद्ये त्रिका०

कृतवीर्य्य = पु० कृतं वीर्य्यमनेन। १ चन्द्रवंश्ये कार्त्तवीर्य्यार्ज्जुनजनके नृपभेदे। “कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः। कृतवीर्य्यः कृतौजाश्च कृतवर्मा तथैव च। कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्य्यादथार्ज्जुनः” हरिवं० ३१ अ० तस्यापत्यम् अण्। कार्त्तवीर्य्य तदपत्ये कार्त्तवीर्य्यशब्दे विवृतिः “गर्भस्य सम्भवतः पूर्व्वं शिरः सम्भवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणां, हृदयमिति कृतवीर्य्यः बुद्धेर्मनसश्च स्थानत्वात्” सुश्रुतः। २ वीर्य्यान्विते त्रि०।

कृतवेतन = त्रि० कृतं वेतनं यस्य। “योयावत् कुरुते कार्य्यं तावत्तस्येह वेतनम्” या० उक्तरीत्या कृतभृतिके दासे। “प्रमाददुष्टनष्टांश्च प्रदाप्यः कृतवेतनः” या० स्मृ०

कृतवेदिन् = त्रि० कृतं वेत्ति विद–णिनि। कृतोपकारस्योप कारके स्त्रियां ङीप्

कृतवेध(क) = पु० कृतो वेधोऽस्य वा कप्। श्वेतकोषातक्यां रत्नमा०

कृतवेधना = स्त्री कृतं वेधनं यस्याः। कोषातकीलतयाम् राजनि०

कृतशिल्प = पु० कृतमभ्यस्तं शिल्पं येन। अभ्यस्तशिल्पे “कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर्गृहे” या०

कृतश्रम = त्रि० कृतः श्रमो येन। महोत्साहान्विते। “पौराणिकः पुराणे कृतश्रमः” भा० आ० ८५ श्लो०। २ धर्म्म राजसभ्ये ऋषिभेदे “वलीवाकः शिलीवाकः सत्यपालः कृतश्रमः”, भा० स० ४ अ० यभसभ्योक्तौ

कृतसंज्ञ = त्रि० कृता संज्ञा संङ्केतो यस्मै। कृतसङ्केते दासादौ “गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः” मनुः २ कृतचतन्ये नरेणाकृतसंज्ञेन विशुद्धेनान्तरात्मना” भा० आश्व० ५ अ०। कृतसंङ्केतादयोऽम्यत्र “नामगृहीतं कृतसङ्केतम्” जयदेवः

कृतसापत्निका = स्त्री कृतं सापत्न्यं यस्याः कप् टापि अत इत्त्वे यलोपः। अध्यूढायां स्त्रियां यस्या विवाहात् पश्चात् तत्प्रतिना विवाहान्तरं कृतं तस्याम् अमरः

कृतस्वर = पु० कृतः स्वरः शब्द उपतापो वा येन यत्र वा। स्वर्णोत्पत्तिस्थाने स्वर्णाकरे कार्त्तस्वरः २ कृतशब्दे त्रि०

कृतहस्त = त्रि० कृतः अभ्यस्तः हस्तो वाणादित्यागमोक्षणलाववरूपा हस्तशिक्षा येन। सुशिक्षितशरविद्ये जने अमरः “अप्राप्तांश्चैव तान् (शरान्) पार्थश्चिच्छेद कृत हस्तवत्” भा० वि० १९७६ श्लो० “अप्राप्तांश्चैव तान् वाणान् चिच्छेद कृतहस्तवद्” हरिबं० १९३०५ श्लो०

कृताकृत = न० कृतं कार्य्यञ्च अकृतं कारणं च समा० द्व०। १ कार्य्यकारणयोः। “क्तेन नञविशिष्टेनानञ्” पा० कर्म्म०। कृते अकृते च २ होमादौ। ऋत्विग्विशेषस्य ब्रह्मणः कृताकृतावेक्षणाय होमादौ वरणम् क्रियते इति याज्ञिकसम्प्रदायः। ३ कृतशब्दोक्ते कात्यायनपरिभाषिते तण्डु- लादौ कार्य्यकारणरूपे ४ परमेश्वरे पु० “लोकाध्यक्षः सुराध्यक्षः गृहधर्म्मा कृताकृतः” विष्णुसं० “कृतश्च कार्य्यरूपेण, अकृतश्च कारणरूपेणेति कृताकृतः” भा०। भावे क्त कृतं करणम् अकृतमकरणं द्वन्द्व०। ५ करणाकरणयोः न० द्विव०। “नैनं कृताकृते तपतः” शत० ब्रा० १४। ७। २। २७। कृतञ्चाकृतञ्च। ६ किञ्चित्कृते किञ्चिदकृते च “कृताकृतञ्च कनकं हस्तिनश्चाचलोपमाः” भा० आनु० ५३ अ० “कृताकृतांस्तण्डुलांश्च पललौदनमेव च” या० स्मृ०

कृतागम = पु० कृत आगमोयेन। १ परमेश्वरे वेदशास्त्र कर्तृत्वात्तस्य तथात्वम्। “कृतकर्म्मा कृतागमः” विष्णुसं० कृतोवेदात्मकआगमोयेनेति कृतागमः “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदश्च” इति श्रुतेः” भा० “कामः कान्तः कृतागमः” विष्णुसं०

कृताग्नि = पु० कृतवीर्य्यानुजभ्रातरि। कृतवीर्य्यशब्दे विवृतिः

कृताङ्क = पु० कृतसंख्यकश्चतुःसंख्यकोऽङ्कोयत्र। चतुःसंख्यान्विते पाशकभेदे

कृताञ्जलि = पु० कृतोऽञ्जलिरिव पत्रसङ्कोचो येन। १ लज्जालुवृक्षे २ संपुटीकृतहस्ते त्रि० धरणिः

कृतात्मन् = पु० कृतः शिक्षितः संस्कृतो वा आत्माऽन्तःकरणं यस्य। १ शिक्षितचित्ते, २ शुद्धान्तःकरणे च। “गृहे गृहवतां नित्यमागच्छन्ति कृतात्मनाम्” “उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः” मनुः “पर्य्याप्तकामस्य कृतात्मनस्तु इहैव सर्व्वे प्रविलीयन्ति कामाः”

कृतात्यय = पु० कृतस्य कर्म्मजन्यभोगस्यात्ययोऽवसानम्। भोगं विना कृतकर्म्मनाशे “कृतात्ययेऽनुशयवान्” शा० सू०

कृतानुकृत = न० कृतस्यानुकृतमनुकरणम्। कृतप्रतिकृतौ कृतताडनादेस्ताडने “तौ जघ्नतुस्तदान्योन्यं कृतानुकृतकारिणौ” रामा० “कृतानुकारकृतप्रतिकृत्यादयोऽप्यत्र

कृतान्त = पु० कृतः अन्तो विपर्य्ययनाशो–निश्चयो विषयपरिच्छेदो वा येन। १ सिद्धान्ते। “कृतो नाशो येन। २ दैवमात्रे ३ पापे ४ यमे च। ५ पूर्व्वदेहजन्ये फलोन्मुखे ६ दैवे अमरः ७ शनौ ८ तद्वारे च शब्दचि० “कृतान्तकुजयोर्वारे यस्य जन्मदिनंभवेत्” ति० त० ज्यो० ९ यमदैवत्ये भरणीनक्षत्रे लक्षितलक्षणया १० द्वित्वसंख्ययाञ्च

कृतान्तजनक = पु० ६ त०। सूर्य्ये हेमच० कृतान्तो जनकोयस्याः कालागुरुणि रेणुकागन्धद्रव्ये स्त्री शब्दच०

कृतान्न = न० कृतं पक्वं तदन्नञ्च। लड्डुकादौ पक्वान्ने, “कृतान्नमुदकं स्त्रियः” इति अविभाज्ये स्मतिः। पाश्चात्त्य भाषानामकाः कृतान्नभेदास्तत्साधनप्रकाराश्च भावप्र० दर्शिता यथाअथ कृतान्नवर्गः तत्रान्नाना साधनप्रकारः सिद्धानां गुणाश्च तत्र परिभाषा। समवायिनि हेतौ ये मुनिभिर्भणिता गुणाः। कार्य्येऽपि तेऽखिला ज्ञेयाः परिभाषेति भाषिता। क्वचित्संस्कारभेदेन गुणभेदो भवेद्यतः। भक्तं लघु पुराणस्य शालेस्तच्चिपिटो गुरुः। क्वचिद्योगप्रभावेन गुणान्तरमपेक्षते। कदन्नं गुरु सर्पिश्चलघूक्तंसुहितं भवेत्।अथ भक्तस्य नामानि साधनं गुणाश्च। भक्तमन्नं तथान्धश्च क्वचित्कूरञ्च कीर्त्तितम्। ओदनोऽस्त्री स्त्रियां भित्सादोदिवः पुंसि भाषितः। सुधौतास्तण्डुलाः स्फीतास्तोये पञ्चगुणे पचेत्। तद्भक्तं प्रस्तुतं चोष्णं विशदं गुणवन्मतम्। भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु। अधौतमशृतं शीतं गुर्वरुच्यं कफप्रदम्।अथ (दालि)। दलितन्तु शमीधान्यं दालिर्दाली स्त्रियामुभे। दाली तु सलिले सिद्धा लवणार्द्रकहिङ्गुभिः। संयुक्ता सूपनाम्नी स्यात् कथ्यन्ते तद्गणा अथ। सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः। निस्तुषो भृष्टसंसिद्धः लाघवं सुतरां व्रजेत्।अथ (खिचिडी)। तण्डुला दालिसंमिश्रा लवणार्द्रकहिङ्गुभिः। संयुक्ता सलिले सिद्धा कृशरा कथिता बुधैः। कृशरा शुक्रला बल्या गुरुः पित्तकफप्रदा। दुर्जरा बुद्धिविष्टम्भमलमूत्रकरी स्मृता।अथ तापहरी (ताताहरीति) लोके। घृते हरिद्रासंयुक्ते माषजाम्भज्जयेद्वटीम्। तण्डुलांश्चापि निर्धौतान् सहैव परिभजयेत्। सिद्धियोग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत्। लवर्णार्द्रकहिङ्गूनि मात्रया तत्र निःक्षिपेत्। एषा सिद्धिः समानज्ञा प्रोक्ता तापहरी बुधैः। एषा तापहरो बल्या वृष्या श्लेष्माणमाहरेत्। वृंहणी तर्पणी रुच्या गुर्वी पित्तहरी स्मृता।अथ क्षीरिका। पायसः परमान्नं स्यात् क्षीरिकापि तदुच्यते। शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् पचेत्। ते सिद्धा क्षीरिका ख्याता ससिताज्ययुतोत्तमा। क्षीरिका दुर्जरा प्रोक्ता वृंहणी बलवर्द्धिनी। नालिकेलन्तनूकृत्य च्छिन्नं पयसि गोः क्षिपेत्। सितागव्याज्यसंयुक्ते तत्पचे न्मृदुनाऽग्निना। नारीकेलोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा। गुर्वी सुमधुरा वृष्या रक्तपित्तानिलापहा।अथ (सेवै)। समितां वर्त्तिकां कृत्वा सूक्ष्मां तु यवसन्निभाम्। शुष्का क्षीरेण संसाध्या भोज्या घृतसितान्विता। सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा। ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रया।अथ (मण्डा)। गोधूमा धवला धौताः कुट्टिताः शोधितास्ततः। प्रोक्षिता यन्त्रनिषिष्टाश्चालिताः समिताः (मयदा) स्मॄताः। वारिणा कोमलां कृत्वा समितां साधु मर्द्दयेत्। हस्तलालनया तस्या लोप्त्रीं सम्यक प्रसारयेत्। अधोमुखघटस्यैतत् विस्तृतं प्रक्षिपेद्बहिः। मृदुना वह्निना साध्यः सिद्धो मण्डक उच्यते। लोपत्री (लाइ)। दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः। अथ वा सिद्धमांसेन सतक्रवटकेन वा। मण्डको वृंहणो वृष्यो बल्यो रुचिकरो भृशम्। पाकेऽपि मधुरो ग्राही लघुर्दोषत्रयापहः।अथ (पोरी) कुत्रापि (दुनौरी) इति च। “कुर्य्यात्समितयाऽतीव तन्वी पर्प्पटिका ततः। स्वेदयेत्तप्तके (ताओया) तान्तु पोलिकां जगदुर्बुधाः। तां खादेल्लप्सिकायुक्तां तस्या मण्डकवद्गुणाः।अथ प्रसङ्गाल्लप्सी। समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत्। तस्मिन् धनीकृते न्यस्येल्लवङ्गं मरिचादिकम्। लप्सिका वृंहणी वृष्या बल्या पित्तानिलापहा। स्निग्धा श्लेष्मकरी गुर्वी रोचनी तर्पणी परम्।(रोटि)। शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च पोलिकाम्। तप्तके (ताओया)। स्वेदयेत्कृत्वा भूर्य्यङ्गारेऽपि तां पचेत्। सिद्धैषा रोटिका प्रोक्ता गुणं तस्याः प्रचक्ष्महे। रोटिका बलकृद्रुच्या वृंहणी धातुवर्द्धनी। वातघ्नी कफकृद्गुर्वी दीप्ताग्नीनां प्रपूजिता।अथ (लिट्टी) शुष्कगोधूमचूर्णन्तु साम्बु गाढं विमर्द्दयेत्। विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत्। अङ्गारकर्कटी ह्येषा वृंहणो शुक्रला लघुः। दीपनी कफकृद्बल्या पीनसश्वासकासजित्। अथ (यवरोटीं)। यवजा रोटिका रुच्या मधुरा विशदा लघः। मलशुक्रानिलकरी बल्या हन्ति कफामयान्।अथ माषरोटिका। माषाणां दालयस्तोये स्थापितास्त्यक्तकञ्चुकाः। आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता। धूमसी रचिता चैव प्रोक्ता झर्झरिका बुधैः। झर्झरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता।अथ चनकरोटिका। चनक्यारोटिका रुक्षा श्लेष्मपित्तास्रनु- कुरुः। विष्टम्भिनी न चक्षुष्या तद्गुणा चातिशष्कुली”।अथ पिष्टिका। दालिः संस्थापिता तोये ततोऽपहृतकञ्चुका। शिलायां साधु सम्पिष्टा पिष्टिका कथिता बुधैःअथ (वेठै)। माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः। रचिता रोटिका सैव प्रोक्ता वेटमिका बुधैः। भवेद्वेटमिका वल्या वृष्या रुच्याऽनिलापहा। ऊष्मसन्तर्पणी गुर्वी वृंहणी शुक्रला परम्। भिन्नमूत्रमला स्तन्यमेदःपित्तकफप्रदा। गुदकीलार्द्दितश्वासपङ्क्तिशूलानि नाशयेत्।अथ (पापर) धूमसी रचिता हिङ्गुहरिद्रालवणैर्युता। जीरकस्वर्जिकाभ्याञ्च तनूकृत्य च वेल्लिता। पर्प्यटास्ते सदाङ्गारभृष्टाः परमरोचकाः। दीपनाः पाचना रूक्षा गुरवः किञ्चिदीरिताः। मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः। चनकस्य गुणैर्युक्ताः पर्प्पटाश्चनकोद्भवाः। स्नेहभृष्टास्तु ते सर्वे भवेयुर्मध्यमा गुणैः।अथ (पूरी)। माषाणां पिष्टिका पूर्य्या लवणार्द्रकहिङ्गुभिः। तया पिष्टिकया पूर्णा समिताकृतपोलिका। ततस्तैलेन पक्वा सा पूरीका कथिता बुधैः। रुच्या स्वाद्वी गुरुः स्निग्धा बल्या पित्तास्रदूषिका। चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी। तथैव घृतपक्वापि चक्षुष्या रक्तपित्तहृत्।अथ (वरा)। माषाणां पिष्टिका युक्तः लवणार्द्रकहिङ्गुभिः। कृत्वा विदध्याद्वटकास्तास्तैलेषु पच च्छनैः। विशुष्का वटका बल्या वृंहणी वीर्य्यवर्द्धनी। वातामयहरा रुच्या विशेषादर्द्दितापहा। विबन्धभेदिनी श्लेष्मकारिणोऽत्यग्निपूजिता। संचूर्ण्य निक्षिपेत्तक्रेंभृष्टं जीरकहिङ्गुभिः। लवणं तत्र वटकान् सकलानाप मज्जयेत्। शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः। विबन्धहृद्विदाही च श्लेष्मलः पवनापहः। राज्यक्तपातिनो वान्यान् पाचनांस्तांस्तु भक्षयेत् राज्यक्ता (राइता) इति लोके।अथ (काञ्जीवरा)। मन्थनी नूतना धार्य्या कटुतैलेन लेपिता। निर्मलेनाम्बुनापूर्य्य तस्यां चूर्णं विनिःक्षिपेत्। राजिकाञ्जीरलवणहिङ्गुशुण्ठीनिशाकृतम्। निःक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत्। ततो दिनत्रयादूर्द्ध्वमम्लाः स्युर्वटका ध्रुवम्। काञ्जिको वटको रुच्यो वातघ्नः श्लेष्मकारकः। शीतो दाहं शूलमजीर्णं हरते दृगामयेष्वहितः।(उरीदवडा)। अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत्। तन्नीरे कृतसंस्कारे वटकान्मज्जयेज्जनः। अम्लिका वट- कास्ते तु रुच्या बह्निप्रदीपनाः। वटकस्य गुणैः पूर्वै रेषोऽपि च समन्वितः।अथ (सगवडा) मुद्गानां वटकास्तप्ते (ताओया) भर्जिता लघवो हिमाः। संस्कारजप्रभावेन त्रिदोषशमना हिताः।अथ (माषवडा) माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता। तया विरचिता वस्त्रे वटिकाः साधुशोषिताः। भर्जितास्तप्ततैलैस्ता अथवान्धुप्रयोगतः। वटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम्।अथ (को~हडावडी)। कूष्माण्डकवटी ज्ञेया पूर्वोक्तवटिकागुणाः। विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः।अथ (मुद्गवटी) मुद्गानां वटिका तद्वद्रचिता साधिता तथा। पथ्या रुच्या तथा लघ्वी मुद्गसूपगुणा स्मृता।(क्षरिकवच्छ)। माषापष्टिकया लिप्तं नागवल्लीदलं महत्। तत्तु संस्वेदयेत् युक्त्या स्थाल्यामास्तारकोपरि। ततो निष्कास्य तं खण्डन्ततस्तैलेन भर्जयेत्। खण्ड्यं खण्डेन योग्यमिति यावत्। अलीकमत्स्य उक्तोऽयं प्रकारः पाकपण्डितैः। तं वृन्ताकभटित्रेण वास्तूकेन च भक्षयेत्।अथ (कडी)। स्थाल्यां घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत्। अवलेहनसंयुक्तं तक्रन्तत्रैव निःक्षिपेत्। एषा सिद्धा समरीचा क्वथिता कथिता बुधैः। अवलेहनम्। (अरिहन) इति लोके। क्वथिता पाचनी रुच्या लघ्वी वह्निप्रदीपनी। कफानिलविबन्धघ्नी किञ्चित्पित्तप्रकोपिणी। अलीकमत्स्याः शुष्का वा किं वा क्वथितया पुनः। वृंहणा रोचना वृष्या बल्या वातगदापहाः। कोष्ठशुद्धिकराः शुक्र्याः किञ्चित्पित्तप्रकोपनाः। अर्द्दिते सहनुस्तम्भे विशेषेण हिताः स्मृताः।अथ (आदवरा)। मुद्गपिष्टाविरचितान् वटांस्तैलेन पाचितान्। हस्तेन चूर्णयेत्सम्यक् तस्मिंश्चूर्णे विनिःक्षिपेत्। भृष्टं हिङ्ग्वार्द्रकं सूक्ष्मं मरीचं जीरकं तथा। निम्बूरसं यवानीं च युक्त्या सर्वं विमिश्रवेत्। मुद्गपिष्टिं पचेत्सम्यक् स्थाल्यामास्तारकोपरि। तस्यास्तु गोलकं कुर्य्यात् तन्मध्ये पूरणं क्षिपेत्। तैले तान् गोलकान् पक्त्रा क्वथितायां निमज्जयेत्। गोलकाः पाचकाः प्रोक्तास्ते त्वार्द्रकवटा अपि। मुद्गार्द्रकवटा रुच्याः लघवो बलकारकाः। दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजताः।(पकौरी) दालयश्चनकानान्तु निस्तुषा यन्त्रपेषिताः। तच्चूणं वेशनं प्रोक्तं पाकशास्त्रविशारदैः। वटिका वेशनस्यापि क्वथितायां निमज्जिताः। रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता। एवमन्येऽपि वेशनभवाः प्रकाराः खण्डनखण्डप्रभृतयो बोद्धव्याः।अथ मांसस्य प्रकाराः। तत्र शुद्धमांसम्। (सुधर्मास) इति लोके। पाकपात्रे घृतं दद्यात् तैलञ्च तदभावतः। तत्र हिङ्गु हरिद्रां च भर्जयेत्तदनन्तरम्। छागादेरस्थिरहितं मांसं तत्स्वण्डितं ध्रुवम्। धौतं निर्गालितं तस्मिन् घृते तद्भर्जयेच्छनैः। सिद्धियोग्यं जलं दत्त्वा लवणन्तु पचेत्ततः। सिद्धे जलेन सम्पिष्य वेशवारं परिक्षिपेत्। वेशवारः (वेशम) इति लोके। द्रव्याणि वेशवारस्य नागवल्लीदलानि च। तण्डुलाश्च लवङ्गानि मरीचानि समासतः। अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम्। शुद्धमांसं परं वृष्यं बल्यं रुच्यञ्च वृंहणम्। त्रिदोषशमनं श्रेष्ठं दीपनं धातुवर्द्धनात्।अथ सहार्द्रकम् (सहरमांस) इति लोके। छागादेर्भांसमूर्वादेः कुट्टितं खण्डितं पुनः। शुद्धमांसविधानेन पचेदेतत्सहार्द्रकम्। सहार्द्रकं गुणग्रन्थे शुद्धसांसगुणं स्मृतम्।अथ तक्रमांसम् (अखनी) पाकपात्रे घृतं दत्त्वा हरिद्रा हिङ्गु भर्जयेत्। छागादेः सकलस्यापि खण्डान्यपि च भर्जयेत्। सिद्धियोग्यं जलं दत्त्वा पचेन्मृदुतरं यथा। जीरकादियुते तक्रे मांसखण्डानि तारयेत्। तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम्। कफघ्नं पित्तलं किञ्चित् सर्वाहारस्य पाचनम्।अथ हरीसा (आस)। पाकपात्रे तु वृहति मांसखण्डानि निःक्षेपेत्। पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम्। हरिद्रामार्द्रकं शुण्ठीं लबणं मरिचानि च। तण्डुलांश्चापि गोधूमात् जम्बीराणां रसान् बहून्। यथा सर्व्वाणि वस्तूनि सुपक्वानि भवन्ति हि। तथा पचंत् तु निपुणो बहुमांसस्थितिर्यथा। एषा हरीसा बक्षकृत् वातपित्तापहा गुरुः। शीतोष्णा शुक्रदा स्निग्धा सरा सन्धानकारिणी।तलितमांसम्। शुद्धमांसविधानेन मांसं सम्यक्पसाधितम्। पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः। तलितं बलमेधाग्निमांसौजःशुक्रवृद्धिकृत्। तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम्।अथ शूल्यम् (सीख) कालखण्डादिमांसानि ग्रथितानि शलाकया। तैलं सलवणं दत्त्वा निर्धूमे दहने पचेत्। तत्तु शूल्यमिदं प्रोक्तं पाककर्मविचक्षणैः। शूल्यं पलं सुधातुल्यं रुच्यं वह्निकरं लघु। कफवातहरं बल्यं किञ्चि- त्पित्तकरं हि तत्। (इदमेव शूलाकृतं भट्टित्रञ्चेत्युच्यते) मांसशृङ्गाटिकम्। सिद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले। लवङ्कहिङ्गुलवणमरिचार्द्रकसंयुतम्। एलाजिरकधन्याकनिम्बूरससमन्वितम्। घृते सुगन्धे तद्भ्रष्टं मांसशृङ्गाटिकोच्यते। मांसशृङ्गाटकं रुच्यं वृंहणं बलकृद्गुरु। वातपित्तहरं वृष्यं कफघ्नं वीर्य्यवर्द्धनम्।अथ मांसरसा। सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः। प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम्। विश्लिष्टभग्नसन्धीनां कृशानां शुद्धिकाङ्क्षिणाम्। स्मृत्योजोबलहीनानां ज्वरक्षीणक्षतोरसाम्। शस्यते स्वरहीनानां दृष्ट्यायुःश्रवणार्थिनाम्। प्रकाराः कथिताः सन्ति बहवो मांससम्भवाः। ग्रन्थविस्तारभीतेस्ते मया नात्र प्रकीर्त्तिताः। (ते च सुश्रुतेक्तगुणकथानऽनुपदं वक्ष्यन्त्ये)शाकपाकविधिः। हिङ्गु जीरयुते तैले क्षिपेच्छाकं सुखण्डितम्। लवणं चाम्लचूर्णादि सिद्धे हिङ्गूदकं क्षिपेत्। इत्येवं सर्वशाकानां साधनोऽभिहितो विधिः।अथ मठकः (माठ) इति लोके। समितामर्द्दयेदन्यजलेनापि च सन्नयेत्। तस्यास्तु वटिकां कृत्वा पचेत्सर्पिषि नीरसम्। एलालवङ्गकर्पूरमरीचाद्यैरलङ्कृते। मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत्। अयं प्रकारः संसिद्वौ मठ इत्यभिधीयते। सन्नयेत् मर्द्दयेत्। मठस्तु वृंहणो वृष्यो बल्यः सुमधुरो गुरुः। पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः। समिताः शर्करासर्पिर्निर्मिता अपरेऽपि ये। प्रकारा अमुना तुल्यास्तेऽपि चेत्तद्गुणाः स्मृताः।अथ सम्पावः (पेराकी) पर्पट्यः साज्यसमिता निर्मिता घृतमर्जिताः। कुट्टिताश्चालिताः शुद्धशर्कराभिर्विमर्द्दिताः। तत्र चूर्णें क्षिपेदेलालवङ्गमरिचानि च। नालिकेलं सकर्पूरञ्चारवीजान्यनेकधा। घृताक्तसमिता पुष्टरोटिका रचिता ततः। तदन्तः पूरणं तस्याः कुर्य्यान्मुद्रां दृढां सुधीः। सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः। प्रकारज्ञैः प्रकारोऽयं सम्पाव इति कीर्त्तितः।अथ कर्पूरनालिका। घृताट्यया समितया लम्बं कृत्वा पुटं ततः। लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम्। पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका। सम्पावसदृशी ज्ञेया गुणैः कर्पूरनालिका।फेनिका (फेनी) समिताया घृताद्याया वर्त्ति दीर्घा समा चरेत्। तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत् वेल्लयेद्वेल्लतेनैता यथैका पर्पटी भवेत्। ततश्छुरिकया तान्तु सलग्नामेव कर्त्तयेत्। ततस्तु वेल्लयेद्भूयः शट्टकेन च लेपयेत्। शालिचूर्णं वृतं तोयं मिश्रितं शट्टकं वदेत्। ततः संवृत्य तल्लोप्त्रीं विदधीत पृथक् पृथक्। पुनस्तां वेल्लयेल्लोपत्रीं यथा स्यान्मण्डलाकृतिः। ततस्तां सुपचेदाज्ये भवेयुश्च पुटाः स्पुटाः। सुगन्धया शर्क्करया तदुद्धूलनमाचरेत्। सिद्धैषा फेनिका नाम्ना मण्डकेन समा गुणैः। ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः। वेल्लयेत् प्रसारयेत् वेल्लनम् (वेलन) इति लोके। पर्प्यटी रोटी। लोपत्री (लाइ) इति लोके।अथ शष्कुली (सोहाली) इति लोके। समिताया घृताक्ताया लोप्त्रीं कृत्वा च वेल्लयेत्। आज्ये तां भर्जयेत्सिद्धां शष्कुली फेनिकागुणाअथ मोदकः (लाडू)। घृयाद्यया समितया कृत्वा सूत्राणि तानि तु। निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत्। युक्तेन मोदकान् कुर्य्यात् ते गुणैर्मण्डका यथा।अथ मुद्गमोदकः (मोतिचुरलाडू)। मुद्गानां धूमसी सम्यक् घोलयेन्निर्मलाऽम्बुना। कटाहस्य वृतेरूर्द्ध्वं झर्झरं स्थापयेत्ततः। धूमसीन्तुद्रवीभूतां प्रक्षिपेत् झर्झरोपरि। पतन्ति विन्दवस्तस्मात् तान् सुपक्कान् समुद्धरेत्। सितापाकेन संयोज्य कुर्य्याद्धस्तेन मोदकान्। झर्झरं (झाझरा) इति लोके। लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः। चक्षुष्यो ज्वरहृद्वल्यस्तर्पणो मुद्गमोदकः।अथ सेवनमोदकः (सेओकालडुआ)। एवमेव प्रकारेण काय्यांः सेवनमोदकाः। ते बल्या लघवः शीता किञ्चिद्वातकरास्तथा। विष्टम्मिनो ज्वरघ्नाश्च पित्तरक्तकफापहाःदुग्धकूपिका। तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्रपिष्टेन। दृढकूपिकां विदध्यात्ताञ्च पचेत्सर्पिषा सम्यक्। अथ तां पूरितमध्यां घनपयसा पूर्णगर्भाञ्च। शट्टकमुदितवदनां सर्पिषि सुपक्वबदनाञ्च। अथ पाण्डुखण्डपाके स्नापयेत् कर्पूरवासिते कुशलः। अथ दुग्धकूपिका सा बल्या पित्तानिलापहा कथिता। वृष्या शीता गुर्वी शुक्रकरी बृंहणी रुच्या। विदवाति कायपुष्टिं दृष्टिं दूरप्रसारिणीं सुचिरम्।कुण्डलिनी (जिलेवी) नूतनं घटमानीय तस्यान्तः कशलो जनः। प्रस्थान्नचूर्ण्णदमानेन ध्नाऽम्लेन प्रलेपयेत्। द्विप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम्। घृतमर्द्ध्व शरावच्च घोलयित्वा वृते क्षिपेत्। आतपे स्थापयेत्ता- वद्याबद्याति तदम्लताम्। ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रेभाजने तु तत्। परिभ्राम्य परिभ्राम्य तत्सन्तप्ते घृते क्षिप्रेत्। पुनः पुनस्तदावृत्त्या विदध्यान्मण्डलाकृतिम्। तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे। कर्पूरादि सुगन्धञ्च स्नापयित्वोद्धरेत्ततः। एषा कुण्डलिनी नाम्ना पृष्टिकान्ति बलप्रदा। धातुवृद्धिकरी वृष्या रुच्या च क्षिप्रतर्पणी।अथ पश्चात्परिवेश्या रसाला। (शिखरिणी) आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किञ्चिच्च किञ्चित् क्षिपेत्। दुग्धेनार्द्ध्व घटेन मृण्मयनवस्थाल्या दृढं साधयेत् ऐलावीजलवङ्गचन्द्रमरिचैर्योग्यैश्च तद्योजयेत्। भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयम् श्रीकृष्णेन पुरा पुनः पुनरियं प्रीत्या समास्वादिता। एषा येन वसन्तवर्जितदिने संसेव्यते नित्यशः तस्य स्यादतिवीर्य्यवृद्धिरनिशं सर्वेन्द्रियाणां बलम्। ग्रीष्मे तथा शरदि ये रविशोषिताङ्गाः ये च प्रमत्तवनितासुरतातिखिन्नाः। ये चापि मार्गपरिसर्पणशीर्णगात्रास्तेषामियं वपुषि पोषणमाशु कुर्य्यात्। रसाला शुक्रला बल्या रोचनी वातपित्तजित्। दीपनी वृंहणी स्निग्धा मधुरा शिशिरा सरा। रक्तपित्तं तृषादाहं प्रतिश्यायं विनाशयेत्।अथ शर्करोदकम् (सरवत्) जलेन शीतलेनैव घोलिता शुभ्रशर्करा। एला लवङ्गकर्पूरमरिचैश्च समन्विता। शर्क्वरोदकनाम्ना तत् प्रसिद्धं विदुषां मुखे। शर्करोदकमाख्यातं शुक्रलं शिशिरं मरम्। बल्यं रुच्यं लघु स्वादु वातपित्तप्रणाशनम्। मूर्च्छाच्छर्दितृषादाहज्वरशान्तिकरं परम्।अथ प्रपानकम् (पन्ना)। तत्र आम्रफलप्रपानकम्। आश्रमामं जले स्विन्नं मर्द्दितं दृढपाणिना। सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम्। प्रपानकमिदं श्रेष्ठं भीमसेनेन निर्मितम्। सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम्।अथाम्लिकाफलपानकम्। अम्लिकायाः फलं पक्वं मर्द्दयेत् बारिणा दृढम्। शर्करामरिचै र्मिश्रं लवङ्गेन्दुसुवासितम्। अम्लिकाफलसम्भूतं पानकं वातनाशनम्। पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधनम्।निम्बूकफलपानकम्। भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम्। लवङ्गमरिचैर्मिश्रं पानं पानकमुत्तमम्। निम्बूफलभवं पानमत्यम्लं वातनाशनम्। बह्निदीप्तिकः रुच्यं समस्ताहारपाचकम्धान्याकपानकम्। शिलायां साधु सम्पिष्टं धान्यकं वस्त्रगालितम्। शर्क्वरोदकसंयुक्तं कर्पूरादिसुसंस्कृतम्। नूतने मृण्मये पात्रे स्थितं पित्तहरं परम्।अथ काञ्जी। काञ्जीविविर्वटकावसरे लिखितः। काञ्जीकं रोचनं रुच्यं पाचनं वह्निदीपनम्। शूलजीर्णविबन्धघ्नं कोष्ठशुद्धिकरं परम्। न भवेत् काञ्जिकं यत्र तत्र जालिः प्रदोयते।अथ जालिः। आममाम्रफलं पिष्टं राजीकालवणान्वितम्। भृष्टहिङ्गुयुतं पूतं घोलितं जालिरुच्यते। जालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधनी। मन्दमन्दन्तु पीता सा रोचनी बह्निबेधिनी।अथ तक्रम्। तूर्य्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि प्रायो माहिषमम्बुकेन विमले मृद्भाजने घोलयेत्। भृष्टं हिङ्गु च जीरकञ्च लवणं राजीञ्च किञ्चित्मिताम् पिष्टान्तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम्। तक्रं रुचिकरं वह्निदीपनं पाचनं परम्। उदरे ये गदास्तेषां नाशनं तृप्तिकारकम्।अथ दुग्धम्। विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः। तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिवेत्। दुग्धस्यापरे गुणा उक्ता एव दुग्धवर्गे।अथ सक्तवः। धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः।तत्र यवसक्तवः। यवजाः सक्तवः शीता दीपना लघवः सुराः। कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः। तै पीता बलदा दृष्या वृंहणा भेदनास्तथा। तर्पणा मधुरा रुच्याः परिणामे बलाबहाः। कफपित्तश्रमक्षुत्तृड्बुद्धिनेत्रामयापहाः। प्रशस्ता घर्मदाहाढ्यव्यायामार्त्तशरीरिणाम्।चमकयबसक्तवः। निस्तुषैश्चनकैर्भृष्टैस्तुर्य्यांशेन यवैः कृताः। सक्तवः शर्क्वरासर्पिर्युक्ता ग्रीष्मेऽतिपूजिताः।शालिसक्तवः। सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः। मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः। न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून्। न जसान्तरितान् तद्धि सक्तूनद्यान्न केवलान्। पृथक् पान पुनार्द्दानं आमिषं पयसा निशि। दन्तच्छेदनमुस्रञ्च सप्त सक्तुषु वर्जयेत्।अथ धाना (बहुरी) यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम्। धानाः स्युर्दुर्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः। तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः।अय लाजाः। येषां स्यु स्तण्डुलास्तानिंघान्यानि सतुषाणि च। भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः। लाजाः स्युर्मधुराः शीता लघवो दीपनाश्च ते। स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः। छर्द्यतीसारदाहास्रमेहमेदस्तृषापहाः।अथ पृथुकाः (चिडुआ)। शालयः सतुषा आर्द्रा भृष्टा अस्फुटिताश्च ते। कुट्टिताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुका अपि। पृथुका गुरवो वातनाशनाः श्लेष्मला अपि। सक्षीरा वृंहणा वृष्या बल्या भिन्नमलाश्च ते।अथ होलकः (होरहा)। अर्द्धपक्वैः शमीधान्यैस्तृणभृष्टैश्च होलकः। होलकोऽल्पानिलोमेदःकफदोषत्रयापहः। भवेद्यो होलकोयस्य सच तत्तदुगुणो भवेत्।अथ ऊची। मञ्जरी त्वर्द्ध्वपक्वा या यवगोधूमयोर्भवेत्। तृणानलेन संभृष्टा बुधैरूचीति सा स्मृता। (उमिया) इति लोके। ऊची कफपदा बल्या लघ्वी पित्तानिलापहा।अथ कुल्माषाः (युवुनी) अर्द्ध्वस्विन्नास्तु गोधूमा अन्येऽपि चनकादयः। कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः। कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः।अथ पललम् (तिलकुट) पललन्तु समाख्यातं सैक्षवन्तिलपिष्टकम्। पललं मलकृद्वृष्यं वातघ्रं कफपित्तकृत्। वृंहणञ्च गुरु स्निग्धं मूत्राधिक्यनिवर्त्तकम्।अथ पिन्याकः (पीना)। तिलकुट्टन्तु पिन्याकस्तथा तिलस्विलः स्मृतः। पिन्याको लेखनो रूक्षो विष्टम्भी दृष्टिदृषणः।अथ (चाउर) तण्डुलो मेहजन्तुघ्नः स नवस्त्वतिदुर्जरः”। अन्येऽपि कृतान्नप्रकराः पाकशास्त्रे दृश्याः कृतान्नविशेषगुणाश्च सुश्रुते दर्शिता यथा “अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम्। लाजमण्डो विशुद्ध्वानां पथ्यः पाचनदीपनः। वातानुलोमनो हृद्यः पिप्पलीनागरायुतः। स्वेदाग्निजननी लध्वी दीपनी वस्तिशोधनी। क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी। विलेपी तर्पणी हृद्या ग्राहिणी बलवर्द्धनो। पथ्या स्वादुरसा लध्वी दीपनी क्षुत्तृषापहा। हृद्या सन्तर्पणी वृष्या वृंहणी बलवर्द्धनो। शाकमांसफलैर्युक्ता यवाग्वस्ताश्च दुर्जराः। सिक्थैर्व्विरहितो मण्डः, पेया सिकथसमन्विता। विलेपी बहुमिक्था स्याद्यवागूर्विरलद्रवा। विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः। कफपित्तलरी बल्या कृशराऽनिलनाशनी। धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः। स्विन्नः सुप्रस्रुत स्तूष्णौ विशदस्त्वोदनो लघुः। अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः। लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः। स्नेहैर्मांसैः फलैः कन्दैर्वैदलाम्लैश्च संयुताः। गुरवो वृंहणा बल्या ये च क्षीरोपसाधिताः। सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघुर्हितः। स्विन्नं निःपीडितं शाकं हितं स्यात् स्नेहसंस्कृतम्। अस्विन्नं स्नेहरहिततमपीडितमतोऽन्यथा। मांसं स्वभावतो वृष्यं स्नेहनं बलवर्द्धनम्। स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह। सिद्धं मांसं हितं बल्यं रोचनं वृंहणं गुरु। तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम्। विद्यात्पित्तकफोद्रेकि बलमांसाग्निबर्द्धनम्। परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु। रोचनं बलमेधाग्निमांसौजःशुक्रवर्द्धनम्। तदेवोल्लुप्तपिष्टत्वादुल्लप्तमिति पाचकाः। परिशुष्कगुणैर्युक्तं वह्नेः पक्वमतो लघु। तदेव शूलिकाप्रोतमङ्गारे परिपाचितम्। ज्ञेयं गुरुतरं किञ्चित् प्रदिग्धं गुरुपाकतः। उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम्। परिशुष्कं प्रदग्धञ्च शूल्यं यच्चाम्यदीदृशम्। मांसं यत्तलसिद्धन्तु वीर्य्योनं पित्तकृद्गुरु। लध्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम्। अनुष्णवीर्य्यं पित्तघ्नं मनोज्ञं घृतसाधितम्। प्रीणनः प्राणजननः श्वासकासक्षयापहः। वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः। स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम्। भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम्। आप्यायनः संहननः श्रुक्रौजोबलवर्द्धनः। सदाडिमयुतो वृष्यः संस्कृतो दोषनाशनः। यन्मांसमुद्धृतरसं न तत्पुष्टिबलाहम्। विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम्। दीप्ताग्नीनां सदा पथ्यः खालिकस्तु परं गुरुः। मांसं निरस्थि सुस्विन्नं पुनर्दृषदि चृर्णितम्। पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम्। एकध्यं पाचयेत्सम्यक् वेशवार इति स्मृतः। वेशवारो गुरुः स्निग्धो बल्यो वातरुजापहः। प्रीणनः सर्वधातूनां विशेषान्मुखशोषिणाम्। क्षुत्तृट्तापहरः श्रेष्ठः सौरावः स्वादुशीतलः। कफघ्नो दीपनो हृद्यः शुद्धानां प्राणिनामपि। ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः। स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः। रुचिष्यो लघुपाकश्च दोषाणामविरोधकृत्। मसूरमुद्गगोधूमकुलत्थलवणैः कृतः। कफपित्ताविरोधी स्याद्वातव्याधौ च शुस्यते। मृद्वीकादाद्विभैर्युक्तः स एवोक्तोऽनिलार्दिते। रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते। पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ। पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ। श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान्। हन्ति मूलकयूषस्तु कफमेदोगलामयान्। कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः। तूणीप्रतूणीकासार्शोगुल्मोदावर्त्तनाशनः। दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः। प्राणाग्निजननो मूर्च्छामेदोघ्नः पित्तवातजित्। मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः। यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः। सर्व्वधान्यकृतस्तद्वद्वृहणः प्राणवर्द्धनः। खलकाम्बलिकौ हृद्यौ तथा वातकफे हितौ। बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः। दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः। तक्राम्लपित्तकृत् प्रोक्तो विषरक्तप्रदूषणः। खडाः खङ यवाग्वश्च षाडवाः पानकानि च। एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः। अस्नेहलवणं सर्व्वमकृतं कटुकैर्विना। विज्ञेयं लवणस्नेहकटुकैर्हि युतं कृतम्। अथ गोरसधान्याम्लफलाम्लैरन्वितञ्च यत्। यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसे। दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः। तिलपिन्याकविकृतिः शुष्कशाकं विरूढकम्। सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च। तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च। लघवो वृंहणा वृष्या हृद्या रोचनदीपनाः। तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः। रसाला वृंहणी बल्या स्निग्धा वृष्या च रोचनी। स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम्। सक्तवः सर्पिषाभ्यक्ताः शीतवारिपरिप्लुताः। नातिद्रवा नातिसान्द्रा मन्थ इत्युपदिश्यते। मन्थः सद्योबलकरः पिपासाश्रमनाशनः। साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्त्तनाशनः। शर्करेक्षुरभद्राक्षायुक्तः पित्तविकारनुत्। द्राक्षामधूकसंयुक्तः कफरोगनिवर्हणः। वर्गत्रयेणोपहितो मलदोषानुलोमनः। गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम्। तदेव खण्डमृद्वीकाशर्करासहितं पुनः। साम्ल सुतौक्ष्णं सुहिमं पानकं स्यान्निरत्ययम्। मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम्। परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम्। द्रव्यसंयोगसंस्कारं ज्ञात्वा भात्राञ्च सर्वतः। पानकानां यथायोगं गुरुलाघवमादिशेत्”। २ कृतं साधितमन्न येन। साधितान्ने पाचके त्रि०

कृताय = पु० कृतसंज्ञकोऽयः। द्यूतक्रीडाप्रसिद्धे चतुरङ्कान्वित पाशकभेदे “कृताये त्रेतादयस्तेऽन्तर्भवन्ति” अयशब्दे ३३५ पृ० दर्शिते आनन्दगिरिः

कृतार्थ = त्रि० कृतः अर्थः प्रयोजनं येन। कृतकार्य्ये। “शरदः कृतार्थताम्” किरा० “कृतः कृतार्थोऽस्मि निवर्हितांहसा” माघः

कृतालय = त्रि० कृत आलयोयेन। १ कृतवासे “यत्र ते दयिता भार्य्या तनयाश्च कृतालयाः” रामा०। २ भेके पुंस्त्री० त्रिका०। स्त्रियां योपधत्वात् टाप्।

कृतावदान = त्रि० कृतमवदानं ख्यातकर्म्म येन। विख्यात कर्म्मयुक्ते शब्दचि०।

कृतावसक्थिक = त्रि० कृताऽवसक्थिका येन। वस्त्रादिना जानुजङ्खापृष्ठबन्धयुक्ते “प्रौढपादोन कुर्व्वीत स्वाध्यायपितृतर्पणम्। आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा। कृतावसक्थिको यस्तु प्रौढपादः सौच्यते” आ० त० कात्या० “कृतावसक्थिकः कृतपृष्ठजानुजङ्घाबन्धः” आ० त० रघु०

कृतास्त्र = त्रि० कृतं शिक्षितमस्त्रं येन। शिक्षितास्त्रे। “येषां योद्धा सव्यसाची कृतास्त्रः” भा० व० ४ अ०

***