कुष = निष्कर्षे क्र्यादि० पर० सक० सेट्। कुष्णाति अकोषीत्। निरस्तु वेट् निरकोषीत् निरकुक्षत्। चुकोष। निष्कर्षश्चेह इयत्तापरिच्छेदः, मध्यस्थितस्य, वस्तुनो बहिर्निःसारणञ्च। “शिवाः कुष्णान्ति मांसानि” “ततोऽकुष्णात् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्” भट्टिः। क्त्वा सेट् कित्। “कुषित्वा जगतां सारम्” भट्टिः कर्म्मकर्त्तरि सार्व धातुके श्यन् वा प०। कुष्यति ते वा पादः। आर्द्धधातुके तु न परैस्मपदम् श्यन्सन्नियोमशिष्टत्वात् कोषिषीष्ट पादः।अनु + सादृश्येन बर्निस्मारणे तूलेनानुकुष्णातिअभि + आभिमुख्येन निःसारणे “न बालकर्ण्णनासास्रोतो दशनविवराण्यभिकुष्णोयात्” सुश्रुतःअव + अधोनिःसारणे तूलैरवकुष्णाति सि० कौ०।निर् + निष्कासने। निरकुक्षत् निरकोषीत् “निष्क्रोष्टा निष्कोषिता। “निष्कोषितव्यान्निष्कोष्टु प्राणान् दशमुखात्मजात्। आदाय परिधं तस्थौ बलान्निष्कुषितद्रुमः” भट्टिः “कीटनिष्कुषितं धनुः” भट्टिः “उपान्तयो र्निष्कुषितं विहङ्गैः” रघुः। आर्षे तु गणव्यत्ययोऽपि क्वचित् दृश्यते “यमपुरुषा अयस्मयैरग्नितप्तैः संदंशंस्त्वचि निष्कुषन्ति” भाग० ५। २६। १९।

कुषल = त्रि० कुष–बा० कलच्। दक्षे पटौ भरतः

कुषाकु = पु० कुष–आकु। १ कपौ २ वह्नौ ३ सूर्य्ये च उणा० कोष

कुषित् = अव्य० कुविद् + पृषो०। १ बाहुल्ये २ प्रशंसायाञ्च मनोरमा

कुषित = त्रि० कुष–क्त। जलमिश्रिते उणादि०।

कुषीद = न० कु + सद–श पृषो० षत्वम्। वृद्ध्यर्थ धनप्रयोगे भरतः

कुषीतक = पु० ऋषिभेदे। तस्यापत्यम् काश्यपः ठञ्। कौषीतकेय तदपत्ये काश्यपे। अन्यत्रार्थे अत इञ्। कौषीतकि तदपत्येऽकाश्यपे। ततः उपकादि० द्वन्येऽद्वन्ये च गोत्रप्रत्ययस्य लुक्।

कुषुभ = क्षेपे कण्ड्वा० प० सक० सेट्। कुषुभ्यति अकुषु(भी)भ्यीत्। “भिनद्मि ते कुषुभ्यं यस्ते विषधानः” अथ० २। ३२। ६।

कुषुम्भक = पुं स्त्री कुषुम–ण्षुल् वेदे पृषो० मुम् यलोपश्च। नकुले “कुकुम्भकस्तदब्रवीद्गिरेः प्रवर्त्तमानकः” ऋ० १९१। १६। “कुषुम्मकोनकुलः” भा०

कुष्ठ = पुंन० कुष्णाति रोगम् क्ष–क्थन्। (कुड) प्रसिद्धे वृक्षभेदे “कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु। हन्ति वाता स्रवीसर्पकासकुष्ठमरुत्कफान्” भावप्र०। तद्भेदास्तत्रैवोक्तायथा “उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत्। पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः”। अयञ्च सुश्रुते एलादिकगणे एलातगरकुष्ठेत्यादिना, मुस्तकादिकगणे च मुस्ताहरिद्रेत्युपक्रमे विभीतककुष्ठेत्यादिना उक्तः। “रोगभेदे तत्स्वरूपनिदानभेदादि भावप्र० दर्शितं यथा “विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च। भजतामागताञ्छर्द्दिवेगांश्चान्यान् प्रतिघ्नताम्। व्यायाममग्नितापञ्चाप्यतिभुक्त्वानिषेविणाम्। शीतोष्णलङ्घनाहारान् क्रमं भुक्त्वा निषेविणाम्। वर्म्म श्रममयार्त्तानां द्रुतं शीताम्बुसेविनाम्। अजीर्णाध्याशिनां चापि पञ्च कर्म्मापचारिणाम्। नवान्नदधिमत्स्यादिलवणाम्लनिवेविणाम्। माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्। व्यवायं चाप्यजीर्णेऽत्ने दिवा निद्रानिषेविणाम्। विप्रान् गुरून् धर्षयतां पापं कर्म्म च कुर्वताम्। वातादयस्त्रयो दोषास्त्वग्रक्नं मांसमम्बुच। दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः। अतः कुष्ठानि जायन्ते सप्तधैकादशैव च”। विरोधीन्यन्नपानानि क्षीरमत्स्यादीनि व्यायाममित्यादि। अतिभुक्त्वा व्यायामम्, अग्निसन्तापम् अग्निरुपलक्षणं सूर्य्यादिसन्तापञ्च निषेविणामिति। कृदत्तस्य योगे षष्ठी प्राप्ता द्वितीया तु मुनिवचगात्। एवभग्रेऽपि “शीतोष्णं लङ्घानाहारानित्यादिष्वपि द्वितीया। क्रमं–विधिं, वर्मेत्यादि। घर्म्मार्त्तत्वे सति द्रुतमविश्रम्य पाने स्नाने शीताम्बु मेविनाम्। अजीर्णाध्याशिनां भुक्तेऽजीर्णे भुक्तवताम्। पञ्चकर्म्मापचारिणां पञ्चकर्म्माणि वमनविरेकशल्यनिरुहानुवासनानि तेषु कृतेषु अपचारिणाम्। नवान्नदधिमत्स्यादि आहारादि सेविनाम्। व्यवायमित्यादि। अन्ने अजीर्ण विदग्धादिरूपे सति। व्यवायंमैथुनं निषेविणाम्। दिपानिद्रानिषेविण्णामिति भिन्नो हेतुः। घर्षयर्ताम् अभिभवताम्। दोषदुष्यसंग्रहार्थमाह। वातादय इयादिशन्देन त्रिष्वपि प्रतीतेषु त्रय इति पदं सर्वेषु कुष्ठेषु त्रयाणामपि वातादोनां दुष्टत्वबोधनार्थम्। त्वक्, रस, अम्बु, लसीका। अथ संख्यामाह। अतः कुष्ठानामित्यादि। अतः पूर्व्वोक्तदोषदूष्यसमुदायात्। सप्तधैकादशधेति संख्याविच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकादशानां क्षुद्रकुष्ठत्वं बोधयति। तत्र महाकुष्ठान्याह “पूर्वं त्रिकं तथा सिध्मं ततः काकणकं तथा। पुण्डरीकर्क्षजिह्वाके महाकुष्ठानि सप्त च”। पूर्वत्रिकं कपालौदुम्बरमण्डलाख्यम्। सिध्मशब्दोऽकारान्तो नपुंसकः। ननु कथं सिध्मस्य महाकुष्ठेषु गुणना सुश्रुतेन क्षुद्रकुष्ठेषु उक्तत्वात् घातुप्रविष्टं सिध्मं तु स्यान्महाकुष्ठनेव च। एवं विधख सिध्मस्य चरकेण महाकुष्ठेषु दर्शितत्वात्। एषां महाकुष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्यवगाहनात् उल्वणदोषजन्यत्वात् चिकित्सावाहुल्याच्च। अथ क्षुद्रकुष्ठान्वाह “एककुष्ठं स्मृतं पूर्बंगजचर्म ततः स्मृतम्। ततश्चर्मदलं प्रोक्तं ततश्चापि विचर्चिका। विपादिकाभिधा सैव पामाकच्छूस्ततः परम्। दद्रूविस्फोटकिटिभालसकानि च वेष्टितम्। क्षूद्रकुष्ठानि चैतानि कथितानि भिषग्वरैः”। नमु दद्रूः कथं क्षुद्रकुष्ठेषु गणिता? सुश्रुतेन महाकुष्ठेषूक्तत्वात्। उच्यते असितावगाढमूला दद्रूः सुश्रुतेन महाकुष्ठेषु उक्ता। असिनेतराऽनवगाढमूला ददूः क्षुद्रकुष्ठमेव। एवं विधाया दद्रवाश्चरकेण क्षुद्रकुष्ठेषु दर्शितत्वात्। कुष्ठानां त्रिदोषजत्वेनैकत्वेऽपि दोषस्योल्वणतया सप्तधात्वमाह। “कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः। सर्वेषु च त्रिदोषेषु व्यपदेशोऽधिकस्ततः”। सर्वेष्वपि त्रिदोषेषु व्यपदेशः कषालादिसंज्ञास्वेषामष्टादशरूपं यदधिकत्वं ततः कुष्ठानि सप्तधा, दोषैः कथंभूतैः पृथग्द्वन्द्वैः समागतैःसङ्गतैः संमिलितैरिति यावत्। अस्यायमर्थः। किमपि कुष्ठं वातोल्वणं, किमपि पित्तोल्वणं, किमपि कफोल्वणं, किमपि वातश्चेष्मोल्वणं, किमपि पित्तश्लेष्मोल्वणम्, किमपि वातपित्तोल्वलं, किमपि त्रेदोषोल्वणमिति। पूर्बरूपमाह “अतिश्लक्ष्णः स्वरस्पर्शः स्वेदास्वेदविवर्णता। दाहः कण्डूस्त्वचिस्वापस्तोदः कोठोन्नतिः क्लमः। व्रणानामधिकं शूलं शीव्रोत्पत्तिश्चिरस्थितिः। रूढानामतिरूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्। रोमहर्षोऽसृजः कार्स्न्यं कुष्ठलक्षणमग्रजम्”। अतिश्लक्ष्णः अतिमृदुः। अथवा घर्मादिप्रसङ्रेऽपि स्वेदाभावः। त्वचिस्वापः स्पर्शाज्ञता। शीघ्रोत्पत्तिः व्रणानाम्। “दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः। त्वचः कुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम्”। येनोल्वणेन यत्कुष्ठमुत्पद्यते तदाह। “वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात्। मण्डलाख्यं विचर्ची च ऋक्षाख्यं वातपित्ततः। चर्मैककुष्ठकिटिभं सिध्मालसविपादिकाः। वातश्लेष्मोद्भवाः पित्तकफाद्दद्रूशतारुषी। सपुण्डरीकविस्फोदपामाचर्मदलं तथा। सर्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः”। विचर्ची च कफादित्यन्वयः। पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा पित्तकफादित्यन्वयः। अथ महाकुष्ठानां मध्ये कपालस्य लक्षणमाह। “कृष्णारुणं कपालाभं यद्रूक्षं परुषं तनु। कपालं तोदबहुलं तत् कुष्ठं विषमं स्मृतम्”। किञ्चित्कृष्णाः किञ्चिदरुणाः ये कपालाः स्फुटितमृत्पात्रखण्डाः ‘खपरा’ इति यावत् तद्वर्णं, परुषं खरस्पर्शम्। तनु तनुत्वक् कपालम् कपालसंज्ञं, विषमं दुश्चिकित्स्यम्। औदुम्बरमाह “उदुम्बरफलाभासं कुषमौदुम्बरं वदेत्। रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम्”। औदुम्बरफलाकारम्। मण्डलमाह “श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्। कृच्छ्रमन्योन्यसंसक्तं कष्ठं मण्डलमुच्यते। श्वेतरक्तं किञ्चिच्छेतं किञ्चिद्रक्तम्। स्थिरं चिकित्सां विना अविनाशि, स्न्यानम् आर्द्रं स्निग्धं सस्वेदम्। उत्सन्नमण्डलम् उद्गतमण्डलम्। कृच्छ्रं कष्टसाध्यम्। अन्योन्यसंसक्तं परस्परमिलितम्। अथ सिध्ममाह “श्वेतताम्नञ्च तनु यत् रजोघृष्टं विमुञ्चति। प्रायेणोरसि तत् सिध्ममलाबूकसुमोपमम्”। श्वेतताम्रं श्वेतं ताम्रम्। तनु तनुत्वक्। प्रायेणोरसि प्रायशब्दादन्यत्रापि बोद्ध्यव्यम् काकणमाह “यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम्। त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिव्यति। काकण न्तिका गुञ्जा। गुञ्जावर्ण्णत्वेन मध्ये कृष्णमन्तेरक्तम्। अथवा मध्येरक्तं मध्यान्ते कृष्णम्। अपाकं स्वभावात्। त्रिदोषलिङ्गम्–सर्व्वेषां कुष्ठानां त्रिदोषजत्वेऽपि उल्व- णदोषत्रयलिङ्गम्। पुण्डरीकमाह “तत् श्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम्। सरागञ्चैव सोत्सेधं पुण्डरीकं कफोल्वणम्” पुण्डरीकदलोपमं पुण्डरीकं श्वेतकमलं तत्पत्रोपमम् सरागञ्चैव। अत एव श्वेतं, रक्तपर्य्यन्तं अन्तेरक्तम्। सरागमिति अन्ते लोहित्याधिक्य बोधनार्थम्। सोत्सेधम् उद्गतम्। ऋक्षजिह्वकमाह “कर्कशं रक्तपर्य्यन्तमन्तःश्यावं सवेदनम्। यदृक्षजिह्वासंस्थानमृक्षजिह्वं तदुच्यते”। रक्तपर्य्यन्तं अन्तेरक्तम् अन्तःश्यावं मध्येधूववर्णम्। ऋक्षजिह्वासंस्थानम् ऋक्षो भल्लूकस्तस्य जिह्वाकृति। अथ क्षुद्रकुष्ठानां मध्ये एककुष्ठगजचर्म्मणोर्लक्षणमाह “अस्वेदनं महावासं यन्मत्स्यशकलोपमम्। तदेककुष्ठं चर्म्माख्यं बहुलङ्गजचर्म्मवत्”। महावासं महास्थानम्। मत्स्यशकलोपमम् अत्र शकलशब्देन लक्षणया त्वगुच्यते। तेन चक्राकारमभ्रकपत्रसदृशं भवति। एककुष्ठमिति क्षुद्रकुष्ठेषु मुख्यत्वात्। चर्म्माख्यं गजचर्म्माख्वम् बहुलं स्थूलम् गजचर्म्मवत् रूक्षं कृष्णं च। अथ चर्म्मदलमाह “रक्तं सशूलं कण्डूमत् सस्फोटं दलयत्यपि। तच्चर्म्मदलमाख्यातं स्पर्शस्यासहनञ्च यत्”। दलयत्यपि विदारयत्यपि चर्मेति शेषः। विचर्च्चिकामाह “सकण्डूः पिडका श्यावा बहुस्तावा विचर्च्चिका”। पिडका क्षुद्रपिडका। ननु क्षुद्रकुष्ठानां कथमेकादशत्नं विपादिकायाद्वादशत्वसम्भवात् उच्यते। विचर्च्चिकैव पादयोर्भवन्ती विपादिका तेन संख्यानबिरेकः। अतएव भोजः “दाल्यते त्वक् वरा रूक्षपाण्योर्ज्ञेया विचर्च्चिका। पादे विपादिका क्षेया स्थामनेदाद्विचर्ञ्चिका”। दाल्यते विदार्य्यते। केचिद्विचर्च्चिकातो विपादिकां भिन्नामाहुः। विपादिकामाह “वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्”। पाणिपादस्फुटनं पाण्योः पादयोश्च स्फुटनं विदारणं येन तत्। पामामाह “सूक्ष्मा बाह्याः स्रावयन्त्यः प्रदाहाः पामेत्युक्ताः पिडकाः कण्डुमत्यः”। पिडकाः पीडयन्तीति पिडका इति क्षिवकादित्वात् निपात्यतेः कच्छुमाह “सैत्र स्फोटैजीवदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च”। सैव पामा स्फोटैः महद्भिः, स्फिचौ–प्रोथौ। ददूमाह “सकण्डुरागपिडकं दद्रूमण्डलमुद्गतम्”। ददूमण्डलरूपेणोत्पत्तिमत्, उद्गतम् उच्छ्रूनम्। विस्फोटमाह “स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः”। किटिभमाह “श्यामं किणस्परस्पर्शपरुषं किटिभंस्मृतम्। किणखरस्पर्शम् किणः शुष्कव्रणस्थानं तद्वत् कर्क्कशस्पर्शम्। परुषं रूक्षम्। अलसकमाह “कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्” गण्डैः महापिडकाभिः चितं वेष्टितम्। शतारुराह “रक्तश्यावं सदाहार्त्ति शतारुः स्यात् बहुव्रणम्”। अथ सप्तधातुगतानां कुष्टानां लक्षणान्याह तत्र रसगतस्य लक्षणमाह “त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते। त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम्”। त्वक्शब्देनात्र रस उच्यते धातुप्रस्तावात्। त्वक्स्थत्वाच्च त्वक्स्वापः स्पर्शाज्ञत्वम्। त्वक्स्वाष इत्यादिकं केचिद्रक्तगतस्य लिङ्गं मन्यन्ते। रुधिरगतमाह “कण्डूर्बिपूयकश्चैव कुष्ठे शोणितसम्भवे”। विपूयकः विशेषेण पूयः। अथ मांसगतमाह “बाहुल्यं वक्रशोषश्च कार्कश्यं पिडकोद्गमः। तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते”। बाहुल्यं कुष्ठस्य पुष्टिः। पिडकोद्गमः क्षुद्रपिडकोद्गमः स्फोटः वृहत्पिडका। स्थिरत्वम् असञ्चारित्वम्। मेदोगतमाह “कौण्यङ्गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम्। क्षतप्रसारो लिङ्गानि पूर्वमुक्तानि यानि च। मेदःस्थान गते लिङ्गं प्रागुक्तानि तथैव च”। कौण्यं हस्तनाशः। अङ्गानां सम्भेदः अङ्गभङ्गः, क्षतसर्पणं क्षतप्रसरणं, पूर्वोक्तानि रक्तमांसगतलिङ्गानि। अस्थिमज्जागतमाह “नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसम्भवः। स्वरोपघातः पीडा च भवेत् कुष्ठेऽस्थिमज्जगे”। शुक्रगतमाह “दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः। यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्”। ननु शुद्धशोणितशुक्रयोरेव दम्पत्योर्गर्भसम्भवः दुष्टशोणितशुक्रयोः कथम् अपत्योत्पत्तिः? यत आह शुश्रुतः “कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः। गर्मः सञ्जायते नार्य्याः स जातो बाल उच्यते” अथान्यच्च “वातादिदुष्टरेतसोऽपत्योत्पादनेऽसमर्थाः” इति। उच्यते। गर्भोऽत्र शुद्धो बोद्धव्यः। अशुद्धगर्भोऽपि दुष्टशोणितशुक्रयोरपि भवति गतकर्णान्धबधिरादीनां सम्भवात्। शोणितमार्त्तवम्। कुष्ठितं कुष्ठं सञ्जातमस्येति तारकादित्वादितच्। शुक्रार्त्तवगतं कुष्ठमपत्येन व्यज्यते इति तात्पर्य्यम्। कुष्ठेषु उल्वणवातादिदोषलिङ्गमाह “स्वरं श्यावारुणंरूक्षं वातात् कुष्ठं सवेदनम्। पित्तात् प्रकुपितं दाहरागस्रावान्वितं मतम्। कफात् क्लेदं घनं स्रिग्धं सकण्डूशैत्यगौरवम्। द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रि- लिङ्गं सान्निपातिकम्”। स्वरं कर्कशम्। श्यावारुणं श्यावं वा अरुणं वा। प्रकुपितं पूतिक्लेदबहुलम्। क्लेदम् आर्द्रतायुक्तम् घनं पुष्टम्। साध्यत्वादिकमाह “साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत्। मेदोगं द्वन्द्वजं जाप्यं वर्ज्यं मज्जास्विसंश्रितम्। क्रिमिक्वद्दाहमन्दाग्निसंयुक्तं यत् त्रिदोषजम्”। वातश्लेष्माधिकञ्च यत् एतेन सिध्मैककुष्ठगजचर्म्मविपादिकाकिटिभालसकानि साध्यानि। मज्जागतं शुक्रगतमप्यसाध्यस्। कृमिर्बाह्योऽपि वर्ज्य इत्यन्वयः। अथारिष्टमाह “प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्। पञ्चकर्म्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम्”। प्रभिन्नं विदीर्णम्। हतस्वरं घर्घरस्वरम्। पञ्चकर्म्मगुणातीतम् असञ्जातवमनादिपञ्चकर्म्मगुणम्। अथ त्वग्दुष्टिसाम्यात् कुष्ठमेदत्वाच्चात्रैव श्वित्रमाह “कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत्। निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्”। कुष्ठैकसम्भवं कुष्ठेन सहैकः समानः सम्भवो निदानं यस्व तत्। अथ श्वित्रस्य भेदमाह किलासञ्चारुणं भवेत्। श्वित्रमेव रक्तमांसाश्रयात्किलासमरुणञ्च भवेदित्यर्थः। ननु कुष्ठस्य श्वित्रस्य च को भेद इत्यत आह निर्द्दिष्टमपरिस्वावीति श्वित्रमपरिस्रावि भवति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसंश्रयमिति। त्रयोधातवो वातपित्तकफास्तेभ्यःपृथग्भूतेभ्य उद्भवो यस्य तत् श्वित्रम्। अथ वा त्रयोधातवो रक्तमांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत्। कुष्ठन्तु सान्निपातिकं सर्वधातुगतं भवतीति भेदः। दोषभेदेन लक्षणभेदानाह “वाताद्रूक्षारुणं, पित्तात् तानं कमलपत्रवत्। सदाहं रोमविध्वंसि, कफात् श्वेतं घनं गुरु। सकण्डूकं क्रमाद्रक्तमांसमेदःसु चादिशेत्। वर्णेनैवेदृगुभयं कुष्ठं तच्चोत्तरोत्तरम्”। अरुणमीषल्लोहितम्। कमलपत्रवदित्यनेन भध्ये श्वेतमन्तेलोहितं बोधयति। घनं पुसम्। क्रमाद्रक्तमांसमेदःसु चादिशेत्। तथा च चरकः “अरुणं रक्तमेवान्ते ताम्रं पित्ते पलङ्गते। श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परापरमिति” उभयं द्विविधमपि श्वित्रं वर्णेन ईट्टगेव। अरुणं ताम्रं श्वेतञ्च दोषभेदात्। द्विविधं दोषजं व्रणजं च। तथा च भोजः “श्वित्रं तु द्विविधं विद्याद्दोषजं व्रणजं तथेति”। श्वित्रं साध्यमसाध्यञ्चाह “अशुक्लरोमबहुलमसृग्युक्तमथो नवम्। अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा”। अबहुलं तनु। अन्यच्च “गुह्यपाणितलौष्ठेषु जातमप्यचिरन्त- नम्। वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता”। गुह्यं मेहनम् भगञ्च तलमत्र पदतलं, तत्र जातं सुश्रुतेनान्तेजातमिति सामान्यतो निर्द्दिष्टत्वात्। अप्यचिरन्तनम् नवमपि। कुष्ठस्य संसर्गजत्वप्रसङ्गेनान्यानपि संसर्गजान् रोगानाह “प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सह भोजनात्”। प्रसङ्गोमैथुनम्। “एकशय्याशनाच्चापि वस्त्रमाल्यानुलेपनात्। कण्डूकुष्ठोपदंशश्च भूतोन्मादव्रणज्वराः। औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्। म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत्। अतो निन्दितरोगोऽयं कुष्ठं कष्टं प्रकीर्त्तितम्”। एतावता कुष्ठिनां कुष्ठ सर्वथा प्रतीकरणीयं न तु उपेक्षणीयम्”। ऐतेषां मध्ये केषाञ्चित् महापातकचिह्नत्वं केषाञ्चिदतिपातकचिह्नत्वं केषांचिच्चोपपातकचिह्नत्वं स्पृत्यादौ प्रसिद्धम्। अष्टादशानां मध्ये अष्टानामेव पापरोगतया स्मृतौ तद्युक्तस्यादाह्यत्वादिकमुक्तं तच्च शु० त० निर्ण्णार्तं यथा भविष्यपुराणीयमध्यतन्त्रस्य षष्ठाध्याये “शृणु कुष्ठगणं विप्र! उत्तरोत्तरतोगुरुम्। विचर्च्चिका तु दुश्चर्म्मा चर्च्चरीयस्त तीयकः। विकर्च्चुर्व्रणताम्रौ च कृष्णश्वेते तथाष्टकम्। एषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्म्मसु। व्रणवत् सर्वगात्रेषु गण्डे भाले तथा नसि”। तथा “मृते च प्रोथथेत्तीर्थे अथ वा तरुमूलके। न पिण्डं नोदकं कुर्य्यान्नच दाहक्रियाञ्चरेत्। षण्भासीयस्त्रिमासीयोमृतः कुष्ठी कदा चन। यदि स्नेहाच्चरेद्दाह यतिचान्द्रायणं चरेत्”। यतिचान्द्रायाशक्तौ पादोनधेनुचतुष्टयं देयम्। अतिपातकशेषफलत्वादप्येवं युक्तं यथाह विष्णुः “अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति कुध्यतिपातकी, ब्रह्महा यक्ष्मा, सुरापः श्याबदन्तकः, सुवर्णहारी कुनखी, गुरुतल्पगोदुश्चर्म्मा, इत्यादि। श्यावदन्तकः स्वभावकृष्णदन्तकः प्रधानदन्तद्वयमध्यवर्त्तिक्षुद्रदन्तः। प्रधानदन्तोपरि दन्तान्तरमिति केचित्। कुनखी सङ्कुचितनखः, दुश्चर्मा स्वभावतः अनावृतमेद्रः,। अत एव महारोगिणोयावज्जीवमशौचमाह कूर्मपुराणम् “क्रिधाहीनख मूर्स्पस्य महारोगिण एव च। यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्”। क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः। मूर्खस्य गायत्रीरहितस्य। सार्थगायत्रीरहितस्येति रुद्रधरः। महारोगिणः पापरोगाष्टकान्यतमरोगवतः ते च उन्मादस्त्वगदोषो राजयक्ष्माश्वासोमधुमेहोभगन्दरः उद- रोऽश्मरी इत्यष्टौ पापरोगानारदोक्ताः। यथेष्टाचारणस्य द्यूतवेश्याद्यासक्तस्य। एवञ्च भविष्यपुराणोक्तं यतिचान्द्रायणप्रायश्चित्तमकृतप्रायश्चित्तानां कुष्ठ्यादीनां दाहे बोद्धव्यम् अन्यथैषां प्रायश्चित्तोपदेशोविफलःस्याद्। यथाह विष्णुः ‘कुनखी श्यावदन्तश्च द्वादशरात्रं कृच्छ्रं चरित्वोद्धरेयातां तद्दन्तनखौ’ इति अत्र द्वादशरात्रं पराकरूपं तत्र पञ्च धेनवः नतु प्राजापत्यं तद्दाहकर्चुर्यतिचान्द्रायणेन विषमशिष्टत्वात् अत्र बहूनाषेकघर्माणामिति वचनादाकाङ्क्षितत्वाच्च कुष्ठ्यादीनामपि प्रायश्चित्तम्। अतएव प्रायश्चित्तविवेकेऽप्युक्तमेवं दुश्चर्मादिष्वप्यूह्यमिति। महापातकादतिपातकस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम्। कर्मविपाके शातातपः “महापातकजं चिह्नं सप्तजन्मसु जायते। बाधते व्याधिरूपेण तस्य कृच्छ्रादिभिः शमः। कुष्ठञ्च राजयक्ष्मा च प्रमेहोग्रहणी तथा”। अत्र कुष्ठपदमल्पकुष्ठपरमिति पूर्वेणाविरोधः”।

कुष्ठकेतु = पु० कुष्ठं तन्नाशनः केतुश्चिह्नं यस्व। मार्कण्डिकायां (भू~ इखखसा) वृक्षे राजनि०

कुष्ठगण = पु० ६ त०। शु० त० उक्ते कुष्ठशब्दे दर्शिते अदाह्यत्वादि प्रयोजके कुष्ठभेदसमूहे स च कुष्ठशब्दे भावप्र० अष्टादशविधौ वर्ण्णितः स च कुष्ठशब्दे दर्शितः

कुष्ठगन्धि = न० कुष्ठस्येव गन्धोऽस्य इच् समा०। एलवालुके राजनि०

कुष्ठगन्धिनी = स्त्री० कुष्ठस्येव गन्धोऽस्याः इनि ङीप्। अश्वगन्धायां शब्दचि०

कुष्ठघ्न = त्रि० कुष्ठं हन्ति हन–टक्। कुष्ठनाशके औषधे “मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता” तुश्रु०। २ हितावल्यां पु० राजनि० ३ काकोदुम्बरिकायां ४ वाकुच्यां च स्त्री ङीप् राजनि०

कुष्ठनाशन = पु० कुष्ठं नाशयति नश–णिच्–ल्यु। १ वाराही कन्दे २ श्वेतसर्षपे च राजनि० ३ क्षीरीशदृक्षे रत्रमा० ४ कुष्ठनाशके औषधादौ त्रि०

कुष्ठनाशिन् = त्रि० कुष्ठं नाशयति नश–णिच्–णिनि। कुष्ठनाशके स्त्रियां ङीप्। सा च २ सोमराज्यां रत्नमा०

कुष्ठल = न० कुत्सितं स्थलम् अम्बष्ठादित्वात् षत्वम्। कुत्सितस्थले

कुष्ठविद् = स्त्री कुष्ठस्य तत्स्वरूपादेः विद् विद्या विद–सम्प० भावे क्विप्। कुष्ठस्वरूपादिविद्यायां तत्र साधुः कथादि० ठक्। कौष्ठविदिक तत्र साधौ त्रि० कुष्ठं तेत्ति कर्त्तरि क्विप्। २ कुष्ठस्वरूपवेत्तरि त्रि०।

कुष्ठसूदन = पु० कुष्ठं सूदयति सूदि–ल्यु। १ आरग्वषे (सोन्दाल) राजनि०। २ कुष्ठनाशके त्रि०

कुष्ठहन्तृ = पु० कुष्ठं हन्ति हन–तृच्। १ हस्तिकन्दे (हातिकान्दा) राजनि० २ कुष्ठनाशके त्रि० ३ वाकुच्रां स्त्री० ङीप् राजनि०

कुष्ठहृत् = पु० कुष्ठं हरति हृ–क्विप् तुक् च। १ विट्खदिरे त्रिका० २ कुष्ठनाशके त्रि०

कुष्ठारि = पु० ६ त०। १ विटखदिरे शब्दच०। २ पटोले ३ आदित्यपत्रे ४ खदिरमात्रे ५ गन्धके च राजनि० ६ कुष्ठनाशके

कुष्ठिका = स्त्री कुष्ठीव कायति कै–क। पादावयवभेदे “यास्ते जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः” अथ० १०९२३

कुष्ठिन् = त्रि० कुष्ठ + अस्त्यर्थे इनि। कुष्ठरोगयुक्ते। कुष्ठशब्देउदा० स्त्रियां ङीप्

कुष्ठित = त्रि० कुष्ठं जातमस्य तार० इतच्। जातकुष्ठे “स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः। यदपत्यं तयो र्जातं ज्ञेयं तदपि कुष्ठितम्” सुश्रुतः

कुष्मल = न० कुष–क्मलन्। १ छेदने २ छादने ३ विकसिते च उणा०

कुष्माण्ड = पु० ईषत् उष्मा पित्तहेतुत्वात् अण्डेषु वीजेषु यस्य शक० (कुमडा) ख्याते १ वृक्षे, २ शिवस्य पारिषदभेदे च तस्य कुष्माण्डाकृतित्वात्तथात्वम् जातित्वात् स्त्रिया ङीप् कुष्माण्डीत्यप्यत्र ३ लताभेदे स्त्री भावप्र० ऋग्वेदादि प्रसिद्धेषु ४ ऋग्विशेषेषु स्त्री ५ यद्देवा देवहेडनमित्यपदिमन्त्रपञ्चकात्मकेऽनुवाके पु० “मृतस्व टशरात्रेण प्रायश्चित्तानि दापयेत्। साधितां रेवतीमिष्टि कुष्माण्डमघमर्षणम्” भा० आतु० १३६ अ० व्याख्याने नीलकण्ठः। यद्देवा इत्याद्यनुवाकश्च यजु० २०। १४। १७।। यथा “यद्देवा देवहेडमं देवासश्चकृमा वयम्। अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः” यजु० २०। १४। यदि दिवा यदि नक्तमेनांसि चकृना वयम्। वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः” १५। यदि जाग्रद्यदि स्वप्न एनांसि चकृमा वयम्। सूर्य्योमा तस्मादेनसोविश्वान्मुञ्चत्वंहसः” १६। यद्ग्रामे यदरण्ये यत्संभायां यदिन्द्रिये। यच्छद्रे यदर्य्ये यदेनश्चकृमा वयम्। यदेकस्याधिधर्म्मणि तस्यावथजनमसि” १७। यदापो अव्न्या इति वरुणोनोमुञ्चत्व हसः” १७।। “इति सार्द्धचतुष्ठयमन्त्रात्मकोऽनुवाकः तत्राद्यास्त्रिस्रः कुष्माण्डीसंज्ञा ययाह वेददी० “इत उत्तरमयभृथः मासरकुम्भं प्नावयति यद्देवा इति” का० १। ५। १३। अवमृथेष्टि कृत्वा यद्देवा इत्यादिना वरुणो मो मुञ्चत्वित्यन्तेन सार्द्धकण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुमा जले तारयति। अग्निवायुसूर्य्यदेवत्यास्तिलोऽनुष्ठुभः कुष्माण्डी- संज्ञाः” इति। तेनावशिष्टसार्द्धमन्त्रसहितोऽनुवाकः कुष्माण्डसंज्ञक इति विवेच्यम् प्रागुक्तभारतव्याख्याने नीलकण्ठेन मन्त्रपञ्चात्मकस्य तथात्वोक्तिः अर्द्धमन्त्रस्य मन्त्रत्वकल्पनयेति बोध्यम्। स्वार्थे क कुष्माण्डकोऽपि (कुमडा) वृक्षे ओषधिभेदे, उमायां, (मसिना) कर्कारौ च। कुष्माण्डस्य गुणपाकप्रकारादि भावग्र० उक्तं “कुष्माण्डं वृंहणं वृष्यं गुरु पित्तास्रवातनुत्। बालं पित्तापहं शीतं मध्यमं कफकारकम्। वृद्धं नातिहितं स्वादु सक्षारं दीपनं लघु। वस्तिशुद्धिकरं चेतोरोग हृत् सर्वदोषजित्। अस्य पाकप्रकाराः यथा “घृते तप्ते विनिःक्षिप्य खण्डान् कुष्माण्डसम्भवान्। वार्त्ताकुविधिना कुर्यात् प्रलेहतलनादिकम्। वेसवाराम्लतक्रेण घृते तलनपूर्बकम्। कुष्माण्डकं फलं सिद्धं विदुः सुखादु सुन्दरम्”। “घृतेन गुडयुक्तेग गोलकुष्माण्डखण्डकान्। रन्धितान् जीरमरिचैरिमान् सुगुलिकां विदुः” “चतुरस्रायतान् स्थूलान् स्विन्नान् क्षीरेण क्षोदितान्। सुपाच्यान् खण्डसर्पिर्भ्यां मरिचैलादिवासितान्”। “कुष्माण्डखण्डानि ससैन्धवानि तनूनि सम्मर्द्दितपिण्डितानि। जम्बीरनीराश्रितशृङ्गवेरैर्भवन्ति वह्नेरपि पोषणाय”। “कुष्माण्डसम्भवाः खण्डाः सुस्विन्नाश्चणकान्विताः। वेसवारयुते तैले तलयेद्वा प्रलेहयेत्। खण्डं कनिष्ठिकाकारं कौष्माण्डं स्वेद्यपिण्डितम्। राजिकादधिसिन्धूत्थै र्मिश्रितं कास्तूरीयकम्। एवं वहुविधाः कार्याः कौष्माण्डा हि विचक्षणैः। प्रलेहतलनस्वादक्षारसन्धानराजिकाः”। “अमृतं पक्वकुष्माण्डं कुष्माण्डं तरुणम् विषम्” वैद्य० “कुष्माण्डे चार्थहानिः स्यात्” तिथित०। अलाबूं चैव कुष्माण्डं कार्त्तिके परिवर्ज्जयेत्, कार्त्तिकव्रते पुरा०। ६ यागक्रियाविशेषे शब्दरत्ना० तन्मूलं मृग्यम्

कुष्माण्डकरसायन = न० चक्रदसोक्ते कुष्माण्डस्य द्रव्यान्तर मिश्रितस्व पाकविशेषेण जाते औषधभेदे यथा “कुष्माण्डकात् पलशतं सुस्विन्नं निष्कुलीकृतम्। पचेत् तप्ते घृतप्रस्थे शनैस्ताम्रमये दृढे। यदा मधुनिभः पाकस्तदा खशशतं न्यसेत्। पिप्पलीशृङ्गवेराभ्यां द्वे पले जीरकस्य च। त्वगेलापत्रमरिचधान्यकानां पलार्द्धकम्। न्यसेशूर्णीकृतं तत्र दर्व्या सङ्घदृयेन्मुहुः। तत् पक्कं स्थापयद्भाण्डे दत्त्वा क्षौद्रं घृतार्द्धकम्। तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी। कासश्वामतमश्छर्द्दितृष्णाज्वरनिंपोडितः। वृष्यं पुनर्नवकरं बलवर्णप्रसादनम्। उरःसन्धानकरणं वृंहणं स्वरबोधनम्। अश्चिभ्यां निर्म्मितं सिद्धं कुष्माण्डकरसाय्यनम्। खण्डामलकमानानुसारात् कुष्माण्डकद्रवात्। पात्रं पाकाय दातव्यं यावान् वात्र रसो भवेत्। अत्रापि मुद्रया पाको निस्त्वचं निष्कुलीकृतम्”।

कुष्माण्डखण्ड = पुंन० चक्रदत्तोक्ते औषधभेदे

“पञ्चाशत्कं पलं स्विन्नं कुष्माण्डात् प्रस्थमाज्यतः। ग्राह्यं पलशतं खण्डवासाक्वाथाढके पचेत्। मुस्ताधात्री शुभाभार्गीत्रिसुगन्धैश्च कार्षिकैः। ऐलेयविश्वधन्याकमरिचैश्च पलांशकेः। पिप्पलीकुडवञ्चैव मधुमानीं प्रदापयेत्। कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीसकम्। हृद्रोगमम्लपित्तञ्च पीनसञ्च व्यपोहति”।

कुस = श्लेषे दि० प० सक० सेट्। कुस्यति इरित् अकुसत्–अकोसीत् चुकोस। कुसलः

कुसल = न कुस–कलच्। १ मङ्गले २ तद्वनि त्रि० अमरटीका

कुसित = पु० कुस–इत नि० गुणाभावः। १ जनपदे उणादिर्काषः। २ वृद्धिजीविनि त्रि० तस्य पत्नी ङीप् ऐदादशः। कुसितायी तत्पत्न्यां स्त्री सि० कौ०। कु + सि बन्धने क्त। ३ ईषद्बद्धे त्रि०।

कुसिद = त्रि० कुस–इद नि० न गुणः। १ वृद्ध्यर्थः धनप्रयोगे २ वृद्धिजीविनि त्रि०। तस्य पत्नी ङीप् ऐदन्तादेशः। कुसिदायी तत्पत्न्यां स्त्री सि० कौ०

कुसिन्ध = न० कबन्धे। “या वैताः श्रियः एतानि तानि पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पञ्च चितयः” शत० ब्रा० ७, ५, २, ३, “कुसिन्धानि कबन्धानि” भा०। “याभ्यां कुसिन्धं सुदृदं बबन्ध”। “तद्देवः कुसिन्धे अध्यादनौ” अथ० १०, २, ३, ५,

कुसिम्बी = स्त्री कुशिम्बी + पृषो०। शिम्ब्याम् (सिम) राजनि०।

कुसीद = त्रि० कुस–ईद नि० न गुणः “कुसेरुम्भोमेदेता” उणा० सूत्रे तृतीयप्रत्ययः ह्रस्वादिर्दीर्घादिश्चेति वृत्तिकारहरदत्तादयः। १ वृद्ध्यर्थं धनप्रयोगे (सुदखाओया) २ पुनर्ग्राह्यत्वेन प्रयुक्ते धनविशेषे। तत्स्वरूपं नारदेनोक्तं यथा “स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते। तत् कुसीदमिति ज्ञेयम् तेन वृद्धिः कुसीदिनाम्” अस्यार्थः स्थानं मूलधनाऽवस्थानम् लाभोवृद्धिः दानग्रहणपदे कर्मणि ल्युटा साध्ये तेन मूलधनाऽवस्थाने सर्त्यप योलाभस्तदर्थं यद्दानं धनिकेन दीयमानं मूलानम् अधमर्णेन च ग्रहणं तयास्वीकृत्य गृह्यमाणं यत् तटण- मिति अवश्यापाकरणीयत्वरूपगुणयोगाद् गौणप्रयोगः। अतएव वाणिज्यार्थप्रयुक्तस्य न ऋणत्वम् इति मिश्राः। तस्यावयवार्थमाह वृहस्पतिः “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृह्यते। चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणन्ततः” इति अस्यार्थः कुत्सितात् सीदतश्चाधमर्णात् सकलधनं यत् गृह्यते निर्विशङ्कैरुत्तमर्णेः चतुर्गुणं वेति वाकारोऽनास्थायाम् तेनद्वैगुण्यादिलाभः इति। कुसीदे विशेषो गारुडे २१५ अध्याये उक्तः यथा “कुसीदकृषिवाणिज्यं प्रकुर्वीतास्वयंकृतम्। आपत्काले स्वयं कुर्बन् नैनसा युज्यते द्विजः। बहवोवर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः। सर्वेषामपि चैवैषां कुसीदमधिकं विदुः। अनावृष्ट्याराजभयान्मूषिकाद्यैरुपद्रवैः। कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते। शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेऽपि वा। उष्णे वर्षति शीते वा वर्द्धनं न निवर्त्तते। देशंगतानां या वृद्धिर्नानापण्योपजीविनाम्। कुसीदं सर्वतः सम्यक् संस्थितस्यैव जायते। लब्धलाभः पितॄन् देवान् ब्राह्मणा~श्चैव पूजयेत्। ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः। बणिक् कुसीदी दद्यात्तु वस्त्नं गां काञ्चनादिकम्। कृषोवलोऽन्नपानामि यानशय्यासनानि च। पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम्। पादेनायस्य पारक्यं कुर्यात् सञ्चयमात्मवान्। अर्द्धेन चात्मभरणं नित्यनैमित्तिकान्वितम्। पादञ्च प्रार्घमानस्य मूल भूतं विवर्द्धयेत्। विद्याशिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः। वृत्तिर्भैक्ष्यं कुसीदञ्च दश जोवनहेतवः”। तस्य विप्रादिभिः स्वयंकर्त्तव्यता निर्णीता आह्नि० त० तत्र गौतमः

“कृषिगोरक्षवाणिज्ये अस्वथंकृते कुसीदञ्चेति” कुसीदस्य पृथग्ग्रहण स्वयं कृतस्याभ्यनुज्ञानार्थं कुसीद वृद्धिकर्म प्रदेशान्तरेऽभिधानादिति कल्पतरुः। वृहस्पतिः “कुसीदकृषिबाणिज्य प्रकुर्वीतास्वयंकृतम्। आपत्काले स्वयं कुर्वन् नैनसा पुज्यते द्विजः लब्धलाभः पितॄन् देवान् व्राह्मणांश्चैव भोजयेत्। ते तृप्ता स्तस्य तं दोषं शमयन्ति न संशयः। बणिक् कुसीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम्। कृषीबलोऽन्नपानानि यानशय्यासनानि च। पण्येभ्यो विंशकं दत्त्वा पशुस्वर्णादिकं शतम्। वणिक् कुषीद्यदोषः स्यात् व्राह्मणानाञ्च पूजनात्। राज्ञे दत्त्वा तु षडभागं देवतानाञ्च विंश- कम्। त्रिंशद्भागञ्च विप्राणां कृषिं कृत्वा न दोषभाक्”। वृद्धिभेदः ऋणादानशब्दे १४१९ पृ० उक्तः। २ तद्वति त्रि० तस्य पत्नी ङीप् ऐङ्च् सुग्वबोधः। कुसीदायी वृद्ध्याजीविपत्न्याम्। पाणिन्यादिमते कुसितकुसिदशब्दाभ्यां हृस्वमध्याग्यामेव ङीप् ऐच्च इति भेदः। कुसीदवृद्ध्यर्थद्रव्यं प्रयच्छति ष्ठन्ष्ठचौ। कुसीदिक वृद्ध्यर्थधनदायिनि त्रि० स्त्रियामुभयत्र षित्त्वात् ङीष्। स्वार्थे क। कुसीदक, तत्रार्थे अस्त्वर्थे इनि। कुसीदिन् वृद्ध्यर्थं धनप्रयोक्तरि उत्तमर्ण्णे त्रि० स्त्रियां ङीप्

कुसीदवृद्धि = स्त्री कुसीदरूपा वृद्धिः। कुसीदरूपायां वृद्धौ (सुद) “कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता” या० स्मृतिः। ब० व्री०। कुसीदरूपवृद्धियुक्ते त्रि०

कुसुम = न० कुस–उम नि० गुणाभावः। १ पुष्पे, “कुसुमसन्ततिसन्ततसङ्गिभिः” माघः। “कुसुमायोजितकार्मुकोमधुः” कुमा०। “विपिनविहारे कुसुमविचित्रा” छन्दोम०। २ फले, ३ स्त्वीरजसि, “यदा नार्य्याः पितुर्गेहे कुसुमस्तनसम्भवः” ज्यो० ४ नेत्ररोगभेदे च मेदिनिः। पञ्चमात्रप्रस्तावे।ऽ।। षष्ठे ५ प्रभेदे। फलकुसुमविशेषाणां द्रव्यान्तरसुलभत्वादिसूचकत्वं वृ० स० २९ अ० दर्शितं यथा “फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम्। सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्वानाम्। शालेन कलमशाती रक्ताशोकेन रक्तशालिश्च। पाण्डूकः क्षीरिकथा नीलाशोकेन मसूरकः। न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति। अश्वत्थेन ज्ञेया निषात्तिः सर्वशव्यानाम्। जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गुनिष्पत्तिः। गोधूमाश्च मधुकैर्यववृद्धिः सप्तपर्णेन। अनिमुक्तककुन्दाभ्यां कर्पासं सर्पपात् वदेदसनैः। वदराभिश्च कुलत्यांश्चिरविल्वेनादिशेन्भुद्गान्। अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः। तिलकेन शङ्खमौक्तिकरजनात्यय चेङ्गुदेन शणः। करिणश्च हस्तिकर्णैरादेश्वा वाजिनोऽश्वकर्णेन। गावश्च पाटलाभिः कदलीभिरजाविकं भवति। चम्पफकुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन। कुरुवकवृद्ध्या वज्रं वैदूर्य्यं नन्दिकावर्तैः। विद्याच्च सिन्धुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन। रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः। श्रेष्ठी सुवर्णपूर्प्पः पद्मैर्विप्राः पुरोहिताः कुमुदैःः। सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः। आम्रैः क्षेमं भल्लातकैर्भयं पीलु भिस्तथारोग्यम्। खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः। पिचुमर्द्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन। निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन। दूर्वाकुशकुसुमाभ्यां भिक्षुर्वह्निश्च कोविदारेण। श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति”। कुसुमविशेषप्रकाशने दोहदभेदः। “सचूपुररवेण स्त्रीचरणेनाभिताडनम्। दोहदं यदशोकस्य ततः पुष्पोद्गमोभवेत्। बकुलो सुखशीधुसिक्तः। आलोकितः कुरुवकः कुरुते विकाशमालोडितस्तिलक उत्कलिको विभाति” कुमा० टी० मल्लि०। तदस्य संजातं तार० इतच्। कुसुमित संजातकुसुमे त्रि०।

कुसुमकार्म्मुक = पु० कुसुमं कार्मुकमस्य। कन्दर्पे “कुसुमकार्म्मुककार्मुकसंहितेत्यादि माघः। कुसुमचापादयोप्यत्र” पु० “कुसुमचापमतेजयदंशुभिः” माघः।

कुसुमपञ्चक = न० कुसुमानां पञ्चकम्। कामदेववाणरूपे अरविन्दादिपञ्चके “मनसिशयमहास्त्र मन्ययाऽमी न कुसुमपञ्चकप्यलं विसोदुम्” मावः। कुसुमवाणशब्दे विवृतिः।

कुसुमपुर = न० (पाटना) इति ख्याते पाटलिपुत्रे नगरे “ततः पितृवधपरित्रासादपक्रान्ते कुसुमपुरात् कुमारे मलयकेतौ” “चाराक्यहतकेन आहूयाभिहिताः कुसुम पुरवासिनः” इति च मुद्रारा०। कुसुमनगर पुष्पपुरादयोऽप्यत्र न०। अन्तलोपे कुसुममप्यत्र।

कुसुममध्य = पु० कुसुमं मध्ये फलमध्ये यस्य। (चालदा) वृक्षभेदे। शब्दच०

कुसुममय = त्रि० कुसुमात्मकं कुसुमप्रचुरं वा कुसुम + मयट्। १ पुष्यमये २ पुष्पप्रचुरे च स्त्रियां ङीप्।

कुसुमवाण = पु० कुसुमानि अरविन्दादीनि पञ्च पुष्पाणि वाणाः यस्य। कन्दर्पे। “अरविन्दमशोकञ्च चूतञ्च नवमल्लिका। नीलोत्पलञ्च पञ्चैते पञ्चवाणस्य सायकाः” माधव्या० मल्लि० घृतवाक्यम् कसुमशरादयोऽत्र पु०।

कुसुमविचित्रा = स्त्री “नयसहितौ न्यौ कुसुमविचित्रा” वृ० र० उक्ते १ द्वादशाक्षरपादके वर्ण्णवृत्तभेदे। कुसुमेन विचित्रः। २ पुष्पैर्विचित्रे त्रि०। “विपिनविहारे कुसुमविचित्रा” (मुररिपुमूर्त्तिः) छन्दोमञ्जरी।

कुसुमाकर = पु० ६ त०। वसन्ते ऋतौ। “मासानां मार्गशीर्षोऽस्मि ऋतूनां कुसुमाकरः” गीता। पुष्पाकरादयोऽप्यत्र पु०।

कुसुमागम = पु० कुसुमानामागमोयत्र। वसन्ते ऋतौ

कुसुमाञ्जन = न० कुसुमाकारमञ्जनं शाक०। पैत्तलमलजाते पुष्पाकारे अञ्जनभेदे अमरः।

कुसुमाञ्जलि = पु० कुसुमपूर्ण्णोऽञ्जलिः। १ पुष्पपूर्ण्णेऽञ्जलौ कुसुमानामञ्जलिरिव। उदयवाचार्य्यप्रणीते पञ्चस्तवकात्मके परमात्मनिरूपके ग्रन्थभेदे “इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्रीः” इति तद्ग्रन्थोपसंहारे न्यायप्रसूनाञ्जलिरित्युपक्रमे च कीर्त्तनात् तस्य न्यायकुसुमाञ्जलिनामत्वेऽपि देवदत्तस्य पूर्व्वपदलोपे दत्त पदवाच्यतावत् पूर्व्व पदलोपेन तन्नामता लोकप्रसिद्धेति। पुष्पाञ्जल्यादयोऽप्यत्र पु०

कुसुमात्मक = न० कुसुममेवात्मा स्वरूपं यस्य कप्। १ कुङ्कुमे हारा० तस्य सर्व्वात्मनैव पुष्पाकारत्वात्तथात्वम्।

कुसुमाधिप = पु० कुसुमेषु कुसुमप्रधानेषु वृक्षेषु अधिपः श्रेष्ठः सुगन्धित्वात्। चम्पकवृक्षे शब्दर०।

कुसुमाधिराज् = पु० कुसुमेषु अधिराजते सुगन्धित्वात् राज–क्विप्। चम्पके त्रिका०।

कुसुमायुध = पु० कुसुमानि आयुघान्यस्य। कामदेवे “कुमुमायुधपत्नि! दुर्लभः” “तव प्रसादात् कुसुमायुधोऽपि” कुमा० पुष्पास्त्रकुसुमास्त्रादयोऽप्यत्र पु०

कुसुमाल = पु० कोः पृथिव्याः सुमालः सम्बन्धनभेदोऽस्य। चौरे हारा०। तस्य भूमिसन्धिकारित्वेन तत्सम्बन्धित्वात् तथात्वम्।

कुसुमासव = न० कुसुमस्य तद्रसस्यासवम्। १ पौष्येमधुनि, तज्जाते, २ मद्ये च राजनि०। आसवशब्दे विवृतिः।

कुसुमेषु = पु० कुसुमानि इषवोऽस्य। कामदेवे अमरः कुसुमवाणशब्दे विवृतिः।

कुसुमोच्चय = पु० कुसुमानामुच्चयः समूहो यत्र। १ स्तवके। ६ त०। २ पुष्पसमूहे।

कुसुम्भ = पु० कुस–उम्भ नि० गुणाभावः। (कुसुम) पुष्पप्रधाने वृक्ष अमरः। पुष्पादिप्रसवपरत्वे न०। “कुसुम्भं नालिकाशाकं वृन्ताकं पूतिकां तथा। भक्षयन् पतितस्तुस्यादपि वेदान्तगोद्विजः” तिथित० उशनाः। “कुसुम्भ वातलं रूक्षं रक्तपित्तकफापहम्” भावप्र०। “कटुर्विपाके कटुकः कफघ्नोविदाहिभावादहितः कुसुम्भः” सुश्रु०। तस्य तैलगुणाः “कुसुम्भतैलमल्पोष्णं गुरु स्वादु विटाहि च। चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम्” भावप्र०। सुश्रुते तु तत्तैलगुणाः सामन्यत उक्ता यथा “निम्बातसोकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योहिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्य्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठ- प्रमेहशिरोरोगहराणि चेति”। “कुसुम्भशाकस्य सएवं” (त्रिफलासवः) सुश्रुते तस्यानुपानमुक्तम्। २ कमण्डलौ अमरः। “क्लप्तकेसश्मश्रुः पात्री दण्डी कुसुम्भवान्” मनुः। ३ स्वर्ण्णे न० मेदि०।

कुसुम्भराग = पु० ६ त०। कुसुम्भस्य तत्पुष्पस्य रागः, कुसुम्भ स्तद्रस इव रागः इति वा। कुसुम्भ पुष्पस्य १ क्वाथजरागे २ दम्पत्यो रागभेदे च। स च सा० द ३ प० दर्शितः यथा “नीलीकुसुम्भमञ्जिष्ठाः पूर्वरागोऽपि च त्रिधा। न चातिशोभते यन्नापैति प्रेम मनोगतम्। तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः। कुसुम्भरागं तं प्राहुर्यदपैति च शोभते। मञ्जिष्ठारागमाहुस्तं यन्नापैत्यतिशोभते”।

कुसुम्भवीज = न० ६ त०। (वरडा) पाश्चात्त्यभाषाप्रसिद्धे वरटाख्ये वीजे। यस्य तैलं कुसुम्भतैलम्।

कुसुरुविन्दु = पु० ऋषिभेदे येन “आजिघ्र कणश” इत्यादि मन्त्रो दृष्टः। यजु० ८। ४२ वेददी० दृश्यः।

कुसू = पु० कुस–कू। गण्डूपदे (के~चो) हेमच०।

कुसूल = पु० कुस बा० कूलचु। कुशूलशब्दार्थे भरतः।

कुसृति = स्त्री कुत्सिता सृतिः सृ–गतौ भावे क्तिन्। १ शाठ्ये अमरः २ इन्द्रजाले हेमच०। कुत्सिता सृतिराचारोऽस्य। ३ दुर्घृत्ते त्रि० “कामादमी कुसृतयःखलयोनयस्ते” भाग० ८। २३। ६

कुस्तुभ = पु० कुं पृथिवीं स्तुभ्नोति स्तुन्भ मूल० क। १ विष्णौ भरतः। २ समुद्रे च शब्दचि०। तस्येदम् अण्। कौस्तुभ मणिभेदे तस्य विष्णुसम्बन्धित्वात् समुद्रोत्पन्वत्वात्तथात्वम्। कौस्तुभशब्दे विवृतिः।

कुस्तुम्बरी = स्त्री० कुत्सिता तुम्बरी पृषो०। धन्याके भरतः

कुस्तुम्बुरु = न० कुत्सितं तुम्बरु तुवि–मर्द्दने बा० उरु। जातित्वे सुट्। धन्याके सि० कौ०।

कुस्त्री = स्त्री कुगतिस०। कुत्सिताया स्त्रियां। तस्या भावःकर्म्म वा युबा० अण्। क्रौस्त्र तद्भावे तत्कर्म्मणि च न०

कुस्म = बुद्धिपूर्व्वकदर्शने चुरा० आत्म० सक० ईषद्धास्ये अक० सेट्। कुस्मयते अचुकुस्मतमूर्द्धन्यमध्य इत्येके।

कुह = विस्मायने अद० आत्म० सक० सेट्। कुहयते अचु कुहत, कुहयां बभूव आस चक्रे कुहकम् कुहनम्।

कुह = अव्य० किम् + छन्दमि ह किमः कुः। कस्मिन्नित्यर्थे “यस्मा पृच्छन्ति कुह सेति घोरम” ऋ० २। १२। ५। “स्वं वव्रिं कुह धित्सथः” ऋ० १। ५६। ९। छन्दस्ये- वास्य प्रयोगः न लोके। कुहयति विस्माययति ऐश्वर्य्येण कुह–अच्। २ कुवेरे पु० हेमच०। ३ विस्मापके त्रि०।

कुहक = न० कुह–बा० क्वुन्। १ इन्द्रजाले असद्वस्तुनः सत्त्वेन बोधके व्यापारभेदे। “द्वेष्यैरपक्षैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्यतैश्च” भा० व० २३३ अ०। “धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि” भाग० १, १, १, २ वञ्चनायां स्त्री क्षिपका० नेत्त्वम्। इन्द्रजालं च माया व कुहका वापि भीषणा” भा० उ० ५४६१ श्लो०। ३ नागभेदे पु०। “ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशोनाम गणः कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्तः” भाग० ५। २४। ३९। “द्विजोपसृष्टः कुहकस्तक्षको वा (मां) दशत्वलं नमत विष्णुगाथाः” भाग० १। १९। १४१ परीक्षिदुक्तिः

कुहकस्वन = पुंस्त्री० कुहकः विस्मापकः स्वनोऽस्य। कुक्कुटविहगे हेमच० स्त्रियां ङीष्।

कुहकस्वर = पुंस्त्री कुहकस्वनवत्। कुक्कुटे हारा० स्त्रियां ङीष्।

कुहक्क = पु० “द्रुतद्वन्द्वं लघुद्वन्द्वं ताले कुहक्कसंज्ञके” इति सङ्गी तदामोदरोक्ते तालभेदे।

कुहन = न० ईषत् प्रयत्नेन हन्यते हन–कर्म्मणि बा अप्। १ मुद्भाण्डे २ काचपात्रे च मेदि० तयोरीषत्प्रयत्नेन हन्यमानत्वात्तथात्वम् कुत्सिताचारेण हन्ति हन–अच्। ३ ईर्षालौ त्रि० मेदि०। कुं पृथ्वीं हन्ति हन–अच्। ४ मूषिके ५ सर्पे च पुंस्त्री स्त्रियां ङीष्।

कुहना = स्त्री कुह–युच्। १ दम्भचर्य्यायां मेदि० २ लोभात् मिथ्येज्यापथकल्पनायाम् अनरः (दम्मेन कृतध्यान मौनादौ भानुदीक्षितः) भावे ल्युट् विस्मायने न० स्वार्थे क अत इत्त्वम्। कुहनिका तत्रार्थे शब्दरत्ना।

कुहर = पु० कुंहरति हृ–अच् कुह–विस्मायने क तं राति रा–क वा। १ नागभेदे मेदि०। २ गह्वरे २ छिद्रे न० मेदि० “तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः” प्रसन्नरा०। ४ कर्णे ५ कण्ठशब्दे ६ गले ७ समीपे च न० अजयपालः।

कुहरित = न० कुहरयति कण्ठशब्दं करोति कुहर + कृतौ णिच्–भावे क्त। १ पिकालापे मेदि० २ रतध्वनौ च मेदि० ३ शब्दमात्रे विश्वः

कुहलि = पु० कु + हलि–इन्। १ पूगपुष्पिकायां (पान्) त्रिका०

कुहा = स्त्री कुह–क। १ कुज्झटिकायाम् २ कटुक्यां च (कट्की) शब्दच०।

कुहु = स्त्री कुह–मृग० कु। कुहूशब्दार्थ हेमच०। “कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः” भा० आश्र० ७२४ श्लो०। कुहुकुहायते कुहुशब्दे वक्ष्यमाण भारतवाक्यम् कुहु + डाच् द्विश्च कुहुकुहायते।

कुहू = स्त्री कुह–कू। नष्टेन्दुकलायामावास्यायाम्। “द्वे ह वा अमावास्या या पूर्बाऽमावास्या सा सिनीवाली योत्तरा सा कुहूरिति” श्रुतिः। व्यक्तमाह कालमा० व्यासः “दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता” स्मृत्यन्तरे “तिथिक्षये सिनीवाली नष्टचन्द्रा कुहूर्मता। याहुल्येऽपि कुहूर्ज्ञेया वेदवेदाङ्गवेदिभिः”। तत्र श्राद्धाधिकारिभेदमाह तत्रैव जावालिः “अपराह्वद्वयाव्यापी यदि दर्शस्तिथिक्षये। आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता”। आदिशब्दात् स्त्वीशूद्रयोरपि ग्रहणम् यथाह तत्रैव लोगाक्षिः “सिनीवाली द्विजैः कार्य्या साग्निकैः पितृकर्मणि। स्त्रीमिः शूद्रैः कुहूः कार्य्या तथा चानग्निकैर्द्विजैः”। अत्र विशेषादिःकालमाधवीयादौज्ञेयः। २ तदधिष्ठात्र्यां देवपत्न्याम् “सिनीवाली कुहू रिति देवपत्न्याविति” नैरुक्ताः। सा च अङ्गिरसः सुता यथाह भाग० ४, १, २९। “श्रद्धा त्वङिरसः पत्नी चतस्रोऽसूत कन्यकाः। सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा” भा० व० ११७ अ० तु अन्या अपि तत्कन्या आह यथा “देवी भानुमती नाम प्रथमाङ्गिरसः सुता। भूतानामेव सर्वेषां यस्यां रागस्तदाऽभवत्। रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता। यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः। तनुत्वात् सा सिलीवाली तृतीयाङ्गिरसः सुता। पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती। षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम्। महामखेष्वाङ्गिरसीदीप्तिमत्सु महामती। महामतीति विख्याता सप्तमी कथ्यते सुता। यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते। एकानंशेति तामाहुः कुहूमङ्गिरसः सुताम्।” विवृतमेतत् नीलकण्ठेन “भानुमती मूर्य्ययुक्ता दिवसाभिमानिनीत्यर्थः। रात्रिमाह भूतानामिति सुषुप्तिकालत्वेन श्रमनाशकत्वात्तस्यां रागोऽभवत् रागात् रागहेतुत्वात् सन्ध्याद्वये रागोपेतत्वाद्वा। कपर्दिनो रुद्रस्य सुतामिव सुतां चन्द्रकलां ललाटे धृतत्वात् दृश्यादृश्यरूपां तत्र हेतुः तनुत्वादिति तेन सूक्ष्मचन्द्रयुक्तत्वं लक्ष्यते चतुर्दशीयुक्तामावास्या सिनीवाली “या पूर्बामावास्या सा सिनीबाली योत्तरा सा कुहूरिति” श्रुतेः। अर्चिष्मती पूर्णचन्द्रोपेता शुद्धपौर्णमासी यस्यां भाभिर्जनोरात्रावपि पश्यति रूपादिकमिति शेषः। सा चतुर्थी यस्यां हविभिर्देवता इज्यन्ते सा हविष्मती। प्रतिपद्युक्ता पौर्णमासी राका नाम पञ्चमी। पुण्यां व्रतार्हां महिष्मतीं नाम चतुर्दशीयुक्तां पौर्णमासीम् अनुमतीं नाम “या पूर्बा पौर्णमासी साऽनुमतिर्योत्तरा सा राकेति” श्रुतेः। शुद्धाममावास्यामाह महामखेस्विति क्प्मयागादिषु दीप्तिमती अमावास्यायां हि दीक्षाकर्तुर्वर्धमानश्चन्द्रोऽग्रे दृश्यते पौर्णमास्यान्तु क्षीयमाणः अतो दीप्तिमत्सु दिनेषु एषा महामतीत्युच्यते। यतोऽत्र महान् महस्वान् व। अन्तर्हितो विद्यतेऽस्यामिति योगान् पूर्बपदस्याकारोन्तादेश आर्षः। कुहुकुहायते विस्मितो भवति एका कला अनंशा अल्पांशवती अतवणा यवागूरिति वदल्पार्थे नञ्। “योत्तरा सा कुहूरिति” स्रुतेः प्रतिपद्युक्ता अमावास्या कुहूरिति प्रसिद्धम्।” “कुहूंदेवीं सुकृतं विद्मना” अथ० ७४७। १। “कुहूर्देवानाममृतस्य पत्नी” अथ० ७४७। २। “तं सिनी च कुहूश्चैव द्युतिः पुष्टिः प्रतावसुः। कीर्त्तिधृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे” हरि० वं० २५ अ०। “असमये मतिरुन्मिषति ध्रुवं, करगतैव गता यदियं कुहूः” “कुहूरुताऽऽहूयत चन्द्रवैरिणी” नैषधम् ३ कोकिलशब्दे तस्य शब्देन विस्मायकत्वात्तयात्वम्। “उहूरिति कुहूरवध्वनिभियाऽपतन्मूर्च्छिता” “त्वमपि चन्द्रविरोधिकुहूरवः” उद्भटः।

कुहूकण्ठ = पुंस्त्री कुहूरिति शब्दः कण्टे यस्य। कोकिले। शब्दरत्ना० स्त्रियां ङीष्।

कुहूमुख = पुंस्त्री कुहूरिति शब्दोमुखे थस्य। कोकिले त्रिका० स्त्रियां ङीष्। ६ त०। प्रतिपद्युक्तावास्वाया मुखे न०।

कुहूरव = पुंस्त्री कुहूरिति रवो यस्य, १ कोकिले। कुहूशब्दादयोप्यत्र राजनि० स्त्रियां ङीष्। कर्ग्न ०। २ कुहूरूपे शब्दे पु०।

कुहूल = न० कुह–ऊलक्। सशल्यभूमिच्छिद्रे जटाध०

कुहेडो(लो) = स्त्री ईषत् हेडति वेष्टते नेत्रसञ्चारोऽत्र हेडवेष्टे इन् ङीप्। कुज्झटिकायां शब्दमाला डस्य वा लः। कुहेलीत्यप्यत्र त्रिका० स्वार्थे क। कुहेडि(लि) काऽपि तत्रार्थे।

कुह्वान = न० ह्वे–भावे ल्युट् कुगतिस०। कुत्सितशब्दे “प्रत्यनूकश्च कुह्वानैर्वैश्वं वै शून्यमिच्छतः” भाग० १, १३, १४,

कू = आर्तस्वरे तुदा० अक० सेट् कुटादि। कुवते अकुविष्ट चुकुवे।

कू = शब्दे क्र्यादि० उभ० अक० सेट् प्वादि०। कुनाति कुनीते अकवीत् अकविष्ट। कुकाव चुकुवे। प्रनिकुनाति

कू = स्त्री कू–क्विप्। पिशाच्याम् शब्दमा०।

कूकुद = पु० कू शब्दे भाते क्विप् तस्याः कीर्त्तेः कुंमूमिंददाति दा–क। “सत्कृतालङ्कृतां कन्यां योददाति स कूकुदः” इत्युक्ते कन्यादातरि अमरः। कुकुदशब्दे विवृतिः

कूच = पु० कु–चट् दीर्घश्च। १ स्तते टित्त्वात् ङीष्। कूची २ तूलिकायां चित्रलेखनसाधनद्रव्ये स्त्री उणादि०। स्वार्थे क। कूचिकाप्यत्र स्त्री।

कूचवार = पु० कूचं वृणोत्यत्र देशे वृ–आधारे घञ्। १ ग्राममदे ततः सोऽभिजनोऽस्य यक्। कौचवार्य्य पित्रादि क्रमेण तत्र वासिनि। २ ऋषिमेदे पु० तस्यापत्यं विदा० अञ्। कौचवार तदपत्ये पुंस्त्री स्त्रियां ङीप्।

कूज = अव्यक्तशब्दे भ्वा० प० अक० सेट्। कूजति अकूजीत्। “कूजन्तं रामरामेति मधुरं मधुराक्षरम्” रामा० “पुंस्कोकिलोयन्मधुरं चुकूज” कुमा० “चुकूज कूले कलहंसमण्डली” नैष०। “कूजितं राजहंसेन नेदं नूपूरशिञ्जितम्” विक्र०। “समोऽकुजने” पा०।

कूजित = न० कूज–क्त। १ पक्षिशब्दे २ अव्यक्तशब्दे च “मधुकरनिकरकरम्बितकूजितकुञ्जकुटीरे” इति जयदेवः।

कूट = अपवादे दानाभावे च चुरा० आत्म० सक० सेट्। कूटयते अचुकूटत्–त। कूटयां–बभूव आस चकार चक्रे।

कूट = दाहे मन्त्रणे प्रच्छादने च अट० चुरा० उभय० सक० सेट्। कूटयति ते अचुकूटत्–त। कूटयां बभूव आस चकार चक्रे

कूट = पु० कूट–अच् यथायथं कर्म्मादौ घञ् वा। १ अगस्त्यमुनौ शब्दरत्ना०। २ गृहे पुंस्त्री शब्दरत्ना० ३ निश्चले राशौ (ढेरी) “अन्नकूटाश्च दृश्यन्ते वहवः पर्वतोपमाः” रामा०। ४ लौहमुद्गरे ५ दम्भे ६ मायायाम् “नैव धर्म्मेण तद्राज्यं नार्ज्जवेन नचौजसा। अक्षकूतपधिष्ठाय हुतं दुर्य्योधनेन तै” भा० व० १२६६। ७ पर्व्वतशृङ्गे चित्रकूटः त्रिकूटः। “अद्रीणामिव कूटानि धातुरक्ताणि शेरते” भा० व्या० १९ अ०। ८ तुक्के ९ हलावयवभेदे फालाधारे १० यन्त्रभेदे (का~द) “वागुरापिश्च पाशैश्च कूटैश्च विविधैस्तथा” राभा०। ११ असत्ये कृत्रिभे च पुंन० मेदि०। “तुलाशासनमानानां कूटकृन्नाणकस्य च” मनुः। १२ कैत “वाचः कूटन्तु देवर्षेः स्वयं विभमृशुर्धिया” भाग० ६, ५, १०, १३ तद्वति त्रि० “मन्त्रोदुर्योधनस्य च कूटप्यधार्त्तराष्ट्रेण प्रेषणं पाण्डवान् प्रति” भा० आ० १ अ०। “न कूटैरायुधैर्हन्यात् युध्यमानो रणे विपून्” मनुः। १४ भग्नशृङ्गे पु० हेम० यथार्थस्य वस्तुनः स्वरूपप्रच्छादनेन १५ अयथार्थवस्तुप्रकाशने “ब्रह्मानुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य” भा० मौ० ११ अ०। १६ पुरद्वारि शब्दचि० “इयं कूटे मनुष्येन्द्र! गहना महती शमी” भा० वि० १५४ श्लो०। १७ अग्रमात्रे “किरीटकूटर्ज्वलितम् शृङ्गारं दीप्तकुण्डलम्” रामा०। “वज्रकूटाङ्गनिपातनेग विशीर्ण्णकुक्षिः” भाग० ३, १३२९, १८ मिथ्याभूते त्रि० द्विगुणा वाऽन्यथा व्रूयुः कूटाः स्युः पूर्व्वसाक्षिणः” या० स्मृ०। १९ निश्चले त्रि० कूटस्थः।

कूटक = पु० कूट–ण्वुल। १ मुरानामगन्धद्रव्ये शब्दमा० २ कवर्य्यां त्रिका० २ फाले न० अमरः। कूट–संज्ञायां कन् ४ पर्ब्बतभेदे पु०। “त्रिकूटऋषभः कूटकः क्रौञ्चः मह्यः” इत्यादि भा० ५, १९, १७,

कूटकृत् = त्रि० कूटं करोति कृ–क्विप्। १ कृत्रिममानादिकारके २ कितवे च तुलाशासनमानानां कूटकृन्नाणकस्य च” मनुः ३ कायस्थे पु० ४ शिवे पु० त्रिका०।

कूटज = पु० कूटाज्जायते जन–ड। कूटज वृक्षे (कुडची) राजनि०

कूटकार्षापण = पु० कर्म्म०। मिय्याभूतरौप्यादिमुद्रायाम्

कूटपूर्व्व = पु० हस्तिनां त्रिदोषजे ज्वरे त्रिका०।

कूटपालक = पु० कूटं मृत्स्तोमं पालयति पालि–ण्वुल्। १ कुलाले अभेदोपचारात् तत्माधने २ कलशादिपाकस्थाने (पोयान)

कूटयन्त्र = न० कर्म्म० (फान्द) आमिषादिद्रव्यम् दत्त्वामृगादि बन्धनार्थे यन्त्रभेदे अमरः।

कूटशाल्मलि = नि० कर्म्म०। १ शाल्मलिभेदे अम०। २ कृष्णशाल्मलौ। “कूटशाल्मलिकस्तिक्तः कफवातज्वरप्रणत्। भेद्युष्णः प्लीहजठरयकृद्गुल्मविषापहः। भूतानाहविबन्धास्रमेदःशूलकफापहः” भावप्र० तद्गुणा उक्ताः।

कूटसंक्रान्ति = स्त्री कूटा मिथ्याभूता तद्दिवसस्नानाद्यनङ्गत्वात् संक्रान्तिः। “अर्द्धरात्रे व्यतीते तु यदा संक्रमते रविः। सा ज्ञेया कूटसंक्रान्तिर्मुनिभिः परिकीर्त्तिता” ज्यो० उक्ते रवेरर्द्धरात्रीपरिराश्यन्तरसञ्चारे तस्याः कूटत्वञ्च तद्दिने स्नानदानाद्यनङ्गत्वात्। यथा “अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भर्वेत्। पूर्ब्बे व्रतादिकं कुर्य्यात् परेद्युः स्नानदानयोः” भुजबलभीमः। “परदिवसीयस्नानाद्यर्थं पूर्व्वदिने उपवासः कार्य्य इत्यर्थः एका० त० रघु०।

कूटसाक्षिन् = त्रि० कर्म्म०। मिथ्याभिधायिनि साक्षिणि “न ददाति तु यः साक्ष्यं जानन्नपि नराधमः। स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि” या० स्मृ०। तस्य भावः ष्यञ्। कौटसाक्ष्य मिथ्यासाक्ष्यदाने। तच्चोपपातकं “कौटसाक्ष्यं सुहृद्बधः” इति मनुनोपातकमध्ये तस्य गणितत्वात्

कूटस्थ = त्रि० कूटोऽयोधनवत् निश्चलं यथा तथा वा तिष्ठति स्था–क। १ एकरूपतया सर्वकालस्थायिनि परिणामादिशून्ये “अधिष्ठानतया देहद्वयावच्छिन्नचेतनः। कूटवन्निर्विकारत्वात् स्थितः कूटस्थैष्यते” इत्युक्तलक्षणे २ परमात्मनि पु०। ३ व्याघ्रनखाख्ये गन्धद्रव्ये न० राजनि०।

कूटागार = न० कर्म्म०। १ मृषागारे, २ चन्द्रशालिकायाम्, च(लिघिर) ३ क्रीडागृहे च त्रिका०

कूटायुस् = कूटमायुरस्य। गुग्गुलुवृक्षे त्रिका०।

कूटायुध = न० कर्म्म०। अन्तर्गुप्तनिहितशल्ये वहिःकाष्ठादिमये अस्त्रभेदे शब्दचि०

कूटार्थभाषा = स्त्री कूटार्थस्य कल्पितार्थस्य भाषा कथा। प्रबन्धकल्पनारूपायां कथायाम् शब्दरत्ना०। भाषणिनि। कूटार्थभाषिन् कल्पितार्थकथके स्त्रियां ङीप्

कूड = घनीभावे अक० भक्षणे सक० पर० तुदादि० सेट्। कूडति अकूडीत्। चुकूड। प्रनिकूडति

कूड्य = न० कूड–ण्यत्। कुड्यशब्दार्थे शब्दरत्ना०।

कूण = आभाषे मन्त्रणे च अद० चुरा० उभ० सक० सेट्। कूणयति–ते अचुकूणत् त। कूणयाम्–बभूव आस चकार चक्रे।

कूण = सङ्कोचे चुरा० आत्म० अक० सेट्। कूणयते अचूकुणत। कूणितम् कूणिः प्रनिकूणयति

कूणि = त्रि कूण–इन्। रोगादिना सङ्कुचितनखरादौ जने

कूणिका = स्त्री कूण–ण्वुल्। वीणामध्यस्थवंशशलाकायां हेमच

कूदर = पुंस्त्री “ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे। कुत्सिते चोदरे जातः कूदरस्तेन कीर्त्तितः” ब्रह्मबै० उक्ते १ जातिभेदे स्त्रियां ङीष् “तदशौचं विप्रतुल्यं पतितोह्यृतु दोषतः। सद्यःकोटकसंसर्गादधमोजगतीतले”

कूद्दाल = पु० कुद्दाल + पृषो० उद्दालवृक्षे रमानाथः।

कू(कु)प = दौर्बल्ये अद० चुरा० उभ० अक० सेट्। कू(कु)पयति–ते अचुकू(कु)पत् त। कू(कु)पयां बभूप आस चकार चक्रे।

कूप = पु० ईषत् आपो यत्र अच् समा०, कुवन्ति मण्डूकाः अस्मिन् कू–पक दीर्घश्च वा। १ खनामख्याते जलाधार, अमरः तल्लक्षणं भावप्र० उक्तं यथा। “भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः। बद्धोऽबद्धः स कूपः स्यात् तदम्भः कौपमुच्यते। कौपं पयोयदि स्वादु त्रिदोषघ्नं हितं लघु। तत् क्षारं कफवातघ्नं दीवनं पित्तकृत् परम्”। कूपस्येदम् अण्। कौप तत्सम्बन्धिनि त्रि० स्त्रियां ङीप्। “प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति” सा० द०। कूपादिकरणफलादिकम् जलाश० त० “सेतुबन्धरता ये च तीर्थशौचरताश्च ये। तडागकूपकर्त्तारोमुच्यन्ते ते तृषाभयात्” आदित्य पु०। “अथ कूपकर्त्तुस्तत्प्रवृत्ते प्रानीये दुष्कृतार्द्धं विनश्यति” विष्णुः। तत्प्रवृत्ते कृतकूपादुत्थिते। “तडागकूपकर्त्तारस्तथा कन्याप्रदायिनः। छत्रोपानहदातारस्ते नराः स्वर्गगामिनः” विष्णुध०। “यो वापीमथ वा कूपं देशे तोयविवर्ज्जिते। खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” नन्दि पुं० “कूपारामतडागेषु देवतायतनेषु च। पुनः संस्कार कर्त्ता च लमते मौलिकं फलम्” विष्णुः “संस्कारविधौ “अजले जलमुऽपाद्य इति वचनात् जलशून्यदेशखनन एव प्रतिष्ठा न तु पङ्कोद्धारमात्रे। “प्रासादेऽप्येवमेवं स्यात् कूपवापीषु गम्यते” जलाश० त० धृत वचनाच्च तत्र वास्तुयागः कार्य्यः। तज्जलञ्च “शीतकाले भवेदुष्णं ग्रोष्मकाले सु शीतलम्। वसन्ते तु प्रशस्तं स्यात् कालभेदात् गुणत्रयम्” राजवल्लभः “प्रेक्षादि० चतुरर्थ्यं इनि। कूपिन् तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्। २ गर्त्ते उणादिकोषः।

कूपक = पु० कूपे गर्त्ते कायति कै–क। १ नौकायाम् गुणाकर्षणयन्त्ररूपे वृक्षे (मास्तुल) २ नदीमध्यस्थवृक्षे ३ तथाभूतपर्वते च उणा०। कूप + स्वार्थे क। ४ मृद्भाण्डे मेदि०। ५ तैलादिस्नेहाधारपात्रभेदे (कूपा) ६ कुकुन्दरे ७ उदपाने ८ चितायाञ्च मेदि०। ततः प्रेक्षादि० चतुरर्थ्याम् इनि। कूपकिन् तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्।

कूपकच्छप = पु० कूपे एवान्यत्र सञ्चारशून्यः कच्छप इव पात्रेसमि० स०। अल्पविषयाभिज्ञतया निन्दनीये कूपमण्डूककूपदर्द्दरावप्यत्र। युक्तारोह्या० स्त्रियां जातित्वात् ङीष्। “यद्यसौ कूपमण्डूकि! तवैतावति कः स्मयः” भट्टिः।

कूपखा = त्रि० कूपं खनति खन–वेदे विट् ङा च। कपखनके।

कूपज = पु० कूपैव जायते जन–ड। रोमकूपे शब्दचि०

कूपद् = अव्य० कूप–बा० अदि। प्रश्ने प्रशंसायाञ्च मनो०

कूपाङ्क(ङ्ग) = पु० कूपाकारोङ्कश्चिह्नं कूपाकारमङ्गं वास्मित्। रोमाञ्चे शब्दरत्ना०।

कूपार = पु० कं पृथिवीं पिपर्ति पूरयति अण् पूर्व्वदीर्घः। समुद्रे अमरटीका पृषो० कूवारोऽप्यत्र।

कूपी = स्त्री कूप–इन् ङीप्। (कूपो) स्नेहपात्रभेदे शब्दचि०

कूप्य = त्रि० कूपे भवादि यत्। कूपभवादौ। “शन्नः समुद्रिया आपः शमनः सन्तु कूप्याः” स्नानमन्त्रः। “कूत्याः” कात्या० १५, ४, ३०,

कूम = न० कोः पृथ्व्याउमा कान्तिः यतः। सरोवरे जटाधरः।

कूमनस् = त्रि० कुत्सितं मनोऽस्य “ऋचि तुनुघेत्यादिना” पा० ऋचि पूर्व्वदीर्घः! कुत्सितमनस्के। लोके तु ह्रस्वादिः कुमना इत्येव

कूर = पुंन० वेञ–भावे क्विप् ऊः कौ भूमौ उवं वयनं लाति ला–क लस्य रः। अन्ने हलायुधः

कूर्च्च = पुंन० कुर्य्यते कुर–चट् नि० दीर्घः! १ भ्रुवोर्मध्ये स्थिते लोमोच्चये, अमरः २ श्मश्रुणि, ३ कैतले, मेदि० ४ दम्भे ५ मयूरपुच्छे ६ कुशमुष्टौ ७ अङ्गुष्ठाङ्गुलिभध्यस्योपरिभागे ८ शीर्षे, शब्दचि० ९ आसनभेदे, तन्त्रोक्ते १० वीजभेदे (हूम्) च। कूर्चवीजन्तु हूमित्येव। “ईशानः सेन्दुवामश्रवणपरिगतो वीजमन्यन्महेशि! द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित्” इति कर्पूरस्तवे तदुद्धारः। “वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्च्चयुग्मम्” तत्रेव! भैरवतन्त्रे “कालीवीजद्वयं देवि! दीर्घं हूङ्कारमेव च। त्र्यक्षरी सा महाविद्या चामुण्डा कालिका स्मृता”। ११ कठिने त्रि०। १२ विकत्थने हेमच०। १३ मलापकर्षनार्थे(कुर्चि)ख्याते पदार्थे “ततःसमर्पयेत् कूर्च्च मुशीरादिविनिर्म्मितम्। मलापकर्षणाद्यर्थं श्रीमन्मूर्त्त्यङ्गसन्धितः” “उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते। दत्त्वा गोबालजं कूर्चं सर्व्वान् तापान् व्यपोहति। दत्त्वा चामरकं कूर्चं श्रियमाप्नोत्यनुत्तमाम्” नरसिं० पु०। तत्रासनभेदे “किं स्रुचं परिभृज्य कूर्चे न्यमार्जीत्” शत० ब्रा० “तद्यत् स्रुचं परिमृज्य कूर्चे न्यमार्जिषम्” शत० ब्रा० ११, ३, ५, ३, मुञ्जानाञ्च कूर्चमध्वर्यवे संस्फुर्वन्ति” सांख्या० श्रौ० सू० “स्फ्यश्च कूर्चश्च सौवर्ण्णः” भा० आश्व० २०९२ श्लो० स्वार्थेक। तत्रार्थे “मृदुना वा दन्तधावन कूर्त्तकेनापनयेत्” सुश्रु० अस्त्यर्थे इनि। कूर्चकिन् सूच्यग्राकारयुक्ते त्रि०। “कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा” सुश्रु० चूडा० लच्कूर्चलः। श्मश्रुयुक्ते त्रि०। १४ पञ्चगव्ये कृच्छ्रशब्दे विवृतिः

कूर्चशिरस् = न० ६ त०। पादस्कन्धे (गुडमुडा) “बाहुर्मर्माणि तु क्षिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रवस्तिकूर्पराणि” सुश्रु०।

कूर्च्चशीर्ष = न० कूर्चं श्मश्रु तद्वच्छीर्षमस्य वा कप्। १ नारिकेले शब्दचि०। २ जीवके अष्टवर्गान्तर्गते ओषधिभेदे राजनि०।

कूर्च्चशेखर = पु० कूर्चं श्मश्रु इव शेखरमस्य। नारिकेले राजनि०

कूर्चामुख = पु० विश्वामित्रवंशजे ऋषिभेदे। “लीलाट्यो नारदश्चैव तथा कूर्चामुखः स्मृतः” भा० आनु० ४ अ०। तद्वंशोक्तौ

कूर्चिका = स्त्री कूर्चस्तदाकारोऽस्त्यस्याः ठन्। क्षीरविकृतिभेदे सा च द्विविधा दधिकूर्चिका तक्रकूर्चिका च। “दध्ना सह च यत् पक्वं क्षीरंसा दधिकूर्चिका। तक्रेण पक्वं यत् क्षीरं सा भवेत् तक्रकूर्चिका” भरतः। “दधितक्रकूर्चिकामस्तुसौविरकेत्यादि”। “ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका। तक्राल्लघुतरोमण्डः कूर्चिका दधितक्रजः” सुश्रुते तद्गुणा उक्ताः। “कूर्चिका विकृता भक्ष्या गुरवो नातिपित्तलाः। विदाहोत्क्लेशजनना रूक्षा दृष्टि प्रदूषणा” सुश्रु०।

कूर्द्द = क्रीडायां कुर्द्दवत्।

कूर्द्दन = न० कूर्द्द–नावे ल्युट् खेलायाम् (को~दा) अमरः

कूर्द्दनी = स्त्री कूर्द्यतेऽत्र आधारे ल्युट् ङीप्। चैत्रपूर्ण्णिमायां त्रिका०। तत्रहि जनाः कूर्द्दनोत्सवं कुर्व्वन्ति

कूर्प = पु० कुरं पाति पा–क दीर्घः। भ्रवोर्मध्ये हेमा०

कूर्पर = पु० कुर्परवत्। तदर्थे।

कूर्पास = पु० कुर्पासवत्। तदर्थे। स्वार्थे क। तत्रार्थे

कूर्म्म = पुंस्त्री० कुत्सितः कौ वा ऊर्म्मिर्वेगो यस्य पृषो०। १ कच्छ पे, अमरः स्त्रियां टाप्। तल्लक्षणं वृह० सं० ६४ अ० यथा “स्फटिकरजतवर्णो नीलराजीवचित्रः कलशसदृशमूर्तिश्चारुवं शश्च कूर्मः। अरुणसमवपुर्या सर्षपाकारचित्रः सकलनृपमहत्वं मन्दिरस्थः करोति। अञ्जनभृङ्गश्यानवपुर्वा विन्दुविचित्रोऽव्यङ्गशरीरः। सर्पशिरा वा स्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै। वैदूर्यत्विटस्थूलकण्ठस्त्रिकोणो गूढच्छिद्रश्चारुवंशश्च शस्तः। क्रीडावाप्यां तोयपूर्णे मणौ वा कार्यः कूर्मो भङ्गला र्थं नरेन्द्रैः”। “उन्मीलने स्मृतः कूर्म्मो भिन्नाञ्जनसमप्रभः” शा० ति० टी० उक्ते २ देहस्थे वायुभेदे। ३ भगवदतारभेदे कमठशब्दे १६८० पृ० विवृतिः। ४ मुद्राभेदे तत्स्वरूसं तन्त्रसारे यथा “वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठया। तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत्। उन्नतः दक्षिणाङ्गुष्टः वामस्य मध्यमादिगः। अङ्गुर्ली योजयेत् पृष्ठे दक्षिणस्य करस्य च। वामस्य पितृतीर्थेन मध्यमानामिके तथा। अधोमुखे च ते कुर्य्याद्दक्षिणस्य करस्य च। कूर्म्मपृष्ठसमंकुर्य्याद्दक्षपाणिञ्च सर्व्वतः। कूर्म्ममुद्रेयमाख्याता देवताध्यानकर्म्मणि”।

कूर्म्मचक्र = न० कूर्म्माकारं चक्रम्। १ तन्त्रोक्ते ग्राह्यमन्त्र शुभादिसूचके कूर्म्माकारे चक्रभेदे। तत्स्वरूपादि रुद्रयामले उक्तं यथा “कूर्म्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम्। यज् ज्ञात्वा सर्व्वशास्त्रार्थं जानाति पण्डितोत्तमः। अभेद्यं भेदकं चक्रं शृणुष्वादरपूर्व्वकम्। कूर्म्माकारं महाचक्रं चतुष्पादसमावृतम्। तुण्डे स्वरान्, दक्षपादे कवर्गं, वामपादके। चवर्गं, कीर्त्तितं पश्चात् अधःपादे टवर्गकम्। तदधस्तु तवर्गः स्यादुदरे च पवर्गकम्। यवान्तं हृदये प्रोक्तं शहान्तं पृष्ठमध्यके। लाङ्गूले शक्रवीजञ्च(लं) क्षकारं लिङ्गमध्यके। लिस्वित्वा गणयेण्मन्त्री चक्राकरं मलापहम्। स्वरे लाभः कवर्गे श्रीश्चवर्गश्च विवेकदः। टवर्गे राजपदवी तवर्गे धनवान् भवेत्। उदरे सर्वनाशः स्यात् हृदये बहुदुःखभाक्। पृष्ठे च सर्व्वसन्तापः लाङ्गूले मरणं ध्रुवम्। वैष्णवे पृष्ठदेशे तु दुःस्यञ्च वामपादके। विरुद्धद्वयलाभे तु न कूर्य्याच्चक्रचिन्तनम्। विरुद्धैके धर्म्मनाशो युग्मदोषे च मारणम्। यत्र देवाक्षरञ्चास्ति तत्र चेन्निजवर्णकम्। विरुद्धञ्च त्यजेच्चक्रमन्यमन्त्रं विचारयेत्। पृथक् होमे यदि भवेत् वर्णमाला महेश्वर! ! यदि तत् सौख्यभाषः स्यात् तत् सौख्यं नापि वर्ज्जयेत्। विभिन्नगेहे दोषश्चेत् शुभमन्त्रञ्च संत्यजेत्। इति ते कथितंदेव! दृष्टादृष्टफलप्रदम्। ये शोधयन्ति चक्रेन्द्रं मन्त्रसिद्धिप्रदं शुभम्”। २ जपाङ्गदेशभेदसूचके चक्रभेदे तत्स्वरूपं तन्त्रसारे उक्तं यधा “दीपस्थानं समाश्रित्य कृतं कर्म फलप्रदम्। दीप्यते पुरुषो यत्र दीपस्थानं तदुच्यते। चतुरस्रां भुवंभित्त्वा कोष्ठानां नवकं लिखेत्। पूर्ब्बकोष्ठादि विलिखेत् सप्तवर्गाननुक्रमात्। लक्षमीशे मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत्। दिक्षु पूर्वादितो यत्र क्षेत्रा- द्यक्षरसंस्थितिः। मुखं तत्तस्य जानीयात् हस्तावुभयतः स्थितौ। कोष्ठे कुक्षी उभे पादौ द्वे शिष्टे पुच्छमीरितम्। क्रमेणानेन विभजेत् मध्यस्थमपि भागतः। मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः। उदासीनः कुक्षिसंस्थः पादस्थो दुःस्वमाप्नुयात्। पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः। कूर्मचक्रमिदं प्रोक्तं मन्त्रिणां सिद्धिदायकम्” पिङ्गलायाम् “कूर्मचक्रमविज्ञाय यः कुर्य्याज्जपयज्ञकम्। तस्य यज्ञफलं नास्ति सर्व्वानर्थाय कल्पते”। ३ ज्योतिषोक्ते नक्षत्रभेदेन देशभेदानां शुभाशुभज्ञापके कूर्म्माकारे चक्रे च तन्निरूपम् ज्यो० त० यथा “प्राङ्मुखो भगवान् देवः कूर्मरूपी व्यवस्थितः। आक्रम्य भारतं वर्षं नवभेदंयथाक्रमम्”। तत्र नखत्रन्यासक्रमः “मध्यप्रागग्नियाम्यादि कृत्तिकादित्रयत्रयैः। क्रूरवेधयुतैस्तैस्तु पीड्यन्ते तन्निवासिनः”। तत्र वेधो यथा “पूर्वापरे भवेद्वेधो वेधश्चोत्तरदक्षिणे। ईशानराक्ष से वेधो वेध आग्नेयमारुते। तारात्रयान्वितं तत्र सौरिं यत्नेन चिन्तयेत्”। तत्र वेधादिजन्यदोषाः “अतिवृष्टिग्नावृष्टिः शलभा मूषिकाः खगाः। स्वचक्रं परचक्रञ्च सप्तैते सम्भवन्ति च। एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत्। तयाच यत्र नक्षत्रे दिव्यपार्थिवनाभसाः। दृश्य न्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत्। सौरि र्बलाधिको दुष्टः, स्वल्पवीर्य्यः शुभावहः। एकदा पीडयेद्यत्र भानुजः कूर्मचक्रके। तत्र स्थाने महाविघ्वो जायते नात्र संशयः। दुष्टस्थाने गते चन्द्रे कर्त्तव्यं शान्तिपौष्टिकम्। दूष्यदेशभेदाश्च कूम्मविभागशब्दे दृश्याः

कूर्म्मपुराण = न० कूर्म्मेण भाषितं पुराणम्। व्यासप्रणीतेषु अष्ठादशसु महापुराणेषु पञ्चदशे पुराणे तत्प्रतिपाद्य विषथाश्च वृहन्ना० दर्शिता यथा

“श्रीब्रह्मोवाच। शृणु वत्स! मरीचे!ऽद्य पुराणं कूर्म्मसंज्ञितम्। लक्ष्मीकल्पानुचरितं यत्र कूर्म्मवपुर्हरिः। धर्म्मार्यकाममोक्षाणां माहात्म्यञ्च पृथक् पृयक्। इन्द्रद्युम्न्यसङ्गेन प्राहर्षिभ्यो दयाधिकम्। तत् सप्तदशसाहस्रं सचतुःसंहितं शुभम्। यत्र व्राह्म्या (संहितया) पुरा प्रोक्ता धर्म्मा नानाविधा मुने!। नानाकथप्रसङ्गेन नॄणां सद्गतिदायकाः”। तत्पूर्वभागे “तत्र पूर्बविभागे तु पुराणोपक्रमः पुरा। लक्ष्मीप्रद्युमृसेवादः कूर्मर्षिगणसङ्गथो। वर्णाश्रमाचारकथा जगदुत्प्रत्तिकीर्त्तनम्। कालसङ्ख्या समासेन लयान्ते स्तवनं विभोः। ततः सङ्क्षेपतः सर्गः शाङ्करं चरितं तथा। सहस्रनाम पार्वत्या योगस्य च निरूपणम्। भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च। देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः। दक्षसृष्टिकथा पश्चात् कश्यपान्वयकीर्त्तनम्। आत्रेयवंशकथनं कृष्णस्य चरितं शुभम्। मार्क्कण्डकृष्णसंवादो व्यासपाण्डवसंकथा। युगचर्म्मानुकथनं व्यासजैमिनिकी कथा। वाराणस्याश्च महात्म्यं प्रयागस्य ततः परम्। त्रैलोक्यवर्णनञ्चैव वेदशाखानिरूपणम्” तदत्तरभागे “उत्तरेऽस्य विभागे तु पुरा गीतैश्वरी ततः। व्यासगीता ततः प्रोक्ता नानाधर्म्मप्रबोधनी। नानाविधानां तीर्थानां महात्म्यञ्च पृथक् ततः। नानाधर्मप्रकथनं १ ब्राह्मीयं संहिता स्मता। अतः परं २ भगवती संहितार्थनिरूपणे। कथिता यत्र वर्णानां पृथग्वत्ति रुदाहृता”। तदुत्तरभागे भगवत्याख्यद्वितीयसंहितायाः पञ्चसु पादेषु “पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः। सदाचारात्मिका वत्स! भोगसौख्यविवर्द्धनी। द्वितीये क्षत्रियाणान्तु वृत्तिः सम्यक् प्रकीर्त्तिता। यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम्। तृतीये वैश्यंजातीनां वृत्तिरुक्ता चतुर्विधा। यया चरितया सम्यक् लभते गतिमुत्तमाम्। चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता। यया सन्तुष्यति श्रीशो नॄणां श्रेयोविवर्द्धनः। पञ्चमेऽस्यास्ततः पादे वृत्तिः सङ्करजन्मनाम्। यया चरितयाप्नोति भाविनीमुत्तमां जनिम्। इत्येषा पञ्चपाद्युक्ता द्वितीया संहिता मुने!। तृतीयात्रोदिता ३ सौरी नृणां कामविधायिनी। षोढा षट्कर्मसिद्धिं सा वोधयन्ती च कामिनाम्। चतुर्थी ४ वैष्णवी नाम मोक्षदा परिकीर्त्तिता। चतुष्पदी द्विजादीनां साक्षात् ब्रह्मस्वरूपिणी। ताः क्रमात् षट्चतुर्द्द्वीषुसाहस्राः परिकीर्त्तिताः”। तत्फलश्रुतिः “एतत् कूर्मपुराणन्तु चतुर्वर्गफलप्रदम्। पठतां शृण्वतां नॄणां सर्वोत्कृष्टगतिप्रदम्। लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वितम्। ब्राह्मणायायने दद्यात् स याति परमां गातम्”। तच्च पुराणम् तामसं “मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च। अग्नेयञ्च षडेतानि तामसानि निबोधत” पाद्मोत्तरख० ४३ अ०।

कूर्म्मविभाग = पु० कूर्म्मस्य तद्रुप भगवदवयवस्य विभागोऽत्न। वराह मिहिरोक्ते नक्षत्रभेदेन देशविशेषाणां शुभाशुभबोधके ग्रन्थभेदे स च वृ० सं० १४ अध्यायः। यथा

“नक्षत्रत्रयवर्गेराग्नेयाद्यैर्व्य वस्थितैर्नवधा। भारतवर्षे मध्यात् प्रागादि विभाजिता देशाः। १ भद्रारिमेदमाण्डवा माल्वनीपोज्जिहानसङ्ख्याताः। मरुवत्सवोषयामुनसारस्वतमत्स्यमाध्यमिकाः। माथुरकोपज्योतिष धर्मारण्यानि शूरसेनाश्च। गौरग्रीवोद्देहिक पाण्डुगुडाऽश्वत्थपाञ्चालाः। साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः। औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ३। ४। ५। अथ २ पूर्बस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः। व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च। खसमगधशिषिरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः। प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः। उदयगिरिभद्रगौडकपौण्ड्रौत्कलकाशिमेकलाम्बष्ठाः। एकपदताम्रलिप्तिककोशलका वर्धमानश्च ६। ७। ८। आग्नेय्यां ३ दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः। शौलिकविदर्भवत्सान्ध्नचेदिकाश्चोर्ध्वकण्ठाश्च। वृषनालिकेरचर्मद्वीषा विन्ध्यान्तवासिनस्त्रिपुरा। श्मश्रुधरहेमकूटव्यालग्रीवा महाग्रीवाः। किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णा। सहनग्नपर्णशवरैरश्लेषाद्ये ९। १०। ११। त्रिके देशाः। अथ दक्षिणेन ४ लङ्का कालाजिनसौरिकीर्ण तालिकटाः। गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः। कङ्कटटङ्कणवनवासिशिविकफणिकारकोङ्कणाभीराः। आकरवेणावल्लकदशपुरगोनर्दकेरलकाः। कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः। क्रौञ्चद्वीपजटाधरकावेर्योरिष्यमूकश्च। वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः। गणराज्यकृष्णवेल्लुरपिशिकशूर्पाद्रिकुसुमनगाः। तुम्बवर कार्मणेयकयाम्योदधितापसाश्रमा ॠषिकाः। काञ्चीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः। बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशना भद्राः। कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः १२। १३। १४। नैरृत्यां दिशि ५ देशाः पह्नवकाम्बोजसिन्धुसोवीराः। बडवामुखारवाम्बष्ठकपिलनारीमुखानर्ताः। फेनगिरियवनमाकरकर्णप्रायेयपारसवशूद्राः। व र्वरकिरातखण्डक्रव्यादाभीरचञ्चूकाः। हेमगिरिसिन्धुकालकरैवतक्रसुराष्ट्रबादरद्रविडाः। स्वात्यादो भत्रितये १५। १६। १७। ज्ञेयश्च महार्णवोऽत्रैव। अपरस्यां ६ मणिमान् मेघवान् वनौघः क्षुरापेणीऽस्तगिरिः। अपरान्तकशान्तिकद्दैहयप्रशस्तादिवो- क्वाणाः। पञ्चनदरमठपारततारक्षितिजृङ्ग्वैश्यकनकशकाः। निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च १८। १९। २०। दिशि ७ पश्चिमोत्तरस्यां माण्डव्यतुषारतालहलमद्राः। अश्मककुलूतलहडस्त्रीराज्यनृसिंहवनखस्थाः। वेणुमती फल्गुलुका गुरुहा मरुकूर्चचर्मरङ्गाख्याः। एकविलोचनशूलिकदीर्घग्रीवास्यकूशाश्च २१। २२। २३। उत्तरतः ८ कैलासो हिमवान्वसुमान् गिरिर्धनुष्मांश्च। क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमीनाश्च। कैकयवसातियामुनभोगस्थार्जुनायनाग्नीध्राः। आदर्शान्तद्वीपित्रिगर्ततुरगाननाश्वमुखाः। केशधरचिपिटनासिकदासेरकवाटधानशरधानाः। तक्षशिलापुष्कलावतकैलावतकण्ठधानाश्च। अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः। माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः। गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च। यौधेयदासमेयाः श्यामार्काः क्षेमधूर्ताश्च २४, २५, २६,। ऐशान्यां ९ मेरुकनष्टराज्यपशुपालकीरकाश्मीराः। अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः। ब्रह्मपुरदार्वडामरवनराज्यकिरातचीमकौलिन्दाः। भल्लापलोलजटासुर कुनठखषघोषकुचि(वि)काख्याः। एकचरणानुविश्वाः सुवर्णभूर्वसुवनं दिविष्ठाश्च। पौरवचीरनिवसनत्रिनेत्रमुञ्जाद्रिगन्धर्वाः २७। १। २। वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः। पाञ्चालो मागधिकः कालिङ्गश्चक्षयं यान्ति। आवन्तोऽथानर्तो मृत्युं चायाति सिन्धुसौवीरः। राजा च हारहौरो मद्रशोऽन्यश्च कौलिन्दः”।

कूर्म्मपृष्ठ = न० कूर्म्मस्य पृष्ठमिव। १ शरावे २ अम्लानवृक्षे च पु० शब्दच०। ६ त०। कूर्म्मस्य पृष्ठे न०

कूर्म्मराज = पु० कूर्म्माणां राजा श्रेष्ठत्वात् टच् समा०, कूर्म्मरूपेण राजते राज–अच् वा। कूर्म्मरूपे भगवदवतारे जटा०। “पृथ्वि! स्थिरा भव भुजङ्गम। धारयैनां त्वं कूर्म्मराज! तदिदं द्वितयं दधीथाः” महना०। २ कूर्म्माणां श्रेष्ठे च

कूल = आवृतौ भ्वा० पर० सक० सेट्। कूलति अकूलीत् चुकूल प्रनिकूलति कूलम्। “तासां प्राजमानो योनिमकूलयत्” टत० व्रा० ४९।

कूल = न० कूलति आवृणोति जलप्रवाहम् कूल–अच्। नद्यादेस्तीरे। “नदीकूलं यथा वृक्षः” मनुः “नदीवोभयकूलभाक्” रघुः। “कुकूज कूले कलहंसमण्डली” नैष०। कर्म्मणि घञर्थे क। २ स्तूपे ३ तडागे ४ सैन्यपृष्ठे च विश्वः ६ अन्तिके “कुलायकूलेषु विलुट्य ते सुताः” नैष०। “कूलाय कूलेषु नीडान्तिकेषु” मल्लि०। बलादि० अस्त्यर्थे वा मतुप् मस्य वः। कुलवत् पक्षे इनिः कूलिन्। तद्युक्ते त्रि० स्त्रियां ङीप्। ततः धूमा० सौवीरे सम्बन्धिन्यर्थे वुञ्। कौलक कूलसम्बन्धिनि सौवीरे त्रि०।

कूलक = न० कूल + ण्वुल्। १ तीरे विश्वः। कूल + स्वार्थे क। २ स्तूपे मेदि०।

कूलङ्कष = त्रि० कूलं कषति व्याप्नोति कष–खश् मुम् च। कूलव्यापके। “कूलङ्कषौघाः सरितस्तथाऽपराः” मावः। “कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुञ्च” शकुन्तला।

कूलवती = स्त्री कूल + अस्त्यर्थे बलादि० मतुप् मस्य वः। ङीप्। नद्यां राजनि०।

कूलचर = त्रि० कूले नदीकूले चरति चर–ट। गजादिजन्तुषु। कूलचराश्च जन्तवः समांसगुणाः सुश्रुते दर्शिता यथा “तत्र गजगवयमहिषरुरुचमरसृमररोहिषवराहखङ्गिगोकर्णकालपुच्छकोन्द्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः पशवः। वातपित्तहरा वृष्या मधुरा रसपाकयोः। शीतला बलिनः स्रिग्धा भूत्रलाः कफवर्द्धनाः”।

कूलन्धय = त्रि० कूलं धयति धे–खस् मुम् च मुग्धबो०। कूल स्पर्शिनि वनादौ स्त्रियां ङीप्।

कूलभू = स्त्री ६ त०। तीरभूमौ हेमच०। कूलभूमितीरभूम्यादयोऽपि “कावेरीतीरभूमीरुहभुजगवधूभुक्त मुक्तावशिष्टः। (वायुः) उद्भटः।

कूलमुद्रुज = त्रि० कूलमुद्रुजति उद् + रुज खश् मुम् च। कूलभेदके। “आसादितौ कथं ब्रूतं न गजैः कूलमुदुजैः” भट्टिः। “मदोदग्राः क्स्कुद्मन्तः सरितां कूलमुद्रुजाः” रघुः

कूलमुद्वह = त्रि० कूलमापूर्य्य वहति उद् + वह–खश् मुम् च। कूलमापूर्य्यवाहिनद्यादौ “उत्तीर्ण्णौ वा कथं भीमाः सरितः कूलमुद्वहाः” मट्टिः।

कूलहु(ह)ण्डक = पु० कूले हुण्डते संघीभवति हुडि–संघे ण्वुल् पृषो० वा उलोपः। जलावर्त्ते त्रिका०

कूलास = त्रि० कूलमस्यति क्षिपति अस–अण्। कूलक्षेपके ततः सङ्कला० चतुरर्थ्याम् अण्। कौलास तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्।

कूलेचर = त्रि० कूले चरति चर अलुक्स०। नद्यादेस्तीरचरेषु महिषादिपशुषु। ते च “चमरीवारणादयः। एते कूलेचराः प्रोक्ताः यतः कूले चरन्त्यपाम्” भावप्र० उक्ताः आदिपदात् कूलचरशब्दे सुश्रुतेनोक्ता ग्राह्याः। “कूले चरा मरुत्पित्तहरा वृष्या बलावहाः। मधुराः शीत- लाः स्निग्धा मूत्रलाः श्लेष्मवर्द्धनाः” तद्गुणा स्तत्रोक्ताः।

कूल्य = त्रि० कूले भवः यत्। १ तीरभवे २ रुद्रभेदे पु० “नमस्तीर्थ्याय च कुल्याय च” यजु० १६, ४२, रुद्राध्यायः।

कूवर = पु० कू–शब्दे कुटादि–वरच्। १ कुब्जके वृक्षभेदे (कुजा) २ कुब्जे त्रि० ३ मनोहरे त्रि० शब्दचि० ४ युगन्धरे यत्र युगकाष्ठमासज्यते तत्र रथावयवभेदे पुंन० अमरः “वैदूर्य्यमण्णिकूवरम्” रामा०। “रथं चामितकूवरम्” भा० आनु० ४२६९ श्लो०। “पादैः पुरः कूवरिणां विदारिताः” माघः। ५ रथिकस्थाने गोयुक्तं रथमुपक्रम्य “पक्षसी कूवरवाकूरावभिमृषेत्” गोभि० सू०। कूवरं रथिकस्थानम्” सं० त० रघुनन्दनः। ६ कम्बलाच्छादितरथे स्त्री हला० गौरा० ङीष्।

कूवार = पु० कुं तीरभूमिं वृणोति वृ–अण् उप० स० पृषो० दीर्घः। कूपारशब्दार्थे अमरटीका

कूश्म = पु० हवनीयदेवभेदे। “प्रदरान् पायुना कूश्मांश्छकपित्तैः” यजु० २५७ “कूश्मान् देवान् प्रीणयामि” वेददी०।

कूष्माण्ड = पु० ईषदूष्माण्डेषु वीजेष्यस्य। १ कुष्माण्डशब्दार्थे २ शिवपारिषदभेदे हेमच० “अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः” भाग० २, ६, ४५। ३ ऋषिभेदे पु० “कूष्माण्डोराजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः” या० स्मृ० तद्दृष्टत्वात् “यद्देवा देवहेडनमित्याद्यासु ४ ऋक्षु स्त्री ङीप् “त्रिरात्रोपोषितोभूत्वा कूष्माण्डीभिर्घृतं शुचिः। सुरापः स्वर्ण्णहारी च रुद्रजापी जलेस्थितः” याज्ञ० स्मृ०। “त्रिरात्रमुपोषितः कूष्माण्डीभिर्यद्देवादेवहेडनमित्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुब्भिर्मन्त्रलिङ्गदेवताभिरृग्भिश्चत्वारिंशद्वृताहुतीर्हुत्वा शुचिर्भवेत्। तथा बौधायनेनाप्युक्तम् “अथ कूष्माण्डीभिर्जुहुयाद्योऽपूतमिवात्मानं मन्येत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यां अयोनौ वा रेतः सिक्त्वा अन्यत्र स्वप्नादिति”। मिता० “सर्व्ववेदपवित्राणि वक्ष्याम्यहमतः परम्। येषाञ्जपैश्च होमैश्च पूयन्ते नात्र संशयः। अघमर्षणन्देवकृतः शुद्धवत्यस्तरत्समाः। कूष्माण्ड्यः पावमान्यश्च दुर्गासावित्यथैव च” मिताक्षरायां वशिष्ठस्मृः। स्वार्थे क। तत्रार्थे

कूष्माण्डवटिका = स्त्री कुष्माण्डखण्डमिश्रिता माषादि वटिका शा० त०। (कुम्डावडी) ख्याते पदार्थे “कूष्माण्डवटिका ज्ञेया पूर्व्वोक्तवटिकागुणा। विशेषात् रक्तपित्तघ्नी लर्घ्व च कथिता बुधैः” भावप्र०। पूर्व्वोक्तवटिका माषवटिका

कूष्माण्डी = स्त्री ईषदूष्माऽण्डेष्ठ्वस्याः गौरा० ङीष्। १ ओष- धिभेदे २ कर्कारौ ३ दुर्गायाञ्च हेमच०। दुर्गायाश्च कूष्माण्ड बलिप्रियत्वात्तथात्वम्। “कुष्माण्डी तु भृशं लघ्वी कर्कारुः परिकीर्त्तिता” भावप्र०। चऋग्विशेषे च

कूहा = स्त्री ईषत् ऊह्यतेऽत्र ऊह–वितर्के आधारे घञर्थे क। कुज्झटिकायाम् शब्दरत्ना०।

***