कुण्डक = पु० धृतराष्ट्रपुत्रभेदे। “कुण्डकश्चित्रसेनश्च सुवर्च्चाः कनकध्वजः” भा० आ० १८६ अ०, कुण्ड + स्वार्थे क। २ कुण्डार्थे,

कुण्डकीट = पु० कुण्डे योनिकुण्डे कीटैव विचारशून्यत्वात्। १ पतितब्राह्मणपुत्रे २ जारजातब्राह्मणपुत्रे ३ दासीकामुके ४ चार्ब्बाकवचनाभिज्ञे पुरुषे च मेदि०।

कुण्डगोलक = न० कुण्डे गोलं गोलाकारं कं जलमत्र। १ काञ्जिके हेमच०। स० द्वन्द्वः। २ कुण्डगोलकयोः समा हारे च।

कुण्डङ्ग = पु० कुण्डं तदाकारं गच्छति गम–बा० ख डिच्च। निकुञ्जिकावृक्षे हेम० तस्य लतादिनाऽपिधानेन कुण्डाकारत्वात्तथात्वम्

कुण्डज = पु० धृतराष्ट्रपुत्रभेदे “कुण्डजश्चित्रकश्चैव दुःशला च शताधिका” भा० आ० ६७ अ०।

कुण्डजठर = पु० कुण्डैव जठरमस्य। १ कुण्डाकारोदरे २ ऋ षिभेदे पु० “आत्रेयः कुण्डजठरोद्विजः कालघटस्तथा” भा० आ० ५३ अ०,

कुण्डधार = त्रि० कुण्डं कुण्डाकारं धारयति धारि–अण् उ प० स०। नागभेदे, “मणिमान् कुण्डधारश्च कर्कोटकधनञ्जयौ” भा० स० ९ अ०,

कुण्डपायिन् = पु० भूम्नि कुण्डेन कुण्डाकारचमसेन पिबन्ति सोमम् पा–णिनि। कुण्डेन सोमपायिषु सयजमान षोडशर्त्विक्साध्यसत्रभेदकारिषु

कुण्डपायिनामयन = न० ६ त० अलुक् स०। सत्रभेदे तदितिकर्त्तव्यतादिकम् आश्व० श्रौ० १२। २। ३–सूत्रादौ उक्तं यथा “कुण्डपायिनामयनम्” सू०। “एतन्नामकमिदं सत्रमधिकृतं वेदितव्यम्” वृ०। “मासन्दीक्षिता भवन्ति” सू०। “अयं मासशब्द एकान्नविंशतिरात्रे उपचरितः, एकान्नविंशतिरात्रादिकं सावनवद्भवतीत्यर्थः” वृ०। “ते मासि सोमं क्रीणन्ति” सू०। “अयमप्युपचार एव दीक्षाकाले। मास्यतीते दीक्षिताः सोमं क्रीणन्तीत्यर्थः” वृ०। “तेषां द्वादशोपसदो भवन्ति” सू०। “सात्रिकाणान्दीक्षाणामपवादो दीक्षाविधिः, तथा सात्रिकाणामुपसदामपवादोऽयमुपसद्विधिः” वृ०। “सोममुपनह्य प्रवर्ग्यपात्राण्युत्साद्योपनह्य वा मासमग्निहोत्रं जुह्वति” सू०। “उपत्सस्वतीतासु प्रवर्ग्य पात्राण्युत्साद्योपनह्य वा तानि तानि, ते एकं मासम् अग्निहोत्रं जुह्वति सायं प्रातः” वृ०। “प्रातरुपक्रमः सायमपवर्गः” सू० “प्रातःकालस्य प्रथमप्राप्तत्वात् उपसत्काले द्वादशाहेऽतीतेऽग्नि होत्रस्य प्रातरारम्भान्नैमित्तिकादग्निहोत्रात् कर्म्मात्तरमेतदिति न्यायविदां प्रसिद्धम्” वृ०। “मासं दर्शपूर्णमासाभ्यां यजन्ते” सू०। “अग्निहोत्रमासेऽतीते ततः अनन्तरमेकं मासं दर्शपूर्णमासाभ्यां यजन्ते” वृ०। “कृष्णपक्षेऽहरहः पौर्णमास्या, शुक्लपक्षेऽहरहरमावास्यया, मित्रावरुणयोरयने तथा दृष्टत्वात्” सू०। “एवमत्र सम्पादनीयम्–यथा कृष्णपक्षादौ पौर्णमास्याऽहः सम्भवति, तत्र दीक्षारम्भः कर्त्तव्य इति” वृ०। “मासं वैश्वदेवेन” सू०। “अहरहरनेन यष्टव्यम्। वैश्वानरपार्जन्या तु न भवति आरम्भार्थत्वात्तस्याः, स चारम्भःसत्रे न प्रसक्त इति” वृ०। “भासं वरुणप्रघामैः मासं शाकमेधैः एतैरहरहर्यजेरन्” मू० “एकाहेनापवृज्य प्रकृतेर्द्व्यहसमापनीयत्वाद्द्व्यहेन वा कुर्य्यात्। अध्वर्युप्रत्ययात्समापनमिति स्थितिः” वृ०। “मासं शुनासीरोषेण” मू०। “अनेनाप्यहरहरेव” वृ०। “यदहर्मासः पूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मोत्सादनादि वौपवसथिकं कर्म० कृत्वा श्वोभूते प्रसुनुयुः” सू०। “यस्मिन्नहनि मासः पूर्यते तस्मिन्नहनि शुनासीरीयेष्टिं समाप्य तदनन्तरं यदि पूर्वमेव प्रवर्ग्यपात्राण्युत्सादितानि तदाग्निप्रणयनाद्यौपवसथिकंकर्म कृत्वा सुत्यारम्भः” वृ०। “तद्धैक उपसद्भ्य एवानन्तरं कुर्वन्ति तथादृष्टत्वात् सौत्यान्मासानग्निहोत्रादीन् वदन्तः” सू०। “तदिदमग्निप्रणयनाद्यौपवसथिकं कर्म कुण्डपायिनामयने अग्निहोत्रादिमासेभ्यः कर्त्तव्यमित्युक्तम् तत्रैक आहुः तत्कर्माग्निहोत्रादिमासेभ्यः प्रागुपसद्भ्योऽनन्तरं कर्त्तव्यमिति। तत्र हेतुमाहुः प्रकृतौ तथादृष्टत्वादिति। न त्वग्निहोत्रादिमासेभ्य उपरिष्टात्, क्रियमार्णे वा औपवसथिके सुत्यानन्तरस्य विद्यमानत्वादिति। तथादृष्टत्वात्साधारणमिति, तत्परिहारार्थमग्निहोत्रादिमासान् सौत्यानिति। कथम्? अस्य सत्रस्य गवामयनप्रकृतिकत्वात्तस्य सांवत्सरिकत्वात् कुण्डपायिनामयने त्रिवृदादयः षण्मासा एकः पक्षः, अग्निहोत्रादयः षण्मासा अपरः पक्ष इति मन्यमानाः। एवं च उपसदाञ्च सुत्याञ्च सुत्ये औपवसथिकस्य कृतत्वान्न कश्चिद्धेतुदोष इति वदन्तोऽग्निहोत्रादिमासेभ्यः प्रागुपसद्भ्यः ऊर्ध्वमौपवसथिकं कुर्वन्ति। एतदुक्तम् भवति। अग्निहोत्रादिमासान् सुत्यानिति मन्यमानाः तेभ्यः पुरस्तादुपसद्भ्य ऊर्ध्वं औपवसथिकं कर्म केचित् कुर्वन्ति प्रकृतौ तथादृष्टत्वादिति। यदेतदग्निहोत्रादिमासान् सौत्यानिति वदन्ति तदनुपपन्नम्। कुतः? सोमयागस्वरूपत्वात् सुत्यानाम्’ अग्निहोत्रादीनां तु हविर्यज्ञस्वरूपत्वादसुत्यत्वमिति। यत्पुनरिदमुक्तं गवामयनप्रकृतिकत्वादग्निहोत्रादिमासैः पूर्वपक्षसिद्धिरिति। तदयुक्तम् सोमयागानामेव गवामयनप्रकृतिकत्वं पूर्वपक्षस्त्वमुत्तरपक्षस्त्वञ्चेति। अग्निहोत्रादयोऽस्मिन् सत्रे अप्राकृता आगन्तवः कर्मविशेषाः अतस्तेषान्तत्स्थानापन्नत्वमपि न स म्भवति। अतस्तेषां सुत्यत्वन्न सम्भवति। सुत्यत्वासम्भवे तथादृष्टत्वादित्यस्य हेतोः साधारण्यादसाधकत्वादित्यनेनाभिप्रायेणोक्तं भगवताचार्येण “तदनुपपन्नम् इति” वृ० “पश्वर्थंद्ध्यग्निप्रणयनन्तस्य च श्वःसुत्यानिमित्तम्” सू०। “परोक्तस्य हेतोरसाधकत्वमुक्त्वा स्वपक्षं समर्थयति। औपवसथेषु कर्मसु यः पशुभागः सः श्वःसुत्यानिमित्तमिति प्रत्यक्षं श्रूयते ‘अग्नीषोमाभ्यामिन्द्रो वृत्रमहंस्तावेनमब्रूताम्’ इत्यादिना। अतो वचनात् पशोः सुत्यानन्तर्यमेव स- म्पादनीयम्। तत्र यदग्निप्रणयनन्तत् सोमयागार्थमेब पशोरप्युपकरोति प्रसङ्गादिति पश्वर्थमित्युक्तम्। अतोऽग्निप्रणयनस्य पशोः श्वःसुत्यानन्तर्यमेव कर्त्तुं युक्तम्” वृ०। “अतिप्रणीतचर्यायां च वैगुण्यं दर्शपूर्णमासयोः तथाग्निहोत्रस्य” सू० “एवं तावदौपवसथिकस्य अग्निप्रणयनादेरग्निहोत्रादिमासेभ्य ऊर्द्ध्वमेव कर्त्तव्यतां प्रतिपाद्येदानीमग्निप्रणयनस्याग्निहोत्रादिमासेभ्यः पुरस्तात् क्रियायां दर्शपूर्णमासयोरग्निहोत्रस्य च वैगुण्यं भवतीति प्रतिपादयति। कुतः? इति चेत्, प्रकृतौ नैयमिकेऽतिप्रणीते उत्तरवेद्यान्तयोर्यागादिदर्शनात्। अतो वैगुण्यकरत्वादग्निप्रणयनन्तावत् पुरस्तान्न कर्त्तव्यमित्यस्य विशेषोऽन्येभ्य इत्युक्तम्” वृ०। “सदो हविर्धानान्याग्नीध्रीयाग्निषोमप्रणयनवसतीवरीग्रहणानि पश्वर्थानि भबन्ति सुत्यार्थान्येके” सू०। “एवंतावदौपवसथिकेषुयः, सःश्वःसुत्यानिमित्तत्वादग्निहोत्रादिमासेभ्य ऊर्ध्वं कर्त्तव्यैत्युक्तम्। अग्निप्रणयनञ्च सुत्यार्थत्वात् पशोरप्युपकारकत्वाच्च पुरस्तात् क्रियायाञ्चाग्निहोत्रादीनां वैगुण्यकरत्वात्तद्वदित्युक्तम्। इदानीं येषां श्वःसुत्यावचनं नास्ति श्रुत्यादिभिस्तु सुत्याङ्गभावोऽस्त्येव अङ्गभावश्च सन्निपत्योपकारद्वारेण, तेषां सुत्याकर्मणोद्देशादिसाधन इत्यकल्परूपाणां सदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तात् करणे किञ्चिददृष्टं दृष्टं वा प्रयोजनं नास्ति। तेषां पुरस्तात् करणे प्रमाणं च नास्ति, कुतः?” वृ०। “तत्कालाश्चैव तद्गुणाः” सू०। “यस्य प्रधानस्य यः कालः स एव कालस्तद्गुणानां प्रधानकाल एव अङ्गानां मुख्यकाल इत्यर्थः। तदेतन्न्यायविदां प्रसिद्ध्वम्। अत एव प्रसिद्धवदुपदिष्टवानाचार्यः ‘तत्कालाश्चैव तद्गुणाः, इति। एतदुक्तं भवति यस्मात् प्रधानकाला एव प्रधानगुणाः तस्मात् सदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तादक्रियैव। तत्कालाश्चैव तद्गुणा इति चशब्दोऽत्र पठितः प्रधानकाले च गुणाः कर्त्तव्या इत्यर्थः। सदआदीनाम्पश्वर्थतावचनम् अभ्युपगम्य सदआदोनि पश्वर्थानि वा भवन्तु, सुत्यार्थानि वा, सर्वथा तावदग्निहोत्रादिभ्यः पुरस्तात् क्रिया न स्यादित्ययमभिप्रायः। अङ्गानां प्रधानकालत्वमुक्त “तत्कालाश्चैव तद्गुणाः, इति। यानि पुनरङ्गानि ब्रधानकालाद्विप्रकृष्टानि, यथा ‘अग्निमारुतादूर्ध्वमनुयाजैश्वरन्ति” इति तेषां पश्वर्थता नास्ति सौमिकैः पदार्थैर्व्यवधानादिति। अतोऽनुयाजसदृशानि कर्मान्तराणि सोमा- ङ्गत्वेनैव विधीयन्त इति प्राप्ते उच्यते” वृ०। “सिद्धस्वभावानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः” सू०। “प्रकृतौ सिद्धस्वभावानां पदार्थानां विकृतौ पदार्थान्तरव्यवधानमात्रेण तेषामन्यत्वं न स्यात्। अनन्यत्वे च प्राकृतोषकारत्वेनाङ्गत्वमपि स्यात्। प्राकृतानां विकृतावुपकारद्वारेण हि पदार्थानां प्राप्तानानामनुपकारकत्वमित्ययुक्तं यदि परं व्यवधानादन्यत्वं भवति। अतो विप्रकृष्टकाला अपि पदार्थास्तद्गुणा एव भवन्ति, तद्ध्यनपगमादिति कर्मान्तरत्वपक्षे वाक्यभेदादिति प्रसज्येत। यथा पृष्ठ्याभिप्लवयोरिति व्यवधानादन्यत्वाभावे दृष्टान्तः। यथा पृष्ठ्यस्य वाभिप्लवस्य वान्यस्य वा सङ्घाते रूपविशेषस्य मध्ये यजमानमरणस्य निमित्तेन नैमित्तिकमहरन्तरमुपजायते तत्र तेन व्यवधानमस्ति, तथा पृष्ठ्यादिसङ्घातविशेषबुद्धिर्नापैति तद्वदत्रापीति। यस्माद्व्यवधानात् पदार्थान्यत्वं नास्ति, अत एवौपवसथिकस्याग्निहोत्रादिमासेभ्यः पुरस्तात् क्रियाशङ्कानिराकरणार्थमिदं प्रकरणमारब्धम्। कानिचिदङ्गानि तत्कालानि कानिचिद्विप्रकृष्टकालानीत्येवमुभयथा व्यवहारोऽस्ति। सर्वथा तावदग्रिहोत्रादिमासेभ्यः पुरस्तादौपवसथिकं न कर्त्तव्यमिति प्रकरणार्थः” वृ०। “सगुणानां ह्येव कर्मणामुद्धार उपजनो वा” सू० “अयमप्यग्निहोत्रादिमासेभ्यः उपरिष्टादौपवसथिकक्रियायां हेतुः। यस्मात् प्रधानकर्मणामुद्धारे उपजने–उत्कर्षे च सगुणानामेव सर्वत्रोद्धारादिर्दृष्टः यथा स्नानभोजनविहाराणामहरहः कार्याणाङ्कस्यचिदुद्धारे सगुणस्यैवोद्धारो दृष्टः, उत्कर्षे च सगुण एवोत्कृष्यते, एतेषां नित्यकार्याणामन्तराले अन्यन्नैमित्तिकमुपजायमानं सगुणमेवोपजायते, एवमत्रापि वैशेषिकैरग्निहोत्रादिभिरुत्कृष्यमाण, सौत्यं कर्म आत्मनो गुणभूतेन औपवसथिकेन सहोत्कृष्यते। हिशब्दः प्रसिद्धौ। यस्मात् सर्वत्र उद्धारोपजनोत्कर्षाः सगुणानामेव दृष्टाः तस्मादत्रापि सगुणस्य सौत्यस्य उत्कर्षो युक्त इति सूत्रार्थः” वृ०। “सुब्रह्मण्या त्वत्यन्तम्” सू०। “प्रासङ्गिकोऽयं सुब्रह्मण्याविचारः प्रकृतावुपसत्सुत्याकालत्वात्। सुब्रह्मण्यायाः अग्निहोत्रादिमासानाञ्च सुत्योपसदभावात् सुब्रह्मण्याया अभावशङ्का स्यात्, तत इदमुच्यते। सुब्रह्मण्याया अयं विशेषः। अत्यन्तं–नित्यं कर्त्तव्या, अग्निहोत्रादिमासेष्वपि अप्राकृतोऽयङ्काल इति नोत्स्रष्टव्या। अनवधृतेहकालसंशयत्वात्। प्रकृतावुपसत्सुत्याकाला सती सुब्रह्मण्या तकालविशेषविशिष्टाऽऽहूयते। इह पुनरप्राकृतत्वात्कालस्य तेनोपलक्षणं प्रकृत्या सुब्रह्मण्याया अयुक्तमिति मन्यमानेनानवधृता कालसङ्ख्याविशेषणाऽऽह्वातव्या। सुत्यामागच्छेति कालसंशयत्वादित्यस्यायमर्थः। प्रकृतौ द्वादशाहे सुत्यानीत्यादयःसङ्ख्याविशेषाः किमुपसदहःसङ्ख्याविशेषप्रयुक्ताः आहोस्वित्प्राक्सुत्याबन्त्यहानि। तत्र तदहःसङ्ख्याप्रयुक्ता इत्येवङ्कालसंशयत्वादित्यर्थः” वृ०। “उत्सर्गमेके सुत्योपसद्गुणत्वात्” सू०। “सुब्रह्मण्याया उत्सर्गमेके इच्छन्ति सुत्योपसद्गुणत्वात्। किमिदं सुत्योपसद्गुणत्वमिति? सुत्यानामेवायङ्गुणो नोपसदां क्रमाल्लिङ्गं बलीय इति। अतोऽयमुपसदाङ्गुण उपसत्कालवर्त्तित्वात् उपसद्गुणत्वोपचारः अग्निहोत्रादिमासानामसुत्यत्वात् उपसत्कालत्वात् सुव्रह्मण्योत्सर्गमेक आहुरित्यर्थः” वृ०। “क्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थाने दोषः” सू०। “अस्याः क्रियैव निश्चीयते सोमयागसाधनसंस्कारत्वात् मन्त्रस्य, प्रकृतौ सोमयागादूर्ध्वं यावत्सुत्याकालस्तावदाहूयते। तद्वदत्राप्याह्वातव्या। तावतःकालस्योपसत्स्वेवैतत्सम्बन्धादस्या उपसत्सम्बन्धः तदभावान्नास्यास्त्यागो युक्तः। अत्रायमपि विशेषोऽस्ति। औचित्यादपि न त्याज्या। आदितआरभ्य सर्वेष्वेवाहःस्वाह्वयन्ति कथमिदानीं नाह्वयन्ति। नूनमयं सोमोऽस्मभ्यन्न दास्यत इति देवतायाः शङ्का स्यात् तन्निवृत्त्यर्थमाह्वातव्या। प्रारब्धस्य मध्ये त्यागस्य कारणाभावात् त्यागे दोष एव स्यादित्यभिप्रायः। परवदर्थविचारोऽत्र स्वपदार्थपरिज्ञानार्थ एव। अतिप्रैषः श्वःसुत्यरूपोह्यत इति” वृ०। “त्रिवृता मास पञ्चदशेन मासम् सप्तदशेन मासम् एकविंशेन मासम् त्रिणवेन मासम् अष्टादशत्रयस्त्रिंशानि द्वादशाहस्य दशाहानि। महाव्रतञ्चातिरात्रश्च” सू०। “अत्र पृष्ठ्यस्य पञ्चभिरहोभिः पञ्च मासाः कर्त्तव्याः। षष्ठेनाष्टादशाहानि दशरात्रो महाव्रतमुदयनीयः। कृत्स्नोक्तत्वान्नात्र प्रायणीयः” वृ०। “सर्वेण यज्ञेन यजन्ते य एतदुपयन्ति” सू०। “स्तुतिवादोऽयं बहूनामत्र सम्भवादृत्विक्समासोऽनेन सूत्रकारेण न सूत्रितः। स कर्त्तव्यश्चेत् परप्रत्ययादेव कर्त्तव्यः” नारायणवृत्तिः कात्या० श्रौ० २४, ४, २, सूत्रादौ विशेष उक्तो यथा “कण्डपायिनामयनं पौर्णमासीदीक्षम्” सू०। कुण्डपाविनामयनमिति सत्रस्य संज्ञा तस्य पौर्णमास्यां दीक्षा भवति” कर्कः। “चतुर्य्यो वाऽपरपक्षस्य” सू०। इति वि- कल्पः फाल्गुनापरपक्षस्य वा चैत्र्यां पौर्णमास्यामिति” कर्कः “मासं दीक्षाः” सू०। “तस्य भवन्ति” कर्कः। “सोममुपनह्य सुत्यास्थानेषु मासमग्निहोत्रं जुह्वति” सू०। सोमोपनहनं कृत्वा यानि सुत्यास्थानानि तेष्वग्निहोत्रहोमः। अग्निहोत्रं च सायारम्भं प्रातरपवर्गम् तत्र द्वावपि होमौ कालैक्यात्तन्त्रेणोपक्रमितव्यौ। प्रधानस्य तु भेदः चतुर्गृहीतेनाग्नेयीं सायमाहुतिं हुत्वा पुनश्चतुर्गृहीतेन सौरीमाहुतिं जुहोति तन्त्रेणोत्तरां जुहोति। गार्हपत्यकार्य्यं तत्र प्रागभिहितेएव न शालाद्वार्थ्ये, ज्योतिष्टोमे हि तच्छ्रुतम् न चाग्निहोत्रं ज्योतिष्टोमः न च तदङ्गत्वमिति आहवनीयस्त्वतिप्रणीत एव” कर्कः “सोमबन्धनपूर्वकम् अत्राग्निहोत्रशब्दोनित्याग्निहोत्रधर्मातिदेशार्थः ततश्च तद्धर्मकं कर्मान्तरं मासपूर्तिपर्य्यन्तं प्रत्यहं भवति” सं० व्या०। “दर्शपूर्णमासाभ्यां मासम्” सू०। “नयेयुः” कर्कः। “पक्षादौ यद्यद्धविस्तत्सर्वस्मिन्” सू०। “पक्षस्यादौ प्रतिपदि यद्यद्धविस्तदेव सर्वस्मिन् पक्षे भवति सकले शुक्ले दर्शेष्टिः, सकले कृष्णे पौर्णमासेष्टिः” सं० व्या०। “सारस्वते च प्रथमे” सू०। “एवमेव” कर्कः “तन्त्रेण वा समस्तचोदितत्वात्” सू०। “वाशब्दः पक्षव्यावृत्तौ तन्त्रेणैव दर्शपूर्णमासौ कर्त्तव्यौ समस्तयोर्हि चोदना “दर्शपौर्ण्णमासाभ्यां मासमिति” नह्यत्र कालभेदकः तस्मादग्निहोत्रवदत्रापि तन्त्रमेव” कर्कः “नदर्शपौर्णमासस्य पक्षभेदेनानुष्ठानम् किं तर्हि तन्त्रेण कर्तव्यौ” कुतः? समस्त चोदितत्वात् समस्तयोरेव दर्शपौर्ण्णमासयोः प्रत्यहं मास पर्यन्तं विहितत्वात् सारस्वते तु पक्षभेदेनैव, तत्र तथैव विधानात्” सं० व्या०। ‘अग्निहोत्रं च” सू०। “अस्य सूत्रस्य पूर्वमेवाभिहितो न्यायः” कर्कः तन्त्रेण न तु नित्याग्निहोत्रवत्सायम्प्रातः पृथक्पृथगिति अतो दिवसे एव सायम्प्रातस्तनमग्निहोत्रं तन्त्रेणैव होतव्यम् एककालत्वादङ्गानि तन्त्रेण प्रधानाहुतयस्तु भिन्नाः” सं० व्या०। “पृथङ्मासाश्चातुर्मास्यपर्वभिः” सू० “नीयन्वे वैश्वदेवेन मासम्” “वरुणप्रघासैर्मासम् साकमेधैर्मासम् शुनासीरीयेण मासमिति ताण्ड्य० श्रुतेः” कर्कः। “पृथक् पृथक्चत्वारो मासा नेयाः” सं० व्या०। “साकमेधा दर्शपूर्णमासवत्” सू०। “तन्त्रेणेत्युक्तो न्यायः” कर्कः। “सोमा वा सामान्वात्” सू०। “एते अग्निहोत्रादयः सोमा वा भवन्ति कुतः सामान्यात् सत्रं हि सोमयागैः पूरणीयम्” सं० व्या०। “न जुहोतिशब्दात्” सू०। “नैतदेवम् सोमा इति कुतः? एतत्? जुहोतिशब्दात् “मासमग्निहोत्रं जुहोतीति” जु होतिशब्दोऽत्र भवति न चासौ सोमयागेषु प्रसिद्धः तस्मान्न सोमा इति” सं० व्या०। “काममितरे” सू०। “इतरे तर्हि दर्शपूर्णमासादयो भवन्तु सोमाः न हि तत्र जुहोतिशब्द इति नेत्युच्यते दर्शपूर्णमासादयः शब्दा निरुपपदा एव दर्शपौर्ण्णमासादोन् सोमान् प्रत्थाययन्ति सोमोपपदाः निरुपपदाश्चैते मासं दर्शपौर्ण्णमासाभ्यामिति तस्माद्दर्शपौर्ण्णमासादयोऽपि न सोमा एते” सं० व्या०। दर्शपीर्ण्णमासादयः कामं सोमा भवन्तु यतस्तत्र जुहोतिशब्दोनास्ति परमार्थतस्तु तेऽप्यत्र सोमा न भवन्ति यतो दर्शपूर्णमासादयः शब्दा निरुपपदा अत्र श्रूयन्ते न चातुर्मास्यसोमा दर्शपूर्णमाससोमा इत्येवं सोमोपपदाः अतस्तेऽपि न सोमा इति सिद्धान्तः। एवं षण्मासाः परिपूर्णाः मासश्चात्र सर्वत्र सावनस्त्रिंशद्दिनात्मकः अथोत्तरेषु षट्सु मासेष्वहान्याह” कर्कः। “दृतिवातवतोरयनपूर्वपक्षेण षण्मासान्” सू०। “दृतिवातवतोरयनस्य पूर्व्वपूर्व्वपक्षेण षण्मासान् नयेयुः। तत्र विशेषमाह” कर्कः “उत्तमे त्रयोऽभिप्लवा दशरात्रो महाव्रतम्” सू०। “उत्तमे द्वादशे मासे एतान्यहानि भवन्ति” सं० व्या०। “उपरिष्टादतिरात्रं भवति” सू०। “अनुग्रहश्रुतेः यदन्यतरतोऽतिरात्रस्तेनाहीन इति” देव० “अन्ते एक उदयनीयातिरात्र एव भवति न प्रायणीय इत्यर्थः” कर्कः। “उभयतो वा” सू० “अतिरात्रो भवति सत्रत्वात् अनुग्रहश्रुतिस्तु अहीनत्वेन संस्तौति तत्कथम्? हविर्यज्ञैर्व्यवहितत्वात्” देव० “अथवोभयतोऽतिरात्रं भवति प्रायणीयश्चोदयनीयश्चात्र द्वावपि भवत इत्यर्थः” सं० व्या०। “हविर्यज्ञेभ्योऽतिरात्रमेके सोमानन्तर्यात्” स० हविर्यज्ञेभ्योऽवसितेभ्यः एके प्रायणीयमतिरात्रमिच्छन्ति एवं सोमानन्तर्यं भवतिए के तन्नेच्छन्ति अग्नीषोमीयोत्तरकालता हि तस्य प्रकृतौ दृष्टा इहापि तद्वदेव तस्मात् प्रागेव हविर्यज्ञेभ्यः प्रायणीयः” कर्कः उभयतोऽतिरात्रपक्षे प्रायणीयमतिरात्रमेके आचार्याः” हविर्यज्ञे भ्योऽग्निहोत्रदर्शपूर्णमासचातुर्मास्यपर्वभ्यः परं कुर्वन्ति एवं हि सर्व्वेषां सोमयागानामानन्तर्यमव्यवधानं कृतं भवति इतरथा हविर्वज्ञैर्व्यवधानं स्यात् एके एतन्न वाञ्छन्ति यतः प्रकृतौ प्रायणीयस्याग्नीषोमीयोत्तरकालता दृष्टा इहापि च तद्वदेवानुष्ठानं युक्तम् तस्माद्धविर्यज्ञेभ्यः पूर्व एव प्रायणीयो भवति। अन्येभ्यः सत्रेभ्योऽत्र विशेषमाह” सं० व्या०। “अत्सरुकाः कुण्डप्रतिरूपाश्चमसाः” सू०। अत्सरुकाः अवृन्तका कुण्डप्रतिरूपाः वृत्ताकाराः कर्कः। “अत्र अत्सरुका अवृन्ता मूलज्ञापकचिह्नदण्डरहिताः कुण्डप्रतिरूपाः कुण्डाकारा वृत्ताश्च भवन्ति” सं० व्या०। “पञ्चर्त्विजस्त्रीणि त्रीणि कर्माणि कुर्युः” सू०। “अत्र कुण्डपायिनामयने वक्ष्यमाणाः पञ्चर्त्विजस्त्रीणित्रीणि कर्म्माणि कुर्वन्ति त्रयाणांत्रयाणामृत्विजां कर्माणि एकैकः करोति” स० व्या० “होताध्वर्यवपोत्रीये च” सू०। “चशब्दाद्धौत्रं च” कर्कः। “उद्गाता नैष्ट्राच्छावाकीये” सू०। “मैत्रावरुणो ब्रह्मत्वप्रातिहर्त्रे”। “प्रस्तोता ब्राह्मणाच्छंसिग्रावस्तोत्रोये” सू०। “सर्वत्र प्रथमान्तः कर्ता” सं० व्या० “प्रतिप्रस्थाताग्नीध्रौन्नेत्रे” सू०। “चकारःस र्वत्रानुवर्त्तते” कर्कः। “मुख्यासनेभ्योऽनुसंसर्पमितराणि” सू०। “आसनशब्दः स्थानवाची मुख्यस्थानेभ्यः अनु सृप्त्वा–सृप्त्वा परकीयाणि कर्माणि कुर्युः स्वकर्मकर्त्तृकस्य चरितार्थत्वात्” कर्कः।

कुण्डपायिनामयनन्याय = पु० जैमिन्युक्ते कुण्डपायिनामयननामकसन्नेऽग्निहोत्रपदस्य प्रकृताग्निहोत्रात् कर्म्मान्त रत्वप्रतिपादके न्यायभेदे स च न्यायो जै० सू० दर्शितोयथा “प्रकरणान्तरे प्रयीजनान्यत्वम्” जै० सू०। “कुण्डपायिनामयने श्रूयते–सायम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजते” इत्येवमादि। तत्र सन्दिह्यते,–किं नियते अग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो विधीयते कालः? अथ किं नियताग्निहोत्रात् नियताभ्याञ्च दर्शपूर्णमासाभ्यां कर्मान्तरविधानम्?–इति। किं तावत् प्राप्तं?–नियतेषु कालविधिः इति कुतः? कालविधिसरूप एष शब्दोमासमिति। कथं कालविधिसरूपता?। यत् अग्निहोत्रंजुहोति–इति विदितं, मासमित्यविदितम्। एवं च अग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च न अर्थान्तरवृत्तीभविष्यतः तस्मात् कालविधिः। ननु कुण्डपायिनामयनप्रकरणं बाध्येतैवम्’। कामं बाध्यतां, वाक्यं हि बलवत्तरम्। एवं प्राप्ते ब्रूमः,–प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे तस्य वाचकं भवितुमर्हति। ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च गुणविधिः। न,–इत्युच्यते। कथम्?। उपसद्भिश्चरित्वेति ह्युक्त्वा इदमभिधीयते, न च, उपसदोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च सन्ति। तस्मात् अशक्यः तत्र मासविधिः ‘अथ उच्येत,–उपसदोऽपि विधीयन्ते’–इति। तथा गुणबिधानार्थेऽस्मिन् वाक्ये अनेकगुणविधानात् वाक्यम् भिद्येत! अस्मिन् पक्षे पुनरतन्त्रम् अग्निहोत्रशब्दो न कर्म विशेक्ष्यति तेन वाक्यमेदो न भविष्यति। तस्मात् कर्मालरम् इति सिद्धम्” भाव्यम्। तत्त्ववोधिन्यां विवृतमेतत् यथा “उपसद्भिश्चरित्वा मासमग्निहीत्रं जुहोति दर्शपौर्ण्णमासाभ्यां मासं यजेतेति” श्रूयते। उपसदश्च ज्योतिष्टोमयागे दीक्षादिवसादूर्द्ध्वं सोमाभिषवदिवसात् पूर्ब्बकर्त्तव्या होमविशेषा इति माधवाचार्य्यप्रभृतियाज्ञिकमीमांसकाः तत्परिपाटी च(डावका) इत्यस्मद्देशप्रसिद्धजलपात्रसदृशाकारकम्बुग्रीवादिवदनेकरेखाविशिष्टाग्रभागमहावीराख्यपात्रबिशेषः तत्संस्थानं यथा तस्मिन् पात्रे यवागूसहितं दधि कृत्वा संदंशाकारकाष्ठद्वयेन तस्य ग्रीवां धृत्वा दक्षिणावर्त्तेन परावृत्य एकवारं तत्र स्थितं प्रतप्तं यवागूदधि जुहोति वामावर्त्तेनापरवारमिति वारद्वयहोमेनैकोपसषद्भवतीति याज्ञिकप्रसिद्धिः। उपसद्भिरित्यभेदे तृतीयाश्वमेधेनेत्यादिवत् तथाच उपसद्यागाचरणं कृत्वेत्यर्थः एतेन “उपसत्कथ्यते त्वत्र सतिलैर्व्रीहिभिश्चरुरिति मीमांसानभिज्ञस्य कल्पनं निरस्तं मीमांसासन्निबन्ध्रा केनापि तथानभिधानात्। अत्र “यावज्जीवमग्निहोत्र जुहोतीति” श्रुतिप्राप्ताग्निहोत्रमनूद्य उपसदानन्तर्य्यं माससाध्यत्वञ्चेति गुणद्वयं विधीयते किं वा विशिष्टकर्म्मान्तरमिति संशंये नायं कर्म्मान्तरविधि र्गौरवात् किन्तु कॢप्ताग्निहोत्रे गुणद्वयविधिर्लाघवात् नच प्रकरणान्तरपठितत्वेनाग्निहोत्रपदानुकॢप्तस्योपस्थितिरिति वाच्यम् अग्निहोत्रशब्दस्य तत्रैव शक्तेर्नानार्थत्वाभावाच्च प्रकरणान्तरेऽशुम्पस्थितिसम्भवात् न च कथं त्रष्टैवाग्निहोत्रपदशक्तिः कौण्डपायिनामयनेऽपि तच्छक्ति सम्भवादि ते वाच्यं “यावज्जीवमग्निहोत्रं जुहोतीति” श्रुत्युक्ताग्निहोत्रस्य “यदग्नये च प्रजापतये च सायं प्रातर्जुहोतीति” श्रत्या देवताकाङ्क्षानिरासेनाग्निहोत्रपदस्य यागनामपरत्वेन तत्र रूढत्यात् इह तु देवताकाङ्क्षानिरासार्थम् अग्नेर्हीत्रमिति व्युत्पत्तिकल्पनेनाग्निदेवता कत्वरूपोपाधिहोत्रगुणयोगाद्गौणत्वस्वापि ज्ञापितत्वात् नानाशक्तिकल्पने गौरवादिति प्राप्रे उच्यते प्राप्ते कर्म्मणि गुणद्वयविधाने वाक्यभेदापत्तेः तथाहि किं मास एव विधीयते उतौपसद्भिश्चरित्वेति उपसदपि, नाद्यः नित्याग्निहोत्रे उपसदोऽसत्त्वेन तस्यापि विधातव्यत्वादित्युभयगुणविधौ वाक्यभेदापत्तेः प्रधानानुवादेन गुण- पकारकाङ्गतया एकगुणविधानेनाकाङ्क्षानिवृत्तौ विधेयान्तरं प्रति आकाङ्क्षामुत्थाय्य वाक्यान्तरकल्पनेनाग्निहोत्रं मासं कुर्य्यान् अग्निहोत्रमुपसदनन्तरं कुर्य्यादिति विधिद्वये पर्य्यवसानात् अपूर्ब्बद्वयं विधेयं स्यात् तत्र प्रत्येकगुणानुष्ठाने प्रत्येकमपूर्ब्बमित्यपूर्ब्बद्वयं मिलितानुष्ठाने च प्रत्येकजन्यापूर्व्वद्वयम् उभाभ्यां विलक्षणमपूर्व्वं वा जन्यत इति गौरवं विशिष्टैककर्म्मविधाने गुणानां प्रधानस्वरूपनिर्ब्बाहकाङ्गतया साङ्गप्रधानजन्यमेकमेवापूर्ब्बंविधेयं स्वादित्यपूर्बैक्यादेकविधिः। अतएवोक्तं “प्राप्तेकर्म्मणि नानेकोविधातुं शक्यते गुणः। अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः”। विध्यन्तरप्राप्ते प्रधाने अनेकगुणोविधातुं न शक्यते वाक्यभेदापत्तेरिति शेषः अप्राप्ते तु प्रधाने बहवोऽपि गुणा एकयत्नत एकवाक्यात् विधीयन्ते नानागुणविशिष्टैकप्रधानविधिसम्भवेनापूर्बैक्यादित्यर्थः। नचैकगुणविविष्टापरगुणोविधेयः यथाग्निहोत्रमुपसदनन्तरंमासंकुर्य्यादिति न वाक्यभेद इति वाच्यम् गुणानां परस्परं विशेषणविशिष्यभावेनान्वयवोधे निराकाङ्क्षत्वात् तथाच जैमिनिसूत्रं “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्”। गुणानां विशेषणानां अङ्गानाञ्च परस्परमसम्भन्धः विशेष्यविशेषणभावेन नान्वयः परार्थत्वात् द्वयोरपि विशेष्यान्वयित्वात् तथासत्येव कथं नान्वयस्तत्राह समत्वात् द्वयोरेव परसाकाङ्क्षतया तुल्यरूपत्वात् न परस्परं गुणप्रधानभावः। यत्तु परस्परवैशिष्ट्येन गुणद्वयैकविधित्वे विनिगमकाभावादुभयोरपि विशेष्यत्वेन विशेषणत्वेन च विधेयत्वेन वाक्यभेदे इति, तन्न विनिगमकाभावेन वाक्यस्य द्वैविध्येऽपि नापूर्ब्बभेदकल्पना किन्तु कारणतावच्छेदकभेदेन कारणभेदमात्रम् अन्यथा ईदृशवाक्यभेदस्य विशिष्टैकप्रधानविधिपक्षेऽपि सम्भवात्। किमुपसदानन्तर्य्यविशिष्टे माससाध्यत्ववैशिष्ट्यं माससाध्यत्वविशिष्टे वा उपसदानन्तर्यवैशिष्ट्यमिति विनिगमकाभावात्। नचैकत्र द्वयमिति न्यायेन विशेष्ये युगप द्विशेषणद्वयमिति वाच्यं वेदे विशिष्टवैशिष्ट्यबोधस्यौत्सर्गिकत्वात्। किञ्च विशेष्यविशेषण भावस्य द्वैविध्येऽपि बिशिष्टस्यानतिरिक्ततया कारणैक्यात् कार्य्यैक्याच्च न कार्य्यकारणभावमैदोऽपि एकाङ्गापूर्वं प्रत्येव परस्परसापेक्षतया उभयोर्हेतुत्वादिति वाक्यार्थैक्यान्नोक्तिभेदरूपवाक्यभेदोदोषाय कारणतावच्छेदकगौर- तथाचैतादृशलाघववृंहितकौण्डपायिनामयनप्रकरणपाठ एव कर्म्मा तरत्वे प्रमाणं तथाच सिद्धान्तसूत्रम् “प्रकरणान्यत्वे प्रयोजनान्यत्वमिति” अतएव प्रकरणाद्वाक्यस्य बलीयस्त्वात् शक्त्या नित्याग्निहोत्रस्योपस्थित्या गुणविधिरित्यपि निरस्तं तस्योक्तगौरवपराहतत्वात्। एवञ्च गौण्याग्निहोत्रपदप्रयोगस्तद्धर्म्मातिदेशार्थः अतएव “देवश्राद्धादौ श्राद्धशब्दोगौणस्तद्धर्म्मप्राप्त्यर्थः कौण्डपायिनामयन इवाग्निहोत्रशब्द इति” श्राद्धविवेकः।

कुण्डपाय्य = पु० कुण्डेन कुण्डाकारेण चमसेन पीयते सोमोऽत्र आधारे यत्–पा० युगागमश्च। कुण्डपायिनामयमयननामके सत्रभेदे “यस्ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः” ऋ० ८, १७, १३

कुण्डभेदिन् = पु० धृतराष्ट्रपुत्रभेदे, “अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः” भा० आ० ६७ अ०

कुण्डल = पुंन० अर्द्धर्चा०। कुण्डते कुण्डयते कुडि–दाहे कुडिरक्षायां वा कर्त्तरि कर्म्मणि वा वृषा० कलच्, कुण्डं कुण्डाकारं लाति ला–क कुण्डस्तदाकारोऽस्त्यस्य सिध्मादित्वाल्लच् वा। १ कर्ण्णभूषणभेदे “कनककुण्डलवान् किरिटी” विष्णुध्या० २ बलये ३ वेष्टने मेदि० “मण्डलानि पताकाश्च मरीचीः कुण्डलानि च” सुश्रु० “अथैतान्युपकल्पयीत समावर्त्त्यमाने मणिकुण्डले वस्त्रयुगमित्यादि” आश्व० गृ० कुण्डले आबध्नीत” तत्रैव” ते च सौवर्ण्णे एव यथाह मनुः “यज्ञोपवीतं वेदञ्च उभे रौक्मे च कुण्डले” “ताडकाचलकपालकुण्डला” रघुः

कुण्डलना = स्त्री कुण्डलं वेष्टनं करोति कुण्डल + णिच्–भावे युच्। वेष्टनकरणे (वेडा देओया) “फणिभाषितभाष्यफक्किका विषमां कुण्डलमामवापिता” नैष०।

कुण्डलिका = स्त्री मात्रावृत्तभेदे तल्लक्षणं यथा “कुण्डलिका सा कथ्यते प्रथमं दोहा यत्र। वोलाचरणचतुष्टयं प्रभवति विमलं तत्र। प्रभवति विमल तत्र पदमतिसुललितयमकम्। अष्टपदी सा भवति विमलकविकौशलगमकम्। अष्टपदी सा भवति सुखितपलितमण्डलिका कुण्डलिनायकभणिता विबुधकर्णे कुण्डलिकेति”

कुण्डलिन् = पुंस्त्री कुण्डलं पाशाकारं वेष्टनं वा स्त्यस्य इनि। १ सर्पे स्त्रियां ङीप् २ वरुणे तस्य पाशास्त्रवत्त्वात् तथात्वम्। ३ मयूरे पुंस्त्री मेदि० ४ चित्रमृगे ५ वेष्टनयुक्ते त्रि० स्त्रियां ङीष्। सा च (जिलेपी) इतिख्याते पक्वान्नभेदे भावप्र० तत्पाकप्रकारो दर्शितो यथा “नूतनं घटमानीयं तस्यान्तः कुशलोजनः। प्रस्थार्द्ध्वपरि माणेन दध्नाऽम्लेन प्रलेपयेत्। द्विप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम्। वृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपेत्। आतपे स्थापयेत्तावद्यावद्याति तदम्लताम्। ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत्। परिभ्राम्य परिभ्राम्प तत् सन्तप्ते घृते क्षिपेत्। पुनः पुनस्तदावृत्त्या विदध्यान्मण्डलाकृतिम्। तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्रये। कर्पूरादितुगन्धेन स्नपयित्वोद्धरेत्ततः। एषा कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा। धातुवृद्धिकरी वृष्या रुच्या च क्षिप्रतर्पणी”। तन्त्रसारप्रसिद्धे मूलाधारस्थिते षट्चक्रमध्यवर्त्तिस्थे देवीभेदे यथा “ध्यायेत् कुण्डलिनीं सूक्ष्मां मूलाधार निवासिनीम्। तामिष्टदेवतारूपां सार्द्धत्रिबलयान्विताम्। कोटिसौदामनीभासां स्वयम्भूलिङ्गवेष्टिनीम्। तामुत्थाप्य महादेवीं प्राणमन्त्रेण साधकः। उद्यद्दिनकरोद्द्योतां यावच्छ्वासं दृढासनः। अशेषाशुभशान्त्यर्थं समाहितमनाश्चिरम्। तत्प्रभापटलव्याप्तं शरीरमपि चिन्तयेत्” इति

कुण्डशायिन् = पु० धृतराष्ट्रनृपपुत्रभेदे “अपराजितः कुण्ड शायी विशालाक्षो दृढाधरः” भा० आ० १७ अ०

कुण्डाशिन् = पु० धृतराष्ट्रनृपपुत्रभेदे। “कुण्डाशी विरजाश्चैव दुःशला च शताधिका” भा० आ० ११७ अ०। “अमृते जारजः कुण्डोमृते भर्त्तरि गोलकः। यस्तयो रन्नमश्नाति स कुण्डाशीति कय्यते” देवलोक्ते २ कुण्डगोल कयोरन्नभक्षके त्रि० स्त्रियां ङीप् “अगारदाही गरदः कुण्डाशी सोमविक्रयी” मनुः “अव्रती वृपलीभर्ता कुण्डाशी सोमविक्रयी” भा० आनु० १४३ अ०

कुण्डिक = पु० कौरवे राजभेदे। “धृतराष्ट्रोऽथ राजासीत् तस्य पुत्रोऽथ कुण्डिकः। हस्तीवितर्कः कुण्डाक्षः कुण्डिनश्चापि पञ्चमः” भा० आ० ९४” अयञ्च धृतराष्ट्रः दुर्योबनपितुर्भिन्नः कुरुवंश्यः तत्रैव विस्तरः।

कुण्डिका = स्त्री कुडि–ण्वुल्। १ कमण्डलौ हेमच०। २ पिठरे (कु~डि) शब्दच०।

कुण्डिन् = त्रि० कुडि–णिनि–कुण्ड + अस्त्यर्थे इनिर्वा। १ कुण्डयुक्ते स्त्रियां ङीप् “रावणस्तु यतिर्भूत्वा मुण्डःकुण्डी त्रिदण्डधृक्” भा० व० २७७ अ० “दण्डी छत्री च कुण्डी च द्विजानां घारणस्तथा” भा० व० १४ अ० इत्युक्ते २ शिवे पु० “रत्नभाण्डभेदे स्त्री “सन्ति निष्कसह- स्राणि कुण्डिन्यो भरिताः शुभाः” भा० स० ५९ अ०” कुण्डिन्यः पात्रभेदाः “भाण्डिन्य इति वा पाठः” नीलक०। कुण्डिन इति पाठस्तु प्रामादिकः

कुण्डिन = पु० कुरुवंस्ये नृपभेदे। १ कुण्डिकशब्दे उदा० २ भोजदेशस्थे पुरभेदे न० “कुण्डिने पुण्डरीकाक्ष! भोजपुत्रस्य शासनात्” हरिवं० १०४ अ० तच्च दक्षिणदेशस्थम्। “राजर्षेर्यादवस्यासीद्विदर्भो नाम वै सुतः। विन्ध्यस्य दक्षिणे पार्श्वे विदर्भां यो न्यवेशयत्। क्रथकौशिकमुख्याश्च पुत्त्रास्तस्य महात्मनः। बभूवुर्वीर्य्यसम्पन्नाः पृथग्वंशकरा नृपाः। तस्यान्ववाये भीमस्य जज्ञिरे वृष्णयो नृष!। क्रथस्य त्वंशुमान् वंशे कैशिकस्य तु भीष्मकः। हिरण्यरोमेत्याहुर्यं दाक्षिणात्येश्वरं जनाः। अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽन्वशान्नृपः”। “विलासिनः कुण्डिनमण्डनायितम्” नैष०। “तस्माद पावर्तत कुण्डिनेश्वरः” रघुः ३ ऋषिभेदे पु०। तस्य गोत्रापत्यम् गर्गा० यञ्। कौण्डिन्य तद्गोत्रापत्ये पुंस्त्री “ब्राह्मणेभ्यो दधि दीयतां कौण्डिन्याय तक्रम्। बहुषु तस्य लुक्। कुण्डिनास्तद्गोत्रापत्येषु भूम्नि। “कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति” आश्व० श्रौ० १२, १५, २,

कुण्डीर = पुं कुडि–ईरन्। १ मनुष्ये २ वलवति त्रि० धरणी।

कुण्डृणाची = स्त्री कुटिलगतौ। “पताति कुण्डृणाच्या” ऋ० १। २९। ६० “कुण्डृणाच्या–वक्रया गत्या” भा०।

कुण्डोद = पु० भारतप्रसिद्धे पर्ब्बतभेदे “कुण्डोदःपर्ब्बतोरम्यो बहुमूलफलोदकः नैषधस्तृषितोयत्र जलं शर्म्म च लब्धवान्” भा० व० ८७ अ०।

कुण्डोदर = पु० कुण्ड इव उदरमस्य। १ नागभेदे। कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ” भा० आ० ३५ अ०। २ अप्रशस्तोदरयुक्ते त्रि०। ततःक्षेपे “उदराश्वेषु” पा० परेषु पूर्व्वमन्तोदात्तम्।

कुत = आस्तरणे सौ० प० सक० सेट्। कोतति अकोतीत्। चुकोत।

कुतनु = पुं कुत्सिता तनुरस्य। १ कुवेरे त्रिका० कुवेरशब्दे विवृतिः २ कुत्सितदेहान्विते त्रि०। कुगतिस०। ३ कुत्सितदेहे स्त्री।

कुतन्त्री = स्त्री कुगतिस०। कुत्सितायां वीणायाम्। सेव। ३क्षुद्रदण्डे स्त्री। “स ददर्श श्वमांसस्य कुतन्त्रीं विततां मुनिः” (विश्वामित्रः) भा० शा० १४ अ० “कुतन्त्रीं दण्डिकाम्” नीलकण्ठः।

कुतप = पु० कुत्सितं पापं तपति कुं भूमिं तपति–तप–अच् कुतकपन् वा। १ सूर्य्ये २ वह्नौ ३ अतिथौ ४ गवि ५ भागिनेये ६ द्विजातौ च ७ दौहित्रे ८ वाद्यभेदे ९ नेपालकम्बले १० कुशतृणे च न० मेदि०। पञ्चदशधा विभक्तदिनस्याष्टमे ११ भागे अमरः अर्द्धर्चादि “मध्याह्नः खड्गपात्रञ्च तथा नेपालकम्बलम्। रौप्य दर्भास्त्रिलाः शाकं दौहित्रश्चाष्टमः स्मृतः” इति स्मृत्युक्तेषु अष्टसु पदार्थेषु। “कुत्सितं पापमित्याहुस्त्रस्य सन्तापकारिणः। अष्टावेतेयस्तस्मात् कुतपा इति विश्रुताः” इति स्मृत्युक्तेस्तेषां तथात्वम्। अह्नोमुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा। तत्राष्टमो मुहूर्त्तोशः स कालः कुतपःस्मृतः” स्मृतिः। स च एकोद्द्विष्टश्राद्धारम्भकालः “कुतपप्रथमे भागे एकोदिष्टमुपक्रमेत्। आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्” कालमा० व्यासोक्तेः। “आवर्त्तनं पश्चिमदिगवस्थितच्छायायाः पूर्व्वपदिग्गतिकालः कुतपशेषपदण्ड इत्यर्थः” रघु०। “आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः। विधिज्ञो विधिमास्थाय रीहिणं तु न लङ्घयेत्” गौतमः। “दिवसस्याष्टमे भागे सन्दीभवति भास्करः। स कालः कुतपोज्ञेयः पितॄणां दत्तमक्षयम्” मत्० पु० “त्रीणि श्राद्धे प्रशस्यन्ते दौहित्रः कुतपस्तिलाः” मनूक्तौ दौहित्रतिलानां पृथङ्मिर्द्देशातुक्तकालपरता। तथाच तत्रैव मुख्यत्वम् दौहित्रादौ परिभाषिकत्वमिति विवेकः। ज्योत्स्नादि० चतुरर्थ्याम् अण्। कौतप तन्निर्वृत्तादौ त्रि०।

कुतस् = अव्य० कस्मात् किम् + तसिल् किमः कुः। १ कस्मादि तिहेतुविषये १ प्रश्ने २ निह्नवे च विश्वः। ३ आक्षेपविषये हेतौ “मदमूढवृद्धिषु विवेकिता कुतः?” माघः “कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्” गीता। “कुतस्तु खलु भोम्यैवं स्यात् कथमसतः सज्जायेत” श्रुतिः। ततः आक्षे पतिशयार्थे तरप् तमप् वा आमु० च० कुतस्तराम् कुतस्तमाम् आक्षेपविषयहेत्वतिशये अव्य० ततोभवार्थे त्यप्। कुतस्त्य कुतोभवे त्रि०। “कुतस्त्यं भीरु! यत्तेभ्यो द्रुह्यद्भ्योऽपि क्षमामहे” भट्टिः।

कुतुक = न० कुत बा० उकङ्। १ कौतूहले फलनिरपेक्षतया कर्त्तुमौत्सुक्ये अमरः। “क्रमविगलितपुच्छैरभिमतमास्तां बधेन किं शिखिनः। कुतुकिनि! पुनर्न लाभो विषधरविषमं वनं भविता” उद्भटः। ततो युवा० स्वार्थे अण्। कौतुक कौतूहले न०।

कुतुप = पुं न० कुतस + पृषो०। १ पञ्चदशधा विभक्तदिवसस्याष्टमांशे शब्दरत्ना०। हृस्वा कुतूः डुपच्। (छोटकुपा) चर्म्म मये ह्रस्वे २ स्नेहपात्रे पु० अमरः।

कुतुम्बुरु = न० कुगतिस०। कुत्सिततिन्दुकीफले शब्दचि०

कुतू = स्त्री कुत–बा० कू। चर्म्ममय स्नेहपात्रे (कुपो) अमरः

कुतू(कू)णक = पु० “कुतू(कू)णकः क्षीरदोषाच्छिशूनामेव वर्त्मनि। जायते तेन तन्नेत्रं कण्डूरं च स्रवेन्महुः। शिशुः कुर्य्याल्ललाक्षिकूटनासावघर्षणम्। शक्तो नार्कप्रभां द्रष्टुं न वर्त्मोन्मीलनक्षमः” इति माधवनिदानोक्ते बालानां नेत्रवर्त्मरोगभेदे (कुतुया)

कुतूहल = न० कुतूं चर्म्ममयं स्नेहपात्रमिव हृदयं हलति हल–अच्। अपूर्ब्बवस्तुदिदृक्षातिशयजन्ये चेष्टाभेदे फलनिरपेक्षतया चिकीर्षिते १ कौतुके अमरः “प्रियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मनागभूत्” नैष०। “कुतूहलाच्चारुशिलोपवेशम्” भट्टिः। “अथस्ति मे शकुन्तलादर्शनं प्रति कुतूहलम्” शकु० २ प्रशस्ते ३ अद्भुते च त्रि० हेमच०। “रम्यवस्तुसमालोके लोलता स्यात् कुतूहलम्” सा० ट० उक्ते ४ नायकयोर्भावभेदे न०। तारका० इतच्। कुतूहलित जातकौतुके त्रि०। स्वार्थे युवा० अण्। कौतूहल कौतुके न० अमरः।

कुतृण = न०। कुगतिस०। (पाना) कुम्भ्याम् शब्दर०।

कुतोनिमित्त = त्रि० कुतः किं निमित्तं यस्य किम् + प्रथमार्थे तसिल् ब० व०। किन्निमित्ते किंहेतुके। “कुतोनिमित्तः शोकस्ते” रामा०।

कुत्र = अव्य० किम् + सप्तम्याः त्रल्–किमः कुः। कस्मिन्नित्यर्थे प्रश्नविषये आक्षेपविषये च अधिकरणे “हा सीता केन नीता मम हृदयगता केन वा कुत्र दृष्टो” महानाट० “कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः” भाग० ७। ९। २५। ततो भवार्थेत्यप्। कुत्रत्य कस्मिन्भवे त्रि० “कस्यापि कुत्रत्य इहापि कस्मात्” भाग० ५। १०। २०।

कुत्रचित् = अव्य० कुत्र + चित् मुग्ध०। क्वचिदित्यर्थे असाकल्येन कस्मित् देशे काले वेत्यर्थे। “असुरेभ्योभयं नास्ति युष्माकं कुत्रचित् क्वचित्” भा० व० १४२ अ०। कुत्रचित् देशे क्वचित् काले इत्यर्थः। पा० अमरमते पदद्वयमिति भेदः। “विशिष्टं कुत्रचिद्वीजं स्त्रीयोनिस्त्वेव तु कुत्रचित्” मनुः। चन। कुत्रचन तत्रार्थे अव्य०।

कुत्स = निन्दने चुरा० आत्म० सक० सेट्। कुत्सयते अचुकुत्सत कुत्सयाम् बभूव आस चक्रे। कतसयमानः कुत्सयित्वा सं कुत्स्य। कुत्स्यः कुत्सितः कुत्सनं कुत्सा कुत्सः। कुत्सना। कर्म्मणि कुत्स्यते अकुत्सि अकुत्सिषातामकुत्सयिषाताम् “वहत्कुत्समार्ज्जनेन शतक्रतुः” ऋ० १। ६३। ३। कुत्सायशुष्ममशूषम्” ऋ० ४। १६। ४२ “कुत्सितानि कुत्सनैः” पा०। कुत्सकः। “परिवित्तिः परीवेत्ता ब्रह्मघ्नोयश्च कुत्सकः” भा० शा० ३४० अ०। “यदाऽश्रौषं कर्ण्ण मासाद्य मुक्तं नावघीत्भीमं कुत्सयित्वा वचोभिः” भा० आ० अ० “नास्तिक्यम् वेदनिन्दाञ्च देवतानाञ्च कुसनम्” मनुः। “नैतच्छतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्” भा० आ० ५२८६ श्लो०। अत्र परस्मैपदमार्षम्

कुत्स = पु० कुत्सयते संसारं कुत्स–अच्। १ ऋषिभेदे तस्यापत्यम् ऋष्यण्। कौत्स तदपत्ये पुंस्त्री “कौत्सः प्रपेदे वरतन्तुशिष्यः” रघुः। वहुषु तस्य “अत्रिभृगु कुत्मेति” पा० लुक्। कुत्साः तदपत्येषु। कृ–बा० स पृषो०। २ कुर्वति त्रि०। “कुत्साएते हर्य्यश्वाय” ऋ० ७। २५। ५। “कुत्साः कुर्ब्बाणाः। करोतेः कुत्सशब्दनिष्पत्तिः” भा०। ततः पक्षा० चतुरर्थ्यां फक्। कौत्सायन तन्निर्वृत्तादौ त्रि०।

कुत्सकुशिकिका = स्त्री कुत्सानां कुशिकानां च मैथुनम् “द्वन्द्वाद्वुन्वैरमैथुनयोः” पा० मैथुने वुन्। कुत्सगोत्राणां कुशिकगोत्राणाञ्च स्त्रीपुंसां मैथुने।

कुत्सन = न० कुत्स–भावे ल्युट्। १ निन्दने “देवतानाञ्च कुत्सनम्” मनुः। कुत्स्यतेऽनेन करणे ल्युट्। २ निन्दासाधनधर्म्मे उपचारात् ३ तद्युक्ते त्रि०। “कुत्सितानि कुत्सनैः” पा०। वैयाकरणखसूचिः। प्रश्नविस्मरणार्थखसूचित्वेन धर्म्मेण वैयाकरणस्य निन्दनात्तादृशधर्म्मस्य कुत्सनत्वम् तद्वत्त्वाच्च खसूचकस्य तथात्वम्।

कुत्सला = स्त्री कुत्स–कर्म्मणि बा० कलच् कुत्सं निन्दां लाति ला–क वा। नीलीवृक्षे शब्दच०। तस्य क्रयविक्रययोः निन्दितत्वात् तथात्वम् नीलीशब्दे विवृतिः।

कुत्सा = स्त्री कुत्स–भावे अ। निन्दायाम् अमरः। “गुरुकुत्सामतिश्च या” भा० अनु० ६५८९ श्लोकः।

कुत्सित = न० कुत्स–कर्म्मणि क्त। १ कुष्ठनामौषधौ (कुड) राजनि० २ निन्दिते त्रि० “कुत्सितानि कुत्सनैः” पा०। भावे क्त ३ निन्दायाम् न०

कुथ = क्लेशे (को~थपाडा)इदित् भ्वोदि० अक० सेट्। कुन्यति अकुन्थीत् चुकुन्थ कुन्थ्यात्

कुथ = पूतिगन्धे दिवा० पर० अक० प० सेट्। कुथ्यति अकोथीत्। प्रनिकुथ्यति णिचि कोथयति (पो~था) निखनने। तस्य पूतिभावसाधनत्वात्तथात्वम्। “अप्रकाशे देशे कोथयेत्” सुश्रुतः।

कुथ = पुंस्त्री० कुथ–पूतीभावे क कुन्थ–निष्कर्षे–क नलोपोवा। “कुथा १ कन्था समाख्याता कुथः स्यात् २ करिकम्बलम्। कुथः ३ कुगः कुथः ४ कीटः ५ प्रातःस्नायी द्विजः कुथः, इत्युक्ते ष्वर्थभेदेषु लिङ्गभेदस्तु रूपभेदादुन्नेवः। “कुथेन नागेन्द्रमिवेन्द्रवाहनम्”। “आक्षिप्तकेतुकुथसैन्यगजच्छलेन” माघः। “शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्” भा० स० ५१ अ०। हस्तिकम्बले पुंस्त्री अमरः। “महत्या कुथयास्तीर्ण्णां पृथिवीलक्षणाङ्कया” रामा०। “तत्र कुशे “शाद्वलेषु यदाशिश्ये वनान्ते वनगोचरा। कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः” रामा०।

कुथुम = पु० सामवेदशाखाभेदे। तं वेत्ति इनि। कुथुमिन् अण् वा। कौथुम तच्छाखाष्यायिनि। सामवेदशब्दे विवृतिः। कुथुमिना प्रोक्तमधीयते अण् नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिसमापिकुथुमीत्यादि” वा० टिलोपः। कौथुम तत्प्रोक्ताध्यायिषु भूम्नि त्रि०।

कुथोदरी = स्त्री कुम्भकर्ण्णपौत्र्यां निकुम्भदुहितरि। सा च कल्किना हता यथाह कल्किपु० १६ अ०

“मुनय ऊचुः। शृणु विष्णुयशःपुत्र! कुम्भकर्णात्मजात्मजा। कुथोदरीति विख्याता गगनार्द्धसमुत्थिता।। कीलकञ्जस्य महिषी निकञ्जजननी च सा। हिमालये शिरः कृत्वा पादौ च निषधाचले।। शेते स्तनं पाययन्ती निकञ्जं प्रस्नुतस्तनी। तस्या निश्वासवातेन विवशा वयमागताः।। दैवेनैव समानीताः प्राप्तास्तव पदाम्बुजम्। मुनयो रक्षणीयास्ते रक्षःसु च विपत्सु च।। इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः। मेनागणैः परिवृतो जगाम हिमवद्गिरिम्”। इत्युपक्रम्य तया सह युद्धे ससैन्यकल्केस्तदुदरवेशमुपवर्ण्य्य “कल्किः कमलपत्राक्षः सुरारातिनिसूदनः। वाणाग्निचेलचर्म्मभ्यां कम्बलैर्यानदारुभिः। प्रज्वाल्योदरमध्येन करवालं समाददे।। तेन खड्गेन महता कुक्षिं निर्भिद्य बन्धुभिः। बलिभिर्भ्राष्टभिर्व्वाहैर्वॄतः शस्त्रास्त्रपाणिभिः। वहिर्व्वभूव सर्व्वेशः कलिकः कल्कविनाशनः। सहस्राक्षो यथा वृत्तकुक्षिं दम्भोलिनेमिना।। योनिरन्ध्राद्गजरथास्तुरगाश्चाभवत् बहिः। नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः। ते निर्गता स्ततस्तस्याः सैनिका रुधिरोक्षिताः। तां विव्यधुर्निः- क्षिपन्तीं तरसा चरणौ करौ।। ममार सा भिन्नदेहा भिन्नकुक्षिशिरोधरा”।

कुद = मिथ्योक्तौ चु० सक० उभ० सेट्। कोदयति ते। अचूकुदत्। धातुपाठः।

कुदाल = पु० कुंभूमिं दलति दल–भेदने अण् उप० स०। कुद्दाले (कोदाल) रमानाथः।

कुदिन = न० कोः पृथिव्याः भ्रमणेन दिनम्। १ सावनदिने। तदुक्तं सू० सि०। “ओदयादोदयं भानोः सावनं तत् प्रकीर्त्तितम्। सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः” “सूर्य्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्यन्तं यत् कालात्मकं तत् सावनं मानज्ञैरुक्तम्। एतेनोदयद्बयान्तरात्मककालस्य गणनया सावनानि वसुद्व्यष्टाद्रीत्यादिना मध्यमाधिकारोक्तानि भवन्ति। तद्व्यवहारमाह। यज्ञकालविधिरिति यज्ञस्य यः कालस्तस्य गणना तैः सावनैः। तुकारोऽन्यमाननिरासार्थकैवकारपरः” रङ्गना०। निरुपपदसावनदिनस्य सूर्य्यसंवन्धिसावनदिनपरत्वं युगे तत्संख्या च तत्रैव दर्शिता यथा “ओदयादोदयं भानोर्भूमिसावनवासराः”।। “ननु भोदया भगणैरित्यादिना पूर्बं सर्वेषां सावनदिवसा उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्य्यसावनस्वरूपकथनच्छलेनोत्तरमाह। ओदयादिति। सूर्य्यस्योदयकालमारभ्याव्यवहिततदुदयकालपर्यन्तं यः कालः स एको दिवसः। इति ये दिवसास्ते भूमिसावनवासराः। भूदिवसा उदयस्य भूसम्बन्धेनावगमात् सावनदिवसाश्चेत्यर्थः। तथा च निरुपपदसावनभूमिशब्दाभ्यां सूर्य्यस्य वासरा एव नान्येषां सोपपदत्वाभावादिति भावः” रङ्गना०। ते कियन्त इत्यतस्तत्प्रमाणमाह “वसुद्व्यष्टाद्रिरूपाङ्क सप्ताद्रितिथयोयुगे” सू० सि०। “अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता १५७७९१७८२८ युगे सूर्य्यसावनदिवसाः” रङ्गना०। सि० शि० अन्यथोक्तं यथा “भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः १५७७९१९४५००००। भभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा” सि० शि०। “एषामुपपत्तिः प्रागेवोक्ता। एकस्मिन् रविवर्षे यावन्तो भभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसा भवन्ति। यतो रविः प्राग्गत्या एकं पर्यायं गतः। अतो भगणसं ख्ययोना भभ्रमाः क्वहा भवन्ति। एवमन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम्” प्रमि०। “इनोदयद्वयान्तरं तदर्कसावनं दिनम्। तदेव मेदिनी- दिनं भवासरस्तु भभ्रमः” इति सिद्धान्तशिरोमणिः। “इनोदयद्वयान्तरमिति। अर्कोदययोरन्तरं यत् तदर्कसावनं दिनम्। तदेव कुटिनसंज्ञं ज्ञेयम्। अतोऽपि पूर्ववन्मासवर्षादिकल्पना। अत्रार्कग्रहणमुपलक्षण तेनान्येषामपि ग्रहाणां तदुदयद्वयान्तरं तत्सावनमिति” प्रमि०।

तद्दिवसस्य कार्य्यविशेषे आदर्त्तव्यतामाह सू० सि०“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा। मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते”। “सूतकं जन्ममरणसम्बन्धि। आदिपदग्राह्यं चिकित्सितचान्द्रायणादि तस्य परिच्छेदो निर्णयः। दिनाघिपमासेश्वरवर्षेश्वराः। तथा–समुच्चये। ग्रहाणां गतिर्मध्यमा। तुकारात् स्फुटगतेर्निरासः तस्याः प्रतिक्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात्। एतेन स्पष्टगत्या स्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सूचितम्। सावनमानेन। एवकारादन्यमाननिरासः” प्रमि०। “प्रायश्चित्तं सूतकाद्यं चिकित्सा यज्ञाद्येवं कर्म वारादिकं च। शास्त्रे त्वस्मिन् खेचराणां च चारा विज्ञातव्याः सावनात् भास्करीयात्” श्रीपतिः।। कुवासरभूमिदिनादयोऽप्यत्र। २ ज्योतिषनिषिद्धे दिने च

कुदृष्टि = स्त्री कुत्सिता दृष्टिः ज्ञानम्। वेदबाह्यतार्किक कल्पनायाम्। “या वेदवाह्याः स्मृतयो याश्च काश्च कुदृष्टयः” मनुः।

कुदेह = पु० कुत्सितोदेहोऽस्य। १ कवेरे २ कुत्सितदेहयुक्ते त्रि०। कुगतिस० ३ कुत्सिते देहे पु०। कुदेहमानाहिविदष्टदृष्टेः” भाग०५। १२। ३।

कुद्दार = पु० कुंपृथ्वीं दारयति दृ–विदारे अण् पृषो०। १ कुद्दालेभूमिविदारणाज्जाते २ कोविदारवृक्षे अमरटीका।

कुद्दाल = पु० कुं भूभिं दलति दल–अण् उप० स० पृषो०। चोविदारे वृक्षे अमरटी० २ भूभिदारणास्त्रे (कोदाल) मेदि०। “समासाद्य बिलं तच्चाप्यखनन् सागरात्मजाः। कुद्दालै र्ह्रेषुकैश्चैव समुद्रं यत्नमास्थिताः” भा० व० १०७ अ०। “कुद्दालं दात्रपिटकं प्रकीर्ण्णं कांस्यभाजनम्” भा० शा० २२८ अ०। हस्त्यादि० बहुव्रीहौ एतत्पूर्व्वस्य पादस्य नान्त्यलोवः कुद्दालपादः। स्वार्थे क। कुद्दालक तत्रार्थे।

कुद्मल = न० कुद्मल + पृषो०। विकाशोन्मुखे पुष्पमुकुले अमरटी०

कुद्य = न कुद–क्यप्। भित्तौ अमरटीका।

कुद्र = मिथ्योक्तौ इदित् चु० उभ० सक० सेट्। कुन्द्रयति अचुकुन्द्रत्। प्रनिकुन्द्रयति नोपधकरणेनैवेष्टसिद्धौ इदित्करणं स्वरार्थम।

कुद्रङ्क = पु० कुत्सितः रङ्कश्चिह्नमस्य पृषो०। मञ्चोपरिस्थे मण्डपे त्रिका०।

कुद्रङ्ग = पु० कुत्सितोरङ्गोयत्र पृषो०। मञ्चकोपरिस्थे मण्डपे हारा०

कुद्रव = पु० कुं भूमिं द्रवति द्रावयति द्रु–अन्तर्भूतण्यर्थे–अच्। कोद्रवे धान्यभेदे (कोदो) भरतः।

कुद्रि = पु० ऋषिभेदे तस्यापत्यं गृष्ट्या० ढञ्। कौद्रेय तदपत्ये पुंस्त्री०।

कुधान्य = स० कुत्सितं धान्यं कुगतिस०। कुत्सिते धान्यभेदे स च सुश्रुते गुणसहितोदर्शितोयथा “कोरदूषकश्यामाकनीवारशान्तनुतुवरकोद्दालकप्रियङ्गुमधू लिकानान्दीमुखकुरुविन्दगवेधुकावरुकतीनपर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः”।। उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः। श्लेष्मघ्ना बद्धनिष्यन्दा वातपित्तप्रकोपणाः। कषायमधुरास्तेषां शीतपित्तापहाः स्मृताः। कोद्रवश्च सनीवारःश्यामाकश्च सशान्तनुः। कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः। यथोत्तरं प्रधानाः स्यूरूक्षाः कफहराः स्मृताः। मधूली मधुरा शीता स्निग्धा नान्दीमुखी तथा। विशोषी तत्र भूयिष्ठं वरकः समुकुन्दकः। रूक्षा वेणुयवा ज्ञेया वीर्य्योष्णाः कटुपाकिनः। बद्धमूत्राः कफहराः कषाया वातकोपनाः”

कुध्र = पु० कुं पृथिवीं धारयति धृ–मूलविभुजादि० क ६ त०। महीध्रे पर्वते हला०।

कुनक = पुंस्त्री करटे स्त्रियां जातित्वात् ङीष्।

कुनख = पु० कुत्मितो नखोऽत्र। सुश्रुतोक्ते रोगभेदे (कुनि) तल्लक्षणं तत्रैवोक्तं यथा। “अभिघातात् प्रदुष्टो योनखों रूक्षोऽसितः खरः। भवेत्तु कुनखं विद्यात् कुलीनमिति संज्ञितम्”। कुनखे विधिरप्येष” सुश्रु०। ६ व०। कुत्सितनखयुक्ते त्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष्।

कुनखिन् = त्रि० कुनखो रोगोऽस्त्यस्य इनि। कुनखरोगयुक्ते सच रोगो भुक्तावशिष्टसुवर्ण्णस्तेयरूपजन्मान्तरीण महापातकचिह्नं यथाह विष्णुः “अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति कुष्ठ्यतिपातकी, ब्रह्महा यक्ष्मी, सुरापः श्यावदन्तकः, सुवर्णहारी कुनखी गुरुतल्पगोदुश्चर्म्मा”। “कुनखी श्यावदन्तश्च द्वादशरात्रं चरित्वा तद्दन्तनखावुद्धरेयाताम्” विष्णुः। स्त्रियां ङीप्। सच रोगः गर्भावस्थायां मातुर्दोषभेदाज्जायते तदुक्ते सुश्रुते “दिवास्वपन्त्याः स्वापशीलोऽञ्जनादन्धो रोदनात् विकृतदृष्टिः स्नानानुलेपनात् दुःखशीलस्तैलाभ्यङ्गात् कुष्ठी नखा- वकर्त्तनात् कुनखीत्यादि। कुनखी च श्राद्धकाले वर्ज्जनीयः यथाह मनुः “वर्ज्याःस्युर्हव्यकव्ययोः। प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः”। “दुर्वर्ण्णः कुनखी कुष्ठी मायावी कुण्डगोलकौ, वर्ज्जनीयाः प्रयत्नेन” भा० व० १९९। श्राद्धे वर्जनीयोक्तौ।

कुनट = पु० कुत्सितं नटति–नट–अच्। १ श्योनाकभेदे राजनि० गौरा० ङीष्। कुनटी २ मनःशिलायाम् अमरः ३ वन्याके राजनि०। कुत्सितोनटः कुग० स०। ४ कुत्सिते नटे पु०।

कुनलिन् = पु० ईषत् नलोऽस्त्यस्य इनि। वकवृक्षे त्रिका०। तस्य फलेषु ईषन्नलाकारत्वात्तथात्वम्।

कुनह(ट) = पु० कूर्म्मविभागे वृह० सं० ऐशान्यामुक्ते १ देशभेदे “ऐशान्यां मेरुकनष्टराज्येत्युपक्रमे “भल्लोपनीलजटासुरकुनह(ट)खसकुचिकाख्याः” इति तत्रोक्तत्वात्। कु + नह–अच्। २ कुतासतबग्धके त्रि०।

कुनाथ = पु० कुत्सितोनाथः। १ कुत्सितपालके। “कुनाथस्याजितात्मनो यथा सार्थस्य” भाग० ५। १४। ४। “हतास्म्यहं कुनाथेन नपुंसा वीरमानिना” भाग० ९। १४। ४। कुपालककुपत्यादयोऽप्यत्र। कोर्नाथः। २ महीनाथे राजनि पु०।

कुनाभि = पु० ईषत् नाभिरिव आवर्त्तवत्त्वात्। १ वातमण्डल्याम् (घुर्णावातास) त्रिका०। २ निधिभेदे हेमच०।

कुनामत् = त्रि० कुत्सितं प्रातरस्मरणीयं नामास्य। अतिकृपणे स्त्रियां वा डाप् ङीप्। तस्यापत्यं बाह्वा० इञ्। कौनामि तदपत्ये पुंस्त्री०। तस्येदम् काश्या० ष्ठञ्ञिठौ। कौनामिक तत्सम्बन्धिनि त्रि० ष्ठञि स्त्रियां ङीष् ञिठि टाप् इदुच्चारणार्थः इति भेदः।

कुनाशक = पु० ईषत् नाशयति स्पर्शनात् नश–णिच्ण्वुल्। दुरालभायाम् यवासे (आल्कुसी) अमरः।

कुनिषञ्ज = पु० दशममनोः पुत्रभेदे। “दशमे त्वथ पर्य्याये द्वितीयस्यान्तरे मनोः” इत्युपक्रमे “मनोः सुतौत्तमाजाश्च कुनिपञ्जश्च वीर्य्यवान्” हरिवं० ७ अ०।

कुन्च = वक्रणे अनादरे च भ्वा० पर० सक० सेट्। कुञ्चति अकुञ्चीत् चुकुञ्च चुकुच(ञ्च)तुः। कुञ्चनम् आ + सङ्कोचने आकुञ्चति मंकोचयति। वि प्रसारणे। विकुञ्चति प्रसारयति सङ्कुचितः णिच् आकुञ्चितः “आकुञ्चितसव्यपादम्” भट्टिः।

कुन्त = पु० कुं भूमित्तिमुनत्ति उन्द–बा० त शकन्ध्वा०। गबेधु कायां (गडगडे) १ धान्यभेदे। २ प्रासास्त्रे च मेदि०। ३ क्षुद्र- कीटभेदे (उकुन्) कुन्तलः। ४ चण्डभावे विश्वः। कुन्तास्त्रलक्षणं हेमा० परिख० लक्षणसमुच्चये उक्तं यथा “उक्ता कुन्तोत्पत्तिरनन्तरं कुन्तद्रव्यं वक्ष्यते वेणुर्वेत्रं विल्वश्चन्दनो वर्द्वनं शिशंपा खदिरोदेवदारुर्घण्टारोहश्चेति कुन्तस्य दण्डद्रव्याणि तत्र सप्तहस्तप्रमाणः श्रेष्ठः। षड्भिर्हस्तैर्मध्यमः। पञ्चहस्तश्च निकृष्टो भवति लोहस्याकारौ द्वौ भवतः एकं पुष्कलावर्त्तकं द्वितीयं चीनोत्थितं तत्तु तीक्ष्णं, यत्तु पुष्कलावर्तकं तल्लोहं मृदु। तयोस्त्वियं परीक्षा यत्ताडितं नदति तत्तीक्ष्णं यन्निःशब्दं तत्मुदु, निपाते यद्भिद्यते तत्तीक्ष्णं, यन्नमति तत्पुष्कलावर्त्तं मृदु। तत्र चीनोद्भवं भवत्यप्रशस्तं पुष्फनावर्त्तकमेव प्रशस्यते। कुन्तस्य फलं च मृदुना लोहेन कर्त्तव्यं तीक्ष्णेन लोहेन धारा कार्या तयोरलाभे शेषाणि लाहानि शोधयित्वा कुन्तफलं तैः कारयेत्। तत्र सप्रपर्ण्णशाकखर्जूरीवेत्रकरवीरवेस्थूनां तालफलकयोः केतक्याः स्रुह्या वा पत्राकारः कुशाग्रस्य सन्निभश्च। तथा कर्णसंस्थानं वा कर्त्तव्य तच्च निर्व्रणं मनोदृष्टिहरन्तोक्ष्णं शुभञ्च श्रेष्ठं षोडशाङ्गुलायामं, मध्यमं चतुर्द्दशाङ्गुलायाममधमं द्वादशाङ्गुलं भवति। अङ्गलविस्तारं सार्द्धाङ्गुलविस्तारं द्व्यङ्गुलविस्तारञ्च क्रमाद्भवति। द्वियववैपुल्यं सार्द्वैकयववैपुल्यमेकयववैपुल्यञ्च। तत्र श्लोकाः। वेण्वादिदुमजातीनां कार्यो दण्डः सच त्रिधा। सप्तषट्पहलश्च उत्तमो मध्यमोऽधमः। तस्याकारौ च द्वौ स्यातां सचीनं पुष्कलं तथा। तत्रैकतीक्ष्णं लोहस्य द्वितीयं मृदुनस्तथा। तत् फलं मृदुलोहेन धारा तीक्ष्णेन कारयेत्। सप्तपर्ण्णादिप्रत्राणां समाकारं फलं भवेत्। षोडशाङ्गुलमायामोद्व्यङ्गुलञ्चापि विस्तृतम्। यवद्वितयवैपुल्यं श्रेष्ठं कुन्तफलं भवेत्। मध्वमाधमयोर्हानिर्द्व्यङ्गुलार्द्धाङ्गुलं क्रमात्। आयाने विस्तृते वत्स। वैपुल्ये च यथाक्रमम्। सुशब्दत्वं मृदुगन्धत्वंसुपीतत्वं वर्ण्णपजितत्वञ्चेति फलगुणाः। चम्पकोत्पलचन्दनागुरुपद्मोशीरपत्ररसानां सुगन्धिदानाम् भवति फलस्य गन्धसंपत्। तया युक्तं फलमतिक्रम्यापि रूपं पूजितं भवति वसागन्धि मत्स्यगन्धि गोमूत्रगन्धि दुर्गन्धि च निन्दितं भवति। मधुरं यद्ययवाम्लं यत्कषायं भवति तल्लक्ष्मीप्रवर्द्धनं, यल्लवणं कटुकं तिक्तं वापि रूक्षं क्षयावहं तन्निर्द्दिशेत्। शब्दस्तु हिरण्यस्थालीशब्दवत् घण्टाशब्दवच्च प्रशस्तो, झर्झरीभिन्नपात्रशब्दवद्भेरीः शब्दवच्च शब्दो निन्दितो भवति। वैदूर्यनिभं चन्द्रसमान वर्ण्णकसम्मितोत्फलसदृशवर्ण्णं निर्मलाकाशसवर्ण्णमतसी पुष्पनिभं वा कुन्तफलं श्रियं भर्तुर्ददाति, मधुकोशसमानवर्ण्णं श्यामलोहवर्ण्णं मक्षिकासवर्ण्णं निन्दितं भवति। हंसशुकमयूरताम्रचूडघटनन्द्यावर्त्तकूर्ममत्स्य सरित्प्रभा अन्ये च मङ्गलशंसिनः पदार्थाः कुन्तव्रणेषु यदि दृश्यन्ते तदा ते धर्मकामार्थसाधकाविनिर्द्दिष्टाः।

पादुकीलूकपादपवायसश्चगृध्रजम्बूकनिगलकृकलासाश्चेत्येवं निन्दिताः पदार्था दृश्यन्ते व्रणेषु ते दृष्टाः श्रियमपहरन्ति वत्सेति व्रणलक्षणम्। छाया वक्ष्यते ध्वजपताकाचामरच्छत्रतोरणशिविकावेश्माङ्कुशवर्द्वमानभृङ्गारगजतुरङ्गायस्मिन् कुन्तफले दृश्यन्ते धौतच्छायान्तरगतास्तं कुन्तमपुण्यकृतोन लभन्ते नकुलर्क्षवृकसूकरमहिषवायसोलूकवल्मीकादयो ये निन्दितायदि कुन्ते स्युर्धौतव्यक्ते तदा स कुन्तः श्रियं भुज्यमानामपि विनाशयेद्यस्तादृशङ्गुन्तं बिभृयात्। स बधं बन्धं सद्योलभेत तस्य महिंषी वा। चूलिकयोर्व्याघ्रनखस्य शुक्लानि चूर्ण्णानि समभागानि कारयेत्। तत् चूर्ण्णितं कृत्वा तेन चूर्णेन फले घर्षोपघर्षितं कुन्तफलं निर्मलं भवति दुर्गन्धं न भवेत्तथा मलेन न लिप्यते। तच्च वर्मकोषसमन्द्वितं समाहितं कारयेन्नालिकाबन्निर्व्रणं सुदृढा यामेन अनुबन्धेन सुश्लिष्टैश्छादैर्वलक्षकैः सुवर्णमये रजत मये वा वर्मणि रत्नालङ्कृतैर्नलिका श्लिष्टा कर्त्तव्या। स्कन्धेदृढपरिग्रहश्च तथाचोक्तं कुन्तस्य कर्त्तव्यं नलिकासहजं वा। नलिका चात्र प्रमाणतः श्रिष्टा कार्या हरीतकीसदृशन्तालफलसमानं विल्वफलाकारं ककुभकपित्थफलसदृशं वा वृत्तमष्टास्रं वा कलशामलकाकारं वा भवति सर्वोपस्क रान्वितं कुन्तायुधं षष्टिपलं श्रेष्ठंपञ्चाशत्पलं मध्यमं चत्वारिंशत्पलं निकृष्टमिति प्रबलरिपुविनाशकं क्रियान्वितञ्च कुन्तं कारयेन्नतु स्यप्रमाणादधिगौरवं, यो हि कायसारस्य बलमविदित्वा कुन्तमायुधमावहेत् सादिकस्तस्याजीर्णमजानतः पुरुषंस्येवाति भुक्तमशनं कुन्तायुधं विषीभवति। इत्यौशनसे कुन्तलक्षणम्” कुन्ताः प्रविशन्तीत्यत्र कुन्तधारिसि लक्षणेत्यालङ्कारिकाः। “शक्तिकुन्तध्वजरथावाजिवारणगोदृषाः” सुश्रु०। “शक्ति कुन्ताद्यायुधानीति” मुश्रुतः।

कुन्तल = पु० कुन्तं क्षुद्रकीटं (उकुण) लाति ला–क। १ केशे “कापि कुन्तलसंव्यानसंयमव्यपदेशतः। बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्कुटम्” सा० द०। तदाव कारत्वात् २ ह्रीवेरे च अमरः। कुत्तलाकारं केशाग्राकारं लाति ला–क। ३ यवे ४ चषके पानपात्रे ५ लाङ्गले च विश्वः। ६ ध्रुवकभेदे “वर्णैः षोडशभिः कार्य्यः कुन्तलो लघुशेखरैः। शृङ्गारे च रसे प्रोक्त आनन्दफलदायकः” इति संगीतदामो०। “कामगिरिं समारभ्य द्वारकान्तं महेश्वरि!। श्रीकुन्तलाभिधोदेशः कथितः पूर्ब्बसूरिभिः” शक्तिसङ्गमतन्त्रोक्ते ७ देशभेदे पु० भूम्नि“स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुः” सा० द०। “अथापरे जनपदा दक्षिणा भरतर्षभ” इत्युपक्रमे “जिल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः” भा० भी० ९ अ० दक्षिणात्यजनपदोक्तौ। तेषां राजा अण्। कौन्तल तद्देशनृपे। बहुषु तस्य लुक्। क्वचित् एकत्वेऽपि लुक्। “आकर्षः कुन्तलश्चैच मालवाश्चान्ध्रकास्तथा। द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा” भा० स० १ अ०। ते अभिजनोऽस्य अण्। कौन्तल पित्रादिक्रमेण तद्देशवासिनि। बहुषु तस्य लुक्।

कुन्तलवर्द्धन = पु० कुन्तलान् वर्द्धयति वृध–णिच्–ल्यु। भृङ्गराजे (भीमराज) राजनि०। तद्रससेवनेन हि केशवृद्धिरियि वैद्यकप्रसिद्धिः।

कुन्तलिका = स्त्री कुन्तलाग्राकारो विद्यतेऽस्याः ठन् अत इत्त्वम्। दध्यादिच्छेदत्यां १ छुरिकाभेदे पालिकायाम हारा०। २ बालानामौषधौ (बाला) स्त्री सुश्रुतः। यथा “कुन्तलिकाकुरण्टिकाप्रभृतानीत्युपक्रमे “स्वादुपाकरसाःशीताः कफघ्नाश्चातिपित्तलाः। लवणार्द्ररसारूक्षाः सक्षाराः वातलाः सराः। स्वादुतिक्ता कुन्तलिका”।

कुन्तलोशीर = न० कुन्तल इवोशीरम्। (वाला) नामोषधौ राजनि०।

कुन्ताप = पु०। १ वैदिके ऋचां पाठप्रकारभेदे तत्प्रकारः आश्व० श्रौ० ८। ३। ७। ८। ९। सू० दर्शितोयथा “तस्मादूर्ध्वं कुन्तापम्” सू० “तस्माद्वृपाकपेरूर्ध्वं कुन्तापं शंसेत्। तस्मादूर्ध्वमिति वचनात् माध्यन्दिने वृषाकपौ प्रविष्टे तदनन्तरं कुन्तापः स्यादसति प्रवेशे तृतीयसवनेऽपि तस्य प्रवेशो नास्तीति गम्यते” नारा० वृ०। “तस्यादितश्चतुर्दशविग्राहं निनर्द्य शंसेत” सू०। “तस्य कुत्तापस्यादितश्चतुर्दश ऋचो विगृह्य निनर्दोऽयमपूर्व इति तस्याः स्वरूपनिदर्शनमाह” वृ०। “तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तन्निमर्देत्” मू० “तृतीयेषु पादेष्वादितो यदक्षरं तदनुदात्तीकृत्य ब्रूयात्। एतदुक्तं भवति तृतीयेषु प्रथममादित इत्यर्थः। आदितो ये द्वे अक्षरे तयोः पूर्ब्बमनुदात्तं, तस्मात् प्ररं द्वितीयम् उदात्तं यथा भवेत् तथा निनर्देत्, नितरां ब्रूयादित्यर्थः। तदेवमुच्चारणं निनर्दशब्देनोच्यत इत्यर्थः” नारायणवृत्तिः। उदराभ्यन्तरस्थिते २ अन्त्रभेदे न०। “उदरमेकविंशं विंशतिर्वा अन्तरुदरे कुन्तापान्युदरमेकविंशं तस्मादुदरमेकबिंशः” शत० व्रा० १२। २। ४। १२। “अथ यत्कुन्तापमासीत् यो मज्जा स सार्द्धं समभवत्” तत्रैव १३। ४। ४। ८।

कुन्ति = पु० भूम्नि कम–झिच् पृषो०। १ देशभेदे “कुन्तयोऽवन्त यश्चैव तथैवापरकुन्तयः” भा० भी० ९ अ० जनपदोक्तौ तेषां राजा अण्। कौन्त तद्देशनृपे पु० बहुषु तस्य लुक्। कुन्तयः तन्नृपेषु भूम्नि। “सुस्थलाश्च मुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह। साल्वायनाश्च राजानः” भा० स० १३ अ०। विदर्भवंशजे क्रथस्य पुत्रे ३ नृपभेदे “तस्यां विदर्मोऽजनयत् पुत्रौ नाम्ना कुशक्रथौ” इत्युपक्रमे “क्रथस्य कुन्तिः पुत्रोऽभूद्रुचिस्तस्याथ निर्वृतिः” भाग० ९। ३। २। “कुन्तेः सख्युः पिता शूरोह्यपुत्रस्य पृथामदात्” तत्रैव २४ अ० १९ श्लो०। कार्त्तकौ० सुराष्ट्रेण सहद्व० प्रकृतिस्वरः

कुन्तिभोज = पु० कुन्तिसंज्ञको भोजः भोजदेशाधिपः। पृथापितरि कुन्तिसंज्ञके भेजराजे नृपभेदे “पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन!। शूरःपूज्याय वृद्धाय कुन्तिभोजाय तां ददौ” हरिवं० ३५ अ०।

कुन्तिसुता = स्त्री ६ त०। वसुदेवभगिन्यां कुन्तिभोजाय पित्रा शूरेण दत्तकत्वेन दत्तायां पृथायाम्। कुन्तीशब्दे विवृतिः कुन्तितनयादयोऽप्यत्र स्त्री।

कुन्ती = स्त्री वसुदेवभगिन्यां कुन्तिभोजदत्तकसुतायां पृथा याम् युधिष्ठिरादिमातरि तत्कथा यथा “महिष्यां जज्ञिरे शूराद्भोज्यायां पुरुषा दश” इत्युपक्रमे वसुदेवाद्युत्पत्तिमुक्त्वा “पञ्च चास्य वराङ्गनाः। पृथुकीर्त्तिः पृथा चैव श्रुतदेवी श्रुतश्नवाः। राजाधिदेवी च तथा पञ्चैता वीरमातरः। पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन!। शूरः पूज्याय वृद्धाय कुन्तिभोजाय तां ददौ। तस्मात् कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा” हरिवं० ३५। इत्युक्त्वा “पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत्” हरिवं० ३५ अ० उक्तम्।

कुन्तीतनय = पु० ६ त०। कुन्त्यां धर्म्मादितो जातेषु ३ युधि- ष्ठिरादिषु त्रिषु सूर्य्या जाते ४ कर्ण्णे च। तत्कथा यथा “यस्यां (कुन्त्याम्) स धर्म्मविद्राजा धर्म्माज्जज्ञे युधिष्ठिरः। भीमसेनस्तथा वातादिन्द्राच्चापि धनञ्जयः” हरिवं० ३५ अ०। कर्ण्णोत्पत्तिकथा भा० आ० १११ अ० यथा “शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्। तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि। पितृस्वस्रीयाय सुतामनपत्याय भारत!। अग्र्यमग्रे प्रतिज्ञाय खस्यापत्यं स सत्यवाक्। अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे। प्रददौ कुन्तिभोजाय सस्ता सख्ये महात्मने। नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने। उग्रं पर्य्यचरत्तत्र ब्राह्मणं शंसितव्रतम्। निगूढनिश्चयं धर्म्मे यं तं दुर्व्वाससं विदुः। तमुग्रं शंसितात्मानं सर्व्वयत्नैरतोषयत्। तस्यै स प्रददौ मन्त्रमापद्धर्म्मान्ववेक्षया। अभिचारादिभिर्युक्तमब्रवीच्चैव तां मुनिः। यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तस्य तस्य प्रसादेन तव पुत्रो भविष्यति। तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता। कन्या सती देवमर्कमाजुहाव यशस्विनी। सा ददर्श तमायान्तं भास्करं लोकभावनम्। विस्मिता चानवाद्याङ्गी दृष्ट्वा तन्महदद्भुतम्। तां समासाद्य देवस्तु विवस्वानिदमब्रवीत्। अयमस्म्यसितापाङ्गि। ब्रूहि किं करवाणि ते। कुन्त्युवाच। कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्याञ्च शत्रुहन्!। तद्विजिज्ञासयाह्वानं कृतवत्यस्मि ते विभो!। एतस्मिन्नपराधे त्वां शिरसाहं प्रसादये। योषितो हि सदा रक्ष्याः स्वपराधेऽपि नित्यशः। सूर्य्य उवाच। वेदाहं सर्वमेवैतत् यद्दुर्व्वासा वरं ददौ। संत्यज्य भयमेवेह क्रियतां सङ्गमो मम। अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे!। वृथाह्वानेऽपि ते भीरु! दोषः स्यान्नात्र संशय। वैशम्पायन उवाच। एवमुक्ता बहुविधं सान्त्वपूर्ब्बं बिवस्वता। सा तु नैच्छद्वरारोहा कन्याहमिति भारत!। बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी। तामर्कः पुनरेवेदमव्रवीद्भरतर्षभ!। मत्प्रसादान्न ते राज्ञि! भविता दोष इत्युत। एवमुक्त्वा स भगवान् कुन्तिराजसुतां तदा। प्रकाशकर्त्ता तपनः सम्बभूव तया सह। तत्र वीरः समभवत् सर्वशस्त्रभृतांवरः! आमुक्तकवचः श्रीमान् देवगर्भः श्रियान्वितः। सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः। अजायत सुतः कर्णः सर्व्वलोकेषु विश्रुतः। प्रादाच्च तस्य कन्यात्व पुनः स परमद्युतिः। दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः। दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा। एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्। गूहमानापचारं सा बन्धुपक्षभयात्तदा। उत्ससर्ज्जकुमारं तं जले कुन्ती महाबलम्”। युधिष्ठिरादुत्पत्तिस्तत्रैव १२२। १२३ अ० यथा “एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम्। प्रत्युवाच वरारोहा भर्त्तुः प्रियहिते रता। पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने। उग्रं पर्य्यचरन्तत्र ब्राह्मणं शंसितव्रतम्। निगूढनिश्चयं धर्म्मे यन्तं दुर्वाससं विदुः। तमहं शंसितात्मानं सर्व यत्नैरतोषयम्। स मेऽभिचारसंयुक्तमाचष्ट भगवान् वरम्। मन्त्रन्त्विमञ्च मे प्रादादब्रवीच्चैव मामिदम्। यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। अकामो वा सकामो वा वशं ते समुपैव्यति। तस्य तस्य प्रसादात्ते राज्ञि! पुत्रो भविष्यति। इत्युक्ताहं तदा तेन पितृवेश्मनि भारत!। ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः। अनुज्ञाता त्वया देवमाह्वयेयमहं नृप!। तेन मन्त्रेण राजर्षे! यथा स्यान्नौ प्रजा हिता। आवाहयामि कं देवं ब्रूहि सत्यवतांवर!। त्वत्तोऽनुज्ञाप्रतीक्षां मां बिद्व्यस्मिन् कर्म्मणि स्थिताम्। पाण्डुरुवाच। अद्यैव त्वं वरारोहे! प्रयतस्व यथाविधि। धर्म्म मावाहय शुभे! स हि देवेषु पुण्यभाक्। अधर्म्मेण न नो धर्म्मः संयुज्येत कथञ्चन। लोकश्चायं वरारोहे! धर्म्मोऽयमिति मन्यते। धार्म्मिकश्च कुरूणां स भविष्यति न संशयः। धर्म्मेण चापि दत्तस्य नाधर्म्मे रंस्यते मनः। तस्माद्धर्म्मं पुरस्कृत्य नियता त्वं शुचिस्मिते!। उपचाराभिचाराभ्यां धर्म्ममावाहयस्व वै। वैशम्पायन उवाच। सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना। अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्त्ततं”। “संवत्सरधृते गर्व्भे गान्धार्य्या जनमेजय। आह्वयामास वै कुन्ती गव्र्भार्थे धर्म्ममच्युतम्। सा बलिं त्वरिता देवी धर्म्मायोपजहाव ह। जजाप विधिवज्जप्यं दत्तं दुर्व्वाससा पुरा। आजगाम ततो देवो धर्म्मो मन्त्रबलात्ततः। विमाने सूर्य्यसङ्काशे कुन्ती यत्र जपस्थिता। विहस्य तां ततो ब्रूयाः कुन्ति! किन्ते ददाम्यहम्। सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम्। संयुक्ता सा हि धर्म्मेण योगमूर्त्ति धरेण ह। लेभे पुत्रं वरारोहा सर्व्व- प्राणभृतां हितम्। ऐन्द्रे (ज्येष्ठाभे) चन्द्रसमायुक्ते सुहूर्त्तेऽभिजितेऽष्टमे। दिवामध्यगते सूर्य्ये तिथौ पूर्णेऽतिपूजिते। समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम्। जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी। एष धर्म्मभृतां श्रेष्ठो भविष्यति नरोत्तमः। विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति। युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः। भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः। यशसा तेजसा चैव वृत्तेन च समन्वितः। धार्म्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत्। प्राहुः क्षत्रं बलज्येष्ठं बलश्रेष्ठं सुतं वृणु। ततस्तथोक्ता भर्त्रा तु वायुमेवाजुहाव सा। ततस्तामागतो वायुर्मृगारूढो महाबलः। किन्ते कुन्ति! ददाम्यद्य ब्रूहि यत्ते हृदि स्थितम्। सा सलज्जा विहस्याह पुत्रं देहि सुरोत्तम!। बलबन्तं महाकायं सर्व्वदर्षप्रभञ्जनम्। तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः। तमप्यतिबलं जातं वागुवाचाशरीरिणी। सर्ब्बेषां बलिनां श्रेष्ठो जातोऽयमिति भारत। इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे। यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत्। कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल। नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम्। ततः स वज्रसङ्घातः कुमारो न्यपतद्गिरौ। पतता तेन शतधा शिला गात्रैर्विचूर्णिता। तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्व्विस्मयमागतः। यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम!। दुर्य्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप!। जाते वृकोदरे पाण्डुरिदं भूयोंऽन्वचिन्तयत्। कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति। दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः। तत्र दैवन्तु विधिना कालयुक्तेन लभ्यते। इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्। अप्रमेयबलोत्साहो वीर्य्यवानमितद्युतिः। सन्तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्। यं दास्यति स मे पुत्रं स वरीयान् भविष्यति। अमानुषान्मानुषांश्च संग्रामे स हनिष्यति। कर्म्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः। ततः पाण्डुर्महाराजोमन्त्रयित्वा महर्षिभिः। दिदेश कुन्त्याः कौरव्यो व्रतं संवत्सरं शुभम्। आत्मना च महाबाहुरेकपादस्थितोऽभवत्। उग्रं स तप आस्थाय परमेण समाधिना। आरिराधयिषुर्द्देवं त्रिदशानां तमीश्वरम्। भार्य्यया सह धर्म्मात्मा पर्य्यतप्यत भारत!। तन्तु कालेन महता वासवः प्रत्यपद्यत। शक्र उवाच। पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्। ब्राह्मणानां गवाञ्चैव सुहृदाञ्चार्थसाधकम्। दुर्हृदां शोकजननं सर्व्वबान्धवनन्दनम्। सुतं तेऽग्र्यं प्रदास्यामि सर्व्वामित्रविनाशनम्। इत्युक्तः कौरवो राजा वासवेन महात्मना। उवाच कुन्तीं धर्म्मात्मा देवराजवचः स्मरन्। उदर्कस्तव कल्याणि! तुष्टो देवगणेश्वरः। दातुमिच्छति ते पुत्रं यथा सङ्कल्पितं त्वया। अतिमानुषकर्म्माणं यशस्विनमरिन्दमम्। नीतिमन्तं महात्मानमादित्यसमतेजसम्। दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्। पुत्रं जनय सुश्रोणि! धाम क्षत्रियतेजसाम्। लब्धः प्रसादो देबेन्द्रात् तमाह्वय शुचिस्मिते!। वैशम्पायन उघाच। एवमुक्ता ततः शक्रमाजुहाव यशस्मिनी। अथाजगाम देवेन्द्रो जनयामास चार्ज्जुनम्”। कुन्त्या अपत्यं ढक्। कौन्तेय तदपत्ये “कौन्तेय प्रतिजानीहि” गीता।

कुन्थ = क्लेशे श्लेषे च क्र्यादि० प० अक० सेट्। कुथ्नाति अकुन्थीत् चुकुन्थ प्रनिकुथ्यात्।

कुन्थु = पु० कुन्थ–उन्। बौद्धभेदे हेमच० कुन्थुरवेति पाठान्तरम्।

***