की = अव्य० कुत्सायाम्।

कीकट = पु० की + कट–अच्। “चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे!। तावत् कीकटदेशःस्यात् तदन्तर्मगधोभवेत् शक्तिसङ्कमीक्ते १ देशभेदे। तद्देशवासिजनवाचित्वेऽस्य भूम्नि “साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः” भाग० ७, १०, २०। उपचारात् देशेऽपि भूम्नि “ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धोनाम्ना जिनसुतः कीकटेषु भविष्यति” भाग० १, ३, २५। ४ निर्द्धने ५ कृपणे च त्रि० मेदि०। ६ वोटके पुं स्त्री विश्वः स्त्रियां जातित्वात् ङीष्

कीकश = पु० कीति कशति कश–शब्दे अच्। चण्डाले। शब्दचि०।

कीकस = पु० कीति कसति कस–गतौ अच्। १ कृमिजन्तुभेदे २ अस्थ्नि न० अमरः ३ कठिने त्रि० मेदि०। “यदन्तर्न्यस्तकीकसम्” अमरः। शब्दरत्ना० स्त्रीत्वमपि “तस्मादिमा उभयत्र पर्शवोवद्धाः कीकसासु च जत्रुषु च” शत० व्रा० ८, ६, २, १०। कीकसेश्वरः काशीखण्डशब्दे उदा०

कीकसास्य = पुंस्त्री० कीकसमास्येऽस्य। पक्षिणि हारा० स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप्। तस्य च मुखस्थास्थ्नो दृष्टिगोचरत्वात् तथात्वम्। कीकसमुखादयोऽप्यत्र

कीकि = पुंस्त्री० कीतिशब्दं कायति कै वा० डि। चाषपक्षिणि अमरटीका स्त्रियां ङीप्।

कीचक = पु० कीत्यव्यक्तं चकति चक–तृप्त्यादौ अच्। १ दैत्यभेदे “कीचका नाम ते वंशा ये स्वनन्त्यनिलाहताः” इत्युक्ते २ वेणुभेदे (तलतार्वाश)अमरः। “यः पूरयन् कीचकरन्ध्रमागान् दरीमुखोत्थेन समीरणेन” कुमा० “सङ्कीर्णकीचकवनस्खलितैकबालेत्यादि” माघः विराटराजश्याले ३ केकयात्मजे विराटसेनाधिपभेदे च कीचकस्य द्रौपद्यामनुरागादिकथा भा० वि० अ० यथा“तस्मिन् वर्षे गतप्राये कीचकस्तु महाबलः। सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम्। तां दृष्ट्वा देवगर्भाभां चरन्तीं देबतामिव। कीचकः कामयामास कामवाणप्रपीडितः”। इत्युपक्रम्य सैरिन्ध्रीरूपां द्रोपदीं प्रति तत्प्रार्थने तया तस्य प्रत्याख्यानमुपवर्ण्णितं यथा“सैरिन्ध्र्युवाच। मा सूतपुत्त्र! मुह्यस्व माऽद्यात्याक्षीः स्वजीवितम्। जानीहि पञ्चभिदेवैर्न्नित्यं मामभिरक्षिताम्। न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम। ते त्वां निहन्युः कुपिताः साध्वसून् मा व्यनीनशः। अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि। यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम्। तर्त्तुमिच्छति मन्दात्मा तथा त्वं तर्त्तुमिच्छसि। अन्तर्म्महीं वा यदि वोर्द्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि। तथाऽपि तेभ्यो न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः। त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं प्रार्थयसेऽद्य कीचक!। किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम्” १३ अ०। तयैवं निरस्तेन तेन स्वभगिनीं सुदेष्णां प्रति तस्यावश्यतासम्पादनप्रार्थने तया तत्रोपायविधानं वर्णितं यथा“प्रत्याख्यातो राजपुत्त्र्या सुदेष्णां कीचकोऽब्रवीत्। अमर्य्यादेन कामेन वोरेणाभिपरिप्लुतः। कीचकौवाच। यथा कैकेयि! सेरिन्ध्री समेयात्तद्विधीयताम्। येनोपायेन सैरिन्ध्री भजेन्मां गजगामिनी। तं सुदेष्णे! परीप्सस्व नो चेत् प्राणान् प्रहासिषम्। वैशम्पायनौवाच। तस्य सा बहुशः श्रुत्वा वाचं विलपतस्तदा। विराटमहिषी देवी कृपाञ्चके मनस्विनी। स्वातन्त्र्यमभिसन्धाय तस्यार्थमनुचिन्त्य च। उद्योगञ्चैव कृष्णायाः सुदेष्णा सूतमब्रवीत्। सुदेष्णोवाच। पर्व्वणि त्वं समुद्दिश्य सुरामन्नञ्च कारय। तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम्। तत्र सम्प्रेषितामेनां विजने निरवग्रहे। सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि। वैशम्पायनौबाच। इत्युक्तः स विनिष्क्रम्य भगिन्या वचनात्तदा। सुरामाहारयामास राजार्हां सुपरिष्कृताम्। मद्यांश्च विविधाकारान् बहूंश्चोच्चावचांस्तदा। कारयामास कुशलैरन्नपानं सुशोभनम्। तस्मिन् कृते तदा देवी कीचकेनोपमन्त्रिता। सुदेष्णा प्रेषयामास सैरिन्ध्रीं कीचकालयम्”। तत्प्रेषिताया द्रौपद्याः कीचकेन कथादि “द्रौपद्युवाच। संप्रैषीद्राजपुत्त्री मां सुराहारीं तवान्तिकम्। पानमाहर मे क्षिप्रं पिपासा मयि चाब्रवीत्। कीचकौवाच। अन्या भद्रे! नयिष्यन्ति राजपुत्त्र्याः प्रतिश्रुतम्। इत्येनां दक्षिणे पाणौ सूतपुत्त्रः परामृशत्। द्रौपद्युवाच! यथैवाहं नाभिचरे कदाचित् पतीन्मदाद्वैमनसाऽपि जातु। तेनैव सत्येन वशीकृतं त्वां द्रक्ष्यामि पापं परिकृष्यमाणम्। वैशम्पायन उवाच। स तामभिप्रेक्ष्य विशालनेत्रां जिघृक्षमाणः परिभत्र्सयन्तीम्। जग्राह तामुत्तरवस्त्रदेशे स कीचकस्तां सहसाऽऽक्षिपन्तीम्। प्रगृह्यमाणा तु महाजवेन मुहुर्विनिश्वस्य च राजपुत्त्री। चिक्षेप तं गाढसमृष्यमाणा प्रवेपमानाऽतिरुषा शुभाङ्गी। तया समाक्षिप्ततनुः स पापः पपात शाखीब निकृत्तमूलः। सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम्। सभां शरणमागच्छद्यत्र राजा युधिष्ठिरः। तां कीचकः प्रधावन्तीं केशपाशे परामृशत्। अथैनां पश्यतो राज्ञः पातयित्वा पदाऽबधीत्। तस्या योऽसौ तदाऽर्केण राक्षसः सन्नियोजितः। स कीचकमपोवाह वातवेगेन भारत!। स पपात तदा भूमौ रक्षोवलसमाहतः। विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः”। भा० वि० १५ अ०

कीचकजित् = पु० कीचकं जितवान् जि–भूते क्विप्। भीमसेने कीचकभिदादयोऽप्यत्र भीमेन तस्य बधकथा च भा० वि० २२ अ०। तत्रायं संक्षेपः कीचकधर्षितया द्रौपद्या तद्बवार्थं प्रार्थितेन भीमेन एकाकिना नाट्यशालायां त्वया रात्रौ आ गतेन सह मममेलनं भविष्यतीति कीचकं प्रति सङ्केतदानाय भीमेन नोदितया द्रौपद्या तथाऽनुष्ठिते भीमस्य नाट्यशालायां रात्रौ द्रौपदीस्थानीयतयाग्रेप्रवेशे तत्र कीचकगतौ तयोर्युद्धादिकमुपवर्ण्ण्य भीमेन कीच- कस्य बध होद्देदि करपाद–प्रवेशनञ्चेति वर्ण्णितं यथा “भीमोऽथ प्रथम गत्वा रात्रौ च्छन्न उपाविशत्। मृगं हरिरिवादृश्यः समाकाङ्क्षत कीचकम्। कीचकश्चाप्यलङ्कृत्य यथाकाममुपागमत्। तां वेलां नर्त्तनागारं पाञ्चालीसङ्गमाशया। मन्यमानः स सङ्केतमागारं प्राविशत्ततः। प्रविश्य च स तद्वेश्म तमसा संवृतं महत्। पूर्व्वागतं गतस्तत्र भीममप्रतिमौजसम्। एकान्तावस्थितं चैनमासंसाद सुदुर्म्मतिः। शयानं शयने तत्र मृत्युं सूतः परामृशत्। पतङ्गः पावकं दीप्तं सिंहं क्षुद्रपशुर्यथा। जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह। उपसंगम्य चैवेनं कीचकः काममोहितः। हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत। प्रापितं ते मया वित्तं बहुरूपमनन्तकम्। त्वत्कृते धनरत्नाद्यं दासीशतपरिच्छदम्। रूपलावण्ययुक्ताभिर्युवतीभिरलङ्कृतम्। गृहं सान्तःपुरं सुभ्रु! क्रीडारतिविराजितम्। तत् सर्व्वं त्वां समुद्दिश्य सहसा समुप गतः। आबालान्मां प्रशंसन्ति सर्व्वा गृहगताः स्त्रियः। सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान्। भीम उवाच। दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि। ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्व्वो न कर्हिचित्। स्पर्शं वेत्सि विदग्धस्त्वं कामधर्म्मविचक्षणः। स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह। वैशम्पायन उवाच। इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः। सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह। अद्य त्वां भगिनी पाप! कृष्यमाणं मया भुवि। द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्। निराबाधा त्वयि हते सैरिन्ध्री विचरिष्यति। सुखमेवं चरिष्यन्ति सैरिन्ध्य्राः पतयस्तथा। ततो जग्राह केशेषु माल्यवत्सु महाबलः। स केशेषु परामृष्टो बलेन बलिनां वरः। आक्षिप्य केशान् वेगेन बाह्वोर्जग्राह पाण्डबम्। बाहुयुद्धं तयोरासीत् क्रुद्धयोर्नरसिंहयोः। वसन्ते वासिताहेतोर्ब्बलवद्गजयोरिव। कीचकानान्तु मुख्यस्य नराणामुत्तमस्य च। बालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः”। ततस्तयोर्युद्धमुपवर्ण्योक्तम् “मुहूर्त्तन्तु स तं वेगं सहित्वा भूरिदुःसहम्। बलादहीयत तदा सूतो भीमबलार्द्दितः। तं हीयमानं विज्ञाय भीमसेनो महाबलः। वक्षस्यानीय वेगेन ममद्दैनं विचेतसम्। क्रोधाविष्टो विनिश्वस्य पुनश्चैनं वृकोदरः। जग्राह जयतां श्रेष्ठः केशे- ष्वेव तदा भृशम्। गृहोत्वा कीचकं भीमो विरुराव महाबलः। शार्द्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम्। तत एनं परिश्रान्तमुपलभ्य वृकोदरः। योक्त्रयामास बाहुभ्यां पशुं रशनया यथा। नदन्तञ्च महानादं भिन्नभेरीसमस्वनम्। भ्रामयामास सुचिरं विष्फुरन्तमचेतसम्। प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः। अपीडयत कृष्णायास्त्रदा कोपोपशान्तये। अथ तं भग्नसर्व्वाङ्गं व्याविद्धनयनान्तरम्। आक्रम्य च कटीदेशे जानुना कीचकाधमम्। अपीडयत बाहुभ्यां पशुमारममारयत्। तं विषीदन्तमाज्ञाय कीचकं पाण्डुनन्दनः। भूतले भ्रामयामास वाक्यञ्चेदमुवाच ह। अद्याहमनृणो भूत्वा भ्रातुर्भार्य्यापहारिणम्। शान्तिं लब्धास्मि परमां हत्वा सैरिन्ध्रिकण्ठकम्। इत्येवमुक्त्वा पुरुष प्रवीरस्तं कीचकं क्रोधसरागनेत्रः। आस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तनेत्रं व्यसुमुत्सर्ज्ज। निष्पिष्य पाणिना पाणिं सन्दष्टोष्ठपुटो बली। समाक्रम्य च संक्रुद्धो बलेन बलिनां वरः। तस्य पाणी च पादौ च शिरो ग्रीवाञ्च सर्व्वशः। काये प्रवेशयामास पशोरिव पिनाकधृक्। तं सम्मथितसर्व्वाङ्गं मांसपिण्डोपमं कृतम्। कृष्णायै दर्शयामास भीमसेनो महाबलः”।

कीज = त्रि० किमस्य कथंजात इति वा पृषो०। अद्भुते “यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्मयः” ऋ०८। ६६। ३०। कीज इत्यद्भुतमाह” भा०

कीट = बन्धे वर्णे च चुरा० उभ० सक० सेट्। कीटयति ते अचीकिटत्–त। कीटयाम् बभूव आस चकार चक्रे कीटः।

कीट = पु० कीट–अच्। कृमिभ्यः स्थूले क्षुद्रजन्तुभेदे। स्वार्थे क। तत्रार्थे २ मागधजातौ च धरणिः। ३ कठिने त्रि० मेदिनिः। कीटभेदलक्षणादिकं सुश्रुते दर्शित यथा“अथातः कीटकल्पं व्याख्यास्यामः। सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः। वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः। सर्वदोषप्रकृतिभिर्युक्ताश्चापरिणामतः। कीटत्वेऽपि सुघोरास्ते सर्व्व एव चतुर्व्विधाः। कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः। उच्चिटिङ्गोऽग्निनामा च विच्चिटिङ्गो मयूरिका। आवर्त्तकस्तथोरभ्रसारिकामुखवैदलौ। शरावकुर्द्दोऽभीराजी परुषश्चित्रशीर्षकः। शतबाहुश्च यश्चापि रक्तराजिः प्रकीर्त्तितः। अष्टादशेति वायव्याः कीटाः पवनकोपनाः। तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः। कौण्डिल्यकः कणभको वरटी पत्रवृश्चिकः। विनासिका ब्रह्मणिका विन्दुलो भ्रमरस्तथा। वाह्यकी पिच्चिटः कुम्भी वर्च्चःकीटोऽरिमेदकः। पद्मकीटो दुन्दुभिको मकरः शतपादकः। पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी। क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकः स्मृतः। एते ह्यग्निप्रकृतयश्चतुर्विंशाः प्रकीर्त्तिताः। तैर्भवत्तीह दष्टानां रोगाः पित्तनिमित्तजाः। विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः। सैरेयकः प्रचलको बलभः किटिभस्तथा। सूचीमुखः कृष्णगोधा यश्च काषायवासिकः। कीटगर्द्दभकश्चैव तथा त्रोटक एव च। त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः। तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः। तुङ्गीनासो विचिलकस्तालको वाहकस्तथा। कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः। तुङ्गनाभः सर्षपिकोऽवल्गुली शम्बुकस्तथा। अग्निकीटश्च घोराः स्युर्द्वादश प्राणनाशनाः। तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्षवत्। तास्ताश्च वेदनास्तीव्रारोगा वै सान्निपातिकाः। क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः। ज्वराङ्गमर्द्दरोमाञ्चवेदनाभिः समन्वितः। छर्द्यतीसारतृष्णा च दाहो मोहोविजृम्भिका। वेपथुश्वासहिक्वाश्च दाहः शीतञ्च दारुणम्। पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च। दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च। तैर्भवन्तीह दष्टानां यथास्वञ्चाप्युपद्रवाः। येऽन्ये तेषां विशेषास्तु तूणं तेषां समादिशेत्। दूषीविषप्रकोपाच्च तथैव विषलेपनात्। लिङ्गं तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः। प्रसेकोऽरोचकश्छर्द्दिःशिरोगौरवशीतता। पिडकाकोटकण्डूनां जन्म दोषविभागतः। योगैर्न्नानाविधैरेषां चूर्ण्णानि गरमादिशेत्। दूषीविषप्रकाराणां तथैवाप्यनुलेपनात्। एकजातीनतस्तूर्द्ध्वं कीटान् वक्ष्यामि भेदतः। सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च। त्रिकण्ठकः कुणी चापि हस्तिकक्षोऽपराजितः। चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः। तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशःकृष्णश्चभवति। प्रतिसूर्य्यं पिङ्गभासी बहुवर्णो महाशिराः। तथा निरुपमश्चापि पञ्च गौधेरकाः स्मृताः। तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत्। रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः। गलगोली श्वेतकृष्णा रक्तराजी रक्तमण्डला सर्व्वश्वेता सर्षपिका इत्येवं षट् ताभिर्दष्टे सर्षपिकावर्ज्जं दाहशोफक्लेदा भवन्ति। सर्षपिकया हृदत्यपीडातिसारश्च। शतपद्यस्तु परुषा कृष्णा चित्रा कपिलिका पीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ ताभिर्दष्टे शोफो वेदना दाहश्च हृदये श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च। मण्डूकाः कृष्णः सारः कुहको हरितो रक्तो यववर्णाभो भृकुटी कोटिकश्चेत्यष्टौ तैर्दष्टस्य दंशकण्डूर्भवति पीतफेनागमश्च वक्त्रात्। भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातितिमात्रम्। विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिश्चीयते शीतज्वरार्त्तश्च पुरुषो भवति। अहिण्डुकाभिर्दष्टेतोददाहकण्डूश्वयथवो मोहश्च। कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्द्यतीसारज्वरादिभिरभिहन्यते। शूकवृन्तादिभिर्दष्टे कण्डूकोठाः प्रवर्द्धन्ते शूकञ्चात्र लक्ष्यते। पिपीलिकाः स्थूलशीर्षा संवाहिका ब्राह्मणिकाङ्गुलिका कपिलिका चित्रवर्णेति षट् ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः। मक्षिकाः कान्तारिका कृष्णा पिङ्गलिका मधूलिका काषायी स्थालिकेत्येवं षट् ताभिर्दष्टस्य दाहशोफौ भवतः। स्थालिका काषायीभ्यामेतदेव पिडकाश्च सोपद्रवा भवन्ति। मशकाः सामुद्रः परिमण्डलो हस्तिमशकः कृष्णः पार्वतीय इति पञ्च तैर्दष्टस्य तीव्रकण्डूर्दंशशोफश्च पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः। नखावकृष्टेऽत्यर्थं पिडकाः सदाहपाकाभवन्ति। जलौकसां दष्टलक्षणमुक्तं चिकित्सितञ्च। भवन्ति चात्र। गोधेरकःस्थालिका च ये च श्वेताग्निसंप्रभे। भृकुटीकोटिकश्चैव न सिध्यन्त्येकजातिषु। शवमूत्रपुरीषैस्तु सविषैरवमर्षणात्। स्युः कण्टदाहकोठारुः पिडकातोदवेदनाः। प्रक्लेदवांस्तथास्रावो भृशं सम्पाचयेत्त्वचम्। दिग्धविद्धक्रियास्तत्र यथावदवचारयेत्। नावसन्नं नचोत्सन्नमतिसंरम्भवेदनम्। दंशादौ विपरीतार्त्ति कीटदष्टं सुबाधकम्। कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत्। त्रिविधानान्तु सर्पाणां त्रैविध्येन क्रिया हिता। स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत्। अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात्। विषघ्नञ्च विधिं सर्वं कुर्य्यात् संशोधनानि च”। २ कीटाख्येषु राशिषु

कीटगर्द्दभक = पु० कीटभेदे कीटशब्दे विवृति०।

कीटघ्न = पु० कीटं हन्ति हन–टक्। गन्धके राजनि०।

कीटजा = स्त्री० कीटेभ्यो जायते जन–ड। १ जतुनि लाक्षायाम् रत्नमाला० २ कीटजातमात्रे त्रि०।

कीटपादिका = स्त्री कीटाःपादे मूलेऽस्याः कप् अतैत्त्वम्।

कीटमणि = पु० कीटेषु मणिरिव। खद्योते शब्दचि०।

कीटमातृ = स्त्री कीटस्य मातेव मूले बहुलकीटप्रसवात्। हंसपदीवृक्षे भावप्र०।

कीटमारी = स्त्री कीटान् मारयति सेवनेन मृ–णिच्–अण् उप० स० गौरा० ङीष् मुग्ध० मते षण् ईप्। हंसपदीवृक्षे राजनि०।

कीटमेष = पु० कीटोमेष इव। नदीतीरे सिकतामध्ये स्थायिनि (उच्चिङिडा) इतिख्याते कीटभेदे शब्दचि०।

कीटसंज्ञ = पु० कीटः संज्ञा यस्य। “कर्कटवृश्चिकमीना मकरान्त्यार्द्धञ्च कीटसज्ञाः स्युः” ज्यो० उक्तेषु कर्कटादिषु राशिषु कीटाख्यादयोऽप्यत्र। यद्यप्येषां सर्वेषां कीटसंज्ञा तथापि क्वचित् कीटशब्दस्य वृश्चिकराशिमात्रपरता यथा “हरिः कीटघटेन च” पताकीवेथे वृश्चिकस्यैव सिंहकुम्भाभ्यां वेधात्तस्यैव ग्रहणम्।

कीडेर = पु० कील–एरच् लस्य डः। तण्डुलीयशाके–भाबप्र०।

कीदृक्ष = त्रि० कस्येव दर्शनमस्य किम् + दृश–क्स क्यादेशे दीर्घः। किम्प्रकारे। क्विन्। कीदृश्। कङ्। कीदृश तत्रार्थे त्रि० तत्र कङि स्त्रियां ङीप्, क्से टाप् इति भेदः। “प्रिये! स कीदृक् भविता तव क्षणः” नैष०। “यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे तद्भोः कीदृगसौ विवेकविभवः कीदृक् प्रबोधीदयः” प्रवोधच०।

कीनाश = पु० कुत्सितं नाशयति, कीचनाशि अच् क्लिश्नाति नि० वा। १ यमे “विधेहि कीनाशनिकेतनातिथिम्” माघः। २ वानरे पुंस्त्री अभरः स्त्रियां जातित्वात् ङीष्। ३ पशुकेः। ४ क्षुद्रे ५ कर्षके च त्रि० मेदि०। “कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च। विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः” मनुः “कीनाशः कर्षकः” कुल्लू०। “शुनं न फाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः” ऋ०४, ५७, ८, “कीनाशाः बलीवर्द्धरक्षकाः” भा०। “नाद्रियन्ते यथापूर्व्वं कीनाशाइव गोजरम्” भाग० ३, ३०, ११। क्षुद्रे “य उद्यतमनादृत्य कीनाशमभियाचते। क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः” भाग० ३२२, १२

कीर = पुंस्त्री कीति ईरयति ईर–णिच्–अच्। १ शुके पक्षिभेदे अमरः। “खगवागियमित्यतोऽपि किं न मुदं धास्यति? कीरगीरिव” नैष० जातित्वात् स्त्रियां ङीष्। २ काश्मीरदेशे पु० भूम्नि मेदि० अल्पार्थे कन्। कीरक शुकशावे संज्ञायां कन्। वृक्षभेदे क्षपणके च धरणिः

कीरवर्ण्णक = न० कीरस्येव वर्ण्णोऽस्य कप्। (स्थौणेयक) नाम सुगन्धिद्रव्ये राजनि०।

कीरि = पु० कीर्य्यते विक्षिप्यते कॄ–बा० ये १ स्तोत्रे “कीरिणा देवान्नमसोपशिक्षन्” ऋ० ५, ४०, ८, “कीरिणा स्तोत्रेण” भा० २ स्तुत्यादिषु विक्षिप्ते त्रि०। “थस्या हृदा कीरिणा मन्थमानः” ऋ० ५, ४, १०, “कीरिणा स्तत्यादिषु विक्षिप्तेन हृदा” भा० ३ स्तोतरि त्रि० निरु० “वसु स्तुवते कीरये” ऋ० ६, २३, ३, “कीरिरितिस्तो नाम” भा० “सखायं कीरिचोदनम्” ऋ० ६, ४५, १९, “कीरीणां स्तोतॄणां चोदनं प्रेरयितारम्” भा०।

कीरेष्ट = पु० कीरस्य इष्टः। १ आम्रवृक्षे २ आखोटवृक्षे (आखरोट) ३ जलमधूकवृक्षे च राजनि०।

कीर्ण्ण = त्रि० क्वृ–क्त। १ आच्छन्ने २ निहिते ३ विक्षिप्ते ४ हिंसिते च मेदि०। “श्रमविवृतनुखभ्वंशिभिः कीर्ण्णवर्त्मा” शकु०। “कीर्ण्णं शनैरनुकपोलमनेकपानाम्” माघः।

कीर्ण्णि = स्त्री० कॄ–भावे क्तिन् नि० निभावः। १ विक्षेपे २ हिंसने ३ आच्छादने च।

कीर्त्तन = न० चु० कृत–कीर्त्तादेशः सौत्र–कीर्त्त–वा भावे ल्युट्। कथने।

कीर्त्तना = स्त्री चु० कृत कीर्तादेशे भावे युच्। १ कथने। कर्म्मणि युच्। २ यशसि शब्दरत्ना०।

कीर्त्ति = स्त्री सौ० कीर्त्त–क्तिन्। १ प्रसादे मेदि०२ शब्दे ३ दीप्तौ ४ मातृकाविशेषे च शब्दरत्ना० ५ विस्तरे ६ कर्द्दमे च विश्वः। ७ ख्यातिभेदे अमरः। ख्यातिभेदश्च धार्म्मिकत्वादि प्रशस्तधर्म्मवत्त्वेननानादेशीय कथन ज्ञानविषय ता। कीर्त्तिश्च जीवतोमृतस्य वेत्यत्र विशेषोनास्ति। “यस्य कीर्त्तिः श्रुता लोके धन्यं तस्य सुजीवितम्” नीतिसारे “सम्भावितस्य चाकीर्त्तिर्मरणादतिरिच्यते” गीतायाञ्च जीवतोऽपि कीर्त्तिसत्त्वस्योक्तेः। तत्र दानादिप्रभावा ख्यातिः कीर्त्तिः शौर्य्यादिप्रभवा ख्यातिर्यश इति केचिद्यशःकीर्त्त्योर्भेदमाहुः “कीर्त्तिं स्वर्गफलामाहुरासंसारं नृणां किल” इत्यनेन कीर्त्तेः स्वर्गफलतोक्तेः। जीवतःख्यातिर्यशः मृतस्य ख्यातिः कीर्त्तिरिति विभागस्तु न सम्यक् “इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्” इति मनुना इहलोकेऽपि कीर्त्तिप्राप्ते रुक्तेः। एतेन “प्रज्ञां यशश्च कीर्त्तिञ्च ब्रह्मवर्चसमेव च” मनुवाक्यस्य “जीवन् यशः मृतश्च कीत्तिमिति” कुल्लू० व्याख्या चिन्त्या प्राग्दर्शितमनुवाक्यान्तरविरोधात् किन्तु स्वर्गादिफलकदानादिधर्म्मेणैव कीर्त्तिः, शौर्य्यादिना यश इत्युभयार्भेदसम्भवेन मनुवाक्यस्य तदर्थपरत्वमेवोचितम् “स्वकान्तिकीर्त्तिव्रजमौक्तिकस्रजम्” नैष०।

कीर्त्तित = त्रि० चु० कृत–कीर्त्तादेशेक्त। १ कथिते–२ ख्याते च।

कीर्त्तिभाज् = पु० कीर्त्तिं भजते भज–ण्वि १ द्रोणाचार्य्ये शब्दरत्ना०। २ कीर्त्तियुक्ते त्रि०

कीर्त्तिमत् = त्रि० कीर्त्तिरस्त्यस्य मतुप्। १ कीर्त्तियुक्ते स्त्रियां ङीप्। विश्वदेवान्तर्गते श्राद्धदेवभेदे पु० २ विश्वेदेवाश्च भा० आनु० १५२ अ० दर्शिता यथा “विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्ब्बमेव ते। तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्। बलं धृतिर्विधाता च पुण्यकृत् पावनस्तथा। पार्ष्णिक्षेमी समूहश्च दिव्यसानुस्तथैव च। विवस्वान् वीर्य्यवान् ह्रीमान् कीर्त्तिमान् कृत एव च। जितात्मा मुनिवर्य्यश्च दीप्तरोमा भयङ्करः। अनुकर्म्मा प्रतीतश्च प्रदाताऽथांशुमांस्तथा। शलाभः परमक्रोधी घीरोष्णीभूपतिस्तथा। अजी वज्रो बरी चैव विश्वेदेवाः सनातनाः। विद्युद्वर्च्चाः सोमवर्च्चाः सूर्य्यश्रीश्चेति नामतः। सोमपः सूर्य्यसावित्रो दत्तात्मा पुण्डरीयकः। उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च। चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः। ईशः कर्त्ता कृतिर्द्दक्षो भुवनो दिव्यकर्म्मकृत्। गणितः पञ्चवीर्य्यश्च आदित्यो रश्मिमांस्तथा। सप्तकृत् सोमवर्च्चाश्च विश्वकृत् कविरेव च। अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च। कीर्त्तितास्ते महाभागाः कालस्यागतिगीचराः”। ३ वसुदेवज्येष्ठपुत्रे “वसुदेवस्तु देवक्यामष्टौ पुत्रानजीजनत्। कीर्त्तिमन्तमित्यादि” भाग० ९, २१, २५।

कीर्त्तिशेष = त्रि० कीर्त्तिःशेषोयस्य। नामशेषे मृते शब्दचि०

कील = बन्धे भ्वादि० पर० सक० सेट्। कीलति अकीलीत्। चिकील कीलः। कीलितः कीलनम्। प्रनिकीलति

कील = पु० कील–बन्धे यथायथं भावकरणादौ घञ्। १ वह्निशिखायां २ शङ्कौ (गो~ज) अमरः। ३ स्तम्भे (खो~टा) ३ लेशे ४ कफोणौ मेदि०। ५ कफोणिनिम्नदेशे विश्वः। “परिखाश्चापि कौरव्य! कीलैः सुनिचिताः कृताः” भा० ३, ६५० श्लो० ६ रतिप्रहारभेदे स्त्री “कीला उरसि, कर्त्तरी शिरसि, विद्धा कपोलयोः” वात्स्या० भावे अ, ७ बन्धे स्त्री

कीलक = पु० कीलति बध्नात्यनेन करणे घञ् स्वार्थे क। १ स्तम्भभेदे (खो~टा) गवादेर्दोहनकाले रोधनार्थे २ काष्ठमयस्तम्भे सुभूतिः। तन्त्रोक्ते देवताभेदे ३ मन्त्रविशेषे न०। प्रभवादिषष्टिवर्षमध्ये ४ वर्षभेदे तत्फलञ्च “जायन्ते सर्वशस्यानि सुभिक्षं निरुपद्रवम्। सौम्यवृष्टि र्भवेद्राजन्! कीचके च शुभं भवेत्” ज्यो० त० सप्तशतीजपाङ्गतया पाठ्ये ५ स्त्रवभेदे न० स च “सर्वमेतद्विना यस्तु मन्त्राणामपि कीलकम्” इत्यादि। तस्य च कीलकत्वम् तज्ज्ञानं विना फलाजनकत्वात् तदुक्तं तत्रैव “कृष्णायां च चतुर्दश्यामष्टम्यां वा समाहितः ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति” इत्थं रूपेण कीलेन महादेवेन कीलितम्। यो निष्कीलां विधायैनां नित्यं जपति सम्पुटाम्”। तत्रैव तज्ज्ञानस्या भावे निष्कलत्वोक्तेश्च तच्च गुरुलघुभेदेन द्विविधं गुप्तवत्यां विवृतिः”। तेन कृष्णाष्टमीचतुर्दश्योः नूतनार्जितधनस्य देवातिथ्यादिभ्यो यथोचितांशदानं तदवशिष्टस्य स्वायत्तीकरणमावश्यकं तद्विना सप्तशतीजपस्य न फलजनकत्वमिति गम्यते “अर्गल कीलकं चादौ पठित्वा कचम् पठेत्” तत्रैव

कीलसम्पर्श = पु० कीलं तदुपकारं संस्पृशति सम् + स्पृश–अण् उप० स०। (गाव) वृक्षभेदे शब्दच०

कीलाल = पु० कीलाय बन्धाय अलति पर्य्याप्नोति अल–अच् ४ त०। १ पशौ२ बन्धनयोग्ये त्रि० मेदि०। “कीलां वह्निशिखां कीलं मृत्युबन्धं वाऽलति वारयति अल–अण् उप० स०। ३ जले कीलां तद्वर्णमलति याति ४ रुधिरे न० अमरः ५ अमृते ६ मधुनि च शब्दर०। मधुनः शीघ्रसंग्राहकत्वेन बन्धहेतुत्वात् तथात्वम्। “ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम्” यजु० २, ४, ७। ७ रसे पु०। “अथोअन्नाय कीलालः उपहूतो गृहेषु” यजु० ३, १३, तत्र रुधिरे “सद्यःकृत्तकठोरकण्ठविगलत्कीलालधारोज्ज्वलैः”। जले “कीलालजं न खादेयं करिष्ये चासुरव्रतम्”। भा० व० अ० “कीलालजं जलजम्”।

कीलालधि = पु० कीलालं धीयतेऽस्मिन् धा–आधारे कि ६ त०। समुद्रे शब्दच०

कीलालप = पुंस्त्री कीलालं रुधिरं पिवति पा–क। रुधिरपे राक्षसे रत्नमा० स्त्रियां ङीष् “स च कीलालोपयस्तु परान्नं भोक्तुमिच्छति” भा० व० १३२४१।

कीलित = त्रि० कील–क्त। १ बद्धे २ जातकीले च भावे–क्त। ३ बन्धे न०।

कीयत् = त्रि० कियत् + पृषो० वेदे नि० दीर्घः। कियदित्यर्थे “आः कीयतः ललूकं चकर्थ” ऋ० ३, ३०, १७,

कीश = पुंस्त्री कस्य वायोरपत्यम् अत–इञ् किः हनुमान् ईशो यस्य कुत्सितं शेते शी–ड वा। वानरे अमरः स्त्रियां जातित्वात् ङीष्। २ सूर्य्ये कपिकपोलतुल्यवर्ण्ण त्वात् तत्त्वं ३ पक्षिणिच शब्दर० कुत्सितशयनात्तस्य तथात्वम्। ४ नग्ने मेदि०। कीशवदुवस्त्रराहित्यात्तस्य तथात्वम।

कीशपर्ण्ण = पु० कीशः तल्लोमेव पर्णमस्य। अपामार्गे शब्दर०। जातित्वेन ङीष्। कीशपर्णीत्यप्यत्र अमरः

कु = शब्दे वर्णे च भ्वा० आत्म० अक० अनिट् कवते अकोष्ट चुकुये प्रनिकवते

कु = आर्त्तस्वरे तुदा० आत्म० अ० क० अनिट्। कुटादि। कुवते अकोष्ट चुकाव

कु = शब्दे अदा० पर० अक० अनिट्। कौति अकौषीत् चुकाव

कु = अव्य० कु + डु। १ पापे, २ निन्दायाम्, ३ ईषदर्थे, ४ निवारणे च। ५ भूमिभागे ६ धरायाञ्च स्त्री। कुत्सितार्थत्वे ईषदर्थत्वेचास्य “कुगतिप्रादयः” “पा० समर्थेन नित्यसमासः कुरूपम् कुदेशः तत्रायं भेदः तत्पुरुषे अजादौ शब्देपरे कोः कत्। कुत्सितोऽश्वः कदश्वः कदन्नम्कदध्वः कदग्निः। “रथवदयोश्च” पा० कद्रघः कद्वदः “तृणे च जातौ” पा० कत्तृणम् पथिशब्दे कृतसमासान्ताक्षशब्दे परे च कादेशः कापथः काक्षः। ईषदर्थस्य कोः का, ईषज्जलं काजलम् पुरुषे परे का वा ईषत् पुरुषः कुपुरुष कापुरुषः। उष्णे उक्तत्रयादेशः कोष्णं कवोष्णं कदुष्णम्” गतिप्रादिसाहचर्य्यात् अव्ययस्यैवेह ग्रहणात् न भूमिवाचस्य नित्यसमासः नवा कदादेशः अव्ययपूर्ब्ब कत्वात् प्रकृतिस्वरः, “राहुः कुभामण्डलगः शशाङ्कंग्रस्ते” “ज्यो० ब्राह्मण इव कुशासनसहितः” काद०। कुदिनम् कुजः अव्ययस्य वेदे दीर्घः “कूष्ठोदेवावश्विनाद्यादिवोमनावसू” ऋ० ५, ७४, १।

कुंसा = स्त्री कुसि–भावे अ। १ भाषणे २ ज्ञापने च

कुक = आदाने भ्वा० आत्म० सक० सेट्। कोकते। अकोकिष्ट। चुकुके कोकः’ प्रनिकोकते

कुक = त्रि० कुक–क। १ समर्थे २ आदायिनि च।

कुकभ = न० कुकस्य भा यत्र। मद्ये शब्दच०। तत्पानस्य सामर्थ्याघायकत्वात् तथात्वम्

कुकर = पु० कुत्सितःआदानादिमान्द्ययुक्तः करोयस्मात्। करस्य क्रियामान्द्यसम्पादके कुणिरोगे अमरः। ब० ब० २ तद्रोगयुक्ते त्रि०। कु + कृ–ट। ३ कुकर्म्मकारके त्रि०।

कुकर्म्मन् = न० कुत्सितं कर्म्म नित्यस०। १ लोकशास्त्रनिन्दिते कर्म्मणि ब० व०। २ तद्युक्ते त्रि० स्त्रियां वा ङीप्

कुकील = पु० कोः पृथिव्या। कीलैव। पूर्व्वते त्रिका० तस्य भूमौ कीलरूपेणावस्थानात् तथात्वम्

कुकुट = पु० कौ कुटति कुट–क, कोः कुटैव वा। (सुषुणि) इतिख्याते शाकभेदे राजनि० तस्य पृथिव्याः कुटतुल्यत्वात् तथात्वम्

कुकु(कू)द = पु० कोः पृथिव्याः कुद ईषद्दः। सत्कृतालङ्कृतायाः कन्याया दातरि पृषो० दीर्घपाठः इत्यन्ये। कन्यादस्य ईषद्भूमिदानसमत्वात्तस्य तथात्वम्। सत्कृतालङ्कृतां कन्यां ददानः ककुदः स्मृतः” अमरे पाठान्तरम् अत्र प्रसिद्धपदसान्निध्यात् कुकुदपदस्य उक्तार्थे शक्ति ग्रह इति शब्द० प्र०। प्रसिद्धपदसान्निध्यञ्च प्रसिद्धार्थ पदसामानाधिकरण्यम् सामानाधिकरण्यञ्च अभेदेनान्वयबोधकत्वम्। न्यायमते तिङर्थस्याभेदेन प्रथमान्तार्थे अन्वयासम्भवेन “यो ददाति स कुकु(कू)दः इत्यमर पाठे स्थिते ददातीतिस्थाने ददान इति पाठः कल्पितः। व्याकरणमते तु तिङन्तार्थस्य प्रथमान्तार्थेऽभेदेनान्वयस्वीकारान्न यथाश्रुतपाठेऽपि क्षतिः। विवेचितं चैतदस्माभिः शब्दार्थरत्ने तत एव तदवसेयम्।

कुकुन्दर = पु० कुं भूमिं दारयति अन्तर्भूतण्यर्थे दृ–अण् नि० कुत्सितं कुन्दरमत्र, स्कुद्यते कामिनाऽत्र स्कुद् नि० वा। स्त्रीणां १ नितम्बस्थे आवर्त्ताकारे पृष्ठवंशादधोबर्त्तिगर्त्तद्वये। अमरः। (कुकुरसोङ्गा) २ वृक्षे भावप्र०।

कुकुभा = स्त्री रागिणीभेदे हलायुधः।

कुकुर = पु० कुं पृथिवी० कुरति त्यजति स्वामित्वेन कुर–क। यदुवंशीयनृपभेदे तेषां ययातिशापात् राज्यं नास्तीति पुराणकथा यदुशब्दे दृश्या। “विधुरि ता धुरिताः” कुकुरस्त्रिय” माघः। २ दशार्हे देशभेदे पु० ब० व०। कुकौरच् किच्च। ३ कुक्कुरे हड्डचन्द्रः। ४ ग्रन्थिपर्ण्योषधौ त्रिका०। कुकुरनृपश्चान्धकपुत्रभेदः। “कुकुरः भजमानशुचिकम्बलबर्हिषास्तथान्धकस्य पुत्राः” इति विष्णु पु० “कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः। “अन्धकात् काश्यदुहिता चतुरोलभतात्मजान् कुकुरं भजमानं च शमं कम्बलबहिषम्” हरिवं० ३८ अ० तदधिष्ठानदेशभेदश्च दशार्हः।

कुकूटी = स्त्री कोः पृथिव्याः कूटोऽस्त्यस्याः अच् गौरा० ङीष्। शाल्मलीवृक्षे राजनि० तस्या दीर्घतया भूमिकूटतुल्यत्वात्तथात्वम्।

कुकूल = पु० कोः भूमेः कूलं, कुत्सितं वा कूलम् कु–ऊलच् धातोः कुगागमश्च वा। १ तुषानले २ शङ्कुभिः सङ्कीर्णे २ गर्त्ते ३ वर्म्मणि च अमरः। “शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना। अयं क्वच कुकूलाग्निः कर्कशो मदनाऽनलः”।

कुकोल = न० कुत्सितं कोलति कुल–अच्। कोलिवृक्षे। शब्दच०।

कुक्कुट = पुंस्त्री० कुक–सम्प० क्विप् कुका आदानेन कुटति कुट- क। पक्षिभेदे चरणायुधे १ ताम्रचूडे स्त्रियां जातित्वात् ङीष्। तस्य शुभाशुभलक्षणमुक्तम् वृह० सं० यथा“कुछुटस्त्वृजुतनूरुहाङ्गुलिस्ताम्रवक्त्रनखचूलिकः सितः। रौति सुखरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम्। यवग्रीवो यो वा वदरसदृशो वापि विहगो वृहन्मूर्धा वर्णैर्भवति बहुभिर्यश्च रुचिरः। स शस्तः सङ्ग्रामे मधुमधुपवर्णश्च जयकृन्न शस्तो योऽतोऽन्यः कृशतनुरवः खञ्जचरणः। कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेक्षणा। सा ददाति सुचिरं महीक्षितां श्रीयशोविजयवीर्यसम्पदः”। तन्मांसगुणा भावप्र० उक्ता यथा “कुक्कुटो वृंहणः स्निग्धो वीर्य्योष्णोऽनिलहृद्गुरुः। चक्षुष्यः शुक्रकफकृत् वल्यो वृष्यः कषायकः। वातपित्तक्षयवमिविषमज्वरनाशनः”। अभक्ष्यप्रकरणेग्राम्यकुक्कुटस्याभक्ष्यत्वमाह मनुः “छ त्राकं विड्वराहं च लसुनं ग्राम्यकक्कुटम्” २ तृणोल्कायां (उको) ३ कुक्कुभखगे च ४ वह्निकणे स्कुलिङ्गे हेम०। स्वार्थे क तत्रार्थेषु मेदि०। “शूद्रजातोनिषाद्यां तु स वै कक्कुटकः स्मृतः” मनूक्ते निषादीजाते शूद्रपुत्रे च

कुक्कुट(टी)व्रत = न० भाद्रशुल्कसप्तम्यां कर्त्तव्यव्रतभेदे “भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या। स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बिकम्। पूजयेच्च तदा तस्या दुष्प्रापं नैव विद्यते” ति० त० भवि० पु०। इदं कुक्कुटीव्रतमिति ति० त० रघुनन्दनः

कुक्कुटमण्डप = काशीस्थे मुक्तिमण्डपे स्थाने। तस्य तन्नाम कारणकथा च काशो० ९८ अ० दर्शिता यथा“कैबल्यमण्डपस्यास्य भविष्यद्वावरे हरे!। लोके ख्यातिर्भवित्रीयमेष कुककुटमण्डपः” इति शिवोनोक्ते तद्विषये हरिप्रश्ने यथा तस्य कुक्कुटमण्डपनामप्राप्तिस्तथेतिहासो वर्ण्णितः। तत्र चण्डालतः प्रतिग्राहकविप्रस्य सुतद्वयपत्नीभ्यां सहितस्य कीकटे कुक्कुटयोनित्वप्राप्तिमुपवर्ण्ण्य तस्य मरणकाले काशीस्मरणजात् पुण्यात् कुक्कुटयोनिगतावपि काशीप्राप्त्या मुक्तिरित्युक्तम् यथा “न काश्यां मरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात्। प्रान्ते कुटुम्बस्मरणात्तथा काशीस्मृतेरपि। चौरैर्हतोऽपि स तदा कोकटे कुक्कुटोऽभवत्। सा कुर्क्कुटीसुतौ तौ तु ताम्रचूडत्वमापतुः। प्रान्ते काशीस्मरणतोजाता जातिस्मृतिः पुरा। इत्थं बहुतिथे काले गते कार्पाटिकोत्तमाः। तस्मिन्नेवाध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः। वाराणस्याः कथां प्रोच्चैः कुर्वन्तोऽन्योन्यमेव हि। काशीकथां समाकर्ण्ण्य तदा ते चरणायुधाः। जातिस्मृतिप्रभावेन तत्सङ्गेन तु निर्गताः। तैश्च कार्पटिकश्रेष्ठैः पथि दृष्टाः कृपालुभिः। तण्डुलादिपरिक्षैपेः प्रापिताः क्षेत्रमुत्तमम्। ते तु क्षेत्रं समासाद्य चत्वारश्चरणायुधाः। चरिष्यन्तोऽत्र परितोमुक्तिमण्डपमुत्तमम्। जिताहारान् सनियमान् कामक्रोधपराङ्मुखान्। शृण्वतः सत्कथालापान् लोभमोहविवर्ज्जितान्। स्वर्धुनीस्नानसंक्लिन्नसुनिर्मलशिरोरुहान्। मन्नामोच्चारणपरान् मत्कथार्पितसुश्रुतीन्। मद्दत्तचित्तसद्वृत्तीन् दृष्ट्वा क्षेत्रनिवासिनः। मानयामासुरथ तान् कुक्कुटान् साघुवर्त्मनः। प्राक्तनाद्वासनायोगात् संप्रधार्य्य परस्परम्। क्रमेणाहारमाकुञ्च्य प्राणांस्त्यक्ष्यन्ति चात्र ते। पश्यतां सर्व्वलोकानां विष्णो! ते मदनुग्रहात्। विमानमधिरुह्याशु कैलासं प्राप्य मत्पदम्! निर्बिश्य सुचिरं कालं दिव्यान् भोगाननुत्तमान्। ततोऽत्र ज्ञानिनोभूत्वा मुक्तिं प्राप्स्यन्ति शाश्वतीम्। ततो लोकास्तदारभ्य कथयिष्यन्ति सर्ब्बतः। मुक्तिमण्डपनामैतदेष कुक्कुटमण्डपः”।

कुक्कुटमस्तक = पु० कुक्कुटस्येव मस्तकं शिखा यस्य। चव्ये (चै)। राजनि०

कुक्कुटशिख = पु० कुक्कुटस्य शिखेव शिखा यस्य। कुसुम्भवृक्षे शब्दच० तस्यहि पुष्पाणि कुक्कुटशिखातुल्यानीति तस्य कुक्कुटतुल्यरक्तशिखपुष्पत्वात्तथात्वम्

कुक्कुटागिरि = पु० कुक्कुटप्रधानोगिरिः किंशुलुका० दीर्घः। कुक्कुटप्रधाने पर्वते

कुक्कुटाण्ड = पु० कुक्कुट्या अण्डः पुंवद्भावः। कुक्कुट्याअण्डे

कुक्कुटाभ = पुंस्त्री कुक्कुट इवाभाति आ + भा–क। कक्कुटचरणतुल्ये सर्पभेदे हेमच० स्त्रियां जातित्वात् ङीष्।

कुक्कुटासन = न० “कुक्कुटासनमावक्ष्ये नाडीनिर्म्मलहेतुना। सत्कुलागममार्गेण कुर्य्यात् वायुनिरोधनम्। निजहस्तद्वयं भूमौ पातयित्वा जितेन्द्रियः। पद्भ्यां बद्धं यत् करोति कर्परद्वयमध्यगम्। सव्यापसव्ययुगलं तत्कुक्वुटासनमुच्यते” इति रुद्रयामलोक्ते आसनभेदे

कुक्कुटाहि = पु० कुक्कुट इव तच्चरणैवाहिः। सर्पभेदे हेमच०।

कुक्कुटि = स्त्री कुक्कुट इवाचरति कुक्कुट + आचारार्थे क्विप् ततः इन्। दम्भचर्य्यायाम् हेमच०। वा ङीप्। तत्रैव। सा च २ कुक्कुटजातिस्त्रियाम् ३ ज्येष्ठ्याम् (टिक्टिकी) कीटमेदे शब्दरत्ना०। ४ शाल्मलीवृक्षे जटा०

कुक्कुभ = पु० कुक् इत्यव्यक्तं शब्दं कौति कु–भक्। वन कुक्कुटे। कुक्कुशब्दं भाषते भाष–बा० ड। २ कुक्वुटे पक्षिणि। (पात्कुका) इति ख्याते ३ पक्षिभेदे अमरः।

कुक्कुर = पुंस्त्री कोकते क्विप् कुरति शब्दायते कुर–शब्दे क कर्म्म०। १ स्वनामख्याते पशौ। तच्छुभाशुभलक्षणमुक्तं वृ० स० यथा “पादाः पञ्चनखास्तथाग्रचरणः षड्भिर्नखेर्दक्षिणस्ताम्रोष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च। लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू यस्य स्यात् स करोति पोष्टुरचिरात् पुष्टां श्रियं श्वा गृहे। पादेपादे पञ्च पञ्चाग्रपादे वामे यस्याः षण्नखा मल्लिकाक्षाः। वक्रं पुच्छं पिङ्गलालम्बकर्णा या सा राष्ट्रं कुक्कुरी पाति पोष्टुः”। स्त्रियां जातित्वात् ङीष्। कुकुरगुणाश्चाण्यक्येनोक्ताः यथा “बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः। प्रभुभक्तश्च शूरश्च षडेते च शुनोगुणाः”। २ ग्रन्थिपर्णोवृक्षे न० शब्दचि०।

कुक्कुरद्रु = पु० कुक्कुरस्तद्गन्धयुक्तोद्रुर्वृक्षः। (कुकुरसोङ्गा) कृक्षभेदे “कुक्कुरद्रुः कटुस्तिक्तो ज्वररक्तकफापहः। तन्मूलमार्द्रं निक्षिप्तं वदने मुखशोषहृत्” मावप्र०।

कुक्कुरवाच् = पु० कुक्कुरस्येव वागस्य। सारङ्गमृगे राजनि०

कुक्ष = पु० कुष–क्स। जठरे उज्ज्वलदत्तः।

कुक्षि = पु० कुष–क्सि। १ उदरे “विपुलेन सागरशयस्य कुक्षिणा” माघः “कुम्भीनस्याश्च कुक्षिजः” रघुः। “तव कुक्षौ महाभागे!। अचिरात् संजनिष्यते” रामा० २ उदरस्य वामदक्षिणप्रार्श्वयोश्च(को~क) अमरः। ३ मध्यभागे “ततः मागरमासाद्य कुक्षौ तस्य महीर्म्मिणः” भा० व० ७९ अ०। कुक्षौ भवः अण्। कौक्ष उदरभवे मध्यभवे च त्रि० स्त्रियां ङीप्। कुक्षौ बद्धोऽसिः ढकञ्। कौक्षेयकोऽसिः। कुक्षिदेशे भवः धूमा० वुञ्। कौक्षक मध्यदेशभवे त्रि०।

कुक्षिम्भरि = त्रि० कुक्षिं बिभर्त्ति भृ–खि–मुम् च। देवातिथिवञ्चनेनात्मोदरमात्रपूरके कृपणे!

कुक्षिरन्ध्र = पु० कुक्षौ मध्यमागे रन्ध्रं छिद्रं यस्य नल रायमु०।

कुक्षिशूल = न० कुक्षौ शूलः। सुश्रुतोक्ते शूलरोगभेदे “प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः। तदास्य भोजनं भुक्तं सोपष्टम्भं न पच्यते। उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः। नैवासने न शयने तिष्ठन्न लमते सुखम्। कुक्षिशूल इति ख्यातोवातादामसमुद्भवः” सुश्रु०। तस्य क्लीवत्वमपि “हृत्कुक्षिशूलं मुखकण्ठशोषः” सुश्रुतः

कुङ्कुम = न० कुक्यते आदीयते कुक–आदाने–उमक् नि० मुम्। काश्मीरादिदेशजे स्वनामख्याते १ गन्धद्रव्यभेदे। देशभेद- विशेषजातस्य तस्य लक्षणादि भावप्रकाशे दर्शितं यथा“काश्मीरदेशजे क्षेत्रे कुङ्कमं यद्भवेद्धि तत्। सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम्। वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरम्मतम्। केतकीगन्धयुक्तन्तन्मध्यमं सूक्ष्मकेशरम्। कुङ्कुमं पारसीके यन्मधुगन्धि तदीरितम्। ईषत्पाण्डुरवर्णं यदधमं स्थूलकेशरम्। कुङ्कमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित्। तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषश्रमापहम्”

कुङ्कुमाद्रि = पु० कुङ्कुमस्याकरोऽद्रिः। काश्मीरदेशस्थे पर्व्वतभेदे

कुङ्कुमी = स्त्री कुङ्कुमवर्ण्णोऽस्त्यस्याः अच्गौरा० ङीष्। महाज्योतिष्मतीलतायाम् राजनि०। पृषो० कुङ्कुनीति पाठान्तरम् तत्रैवार्थे

कुच = रोधे, सम्पर्के लेखने च सक० कौटिल्यं अक० तु० पर० सेट् कुटादि। कुचति अकुचीत् चुकोच कुचः। प्रनिकुचति

कुच = पु० कुच–कर्त्तरि क। स्तने। स्त्रीणां कुचवृद्धिर्यौवने यथाह सुश्रुतः “स्त्रीणां तु बिंशतिरधिका दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्च, यौवने तासां परिवृद्धिः” इति विवृतञ्चैतत् भावप्र० यथा“पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते। तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि। कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा। रोमराज्यादयः पुंसां नारीणामपि यौवने। जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च। व्याख्यानं यथा पुंसां रोमराजीश्मश्रुप्रभृतयः नारीणान्तु रोमराजीस्तनार्त्तवप्रभृतयः”। “यावन्नोतद्भिद्येते स्तनौ तावद्देया” इति स्मृतौ कुचोद्भेदकालात् पूर्व्वं दानं विहितम्। स च कालः द्भादशवर्षादिः, “स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनोति यत्” नैष० “सकठिनकुचचूचुकप्रणोदम्” “नत्युन्नतत्वात् कुचमण्डलेन” “कौसुम्भं पृथुकुचकुम्भसङ्गिवासः” माघः “तन्वि! तव कुचावेतौ नियतं चक्रवर्त्तिनौ” उद्भटः “पितुर्गृहे चेत् कुचपुष्पसम्भवः” ज्यो० २ सङ्कुचिते त्रि०

कुचण्डी = स्त्री कुत्सिता चण्डी विकारकारित्वात् कोपनेव। मूर्वालतायाम् शब्दचि०। स्वार्थे क। कुचण्डिका तत्रैव।

कुचतट = त्रि० कुचस्तटमिव विशालत्वात्। विशाले १ कुचे ६ त०। २ कुचैकदेशे च।

कुचन्दन = न० कुत्सितं गन्धहीनत्वात् चन्दनम्। (वकमकाठ) १ काष्ठभेदे मेदि० २ रक्तचन्दने अमरः। इदं सुश्रुते पटोलादिगणे सालसारादिगणे चोक्तम् तत्तच्छब्दे विवृतिः ३ कुङ्कुमे शब्दचिन्ता०। रक्तचन्दनतुल्यत्वात्तस्य तथात्वम्

कुचफल = पु० कुचैव फलमस्य। दाडिम्बवृक्षे राजनि०।

कुचर = त्रि० कुत्सितं चरति चर–अच्। १ परदोषकथनशीले। हेमच० कुत्सिते स्थाने चरति चर–अच्। २ दुर्गमदेशगन्तरि “न भीमः कुचरोगरिष्ठाः” ऋ १, १५४, २, “कुचरः कुत्सितहिंसाकर्त्ता दुर्गमदेशगन्ता वा” भा० कौ चरति चर–ट। ३ भूमिचरे चि०। स्त्रियां ङीप्

कुचाग्र = पु० ६ त०। चूचुके कुचयोरग्रभागे अमरः।

कुचाङ्गेरी = स्त्री–कुत्सिता चाङ्गेरी। (चुकपालङ्ग) चुक्रे शाकभेदे रत्नमा० चुक्रशब्दे गुणादि

कुचिक = पुंस्त्री० कुच–वा० इकन्। (कु~चिया) मत्स्यभेदे स्त्रियां जातित्वात् ङीष्। वृह० स० कूर्म्मविभावे ऐशान्यामुक्ते देशभेदे “भल्लापलोलजटासुरकुनठखसघोषकुचिकाख्याः”।

कुचित = त्रि० कुच–कितच्। परिमिते उज्वलदत्तः।

कुचेल = त्रि० कुत्सितं चेतं वस्त्रमस्य। कुत्सितवस्त्रधरे। कुचा सङ्कुचा इला यस्याः ५ त०। २ विद्धकर्ण्टाम् ३ पाठायाम् स्त्री मेदि० गौरा० ङीष्। (आकनादी) ४ वृक्षे स्त्री रत्नमा०।

कुच्छ = न कु + छो–क। कुमुदे शब्दच०।

कुज = स्तेये भ्वा० पर० सक० सेट्। कोजति अकोजीत् चुकोज उदित् कुजित्वा कुक्क्त्वा। प्रनिकुजति

कुज = पु० कोः पृथिव्या जायते जन–ड। मङ्गलग्रहे यथा च तस्य तज्जातत्वं तथा आवनेयशब्दे काशीखण्डवाक्येन दर्शितम् २ नरकासुरे तस्य वाराहीरूपायाः पृथिव्याउत्पन्नत्वात् तथात्वम् तत्कथा कालिकापुराणे ३६ अ० यथा “यथा स नरकोजातो धरागर्भे महासुरः। रजस्वलाया गोत्रायागर्गे वीर्य्येण पोत्रिणः (वराहस्य)। यतोजातस्ततोभूतो देबपुत्रोऽपि सोऽसुरः” इत्युपक्रम्य “गर्भसंस्थं महावीर्य्यं ज्ञात्वा ब्रह्मादयः सुराः। गर्भएव तदा देवशक्त्या दध्रुश्चिरं दृढम्। यथाकालेऽपि संप्राप्ते नो गर्भाज्जायते स च। ततस्त्यक्तशरीरस्तु वराहस्तनयैः सह। अतीव शोकसन्तप्ता जगद्धात्र्यभवत् क्षितिः। शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः। प्रकृतिस्था क्षितिर्भूता माधवेन प्रबोधिता। ततः कालेऽपि संप्राप्ते देवशक्त्या यदा धृतः। न गर्भः प्रसवं याति तदाऽभूत् पीडिता मही। कठोरगर्भा सा देवी गर्भभारं न चाशकत्। यदा वोढुं, तदा देवं माधवं शरणं गता शरण्यं शरणं गत्वा माधवं जगता पतिम्। प्रणम्य शिरसा देवी वाक्यमेतदुवाच ह”। स्तवप्रसन्नमाधवो- क्तिधराप्रत्युक्तिभ्यां त्रेतायुगार्द्धे तदुत्पत्तिकथा“इति स्तुतो हृषीकेशोजगद्धात्र्या तदा हरिः। प्रादुर्भूतस्तदा प्राह धरित्रीं दीनमानसाम्। श्रीभगवानुवाच। कथं दीनमना देवि! धरित्रि! परिदेवसे। तव वा किङ्कृता पीडा वेत्तुमिच्छामि तदहम्। मुखन्ते परिशुष्कन्तु शरीरं कान्तिवर्जितम्। आकुलं नयनद्वन्द्वं भ्रूविभ्रमविवर्जितम्। ईदृशन्तव रूपन्तु दृष्टपूर्व्वं कदा च न। रूपस्य तु विपर्य्यासे दुःखे वीजञ्च भाषय। एतच्छुत्वा वचस्तस्य माधवस्य जगत्पतेः। विनयावनता देवी पृथ्वी प्राहसगद्गदम्। पृथिव्युवाच। गर्भभारं न संवीढुं माधवाहं क्षमाऽधुना। भृशं नित्यं विषीदामि तस्मात्त्वं त्रातुमर्हसि। त्वया वराहरूपेण मलिनी (ऋतुमती) कामिता पुरा। तेन कामेन कुक्षौ मे स्मयं गर्भोऽयमास्थितः। काले प्राप्ते स गर्भोऽयं न प्रच्यवति माधव!। कठोरगर्भा तेनाहं पीडितास्मि दिनेदिने। यदि न त्रासि मां देव! गर्भदुःखाज्जगतपते!। न चिरादेव यास्यामि मृत्योर्वशमसंशयम्। कदापि नेदृशोगर्भो धृतोमाधव! वै पुरा। योऽचलां चालयति मां सरसीमिव कुञ्जरः। एतच्छ्रुत्वा वचस्तस्याः पृथिव्याः पृथिवीपतिः। आह्लादयन् प्रत्युवाच हरिस्तप्तां लतामिव। श्रीमगवानुवाच। न धरे ते महादुःखं चिरस्थायि भविष्यति। श्रुणु येन प्रकारेण चानुभूतमिदं त्वया। मलिन्या सह सङ्गेन यो गर्भः संवृतस्त्वया। सोऽभूदसुरसत्वस्तु वृष्टेः (वराहस्य) पुत्रस्तु दारुणः। ज्ञात्वा तस्य च वृत्तान्तंगर्भस्य द्रुहिणादयः। देवीभिः शक्तिभिः सुभ्रूस्तव कुक्षौ सुतं खरम्। सर्गादौयदि जायेत भवत्यास्तादृशः सुतः। भ्रंशयेत् सकलाल्लो~कां स्त्रीनिमान् ससुरासुरान्। अतस्तस्य बलं वीर्य्यं ज्ञात्वा ब्रह्मादयः सुराः। प्राक्सृष्टिकाले ते गर्भं तदाऽधुर्जगतां कृते। अष्टाविंशतिमे प्राप्ते आदिसर्गाच्चतुर्युगे। त्रेतायुगस्य मध्ये तु सुतं त्वंजनयिष्यसि। यावत् सत्ययुगं याति त्रेतार्द्धञ्च वरानने!। तावद्वह महागर्भं दत्तः कालोमया तव। न यावज्जायते धात्रि! गर्भस्ते ह्यतिदारुणः। तावद्गर्मवती दुःखं न त्वं प्रास्यसि भाविनि!” “ये च प्रलम्बखरदर्दुररिष्टनुमिमल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः” भाग० २७, ३६। “तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्त्तबन्धुम्” भाग० ३, ३, ८ श्लो०। “कुजशुक्रबुधेन्द्दर्कसौम्यशुक्रावनीभुवाम् “ज्यो०” मङ्गलग्रहस्य चारादिकमङ्गारकशब्दे ७९ पृ० उक्तम्। कल्पे तदीयभगणादिकमुच्यते “युग्मयुग्मशरनागलोचनव्यालषण्णवयमाश्विनोऽसृजः” ९६८२८५२२ सि० शि०। कल्पे एतावन्तः कुजस्य भगणाः अस्योपत्त्यादिकं ग्रहभगणशब्दे दर्शयिष्यते। तस्य चलोच्चभगणमानञ्च तत्रैवोक्तम् “अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदाब्धयः ४३२०००००००। एतएव शनिजीवभूभुवां कीर्त्तिताश्च गणकै श्चलोच्चकाः” तत्पातस्य भगणास्तत्रैवोक्ताः “कुभृद्रसाश्विनः” २६७, तस्य मन्दकेन्द्रभगणमानं निबन्धे “खरामाश्व्यहिद्व्यष्टषड्गोद्विदस्राः” २२९६८२८२३०। “शीघ्रकेन्द्रभगणाः” गजाद्रिमनुसप्तेन्दुत्र्यश्विखाश्विमिताः” २०२३१७१४७८,। तस्य कक्षामानम् श्रीपतिनोक्तं यथा “अष्ठ्यङ्कषण्मनुगजाः क्षितिनन्दनस्य” ८१४६९१५ योजनानिमध्यमकुजस्फुटीकरणम् सि० शि० प्रमि० दर्शितं यथा “दिनगणार्धमथो गुणसंगुणं द्युगणसप्तदशांशविवर्जितम्। लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजो भवेत्” सि० शि०। “अत्रोपपत्तिः। दिनगणार्द्धं भागा इति प्रत्यहं त्रिंशत् कला गृहीताः। तत् पृथक् त्रिगुणं जातम् एताः कलाः पूर्वकलामिश्रीकृता जाताः। एतत् कुजगतेरधिकमतोऽतः कुजगतिं विशोध्य शेषम्। अनेन सप्तदशगुणेनैका कला भवति। अत उक्तं द्युगणसप्तदशांशविवर्जितमिति। पूर्वफलेन भागादिनाऽनेन च कलादिना भौमध्रुवक३३७० युक्तः कुजो भवति। यतोऽयमहर्गणोऽर्काव्दान्तादूर्ध्वमतस्तदुत्थं फलं रविमण्डलान्तिके योज्यमित्युपपन्नम्” प्रमि० कुजस्यध्रुवकमानं “तत्रैवखाद्रिरामाग्नयः” ३३७०। तथाच कलेरारम्भे राशिचक्रस्थविकलाभ्यो ध्रुवकेण हीनतायां तत्काले ११। २९। ३। ५०। राश्यादि कुजध्रुवकः तस्य मन्दशीघ्रपरिधी तत्रैव उक्तौ यथा “मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र १४ भागा रवेर्जिन २४ कलोन ३२ रदा हिमांशोः। खाश्वा ७० भुजङ्गदहना ३८ अमरा ३३ भवाश्च ११ पूर्णेषवो ५० निगदिताः क्षितिजा“दिकानाम् सि० शि०” इह ग्रहफलोपपत्त्यर्थं मन्दोच्चनीचवृत्तानि पूर्वैः कल्पितानि तेषां प्रमाणान्येतावन्तो भागाः। अत्रोपपत्तिः ग्रहस्य यन्त्रवेधविधिना यत् परमं फलमुत्पद्यते तस्य ज्या परमा फलज्या परमफलज्याऽन्त्यफलज्या चोच्यते। अन्त्यफलज्यातुल्यव्यासार्द्धेन यद्दृत्तमुत्पद्यते तन्नीचोच्चवृत्तम्। तत्परिधिस्त्रैराशिकेन। याद त्रिज्यव्यासार्द्धे भांशाः परिधिस्तदान्त्यफलव्यासार्धे किमिति लब्धं परिधिभागाः। एवमर्कादीनां त्रिलवोनशक्रा इत्यादय उत्पद्यन्ते। अथ भौमादीनां चलपरिधीनाह” प्रभि०। “एषां चलाः कृतजिना २४४ स्त्रिलबेन हीना दन्तेषवो ५३२ वसुरसा ६८ वसुवाणदस्राः २५८। पूर्णाब्धयो ४०ऽथ भृगुजस्य तु मन्दकेन्द्र–दोःशिञ्जिनी द्विगुणिता त्रिगुणेन भक्ता। लब्धेन मन्दपरिधीरहितः स्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी। त्रिज्योद्धृताशुपरिधिः फलयुक् स्फुटः स्याद्भौमाशुकेन्द्रपदगम्यगताल्पजीवा। त्र्यंशोनशैल ७ गुणितार्व ७ युतस्य राशेर्मौर्व्योद्धृताप्तलबहीनयुतं मृदूच्चम्। भौमस्य कर्किमकरादिगते स्वकेन्द्रे लब्धांशकैर्विरहितः परिधिस्तु शैध्य्रः”। मौमस्य भूमध्यादुच्छ्रितियोजनानि सि० शि० “गोकुरसञ्च षण्णवसूर्य्यसंख्याः” १२९६६१९। तस्य कालांशाः शैलभुवः १७। अस्य क्षेत्रं मेषवृश्चिकौ, उच्चंमकरः परमोच्चं मकरस्याष्टाविंशोऽंशः। नीचः कर्कटः तदीयाष्टाविंशोऽंशः सुनीचः। मूलत्रिकोणं मेषस्य दशमींऽशः। रविचन्द्र जीवामित्राणि बुधोरिपुः, शुक्रशनी समौ। चतुर्थे अष्टमे चास्य पूर्ण्णदृष्टिः। विषमराशिषु मेषमिथुनादिषु प्रथमपञ्चांशा अस्य त्रिंशाशाः समराशिषु वृषकर्कटादिषु शेषपञ्चांशा अस्य त्रिंशाशाः। अष्टोत्तरीयनाक्षत्रिकदशायां तस्य अष्टौ वर्षा दशाभोग कालः। विंशोत्तरीयनाक्षत्रिकदशायां तु सप्त वर्षाः। नक्षत्रकक्षायाम् अयं शनेरधस्तृतीयकक्षायां वर्त्तते, अयं रवितस्तृतीयवारेशः। अयं दक्षिणाशाधिपतिः अतस्तद्वारे दक्षिणद्दिग्गतिः प्रशस्ता। अयं पापग्रहः क्षत्रियवर्ण्णः भारद्वाजगोत्रः अवन्तिदेशभवः मेषवाहनः चतुर्भुजः रक्तवर्ण्णः। तस्य स्कन्दोऽधिदेवता पृथिवी प्रत्यधिदेवता। पूकने रक्तचन्दनं रक्तवस्त्रम् जवादिरक्तपुष्पं सर्ज्जरसयुक्तसिह्लकं धूपः, यावकं नैविद्यं पूगं फलम् प्रबालं रत्नंरक्तवृषभो दक्षिणा। तस्य दौस्थ्योपशमनाय विप्राय रक्तवृषभं रक्तवस्त्रं प्रबालं दद्यात् स्वयं वा प्रबालं धारयेत्। अनन्तमूलं वा धारयेत्। होमे धूमकेतुरग्निः खादिरी समित्। कुजवारे दिवा २ यामार्द्धे वारवेला ६ षष्ठे कालवेला रात्रौ ३ तृतींये कालवेला। अयं पुंग्रहः दक्षिणदिग्बली। अयं रजोगुणप्रकृतिः, तिक्तरसाप्रधानः सामवेदाधिपः तरुणमूर्त्तिः पैत्तिकः कृशमध्यः। अस्य राशिभोगकालः ४५ दिनानिऽजन्मराशितः षष्ठे तृतीये एकादशे चायं शुभः। “विक्रमायरिपुगः कुजःशुभः स्यात्तदान्त्यसुतधर्म्पगैः खगैः। चेन्न विद्ध इनसृनुरप्यसौ” ज्यो० त० उक्तस्थानेषु अन्यग्रहासत्त्वे शुभदः अन्त्यसुतधर्म्मस्थितीऽयं क्रमेण तृतीयैकादशषष्ठेषु अन्यग्रहैः स्थितैर्वामवेधेन शुद्धः “रक्तस्रावविषास्त्रकर्म्महुततुक्कार्य्यं विवादं रणं कुर्य्याद्द्वन्द्वविधिं सुदुष्टदमनम् सेतुप्रभेदं तथा। वृक्षच्छेदनभेदनानि मृगयां चौर्य्यं तथा साहसं सेनान्यं कृषिकर्म्म धातुकरणं भौमस्य लग्नेऽह्नि वा” ज्यो० त०। उक्तकर्म्म तद्वारे तल्लग्ने च शुभदम्। कर्कटराशौ रात्रौ वर्षप्रवेशेऽयं त्रिराशिपतिः, वृश्चिकलग्ने दिने वर्षप्रवेशे अयं त्रिराशिपतिः, मकरराशौ वर्षप्रवेशे दिवानिशोरयं त्रिराशिपतिः वर्षलग्नात् षष्ठस्थानमस्य हर्षपदम् मूलं नी० ता० दृश्यम्। अन्यद्ग्रहशब्दे वक्ष्यते

कुजप = पुंत्रि० कुत्सितं जपति–जप–अच्। कुत्सितजपकारके तस्येदम् अण्। कौजप तत्सम्बन्धिनि त्रि० कार्त्तेन सह द्वन्द्वे तस्य प्रकृतिस्वरः पा०

कुजम्भ = त्रि० कुत्सितो जम्भोदन्तोऽस्य। १ कुत्सितदन्तयुक्ते २ असुरभेदे पु० “प्रह्लादस्य त्रयःपुत्रा विक्रान्ताश्च महाबलाः। विरोचनश्च जम्भश्च कुजम्भश्चेति विश्रुताः” हरिव० २२६ अ० “विरोचनानुजश्चैव कुजम्भोनाम वीर्य्यवान्” हरिव० २४२ अ०।

कुजम्भन = पु० कोः पृथिव्या जम्भनमिवात्र। सन्धिचौरे हारा० तस्य पृथिव्यां सन्धिखननकाले मैथुनवदाचरणात् तथात्वम्। कुजम्भोऽस्त्यस्य इलच्। कुजम्भिलोऽप्यत्र शब्दरत्ना०।

कुजा = स्त्री कोः पृथिव्याः जायते जन–ड। सीतादेव्यां तस्याः पृथिवीतोजन्मकथा कालि० ३७ अ० “तच्छ्रुत्वा जनको राजा प्रविश्यान्तःपुरं स्वकम्। भार्य्याभिर्मन्त्रयामास यज्ञार्थं पुत्रजन्मने। मन्त्रयित्वा तदा राजा महिषीप्रमुखैः स्वयम्। चतसृभिस्तु भार्य्याभिर्यज्ञार्थं दीक्षितोऽभवत्। ततः पुरोधसं राजा गौतमं मुनिसत्तमम्। तत्पुत्रञ्च शतानन्दं पुरोधायाकरोन्मखम्। द्वौ पुत्रौ तस्य सञ्जातौ यज्ञभूमौ परौ स्मृतौ। एका च दुहिता साध्वी मूम्यन्तरगता शुभा। नारदस्योपदेशेन यज्ञभूमिं ततो नृपः। हलेन दारयामास यज्ञवाटावधि स्वयम्। तद्भूमौ जातसीतायां शुभां कन्यां समुत्थिताम्। लेभे राजा मुदा युक्तः सर्वलक्षणसंयुताम्। तस्यान्तु जातमात्रायां पृथिव्यन्तर्हिता स्वयम्। जगाद वचनञ्चेदं गौतमं जनकं नृपम्। पृथिव्युवाच। एषा सुता मया दत्ता तव राजन्मनोहरा। एनां गृहाण सुभगां लोकद्वयशुभावहाम्। अनया मे महाभार उद्धृतौ हेतुभूतया। क्षयं यास्यति भारार्त्तिं मोचयिष्यामि दारुणाम्। रावणाद्या महा वीराः कुम्भकर्णादयोऽपरे। नाशं यास्यन्ति दुर्द्धर्षाः कृतेऽस्या राक्षसाः परे। त्वञ्च मोदं दुराधर्षं यद्दहितृ कृतं नृप!। अवाप्स्यसि सुराणाञ्च पितॄणामृणशोधनम्”। कुजाः वृक्षा आश्रयत्वेन सन्त्यस्याः अच्। २ कात्यायनीदेव्यां मेदि० “कदली दाडिमी धान्यं हरिद्रा मानकं कचुः। विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिका” इत्युक्तनवपत्रिकाणाम् “तव स्थानमिदं मर्त्ये” इति मन्त्रलिङ्गेन आश्रयणीयत्वोक्तेस्तस्यास्तथात्वम्।

कुजाष्टम = पु० कुजो मङ्गलग्रहोऽष्टमोयत्र। ज्यो० उक्ते जन्मलग्नावध्यष्टमस्थानस्थितमङ्गलग्रहरूपयोगभेदे “सर्व्वगुणान्निहन्त्याशु विलग्नादष्टमः कुजः। अस्तगे नीचगे भौमे शत्रुक्षेत्रगतेऽपि वा। कुजाष्टमोद्भवो दोषो न किञ्चिदपि विद्यते” ज्यो०।

कुज्जिश = पुंस्त्री० मतस्यभेदे “कुज्जिशोमधुरोहृद्यः कषायोदीपनस्तथा। “बल्यः स्निग्धोगुरुर्ग्राही वातकृत् रोचनीमतः” राजनि०। स्त्रियां जातित्वात् ङीष्।

कुज्या = स्त्री सि० शि० उक्ते वृत्ताकाराक्षक्षेत्रार्द्धावयबधनुः साधनाङ्गज्यापञ्चकान्तर्गते जीवाभेदे। ज्यापञ्चकं च तत्र दर्शितम् यथा इदानीं पञ्चज्यासाधनमाह। “युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ। जिनांशमौर्व्या १३९७ गुणितार्कदोर्ज्या त्रिज्यो ३४३८ द्धृता क्रान्तिगुण्णोऽस्य वर्गम्। त्रिज्याकृतेः ११८१९८४४ प्रोह्य पदं द्युजीवा क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम्। अक्षप्रभासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या। सा त्रिज्यकाघ्नी विहृता द्युमौर्व्या चरज्यकास्याश्च धनुश्चरं स्यात्” सि० शि०। “अत्र खेटादित्युपलक्षणम् यस्मात् खेटाल्लग्नाद्वाऽपमः साध्यस्तस्मात् सायनांशादेव। तथायस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपि सायनांशादेव। सायनार्कस्य दोर्ज्या जिनभागज्यया गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम्। अस्योपपत्तिः। विषुवत्क्रान्तिवृत्तयोर्याम्यीत्तरमन्तरं क्रान्तिः। तयोर्हिः संपाते क्रान्त्यभावः। ततस्त्रिभेऽन्तरे परमा जिनतुल्यमागाः। अतस्तत्- संपातादारभ्य क्रान्तिः साध्या। उदयाश्च तत एव। स तु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे। अतः सायनांशात् खेटात् क्रान्तिर्भुक्तभोग्यकालौ चेत्युक्तम्। यदि त्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्यया किमिति। फलं क्रान्तिज्या विषुवद्वृत्तात् तिर्यग्रूपा भवति। क्रान्तिज्या भुजस्त्रिज्या कर्णस्तद्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम्। सैव द्युज्या। अथ कुज्योच्यते। यदि द्वादशकोटेः पलभा भुजस्तदा क्रान्तिज्याकोटेः किमिति। फलं क्षितिजोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात्। सैव कुज्या। सा धनुःकरणार्थं त्रिज्यवृत्ते परिणाम्यते। यदि द्युज्याव्यासार्धे एताबती तदा त्रिज्याव्यासार्थे किमिति। फलं चरज्या। तद्धनुश्चरमित्युपपन्नम्।” प्रमि० अक्षक्षेत्र शब्दे ४२ पृ० दर्शिते सि० शि० वाक्ये दृश्यम्

कुज्झटि = स्त्री कु–क्विप् झट–इन् कर्म्म०। नीहारे (कोयासा) त्रिका० वा ङीप् कुज्झटीत्यप्यत्र। स्वार्थेक। कुज्झटिकापि तत्रार्थे शब्दरत्ना०। “ज्ञेया कुज्झटिका रूक्षा तमःप्राया चं सा तथा। कफपित्तकरी लोके भिषग्भिः परिकीर्तिता” वैद्यके तद्गुणा उक्ताः।

कुञ्चन = न० कुन्च–करस्ये ल्युट्। “वाताद्या वर्त्म सङ्कोच्य जनयन्ति यदा मलम्। तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः” इति निदानोक्ते १ नेत्ररोगभेदे! भावे ल्युट्। २ सङ्कोचे। “कुर्य्यात् सिरागतं मूलसिराकुञ्चनपूरणम्” सुश्रुतः।

कुञ्चफला = स्त्री कुञ्चं सङ्कुचितं फलमस्याः जातित्वेऽपि फलान्तत्वात् टाप्। कुष्माण्ड्याम् राजनि०।

कुञ्चि = पु० कुन्च–इन्। “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम्” इत्युक्ते अष्टमुष्टिमाने स्मृतिः

कुञ्चिका = स्त्री० कुन्च ण्वुल्–टाप्। १ गुञ्जायाम्(कु~च)शब्दर० (कन्ची) २ वंशशाखायाम् जटा० ३ कूर्चिकायां(चाविकाटि) हेमच०। “उद्घाटिनी कुञ्चिका” प्रसन्नरा० ४ महीलतायाम् (के~चो) “कुञ्चिकयैनं भाययति विस्माययति वा” मुग्ध०

कुञ्चित = त्रि० कुन्च–क्त। १ वक्रे २ तगरपुष्पे न० राजनि०

कुञ्ज = पु० न० अर्द्धर्चादि० कौ–जायते जन–ड पृषो० मुम्। पर्वतादौ लतादिभिराच्छादिते मध्यशून्ये १ स्थाने निकुञ्जे अमरः। “लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्” सा० द० “चल सखि! कुञ्जं सतिमिरपुञ्जम्” “कूजितकुञ्जकुटीरे” जयदे० “त्यक्त्वा गेहं झटिति यमुनामञ्जुकुञ्जं जगाम” पदा० २ हस्तिदन्ते ३ हस्तिहनौ ४ मेदि० ऋषिभेदे ततः गोत्रा- पत्ये कुञ्जा० चफञ्। कौञ्जायन तद्गोत्रापत्यै पुंस्त्री०

कुञ्जर = पुंस्त्री० कुञ्जःदन्तो हनुर्वा प्राशस्त्येनास्त्यस्य। १ हस्तिनि स्त्रियां जातित्वात् ङीष् “कुञ्जरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्” भा० व०२६ अ० “अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाष–संक्रान्तदानपयसोवनपादपस्य” माघः। अस्य समर्थेन व्याघ्रा० उपमितसमासः राजा कुञ्जर इव राजकुञ्जरः। “एवमुक्त्वा परिष्यज्य देत्यास्तं राज कुञ्जरम्” भा० व० २५१ अ०। अत्र कुञ्जरसादृश्येन राज्ञः श्रेष्ठत्वम् गम्यते। तदभिप्रायेणैव “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” इत्यमरोक्तिः। ५ देशभेदे च मेदि०। मात्राप्रस्तारे पञ्चमात्रस्य प्रथमे ६ प्रस्तारेऽऽ। छन्दोग्रन्थः! “क्षितेर्दक्षिणदिगस्थिते गजाकृतौ ७ पर्व्वतभेदे। “कृत्वा प्राचीविभागन्तु दक्षिणायामथोदिशि” इत्युपक्रमं “चकार कुञ्जरञ्चैव कुञ्जरप्रतिमाकृतिम्। पर्व्वतं काञ्चनगुहं बहुयोजनविस्तृतम्” हरिवं० २२५ अ०। “ऋषभः पर्वतश्चैश श्रीमदृषभसंस्थितः। कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहं शुभम्” हविवं० २३६ अ०। ८ हस्तनक्षत्रे च तस्य हस्तिकराकारत्वात्तथात्वम्। कुञ्जरपिप्पली शब्दस्यान्त्यलोपे ९ पिप्पल्याञ्च शब्दचि०।

कुञ्जरक्षारमूल = पु० कुञ्जरस्य गजपिप्पल्या इव क्षारमुग्रं मूलमस्य। मूलके राजनि०।

कुञ्जरच्छाय = न० कुञ्जरस्यछायायत्र। “योगोमघात्रयोदश्यां कुञ्जरच्छायसंज्ञितः। भवेन्मघायां संस्थे च शशिन्यर्के करस्थिते” इत्युक्ते योगभेदे। विवृतमेतत् ति० त० यथा “करे हस्तायां तत्स्थे सूर्य्ये। मघासंस्थे चन्द्रे चेति मघात्रयोदश्यां कुञ्जरच्छायसंज्ञितो योगो भवति। हस्तावस्थानञ्च सूर्य्यस्य कन्यादशमांशोत्तरकिञ्चिदधिकसपादत्रयोदशांशं १३, २० यावत्। नचानेन कुञ्जरच्छाययोगः सङ्केतितो नतु गजच्छायेति वाच्यं कुञ्जरच्छायस्य गजच्छायादिका संज्ञा जाता अस्येतीतच्प्रत्ययेन गजच्छायायाअपि सङ्केतितत्वात् (धुस्तूरः कनकाह्वयः) इतिवत्। व्यक्तं कृत्यचिन्तामणौ। “कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः। यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते।” “एवञ्च श्राद्धे निमित्तान्तरत्वेनानङ्गीकाराद्गौडीयमैथिलाभ्यां कुञ्जरच्छाययोगः फलातिशयार्थ इत्युक्तम्। ताश्च मघात्रयोदशीश्राद्धं कृत्वा परदिने कुञ्जरच्छाययोगे श्राद्धं कर्त्तव्यमिति वाचस्पतिमिश्रोक्तं हेयम्।” मनुव्या० कुल्लूकभट्टेन एतस्य तिथ्यन्तरेऽपि सम्भव उक्तः यथा “अपि नःस कुले जायात् यो नो दद्यात् त्रयोदशीम्। पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च” मनुव्याख्यायाम् “प्रकृतायां त्रयोदश्यां तथा तिथ्यन्तरेऽपि हस्तिनः पूर्वां दिशं गतायां छायायां मधुवृतसंयुक्तं पायसं दद्यात्। नतु त्रयोदशीहस्तिच्छाययोः समुच्चयः यथाह विष्णुः “अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः। प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः। मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत्। कार्त्तिकं सकलं वापि प्राक्छाये कुञ्जरस्य च”। इत्युक्तम् तेनास्य पृथङिनमित्तता। अन्येतु “राहुर्वे हस्ती भूत्वा चन्द्रमसं गृह्णातीति” श्रुतेः कुञ्जररूपस्य राहोश्छायायत्र इति व्युत्पत्त्याग्रहणपरतामाहुः। गजच्छायादयोऽप्यत्र

कुञ्जरदरी = स्त्री० कूर्म्मविभागे वृहत्सं० दक्षिणस्यामुक्ते देशभेदे “अथ दक्षिणे नलङ्केत्युपक्रमे “कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः”।

कुञ्जरपिप्पली = स्त्री कुञ्ज रोपपदा पिप्पली शा० त०। गजपिप्पल्याम् राजनि०। गजपिप्पल्यादयोऽप्यत्र स्त्री

कुञ्जरा = स्त्री कुञ्जः हस्तिदन्त इव पुष्पमस्त्यस्या अच्। १ धातकीद्रुमे (धाइफुल) तस्या हस्तिदन्तशुभ्रपुष्पत्वात्तथात्वम् २ पाटलावृक्षे च मेदि०। अजादि० टाप्। ३ हस्तिन्याम् शब्दचि०। जातित्वात् ङीष्। कुञ्जरीत्येव त्रिका०

कुञ्जराराति = पु० ६ त०। शरमे अष्टापदे पशुभेदे हेमच०। २ सिंहे च

कुञ्जरालुक = न० हस्त्यालुके आलुकभेदे शब्दच०।

कुञ्जराशन = पु० कुञ्जरैरश्यते अश–भक्षे कर्म्मणि ल्युट्। अश्वत्थवृक्षे अमरः

कुञ्जरासन = न० कुञ्जरस्येवासनमत्र। “अथ वक्ष्ये महाकाल! कुञ्जरासनमुत्तमम्। करद्वयेन पादाभ्यां भूमौ तिष्ठेत् शिरःकरः” इति रुद्रयामलोक्ते आसनभेदे

कुञ्जल = न० कुत्सितं जलं यत्र पृषो०। काञ्जिके। (आमानि) अमरः

कुञ्जवल्लरी = स्त्री कुञ्जाकारा वल्लरी। निकुञ्जिकाम्लावृक्षे राजनि०।

कुञ्जादि = पु० गोत्रे चकञ्प्रत्ययप्रकृतिभूते शब्दगणे स च गणः कुञ्ज व्रध्न शङ्ख भस्मन् गण लोमन् शठ शाक शुण्डा शुभविपाश स्कन्द स्कन्ध”।

***