काशी = स्त्री काशते काश–इन् स्त्रियां ङीप्। काशणिच्–अच् गौरा० ङीष्। असिवरुणयोर्मध्यवर्त्तिन्यां स्वनामख्यातायां शिवपुर्य्याम्। तन्निरुक्त्यादि काशीख०। “निर्व्वाणकाशनाद्यत्र काशीति प्रथिता पुरी। अविमुक्ते महाक्षेत्रे न मुक्ते शम्भुना क्वचित्। प्रागेव हि मुनेऽनर्घ्यं जातं जाम्बुनदं स्वयम्। पुनः स्वर्धुनितोयेन हीरेण यदि सङ्गतम्। चक्रपुष्करिणीतीर्थं प्रागेव श्रेयसांपदम्। ततः श्रेष्ठतरं शम्भोर्मणिश्रवणभूषणात्। आनन्दकानने तस्मिन्नविमुक्ते शिवा- लवे। प्रागेव मुक्तिः संसिद्धा गङ्गा–सङ्गात्ततोऽधिका। यदाप्रभृति सा गङ्गा मणिकर्णीसमागता। तदाप्रभृति तत् क्षेत्रं दुष्प्रापं त्रिदशैरपि। कृत्वा कर्माण्यनेकानि कल्याणानीतराणि च। तानि क्षणात् समुत्क्षिप्य काशीसंस्थोऽमृतो भवेत्। तस्य वेदान्तवेद्यस्य निदिध्यासनतो विना। विना साङ्ख्येन योगेन काश्यां संस्थोऽमृतो भवेत्। कर्म्मनिर्मूलनकृता विना ज्ञानेन कुम्भज!। शशिमौलिप्रसादेन काश्यां संस्थोऽमृतोभवेत्। यत्नतोऽयत्नतो वापि कालात् त्यक्त्वा कलेवरम्। तारकस्योपदेशेन काशीसंस्थोऽमृतो भवेत्। अनेकजन्मसंसिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः। असिसंभेदयोगेन काशीसंस्थोऽमृतो भवेत्। देहत्यागोऽत्र वै दानं देहत्यागोऽत्र वै तपः। देहत्यागोऽत्र वै योगः काश्यां निर्व्वाणसौख्यकृत्। प्राप्योत्तरवहां काश्यामपि दुष्कृतवानपि। यायात स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम्। महेन्द्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान्। सर्व्वान् सर्वेशमालोक्य रक्षाञ्चक्रुः पुरा पुरः। असिन्महासिरूपाञ्च पापिसङ्गतिखण्डिनीम्। दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्म्ममुः। वरणाञ्च व्यधुस्तत्र क्षेत्रविघ्न निर्वारिणीम्। दुर्वृत्तस्य प्रवृत्तेश्च निवृत्तिकरणीं सुराः। दक्षिणोत्तरदिग्भागे कृत्वासिं वरणां सुराः। क्षेत्रस्य मोक्षनिःक्षेपरक्षां निर्वृतिमाययुः। क्षेत्रस्य पश्चाद्दिग्भागे तं देहलिविनायकम्। स्वयं व्यापारयामास रक्षार्थं शशिशेखरः। अनुज्ञातप्रवेशानां विश्वेशेन कृपावताम्। ते प्रवेशं प्रयच्छन्ति नान्येषां हि कदाचन”। अत्रार्थे प्राचीनेतिहासमुक्त्वा माहात्म्यादिकमुक्तं यथा“एवं काश्यां प्रविश्यापि पापी धर्म्मानुषङ्गतः। न क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात्। तस्माद्विश्वेश्वराज्ञैव काशीवासेऽत्र कारणम्। असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते। वाराणसीति विख्याता तदारभ्य महामुने!। असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका। वाराणसीह करुणामयदिव्यमूर्त्तिरुत्सृज्य यत्र तु तनुं तनुभृत् सुखेन। विश्वेशदृङ्महसि यत् सहसा प्रविश्य रूपेण तां वितनुतापदवीन्दधाति। जातो मृतो बहुषु तीर्थवरेषु रे त्वं जन्तो! न जातु तव शान्तिरभून्निमज्य। वाराणसीति गदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात् स्मरशासनः स्याः। अन्यत्र तीर्थसलिले पतितो द्विजन्मा देवादिभावमयते न तथा तु काश्याम्। चित्रं यदत्र पतितःपुनरुत्थितं न प्राप्नोति पुक्वशजनोऽपि किमग्रजन्मा। सैषा पुरी संसृतिरूपपारावारस्य पारं पुरुषः पुरारिः। यस्यां परं पौरुषमर्थमिच्छन् सिद्धिं नयेत् पौरपरम्परासः। तीर्थान्तराणि मनुजः परितोऽपगाह्य हित्वा तनुं कलुषितां, दिवि दैवतं स्यात्। वाराणसीपरिसरे तु विसृज्य देहं सन्देहभाग्भवति देहलवाप्तयेऽपि। वाराणसी शमवशीकरणादृतेऽपि योगादयोगिजनताञ्जनतापहन्त्री। तत्तारकं श्रवणगोचरतां नयन्ती तद्ब्रह्म दर्शयति येन पुनर्भवो न। वाराणसीपरिसरे तनुमिष्टदात्रीं धर्म्मार्थसौख्यनिलयामह हा विसृज्य। इष्टं पदं किमपि हृष्टतरोऽभिलाष्यलाभोऽस्तु मूलमपि नो यदवाप शून्यम्। आः काशिरासिजनता ननु वञ्चिताभूद्भालेबिलोचनवता वनितार्द्धभाजा। आदाय यत् सुकृतभाजनमिष्टदेहं निर्वाणमात्रमपवर्जयताऽपुनर्भु। वाराणसी स्फुरदसीमगुणैकभूमिर्यत्र स्थितास्तनुभृतः शशिभृत्प्रभावात्। सर्वे गलेगरलिणोऽक्षियुजो ललाटे, वामार्द्ध, वामतनवोऽतनवस्ततोऽन्ते। आनन्दकाननमिदं सुखदं पुरैव तत्रापि चक्रसरसी मणिकर्णिकाऽथ। स्वःसिन्धुसङ्गतिरथोपरमास्पदञ्च विश्नेशितुः किमिह तन्न विमुक्तये यत्। वाराणसीह वरणासिसरिद्वरिष्ठासंभेदखेददमनी द्यु नदीलसच्छ्रीः। विश्रामभूमिरचलामलभोक्षलक्ष्म्या हैनां विहाय किमु सीदति मूढजन्तुः। किं विस्मृतं त्वहह गर्भजमामनस्यं कार्त्तान्तद्रूतकृतबन्धनताडनं वा। शम्भोरनुग्रहपरिग्रहलभ्यकाशीं मूढो विहाय किमु याति करस्थमुक्तिम्। तीर्थान्तराणि कलुषाणि वहन्ति सद्यः श्रेयोद्रवन्त्यपि बहु त्रिदिवं नयन्ति। पानावगाहनविधानतनुप्रहाणैर्वाराणसी तु कुरुते वत मूलनाशम्। काशीपुरीपरिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृत स्तनुमाप्तुवन्ति। भालेविलोचनवतीं गलनीललक्ष्मीं वामार्द्धबन्धुरबधूं विवुधैकराध्याम्। ज्ञात्वा प्रभावमतुलं मणिकर्ण्णिकाया यत् पुद्गलन्त्यजति चाशुचि पूयगन्धि। स्वात्मावबोधमहसा सहसा मिलित्वा कल्पान्तरेष्वपि स नैव पृथक्त्वमेति। रागादिदोषपरिभूतमनोहृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम्। ये कल्पयन्ति परतीर्थसमां समन्तात्ते पापिनो न सह तैः परिभाषणीयम्। वाराणसीं स्मरहरप्रियराजधानीं त्यक्त्वा कुतो व्रजसि मूढ! दिगन्तरेषु। प्राप्याप्यजाड्यसु- लभां स्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमु कामयेथाः?। विद्याधनानि सदनानि गजाश्वभूत्या स्नक्चन्दनानि वनिताश्च नितान्तरम्याः। स्वर्गोऽप्यगम्यैह नोद्यमभाजि पुंसि वाराणसी त्वसुलभाऽसुलभा विमुक्तिः। धात्रा धृतानि तुलया तुलनामवैतुं वैकुण्ठमुख्यभुवनानि च काशिका च। तान्युद्ययुर्लघुतया न्यगि यं गुरुत्वात् तस्थौ पुरीह पुरुषार्थचतुष्टयस्य। काशीपुरीमधिवसन् हि नरोऽनरोऽपि ह्यारीप्यमाण इह मान्यैहैकरुद्रः। नानोपसर्गज निसर्गजदुःखभारै कर्म्मापनुत्य स विशेत् परमेशधाम्नि। स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां काश्यामहह परिगृह्णीत न कुतः। वपुस्तेजोरूपं स्थिरतरपदानन्दसदनं विमूढोऽसौ जन्तुः स्फुटितमिव काश्यां विनिमयन्। अहो लोकः शोकं किमिह सहते हन्त हतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वंसितधनैः। क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधने श्रुतौ किञ्चिद्भूयः प्रविशति न येनोदरदरीम्। काशिवासिनि जने वनेचरे द्वित्रिभुज्यपि समीरभोजने। स्वैरचारिणि जितेन्द्रियेऽप्यहो काशिवासिपुरुषे विशिष्टता नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरन्तकृता। हि काश्याम्। वीजानि कर्म्मजनितानि यदूषरायां नाङ्कूरयन्ति हरदृग्ज्वलितानि तेषाम्। शशका मसका वकाः शुकाः कलविङ्गाश्च वृकाः सजम्बुकाः। तुरगोरगवानरा नरा गिरिजे! काशिमृताः गतामृताः। अरुद्ररुद्राक्षफणीन्द्रभूषणा त्रिपुण्ड्र चन्द्रार्द्धधरा धराङ्गताः। निरन्तरं काशिनिवासिनो जना गिरीन्द्रजे! पारिषदा मता मम। यावन्त एव निवसन्ति च जन्तवोऽत्र काश्यां जलस्थलचराझषजम्बुकाद्याः। तावन्त एव मदनुग्रहरुद्रदेहादेहावसानमधिगम्य मयि प्रविष्टाः। ये तु वर्षेषवो रुद्रा दिवि! देवि! प्रकीर्त्तिताः। वातेषवोऽन्तरीक्षे ये ये भुव्यन्तेषवः प्रिये!। रुद्रा दश दश प्राच्यवाचीप्रत्यगुदक्स्थिताः। ऊर्द्धदिक्स्थाश्च ये रुद्राः पठ्यन्ते वेदवादिभिः। असंख्याताः सहस्राणि ये रुद्रा अधिभूतले। तत्सर्वेभ्योऽधिकाः काश्यां जन्तवो रुद्ररूपिणः। रुद्रावासस्ततः प्रोक्तमविमुक्तं घटोद्भव!। तस्मादभ्यर्च्च्य काशीस्थान् वर्ण्णान् वर्ण्णेतराश्रमान्। श्रद्धयेश्वरबुद्ध्या च रुद्रार्च्चाफलभाक् नरः। श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते। निर्वचन्ति श्मशानार्थं मुने! शब्दार्थकोविदाः। महान्त्यपि च भूतानि प्रलये समुपस्थिते। शेरतेऽत्र शवा भूत्वा श्मशानन्तु ततो महत्। अप्सु भूरिह लये लयं व्रजेदापऔर्ववदनोग्रकन्दरे। मातरिश्वनि महातनूनपाद्व्योम्नि संक्षयति वै सदागतिः। व्योम चापि लयमेत्यहङ्कृतौ सापि षोडशविकारसंयुता। लीयते महति बुद्धिसंज्ञके हा महान् प्रकृतिमध्यगो भवेत्। सा गुणत्रयमयी च निर्गुणं तं पुमांसमवगुह्य तिष्ठति। पञ्चविंशतितमः परः पुमान् देहगेहपतिरेष जीवकः। प्राकृतः प्रलय एष उच्यते हंसयानहरिरुद्रवर्जितः। कालमूर्त्तिरथ तञ्च पुरुषं हेलया कलयतीश्वरः परः। स वै महाविष्णुरितीज्यते बुधैस्तं वै महादेवमुदाहरन्ति। सोऽन्तादि मध्यैः परिवर्जितः शिवः स श्रीपतिः सोऽपि हि पार्वतोपतिः। दैनन्दिनेऽथ प्रलये त्रिशूलकोटीं समुत्क्षिप्य पुरीं हरः स्वाम्। बिभर्त्ति संवर्त्तमहास्थिभूषणस्ततो हि काशी कलिकालवर्जिता। स्कन्द उवाच। वाराणसीति काशीति रुद्रावास इति द्विज!। महाश्मशान मित्येवं प्रोक्तमानन्दकाननम्। इति देवीपुरः प्रोक्तं देवदेवेन शम्भुना। यथा विष्णौ पुराख्यातं तथैवच मया श्रुतम्”। सा च सप्तमोक्षपुर्य्यन्तर्गता। “अयोध्या मथुरामाया काशी काञ्चिरवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः। काशी०। “अन्यानि यानि तीर्थानि काशीप्राप्तिकराणि च। काशीं प्राप्यैव मोक्षन्ते नान्यथा कल्पकोटिभिः” भा० टी० नीलकण्ठधृतम् “तत्र हि जन्तोः प्राणेषूत्क्रमं माणेषु रुद्रस्तारकं व्रह्म व्याचष्टे येनासावमृतीभूयमोक्षीभवति” श्रुतिः। तेन काशीमृतानां जन्तूनां शिवसकाशात्तत्त्वज्ञानलाभेन तत्क्षणात् मुक्तिः तत्त्वज्ञानस्य प्रारब्धेतरसर्व्वकर्म्मनाशकत्वात् तेनैव सर्वकर्म्मनाशः। सञ्चितकर्म्मणां कायव्यूहेन भोगात् परिक्षपणमित्यन्ये। इतरतीर्थमृतानां तु ब्रह्मादिलोकप्राप्तौ तत्र श्रवणमननाद्यपेक्षेति भेदः। “सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत्”। काशी० “कदा काश्यां गमिष्यामि कदा द्रक्ष्यामि शङ्करम्। इति ब्रुवाणः सततं काशीवासफलं लभेत्। २ काशीस्थदेवीमूर्त्तिभेदेच “विश्वेशं माधवं दुण्ढिं दण्ड पार्णिञ्च भैरवम्। वन्देकाशीं गुहां गङ्गां भवानीं मणिकर्णिकाम्। स्वल्पार्थे ङीप्। ३ खल्पकाशतृणे भरतः

काशीखण्ड = न० काशीमाहात्म्यप्रतिपादकं खण्डम्। स्कन्दपुराणान्तर्गते काशीमाहात्म्यादिप्रतिपादके व्यासप्रणीते खण्डभेदे तत्प्रतिपाद्यविषयाश्च तत्रानुक्रमणिकाध्याये दर्शिता यथा “विन्ध्यनारदसंवादः प्रथमं परिकीर्त्तितः। सत्यलोक प्रभावश्च द्वितीयः समुदाहृतः। अगस्तेराश्रम पदे देवानामागमस्ततः। पतिब्रताचरित्रं च प्रस्थानं कुम्भसम्भुवः। तीर्थप्रशंसा च ततः सप्तपूर्य्यस्ततः स्मृताः। संयमिन्याः स्वरूपञ्च ब्रह्मलोकस्ततः परम्। इन्द्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्म्मणः। अग्नेः समुद्भवस्तस्मात् क्रव्याद्बरुणसम्भवः। गन्धवत्यलकापुर्य्योरीशयोस्तु समुद्भवः। चन्द्रलोकपरिप्राप्तिः शिवशर्म्मद्विजन्मनः। उडुलोककथा तस्मात्ततः शुक्रसमुद्भवः। महेशगुरुशौरीणां लोकानां वर्ण्णनं ततः। सप्तर्षीणां ततोलोकाध्रुवस्य च तनस्तपः। ततोध्रुवपदप्राप्ति र्धुवलोकस्थितिस्ततः। दर्शनं सत्यलोकस्य तस्य वै शिवशर्म्मणः। चतुर्भुजाभिषेकश्च निर्व्वाणं शिवशर्म्मणः। स्कन्धागस्त्योश्च संवादो मणिकर्ण्ण्याः समुद्भवः। ततस्तु गङ्गामाहात्म्यं ततोदशहरास्तवः। प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम्। वाराणस्याः प्रशंसा च भैरवाविर्भवस्ततः। दण्डपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः। आख्यानञ्च कलावत्याः सदाचारस्ततः परम्। ब्रह्मचारिप्रकरणं ततः स्त्रीलक्षणानि च। कृत्याकृत्यप्रकरणमविमुक्तेशवर्ण्णनम्। ततोगृहस्थधर्म्माश्च ततोयोगनिरूपणम्। कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्ण्णनम्। काश्याश्च वर्ण्णनं तस्माद्योगिनीवर्ण्णनं ततः। लोलार्कस्य समाख्यानमुत्तरार्ककथा ततः। शाम्बादित्यस्य महिमा द्रुपदादित्यशंसनम्। ततस्तु गरुडाख्यानमरुणार्कोदयःस्ततः। दशाश्वमेधिकं तीर्थं मन्दराच्च गणागमः। पिशाचमोचनाख्यानं गणेशप्रेषणं ततः। माया गण पतेश्चाथ ढुण्टिप्रादुर्भवस्ततः। विष्णुमायाप्रपञ्चोऽथ दिवोदासविसर्ज्जनम्। ततः पञ्चनदोत्पत्तिर्विन्दुमाधवसम्भवः। ततोवैष्णवतीर्थानां माहात्म्यपरिवर्ण्णनम्। प्रयाणं मन्दरात्काश्यां वृषभध्वजशूलिनः। जैगीषव्येण संवादो ज्येष्ठस्थाने महेशितुः। ततः क्षेत्ररहस्यस्य कथनं पापनाशनम्। अथातः कन्दुकेशस्य व्याघ्रेशस्य समुद्भवः। ततः शैलेश्वरकथा रत्नेशस्य च दर्शनम्। कृत्तिवासःसमुत्पत्तिस्ततश्चायतनागमः। देवता नामधिष्ठानं दुर्गासुरपराक्रमः। दुर्गाया विजयश्चाथ तत ओङ्कारवर्ण्णनम्। पुनरोङ्कारमाहात्म्यं त्रिलोचनसमुद्भवः। त्रिलोचनप्रभावोऽथ केदाराख्यानमेव च। ततो धर्म्मेशमहिमा ततः पक्षिकथा शुभाः। ततो विश्वभुजाख्यानं दुर्द्दमस्य कथा ततः। ततोवीरेश्वराख्यानं वीरेशमहिमा पुनः। गङ्गा तीर्थैश्च संयुक्ता कामेशमहिमा ततः। विश्वकर्म्मेशमहिमा दक्षयज्ञसमुद्भवः। सत्या देहविसर्गश्च ततोदक्षेश्वरोद्भवः। ततो वै पार्ब्बतीशस्य महिम्नः परिकीर्त्तनम्। गङ्गेशस्याथ महिमा नर्मदेशसमुद्भवः। सतीश्वरसमुत्पत्तिरमृतेशादिवर्ण्णनम्। व्यासस्य हि भुजस्तम्भो व्यासशापविमोक्षणम्। क्षेत्रतीर्थकदम्बं च मुक्तिमण्डपसङ्कथा। विश्वेशाविर्भवश्चाथ ततोयात्रा परिक्रमः। एतदाख्यानशतकं क्रमेण परिकीर्त्तितम्”।

काशीनाथ = पु० ६ त०। महादेवे काशीपत्यादयोऽप्यत्र” कालं निकटतो ज्ञात्वा काशीनाथं समाश्रयेत्”। काशीनाथं समाश्रित्य कुतःकालभयं नृणाम्” काशीख०।

काशीयात्रा = स्त्री ७ त०। काशीस्थतीर्थेषु यात्रायाम् तत्प्रकारः काशीख० दर्शतोयथा। “श्रीवेदव्यास उवाच। निशामय महाप्राज्ञ! लोमहर्षण! वच्मि ते। यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा। सचेलमादौ संस्नाय चक्रपुष्करिणीजले। संतर्प्य देवान् सपितॄन् ब्राह्मणांश्च तथार्थिनः। आदित्यं द्रौपदीं विष्णुं दण्डपाणिं महेश्वरम्। नमस्कृत्य ततोगच्छेद्द्रष्टुं ढुण्ढिविनायकम्। ज्ञानवापीमुपस्पृश्यनन्दिकेशं ततोऽर्च्चयेत्। तारकेशं ततोऽभ्यर्च्च्य महाकालेश्वरं ततः। ततः पुनर्दण्डपाणिरित्येषा पञ्चतीर्थिका। दैनन्दिनी विधातव्या महाफलमभीप्सुभिः। ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वार्थसिद्धिदा। द्विसप्तायतनानाञ्च १४ कार्य्या यात्रा प्रयत्नतः। कृष्णांप्रतिपदं प्राप्य भूतावधि यथाविधि। अथ वा प्रतिभूतञ्च क्षेत्रसिद्धिमभीप्सुभिः। तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्च्चनः। मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः। ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः। त्रिपिष्टपं महादेवं ततोवै कृत्तिवाससम्। रत्नेशं चाथ चन्द्रेशं केदारं च ततोव्रजेत्”। धर्म्मेश्वरं च वीरेशं गच्छेत् कामेश्वरं ततः। विश्वकर्म्मेश्वरं चाथ मणिकर्ण्णीश्वरं ततः। अविमुक्तेश्वरंदृष्ट्वा ततोविश्वेशमर्च्चयेत्। एषा यात्रा प्रयत्नेन कर्त्तव्याक्षेत्रवासिना। यस्तु क्षेत्रमुपित्वा तु नैतां यात्रां समाचरेत्। विघ्नास्तस्योपतिष्ठन्ते क्षेत्रोच्चाटनसूचकाः। अष्टायतनया- त्राऽन्या कर्त्तव्या विघ्नशान्तये। दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः। गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः। अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः। दृश्यान्येतानि लिङ्गानि महापापोपशान्तये। अपरापि शुभा यात्रा योगक्षेमकरी सदा। सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवासिभिः। शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम्। स्नानं तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः। स्वर्लीन तीर्थे सुस्नातः पश्येत् स्वर्लीनमीश्वरम्। स्तात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः। पश्येद्धिरण्यगर्भेशं तत्र तीर्ये कृतोदकः। मणिकर्ण्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम्। उपशान्तशिवं पश्येत् तत्कूपविहितोदकः। पञ्चचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्च्चयेत्। चतुःसमुद्रकूपे तु स्नात्वा देवं समर्च्चयेत्। देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते। शुक्रेश्वरं ततः पश्येत् तत्कूपविहितोदकः। दण्डखाते ततः स्नात्वा व्याघ्रेशम्पूजयेत्ततः। शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्च्चयेत्। जम्बुकेशं महालिङ्गं कृत्वा यात्रामिमां नरः। क्वचिन्न जायते भूयः संसारे दुःस्वसागरे। समारभ्य प्रतिपदं यावत् कृष्णचतुर्दशीम्। एतत् क्रमेण कर्त्तव्यान्येतदायतनानि वै। इमां यात्रां नरः कृत्वा न भूयोऽप्यभिजायते। अन्या यात्रा प्रकर्त्तव्यैकादशायतनोद्भवा। अग्नीध्रकुण्डे सुस्नातः पश्येदग्नीध्रमीश्वरम्। उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम्। आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः। लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम्। ततो मनःप्रकाशेशं प्रतीकेशमथो व्रजेत्। मदालसेश्वरं तस्मात्तिलपर्णेश्वरं ततः। तत्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः। इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्तुयान्नरः। अतःपरं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम्। शुकपक्षे तृतीयायां सा यात्रा विष्वगृद्धिदा। गोप्रेक्ष्यतीर्थे सुस्नाय सुखनिर्भालिकां व्रजेत्। ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरीं समर्चयेत्। सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः। ततः शृङ्गारगौरोञ्च तत्रैव च कृतोदकः। स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत्। सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः। स्नात्वा भवानीतीर्थेऽथ भवानीं परिपूजयेत्। मङ्गला च ततोऽभ्यर्च्च्या विन्दुतीर्थकृतोदकैः। ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये। इमां यात्रां नरः कृत्वा क्षेत्रेऽ- स्मिन् मुक्तिजन्मनि। न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित्। कुर्य्यात् प्रतिचतुर्थीह यात्रां विश्वेशितुः सदा। व्रह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे। भौमे भैरवयात्रा च कार्य्या पातकहारिणी। रविवारे रवेर्यात्रा षष्ट्यां घा रविसंयुजि। तत्रैव रविसप्तम्यां सर्वविघ्नोपशान्तये। नवम्यामथ वाष्टम्यां चण्डीयात्रा शुभावहा। अन्तर्गृहस्य वै यात्रा कर्त्तव्या प्रतिवत्सरम्। प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान्। नमस्कृत्याथ विश्वेशं स्थित्वा निर्व्वाणमण्डपे। अन्तर्गृहस्य यात्रां वै करिष्येऽघौघशान्तये। गृहीत्वा नियमं चेति गत्वाथ मणिकर्ण्णिकाम्। स्नात्वा मौनेन चागत्य मणिकर्ण्णीशमर्चयेत्। कम्बलाश्वतरौ नत्वा वासुकीशम्प्रणम्य च। पर्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ। ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः। ततोवै सोमनाथञ्च वाराहञ्च ततो व्रजेत्। ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः। कश्यपेशं नमस्कृत्य हरिकेशवनं ततः। वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च। गोकर्णेश्वरमभ्यर्च्यहाटकेशमथो व्रजेत्। अस्थिक्षेपतडागेऽथ दृष्ट्वा वै कीकसेश्वरम्। भारभूतं ततोनत्वा चित्रगुप्तेश्वरं ततः। चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम्। चन्द्रेशश्चाथ वीरेशो विद्येशोऽग्नीश एव च। दिवामहेश्वरं नत्वा ततस्तु कलसेश्वरम्। नागेश्वरो हरिश्चन्द्रश्चित्तामणिविनायकः। सेनाविनायकश्चाथ द्रष्टव्यः सर्वविघ्नहृत्। वशिष्ठवामदेवौ च मूर्त्तिरूपधरावुभौ। द्रष्टव्यौ यत्नतः काश्यां महाविघ्न विनाशकौ। सीमाविनायकं चाथ करुणेशं ततो व्रजेत्। त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका। आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः। चतुर्वक्त्रेश्वरं लिङ्गं ब्राह्मीशश्च ततः परम्। ततो मनःप्रकाशेशं श्मशानेशस्ततः परम्। चण्डीचण्डीश्वरौ दृश्यौभवानीशङ्करौ ततः। ढुल्ढिं प्रणम्य च ततो राजराजेशमर्चयेत्। लाङ्गलीशस्ततोऽभ्यर्च्यस्ततस्तु नकुलीश्वरः। परान्नेशमथो नत्वा परद्रव्येश्वरं ततः। प्रतिग्रहेश्वरं चापि निष्कलङ्केशमेव च। मार्कण्डेयेशमभ्यर्च्य तत आप्सरसेश्वरम्। गङ्गेशोऽर्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत्। नन्दिकेशं तारकेश महाकालेश्वरं ततः। दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत् ततः। वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः। विना- यकांस्ततः पञ्च विश्वनाथं ततोव्रजेत्। ततो मौनं विसृज्याथ मन्त्रमेतमुदीरयेत्। अन्तर्गृहस्य यात्रेयं यथावद्या कृता मया। न्यूनातिरिक्तया शम्भुः प्रीयता मनया विभुः। इमं मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिमण्डपे। विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः। संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः। कार्य्या यात्रा प्रयत्नेन महापुण्यसमृद्धये। नवम्यां पञ्चदश्यां च कुलस्तम्भं समर्चयेत्। दुःखरुद्रपिशाचत्वे न लभेद् यस्य पूजनात्। श्रद्धापूर्वमियं यात्रा कर्त्तव्या तीर्थवासिभिः। सर्वस्यापि विशेषेण कार्य्या यात्राश्च सर्व्वतः। न बन्ध्यं दिवसं कुर्य्याद्विना यात्रां क्वचित् कृती। यात्राद्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम्। आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुःस्तवम्। यस्य बन्ध्यं दिनं यातं काश्यां निवसतः सतः। निराशाः पितरस्तस्य तस्मिन्नेव दिनेऽभवन्। सदष्टः कालसर्पेण स दृष्टो मृत्युनास्फुटम्। स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः। सर्व्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात् स च। मणिकर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत। सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः। दृश्योविश्वेश्वरो नित्यं स्नातव्या मणिकर्ण्णिका”।

काशीरहस्य = न० काश्यारहस्यम्। १ काशीस्थैः कर्त्तव्याचारभेदे २ तन्माहात्म्यप्रकाशने तच्च काशीख० दर्शितंयथा “येषां हृदि सदैवास्ते काशी त्वाशीविषाङ्गदः (शिवः) संसाराशीविषविषं न तेषां प्रभवेत् क्वचित्। गर्भरक्षामणिर्म्मन्त्रः काशीवर्ण्णद्वयात्मकः। यस्य कण्ठे सदा तिष्ठेत्तस्याकुशलभीः कुतः। सुधां पिबति योनित्यं काशीवर्णद्बयात्मिकाम्। स नैर्ज्जरीं दशां हित्वा सुधैव परिजायते। श्रुतं कर्ण्णामृतं येन काशीत्यक्षरयुग्मकम्। न समाकर्णयत्येव स पुनर्गर्भजां कथाम्। काशीरजोऽपि यन्मूर्द्ध्नि पतेदप्यनिलाहृतम्। चन्द्रशेखरतन्मूर्द्धा भवेच्चन्द्रकलाङ्गतः। प्रसङ्गतोऽपि यन्नेत्रपथमानन्दकाननम्। यातं, तेऽत्र न जायन्ते नेक्षेरन् पितृकाननम्। गच्छता तिष्ठता वापि स्वपता जाग्रताथ वा। काशीत्येष महामन्त्रो येन जप्तः स निर्भवः। येन वीजाक्षरयुगं काशीति हृदि धारितम्। अवीजानि भवन्त्येव कर्म्मवीजानि तस्य वै। काशी काशीति काशीति जपतोयस्य संस्थितिः। अन्यत्रापि सतस्तस्य पुरो मुक्तिः प्रकाशते। क्षेममूर्त्तिरियं काशी क्षेममूर्त्तिमयो भवः। क्षेममूर्त्तिस्त्रिपथगा नान्यत् क्षेमत्रयं क्वचित्। ब्राह्मणानामिति वचः क्षेत्रभक्तिवि वृंहितम्। निशम्य गिरिजाकान्तस्तुतोष नितरां हरः। प्रोवाच च प्रसन्नात्मा घन्या यूयं द्विजर्षभाः!। येषामिहेदृशी भक्तिर्ममक्षेत्रेऽतिपावने। जाने सत्वमया जाताः क्षेत्रस्यास्य निषेवणात्। नीरजस्का वितमसः संसारार्णवपारगाः। वाराणस्यास्तु ये भक्तास्ते भक्ता मम निश्चितम्। जीवन्मुक्ताहि ते नूनं मोक्षलक्ष्म्या कटाक्षिताः। यैश्च काशीस्थितो जन्तुरल्पकोऽपि विरोधितः। तैश्च विश्वम्भरा सर्वा मया सह विरोधिता। वाराणस्यास्तु नामापि यो निशम्यानुमोदते। अपि ब्रह्माण्डमखिलं ध्रुवन्तेनानुमोदितम्। निवसन्ति हि ये मर्त्या अस्मिन्नानन्दकाननै। ममान्तःकरणे ते वै निवसेयुरकल्मषाः। निवसन्ति मम क्षेत्रे मम भक्तिं नकुर्वते। मम लिङ्गधराये नो, न तानुपदिशाम्यहम्। काशी निर्वाणनगरी येषां चित्ते प्रकाशते। ते मत्पुरः प्रकाशन्ते नैःश्रेयस्या श्रिया वृताः। मोक्षलक्ष्मीरियं काशी न येम्यः परिरोचते। स्वर्लक्ष्मीं काङ्क्षमाणेभ्यः पतितास्ते न संशयः। काशीं संकाङ्क्षमाणानां पुरुषार्थचतुष्टयम्। पुरः किङ्करवत्तिष्ठेन्ममानुग्रहतो द्विजाः!। आनन्दकानने ह्यत्र ज्वलन्दावानलोऽस्म्यहम्। कर्म्मवीजानि जन्तूनां ज्वालये, न प्ररोहये। वस्तव्यं सततं काश्यां यष्टव्योऽहं प्रयत्नतः। जेतव्यौ कलिकालौ च लब्धव्या मुक्तिरङ्गना। प्राप्यापि काशीं दुर्बुद्धिर्यो न मां परिषेवते। तस्य हस्तगताप्याशु कैव ल्यश्रीः प्रणश्यति। धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाः काशिवासिनः। यूयं, यच्चेतसो वृत्तौ न दूरेऽहं न काशिका। दातव्यो वो वरः कोऽत्र व्रियतां स यथारुचि। प्रेयांसो मे यतो यूयं क्षेत्रसन्न्यासकारिणः। इति पीत्वा महेशानमुखक्षीराब्धिजां सुधाम्। परितृप्ता द्विजाः सर्ब्बे वव्रुर्वरमनुत्तमम्। ब्राह्मणा ऊचुः। उमापते महेशान! सर्वज्ञ! वर एष नः। काशी कदापि न त्याज्या भवता भवतापहृत्!। वचनाद्व्राह्मणानान्तु शापो मा प्रभवत्विह। कदाचिदपि केषांचित् काश्यां मोक्षेऽन्तरायकः। तव पादाम्बुजद्वन्द्वे निर्द्वन्द्वा भक्तिरस्तु नः। आकलेवरपातञ्च काशीवासोऽस्तु नोऽनिशम्। किमन्येन वरेणेश देय एष वरो हि नः। अवधेह्यन्धकध्वंसिन्! वरमन्यं वृणीमहे। तव प्रतिनिधीकृत्यास्माभिस्त्वद्भक्तिभावितैः। प्रतिष्ठितेषु लिङ्गेषु सान्निध्यं भवतोऽस्त्विह। श्रुत्वेति तेषां वाक्यानि तथास्त्विति पिनाकिना। प्रोचेऽन्योऽपि- वरो दत्तो ज्ञानं वश्च भविष्यति। पुनः प्रोवाच देवेशो निशामयत भो द्विजाः!। हितं वः कथयाम्यत्र तदनुष्ठीयतां ध्रुवम्। सेव्योत्तरवहा नित्यं लिङ्गमर्च्च्यं प्रयत्रतः। दमोदानं दया नित्यं कर्त्तव्यं मुक्तिकाङ्क्षिभिः। इदमेव रहस्यञ्च कथितं, क्षेत्रवासिना। मतिः परहिते कार्य्या वाच्यं नोद्वेगकृद्वचः। मनसाऽपि न कर्त्तव्यमेनोऽत्र विजीगीषुणा। अत्यर्थमक्षयं यस्मात् सुकृतं सुकृतेतरत्। अन्यत्र यत् कृतं पापं तत् काश्यां परिनश्यति। वाराणस्यां कृतं पापमन्तर्गेहे विनश्यति। अन्तर्गेहे कृतं पापं पैशाच्यनरकावहम्। पिशाचनरकप्राप्तिर्गच्छत्येव बहिर्यदि। न कल्पकोटिभिः काश्यां कृतं कर्म प्रभुज्यते। किन्तु रुद्रपिशाचत्वं जायतेऽत्रायुतत्रयम्। वाराणस्यां स्थितो यो वै पातकेष्वारतः सदा। योनिं प्राप्यापि पैशाचीं वर्षाणामयुतत्रयम्। पुनरत्रैव निवसन् ज्ञानं प्राप्स्यत्यनुत्तमम्। तेन ज्ञानेन संप्राप्ते मोक्षमाप्स्यत्यनुत्तमम्। दुष्कृतानि विधायेह बहिः पञ्चत्वमागताः। तेषां गतिं प्रवक्ष्यामि शृणुत द्विजसत्तमाः!। याम्याख्या मे गणाः सन्ति घोरा विकृतमूर्त्तयः। मूषायां ते धमन्त्यादौ क्षेत्रदुष्कृतकारिणः। नयन्त्यनूपप्रायाञ्च ततः प्राचीं दुरासदाम्। वर्षाकाले दुराचारान् पातयन्ति महाजले। जलौकाभिः सपङ्काभिर्दन्दशूकैर्जलोद्भवैः। दुर्निवारैश्च मसकैर्दश्यन्ते ते दिवानिशम्। ततो याम्यैर्हिमर्त्तौ ते नीयन्तेऽद्रौ हिमालये। अशनावरणैर्हीनाः क्लेश्यन्ते ते दिवानिशम्। मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते। दिवाकरकरैस्तीब्रैः स्थाप्यन्ते ते पिपासिताः। क्लेशितास्ते गणैरुग्रैर्यातनाभिः समन्ततः। इत्थं कालमसङ्ख्यात मानीयन्ते ततस्त्विह। निवेदयन्ति ते याम्याः कालराजान्तिकं ततः। कालराजोऽपि तान् दृष्ट्वा कर्म्मसंस्मार्य्य दुष्कृतम्। विवस्त्रान् क्षुत्तृषार्त्तांश्च लग्नपृष्ठोदरत्वचः। अन्यैरुद्रपिशाचैश्च सह संयोजयत्यपि। ततो रुद्रपिशाचास्ते भैरवानुचराः सदा। सहन्ते क्लममत्यर्थं क्षुत्तृड्लग्नत्वसम्भवम्। आहारं रुधिरोन्मिश्रं ते लभन्ते कदाचन। एवं त्र्ययुतसंख्यातं कालं तत्रापि दुःखिताः। श्मशानस्तम्भमभितो नीयन्ते कण्ठपाशिताः। पिपासिता अपि न तेऽम्बुस्पर्शमपि चाप्नुयुः। अथ संक्षीणपापास्ते कालभैरवदर्शनात्। इहैव देहितो भूत्वा मुच्यन्ते ते ममाज्ञया। तस्मान्न कामयेदत्र वाड्मनःकर्म्मणाप्यघम्। शुचौ पथि सदा स्थेयं महालाभमपीप्सुभिः। नाविमुक्ते मृतः कश्चिन्नरकं याति किल्विषी। ममानुग्रहमासाद्य गच्छत्येव परां गतिम्। अनशनं यः कुरुते मद्भक्त इह सुव्रतः। न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि। अशाश्वतमिदं ज्ञात्व मानुष्यं बहुकिल्विषम्। अविमुक्तं सदा सेव्यं संसार भयमोचकम्। नान्यत् पश्यामि जन्तूनां मुक्त्वा वाराणसीं पुरीम्। सर्वपापप्रशमनीं प्रायश्चित्तं कलौ युगे। जन्मान्तरसहस्रेषु यत्पापं समुपार्जितम्। अविमुक्तं प्रविष्टस्य तर्त्सवं व्रजति क्षयम्। जन्मान्तरसहस्रेषु युञ्जन् योगं यदाप्नुयात्। तदिहैव परो मोक्षो मरणादधिगम्यते। तिर्यग्योनिगताः सत्वा येऽविमुक्ते कृतालयाः। कालेन निधनं प्राप्तास्ते यान्ति परमां गतिम्। अविमुक्तं न सेवन्ते ये मूढास्तमसा वृताः। विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः। अविमुक्तं समासाद्य यो लिङ्गं स्थापयेत् सुधीः। कल्पकोटिशतैर्वापि नास्ति तस्य पुनर्भवः। ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम्। अविमुक्तमृतानान्तु पतनं नैव विद्यते। व्रह्महत्यां नरः कृत्वा पश्चात् संयतमानसः। प्राणांस्त्यजति यः काश्यां स मुक्तो नात्र संशयः। स्त्रियः पतिव्रता याश्च मम भक्ति समाहिताः। अविमुक्ते मृता विप्रा! यान्ति ताः परमां गतिम्। अत्रोत्क्रमणकालेऽहं स्वयमेव द्विजोत्तमाः!। दिशामि तारकं ब्रह्म, देही स्वाद्येन तन्मयः। मन्मना मम भक्तश्च मयि सर्ब्बार्पितक्रियः। यथा मोक्षमिहाप्नोति न तथाऽन्यत्र कुत्रचित्। मरणं निश्चितं ज्ञात्वा गतिञ्चासुखदायिनीम्। चलमागन्तुकं सर्वं, ततः काशीं समाश्रयेत्। काशी समाश्रिता यैस्तु मनोवाक्वायकर्मभिः। तानत्र निर्म्मलधियो निर्वाणश्रीः। समाश्रयेत् काशीस्थितैकमपि यः प्रीणयेन्न्यायजैर्धनैः। तेन त्रैलोक्यमखिलं प्रीणितं तु मया सह। यः प्रीणयति पुण्यात्मा निर्वाणनगरीश्वरम्। प्रणयेन स्थितो नित्यं ब्राह्मणाः! प्रीणयामि तम्। दिवोदासोऽपि राजर्षिः काशीं धर्मेण पालयन्। सदेहो मत्पदं प्राप्तो यतो न पुनरागतिः। अत्र योगस्तथा ज्ञानं मुक्तिरेके जन्मनना। अतो विमुक्तमासाद्य नान्यद्गच्छेत्तपोवनम्। मोक्षं सुदुर्लभं ज्ञात्वा संसारञ्चातिभीषणम्। अश्मना चरणौ हत्वा कालमत्र प्रतीक्षयेत्। अविमुक्तं परित्यज्य यदा यास्यन्ति दुर्धियः। हसिव्यन्ति तदा भूतान्यन्योन्यकरता- डनैः। प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम्। परिनिष्क्रान्तुमन्यत्र कस्य जन्तोर्मतिर्भवेत्। महादानेन चान्यत्र यत् फलं लभ्यते नरैः। अविमुक्ते तु काकिन्यां दत्तायां तदवाप्यते। एकः समर्च्चयेल्लिङ्गं तपस्तप्येत चापरः। तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं पूजयेदिह। तीर्थान्तरे गवां कोटिं विधिवद्यः प्रयच्छति। एकाहं यो वसत् काश्यां काशीवासी तयोर्वरः। अन्यत्र ब्राह्मणानां तु कोटिं संभोज्य यत् फलम्। वाराणस्यां तदैकेन भोजितेन तदाप्यते। सन्निहित्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे। तुलापुरुषदानेन काश्यां भिक्षा समा भवेत्। ममेह परमं ज्योतिरापातालाद्व्यवस्थितम्। अतीत्य सत्यलोकादीननन्तलिङ्गरूपधृक्। पृथिव्यन्तःस्थितं लिङ्गमविमुक्तं स्मरन्ति ये। कलुषैस्ते विमुच्यन्ते महद्भिरिति निश्चितम्। अस्मिन् क्षेत्रे तु येनाहं दृष्टः स्पृष्टः समर्च्चितः। सम्प्राप्य तारकं ज्ञानं न स भूयोऽभिजायते। यो मामिह समभ्यर्च्य म्रियतेऽन्यत्र कुत्रचित्। जन्मात्तरेऽपि मां प्राप्य स विमुक्तो भविष्यति। इत्युक्त्वा क्षेत्रमाहात्म्यं द्विजानामग्रतो हरः। पश्यतामेव तेषान्तु तत्रैवान्तर्हितोऽभवत्”।

काशीसेतु = पु० त्रिस्थलीसेत्वन्तर्गते काशीमाहात्म्ययात्रादिविधायके ग्रन्थभेदे।

काशेय = पु० काश्यां भवः ढक् काशेर्नृपत्यापत्यं वा ढक्। काश्यां भवे स्त्रियां ङीप्। “भरतः खलु काशेयीमुपयेमे सार्व्वसेनीं सुनन्दां नाम तस्यां जज्ञे भुमन्युर्नाम”। भा० आ० ९५।

काशीश(स) = न० काशिं प्रकाशमीष्टे ईश–क। (हीराकस) ख्याते उपधातुभेदे “काशीशं(सं)धातुकाशीशं (सं)पांशुकाशीश(स)मित्यपि। तदेव किञ्चित्पीतं तु पुष्पकाशीश (स)मुच्यते। काशीश(स)सम्लमुष्णञ्च तिक्तञ्च तुवरं तथा। वातश्लेष्महरं केश्यं रेतःकण्डूविषप्रणुत्। मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम्” भावप्र० काशीं दीप्तिं स्यति सो–क। दन्त्यान्तोऽप्यत्र भावप्र०।

काशू(सू) = स्त्री कश(स) ऊणिच्च उज्ज्वलदत्तीये तालव्यमध्यपाठः पा० सूत्रे दन्त्यमव्यपाठः १ शक्तिरूपास्त्रे २ विकलवाचि च मेदि० ३ बुद्धौ रोगे शब्दचि०।

काशू(सू)कार = पु० काशूं(सूं)विकलवाचं करोति कृ–अणुप–क०। गुवाकेश बूचि० तत्फलसेवने हि जिह्वाजाद्यात् वाचो वैकल्यं जायते इति तस्य तथात्वम्।

काशू(सू)तरो = स्त्री० ह्रस्वा काशूः (सूः) ह्रस्वार्थे ष्टरच् ङीष्। ह्रस्वे कासूनामास्त्रभेदे।

काश्म(श्व)री = स्त्री काश–वनिप् वनोरच नश्चान्तादेशः पृषो० वा वस्य मः। गाम्भार्य्याम् अमरः, फलेऽपि हरीत० अणोलुपि स्त्री। ० “विल्वान् कपिलत्थान् जम्बूश्च काश्मरीर्वदरीस्तथा” भा० व० १५८ अ०।

काश्मर्य्य = पु० काश्मरी + स्वार्थे ष्यञ्। गाम्भार्य्याम् अमरः “वदरेङ्गुदकाश्मर्य्यभल्लातकफलानि च” भा० आनु० ५३०। अयञ्च मधुरवर्गे पियालवीजकाश्मर्य्येत्याद्युपक्रमे “समासेन सषुरोवर्गः” सुश्रुते उक्तः।

काश्मीर = न० काश्मीरे भवः कच्छा० अण्। १ पुष्करमूले अम०। २ टङ्के ३ कुङ्कुमभेदे मेदि० “काश्मीरदेशगे क्षेत्रे कुङ्कुमं यत् भवेद्धि तत्। सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम्” भावप्र० तत्स्वरूपाद्युक्तम्। काश्मीरद्रवसान्द्रदिग्धवपुषः” भर्त्तु०। “काश्मीरागुरुकस्तरीत्रिलहरीकाशीपुराधीश्वरी” अन्नदास्त०। ४ काश्मीरदेशभवे त्रि० स्त्रियां ङीप्। “तेन तेनैवमापन्ना काश्मीरीव तुरङ्गमी” भा० वि०९ अ०। सा च ५ गाम्भीर्य्यां भाबप्र०। काश्मीरदेशानां राजा अण्। ६ तद्देशराजे। “काश्मीराश्च कुमाराश्च घोरका हंसकायनाः। शिवित्रिगर्त्तयौधेयाः राजन्या मद्रकैकयाः” भा० स० ५२। काश्मीरोऽभि जनोऽस्य सिन्ध्वा० अण्। पित्रादिक्रमेण ७ तद्देशवासिनि त्रि० “काश्मीराः सिन्धुसौवीरा गान्धारादर्शकास्तथा” भा० भी०९ अ०। “शूद्राभीराश्च दरदाः काश्मीराः पत्तिभिः सह” तत्रैव। “शारदामठमारभ्य कुङ्कुमाद्रितटान्तकः। तावत्काश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः” इत्युक्ते ८ देशभेदे च। “काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम्” सुश्रु०। काश्मीरमण्डलतीर्थादिकथा भा० व०१३० अ० यथा “एषा रम्या विपाशा च नदी परमपावनी। अत्र वै पुत्त्रशोकेन वशिष्ठो भगवानृषिः। बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः। काश्मीरमण्डलञ्चैतत् सर्व्वपुण्यमरिन्दम!। महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह। यत्रोत्तराणां सर्व्वेषामृषीणां नाहुषस्य च। अग्नेश्चैवात्र संवादः काश्यपस्य च भारत!। एतद्द्वारं महाराज। मानसस्य प्रकाशते। वर्षमस्य गिरेर्म्मध्ये रामेण श्रीमता कृतम्। एष वातिकखण्डो वै प्रख्यातः सत्यविक्रम!। नात्यवर्त्तत यद्द्वारं विदेहादुत्तरञ्च यः। इदमाश्चर्य्यमपरं देशेऽस्मिन् पुरुषर्षभ!। क्षीणे युगे तु कौन्तेय! शर्ब्बस्य सह पार्षदैः। सहोमया च भवति दर्शनं कामरूपिणः। अस्मिन् सरसि सत्रैर्व्वै चैत्रे मासि पिनाकिनम्। यजन्ते याजकाः सम्यक् परिवारशुभार्थिनः। अत्रोपस्पृश्य सरसि श्रद्दघानो जितेन्द्रियः। क्षीणपापः शुभान् लोकान् प्राप्नुते नात्र संशयः”। “काश्मीरमण्डले नद्यो याः पतन्ति महानदम्। ताः नदीः सिन्धुमास्नाय शीलवान् स्वर्गमाप्नुयात्” भा० आनु०२५ अ०। काश्मीरदेशौत्पत्तिस्थानत्वेनास्त्यस्याः अच् टाप्। ८ कपिलद्राक्षायां स्त्री राजनि०। ९ अतिविकायां स्त्री मेदि०।

काश्मीरक = त्रि० काश्मीरे भवः मनुष्यस्तत्स्थोवा वुञ्। काश्मीरदेशोद्भवे १ मनुष्ये २ तत्स्थे च। “ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः” भा० स० २६ अ०।

काश्मीरज = न० काश्मीरे जायते जन–ड ७ त०। १ कुष्ठे (कुड) २ कुङ्कुम भेदे च मेदि०। ३ पुष्करमूले विश्वः।

काश्मीरजन्मन् = न० काश्मीरे जन्म यस्य। कुङ्कुमभेदे अमरः।

काश्मीर्य्य = त्रि० काश्मीरेण निर्वृत्तादि सङ्काशा० चतुरर्थ्यां ण्य। १ काश्मीरनिर्वृत्तादौ २ कुङ्कुमभेदे न०

काश्य = न० कं जलमाश्यं यत्र कुत्सितं वा आश्यं अश–ण्यत् कश्य + स्वार्थेऽण् वा। १ मद्ये हेमच०। काश्यां भवःयत्। २ काशिराजे पु०। स्वार्थेक। तत्रैव। “शलात्मजश्चार्ष्टिषेण स्तनयस्तस्य काश्यकः। काश्यस्य काश्यपः पुत्रो राजा दीर्घतपास्तथा” हरिवं० २९ अ०।<

काश्यप = न० काश्यं मद्यं पिबत्यत्र पा–घञर्थे क। १ मांसे हेमच०। मांसस्य मद्यपानाव्यभिचारात्तथात्वम्। काश्यं राजभेदं पाति नरकात् पा–क। काश्यस्य नृपस्य २ पुत्रभेदे काश्यशब्दे उदा०। कश्यपस्य गोत्रापत्यम् विदा० अञ्। ३ कश्यपगोत्रापत्ये पुंस्त्री। ४ कणादे मुनौ पु० त्रिका०। ५ मृगभेदे पुंस्त्री मेदि० स्त्रियां जातित्वात् ङीष्। कश्यपस्येदम् अण्। ६ कश्यपसम्बन्धिनि त्रि० “एष एव दितेर्गर्भ ओजः काश्यपमर्पितम्” भाग० ३, १५, ११ श्लो०। स्त्रियां ङीप्। सा च ७ पृथिव्याम् स्त्री तस्याः तत्सम्बन्धितया तत्सुतत्वकथा भा० आनु० १५४ अ० उक्ता यथा “इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा। अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ। धारिणीं सर्वभूतानामयं प्राप्य बरो नृपः। कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम्। साऽहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम्। अयं सराष्ट्रो नृपतिर्म्मा भूदिति ततोऽगमत्। ततस्तां कश्यपो दृष्ट्वा व्रजन्ती पृथिवीं तथा। प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः। ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता। धर्म्मोत्तरा नष्टभया भूमिरासीत्ततो नृप!। एवं वर्षसहस्राणि दिव्यानि सततं नृप!। त्रिंशतः काश्यपो राजन्! भूमिरासीदतन्द्रिता। अथागम्य महाराज! नमस्कृत्य च कश्यपम्। पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः”। ८ तद्गोत्रापत्यस्त्रियां स्त्री ङीप् “काश्यपीबालाक्यमाठरी पुत्रात् काश्यपीबालाक्यमाठरीपुत्रः” शत० व्रा० १४, ९, ४, ३१० ९ कश्यपपत्न्यां स्त्री काश्यपेयः। कश्यपगोत्रोत्पन्ने विषचिकित्साभिज्ञे १० ऋषिभेदे पु० तत्कथा भा० आ० ४२ अ० यथा “काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्। श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्। तक्षकः पन्नगगश्रेष्ठो नेष्यते यमसादनम्। तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्। तत्र मेऽर्थश्च धर्म्मश्च भवितेति विचिन्तयन्। तं ददर्श च नागेन्द्रस्तक्षकः काश्यपं पथि। गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः। तमव्रवीत् पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम्। क्व भवांस्त्वरितो याति किञ्च कार्य्यं चिकीर्षति। काश्यप उवाच! नृपं कुरुकुलोत्पन्नं परीक्षितमरिन्दमम्! तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति। तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा। पाण्डवानां कुलकरं राजानममितौजसम्। गच्छामि त्वरितं सौम्य! सद्यः कर्त्तुमपज्वरम्। तक्षक उवाच। अहं स तक्षको व्रह्मंस्तं धक्ष्यामि महीपतिम्। निवर्त्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्। काश्यप उवाव। अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्। करिष्यामीति मे वुद्धिर्विद्याबलसमन्वितः। तक्षक उवाच। यदि दष्टं मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम्। ततो वृक्षं मया दष्टमिर्म जीवय काश्यप!। परं मन्त्रवलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम!। काश्यप उवाच। दश नागेन्द्र! वृक्षं त्वं यद्येतदभिमन्यसे। अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम!। सौतिरुवाच। एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना। अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः। म वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना। आशीविषविषोपेतः प्रजज्वाल समन्ततः। तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ! जीवयैनं वनस्पतिम्। सौतिरुवाच। भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा। सर्वं भस्म समाहृत्य काश्यपो वाक्यमब्रवीत्। विद्याबलं पन्नगेन्द्र! पश्य मेऽद्य वनस्पतौ। अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम!। ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः। भस्मराशीकृतं वृक्षं विद्यया समजीवयत्। अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्। पलाशिनं शाखिनञ्च तथा विटपिनं पुनः। तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको व्रह्मन्नैतदत्यद्भुतं त्वयि। द्विजेन्द्र! यद्विषं हन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन!। यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्। विप्रशापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य ते विप्र! सिद्धिः सशयिता भवेत्। ततो यशः प्रदीप्तन्ते त्रिषु लोकेषु विश्रुतम्। निरंशुरिव वर्म्मांशुरन्तर्द्धानमितो व्रजेत्। काश्यप उवाच। धनार्थी याम्यहं तत्र तन्मे देहि भुजङ्गम!। ततोऽहं विनिवर्त्तिष्ये स्वापतेयं प्रगृह्य वै। तक्षक उवाच। यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहमेव प्रदास्यामि निवर्त्तस्व द्विजोत्तम!। सौतिरुवाच। तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तर्मः। प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्। दिव्यज्ञानात् स तेजस्वी ज्ञात्वा तं नृपतिं तदा। क्षीणायुषं पाण्डवेयमपावर्त्तत काश्यपः”।

काश्यपनन्दन = पु० कश्यपस्यायम् अण् कर्म्म०। १ गरुडे २ अरुणे ३ देवमात्रे च। “ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः!। यस्मिन् देशे करिष्यध्वं यज्ञान् काश्यपनन्दनाः” भा० आनु० ६६ अ०। “मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः। प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश” इत्युपक्रम्य “अदित्या द्वादशादित्याः सम्भूता भुवनेश्वराः” इत्युक्त्वा सर्व्वेषां सुरासुरादीनां ततौत्पत्त्युक्तेः ४ असुरादिषु च। कश्यपशब्दे १८३७ पृ० विवृतिः

काश्यपायन = पुंस्त्री० कश्यपस्य गोत्रापत्यं नडा० फक्। कश्यपगोत्रापत्ये

काश्यपि = पु० कश्यपे भवः इञ्। १ अरुणे २ गरुडे च। तयोः कश्यपेन विनतायामुत्पत्तिकथा च भा० आ० ३१ अ० यथा “एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता नाम कल्याणी पुत्रकामा यशस्विनी। तपस्तप्त्वा व्रतपरा म्नाता पुंसयने शुचिः। उपचक्राम भर्त्तारं, तामुवाचाथ कश्यपः। आरम्भः सफलो देवि! भविता यस्त्वयेप्सितः। जनयिष्यसि पुत्त्रौ द्वौ वीरौ त्रिभुवनेश्वरौ। तपसा वालिखिल्यानां मम सङ्कल्पजौ तथा। भविष्यतो महाभागौ पुत्त्रौ त्रैलोक्यपूजितौ। उवाच चैनां भगवान् कश्यपः पुनरेव ह। धार्य्यतामप्रमादेन गर्भोऽयं सुमहोदयः। एतौ सर्व्वपतत्त्रिणामिन्द्रत्वं कारयिष्यतः। लोकसम्भावितौ वीरौ कामरूपविहङ्गमौ। शतक्रुतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्य्यौ भ्रातरौ ते भविष्यतः। नैताभ्यां भविता दोषः सकाशात्ते पुरन्दरः। व्येतु ते शक्र! सन्तापस्त्वमेवेन्द्रो भविष्यसि। न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्था दर्पात्ते वाग्वज्रा भृशकोपनाः। एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिपिष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तथा। जनयामास पुत्त्रौ द्वावरुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः। पतत्त्रिणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत”।

काश्यपिन् = पु० भूम्नि। काश्यपेन प्रोक्तमधीयते णिनि। काश्यपप्रोक्तशाखाध्येतृषु।

काश्यपेय = पु० कश्यपस्येयम् अण् काश्यपी कश्यपभार्य्या तत्र भवः ढक्। १ कश्यपपत्नीजाते सुरासुरादौ। “इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्त्तिताः” भा० आनु० १५० अ० गरुडे च “नागक्षयकरश्चैव काश्यपेयो महाबलः” भा० आ०२३ अ०। “काप्यपेयोऽमृताहर्त्ता” ध्वजपूजामन्त्रः।

काश्यादि = पु० ष्ठञ्ञिठोः प्रत्यययोः प्रकृतिभूते पाणिन्युक्ते शब्दगणे स च गणः काशि वेदि (चेदि इति बा) सांयाति संवाह अच्युत मोदमान शकुलाद हस्तिकर्षू कुनामन् हिरण्य करण गोवासन भारङ्गी अरिन्दम अरित्र देवदत्त दशग्राम शौवावतान युवराज उपराज देवराज् मोदन सिन्धुमित्र दासमित्र युधामित्र सोममित्र छागमित्र सधमित्र (आपदादिपूर्वपदात्कालान्तात्) आपद् ऊर्द्ध्व तत्”। तात्कालिकः।

काश्यायन = पुंस्त्री काश्यस्य काशिराजस्य गोत्रापत्यम् नडा० फक्। काशिराजगोत्रापत्ये

काष = पु० कष्यतेऽनेन कष–करणे घञ्। १ कषणपाषाणे (कष्टीपातर) ख्याते प्रस्तरभेदे शब्दचि०। २ ऋषिभेदे च

काषाय = त्रि० कषायेण रक्तः अण्। कषायेण रक्ते १ वस्त्रादौ “यदि वासांसि बमीरन् रक्तानि वसीरन् काषायं ब्राह्म- णो, माञ्जिष्ठं क्षत्रियो, हारिद्रं वैश्यः” आश्व० श्रौ० १, १९, ९। “कात्यायन्यर्द्धवृद्धा या काषायवसनाऽधवा” अमरः। स्त्रियां ङीप्। तदन्तस्य रक्तार्थाणन्तत्वात् एकार्थविशेष्यस्त्रीलिङ्गे शब्दे परे पुंवत्। काषा यी कन्था यस्य काषायकन्थः

काषायण = पु० अश्वा० गणे काशेत्यत्र काषेति पाठे गोत्रापत्ये फञ्। १ काषगोत्रापत्ये शुक्लयजुर्वेदवंशान्तर्गते ऋषिभेदे। “काषायणात् काषायणः” शत ब्रा० १३, ७, ३, २७।

काषायवासिक = पुंस्त्री काषाये वस्त्रे वासोऽस्त्यस्य ठन्। कीटभेदे स्त्रियां ङीष्। “सूचीमुखः कृष्णगोधा यश्च काषायवासिकः” सुश्रु०। कीटशब्दे विवृतिः।

काषायिन् = पु० भूम्नि। कषायेण प्रोक्तमधीयते णिनि। कषायर्षिप्रोक्तशाखाध्यायिषु।

काष्ठ = न० काशत्यनेन काश–क्थन् नेट् शस्य ष १ अनलादेरिन्धनार्थे दारुणि “ससारमतिशुष्कं यत् मुष्टिमध्ये समेष्यति। तत् काष्ठं काष्ठमित्याहुः खदिरादिसमुद्भवम् इत्युक्तलक्षणयुक्ते २ दारुभेदे च। “काष्ठेन वा नखेन वा कण्डुयेत” शत०, व्रा०, ३, २, १, “यथा काष्ठञ्च काष्ठञ्च समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद्भूतसमागमः” भा०, शा०, ८६४ श्लो० “तथाश्मानस्तृणकाष्ठञ्च सर्व्वं दिष्टक्षये स्वां प्रकृतिं भजन्ति” भा०, आ०, ८९ अ०।

काष्ठक = त्रि० काष्ठंविद्यतेऽस्य नडादि० छ कुक् च विल्वकादि० छमात्रस्य लुक्। काष्ठयुक्ते। २ अगुरुचन्दने न शब्दमा० तस्य प्रशस्तकाष्ठवत्त्वात् तथात्वम्।

काष्ठकदली = स्त्री काष्ठमिव कठिना कदली। (काठकला कदलीभेदे राजनि०।

काष्ठकीट = पुं स्त्री काष्ठेकीटः। घुणाख्ये कीटे हेम० स्त्रियां ङीष्।

काष्ठकुट्ट = पुं स्त्री० काष्ठं कुट्टति कुट्ट–अण् उप० स०। (काठठोकरा) पक्षिभेदे त्रिका० स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप्।

काष्ठकुद्दाल = पु० काष्ठमयः कुद्दालः। नौकास्थमलघर्षणार्थे काष्ठमये कुद्दाले अव्भ्रौ अमरः।

काष्ठजम्बू = स्त्री काष्ठप्रधाना जम्बूः। भूमिजम्बूवृक्षे राजनि०

काष्ठतक्ष = पु० काष्ठं तक्षति तक्ष–क्विप्। (छुतार) इतिप्रसिद्धे जातिभेदे। ण्वुल्। काष्ठतक्षकोऽप्यत्र स्त्रियां जातित्वात् ङीष्। काष्ठतक्षणकर्त्तृ मात्रे त्रि०। स्त्रियां टाप् इति भेदः।

काष्ठतन्तु = पु० काष्ठे तत्तुरिव दोर्घत्वेनावस्थितत्वात्। काष्ठस्थ कृमिभेदे हारा०।

काष्ठदारु = पु० काष्ठप्रधानो दारुः। देवदारुवृक्षे राजनि०। तस्य शाखाबाहुल्ययोगेन काष्ठप्रधानत्वात् तथात्वम्।

काष्ठद्रु = पु० काष्ठप्रधानोद्रुर्वृक्षः। पलाशवृक्षे राजनि० तस्य काष्ठतोऽपि पुष्पोद्गमात्तत्प्राधान्यात्तथात्वम्!

काष्ठधात्रीफल = न० काष्ठमिव शुष्कं धात्रीफलम्। आमलके राजनि० तत्फलाभ्यन्तरे अष्टेः काष्ठस्येव शुष्कत्वात्तस्य तथात्वम्।

काष्ठपाटला = स्त्री काष्ठमिव कठिना पाटला। सितपाट लायाम् राजनि०

काष्ठमठी = स्त्री क्षुद्रोमठः मठी काष्ठेन निर्म्मिता मठीव चितायाम् त्रिका०। तस्याः क्वाष्ठनिर्म्मितक्षुद्रमठाकारत्वात् तथात्वम्।

काष्ठमय = त्रि० काष्ठात्मकं मयट्। १ काष्ठात्मके २ काष्ठतुल्यकठिन हृदये निर्दये च। “दुर्द्दशाः केचिदामान्ति नराः काष्ठमया इव”। भा०, रा०, ३४४,।

काष्ठमल्ल = पुं काष्ठं मल्ल इव यत्र। शवर्निहारणे यानभेदे हारा

काष्ठमौन = न० काष्ठमिव मौनम्। इङ्गितेनापि स्वाभिप्रायाप्रकाशनरूपे मौने शब्दचि०

काष्ठलेखक = पु० काष्ठं लिखति ण्वुल्। घुणाख्ये कीटे।

काष्ठलौहिन् = पु० काष्ठञ्च लौहञ्च स्तोऽस्य। लौहयुक्ते काष्ठमये मुद्गरे त्रिका०

काष्ठवल्लिका = स्त्री काष्ठमिव शुष्का वल्लिका। कटुकायां (कट्की) ख्याते वल्लीभेदे वैद्यकम्

काष्ठशारिवा = स्त्री काष्ठमिव शुष्का शारिवा। (अनन्तमूल) शरिवाभेदे राजनि०

काष्ठा = स्त्री काश–क्थन् नेट् शष्यषः। १ दिशि। “स राजपत्रोवदृध आशु शुक्ल इवोडुवः। आपूर्ब्बमाणः पिष्टभिः काष्ठाभिरिव सोऽन्वहम्”। २ अष्टादशनिमेषात्मके २ काले “खं मुहूर्त्तस्थितिस्त्वं च लवश्च त्वं पुनः क्षणः “शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रूटिस्तथा” भा० आ०२५ अ०। “कलाकाष्ठादिरूपेण परिणाम प्रदायिनि!” देवीमा०। ३ सीमायाम् “परा हि काष्ठा तपसस्तया पुनः” कुमा०। ४ स्थितौ “काष्ठां भगवतोध्यायेत् स्वनामाग्रावलोकनः” भाग० १, १, २३, श्लो०। ५ उत्कर्षे च अमरः “काष्ठागतस्नेहरसानुविद्धम्” कुमारः। काष्ठं प्राधान्येनास्त्यस्याम् अच्। ६ दारुहरिद्रायां मेदि०। ७ कश्यपपत्नीभेदे। “अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत्। अदितिर्दितिर्दनुः काष्ठा आरष्टा सुरसा इला। मुनिः क्रोधवशा ताम्रा सुरभिः सरभा तिसिः” इत्युपक्रम्य “अरिष्टायास्तु गन्धर्व्वाः काष्ठाया द्विशकेतराः” भाग० ६, ६, २३, उक्तम्

काष्ठागार = न० काष्ठनिर्म्मितमागारम्। (काठेरघर) काष्ठनिर्म्मिते गृहे त्रिका०।

काष्ठाम्ववाहिनी = स्त्री काष्ठनिर्म्मिताऽम्बुवाहिनी। (सेओति) ख्याते द्रोणीरूपे नौकाजलसेचनपात्रभेदे अमरः

काष्ठालक = न० काष्ठमिव कठिनमालुकम्। कन्दभेदे। “कन्दातन ऊर्द्ध्वं वक्ष्यामः विदारिकन्द–शता–वरी–विस–मृ णाल–शृङ्गाटक–कशेरुक–पिण्डालुक–मध्वालुक–हस्त्यालुक काष्ठालुक–शङ्खालुक–रक्तालुकेन्दीवरोत्पल–कन्दप्रभृतीनि। रक्तपित्तहराण्याहुः शीतानि मधुराणि च। गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च” सुश्रुतः।

काष्ठिक = त्रि० काष्ठमस्त्यस्य ठन्। बहुकाष्ठयुक्ते अनले देशादौ ‘क्षुद्रं काष्ठं ङीप् काष्ठी स्वार्थे क ह्रस्वः टाप्। काष्ठिका क्षुद्रकाष्ठखण्डे स्त्री। “विंशति काष्ठिकाः” भवदेवः

काष्ठिन् = त्रि० काष्ठमस्त्यस्य इनि। बहुकाष्ठयुक्ते स्त्रियां ङीप्

काष्ठील = पु० काष्ठिना इल्यते इल–क्षेपणे कर्म्मणि घञ्। १ राजार्के राजनि० ईषदष्ठीलेव। २ कदलीभेदे (काठकला) शब्दचि०

काष्ठेक्षु = पु० काष्ठमिव कठिनकाण्ड इक्षुः। इक्षुभेदे सुश्रु० इक्षुशब्दे ९०९ पृ० विवृतिः। भावप्र० काण्डेक्षुरिति पाठः।

काष्ठोडुम्बरिका = स्त्री काष्ठप्रधाना उदुम्बरिका। काकोदुम्बरिकायाम् शब्दचि०।

कास = कुत्सित शब्दे (रोगहेतुकशब्दभेदे) भ्वा० आत्म० अक० सेट्। कासते अकासिष्ट कासाम्–बभूब–आस–चक्रे चकासे “असीतोरावणः कासाञ्चक्रे शस्त्रेर्निराकुलः” भट्टिः। “कासाञ्चक्रे कुत्सितशब्दमभिहितवान्” जयम०। “अतऊर्द्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम्। श्वसिति क्षौति चात्यर्थमत्याधमति कासते” “स पूर्ब्बं कासते शुष्कम्” सुश्रु०। “कासमानश्च तृष्णाभिभूतः” सुश्रु०। अस्व क्वचित् परस्मैपदित्वमिच्छन्ति। “प्रसक्तवेगश्च समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः” सुश्रु० कासशब्दे उदा०। क्विप् काः। “यत्त्वं शीतोऽथोरूरः सह कासा वेपयः” अथ० ५, २२, १०, भावे घञ्। कासः कुत्सितशब्दः “मुञ्च शीर्पक्त्या उत कासएनम्” अथ० १, १२, ३।

कास = त्रि० कस हिंसने कर्त्तरि ण। १ हिंसके। कासतेऽनेन कास–करणे घञ्। २ रोगभेदे पु० “कुरुथा वलासं कासमुद्युगम्” अथ० ५, २२, ११। तल्लक्षणनिदानादि सुश्रुते उक्तं यथा “अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः। उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः। कासस्यापि च ते ज्ञेयास्त एवोत्पत्तिहेतवः। धूमोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च। विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव। प्राणोह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यघोषः। निरेति वक्त्रात्सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु। स वातपित्तप्रभवः कफाच्च क्षतात्तथान्यः क्षयजोऽपरश्च। पञ्चप्रकारः कथितो भिषग्भिर्व्विवर्द्धितो यक्षविकारकृत् स्यात्। भविष्यतस्तस्य तु कण्ठकण्डूर्भ्योज्योपरोधो गलतालुलेपः। स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि। हृच्छङ्खमूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः। प्रसक्तवेगश्च समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः। उरीविदाहज्वरवक्त्रशोषैरभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः। पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः। विलिप्यमानेन मुखेन सीदन् शिरोरुगार्त्तः कफपूर्णदेहः। अभक्तरुग् गौरवसादयुक्तः कासेद्भृशं सान्द्रकफः कफेन। वक्षोऽतिमात्रं विहतञ्च यस्य व्यायामभाराध्ययनाभिधाकैः। विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजःस उक्तः। अतिव्यवायभाराध्वयुक्ताश्वगजविग्रहैः। रहस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत्। स पूर्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्। कण्ठेन रुजताऽत्यर्थं विभिन्नेनैव चोरसा। सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना। दुःखस्पर्शेन शूलेन भेदपीडाभितापिना। पर्व्वभेदज्वरश्वासवृष्णावैस्वर्य्यपीडितः। पारावतैवाकूजन् कासवेगात् क्षतोद्भवात्। विषमाऽसात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्। वृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः। कुपिताः क्षयजं कासं कुर्य्युर्देहक्षयप्रदम्। स गात्रशूलज्वरटाहमोहान् प्राणक्षयञ्चोपलभेत कासी। शुष्यन् विनिष्ठीवति दुर्ब्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्। तं सर्व्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति। वृद्धत्वमासाद्य भवत्यथौ वै याप्यन्तमाहुर्भिषजस्तु कासम्”। भावप्र० एतद्विवृतं यथा पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः। क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्। क्षयाय राजयक्ष्मणे। अथ पूर्व्वरूपमाह। पूर्व्वरूपं भवेतेषां शूकपूर्णगलास्यता। कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते। भोज्यानामवरोधः कवलगिलने कण्ठव्यथा। अथ वातिकस्य रूपमाह हृच्छङ्खपार्श्वोदरमूर्द्ध्वशूली क्षामाननः क्षीणवलस्वरौजाः। प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव। शङ्खो ललाटैकदेशः, शुष्कं श्लेष्मादिरहितम्। पैत्तिकस्य रूपमाह तनोर्बिदाहज्वरवक्त्रशोषैरभ्यर्द्दितस्तिक्तमुखस्तृपार्त्तः। पित्तेन पीतानि वमेत्कटूनि कासेत् सपाण्डुः परिदहामानः। सपाण्डुः, पाण्डुरोगयुक्तः। श्लैष्मिकस्य रूपमाह प्रलिप्यमानेन मुखेन सीदेत् शिरोरुजार्त्तः कफपूर्ण्णदेहः। अभक्तरुङ्नीरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन। प्रलिप्यमानेन मुखेन श्लेष्मलिप्तेन मुखेनोपलक्षितः। अभक्तरुक् न भक्ते रुक् रुचिर्य्यस्यसः कण्डूः कण्ठ एव। क्षतकासस्य निदानपूर्ब्बिकां सम्प्राप्तिमाह अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः। रहस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत्। अश्वगजयोर्निग्रहो दमनम्। लक्षणमाह स पूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्। कण्ठेन कूजत्यत्यर्थं विभग्नेनेव चोरसा। सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना। दुःखस्पर्शेन शूलेन भेदपीडाभितापिना। पर्वभेदज्वरश्वासतृष्णावैस्वर्य्यपीडितः। पारावत इवाकूजन् कासवेगात् क्षतोद्भवात्। कण्ठेनेत्युपलक्षणे तृतीया एवमुरसेति। क्षयकासस्य निदानपूर्ब्बकां सम्प्राप्तिमाह विषमाऽसात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्। वृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः। कुपिताः क्षयणं कासं कुर्य्युर्देहक्षयप्रदम्। घृणिनां विचिकित्सायुक्तानाम्। लक्षणमाह सगात्रशूलज्वरमोहदाहप्राणक्षयञ्चोपलभेत्स कासी। शुष्कं विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्। तं सर्यलिङ्गं भृगदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति। असाध्यसाध्ययाप्यानाह इत्येष क्षयजः कासः क्षीणानां देहनाशनः। साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः। एवं क्षतोत्थितः क्षीणानामसाध्यः। बलवतां साध्यो याप्यो वा स्यात्। न वा कदाचित् सिध्येतामपि पादगुणान्वितौ सिध्येतां क्षतजक्षयजौ सद्वैद्यः सद्भेषजः सत्परिचारकथुक्तस्य सदातुरस्य जातौ। स्थविराणां जराकासः सर्वो याप्यः प्रकीर्त्तितः। स्थविराणां जराकासः वृद्धानां यः कासो भवति स जराकाससंज्ञः स सर्वएव वातजादिरपि याप्यः। त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यैर्याप्यांस्तु यापयेत्। स्वल्पोऽपि कास उपेक्षणीयो न भव- ति। किन्तु शीघ्रं प्रतिकुरणीय इत्याह ज्वरारोचक हृल्लासस्वरभेदक्षयादयः। भवन्त्युपेक्षया यस्मात्तस्मार्त्त त्वरया जयेत्”। कासरोगभेदस्य हेतुपापादि कर्म्मविपाकशब्दे १७६४, पृ० उक्तम् कं जलमस्यतेऽनेन अस–क्षेपणे करणे घञ् ६ त०। ३ शोभाञ्जनवृक्षे पु० शब्दच०। तदञ्जनसेवने नेत्राज्जलनिस्मारणात्तस्य तथात्वम्।

कासकन्द = पु० कासहेतुः कन्दः। कासालौ राजनि०

कासघ्न = त्रि० कासं हन्ति हन–हेत्वादौ टक। कासहरे सुश्रुतोक्ते १ विधानभेदे। “प्रायोगिकः स्नेहनोवैरेचनः कासघ्नः वामनीयश्च” इत्युपक्रमे “वृहतीकण्ठकारिकात्रिकटुककासमर्द्दनेङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने” (धूमे)। स्त्रियां ङीप्। सा च २ कण्टकार्य्यां स्त्री शब्दच०। “हरीतको कणा शुण्ठी मरिचं क्षौद्रसंयुतम्। कासघ्नोमोदकः प्रोक्तस्तूष्णारोचकनाशनः” भावप्र० उक्ते ३ मोदकभेदे पु०। काशनाशककाशहरादयोऽपि। काशरोगनिवारके त्रि० “येन तेन प्रकारेण वासकः कासनाशकः” वैद्यकम् कासहरैश्चेति सुश्रुतः

कासजित् = स्त्री कासं जयति जि–क्विप्। १ भार्ग्याम् (वामनहाटी) राजनि०। २ काशनाशके त्रि०।

कासनाशिनी = स्त्री कासं नाशयति नश–णिच्–णिनि ङीप्। कर्कटशृङ्गीवृक्षे रत्नमा०।

कासन्दीवटिका = स्त्री वेशवारभेदे राजवल्लभः।

कासमर्द्द = पु० कासं मृद्नाति मृद–अण् उप० स०। कालकासेन्दा) वृक्षे तद्गुणाद्युक्तं भावप्र० यथा “कासमर्द्दोऽरिमर्द्दश्च कासारिः कर्कशस्तथा। कासमर्द्ददलं रुच्यं वृष्यं कासविषास्रनुत्। मधुरं कफवातघ्नं पाटनं कण्ठशोधनम्। विशेषतः कासहरं पित्तघ्नं ग्राहकं लघु”। सुश्रुतेऽयं सुरसादिगणे पठितः सुरसादिशब्दे विवृतिः। कस्य जलस्यासेन क्षेपेण मृद्यतेऽसौ मृद–कर्म्मणि घञ् वेशवारभेदे स च पिष्टजलमिश्रितवस्त्रगालितवेसावार इति पाकराजेश्वरः।

कासमर्द्दन = पु० कासं मृद्नाति मृद–ल्यु ६ त०। पटोले हारा

कासर = पुंस्त्री० के जले आसरति आ + सृ–अच् ७ त०। महिषे अमरः तस्य कले सर्वदासरणात्तथात्वं स्त्रियां ङीष्।

कासहन् = पु० कासं हन्ति हन–क्विप्। “कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहा” इत्युक्ते कासनाशके १ क्वाथभेदे तस्य कासनाशकत्वात् तथात्वम् २ कासनाशकमात्रे त्रि०

कासार = पु० कस्य जलस्यासारीऽत्र। १ सरोवरे विंशत्या रगणैरचिते २ दण्डकच्छन्दोभेदे च वृत्त० टी०। ३ पक्वान्नभेदे न० भावप्र०

“घृते तप्ते विनिःक्षिप्य कटाहे पाचयेन्मनाक्। ततस्तत्र विनिःक्षिप्य खण्डं भागसमं पचेत्। ततश्चाकृष्य तत् पात्रे क्षिप्त्वा सम्यक् सुचिक्कणे। चतुरस्रीकृतं ह्येतत् भवेत् कासारसंज्ञकम्। कासारं रुचिदं श्रेष्ठं नातिरूक्षं नपिच्छिलम्। हृल्लासकफपित्तघ्नं विरुचौ रुचिकारकम्। प्रक्षिप्य माषाशृङ्गाटकशेरूणां पृथक् पृथक्। शालूकस्य च कर्त्तव्यं कासारं खण्डसर्पिषा”।

कासारि = पु० ६ त०। कासमर्द्दवृक्षे भावप्र० कासमर्द्दशब्दे विवृतिः।

कासालु = पु० कासकारी आलुः। कोङ्कणदेशप्रसिद्धे आलुकभेदे राजनि०

कासीस = न० कासीं क्षुद्रकासं स्यति सो–क। (हिराकस्) उपधातुभेदे दन्त्यद्वयवानयमित्येके काशीसशब्दे विवृतिः। “कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा” सुश्रु०।

कासृति = स्त्री० कुत्सिता सृतिः सरणम्। कुत्सितगतौ “न कासृत्या ग्रामं प्रविशेत्” गोभि०

कास्तीर = न० ईषत्तीरमस्यास्ति कोःका नि० सुट्। ईषत्तीरयुक्ते नगरभेदे सि० कौ०।

कास्मर्य्य = पु० काश्मर्य्य + पृषो० शस्य सः। गाम्भार्य्याम्

काहका = स्त्री काहला + पृषो० लस्य कः। काहलावाद्ये द्विरूपकोषः।

काहल = पुंस्त्री कुत्सितं हलति लिखति हन–अच्, कोः का। १ विडाले २ कुक्वुटे, स्त्रियां ङीष् ३ शब्दमात्रे पु० ४ महाढक्कायाम्, स्त्री टाप्मेदि० ५ धुस्तूराकारे वाद्यशब्दभेदे ६ अप्सरोभेदे स्त्री शब्दच० ७ अध्यक्तवाक्ये न० हेमच०। ८ शुष्के ९ भृशे, १० खले च त्रि० मेदि०।

काहलापुष्प = पु० काहलेव पुष्पमस्य। धुस्तूरे शब्दमा०

काहलि = पु० कं सुखमाहलति ददाति आ + हल + इन् ६ त०। १ शिवे “मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः भा० आनु०१ ७ अ० २ तरुण्यां युवत्यां स्त्री ङीप् मेदि०।

काही = स्त्री ईषदाहन्ति आ + हन–ड गौरा० ङीष्। कुटजवृक्षे राजनि०

***