कालिन् = पु० कालः कालरूपः खड्गोऽस्त्यस्य इनि। १ परानन्द मतसिद्धे परमेश्वरे “कालिन्! कलिमलध्वंसिन्! ध्वंसयाशु मदापदः” इति तन्मते ईश्वरप्रार्थनम्। कालयति कल–नोदने णिनि। २ प्रेरके त्रि० स्त्रियां ङीप्।

कालिनी = स्त्री कालः शिवः अधिष्ठातृत्वेनास्त्यस्याः कालः पुरुषाकारः गगनस्थः लुब्धकः अस्त्यस्याः सन्निकृष्टत्वेन वा, इनि ङीप्। आर्द्रानक्षत्रे हेमच० तस्याः तद्दैवतत्वं च अश्लेषाशब्दे ४९८ पृ० दर्शितम् इल्वलरूपस्य मृगशिरो मूर्द्धदेशस्थितनक्षत्रस्यासन्नत्वात्तस्यास्तथात्वम्

कालिन्द = न० कालिं जलराशिं ददाति दा–क पृषो० मुम् (तरमुज)ख्याते जलप्रधानफलके वृक्षे भावप्र० कालिङ्गशब्दे विवृतिः। स्वार्थे क। कालिन्दक तत्रार्थे न० राजनि०। कलिन्दे भवः अण्। कलिन्दपर्व्वतभवे त्रि० स्त्रियां ङीप्

कालिन्दी = स्त्री कलिन्दे पर्व्वते तत्सन्निकृष्टदेशे वा भवः अण् ङीप्। यमुनानद्याम् अमरः। “कलिन्दगिरिनन्दिनो तटसुरद्रुमालम्बिनी” रसरङ्गाधरे तस्याः कलिन्दपर्व्वत सुतत्वोक्तेस्तथात्वम्। “कालिन्दीजलजनितश्रियं श्रयन्ते” मावः। २ रक्तत्रिवृति (लालतेओडी) वृक्षे राजनि०।

कालिन्दीकर्षण = न० कालिन्दीं यमुनां कर्षति कृष–ल्यु ६ त०। बलदेवे तत्कर्षणकथा च हरि०११२ अ० यथा “स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः। शैशिरीषु त्रियामासु यथा स्वेदालयः शशी। रामस्तु यमुनामाह स्नातुमिच्छे महानदि!। एहि मामभिगच्छ त्वं रूपिणी सागराङ्गने। सङ्कर्पणस्य मत्प्रोक्तां भारतीं परिभूय सा। नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता। ततश्चुक्रोध हलभृद्रामो मदसमीरितः। चकार स हलं हस्ते कर्षणाधोमुखं बली। तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः। मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम्। स हलेनानताग्रेण कूले गृह्य महानदीम्। चकर्ष यमुनां रामो व्युत्थितां वनितामिव। सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया। व्यावर्त्तत नदी भीता हलमार्गोनुसारिणी। लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी। सङ्कर्षणभयत्रस्ता योषेवाकुलताङ्गता। पुलिनश्रोणिविम्बोष्ठी मृदितैस्तोयताडितैः। फेनमेखलसूत्रैश्च च्छिन्नैस्तीरान्तगामिनी। तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी। वेगगन्भीरवक्राङ्गी त्रस्तमीनविभूषणा। सितहंसेक्षणापाङ्गी काशक्षौमोञ्झिताम्बरा। तीरजोद्धृतकेशाता जलस्खलितगामिनी। लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागराङ्गना। मत्तेव कुटिलापाङ्गी राजमार्गेण गच्छति। कृष्यते सा स्म वेगेन स्रोतस्खलितगामिनी। उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम्। वृन्दावनस्य मध्येन सा नीता यमुना नदी। रोरूयमाणेव खरैरन्विता तोयवासिभिः। सा यदा समनुक्रान्ता नदी वृन्दावनं वनम्। तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत्। प्रसीद नाथ! भीताऽस्मि प्रतिलोमेन कर्म्मणा। विपरीतमिदं रूपं तोयञ्च मम जायते। असत्यहं नदीमध्ये रौहिणेय! त्वया कृता। कर्षणेन महाबाहो! स्वमार्गव्यभिचारिणी। प्राप्तां मां सागरे नूनं सपत्न्यो वेगगर्व्विताः। फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम्। प्रसादं कुरु मे वीर! याचे त्वां कृष्णपूर्बज!। सुप्रसन्नमना नित्यं भवस्व त्वं सुरोत्तम!। कर्षणायुधकृष्टाऽस्मि रोषोऽयं विनिवर्त्त्यताम्। गच्छामि चरणौ मूर्द्ध्ना तवाहं लाङ्गलायुध!। मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज!”। “प्रणामावनतां दृष्ट्वा यमुनां लाङ्गलायुधः। प्रत्युवाचार्णवबधूं मदक्लान्तमिदं वचः। लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने!। देशमम्बुप्रदानेन प्लावयस्वास्विलं शुभे!। एष ते सुभ्रु! सन्देशः कथितः सागराङ्गने!। शान्तिं व्रज महाभाये! गम्यताञ्च यथासुखम्। लोका हि यावत् स्थास्यन्ति तावत् तिष्ठतु मे यशः। यमुनाकर्षणं दृष्ट्वा सर्व्वे ते व्रजवासिनः”। कालिर्न्दी भिनत्ति भिद–ल्यु ६ त०। कालिन्दीभेदनोऽप्यत्र अमरः।

कालिन्दीसू = स्त्री कालिन्दीं यमुनां सूते सू–क्विप् ६ त०। सूर्य्यपत्न्यां संज्ञायाम्।

कालिन्दीसोदर = ६ त०। यमे हेमच० तत्कथा अरुणात्मजशब्दे ३५९ पृ० दृश्या

कालिमन् = पु० कालस्य भावः इमनिच्। कृष्णवर्ण्णे “स्वानमानमतिकालिमालया” माघः।

कालिम्मन्या = स्त्री आत्मानं कालीं मन्यते मन्–खश्–मुम् ह्रस्वः। आत्मानं कृष्णतया मन्यमानायाम् स्त्रियाम्।

कालिय = पु० के जले आलीयते आ + ली–मूलविभुजा० क। नागभेदे कालियदमनशब्दे विवृतिः। “त्रस्तेन तार्क्ष्यात् किल कालियेन मणिं विसृष्टं यमुनौकसा यः” रघुः। “तोलासि कालियकुला यमस्येव स्वसा स्वयम्” माघः “कालियं तक्षकञ्चैव पिङ्गलं मणिभद्रकम्” ति० त० गरु० पु०। गरुडभिया यमुनाह्रदजले निलीनत्वात्तस्य तथात्वम्।

कालियदमन = पु० कालियं दमयति दम–णिच्–ल्यु। वासुदेवे कृष्णे तत्कथा भाग० १०, १६ अ० यथा “कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना। श्रप्यमाणपया, यस्मिन् पतन्त्युपरिगाः खगाः। विप्रुष्म ता विषोदोर्म्मिमारुतेनाभिमर्शिताः। म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः। तं चण्डवेगविषवीर्य्यमवेक्ष्यतेन कृष्णां नदीञ्च खलसंयमनावतारः। कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढवसनोऽभ्यपतद्विषोदे। सर्पह्रदः पुरुषसारनिपातवेगसंक्षोभितोरग विषोच्छसिताम्बुराशिः। पर्य्यक् प्लुतोविषकषायित भीषणोर्म्मिर्द्धीमन्! धनुःशतमनन्तबलस्य किन्तत्। तस्मिन् ह्रदे विहरतो भुजदण्डघूर्ण्णवार्घोषमङ्ग! वरवारणबिक्रमस्य। आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवा समसरत्तदमृष्यमाणः। तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम्। क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं संदश्य मर्म्मसु रुषा भुजगश्चखाद। तं नागभोगपरिपीतमदृष्टचेष्टमालोक्य तत्प्रियसखाः पशुपा भृशार्त्ताः। कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियोनिपेतुः। गावोवृषा वत्सतर्य्यः क्रन्दमानाः सुदुःखिताः। कृष्णे न्यस्तेक्षणा भीतारुदन्त्य इव तस्थिरे” इत्थं गोपादीनामाकुलतामुपवर्ण्ण्य

“इत्थं स्वगोकुलमनन्थगतिं निरीक्ष्य सस्त्रीकुमार मतिदुःस्वितमात्महेतोः। आज्ञाय मर्त्यपदवीमनुवर्त्तमानः स्थित्वा मुहूर्त्तमुंदतिष्ठदुरङ्गबन्धात्। तं प्रथ्यमानवपुषा व्यथितात्मभोगस्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः। तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष स्तब्धेक्षणोन्मुखमुखोहरिमीक्षमाणः। तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्कणी अतिविषालकरालदृष्टिम्। क्रीडन्नमुं परिसक्षार यथा खगेन्द्रोबभ्राम सोऽप्यवसरम्प्रसमीक्षमाणः। एवं परिभ्रमहतौजससुन्नतांसमानम्य तत्पृथुशिरःस्वधिरूढ आद्यः। तन्मूर्द्धरत्ननिकरस्फुरणातिताम्रपादाम्बुजोऽखिलकलादिगुरुर्न्ननर्त्त। तन्नर्त्तुमुद्यतमवेक्ष्य तदा तदीयगन्घर्व्वसिद्धमुनिचारण देवबध्वः। प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुः। यद्यच्छिरो न नमतेऽङ्गशतैकशीर्ष्णस्तत्तन्ममर्द्द खलदण्डधरोऽङ्घ्रिपातैः। क्षीणायुषोभ्रमत उल्वणमास्यतोऽसृङ्गस्तोवमन् परमकश्मलमाप नागः। तस्याक्षिभिर्गरलमुद्वमतः शिरःसु यद्यत् समुन्नमति निश्वसतो रुषोच्चैः। नुत्यन् पदा तु नमयन् दमयाम्बभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः” कालिमथनादयोऽप्यत्र भावे ल्युट् ६ त०। कालियस्य २ मर्द्दने न०

कालियह्नद = पु० ६ त०। कालियनागाधिष्ठिते वृन्दावनस्थ यमुनान्तर्गते ह्रदभेदे कालियदमनशब्दे विवृतिः। तस्य कालियस्य तप्रदाश्रयणकथाभाग० १०, १७ अ० यथा “नागालयं रमणकं कथं तत्याज कालियः। कृतं वा किं सुपर्णस्य तेनैकेनासमञ्जसम्। वादरायणिरुवा च। उपहार्य्यः सर्पजनैर्म्मासिमासीह योबलिः। वानस्पत्यो महावाहो। नागानां प्राङ्निरूपितः। स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि। गोपीथायात्मनः सर्व्वे सुपर्ण्णाय महात्मने। विषवीर्य्यमदाविष्टः काद्रवेयस्तु कालियः। कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्। तत् श्रुत्वा कुपितोराजन्! भगवान् भगवत्प्रियः। विजिघांसुर्म्महावेगः कालियं समुपाद्रवत्। तमापतन्तं तरसा विषायुधः प्रत्यभ्ययादुत्थितनैकमस्तकः! दद्भिः सुपर्णं व्यदशद्दशायुधः करालजिह्वोच्छ्वसितोग्रलोचनः। तं तार्क्षपुत्रः स निरस्य मन्युमान् प्रचण्डवेगोमधुसूदनासनम्। पक्षेण सव्येन हिरण्यरोचिषा जघान कद्राः सुतमुग्रविक्रमः। सुपर्णपक्षाभिहतः कालियोऽतीवविह्वलः। ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम्। तत्रैकदा जलचरं गरुडोभक्ष्यमीप्सितम्। निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत्। मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौहृते। कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन्। अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति। सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम्। तत् कालियः परं वेद नान्यः कश्चन लेलिहः। अवात्सीद्गरुडाद्भीतः कृष्णेन च विवासितः”।

काली = स्त्री कालस्य शिवस्य पत्नी ङीष्। १ शिवपत्न्याम्। “ऊर्द्ध्वरेता भवःकांलः इति” भाग० ३, ९, २ शिवस्य कालनामतोक्तेस्तस्यास्तथात्वम्। कालवर्ण्णा स्त्री “कालात्वर्ण्णश्चेत्” वार्त्ति० ङीष्। २ कृष्णवर्ण्णायां स्त्रियाम् “का काली कामधुरा “विदग्धमु० ३ हिमाचलदुहितरि उमायां तस्याश्च जन्मतः नीलाञ्जननिभवर्ण्णतया तथात्वम्। “सुतामनुजगामाशु गतां कालीं हराश्रमम्”। “तां तत्र कालीं तनयाम् भयशोकाकुलामुमाम्” कालि० पु० ४० अ०। “कालि! भिन्नाञ्जनश्यामे! उर्वश्याद्यप्सरोगणैः”। “गौरत्वासादनञ्चैव कालिकायास्तथा श्रुतम्” इति च तत्र तस्यागौरत्वप्राप्तिकथनम्। ४ दुर्गामूर्त्तिभेदे “काली करालवदना विनिष्क्रान्तासिपाशिनी। विचित्र खट्वाङ्गधरा नरमालाविभूषणा। द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरबा” इत्यादि देवीमा० तदाविर्भावौक्तः। सा च बहुविधा सिद्धकाली महाकाली गुह्यकाली दक्षिणाकाली भद्रकाली श्मशानकाली रक्षाकाली तिभेदात् तथा अन्येऽपि तद्भेदा भैरवत० दर्शिता यथा “काली कपालिनी कुल्वा कुरुकुल्वा विरोधिनी। विप्रचित्ता तथोग्रोग्रप्रभा नीलघनत्विषः। नीला घना बलाका च मात्रा मुद्रा मिता तथा। एताः सर्व्वा असिधरा मुण्डमालाविभूषिताः”। “कालि! कालि महाकालि! शीधुमांसपशुप्रिये” भा० वि० ४, अ०। ५ मातृभेदे “काली कपालाभरणा चकाशे” कुमा० ६ भीमसेनस्य पत्नीभेदे। “युधिष्ठिरात्तुपौरव्यां देवकोऽथ घटोत्कचः। भीमसेनाद्धिडिम्बायां काल्या सर्व्वगतस्ततः भाग० ९, २२, २४। भा० आ०९५ अ० तु “भीमसेनोऽपि काश्यां बलन्धरां नामोपयेमे वीर्य्यशुल्कां, तस्यां पुत्रं सर्व्वगमुत्पादयामास” इत्युक्तं तदैकवाक्यात् काश्यामित्येव पाठः समुचितः गन्धकालीत्यस्य पूर्व्वपदलोपः। काली ७ दासकन्यायां गन्धकाल्यां सत्यवत्याम् शान्तनुपत्न्याम्। “भीष्मः खलु पितुः प्रियचिकीर्षया सत्यबतीं मातरमुदवाहयत् गन्धकालीमितियामाहुः” भा० आ० ९५ अ०। चु० कल–नोदने अच् गौरा० ङीष्। ८ तुवर्य्याम् ९ त्रिवृति १० रात्रौ ११ कालाञ्जन्याम् राजनि० १२ तयोः कृष्णत्वात्तथात्वम् अग्निशिखाभेदे जटाधरः। अग्निजिह्वशब्दे दर्शितशारदातिलकवाक्ये एतस्याः तच्छिखासु नान्तर्भाव इति चिन्त्यम्। १३ वृश्चिकालौ (विचाति) रत्नमाला। १४ कालरात्रौ यमभगिन्याम् तन्त्रोक्तासु दशमहाविद्यासु आद्यायां १५ महाविद्यायाम् ताश्च “काली तारा महाविद्या षोडशी भुवनेश्वरी, भैरवी छिन्नमस्ता च विद्या घूमावती तथा। वगला सिद्धविद्या च मातङ्गी कमलात्मिका। एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः” तन्त्रसा० “कालीपूजा श्रुता नाथ! भावाश्च विविधाः प्रभो!” भैरवत० “तारायाश्चैव काल्याश्च त्रिपुराया विशेषतः। जनने मरणे चैव न त्यजेयुर्जपार्चने” तन्त्र०

कालीक = पुंस्त्री० के जलेऽलीकैव मत्स्यघाताय निश्चेष्ट- त्वात्। क्रौञ्चे वके शब्दरत्ना० स्त्रियां ङीष्।

कालीची = स्त्री काल्या यमभगिन्या चीयतेऽत्र–ची–बा० आधारे ड गौरा० ङीष्। यमविचारभूमौ त्रिका०।

कालीतनय = पुंस्त्री० कालीमितः प्राप्तोनयः प्रापणं यस्य। महिषे हेमच० स्त्रियां ङीष्। महिषस्य काल्यै बलिदानार्थं नीयमानत्वात्तथात्वम्।

कालीय = न० कालस्थाने भवम् “वृद्धाच्छः” पा० छ। कृष्णचन्दने शब्दच०।

कालीयक = न० कालीयमिव कायति–कै–क। कालानुसार्य्ये सुगन्धिकाष्ठे (कलम्बक) अमरः।

कालेय = पु० कालयापत्यम् ढक्। १ दैत्यभेदे, कालकेये, कलायै १७८९ पृ० दर्शितरक्तधारिण्यै हितं ढक्। २ यकृति कं सुखमालेयमादेयं यस्मात्। ३ कालचन्दने न० “आश्यानकालेयकृताङ्गरागाम्” कुमा०। कलिना दृष्टं मास ढक्। ४ कलिदृष्टे सामभेदे तच्च माध्यन्दिनसवने सप्तमं सूक्तमधिकृत्य गेयम्। तत्प्रकार ऊहगाने दृश्यः

कालेयक = पुंस्त्री० कलये विरोधाय साधु फलि + ढक् संज्ञायां क। १ कुक्कुरे तस्यान्योन्यविरोधित्वात् तथात्वम् स्त्रियां ङीष्। कालेय + स्वार्थे संज्ञायां वा क। २ कालीयचन्दने “मधुकरकुलकलङ्ककालीकृतकालेयककुसुमकुट्मलेषु” काद०। ३ हरिद्रायां पु० ४ दारुहरिद्रायां न० राजनि०। तत्रार्थे पु० शब्दर०।

कालेश = पु० ६ त०। १ सूर्त्ये तस्य स्वगत्या कालपवर्त्तकत्वात् तथात्वम्। २ शिवे च। ३ मकारवर्ण्णे। “विष्णुरोशस्ततोहान्तः कालेशः पृथिवी ततः” श्रीविद्यामन्त्रोद्धारे “कालेशोमकारः” तन्त्रसा०। कालेश्वरादयोऽप्यत्र।

कालोदक = न० भारतप्रसिद्वे तीर्थभेदे। “कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम्” भा० आनु० ३८ अ०।

काल्प = पु० कल्पे विधौ भवः अण्। (का~चाहलुद्) कर्चुरे शब्दर०। स्वार्थे क। तत्रार्थे अमरः।

काल्पनिक = नि० कल्पनायाः आगतः ठञ्। कल्पनाभवे १ कल्पिते, २ आरोपिते, च। स्त्रियां ङीप्। “इति व्युत्पत्तिस्तु काल्पनिकी” ति० त०।

काल्पसूत्र = त्रि० कल्पसूत्रं वेत्त्यधीते वा सूत्रान्तत्वात् ठकि प्राप्ते “अकल्पादेः” इत्युक्तेः अण्। १ कल्पसूत्राभिज्ञे २ तदध्येतरि च स्त्रियां ङीप्।

काल्पिक = त्रि० कल्पग्रन्थे उक्तः ठञ्। वेदाङ्गकल्पग्रन्थोक्ते विधानादौ।

काल्य = न० कल्यमेव स्वार्थे अण्। १ प्रत्यूषे हेमच०। कालःपाप्तोऽस्य यत्। २ प्राप्तकाले शीतादौ त्रि०। काले भवः दिगा० यत्। ३ कालभवे त्रि० तदन्तसमासे अकर्म्मधारये उत्तरपदस्य आद्युदात्तता। ततोनडा० पाठान्तरे गोत्रे फक्। काल्यायन काल्यगोत्रापत्ये पु० स्त्री।

काल्यक = न० काले साधु यत् स्वार्थे क। कर्चुरे (का~चाहलुद्) शब्दर०।

काल्या = स्त्री कालः गर्भग्रहणकालः प्राप्तोऽस्याः यत्। प्राप्तगर्भग्रहणयोग्यकालायाम् ऋतुमत्याम् अमरः “उपसर्य्या काल्याप्रजने” पा०

काल्याणक = न० कल्याणस्य भावः मनोज्ञा० वुञ्। कल्याणभावे।

काव = न० कविर्देवताऽस्य अण्। कविदेवताके सामभेदे। तच्च तृतीयसवने गेयार्भवपवमानान्तर्गतम्। “आभीप्रियाणीति” सूक्ते गेयम्। तत्प्रकारश्च ऊहगाने दर्शितः।

कावचिक = न० कवचिनां समूहः “ठञ् कवचिनश्च” पा० ठञ् “इनोलोपः। वर्म्मधारिणां समूहे।

कावट = पु० कर्वट + पृषो०। कर्वटे हला०।

कावषेय = पु० यजुर्वेदवंशान्तर्गते तुराख्ये ऋषिभेदे। “कावषेयात्तु कावषेयः” शत० १०, ६, ५, ९, तुरोह कावषेयः कारोत्यां देवेभ्योऽग्निं चिकीर्ष” तत्रैव ९, ५, २, १५,

कावाद = पु० कुत्सितईषद्वा वादः कोः का। वाक्कलहे शब्दचि०।

कावार = न० कं जलमावृणोति आ + वृ–अण् उप० स०। शैवाले तृणादिच्छत्रे त्रिका०।

कावी = स्त्री कवेरियं ष्यञ् ततः शार्ङ्गर० स्त्रियां ङीन् यलोपः। कविसम्बन्धिन्याम् स्त्रियाम्।

कावृक = पुंस्त्री कुत्सितः ईषद्वा वृक इव। १ कुकुटे २ चक्रवाके ३ पीतवर्ण्णमस्तकपक्षिभेदे च मेदि० तेषां वृकतुल्येषच्चि ह्नयुक्तत्वात् तथात्वम्। स्त्रियां जातित्वात् ङीष्।

कावेर = न० कस्य सूर्य्यस्येव ईषत्वेरमङ्गमस्य। १ कुङ्कुमे जटा०। तस्य शिखाभिः सूर्य्यतुल्यरक्तत्वात् तथात्वम्।

कावेरी = स्त्री कस्य जलस्य वेरं शरीरं तस्येदमित्यण् ङीप्। १ सरिद्भेदे। कुत्सितमपवित्रं वेरं यस्याः स्वाङ्गत्वात् ङीष्। २ वेश्यायाम् ५ ब०। ३ हरिद्रायाम्। “दृषद्वती च कावेरी वङ्कुर्मन्दाकिनी तथा” भा० आनु०१६५ अ०। “भारतीगुप्ततोया च कावेरी मुर्म्मुरा तथा” भा० व०२२१। “चन्द्रवशा ताम्रपर्ण्णी अवटोदा कृतमालावोहा मसी कावेरी वेन्नेत्यादि भाग० ५, १९, १८, भारतवर्षनदीकथने। सा च सह्याद्रेः मलयाद्रेश्च सानुसन्निकृष्टस्था तदेतत् रघौ वर्ण्णितम् यथा “गृहीतप्रतिमुक्तस्य स धर्म्मविजयी नृपः। श्रियं महेन्द्र नाथस्य जहार नतु मेदिनीम्। ततो वेलातटेनैव फल- वत्पूगमालिना। अगस्त्याचरितामाशाम् अनाशास्यजयो ययौ। स सैत्यपरिभोगेण गजदानसुगन्धिना। कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत्। बलैरध्युप्रितास्तस्य विजिगीषोर्गताध्वनः। मारीचोद्भ्रान्तहारीताः मलयाद्रेरुपत्यकाः”। “कावेरीतीरभूमीरुहभुजगबधूभुक्तमुक्तावशिष्टः” मलयजवातवर्णने “ततो गच्छेत कावेरीं वृतामप्सरसा गणैः। तत्र स्नात्वा नरो राजन्! गोसहस्रफलं लभेत्” भा० व० ८५। गङ्गे! च यमुने! चैव गोदावरि! सरस्वति! नर्म्मदे! सिन्धु! कावेरि! जलेऽस्मिन् सन्निधिं कुरु, तीर्थवाहन मन्त्र

काव्य = पु० कवेः भृगुपुत्रस्यापत्यम् यञ्। शुक्रे अमरः “भृगोः पुत्रः कविर्विद्वान् शुक्रः कविसुतग्रहः” भा० आ० ६०। “जिगीषया ततोदेवावव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे” भा० आ०७५ अ०। कवेरिदम् यञ्। २ कविसम्बन्धिनि। कव–वर्ण्णने स्तुतौ च कर्म्मणि ण्यत्। ३ वर्ण्णनीये ४ स्तुत्ये च त्रि० स्त्रियां टाप् “दुर्य्योधनस्य रूपेण शृणु काव्यां गिरं मम” भा० स० ६० अ०। “भाष्याणि तर्कयुक्तानि देहवन्ति विशांपते!। नाटका विविधाः काव्याः कथाख्यायिककारिकाः” भा० स० ११ अ०। शार्ङ्गरवादौ तु काव्यशब्दस्य यञ न्तस्यैव ग्रहणात् ततः स्त्रियां ङीन्। कवेः कर्म्म ष्यञ्। कविकृतगद्यपद्यात्मके ५ वाक्यविशेषे न। काव्यप्र० तत् करणप्रयोजनमुक्तं यथा– “काव्यं यशसेऽर्थकृते व्यवहारविदे शिबेतरक्षतये। सद्यःपरनिर्वृतये कान्तासम्मिततयोपदेशयुजे” मू० “कालिदासादीनामिव यशः, श्रीहर्षादेर्धावकादीनामिव धनं, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेर्म्मयूरादीनामिवानर्थनिवारणं, सकलप्रयोजनमौलिभूतं समगन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दं, प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्य्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत्काव्यं लोकोत्तरवर्णनानिपुणकविकर्म्म, तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवत् वर्त्तितव्यं न रावणादिवदित्युपदेशञ्च, यथायोगं कवेः सहृदयस्य च करोतीति सर्व्वथा तत्र यतनीयम्। अस्य कारणमाह” वृत्तिः शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे” मू० “शक्तिः कवित्ववीजरूपः संस्कारविशेषः, यां विना काव्य न प्रसरेत् प्रसृतं वा उपहसनीयं स्यात्, लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य, शास्त्राणां छन्दोव्याकरणाभिधानकोषकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानां, काव्यानाञ्च महाकविसम्बन्धिनाम्, आदिग्रहणादितिहासादीनाञ्च विमर्शनाद्व्युत्पत्तिः, काव्यं कर्त्तुं विचारयितुञ्च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्म्माणे समुल्लासे च हेतुर्नतु हेतवः” वृत्तिः सा० द० अन्यप्रकारं काव्यस्य प्रयोजनं मुक्तं यथा “चतुर्ब्बर्गफलप्राप्तिः सुखादल्पधियामपि। काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते” सू०। “चतुर्ब्बर्गफलप्राप्तिर्हि काव्यतो रामादिवत् प्रवर्त्तितव्यं न रावणादिवदित्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव। उक्तञ्च “धर्म्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर्त्तिं प्रीतिञ्च साधुकाव्यनिषेवणमिति”। किञ्च काव्याद्धर्म्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके च कामधुग्भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव। अर्थप्राप्तिश्च प्रत्यक्षसिद्धा। कामप्राप्तिश्चार्थद्वारैव। मोक्षप्राप्तिश्चैतज्जन्यधर्म्मफलाननुसन्धानात् मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च। चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते। परमानन्दसन्दोहजनकतया सुखादेव सुकुमारबुद्धीनानपि पुनः काव्यादेव। ननु तर्हि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु काव्येषु किमिति यत्नः करणीय इत्यपि न वक्तव्यम् कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात्। किञ्च। काव्यस्योपादेयत्वमाग्नेयपुराणेऽप्युक्तम्। “नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्ल्लभा। कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र सुदुर्ल्लभेति” “त्रिवर्गसाधनं नाट्यमिति” च। विष्णुपुराणे “काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च। शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मनः” इति वृत्तिः। तस्य लक्षणं तत्रैव “वाक्यं रसात्मकं काव्यं दोषास्तस्यापकर्षकाः। उत्कर्षहेतवः प्रोक्ता गुणालङ्कार रीतयः” सू०। अन्थेतु गुणालङ्काररीतियुक्तं दोषरहितं वाक्यं का- व्यमिति वदन्ति। आनन्दविशेषजनकवाक्यं काव्यमिति रसगङ्गाधरः। तद्भेदाः प्रथमं त्रिविधाः उत्तममध्यमाधमभेदात्। यथाह काव्यप्र० “इदमुत्तममतिशयिनि व्यङ्गे वाच्याद्ध्वनिर्बुधैः कथितः। अतादृशि गुणीभूतव्यङ्ग्ये काव्यं तु मध्यमम्। शब्दचित्रं वाच्यचित्रमव्यङ्ग्यन्त्ववरं स्मृतम्”। रसगङ्गाधरे तु अर्थचित्रापेक्षया शब्दचित्रस्याल्पचमत्कारकारित्वात्तस्याधमाधमत्वोक्त्या काव्यभेदचातुर्बिध्यमुक्तम्। मा० द० मते अव्यङ्ग्यस्य काव्यत्वाभावात् ध्वनिगुणीभूतव्यङ्ग्यभेदेन द्वैविध्यमिति भेदः। तद्भेदाः सोदाहरणं दर्शिता तत्र यथा। “काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यञ्चेति द्विधा मतम्”। मू० तत्र। “वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम्” मू० “वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वतिर्नामोत्तमं काव्यम्” वृत्तिः “भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ। “अविवक्षितबाच्योऽन्योविवक्षितान्यपरवाच्यश्च”। मू० “तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः। लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम्। विवक्षितान्यपरवाच्यस्त्वभिधामूलः। अत एवात्र वाच्यं विवक्षितम् अन्यपरं व्यङ्ग्यनिष्ठम् अत्र हि वाच्योऽर्थः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः। यथा प्रदीपो घटस्य। अभिधामूलस्य बहुविषयतया पश्चान्निर्द्देशः। अविवक्षितवाच्यस्य भेदावाह” वृत्तिः “अर्थान्तरं सङ्क्रमिते वाच्येऽत्यन्तं तिरस्कृते। अविवक्षितवाच्योऽपि ध्वनिर्द्वैविध्यमृच्छति” मू०। “अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः। यत्र स्वयमनुपयुज्यमानो मुख्योऽर्थः स्वविशेषरूपेऽर्थान्तरे परिणमति तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसङ्क्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् यथा। “कदली कदली करभः करभः करिराजकरः करिराजकरः। भुवनत्रितयेऽपि विभर्त्ति तुलामिदमूरुयुगं न चमूरुदृशः”। अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादि गुणविशिष्टस्वार्थपरा” जाड्याद्यतिशयश्च व्यङ्ग्यः। यत्र पुनः स्वार्थं सर्व्वथा परित्यजन्नर्थान्तरे परिणमति तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम्। यथा “निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते”। अत्रान्धशब्दो मुख्यार्थे बाधितोऽप्रकाशरूपमर्थं बोधयति अप्रकाशातिशयश्च व्यङ्ग्यः। अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसङ्क्रमितवाच्यत्वम्। यथा “भम धम्मिअ! वीसत्थो सो सुणहो अज्ज मारिओ देन। गोलाणईकच्छकुडङ्गवासिना दरीअसीहेन”। अत्र भ्रम धार्म्मिकेत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्य्यवस्यतीति विपरीतलक्षणाशङ्का न कार्य्या। यत्र खलु विधिनिषेधावुत्पद्यमानावेव निषेधबिध्योः पर्य्यवस्यतस्तत्रैव तदवसरः। यत्र पुनः प्रकरणादिपर्य्यालोचनेन विधिनिषेधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव। तदुक्तम् “क्वचिद्बाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम्। पूर्व्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु”। अत्राद्ये मुख्यार्थस्यार्थान्तरे सङ्क्रमणं (प्रवेशः) न तु तिरोभावः अत एवात्राजहत्स्वार्थलक्षणा। द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था” वृत्तिः।। “विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं ततः। असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा” मू० “विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः” वृत्तिः। “तत्राद्यो रसभावादिरेक एवात्र गण्यते। एकोऽपि भेदोऽनन्तत्वात् सङ्खेयस्तस्य नैव यत्” मू० “उक्तस्वरूपो रसभावादिरसंलक्ष्यक्रमव्यङ्ग्यः। अत्र व्यङ्ग्यप्रतीतेर्व्विभावादिप्रतीतिकारणकत्वात् क्रमोऽवश्यमस्ति किन्तु उत्पलपत्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते। एषु रसादिषु च एकस्यापि भेदस्यानन्तत्वात् सङ्ख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम्। तथाहि एकस्यैव शृङ्गारस्य एकोऽपि सम्भोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात् प्रत्येकञ्च विभावादिवैचित्र्यात् सङ्ख्यातुमशक्यः का गणनात्र सर्व्वेषाम्” वृत्तिः।। “शब्दार्थोभयशक्त्युत्थे व्यङ्ग्येऽनुस्वानसन्निभे। ध्वनिर्लक्ष्यक्रमंव्यङ्ग्यस्त्रिविधः कथितो बुधैः” मू० “क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात् संलक्ष्यक्रमव्यङ्ग्यनाम्नो ध्वनेः काब्यस्यापि त्रैविध्यम्” वृत्तिः। तत्र

“वस्त्वलङ्काररूपत्वाच्छब्दशक्त्यद्भवो द्विधा” मू०। “अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारो” वस्तुमात्रं गृह्यते। तत्र वस्तुरूपशब्दशक्त्युद्भवो व्यङ्ग्यो यथा। “पन्थिअ! ण एत्थ सत्तरमत्थिमणं पत्थरत्थले गामे। उण्णअपओहरं पेक्खिअ उण जै वससि ता वससु”। अत्र स्रस्तरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते। अलङ्काररूपो तथा “दुर्गालङ्घितविग्रहोमनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतोभोगिभिः। नक्षत्रेशकृतेक्षणो गिरि गुरौ गाढां रुचिं धारयन् गामाक्रस्य विभूतिभूषिततनू राजत्युमावल्लभः” अत्र प्राकरणिकस्य उमा नाममहादीवीवल्लभभानुदेवनृपतेर्वर्ण्णने द्वितीयार्थसूचितमप्राकरणिकस्य पार्व्वतीवल्लभस्य वर्ण्णनमसम्बद्धं मा प्रसाङ्क्षीदितीश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते। तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः। यथा वा “अमितः समितः प्राप्तैरुत्कर्षैर्हर्षदः प्रभो!। अहितः सहितः साधुर्यशोभिरसतामसि”। अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः व्यङ्ग्यस्यालङ्कार्य्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्य्यते” वृत्तिः। “वस्तु वालङ्कृतिर्व्वापि द्विधार्थः सम्भवी स्वतः। कवेः प्रौढोक्तिसिद्धो वा तन्निबद्धस्य चेति षट्।। षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः। अर्थशक्त्युद्भवो व्यङ्ग्यो याति द्वादशभेदताम्” मू०।। “स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः। प्रौढोक्त्या सिद्धो न त्वौचित्येन। तत्र क्रमेण यथा। “दृष्टिं हे प्रतिवेशिनि! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदा नलग्रन्थयः”। अनेन स्वतःसम्भविना वस्तुमात्रेण एतत्प्रतिपादिकाया भाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते। “दिशि मन्दायते तेजो दक्षिणस्थां रवेरपि। तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे”। अनेन स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते। “आपतन्तममुं दुरादूरीकृतपराक्रमः। बलोऽवलोकयामास मातङ्गमिव केसरी”। अत्रोपमालङ्काररूपेण स्वतःसम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति बस्तु व्यज्यते। “गाढकान्तदशनक्षतव्यथासङ्कटादरिबधूजनस्य यः,। ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम्”। अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्द्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः। “सज्जेइ सुरहिमासो ण आपणेइ जुवैजणलक्खसहे। अहिणअसहआरमुहे णअअल्लबपत्तणे अणङ्गस्म सरे”। अत्र वसन्तः शरकारः कामो धन्वी युवतयो लक्ष्यं पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूप वस्तु व्यनक्ति। “रजनीषु विमलभानोः करजालेन प्रकाशितं वीर!। घवलयति भुवनमण्डलमखिलं तव कीर्त्तिसन्ततिः सततम्”। अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीर्त्तिसन्ततेश्चन्द्रकरजा लादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्ग्यः “दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः। मणिव्याजेन पर्य्यस्ताः पृथिव्यामश्रुविन्दवः”। अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते। “धम्मिल्लेनवमल्लिकासमुदयो, हस्ते सिताम्भोरुहं, हारः कण्ठतटे, पयोधरयुगे श्रीखण्डलेपो घनः। एकोऽपि त्रिकलिङ्गभूमितिलक! त्वत्कीर्त्तिराशिर्ययौ नानामण्डनतां पुरन्दरपुरीवामभ्रुवां विग्रहे”। अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते “शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसाव करोत्तपः। सुमुखि! येन तवाधरपाटलं दशति विम्बफलं शुकशावकः”। अत्रानेन कविनिबद्धस्य कस्यचित् कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते। “सुभगे कोटिसङ्ख्यत्वमुपेत्य मदनाशुगैः। वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्”। अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसङ्ख्यत्वप्राप्त्या निखिलवियोगिमरणेन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेत्युत्प्रेक्षालङ्कारो व्यज्यते “मल्लिकामुकुले चण्डि! भाति गुञ्जन्मधुव्रतः। प्रयाणे पञ्चवाणस्य शङ्खमापूरयन्निव”। अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन उत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्त्रत्कथं “मानिनि! मानं न मुञ्चसीतिवस्तु व्यज्यते। “महिलासहस्सभरिए तुह हिअर- सुहअ! सा अमाअन्ती। अणुदिणमणणम्मा अङ्गं तणुअं पि तणु एइ”। (अत्रामायन्तीति) कविनिबद्धवक्तृ पोढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणेऽपि तव हृदये न वर्त्तत इति विशेषोक्त्यलङ्कारोव्यज्यते। न खलु कतेः कविनिबद्धस्येव रागाद्याविष्टता। अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयचमत्कारिणीति पृथक्प्रतिपादिता। एषु च अलङ्कृतिव्यञ्जनस्थलेषु रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यं न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम्”। वृत्तिः “एकः शब्दार्थशक्त्युत्थे” मू० उभयशक्त्युद्भवे व्यङ्ग्ये एकोध्वनेर्भेदः। यथा “हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजान् जनितमीनकेतनः”। अभवत् प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः”।। अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः। एवञ्च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः”। वृत्तिः “तदष्टादशधा ध्वनिः” मू०। अविवक्षितवाच्योऽर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाश्चेति त्रिविधः। विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः। संलक्ष्यक्रमव्यङ्ग्यवाच्यत्वेन च शब्दार्थाभयशक्तिमूलतया पञ्चदशेति अष्टादशभेदो ध्वनिः” वृत्तिः एषु च। “वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः” मू०। “तत्र अर्थान्तरसङ्क्रमितवाच्यो ध्वनिः पदगतो यथा। धन्थः स एव तरुणो नयने तस्यैव नयने च। युवजनमोहनविद्या भवितेयं यस्य सम्मुखे सुमुखी”। अत्र द्वितीयनयनशब्दो भाग्यवत्तादिगुणविशिष्टनयनपरः। वाक्यगतो यथा। “त्वामस्मि वच्मि विदुषां समुदायोऽत्र तिष्ठति। आत्मीयां मतिमादाय स्थितिमत्र विधेहि तत्” अत्र प्रतिपाद्यस्य सम्मुखीनत्वादेव लब्धे प्रतिपाद्यत्वे ‘त्वामिति’ पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं लक्षयति। एवं वच्मीत्यनेनैव कर्त्तरि लब्धे ‘अस्मीति’ पुनर्व्वचनमन्यव्यावृत्तिविशिष्टं मदर्थं लक्षयति। तथा ‘विदुषां समुदाय’ इत्यादिवचनेनैव वक्तुः प्रतिपादने सिद्धे पुनः ‘वच्मीति’ वचनं ‘उपदिशामि’ इति वचनविशेषरूपमर्थं लक्षयति। एतानि च लक्षितानि स्वातिशयं व्यञ्जयन्ति। एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेतत् कर्तव्यमित्यभिप्रायः। तदेवमयं वाक्यगतोऽर्थान्तरसङ्कमितवाच्यो ध्वनिः। अत्यन्ततिरस्कृतवाच्यः पदगतो यथा ‘निश्वासान्ध इवेत्यादि’। वाक्यगतो यथा। “उपकृतं बहु तत्र’ किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव सदा सखे! सुखितसास्स्व ततः शरदां शतम्” अन्येषां वाक्यगतत्वे उदाहृतम्। पदगतत्वे यथा। “लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः। तदा सुधास्पदमभूदधुना तु ज्वरो महान्” अत्र लावण्यादीनां तादृगनुभवैकगोचरताव्यञ्जकानां तदादिशब्दानामेवप्राधान्यम्। अन्येषान्तु तदुपकारित्वमेवेति तन्मूल एव ध्बनिव्यपदेशः। तदुक्तं ध्वनिकृता “एकावयवसंस्थेन भूषणेनेव कामिनी। पदद्योत्येन सुकवेर्ध्वनिना भाति भारती”। एवं भावादिष्वप्यूह्यम्। “भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः। कस्य नानन्दनिष्यन्दं विदधाति सदागमः”। अत्र सदागमशब्दः सन्निहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय ‘सतः पुरुषस्यागमः’ इति वस्तु व्यनक्ति। ननु ‘सदागमः सदागम इवेति’ न कथमुषमाध्वनिः, सदागमशब्दार्थयोरुपमानोपमेयभावाविवक्षणाद्रहस्यसंगोपनार्थमेव हि द्व्यर्थपदप्रतिपादनं प्रकरणादिपर्य्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात्। “अनन्यसाधारणधीर्धृतास्विलवसुन्धरः। राजते कोऽपि जगति स राजा पुरुषोत्तमः”। अत्र पुरुषश्रेष्ठः पुरुषोत्तम इवेत्युपमाध्वनिः। अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ। “सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं यातोऽस्ताचलमौलिमम्बरमणिर्विश्रब्धमत्रागतिः। आश्चर्य्यं तव सौकुमार्य्यमभितः क्लान्ताऽसि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति तेनासितुम्”। अत्र स्वतःसम्भविना वस्तुना कृतपरपुरुषपरिचया स्नाताऽसीति वस्तु व्यज्यते। तच्चाधुना क्लान्ताऽसि न तु पूर्वं कदाचिदपि तवैवंबिधः क्लमो दृष्ट इति बोधयतोऽधुनापदस्यैवेतरपदार्थोत्कर्षादधुनापदस्यैव पदान्तरापेक्षया वैशिष्ट्यम्। “तदप्राप्तिमहादुःखविलीनाशेषपातका। तच्चिन्ताविपुलाह्णादक्षीणपुण्यचया तथा। चिन्तयन्ती जगत्सूतिं परं ब्रह्मस्वरूपिणम्। निरुच्छारुतया मुक्तिं गताऽन्या गोपकन्यका”। अत्राशेषचयपदप्रभावादनेकजन्मसहस्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसिततया भगवद्विरहदुःखचिन्ताह्णादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या। अत्र च व्यञ्जकस्य प्रौढौक्तिमन्तरेणापि सम्भवात स्वतःसम्भविता। “पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम्। देव! त्रि- पथगात्मानं गोपयत्युग्रमूर्द्धनि”। अत्र ‘पश्यन्तीति’ कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः। एवमन्येष्वत्यर्थशक्तिमूलसंलक्ष्यक्रमभेदेषूदाहार्य्यम्। तदेवं ध्वनेः पूर्ब्बोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः। अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्तिंशदिति पञ्चत्रिंशद्भेदाः” वृत्तिः। “प्रबन्धेऽपि मतो धीरैरर्थशक्त्युद्भवो ध्वनिः” मू०। “प्रबन्धो महावाक्यम्। अनन्तरोक्तद्वादशभेदोऽर्थशक्त्युत्थः। यथा महाभारते गृध्रगोमायुसंवादे “अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले। कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे। न चेह जीवितः कश्चित् कालधर्म्ममुपागतः। प्रियो या यदि वा द्वेष्यः प्राणिनां गतिरीदृशी”। इति दिवसे शक्तस्य गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां दिवसे तं परित्यज्य गमनमिष्टम्। “आदित्योऽयं स्थितो मूढाः! स्नेहं कुरुत साम्प्रतम्। बहुविघ्नो मुहूर्त्तोऽयं जीवेदपि कदाचन। अमुं कनकवर्ण्णाभं बालमप्राप्तयौवनम्। गृध्रवाक्यात् कथं बालास्त्यजध्वमविशङ्किताः”। इति निशि समर्थस्य गोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमूहेन द्योत्यते। अत्र स्वतःसम्भवी व्यञ्जकः। एवमन्येष्वेकादशभेदेषूदाहार्य्यम्। एवं वाच्यार्थस्य व्यञ्जकत्वे उदाहृतम्। लक्ष्यार्थस्य यथा “निःशेषच्युतचन्दनं स्तनतटं निर्म्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे! वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्”। व्यङ्ग्यार्थस्य यथा “उअ णिच्चल णिप्पन्दोभिसिणोपत्तम्पि रेऐ बलाआ। णिम्मलमरगअभाअणपरिठ्ठिआ संखसुत्तिब्ब”। अनयोः स्वतःसम्भविनौ लक्ष्यव्यङ्ग्यार्थौ व्यञ्जकौ। एवमन्येष्वेकादशभेदेषूदाहार्य्यम्” वृत्तिः। “पदांशवर्ण्णरचनाप्रबन्धेष्वस्फुटक्रमः। असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशगः” मू०। “प्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः। यथा “चलापाङ्गां वृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः। करं व्याधुन्वत्याः पिबसि रतिसर्व्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं स्वलुकृती”। अत्र ‘हताः’ इति न पुनर्दुःखं प्राप्तवन्त इति हन्प्रकृतेः। “मुहुरङ्गु- लिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम्। मुखमंसविवर्त्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितन्तु”। अत्र ‘तु’ इति निपातस्यानुतापव्यञ्जकत्वम्। “न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः, सोऽप्यत्रैव निहन्ति राक्षसकुलं, जीवतत्यहो रावणः। धिग्धिक् शक्रजितं, प्रबोधितवता किं कुम्मकर्णेन वा? स्वर्गग्रामटिकाविलुण्टनवृथोच्छूनैः किमेभिर्भुजैः” ‘अरयः’ इति बहुवचनस्य, ‘तापसः’ इत्येकवचनस्य, ‘अत्रैवेति’ सर्व्वनाम्नः, ‘निहन्तीति’ ‘जीवतीति’ च तिङः ‘अहो’ इत्यव्यगस्य, ‘ग्रामटिकेति करूपतद्धितस्य, ‘विलुण्ठनेति’ व्युपसर्गस्य, ‘भुजैरिति’ बहुवचनस्य व्यञ्जकत्वम्। “आहारे विरतिः ‘समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं, तदेतदपरं यच्चैकतानं भनः। मौनञ्चेदमिदञ्च शून्यमधुना यद्विश्वमाभाति ते तद्ब्रूयाः सखि! योगिनी किमसि भोः! किं वा वियोगिन्यसि”। अत्र तु ‘आहार इति’ विषयसप्तम्याः, ‘समस्तेति’ ‘परेति’ च विशेषणद्वयस्य, ‘मौनं चेदमिति’ प्रत्यक्षपरामर्शिनः सर्वनाम्नः, ‘आभातीति’ उपसर्गस्य, ‘सखीति’ प्रणयस्मारणस्य, ‘असि भो’ इति सोपहासोत्प्रासस्य, ‘किं वा’ इत्युत्तरपक्षदार्ट्यसूचकस्य वाशब्दस्य, ‘असीति’ वर्त्तमानोपदेशस्य, तत्तद्विशेषव्यञ्जकत्वं सहृदयसंवेद्यम्। वर्णरचनयोरुदाहरिष्यते। प्रबन्धे महाभारते शान्तः। रामायणे करुणः मालतीमाधवरत्नावल्यादौ शृङ्गारः। एवमन्यत्र”। वृत्तिः। “तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्म्मताः। सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया। वेदखाग्निशराः ५३०४ शुद्धैरिषुवाणाग्निसायकाः” ५३५५ मू० “शुद्धैः शुद्धभेदैरेकपञ्चाशता योजने इत्यर्थः। दिङ्मात्रं तूदाह्रियते। “अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय। सा पूर्णकुम्भनवमीरजतोरणस्वक्सम्भारमङ्गलमयत्नकृतं विधत्ते”। अत्र ‘स्तनावेव पूर्णकुम्भौ, दृष्टय एव नवनीरजस्रज इति’ रूपकध्वानरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः। “ध्रिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि। निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्व्वसमीरणानि”। अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः। अथ गुणीभूतव्यङ्ग्यम्”। वृत्तिः “अपरन्तु गुणीभूतव्यङ्ग्यं वाच्यादनुचमे व्यङ्ग्ये” मू०। “अपरं काव्यम्। अनुत्तमत्वं न्यूनतया साम्येन च सम्भवति” वृत्तिः। “तत्र स्यादितराङ्गं काक्वाक्षिप्तञ्च वाच्यसिद्ध्यङ्गम्। सन्दिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम्। व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ” मू०। “इतरस्य रसादेरङ्गं रसादि व्यङ्ग्यं यथा “अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः। नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः”। अत्र शृङ्गारः करुणस्याङ्गम्। “मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वत्सैन्यसागररवोद्गतकर्ण्णतापः। हा! हा! कथं नु भवतो रिपुराजधानी–प्रासादसन्ततिषु तिष्ठति कामिलोकः”। अत्रौत्सुक्यत्राससन्धिसंसृष्टस्य करुणस्य राजविषयरतावङ्गभावः। “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्। कृता लङ्काभर्त्तुर्व्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता”। अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते। वचनेन तु सादृश्यहेतुकतादातुम्यारोपणमाविष्कुर्व्वता तद्गोपनमपाकृतम् तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम्। काक्वा क्षिप्तं यथा “मथ्नासि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः। संचूर्ण्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन”। अत्र ‘मथ्नाम्येवेत्यादि’ व्यङ्ग्यं वाच्यस्य निषेधस्य सह भावेनैव स्थितम्। “दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्व्वतः। प्रतापस्तव राजेन्द्र। वैरिवंशदवानलः”। अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्गः प्रतापस्य दवानलत्वारोपसिद्ध्यङ्गम्। “हरस्तु किञ्चित् परिवृत्तधैर्य्यश्चन्द्रोदयारम्भैवाम्बुराशिः। उमामुखे विम्बफलाधरौष्ठे ष्यापारयामास विलोचनानि”। अत्र विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये सन्देहः। “ब्राह्मणातिक्रमत्यागो भवतामेव भूतये। जामदग्न्यश्च वो मित्रमन्यथा दुर्म्मनायते”। अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम्। “सन्धौ सर्ब्बस्वहरणं विग्रहे प्राणनिग्रहः। अन्वापदीननृपतौ न सन्धिर्न च विग्रहः”। अत्र अन्वापदीनाख्ये नृपतौ दानसामादि मन्तरेण नान्यः प्रशमोपायः व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम्। “अनेन लोकगुरुणा सतां धर्म्मोपद- र्शिना। अहं ब्रतवती स्वैरमुक्तेन किमतः परम् अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक्योषिति बलात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम्। “बाणीरकुडुङ्गुड्डीणसौणिकोलाहलं सुणन्तीए। घरकम्मबावडाए बहूए सीअन्ति अङ्गाइम्”। अत्र दत्तसङ्केतः कश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् “सीदन्त्यङ्गानि” इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम्। किञ्च यो दीपकतुल्ययोगितादिषु उपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् तदुक्तं ध्वनिकृता “अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते। तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः”। यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्य्यासः यथा “दृष्ट्या केशव! गोपरागहृतया किञ्चिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ! पतितां किं नाम नालम्बसे। एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिर्गोप्यैवंगदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम्”। अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां ‘सलेशमिति’ पदेन स्फुटतयाबभासः। सलेशमितिपदस्य परित्यागे ध्वनिरेव। किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावः तत्र प्रधानकृत एव काव्यव्यहारः तदुक्तं तेनैव “प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम्। धत्ते रसादितात्पर्य्यपर्य्यालोचनया पुनरिति”। यत्र च “यत्रोन्मदानां प्रमदाजनानामब्भ्रंलिहः शोणमणीमयूखः। सन्ध्याभ्रमं प्राप्नुवतामकाण्डेऽप्यनङ्गनेपथ्यबिधिं व्यधत्त” इत्यादौ रसादीनां नगरीवृत्तादिवस्तुमात्रेऽङ्गत्वं तत्र तेषामतात्पर्य्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः। तदुक्तमस्मत्सगोत्रकविपण्डितमुख्यश्रीचण्डिदासपादैः “काव्यार्थस्याखण्डबुद्धिवेद्यस्य तन्मयीभावेनास्वाददशायां गुणप्रधानभावावभासस्तावन्नानुभूयते कालान्तरे तु प्रकरणादिपर्य्यालोचनया भवन्नप्यसौ न काव्यव्यपदेशं व्याहन्तुमीशस्तस्यास्वादमात्रायत्तत्वादिति”। केचित् चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति तदाहुः “शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” इति तन्न यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवोक्तम्। ईषद्व्यङ्ग्यत्वमिति चेत् किं नाम ईषद्व्यङ्ग्यत्वम् आस्वाद्यव्यङ्ग्यत्वम् अना- स्वाद्यव्यङ्ग्यत्वं वा। आद्ये प्राचीनभेदयोरन्तःपातः। द्वितीये त्वकाव्यत्वम्। यदि चानास्वाद्यत्वं तदा क्षुद्रत्वमेव। क्षुद्रतायामनास्वाद्यत्वात्। तदुक्तं ध्वनिकृता “प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितेः। उभे काव्ये ततोऽन्यद्यत्तच्चित्रमभिधीयते इति” वृत्तिः। तच्च काव्यं प्रकारान्तरेण द्विविधं महाकाव्यखण्डकाव्य भेदात्। तल्लक्षणादिकं सा० द० ६ परि० उक्तं यथा “सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः। सद्वंशः क्षत्त्रियो वापि धीरोदात्तगुणान्वितः। एकवंशभवा भूपाः कुलजा बहवोऽपि वा। शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते। अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः। इति हासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम्। चत्वारस्तस्य वर्गाः स्युस्तेष्वेकञ्च फलं भवेत्। आदौ नमस्क्रियाशीर्व्वा वस्तुनिर्देश एव वा। क्वचिन्निन्दा खलादीनां सताञ्च गुणकीर्त्तनम्। एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः। नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह। नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते। सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत्। सन्ध्यासूर्य्येन्दुरजनीप्रदोषध्वान्तवासराः। प्रातर्म्मध्याह्नमृगयाशैलर्त्तुवनसागराः। सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः। रणप्रयाणोपयममन्त्रपुत्रोदयादयः। वर्ण्णनीया यथायोगं साङ्गोपाङ्गा अमी इह। कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा। नामास्य सर्गोपादेयकथया सर्गनाम तु। अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसञ्ज्ञकाः। प्राकृतैर्निर्म्मिते तस्मिन् सर्गा आश्वाससञ्ज्ञकाः। छन्दसा स्कन्दकेनैतत् क्वचिद्गलितकैरपि। अपभ्रंशनिबन्धेऽस्मिन् सर्गाः कडवकाभिधाः। तथापभ्रंशयोग्यानि छन्दांसि विबिधान्यपि। भाषाविभाषानियमात् काव्यं सर्गसमुज्झितम्। एकार्थप्रवणैः पद्यैः सन्धिसामग्र्यवर्ज्जितम्। स्वण्डकाव्यं भवेत् काव्यस्यैकदेशानुसारि च”। तच्च काव्यं प्रकारान्तरेण द्विविधं “दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम्। दृश्यं तत्राभिनेयं तत् रूपारोपात्तुरूपकम्” इति सा० द० उक्तेः

काव्यचन्द्रिका = स्त्री काव्ये काव्यलक्षणादिप्रकाशने चन्द्रिकेव। अलङ्कारग्रन्दभेदे

काव्यप्रकाश = पु० काव्यस्य स्वरूपादिप्रकाशो यत्र। काव्यस्व रूपादिज्ञापके मम्मटभट्टप्रणीते अलङ्कारग्रन्थभेदे।

काव्यप्रदीप = पु० काव्यस्वरूपादिप्रकाशने प्रदीप इव। गोविन्दठक्कुरनिर्म्मिते भङ्ग्या काव्यप्रकाशार्थप्रकाशके अलङ्कारग्रन्थभेदे

काव्यचौर = पु० काव्यस्य चौरैव। परकीयकाव्यस्य स्वकीय त्वेन प्रख्यापके चन्द्ररेणौ चौरभेदे त्रिका०

काव्यरसिक = त्रि० काव्यस्य रसं वेत्ति ठक्। काव्यप्रतिपाद्यरसाभिज्ञे

काव्यलिङ्ग = न० अर्थालङ्कारभेदे अलङ्कारशब्दे ३९८ पृ० विवृतिः

काव्यशास्त्र = न० काव्यं शास्त्रमिव उपदेशकत्वात्। काव्यरूपे शास्त्रे “कान्तासम्मिततयोपदेशयुजे” इति काव्यप्रकाशे तस्य उपदेशयोगित्वोक्तेः हितशासकशास्त्रतुल्यत्वम्। “काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्”

काव्या = स्त्री कव–वर्ण्णने करणे बा० ण्यत्। बुद्धौ तया हि नानाविधवर्ण्णनात् तथात्वम्। २ पूतनायां च मेदि०।

काव्यार्थापत्ति = स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ३९८ पृ० विवृतिः।

काश = दीप्तौ भ्वा० आत्म० अक० सेट्। काशते अकाशिष्ट, काशाम्बभूव काशामास काशाञ्चक्रे चकाशे। णिच् अचकाशत्–त। ऋदित्त्वात् चङि नोपधाह्रस्यः। “काली कपालाभरणा चकाशे” “तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकाशे” कुमा० “नंनम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः” भट्टिः। काशी काशकः काशितः काशमानः काशः काशनं काशितुम् काशित्वा प्रकाश्य। यङ् लुक् चाकाशीति। वेदे ह्रस्वः चाकशीतिअनु + अनुरूपदीप्तौ अनुकाशतेअभि + सर्व्वतः प्रकाशे अभिकाशते “अन्योअनश्नन्नभिचाकशीति” शत० व्रा० १४, ७, १, १२, आभिमुख्येन दर्शने सक०। “घृतस्य धारा अभिचाकशीमि” ऋ० ४, ५८, ५, ९, “व्यञ्ज्यमानाभिचाकशीमि” ९, “आभिचाकशीमि अभि पश्यामि” भा०अव + अवकाशे स्ववासयोग्यताप्राप्तौ “उभयतो मांसैः संछन्नं नावकाशते” शत०८, ७, ४, २०, यदमुत्राग्रेऽधिश्रयति पत्नीं ह्यवकाशयिष्यन् भवति” “अथ यत्पुत्नीं नावकाशयेत्” शत०१, ३, १, २०, अवकाशः “कृत्वावकाशे रुचिसंप्रकॢप्तम्” भट्टिः अवेक्षणे सक०। “ज्ञातप्रियानूचानानवकाशयेत्” का० श्रौ० ९, ७, १६, “अवकाशयेत् अवेक्षयेत्” कर्कः।आ + समन्तात्स्थितौ आकाशः। अभिज्ञापने सक०। “संप्रत्युरः पुरुषमाकाश्य” शत० ब्रा० ७, ४, १, ४३, “आकाश्य अभिज्ञाप्य” भा०।उद् + ऊर्द्ध्वगतौ ऊर्द्ध्वप्रकाशे च। उत्काशते उत्काशः।नि + तुल्यत्वे नीकाशः घञि पूर्वस्वरदीर्वः।सम् + नि + निष्काशने। “न सन्निकाशयेद्धर्म्मम्” भा० आश्व० ४६ अ०।निर् + निःसारणे। “मात्रा निष्काशयेदेषा पुनः सन्धानकाङ्क्षया” सा० द०। अत्र निःकसोरूपत्वेन निष्कासयेदित्येव पाठोयुक्तःप्र० + प्रकृष्टदीप्वौ “एषु सर्व्वेषु भूतेषु गूढोत्मा न प्रकाशते” कठो०। “उभावपि प्रकाशेते प्रवृद्धौ वषमाविव” भा० वि० ७५५ श्ली०।प्रति + प्रतिरूपप्रकाशे सारूप्ये च प्रतीकाशः। “यमस्य त्वा गृहेऽरसं प्रतिचाकशान” अथ० ६, २९, ३,वि + मुकुलीभावापनोदनेन प्रकाशे। पुष्पं विकाशते। प्रकाशे च। “आदित्य इव तं देशं कृत्स्नं सर्व्वं व्यकाशयत्” भा० आ० ७४५६ श्लो० वीकाशः।सम् + सम्यक्प्रकाशे सादृश्येन प्रकाशे च सङ्काशः “प्रतिस्रोतस्तृणाग्राणां सहस्रं सञ्चकाशिरे” रामा०

काश = दीप्तौ दिवा० आ० अक० सेट्। काश्यते अकाशिष्ट काशाम्बभूव आस चक्रे चकाशे ऋदित् णिच् अचकाशत् त

काश = पु० केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र अश–व्याप्तौ आधारे घञ्। १ काशरोगे, भरतः। कासशब्दे विवृतिः “काशाश्रुलालाविलः” शान्तिश०२ क्षुते (हा~चि) शब्दर०। तयोः जलेनाकीर्ण्णत्वात्तथात्वम्। काश दीप्तौ अच्। (केशिया) ३ वृणभेदे “केशः काशस्तवकविकाशः” सा० द० “आकर्ण्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य” मावः “कैलासकाशनीकाशमूर्त्त्या” दशकु० “काशः स्यान्मधुरस्तिक्तः स्वादुपाकोहिमः सरः। मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगहृत्” भावप्र० तद्गुणाद्युक्तम् तत्पुष्पे न०। ईषदश्नाति अश–अच् कोः का। ४ मूषिकभेदे पुंस्त्री स्त्रियां ङीष्। “भूम्या आखूनालभेत” इत्युपक्रमे “काशान् दिग्भ्यः” यजु० २४, २५, “काशान् मूषिकभेदान्” वेददी०। ५ ऋषिभेदे पु० काशस्य गोत्रापत्यम् अश्या० फञ्। काशायन तद्गोत्रापत्ये पुंस्त्री

काशक = पु० काश–ण्वुल्। १ काशतृणे शब्दरत्ना० २ सुहोत्रस्य पुत्रभेदे “सुहोत्रस्य सुतद्वयम्। काशकश्च महासत्वस्तथाशुभमतिर्नृपः” हरिव०३२ अ०। अस्यैव काशिरित्यपि नाम तत्रैव “काशेस्तु काशयोराजन्!” इति तदनन्तरोक्तेः काशेन निर्वृत्तादि काशा० चतुरर्थ्याम् इल। काशिल काशनिर्वृत्तादौ त्रि० काशे भवः उत्करा० छ। काशीय काशभवादौ त्रि०। ३ प्रकाशान्विते त्रि०

काशकृत्स्न = पु० आदिशाब्दिके ऋषिभेदे “इन्द्रश्चन्द्रः काश कृत्स्नापिशिलिशाकटायनाः पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः” वोपदेवः। “अवस्थितेरिति काशकृत्स्नः” शा० सू०। काशकृत्स्नेन निर्वृर्त्तादि अरीहणा० चतुरर्थ्यां वुञ्। काशकृत्स्नक तन्निर्वृत्तादौ त्रि०

काशज = त्रि० काशे जायते जन० ड ७ त०। काशजाते “दीर्घ काशतुषभ्राष्ट्ववटं जे” पा० तस्य आद्युदात्तता

काशपरी = स्त्री काशः परोयस्याःगौरा० ङीष्। काशावृतनद्याम् तत्र भवः नद्या० ढक्। काशपरेय तन्नदीभवे त्रि० पृषो० पस्य फः। काशफरीत्यपि तत्रैव नद्यादि गणे तस्य पाठात् भवार्थे ढक्। काशफरेय तद्भवे त्रि०

काशपौण्ड्र = पु० काशप्रधानः पौण्ड्रः। देशभेदे “कोशलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा” भा० क० ४५ अ०

काशमय = त्रि० काशेन प्रचुरः तद्विकारोवा प्राचुर्य्ये तद्विकारे वा मयट्। १ काशप्रचुरे २ तन्निर्मिते च “कुशकाशमयं बर्हि रास्तीर्य्य भगवान्मनुः” भाग० ३, २, २, श्लो०। स्त्रियां ङीप्।

काशमर्द्द = पु० काशं मृद्नाति मृद–अण् उप० स०। (कालकासेन्दा) वृक्षे रायमुकुटः

काशय = पु० काशिनृपपुत्रे “काशेस्तु काशयोराजन्” हरिवं० ३२ अ०।

काशादि = पु० पाणिन्युक्ते चतुरर्थ्यामिलप्रत्ययनिमित्ते शब्दगणे स च गणः “काश पाश, अश्वत्थ पलाश, पीयूक्षा चरण वास नड, वन, कर्द्दम, कच्छूल, कड्कटगुहा, विस, तृण, कर्पूर, वर्व्वर, मधुर, ग्रह, कपित्थ, जतु, सीपाल”

काशान्मलि = स्त्री कुत्सिता शान्मलिः कोः का। कूटशान्मलिवृक्षे जटाधरः

काशि = स्त्री काश–इन्। १ काश्याम् वा ङीप् काशीत्यपितत्र काशीशब्दे विवृतिः “आःकाशिवासिजनता ननु वञ्चिताऽभूत्” काशीख०। २ काशीनगरोपलक्षिते देशभेदे पु० भूम्नि। “अतः काशयोऽग्नीनादत्त” “यज्ञं काशीनां भरतः सात्वतामिव” शत० ब्रा० ३, ५, ४, १९, २१। “काशिष्वपि नृपो राजन् दिवोदासपितामहः” हर्य्यश्व इति विख्यातः” भा० आनु० ३० अ० “सौधा मद्रभुजिङ्गाश्च काशयोऽपरकाशयः” भा० स० ९ अ०। ३ सूर्य्ये पु० उच्छल०। ४ मुष्टौ निरु० ६। “१ आपैव काशिना संगृभीताः” ऋ० ७, १०४, ८, “काशिना मुष्टिना” भा०। भावे इन् ५ प्रकाशे च “अपारे यत् संगृभ्ना मघवन्! काशिरित्ते” ऋ० ३, ३०, ५ “काशिरित् लोके प्रसिद्ध्व एव यद्वा काशिर्मुष्टिः” भा० ६ प्रकाशान्विते त्रि०” काशेरिदम् तस्यां भवं वा काश्या० ष्ठञ् ञिठ् वा। काशिक काशिसम्बन्धिनि तत्रभये च त्रि० ञिठैत् उच्चारणार्थः स्त्रियां ष्ठञि ङीष् ञिठि ठाप्। साच वा मनकृतायां पाणिनिवृत्तौ स्वार्थेक। काशिका काशीपुर्य्यां स्त्री।

काशिन् = त्रि० काशते काश + णिनि। १ प्रकाशशीले। जयकाशी स्त्रियां ङीप् मत्तकाशिनी काश + इनि। २ काशरोगयुक्ते त्रि०

काशिप = पु० काशीन् देशान् तत्स्थपुरीं वा पाति पा–क १ काशिदेशाधिपे दिवोदासादौ काशीनाथे २ महादेवे च काशिनाथादयोऽप्यत्र। “सुवर्ण्णवर्म्माणमुपेत्य काशिपं वपुष्टमार्थं वरयांप्रचक्रिरे”

काशिपुरी = स्त्री काशीदेशे पुरी कर्म्म० वा। काश्याम् स्वनामख्यातपुरीभेदे। “समेतं पार्थिवं क्षत्रं काशिपुर्य्यां स्वयंवरे” भा० आनु० १६८ अ०। काशिनगर्य्यादयोऽप्यत्र स्त्री

काशिराज = पु० काशीनां जनपदानां राजा टच्समा०। काशिदेशाधिपे। तद्देशाधिपाश्च कालभेदेन यद्यपि बहहवस्तथापि काशिनामकनृपेण तदन्वयेन तत्र काशीपुरीकरणात् तदन्वयजस्यैव तदधिपत्वं प्रथितं तदेतत् हरिवं ३२ अ० वर्ण्णितं यथा “काशेस्तु काशयोराजन् पुत्रो दीर्घतपास्तथा। वभूब दीर्घतपसो विद्वान् धन्वन्तरिः सुतः। धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः। अथ केतुमतः पुत्त्रो विद्वान् भीमरथः स्मृतः। दिवोदास इति ख्यातः सर्वरक्षः प्रणाशनः। एतस्मिन्नेव काले तु पुरीं वाराणसीं नृपः। शून्यां निवेशयामास क्षेमको नाम राक्षसः। शप्ताहि सा मतिमता निकुम्भेन महात्मना। शून्या वर्षसहस्रं वै भवत्विति नराधिप!। तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः। विषयान्ते पूरीं रम्यां गोमत्यां संन्यवेशयत्। भद्रश्रेण्यस्य पुत्त्राणां शतमुत्तनधन्विनाम्। हत्वा निवेशयामास दिवोदासः प्रजेश्वरः। दिवोदासस्य पुत्त्रस्तु वीरो राजा प्रतर्द्दनः। प्रतर्द्दनस्य पुत्त्रौ द्वौ वत्सो भार्गव एव च। अलर्को राजपुत्त्रस्तु राजा सन्नतिमान् भुवि। हैहयस्य तु दायाद्यं हतवान् वै महीपतिः। आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्। भद्रश्रेण्यस्य पुत्त्रेण दुर्द्दमेन महात्मना। दिवोदासेन बालेति घृणया स विसर्ज्जितः। अष्टारथो नाम नृपः सुतो भीमरथस्य बै। तेन पुत्त्रेषु वालेषु प्रहृतं तस्य भारत। वैरस्यान्तं महाराज! क्षत्रियेण विधित्सता। अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः। षष्टिं वर्षसहस्राणि षष्टि वर्षशतानि च। तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः। युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः। लोपामुद्राप्रसादेन परमायुरवाप सः। वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्षसम्। रम्यां निवेशयामास पुरीं वाराणसीं नृपः”। तत्रापि दिवोदासस्यैव तथात्वम् सर्वत्र प्रथितं सहि देवान् पृथिव्या निष्कास्य वाराणस्यां राज्यं चकारेति काशीख० ४३ अ० वर्ण्णितं यथा “गतेषु देवसंघेषु पृथिव्याः पृथिवीपतिः। चकार राज्यं निर्द्वन्द्वं दिवोदासः प्रतापबान्। विधाय राजधानीं स वाराणस्यां सुनिश्चलाम्”। इत्युपक्रम्य तद्राज्यं वर्ण्णितम् “दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः। यातमेकदिनप्रायं शरदामयुताष्टकमिति” तत्र तस्य बहुकालराज्यकरणात् तथात्वम् “काशिराजं दिवोदासम्” सुश्रु०। “द्वापरे तु दीर्घजिह्वासुरांश नृपभेद स्तन्नाम्ना प्रसिद्धः “दीर्घजिह्वस्तु कौरव्य! य उक्तोदानवर्षभः। काशिराजः स विख्यातः पृथिव्यां पृथिवीपतिः” भा० आ० ६७ अ०। तस्यासुरांशभवत्वात् विष्णुं प्रति द्वेषो यथा हरिवं०९१ अ०। “कौशल्यः काशिराजश्च दशार्ण्णाधिपतिस्तथा” इत्युपक्रम्य “तमन्वयुर्जरासन्धंविद्विषन्तोजनार्द्दनम्” इत्युक्तम्। स च अम्बिकादीनां पिता। “विचित्रवीर्य्योऽथोवाह काशिराजसुते क्रमात्। स्वयंवरादुपानीते ह्यम्बिकाम्बालिके उभे” भाग० ९, २२, १८। स च नाम्ना काशिराजत्वेऽपि काशिपतिरासीत्। “अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः। शुश्राव सहिता राजन् वृण्वाना वै स्वयंवरम्” भा० आ० १०२ अ०। “एवमुक्त्वा महीपालान् काशिराजञ्च वीर्य्यवान्” तत्रैवोक्तेः “धृष्टकेतुश्चेकितानः काशिराजश्च वीर्य्यवान्” गीता। काशिपत्यादयोऽप्यत्र।

काशिष्णु = त्रि० काश–बा० इष्णुच्। प्रकाशशीले। “काशिष्णुना कनकवर्ण्णविभूषणेन” भाग० ४, ३०, ६,

***