कार्य्या = स्त्री कृ–ण्यत्। कारोवृक्षे राजनि०।

कार्य्याधिप = पु० ६ त०। ज्योतिषोक्ते १ व्यापाररूपकार्य्यस्थानाधिपे लग्नावधिकदशमस्थानाधीश्वरे। २ कार्य्याध्यक्षे च। कार्य्याधीशादयोऽप्यत्र।

कार्य्यान्वित = त्रि० कार्य्येण कर्त्तव्येनान्वितः। १ कार्य्ययुक्ते २ कार्य्य ताबोधकपुदप्रतिपाद्यार्थान्विते च। मीमांसकनये कार्य्यान्विते एव शब्दस्य यथा शक्तिस्तथा पूर्ब्बपक्षविधया शब्दचि० निर्ण्णीतं यथा

“नन्वर्थबादानां सिद्धार्थतया न प्रामाण्यं कार्य्यान्वित एव पदानां शक्त्यवधारणात् वृद्धव्यवहारादेव हि सर्वेषामाद्या व्युप्पत्तिः उपायान्तरस्य शब्दव्युत्पत्त्यधीनत्वात्। तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यस्य वृद्धस्य प्रवृत्तिमुपलभमानोबालः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्वयव्य तरेकानुविधायित्वादुपस्थितत्वाच्च प्रयोज्यवृद्धप्रवृत्तिमेव प्रयोजनमवधारयति नचाकिञ्चित् कुर्वतस्तादर्थ्यं सम्भवतीति च तज्जन्यं प्रवृत्त्यनुकूलं कार्य्यताज्ञानमेव कल्पयति स्वप्रवृत्तौ तेन कार्य्यताज्ञानस्य हेतुत्वावधारणात् नान्यतः प्रवृत्तेः कार्य्यताज्ञानावरुद्धत्वात्, नचैवं शब्दस्य स्वार्थज्ञानद्वारा प्रवृत्तिहेतुत्वम्। स्वप्रवृत्तौ बालेन शब्दाहितविशेषस्य कार्यताज्ञानस्य हेतुत्वेनानधारणात्। ज्ञाने च प्रत्यक्षादिनानोपायकत्वदर्श- नात् शब्दोऽपि कार्यताज्ञानहेतुरित्यवधार्य तत्रैव शक्तिं कल्पयति उपस्थितत्वात्। पश्चादावापोद्धारेण क्रियाकारकपदानां कार्य्यान्विततत्तदर्येषु शक्तिं गृह्णाति प्रथमगृहीतसामान्यशक्त्यनुरोधात्। अथ यद्यपि वृद्धव्यवहारादौ कार्यान्वितधीरनुमिता तथाप्यन्वतमात्रशक्त्यैव कार्य्यवाचकपदसमभिव्याहारादाकाङ्क्षादिमहिम्ना कार्य्यत्वधीसम्भवान्न कार्य्यांशेऽपि शक्तिः परम्परयापि शब्दस्य कार्य्यान्वितज्ञानानुकूलत्वादर्थापत्तावन्यथोपपत्तिरपि। अवश्यञ्चाकाङ्क्षादेः कारणत्वं कार्य्यांशशक्तावपि। तद्व्यतिरेकादन्विताभिधानव्यतिरेकनियमात् सति चाकाङ्क्षादौ कार्य्यत्वव्यतिरेकदर्शनादन्विताभिधानव्यतिरेको न क्वाप्यस्ति। अन्यथा गवादिपदानां व्यक्तावपि शक्तिः स्यात्। संस्कारादेव व्यक्तिलाभदर्शनान्न तथोत यदि, तदा कार्य्यवाचकपदादेव कार्य्यान्वितलाभ इति किं शक्त्या वृद्धव्यवहारे नियमतः कार्य्यान्वितज्ञानं दृष्टमिति तत्र शक्तिकल्पने वृद्धव्यवहारे शब्दोपस्थापितेनैवान्वयबोधदर्शनाच्छाब्दसन्निधेरप्यन्वयहेतुत्वकल्पने द्वारमित्यादौ शब्दएवाध्याह्रियेत। क्वचिदसंपूर्णवाक्ये वृद्धव्यवहाराद्यव्युत्पत्तेः शब्दसन्निधिं व्यभिचरतीति चेत् तर्हि सिद्धार्थेऽप्यन्वयप्रतीतिदर्शनात् कार्य्यत्वमपि व्यभिचारि। न च तत्र लक्षणा, बाधकाभावात्। शक्तिकल्पनभियाह्यन्यत्र लक्षणामता। इह तु लधीयस्या उभयसाधारणपदार्थमात्रशक्त्या मुख्यस्यैवोचितत्वात्। किञ्च कार्य्यवाचिलिङादीनामा काङ्क्षाद्युपेतपदार्थान्वितस्वार्थबोधकत्वमवश्यं वाच्यम् अतोऽविशेषात् पदान्तराणामपि तथात्वमस्तु लाघवादिति? मैवं, व्यवहांरहेतुतयानुमिति हे कार्य्येऽन्वितज्ञानेऽन्वयव्यतिरेकाभ्यां शब्दस्य साक्षात्कारणत्वमधारयति न परम्परया, साक्षात्त्वस्यौत्सर्गिकत्वेन तत्सम्भवे परम्पराया अन्याय्यत्वादिति तत्रैव शक्तिं कल्पयति नान्वितज्ञाने, पदार्थज्ञाने वाऽप्रवर्त्तकतया प्रवृत्त्या स्वकारणत्वेन तयोरनुपस्थापनात्। न चान्वितज्ञानशक्तावपि परम्परया कार्य्यत्वधीः सम्भवतीत्यर्थापत्त्या सैव कल्प्यतां, लाघवात्, न तु विशिष्टज्ञाने शक्तिरन्यलभ्यत्वादिति वाच्यम् अर्थापत्तेः साक्षादुपपादकमात्रविषयकत्वेन न्यूनाधिकाग्राहकत्वात्। साक्षादुपपादककार्य्यान्वितज्ञाने शक्तिः कल्प्यते लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वस्याप्यभावात्। आद्यव्युत्पत्तेर्विचार्य्यत्वात्। किञ्च प्रवृत्तिकारणतयोपस्थितं कार्य्यान्वितज्ञानमपहायानुपस्थितान्वितज्ञानमात्रे शक्तिकल्पनमयुक्तं हेत्वभावात् उपस्थित्यन्तरे गौरवात्। अथ कार्य्यान्वितज्ञानोपस्थितावाप्यन्वितज्ञानमप्यपस्थितमिति लाघवात् कार्य्यांशमपहायान्विते शक्तिर्गृह्यतामिति चेत् न ज्ञाने हि पदानां शक्तिः शक्यत्वात्, नार्थे। अन्यच्च कार्य्यान्विते ज्ञानमन्यदन्वितज्ञानं पिषयभेदेन ज्ञानभेदात्। तदुक्तमभाववादे, “अन्यदुभूतलज्ञानं अन्यच्च घटवद्द्भूतलज्ञानमिति” अन्वितज्ञानमुपस्थाप्य तत शक्तिग्रह इति गौरवमेव लघुनि शक्ये सम्भवत्यन्यलभ्यं गुरु न, युगपदुपस्थितौ तथ त्वात्। न च तस्याप्यनुपस्थितिः पुरुषविशेषदोषात् सर्व्वैरेवाद्यप्रवृत्तौ तथानवगमात। तथापि न कार्य्यन्विते शक्तिः कार्य्यवाचिलिङादीनां व्यभिचारादिति चेत् न सर्व्वपदानां कार्यत्वविशिष्टधीजनकत्वात् तच्च कार्य्यान्वितस्वार्थप्रतिपादकतयेतरान्वित स्वार्थकार्य्यप्रतिपादकतया वेति। एवं कार्य्यान्वितव्युत्पत्तौ सत्यामनाकाङ्क्षादौ व्यभिचारादाकाङ्क्षादेरुपाधित्वम्। तयोचोपजीव्यप्रथमभाविकार्य्यान्वितव्युत्पत्त्यनुरोधेन विध्यश्रुतावपि कार्य्याध्याहारः। क्वचिल्लक्षणा क्वचिदसंसर्गाग्रह इति सिद्धार्थेऽन्वयप्रतितिदर्शनादुत्तरकालमन्वितमात्रे शक्तिरेव कल्प्यतां प्राचोनकार्य्यान्वितज्ञानं बाध्यतामित्यप्यतएव निरस्तं पूर्व्वकल्पनातः कल्पनान्तरप्रसङ्गाच्च। उत्तरकालभाविसिद्धार्थप्रयोगस्य लक्षणादिभिरप्युपपत्तेरनन्यथासिद्धत्वाभावेन प्राचीनज्ञानाबाधकत्वात् उपजीव्यव्याघाताच्च। अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति तथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनैव वार्त्ताहारेण चैत्रसभीपं गतः–चैत्र! पुत्रस्ते जात, इति वार्त्ताहारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं पश्यन् श्रोतुर्हर्षमनुमिनोति। हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति उपस्थितत्वात् उपपादकत्वात् अथोपस्थितौ गौरवाच्च तत्र वाक्यस्य कारणतां कल्पयति लाघवादिति चेत् न हर्षहेतूनां बहूनां सम्भवात् हर्षेण लिङ्गेन पुत्रजन्मज्ञानस्य बालेनानुमातुमशक्यत्वात् प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वात्। अथ पुत्रजन्मज्ञानाव्यभिचारि वृद्धि श्राद्धादिक्रियाविशेषदर्शनात् पुत्रजन्मज्ञानानुमानमिति चेत् तर्हि पुत्रस्ते जात इति वाक्यं तत्तत्क्रियाकर्त्तव्यता परमेवेति कार्य्यान्वितज्ञानजनकत्वमेव तस्य प्रथमतो गृह्यते तदुत्तरकालं पुत्रजन्मज्ञानानुमानमिति न व्युत्पत्तिः कार्य्यं जहाति। यत्रापीह सहकारतरौ पिकोरौतीति प्रसिद्धार्थकपदसामानाधिकरण्यादिभिर्व्युत्पत्ति- स्तत्रापि व्यवहाराधीनव्युत्पत्तिपूर्ब्बिका कार्य्यान्वित एव युक्ता पिकपदशक्तिः। पूर्व्वं नावधृतेति चेत् तत्रापि पिकमानयेत्यादौ कस्यचित् कार्य्यान्विव एव व्युत्पत्तेः उपजीव्याजातीयतया च तस्याबलवत्त्वम्। किञ्चेदमपि पदं कार्य्यान्वितज्ञानशक्तम् पदत्वादिति सामान्यतोऽवगतः विशेषः त्वार्थः परं नाधिगत स इदानीं सुहृदुपदेशादिभिरवगम्यते। अतः सिद्धप्रवृत्तिपराणां शब्दानां प्रवर्त्तकज्ञानजनकता तच्च क्वचित् साक्षात् क्वचित् परम्परया, कार्यान्वयात् कार्य्यान्वितस्वार्थबोधकमिति। यत्र पुराणभारतादिपाठे फलश्रुतिरस्ति तत्रार्थवादकल्पितविधिशेषीभूतत्वेन प्रवृत्तिपरत्वेन तेषामिति परम्परया कार्यान्वयत् कार्यान्वितस्वार्थबेधकत्वं स्वरूपाख्यानपगाणान्तु काव्यनाटकादीनां पदार्थासंसर्गाग्रहेण संसर्गव्यवहारो न संसर्गग्रह इति”।

तदेतन्मतं पूर्ब्बपक्षत्वेनोक्त्वा मणिकृता निराकृतं यथा“अत्रोच्यते घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य धटानयनगोचरप्रवृत्त्या घटानयनकार्यताज्ञानमनुमितं बालेन, नतु कार्यान्वितज्ञानं प्रवृत्तिविशेषे तस्याऽहेतुत्वात् विषयादिपदशक्तिग्रहे तस्यानुपयोगाच्च तत्र च ज्ञानविशेषे घटमानयेति वाक्यविशेषस्यानाकलितपदविभागस्य हेतुत्वमवधार्य घटपदद्वितीयाधातुविधिप्रत्ययानां प्रत्येकावापोद्धारेण घटकर्भत्वानयनकार्यत्वज्ञानेषु प्रत्येकं कारणत्वमवगम्य शक्तिं कल्पयति। पश्चात्प्रवृत्तिसामान्येनानुमित कार्यतान्वितज्ञाने वाक्यमात्रस्यानन्यलभ्यत्वेन कार्यांशमपहायान्वितज्ञानमात्रे शक्तिं कल्पयति नतु प्रथमं वाक्यमात्रस्य कार्यान्वितज्ञानमात्रहेतुत्वकल्पनम्।

अथ घटानयनक्रियायाः प्रथमं क्रियात्वज्ञानात्प्रवृत्ति मात्रानुमानं न तु कार्यान्वितज्ञानमनुमाय तत्र वाक्यमात्रस्य हेतुत्वं कल्पयित्वा शक्तिं कल्पयति तदुत्तरं विशेषयोः कार्यकारणभाव इति चेत् न प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं बालस्य क्रमशो भवर्त त्यत्र मानाभावात् घटादिपदशक्तिग्रहस्य तेन विनापि सम्भवात्, न च तदनुमानसामग्री तदा वृत्तेति वाच्यम् तदा व्याप्त्यादिस्मृतौ मानाभावात् सामान्ययोः कार्यकारणभावग्रहो विशेपयोस्तथात्वग्रहे हेतुरिति चेत् न विशेषयोरन्वयव्यतिरेकाभ्यामेव तदुग्रहात् यथा धूमधह्निविशेषयोः कार्यकारणभावग्रहे तत्मामान्ययोरपि हेतुहेतुमद्भावा रासते अव्यया न सकृद्दशनगम्या व्याप्तिः स्यात् तथात्रापि। विशेषयोः कार्यकारणभावतुल्यवित्तिवेद्य एव सासान्ययोस्तथाभाव इति चेत् न प्रत्यक्षेण विशेषग्रहे योग्यत्वात् सामान्यमपि भासते। प्रकृते च कार्यविशेषेण कारणविशेषोऽनुसितो न सामान्यमिति न युगपदुपस्थितिः। अथ विशेषयोः कार्यकारणभावात् सामान्ययोरपि तथात्वमवधारयतीति चेत् तर्हि विशेषयोः कार्यकारणभावावगमः प्राथमिक इति तन्मूलकः प्रथमं कार्यान्वितपदविशेषशक्तिग्रह एव स्यात् निष्प्रयोजनकत्वेनानन्तरानुमितौ मानाभावात्। यच्चोक्तं प्रवृत्तिकारणतयोपस्थितं कार्यान्वितज्ञानमपहायान्वितज्ञानं कल्पयित्वा तत्र शक्तिकल्पनमयुक्तम् उभयथा गौरवादिति तन्न कार्यान्वितज्ञानेऽन्वितज्ञानत्वस्य सत्त्वात् तद्बाधकत्वाच्च तस्य। अतस्तत्रैव शक्तिग्रहो न कार्यत्वांशेऽपि। अतएव घटवद्भूतलज्ञाने भूतलज्ञानत्वमपीति तद्भिन्नं तज्ज्ञानमभाव व्यवहारकारणं त्वया स्वीकृतम्। अस्त्वेवं किन्तु तदुपस्थितावप्यन्वितज्ञानत्वं न विषय इति तस्योपस्थित्यन्तरं कल्प्य मिति चेत् न कार्यान्वितज्ञानेऽन्वितज्ञानत्वः विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात् विशिष्टज्ञानसामग्रीतो विशेष्यभानावश्यम्भावात्। अन्ययान्यज्जातिज्ञानमन्यच्च जातिविशिष्टज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं क्वापि नोप्रस्थितमिति न तव जातिरेव पदार्थः स्यात्। जातेः केवलोपस्थितौ च न व्यक्तिसमानसंवित्वेद्यत्वम्। अथ जातिविशिष्टज्ञानोपस्थितेर्व्यक्तिज्ञानविषयत्वेऽपि गौरवात्, व्यक्तेरनन्यलभ्यत्वाच्च जातिविशिष्टज्ञानत्वं न शक्यतावच्छेदकं किन्तु जातिज्ञानत्वं लाघवादिति चेत् तर्हि तुल्यम्। न च युगपदुस्थितौ लाघवावतारः। नचात्र युगपदुपस्थितिरिति वाच्यम् विशिष्टज्ञानस्य विशेष्यविषयकत्वनियमात्। किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं प्रवृत्त्या स्वकारणत्वं नानुमितमतस्तत्र शक्तिं गृह्णीयात्। साक्षादुपपादकविषयत्वात् कल्पनायाः, ममेदं कार्यमिति ज्ञाने तस्य साक्षादुपपादकत्वात्। अथेदं कार्यमिति ज्ञानशक्त्यैव परम्परयानुमानद्वरा ममेदं कार्यमिति ज्ञानसम्भवादन्यलभ्यत्व न न तत्र शक्तिकल्पनमिति तर्हीतरान्वितज्ञानशक्त्यैव कार्यवाचकपदसमभिव्याहारेण कार्यान्वितज्ञानसम्भवादन्यलभ्यत्वेन न तत्र शक्तिकल्पनमिति तुल्यम्। नन्विदं कार्यमिति ज्ञानं साक्षादेव प्रवर्त्तकं कर्त्तव्यवाप्रयोजकवातदशएषविशेपणस्य स्वगतत्वप्रतिसन्धानं सहकारि तेन नातिप्रसङ्गः न च सहकारितिलम्बेन कार्यानुत्पादे साक्षात्साधनत्वं निवर्त्तत इति चेत् न लाघवेन ममेदं कार्यमिति ज्ञानादेव प्रवृत्तेः। यथा च भविष्यद्विषया कार्यतानुमितिस्तथोक्तमधस्तात्। अपि च यादृशस्य पुरुषस्याविगीतकृतिसाध्यमिदं तादृशोऽहमिति धीर्न प्रवृत्तिहेतुः कृतक्रियमाणविषयकृतिसाध्यताज्ञानस्य सिद्धविषयस्यासिद्धविषयेच्छानुत्पादकत्वात् इच्छायाः स्वप्रकारकधीसाध्यत्वेन कृत्या साधयामीतीच्छायाः स्व कृत्यनन्तरभविष्यत्तारूपकृतिसाध्यताधीजन्यत्वाच्च। अपि चास्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्कारणताबोधात् तत्र शक्तिग्रहः तथापि पश्चादावापोद्धारेण पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति लाघवात् न तु कार्यत्वांशेऽपि गौरवात् अन्यलभ्यत्वाच्च। नचैवं प्रथमं प्रवृत्तस्य साक्षात्कारणताबोधकस्य तन्मूलककार्यान्वितशक्तिग्रहस्य च बाधः स्यादिति वाच्यम् इष्टत्वात् अन्यथा सिद्धिमपहरतो हि बालस्य स (बाधः) भूत इति तस्याबलवत्त्वात् गोरवान्यलभ्यत्वतर्कसहकृतप्रमाणजन्यत्वेनोत्तरस्य बलवत्त्वात् नचोपजीव्यबाधान्न तथा प्रत्येतीति वाच्यम् उपजीव्यत्वे मानाभावात् दैवाद्धि प्रथमं तद्वृत्तं न तु पदविशेषशक्तिग्रहे तस्य हेतुत्वम् तेन विनापि तत्सम्भवात्। न च प्राथमिकत्वेन बलवत्त्वं, व्यभिचारात्। नापि सर्व्वैः प्रथमं प्रतीयमानत्वेन बलवत्त्वम्। सर्व्वेषां शरीराहंप्रत्यये, चन्द्रतारकादिपरिमाणस्य सर्वेरल्पत्वग्रहे च व्यभिचारात्। अतएव पूर्वकल्पनातः कल्पनान्तरप्रसङ्गः स्यादिति निरस्तम्। यत्रानन्यथासिद्धतयोपजीव्यतया वा बलवत्त्वं पूर्ब्बकल्पनायास्तत्र तथात्वात्। किन्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्परम्परोदासीनं कारणत्वमात्रं गृह्यते न तु विशेषोऽपि उपायस्यान्वयव्यतिरेकादेरुभयविशेषसाधारणत्वेन तत्सांशयिकत्वात्। उत्सर्गोऽपि बाधकाभावनिश्चयसहकृतीनिश्चायकः। नचाऽन्यलभ्यत्वस्य बाधकस्याभावमापाततः स्वतो दर्शनमात्रेण बालो निश्चेतुमर्हति अतएव प्रामाण्यस्योत्सर्गिकत्वेऽपि बाधकाभावनिश्चयादेव निश्चयः। अन्यथा प्रमाऽप्रमा वा साक्षात्परम्परासाधनं वेति संशयः क्वापि न स्यात्। यच्च हर्षहेतूनां बहूनां सम्भवादित्यादि तन्न सतो गृहीत हर्षहेतुस्तनपानादेर्बाधावतारादन्यस्य हर्षहेतोरग्रहात्। उपस्थितत्वादुपपादर्कत्वाच्च पुत्रजन्मज्ञानस्यव हर्षहेतुत्वेन कल्पनात्। अन्यप्रियज्ञानं हर्षकारणं भविष्यतोति शङ्कायां कथमेवमिति चेत् एवन्तर्हि कार्यान्वितज्ञानेऽपि शक्तिर्न गृह्येत प्रयोज्यज्ञानहेतूनां बहुत्वात्। अनन्यथासिद्धशब्दानुविधानस्य च तुल्यत्वात् अन्यप्रियज्ञानस्याज्ञानच्च ज्ञानेऽपि वा तदुपस्थितिनियमे मानाभावात् सन्देहाभावोपपत्तेः लिङ्गाभासजन्यकाकतालीयसम्पन्नसंवादानुमितिवद्धर्षेण लिङ्गेन पुत्रजन्मज्ञानानुमानसम्भवाच्च। नचाभासत्वेनानुमितेभ्रमत्वे तद्धेतुशक्तिग्रहो भ्रमः, विषयस्य तथाभावेन तयोर्यथार्थत्वात्। यथा कश्चित् सूत्रसञ्चाराधिष्ठितं दारुपुत्रकं घटमानयेति नियुङ्क्ते स च तमानयति तदा चेतनव्यवहारादिवत् तद्दर्शीबालो व्युत्पद्यते–इयं क्रिया, कृतिजन्या, सा ज्ञानजन्या, ज्ञानं तद्वाक्यजन्यमित्यन्मितिपरम्परायाः भ्रमत्वेऽपि तद्धेतु शक्तिग्रहः तज्जन्यशाब्दबोधश्च यथार्थ एव विषयस्य तथाभावादिति सिद्धः सिद्धार्थे शक्तिग्रह इति। अतएव “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपपन्नञ्च तत् सुखं स्वःपदास्पदम्” इत्यर्थवादोपस्थिते सुखे वेदादेवं स्वर्गपदस्य शक्तिग्रहः”।

कार्य्यिन् = त्रि० कार्य्यमस्त्यस्य इनि १ कार्य्ययुक्ते २ कार्य्यार्थिनि (उमेदार) व्याकरणोक्ते ३ आदेशस्थानिनि च “कार्य्यमनुभवन् हि कार्य्यी निमित्ततया नाश्रीयते” परिभा०। अत्र कार्य्यीति निर्द्देशात् “एकाक्षरात् कृतोजातेः सप्तम्याञ्च न तौ (इनिठनौ) स्मृतौ” इत्युक्तिरप्यनित्या। ततः मतुप् मस्य वः। कार्य्यवत्। ठन् कार्य्यिकतत्रार्थे त्रि०। तत्र इनौ मतुपि च स्त्रियां ङीप्।

कार्शकेय = पुं स्त्री कृशकस्यार्रेपत्यं बा० ढञ्। कृशकर्षेरपत्ये ऋषिभेदे स्त्रियां ङीप् “कार्शकेयीपुत्रात् कार्शकेयीपुत्रः” शत० ब्रा० १४, ९, ४, ३२, वेद वंशवर्ण्णने।

कार्शाश्वीय = त्रि० कृशाश्वेन निर्वृत्तादि कृशाश्वा० चतुरर्थ्यां छण्। कृशाश्वनिर्वृत्तादौ।

कार्श्मरी = स्त्री कृश–स्वार्थे णिच्–भावे मनिन् कार्श्मतत् राति रा–क गौरा ङीष्। श्रीपर्ण्णिवृक्षे कर्कः २ गाम्भरीवृक्षेभरतः।

कार्श्य = न० कृशस्य भावः ष्यञ्। १ कृशत्वे “निर्बन्धसञ्जातरुषार्थ कार्श्यम्” रघुः। स्वार्थे ष्यञ्। २ कृशे ३ शालवृक्षे, ४ लकुचे (डेओ) वृक्षे ५ कच्चुरे च पु० राजनि०।

कार्ष = त्रि० कृषिः शीलमस्य छत्रा० णः। कृषिशीले कृषीतले भरतः।

कार्षापण = पुंन० कर्षस्येदम् स्वार्षेवा अण्। तेन आपण्यते आ + पण–कर्म्मणि घ। १ अशीतिरत्तिके ताम्रिके कर्षे “कार्षापणस्तु विज्ञेयः कार्षिकस्ताम्रिकः पणः” मनुः। २ षोडशपणात्मके पुराणे (काहन) इति ख्याते मानभेदे। “माषः षोडशभागस्तु ज्ञेयः कार्षापणस्य तु। काकिनी (वुडि) तु चतुर्भागो माषस्य परिकार्त्तिता। पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यारहारिकी। कार्षापनप्रमाणन्तु तन्निबद्धम् (परिभाषितम्) इहेव तत्” कात्या० स्मृ० षोडशेत्यत्र हेमाद्रौ विंशतीति पाठः। अतएव “द्वात्रिंशत्पणिकागावो वत्सः पौराणिकोभवेत्” कात्या० स्मृतौ पुराणद्वयवाच्यद्वात्रिंशत्पणानां गोमूत्यत्वेनाभिधानम्। “अशीतिभिर्वराटकैः पण इत्यभिधीयते। ते षोडशः पुराणं स्यात् रजतं सप्तभिस्तु तैः” भविष्यपु०। “कार्षापणैकमूल्या हि दरिद्राणां प्रकीर्त्तिता” प्रा० त०। “कार्षापणं भवेद्दण्ड्यो यत्नान्यः प्राकृतोजनः। तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा” “समुत्सृजेद्राजमार्गे यस्त्वममेध्यमनापदि। स द्वौ कार्षापणौ दद्यात्” मनुः। “कार्षाक्पणो दक्षिणस्यां दिशि रौप्यः प्रवर्त्तते। पणोनिबद्धः पूर्व्वस्यां षोडशैव पणाः पलम्। इति नारदोक्ते ३ दक्षिणदेशप्रसिद्धे पूर्व्वदेशप्रसिद्धपण परिमाणे च। कार्षापणेन क्रीतः टिठन् वा प्रतिरादेशश्च इदुच्चारणार्थः कार्षापणिक पक्षे प्रतिक तत्क्रीते त्रि० स्त्रियांङीप्। कार्षापणिकी प्रतिकी अध्यर्द्धपूर्वात् द्विगोश्च तस्य वा लुक्। अध्यर्द्धकार्षापण अध्यर्द्धकार्षापणिकं सार्द्धकार्षापणक्रीते एवं द्विकार्षापण द्विकार्षापणिकं कार्षापणद्वयक्रीते त्रि०। पर्श्वादिपाठात् स्वार्थेऽण्। कार्षापण कार्षापणसंघजीविषु त्रि० ब० व०।

कार्षि = त्रि० कर्षतीति कर्मः ततः स्वार्थे बा० इञ्। १ कर्षणशीले २ अन्तर्गतमलापनेतरि। “कार्षिरसि समुद्रस्य त्वा क्षित्या उन्नयाभि” यजु०६, २८। कर्बतीत्येबंशीलः कार्षिः अन्तर्गतशमलापनेतासि” वेददी० “कार्षिरसीत्याह शमलमेवासायपप्लावयति” तैत्ति०।

कार्षिक = त्रि० कर्षं नित्यमर्हति छेदा० ठञ्। १ नित्यकर्षण र्ह कर्षेण क्रीतः ठञ्। १ कर्षेण क्रीते। तत्परिमाणमस्य ठक्। ३ कर्षपरिमाणयुक्ते। कर्षः कर्षणं शीलमस्य ठक्। ४ कृषके हेमच०। स्वार्थे ठक्। ५ कर्षपरिमाणे। “ताम्रिकः कार्षिकः पणः” मनुः।

कार्ष्ट्य = न० कृष्टस्य भावः दृढा० ष्यञ्। कृष्टत्वेपक्षे इमभिच् कृष्टिमन् तत्रार्थे पु०। षित्त्वात् स्त्रियां ङीष्यलोपौ।

कार्ष्ण = त्रि० कृष्णस्येदम् अण्। १ कृष्णमृगसन्धिनि। “कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः” मनुः। २ कृष्णद्वैपायनसम्बन्धिनि च “कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थम श्नुते” भा० आ० प० १ अ०। कृष्णोदेवतास्य अण्। ३ कृष्णाख्य- विष्णु देवताके हविरादौ त्रि०। “कार्ष्णेण पत्रिणा शत्रुः स भिन्नहृदयः पतन्” रघुः। ४ शतावर्य्यां स्त्रा राजनि०

कार्ष्णाजिनि = पु० कृष्णाजिनस्यर्षेरपत्यम् इञ्। कृष्णाजिनर्षे रपत्ये “कुलमत्रिमिति कार्ष्णाजिनिः” कात्या० श्रौ०१, ६२३

कार्ष्णायन = पु० कृष्णस्य व्यासस्य गोत्रापत्यम् नडा० ब्राह्मणे वासिष्ठे च विशेष्ये फक्। कृष्णस्य व्यासस्य गोत्रापत्ये १ ब्राह्मणे २ वासिष्ठे च।

कार्ष्णायस = न० कृष्णस्यायसोविकारः अण्। कृष्णायसस्य विकारे “कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः” मनुः। स्त्रियां ङीप्। “अभ्रिं काष्णायसीं दद्यात्” मनुः।

कार्ष्णि = पुंस्त्री कृष्णस्यापत्यं बाह्वा० इञ्। कृष्णस्य व्यासस्यापत्ये शुकदेवे। “युगपस्तृणपः कार्ष्णिनन्दिश्चित्ररथस्तथा” भा० आ० १२२ अ० ऋषिकीर्त्तने। ३ रौक्मिणेये कामदेवे च। “सा च तं वर्द्धयामास कार्ष्णिं कमललोचनम्” हरि० १६३ अ०। अस्योत्पत्तिकथा कामशब्दे उक्ता।

कार्ष्ण्य = न० कृष्णस्य भावः दृढादि० ष्यञ् वा। १ कृष्णत्वे कृष्णस्य गोत्रापत्यम् गर्गा० यञ्। ब्राह्मणवासिष्ठन्नेकृष्णस्य व्यामस्य गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् तस्य छात्रः कण्वा० अण्। कार्ष्ण कृष्णगोत्राप्त्यच्छात्रे स्त्रियां ङीप्।

कार्ष्मन् = न० कर्षत्यत्र कृष–स्वार्थेणिच्–आधारे मनिन। १ युद्धे तत्र हीतरेतरं योधाः कर्षन्तीति तस्य तथात्वम्। “कार्ष्मन् वाजी न्यक्रमीत्” ऋ०९। ३६। १ “कार्ष्मन् कार्ष्म युद्धम्” भा०। ततः भावे मनिन्। २ कर्षणे च।

कार्ष्मरी = स्त्री कृष–णिच्–मनिन् कार्ष्म कर्षणं राति ददाति रा–क गौरा० ङीष्। श्रीपर्णीवृक्षे तस्याः विकारः यत्। कार्ष्मर्य्य श्रीपर्णीवृक्षावयवे। “पालाशवैकङ्गतकार्ष्मर्य्य वैल्वान्” कात्या० श्रौ० २, ८, १। कर्कभाष्ये कार्श्मर्य्येति पाठस्यापि दृष्टत्वात् तालव्यमध्योऽपि तत्रार्थे।

कार्ष्य = पु० कृष्यतेऽसौ कृष–घञ् स्वार्थे ष्यञ्। शालवृक्षे अमरः।

काल = कालोपदेशे (इयत्तया कालनिश्चयार्थोप्रदेशे) अद० चु० उभ० सक० सेट्। कालयति ते अवकालत्–त, कलयाम्–बभूव–आस–चकार–चक्रे। कालयिष्यति–ते

काल = पु० ईषदलति अल–अच् कोः का०। १ कृष्णबर्ण्णे तस्य वर्ण्णेषु ईषद्भूषकत्वात् तथात्वम्। अस्त्यर्थे अर्श आद्यच्। २ तद्वर्ण्णयुक्ते त्रि०। ३ लौहे न० वाचस्पतिः। धातुषु तस्य कृष्णत्वात् तथात्वम्। ४ कक्कोले न० राजनि० ५ कालोयके गन्धद्रव्यभेदे न० शब्दच०। तयौर्ग्रन्धद्रव्येषु कृष्णत्वात्तथात्वम्। ६ कोकिले पुंस्त्री० राजनि० तस्य पक्षिषु कृष्णत्वात्तथात्वम् स्त्रियां ङीष्। ७ राले ८ रक्तचित्रके ९ क समर्द्दे (कालक सेन्दा) वृक्षे च पु० राजनि०। १० शनिग्रहे मेदि० कृष्णत्वात्तस्य तथात्वम्। कलयतिसर्व्वं चु० कल–अच् “कालसमयवेलास्विति” पा० निर्द्देशात् नि० उपधार्दर्धः। ११ यमराजे १२ महाकाले शिवे मेदि०। १३ परमेश्वरे “कालोऽस्मि लोकक्षयकृत्प्रवृद्धः” “कालः कलयतामहम्” इति च गीता “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः विष्णुस०। “त्रयीमयोऽयं भगवान कालात्मा कालकृद्विभुः” सू० सि०। स्वनामख्याते परत्वापरत्वधीहेतौ न्यायादिमतसिद्धे १ ४ द्रव्यभेदे। तन्निरूपणं कणादसूत्रे उपस्करवृत्तौ च यथा

“अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि” क० सू०।

“इतिशब्दो ज्ञानप्रकारपरः प्रत्येकमभिमम्बध्यते तथाचापरमिति प्रत्ययो युगपदितिप्रत्ययः चिरमितिप्रत्ययः क्षिप्रमितिपत्ययः काललिङ्गानीत्यर्थः अपरस्मिन्नपरमित्यनेन परस्मित् परमित्यपि द्रष्टव्यं, तेनायमर्थः–बहुतरतपनपरिस्पन्दान्तरितजन्मनि स्थापिरे युवानमवधिं कृत्वाऽपरत्वमुत्पद्यते तच्चापरत्वमसमवायिकारणसापेक्षम्, न च रूपाद्यसमवायिकारणं व्यभिचारात् त्रयाणां गन्धादीनां वायौ परत्वाद्यनुत्पादकत्वात् स्पर्शस्याप्युष्णादिभेदेन भिन्नस्य प्रत्येकं व्यभिचारात् न चावच्छिन्नपरिमाणं तथा तस्य विजातीयानारम्भकत्वात् तपनपरिस्पन्दानाञ्च व्यधिकरणत्वात् तदषच्छिन्नद्रव्यसंयोग एवासमवायिकारणं परिशिष्यते तच्च द्रव्य पिण्डमार्त्तण्डोभयसंयुक्तं विभु स्यात् आकाशस्य तत्स्वाभाव्यकल्पने क्वचिदपि भेर्य्यभिधातात् सर्व्वभेरीषु शब्दोत्पत्तिप्रसङ्गः। तथाच कालस्यैव मार्त्तण्डसंयुक्तस्य पिण्डेन संयोगोऽपरत्वासमवायिकारणं काल एव मार्त्तण्डक्रियोपनायकः आत्मनश्च द्रव्यान्तरधर्म्मेषु द्रव्यान्तरावच्छेदाय स्वप्रत्यासत्त्यतिरिक्तसन्निकर्षापेक्षत्वात् अन्यथा वाराणसीस्थेन महारजनारुणिम्ना पाटलिपुत्रेऽपि स्फटिकमणेरारुण्यप्रसङ्गात्। कालस्य तु तत्स्वभावतयैव कल्पनादयमदोषः। कालेनापि रागसंक्रमः कथं न इति चेत् नियतक्रियोपनायकत्वेनैव तत्सिद्धेः एवं स्थविरमवधिं कृत्वा यूनि परतोत्पत्तिर्निरूपणीया। युगपदिति युगपज्जायन्ते युगपत्तिष्ठन्ति युगवत् कुर्व्वन्ति इत्यादि–प्रत्ययानाञ्च एकस्मिन् काले एकस्यां सूर्य्यगतौ एकस्मिन् सूर्य्यगत्ववच्छिन्नकाले इत्यर्थः, न चाप्राप्ता ए सूर्य्यगतयो विशेषणतामनुभवन्ति। न च स्वरूपप्रत्ययासन्नाएव ताः तस्मादेतावृशविशिष्टप्रत्ययान्यथानुपपत्त्या विशेषण प्रापकं यद् द्रव्यं स कालः” उपस्करवृत्तिः।

“ननु सिध्यतु कालः, स तु नित्यो द्रव्यं वेति न प्रमाणमत आह”।

“द्रव्यत्वमित्यत्वे वायुना व्याख्याते” क० सू०।

“यथा वायुपरमाणोर्गुणवत्त्वाद्द्रव्यत्वम् अद्रव्यद्रव्यत्वाच्च नित्यत्वं तथा कालस्यापीत्यर्थः” उप०।

“तथापि सन्तु बहवः काला इत्यत आह”।

“तत्त्वम्भावेन” क० सू०।

व्याख्यातमिति बिपरिणतेनान्वयः। चिरादिप्रययानां काललिङ्गानां सर्व्वत्राविशेषादनेकत्वेऽप्यारत्मनामिव विशेषलिङ्गाभावात् सत्तावदेकत्वं कालस्येत्यर्थः। नन्वेवंक्षणलवमुहूर्त्तेयामदिवसाहोरात्रपक्षमासर्त्वयनसंवत्सरादिभेदेन भूयांसः कालास्तत् कथमेकः इति चेन्न भेदभानस्य उपाधिनिबन्धनत्वात् यथा एक एव स्फटिकमणिर्ज्जवातापिञ्जाद्युपाध्यपरागेण भिन्न इव भासते तथैक एव कालः सूर्य्यस्पन्दाद्यवच्छेदभेदेनतत्तत्कार्य्यावच्छेदकभेदेन च भिन्न इव भासत् इत्ययुपगमात् तथाच कालोपाध्यव्यापकः कालोपाधिः, स्वाधेयकादाचित्काभावप्रतियोग्यनाधारः कालो वा क्षणः प्रतिक्षणं कस्यचिदुत्पत्तेः कस्यचिद्विनाशादेतदध्यवसेयम्। क्षणद्वयञ्च लवं इत्याद्यागमप्रसिद्धम्। ननु तथाप्यतीतानागतवर्त्तमानभेदेन कालत्रयस्तु, श्रधूयते हि “त्रेकाल्यमुपावर्त्तते” “त्रैकाल्यासिद्धिः” इत्यादीति चेन्न त्रैकाल्यव्यवहारात् येन हि वस्तुना यः कालोऽवच्छिद्यते स तस्य वर्त्तमानः यत्प्रागभावेन यः कालोऽवच्छिद्यते स तस्य भविष्यत्कालः यत्प्रध्वं सेन यः कालोऽवच्छिद्यते स तस्यातीतकालः तथाचावच्छेदकत्रित्वाधीनः कालत्रित्वव्यवहारः” उपस्करवृत्तिः!

“इदानीं सर्व्वोत्पत्तिमतां कालः कारणमित्याह”।

“नित्यष्वभावादनित्येषु भावात् कारणे कालाख्येति” क० सू०। इतिशब्दो हेतौ इतिहेतोः कारणे–सर्व्वोत्पत्तिमत्कारणे कालः इत्याख्या। हेतुमाह नित्येष्वभावात् अनित्येषु भावादिति नित्येषु आकाशादिषु युगपज्जातः चिरंजातः क्षिप्रं जातः इदानीं जातः दिवा जातः रात्रौ जात इत्यादिप्रत्ययस्याभावात् अनित्येषु घटपटादिषु यौगपद्यादिप्रत्ययानां भावात् अन्वयव्यतिरेकाभ्यां कारणं काल इत्यथः। न केवलं यौगपद्यादिप्रत्ययबलात् कालस्य सर्व्वोत्पत्तिमन्निमित्तकारणत्वम् अपि तु पुष्पफलादीनां हैमन्तिकवासन्तिकप्रावृषेण्यादिसज्ञाबलादेव तदध्यवसेयम् “उप०। भाषामुक्तावल्योश्च सङ्क्षेपेण तन्निर्ण्णयो यथा

“जन्यानां जनकः कालोजगतामाश्रयोमतः।”

“परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः” भाषा।

“कालं निरूपयति जन्यानामिति तत्र प्रमाणं दर्शयितुमाह जगतामिति तथाहि इदानीं घटैत्यादिप्रतीतिः सूर्य्यपरिस्पन्दादिकं यदि विषयीकरोति तदा सूर्य्यपरिस्पन्दादिना घटादेः सम्बन्धोवाच्यः स च संयोगादिर्न सम्भवतीति कालएव तत्सम्बन्धघटकः कल्प्यते इत्थञ्च तस्याश्रयत्वमपि सम्यक्। प्रमाणान्तरं दर्शयति परापरत्वेति परत्वापरत्वबुद्धेरसाधारणं निमित्तं क लएव परत्वापरत्वयोरसमवायिकारणसंयोगाश्रयोलाघवादतिरिक्तः कल्प्यतैति भावः। नन्वेकत्य कालस्य सिद्धौ क्षणदिनमासवर्षादिसमयभेदोन स्यादतआह क्षणादिरिति कालस्त्वेकोऽपि उपाधिभेदात् क्षणादिव्याहारविषयः। उपाधिस्तु स्वजन्यविभागप्रागभावावच्छिन्नं कम्म, पूर्ब्बसंयोगावच्छिन्नविभागोवा पूर्ब्बसंयोगावच्छिन्नौत्तरसंयोगप्रागभावो वा उत्तरसंयागावच्छिन्नं कर्म्म वा। नचोत्तरसंयोगानन्तरं क्षणव्यवहारी न स्यादिति वाच्यं कर्म्मान्तरसत्त्वादिति। महाप्रलये क्षणादिव्यवहारोयद्यपि, तदाऽनायत्त्या ध्वं सेनोपपादनायः। दिनादिव्यवहारस्तु तत्तत्क्षणकूटैरेवेति” मुक्ताबली।

तार्किकशिरोमणिना रघुनाथशिरोमणिना च पदार्थनिरूपणप्रकरणे “तत्र दिक्कालौ नेश्वरादतिरिच्येते” इति वदता विभुरूपस्यैकस्य कालस्य खण्डनं कृवम्। रघुदेवरामभद्राभ्यां तद्विवृतं ततः संक्षिप्य पदार्थतत्त्वसारे च जयनारायणतर्कपञ्चाननेन दर्शितं यथा

“दिक्कालौ नेश्वरादतिरिक्तौ प्राच्यां घट इदानीं घटः इत्यादिव्यवहारस्य ईश्वरात्मकविभुविषयकत्वेनैवोग्रपत्तेः, नच तयोर्भिन्नविषयकत्वमनुभवसिद्धमिति वाच्यं तथा सति प्राच्यां घटः प्रतीच्यां घटः इदानीं घटः तदानीं घट इत्यादेरपि भिन्नभिन्नविषयकत्वानुभवात् कालदिशोरपि बहुत्वाङ्गोकारप्रसङ्गात्, तथा च उपाधिभेदादेकया दिशा एकेन कालेन च यथा भवतां बहूनां व्यवहाराण अपप्रत्तिस्तथाऽस्माकमपि एकेनेश्वरेणागमानुमानाप्यां सिद्धेन सर्व्वेषामेव तादृशव्यवहाणासुपधिभेदादुषपत्ति सम्भवति, सुर्य्यक्रियादौ स्वसंयुक्तेश्वरसंयोगितपनाश्रितत्वादिसम्बन्धेन घटादेः सत्त्वसम्भवेन तत्सम्बन्धघटकतयाऽप्यति रक्तकालाद्यसिद्धेः। अयवा क्षणा एवातिरिक्ताः इदानामित्यादिव्यवहारविषयाः, विभागप्रागभावावच्छिन्नकर्म्मणः क्षणत्वासम्भवात् भाबिकर्म्मान्तरजन्यविभागान्तरप्रागभावावच्छिन्नस्य कर्म्मणः क्षणचतु यादिस्थायित्वेन तादृशस्योपा धित्वामम्भवात् नच विभागे स्वजन्यत्वं विशेषणीयम्, स्ववाननुगमादनन्गप्तापत्तेः, विभागजननादिदशायामुपाध्यन्तरस्य वाच्यतया तावताप्यननुगमाच्च, एवञ्चोपाधीनामतिरिक्तानां क्षणिकपदार्पम्वरूपाणां क्षणानामवश्याभ्युपेयतया तेरे। तादृशाः सर्व्वे व्यवहारा उपपादनीयाः किमतिरिक्तेन कालेवेति”। सांख्यमते तस्य काशलर्भावः न पृथकतत्त्वान्तरत्वं तदेतत्सांख्यसूत्रभाष्ययोर्दर्शितम्

“खण्डदिक्कालयोः सृष्टिमाह” भा०।

“दिक्कालाबाकाशादिभ्यः” सां० सू०।

“नित्यौ यौ दिक्कालौतावाकाशप्रकृतिभूतौ पकृतेर्गुणविशेषवेव। अतो दिक्कालयोर्विभत्वोपपत्तिः। “आकाशवत् सवगतश्च नित्य” इत्य दिश्रुत्यक्तं विभुत्वं चाकाशस्योपपन्नम्। यौ तु खण्डदिक्कालौ तौ तु तचदुपाधिसयोगादाकाशादत्पद्येते इत्यथः आदशब्देनोपाधिग्रहणादिति। यद्यपि तत्तदुपाधिविशिष्टाकाशमेब खण्डदिक्क लौ तथापि षिशिष्टस्यातिरिक्तताभ्युपगमवादेन वैशेषिकनये श्रोत्रस्य कार्य्यतावत् तत्काभापमत्रोक्तम्” प्र० भा०।

“अतपदं दर्शयिष्यमाणमाधवग्रन्थे च वाचस्पतिमतेन कालखण्डनं तु नित्यपिभुकालखण्डनपरं तथाहि “उपाधिभिद्यते न तु तद्वानिति” सा० सू० उपाधिभेदेच धर्म्मिभेदासम्भवस्य व्यास्थापनात् धर्म्मिणः कालस्य एकत्वेन उपाधिना भेदासम्भवात् उपाधिना नाऽनागतादि भेदव्यवहारसम्भवः तथा च क्रियादेरेव उपाधिभूतस्यानागतादिव्यवहारोपपादकतया तस्यैव कालत्वम्। अतएव क्रियैव काल इत्यभियुक्तोक्तिः। कालमाधवीये च माधवेन शङ्कापूर्व्वकं कालश्चेत्थं न्यरूपि

“ननु नायमुद्यमः सफलः कालस्य गगनकुसुमायमानत्वात तदेतत्परमरहस्यमभिजानानः कपिलमहामुनिस्तत्त्वानि निर्विवेक्तुकामः कालमुपेक्ष्यान्यान्येव पञ्चविंशतितत्त्वानि विवेच “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविछतयः सप्त। षाडशकस्तु विकारा न प्रकृतिन विकृतिः पुरुषः” इति। न चैतेष्वेव तत्त्वेषकालम्यान्तर्भावो मुनिना विवजित इति शङूनीयम् त्वदभिमतम्य कालम्य पञ्चविंशतितत्त्वानां चान्यादृशानि लक्षणानि। सत्वरजस्तमोगुणानां साम्यावस्था मलप्रकृतिर्मदहङ्कारपञ्चतक्तात्राख्यानां स्वप्तानां प्रकृतिविकृतीनाम् मध्येत्ध्यवसायहेतुर्मत्तत्त्वव अभिमानहेतुरहङ्कारः। शब्दस्पर्शरुपरसगन्धात्मकानि पञ्चतन्यात्राणि पृथिव्यादिपञ्चमहाभूतानांमेकादशेन्दियाणाञ्च षोडशविकाराणां लक्षणानि प्रसिद्धानि। अप्र कृतिरविकृतिः पुरुषश्चिदात्मकः। न ह्येवंलक्षणकेष् तत्त्वेषु कालम्यान्तर्भावः सम्भ व्यते नापि षड्वंशं तत्त्वान्तरं मुनिरनुभन्यते। कथं तर्हि मुनिप्रणीतानि तत्त्वानि आर्याभिः संगृह्णान ईश्वरकृष्णौ बहिःकरणान्तःकरने विचिन्वन् कालं व्याजहार? “सांप्रतकालं बाह्य त्रिकालमाभ्यन्तर करणमिति”। परप्रसिद्ध्यापरो बोधनीय इति न्यायेनायं व्यवहारो न तु ससिद्धान्ताभिपायेणेति वदामः। अत एवैतद्वचो व्याचक्षाणा वाचस्पतिमिश्रास्तत्त्वकौमुह्यामेवमाहुः “कालस्तु वैशेषिकाभिभत एको नानागतातीतादि भेदं प्रवर्त्तयितुमर्हति। तस्मादयं यैरुपाधिभेदैरतीतानागतादिभेदभावं प्रतिपद्यते सन्तु तएवोपाधयो व्यवहारहेतवः कृतमन्तर्गडुना कालेनेति सांख्याचर्याः”। तस्वान्न कालरूपतत्त्वान्तराभ्युपगम इति। अथोच्येत–भूतकालो वर्त्तमानकालों भविष्यत्काल इति एवं त्रिष्वपि भूतादिष्वनुगतः कालप्रत्यय एकमनुगतं कालत्वमन्तरेणानुपपन्न इति तन्न पदार्थप्रत्ययवदुपपत्तेः यथा भवन्मते द्रव्यपदार्थो गुणपदार्थ इति षट्सु भावेषु चतुर्ष्वभावेष्वनुगतः पदार्थप्रत्यय एकमनुगत पदार्थशब्दवाच्यं तत्त्वान्तरमन्तरेणाप्युपपन्नः। तथा कालप्रयोगोऽपि कुतो नोपपद्येत!। तस्मान्निस्तत्त्वं काल निर्णेतुं महानयमुद्यमः प्रेक्षावच्छिरोमणेर्माधवाचार्यस्य न कथञ्चिदप्यपपन्न इत्येवं प्राप्ते ब्रूमः आयुष्मतश्चे तस्येवं निरूढकालतत्त्वे यः प्रद्वषः स कस्य हेतोः? इतिवक्तव्यम्। कि कपिलमहामुनिना निराकृतत्वात्? १ किंवा सांख्यशास्त्रप्रणोतेषुतत्त्वेषु असंगृहीतत्वात्? २ उत लक्षणाभावात्? ३ आहोस्वित्प्रमाणा भावान्? ४ अथवा प्रयोजनामावात्? ५, अथवा तत्त्वगतपञ्चविंशतिसं ख्याभ्यासपाटवेनाभ्यसितात् श्रद्धाजाड्यात्? ६, न प्रथमः कालनिराकरणसूत्रस्य मुनिना प्रणीतस्यानुपलम्भात्। न द्वितीयः अतिप्रसङ्गात् ऋग्वेदप्रोक्ताना ज्योतिष्टोमादीनामायुर्वेदधनुर्वेदगान्धर्ववेदप्रोक्तानासैत्रध- पस्त्रस्वरादीनां मासंगृहीतत्वेन तेष्वपि भावतः प्रद्वेषः फन वार्य्येत?। अय तेषां विषशष्याऽमंग्रहेऽपि सुखदुःखमोहात्मकत्वेन गुणत्रयान्तर्गतत्वादस्त्येवार्थात् संग्रहैयच्यते तर्हि कालस्याप्यसौ न दण्डवारित इति बुद्धिं समाधतस्व। कालस्य गुणवयपरिणामत्वे सावयवत्वम नित्यता च घटादेरिव प्रसज्येतेति चेत्? नित्यनिरप्तयव कालतत्त्वाभिनिवेशवतो वैशेषिकादेः पतत्वयं वज्रप्रहारः शिरसि। वेदवादिनां तु न कापि क्षतिः। कालस्योतपत्तिसावयत्वयोः प्रत्यक्षश्रुतावपलभ्यमानत्वात। तैत्तिरोयश खायां नारायणीये कालोत्पत्तिराम्नायते “सर्व्वे निमेषजिज्ञिरे विद्य्तः पुरुषादधि कलामुहूर्त्ता काष्ठाश्चाहोरात्राश्च सर्वशः। अर्द्धसामा मामा ऋतवः संवत्सरश्च कल्पत्तामिति” तम्यामेव शास्वयामारुणक्र्तुकचयन ब्राह्मणे मावयवत्वं श्रूयते उक्तोवेषो वासांसि च क लाबयवानामितः प्रतीच्येषिति”। इतोस्मादनुवाकात्प्रनोच्येष् अधस्तनेषु अनुवाकेष कालावयवानामृत्नां ध्यातव्यो बेष उक्तः वस्त्राणि चोक्तानीत्यथः। नित्यत्वनिरवयवत्वाभिधायिनो वैशेषिकादिशास्त्रस्य “अमृता देवता” इति बदापेक्षिकनित्यतायामन्तर्द्धानशक्त्युपेतयक्षराक्षसादिवत् संऋर्शयोग्यावयवश्वन्यताथा च तात्पर्ये वर्णनीयम्।

“अथ मन्यसे महता तपसा शिवमाराध्य तत्प्रसाद लब्बसर्वज्ञत्वपदः कणादमुनिर्वेदवात्पर्यं मम्यग्वेत्तीति वेद् स्यैव मन्दमतिप्रतीतादर्थादर्थान्तरं नेतव्यसिति। एवमपि यस्य प्रसादादयं सर्वंज्ञतामलभत सएव शिवो मुख्यः सर्वज्ञ इति तन्मतानुसारेण कणादमतस्यैवात्यथानयनमत्यन्तमुचितम्। शिवो हि शैवेषु आगमेषु षटत्रिं शत्तत्त्वानि निरूपयत् कालवत्त्वस्योत्पत्तिमङ्गीन्चकार। निखिलशैवागमसारमार्य्याभिः संगृह्णानो भोजराजः शुद्धानि पञ्च तत्त्वःनि शिवशक्तिसदाशिवेश्वरविद्याख्यानि निर्दिश्येतराणि निर्दिशन्मायाकार्यत्वोक्तिपूर्वकमेव कालं निरदिक्षत् “पुंसो जगतः कृतये मायातस्तत्त्व पञ्चकं भवति। कालो नियतिश्च तथा कला च विद्या च रागश्च” इति तानि मायासहितान्येकादश तत्त्वानि सांख्यप्रसिद्धपञ्चविंशतितत्त्वानि चोद्दिश्य विवृण्वन्निदमाह “नानाविधशक्तिमयी सा जनयति कालतत्त्वमेवादौ। भावि भवद्भूतमयं कलयति जगदेष कालोऽतः” इति। तट्टीकाकार इत्थं व्याचख्यौ। “नन्वेष कालो नैयायिकादिभिनित्योऽभ्यपगतः अत आह माविभवद्भूतमयमिति। भूतादि रूपेण त्रिविधत्वात् अचेतनत्वेनास्यानित्यतं सिद्धमिति भावः। केन क र्येणास्य सिद्धरतआह “कलयवि जगदेष कालोऽतः” इति। चिरक्षिप्रादिप्रत्ययोपाधिद्वारेण कलयत्याक्षिपतत्यर्थऽइति। इत्थ प्रत्यक्षश्रुतिसहकृतशैताप्तमैः कणादशास्त्रस्य बाधे सति उत्तरमामांसागतडितीयाध्यायप्रथमाधिकरणन्यायोऽनुगृह्यते तस्य च न्यायस्य संग्राहकौ श्लोकौ “सांख्यस्मृत्यःस्ति सङ्कोचो न वा येदसमन्वये। धर्मे वेदः सावकाशः सङ्कोच्योऽनवकाशया। प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभि स्मृतिः अमूलाकापिलो बाध्या न सङ्कोचऽनया ततः” इति। अयमर्थः। ऋग्वेददि भरग्निहोत्रादिधर्मो ब्रह्मणो जगत्कर्तृत्वं च प्रति पाद्यते। सांख्यस्मृत्यादिस्तु पधानस्य जगत्कारणत्व प्रतिपाटयति तत्र तया स्मृत्या वेदस्य सङ्कोचोऽस्ति। वेति संशये स्मृतेर्जगत्कारणत्वमन्तरेणानवकाशत्वात् प्राबल्य वेदस्य तु धर्मेऽपि चरितार्थचाद्दौर्बल्यम्। ततः स्मृत्यनुसारेण वेदः सम्कुचित इति पूर्व्वः पक्षः। प्रत्यक्षश्रुतिभिर्बह्व भिरनुगृहीताबह्व्यो मन्वादिमृतयो ब्रह्मकारणतामाचक्षते सांख्यस्मृतिस्त्वेका मूलहीना चेति दुर्बलत्वात् सैव बाध्या अतो नास्ति वेदस्य सङ्कोच इति सिद्धान्त इति। अथ तार्किकत्वाभिमानग्रहगृहीतः सन परवश एवं ब्रूषे भूतादोनामौपाधिकानां कालविशेषाणामेवोत्पत्तिर्न तु निरुपाधिकस्य मुख्यस्य कालस्येति तर्हि कपर्दिकान्वेषणाय प्रवृत्तश्चिन्तामणिमलभतेत्येवंवासिष्टरामायण प्रोक्तस्याभाणकम्य त्वमेव विषयोऽभूः। यतः साधर्य्यवैधर्म्यज्ञानाय द्रव्य दीन्यन्विष्यन् परब्रह्मतत्त्वमवागमः। व्यवहारहेतूनां भूतादिकालविशेषाणामाधारः स्वयं व्याहारातीतो नित्यो निरचयवो मुख्योयः कालः स परमात्मैव। तथाच श्वेताश्वतरा आमनन्ति। “यः कालकालो गुणी सर्वविद्य” इति। आस्तां नित्यत्वानित्यत्वसावयवत्वचिन्ता। सर्वथाप्यस्ति सांख्यतत्त्वेषु आर्थिकः कालसर्ग्रहः साक्षात्संग्रहाभावस्तु ज्योतिष्टोमादिवत् प्रकृतिपुरुषविवेकानुपयोगादित्यवगन्तव्यम्। तृतीयचतुर्थपक्षौ तु भवतो वैशेषिकपरिचयगन्धोऽपि नास्तीति प्रकटयतः। वैशेषिक ग्रन्थेषु सर्वेष्वपि कालप्रकरणेषु तल्लक्षणस्य तत्साधकानुमानस्य च पपञ्चित्वात् प्रमाणान्तराणि तु कालसाधकानि श्रुत्यैवोपन्यस्तानि तथा च तैत्तिरीया आरुणकेतुके मन्त्रमामनन्ति “स्मृतिः प्रत्यक्षमैतिह्यम् अनुमानश्चतुष्टयम्। एतैरादित्यमण्डलै सर्व्वैरेव विधास्यते” इति। तत्र स्मृति अनुमेयश्रुतिमूलं मन्वादिशास्त्रं प्रयक्षं श्रोत्रग्राह्योऽकृत्रिमो वेदाख्योऽक्षरराशिः, योगिप्रत्यक्षमौपनिषदाभिमतं साक्षिप्रत्यक्षं वा। ऐतिह्यमितिहासपुराणादिके ज्योतिःशास्त्रस्याप्यत्रान्तर्भावो द्रष्टव्यः। अनुमीयते स्वमूलभूतं स्मृतिवाक्यमनेनेत्येनुमानः शिष्टाचारस्तस्य च स्मृत्यनुमापकत्वं। भट्टाचार्यर्विस्पष्टमभिहितम्। “आचा राच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनमिति, तदेवं स्मृत्यादीनां चतुष्टयं सफलम्, एतैश्चतुर्भिः सर्वैरप्यादित्यमण्डलं प्रमीयत इति मन्त्रस्यार्थः। ननु स्मृत्यादीनि मण्डलसाधकत्वेनात्रोपन्यस्तानि न तु कालसाधकत्वेनेति चेत् मैवं मण्डलस्य सार्वजनीनप्रत्यक्षसिद्धत्वेन तत्र स्मृत्याद्यनुपयोगात्, कालविवक्षयेवात्र कालनिर्वाहकमण्डले तान्युपन्यस्तानि, तथा च मण्डलद्वारा कालः प्रमीयते। कालविवक्षा चोत्तरमन्त्रेष्वतिस्फुटा तत्रानन्तरो मन्त्रएवमाम्नायते, “सूर्य्यो मरीचिमादत्ते सर्वस्माद्भुवनादधि, तस्याः पाकविशेषेण स्मृतं कालविशेषणमिति” तस्यायमर्थः। भुवनगतं सर्व्वभूतजातमधिकृत्यरसवीर्यपाकादिभिस्तत्तदनुग्रहसमर्थं मरीचिं सूर्य्यं स्वीकरोति तत्कृतेन भूतपाकभेदेन निमेषादिः परार्द्धपर्य्यन्तः कालविभेदोऽस्माभिरवगतो भवतीति। कालप्रति पादकानि च स्मृत्यादीत्युदाहरामः। तत्र मनुः “कालं कालविभक्तिञ्चेति” सृष्टिप्रकरणे कालं व्यवजहार। याज्ञवल्क्योऽपि, “श्राद्धकालः प्रकीर्त्तितः” इति। एवमन्यास्वपि स्मृतिषूदाहार्य्यम्। श्रुतिष्वपि “कृतं स्वप्ने विचिनोति कालः” इति बह्वृचाः। “अहमेव कालोनाहं कालस्येति” तैत्तिरीयाः। “का च सन्ध्या कश्च सन्ध्यायाः काल” इति सामगाः। योगशास्त्रेऽपि संयमविशेषाद्धारणाध्यानसमाधित्रयरूपाद्योगिनोऽतीतादिकालं प्रत्यक्षतः पश्यन्तीति” अभिहितम् तथा च पातञ्जलभूत्रम् “परिणामत्रयसंयमादतीतानागतादिज्ञानमिति”। सांक्षिप्रतक्षमपि, अहमस्मिनकाले निवसामि, इत्यनुभवस्तावत्सार्वजनीनः। न चासौ बाह्येन्द्रियकृतः कालस्य रूपादिहीनत्वात्। नापि मानसस्तार्किकैस्तदनङ्गीकारात्। नाप्यनुमानादिजन्यः अपरोक्षप्रत्ययत्वात्। अतः सामग्र्यभावऽप्यपरोक्षदर्शनात्साक्षिप्रत्यक्षमेतदित्यौपनिषदामन्यन्ते। इतिहासेऽपि महाभारते “प्रहरौ घटिकान्यूनौ प्रहरौ घटिकाधिकौ। स कालः कुतपोज्ञेय पितॄणां, दत्तमक्षयमिति”। पुराणेऽपि “अनादिरेष भगवान्कालोऽसन्ताऽजरः परः” इति शिष्टाश्च पौर्णमास्याख्यकाले स्वस्वकलोचितान् देवविशेषेभ्यः क्षीरदध्यादिसमर्प्यणादिकान्धर्म्मविशेषान्भानुवारादिकालविशेषे च समाचरन्ति। तदेवमनेकप्रमाणप्रमिते काले प्रमाणाभावरूपश्चतुर्थः पक्षः कथमाशङ्क्येत?। नापि प्रयोजनाभावादिति पञ्चमः पक्षो युज्यते। तार्किकैस्ताषत् सर्वोत्पत्तिनिमित्तकारणत्वमुद्धोषितम्। लोके कृष्याद्युपयोगःःकालविशेष्य कृषीवलादिभिर्व्यवह्रियते। गृहप्रवेशप्रयाणाद्युपयोगो ज्योतिःशास्त्रप्रसिद्धः। श्रौतस्मार्त्तकर्नोपयोगस्तु प्रदर्शयिष्यते। तस्मात् सांख्यश्रद्धाजाड्यकृतस्रव प्रद्वेष इत्ययं षष्टः पक्षः परिशिप्यते। तथाच पापा त्मनः स्वस्य बुद्ब्यपराधं पुण्यात्मनि माधवाचार्ये समारो पयन् कया वा शिक्षया न दण्ड्योऽसि। तदेवं कालस्यप्रत्या ख्यातुमशक्यत्वान्निर्णयोद्यमः सफल इति स्थितम्। ननु कतरकालोऽत्र निर्णीयते। किं केवलः कालः किं वा कालकालः। ननु किमित्यप्रसिद्धभाषया भीषयसि, न भीषयाम्यहं किञ्चास्त्येव कलयितव्यभेदात्कालद्वैविध्यम्। येन प्राणिदेहादयोऽतीतवर्त्तमानादिरूपेण कलयितव्याः स केवलः कालः। स च तत्त्वप्रकाशवचनेन पूर्व्वम् उदाहृतः “कलयति जगदेष कालोऽतः” इति। तादृशोऽपि कार्य्योत्पत्तिस्थितिविनाशकारिणा येन कलयितव्यः स कालकाल इति। स च वासिष्ठरामायणेदशितः “काले पि कल्य्ते येनेति श्रुतिश्च भवति “स विश्वकृद्विश्वविदात्म योनिर्ज्ञः कालकालो गुणी सर्वविद्यः प्रधानक्षत्रज्ञः इति “गुणी ससारमोक्षस्थितिबन्धहेतुरिति” च कूर्मपुराणेऽपि “अनादिरेष भगवान् कालोऽनन्तोऽजरः परः। सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः। ब्रह्माणो बहवो रुद्रा अन्ये नारायणादयः। एकोहि भगवानीशः कालः कविरिति स्मृतः। ब्रह्मनारायणेशानां त्रयाणां प्राकृतोलयः। प्रोच्यते कालयोगेन पुनरेव च सम्भवः। परं ब्रह्म च भूतानि वासुदेवोऽपि शङ्करः। कालेनैव च सृज्यन्ते सएव ग्रसते पुनः। तस्मात् कालत्मकं विश्वं स एव परमेश्वरः” इति। विष्णुधर्मोत्तरेऽपि। “अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतं। कलनात्सर्वभुतानां स कालः परिकीर्त्तितः। कर्षणात् सर्व्वभूतानां स तु सङ्कषणः स्मृतः। सर्वभूतशमित्वाच्च स रुद्रः परिकीर्त्तितः अनादिनिधनत्वन स महान् परमेश्वर” इति ज्योतिःश स्त्रेऽपि “भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मका इति। तत्रैवं सति द्वयोर्मध्ये कालकालोत्र न निर्णेतक तस्य धर्मानुष्ठानेष्वहेतुत्वेम हेयत्वादनुपादेयत्वाच्च। यस्त्वितरो मासपक्षतिथ्यादिरूपः सोऽपि ज्योतिःशास्त्रे सम्यङ्निर्णीत इति कृतमनया कालनिर्णयप्रवृत्त्येति प्राप्ते ब्रूमः उमयमप्यत्र निर्णेतव्यं कालकालस्य जगदीश्वरस्य सर्व्वेषु कर्मारम्भेषु अनुस्मर्त्तव्यत्वात् अतएव शिष्टाः पुण्याहवाचनादावीश्वरमनुस्मरन्ति। “सर्वेषु कालेषु समस्त देशेष्वशेषकार्येषु तयेश्वरेश्वरः। सर्वैःस्वरूपैर्भगवाननादिमान्ममास्तु माङ्गल्यविवृद्धये हरिः। यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु। न्यूनं संपूर्णतां याति सद्योवन्दे तमच्युतमिति”। मासादिरूपभेदस्य तु स्वरूपेण ज्योतिषे निर्णीतत्वेऽपि श्रौतस्मार्त्तकर्मविशेषेण सह कालस्याङ्गाङ्गिभावी निर्णेतव्यः। यद्यप्यसौ हेमादिप्रभृतिषु ग्रन्थेषु निर्णीतस्तथाप्यनेकत्र विप्रकीर्णस्यैकत्र संग्रहार्थमत्र यत्नः क्रियते। तदेवं चिकीर्षितस्य ग्रन्यस्य कालरूपो विषयः संग्रहरूपं प्रयोजनं चास्तीति अयं ग्रन्थ आरभ्यते”। “नित्यो जन्यश्च कालौ द्वौ तयोराद्यः परेश्वरः। सोऽवाङमनसगम्योऽपि देही भक्तानुकम्पया” नित्यकालस्य परमेश्वरत्वे प्रमाणं पूर्वमेवोपन्यस्तम्। परमेश्वरस्य चावाङ्मनसगोचरत्वे सर्वे वेदान्तास्तदनुसारिस्मृतिपुराणानि तत्त्वविदनुभवश्च प्रमाणम्। भक्तानुग्राहिमूर्तिस्वीकारश्च त लवकाराख्ये सामवेदशाखाविशेषे कस्यां चिदाख्यायिकायामाम्नायते तस्यां ह्यास्त्यायिकायामेवमुक्तम्–अग्निवाय्वि न्द्रादयो देवा ईश्वरानुगृहीताः सर्व्वत्र विजयमानाः स्वकीयमेव तत्सामर्थ्यमित्यमिमन्यन्ते स्म। तान् बोधायितुमवाङ्मनसगम्यं परमेव ब्रह्म पूज्यां चक्षुर्गम्यां काञ्चिन्मूर्त्तिं धारयित्वा प्रादुर्बभूव। तया सह वादं कृत्वापि राजसचित्तावग्निवायू तद्ब्रह्मतत्त्वं नैव बुबुधाते इन्द्रस्तु सात्विक चित्तोबुबुधे इति। वासिष्ठरामायणेऽपि शुक्रोपाख्याने शुक्रं मृतमवलोक्य तत्पिता भृगुः क्रुद्धो मारयितारं कालं शप्नुमुद्यत तदानीं कालोऽनुग्रहीतुमीदृशेन रूपेणाविर्बभूवेति पठ्यते “अथाकलितरूपोऽसौ कालः कवलितप्रजः। आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ। बहुपाशधरः श्रीमान् कुण्डली कवचान्वितः। ऋतुषट्कमयोदारवक्त्रषट्कसमन्वितः। मासद्वादशकोद्दासभुजद्वादशकोद्भटः। स्वाकारसमया बह्व्या वृतः किङ्करसेनय। स उपेत्य प्रणम्यादौ कुपितं तं महामुनिम्। कल्पक्षुब्धाव्धिगम्भीरं सान्त्वपूर्व्वमुवाच ह्। त्वमत्यन्ततपा विप्र! वयं नियतिप्रालका तेन संपूज्यसे पूज्य। साधो! नेतरवीक्षया। मा तपः क्षपयाऽबुद्ध! कल्पकालमहानलैः। यो न दग्धोऽस्मि मे तस्य किं त्वं शपेन धक्ष्यसि?। संसारावलयो ग्रस्ता निगीर्णारुद्रकोटयः। भुक्तानि विष्णुवृन्दानि केन शप्ता वयं मुने!। भोक्तारो हिवयं ब्रह्मन् भोजनं युष्मदादयः। स्वयं नियतिरेषा हि नावयोरेतदोक्षितमिति”। न च भक्तानुजिघृक्षया स्वेकृता मूर्त्तिरीदृश्येवेति कश्चिन्नियमोस्ति सर्वात्मकस्य परमेश्वरस्य भक्तचित्तप्रियायाः सर्वस्या अपि मूर्त्ते स्वकीयत्वात् अतएव भगवद्गीतायाम् “यो यो यां यां तनु भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्। स तया श्रद्धया युक्तस्तस्या राधनमीहते। लभते च ततः कामान् मयैव विहितान् हितानिति”। विष्णुरुद्रादिवत् अचेतनमूर्त्तयोऽपि तत्तत्फलविशषार्थिभिरोश्वरत्वेनोपास्याः। तदेतदृग्वेदे समाम्नायते। “एतं ह्येव बह्व्यच महत्युक्थे मीमांस न्तएतमग्नावध्वर्यव, एतं महाव्रतेच्छन्दोगा, एतमस्याम् (पृथिव्याम्) एतं दिव्येतं वायावेतमाकाश एतमोषधीष्वेतं वनस्पतिष्वेतं छन्दस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्विति” वाजसनेयिनोऽपि मण्डलब्राह्मणे “तमेतमग्निमध्वर्यव उपासत इत्यारम्य पठन्ति “विषमिति सर्पाः, सर्प इति सर्पविदः, उर्गिति देवः, रयिरिति मनुष्याः, मायेत्यमुराः, स्वधेति पितरो, देवजन इति देवजनविदो रूपमिति गन्धर्वा, गन्धैत्यप्सरसस्तं यथायथोपासते तदेव भवतीति”। तैत्तिरीयाश्च पठन्ति “क्षेम इति वाचि, योगक्षेमम् इति प्राणापानयोरित्यादि”। परब्रह्मण्यारोपितं यद्यावज्जगद्रूपम् अस्ति तेन सर्व्वेणःप्युपासनया परमेश्वरो रूपवान्भवतीतिहिरण्मयाधिकरणतेजोमयाधिकरणयोः प्रपञ्चितम्। एवं च सति यो यदा यत्कर्म्मारभते स तदा तत्कर्म्मोपयुक्तां कालात्मकस्येश्चरस्य मूर्त्तिमिष्टदेवंतारूपेणानुस्मरेत्। अत एव मन्त्रशास्त्रेषु नानाविधानि ध्यानान्युपदिष्टानि। लोकेऽप्याविद्वदागोपालाङ्गनं सर्वोऽपि जन एकैकां देवतां स्वेच्छया पूजयति तदेतद्भगवानाह “यजन्ते सात्विकादेवान् यक्षरक्षांसि राजसाः प्रेतान् भूतगणांश्चान्थे यजन्ते तामसा जनाः” इति तस्म दारभ्यमाणकर्म्मफलप्रदोनिजेष्टदेवतारूपोनित्यः कालः कर्म्मारम्भेषु अनुस्मर्त्तव्य इति सिद्धम्।

अथ जन्यं कालं निरूपयामः। ननु कालस्य जन्यत्वे सति कथं प्रलये कालव्यवहारः। प्रलयत्वस्य जन्यानधिकरणत्वरूपत्वात्। प्रलयोऽतीतः प्रलयोभावीति कालनित्यत्ववादिनस्तवापि समोदोषः। नित्यस्य कालस्य तपनपरिस्यन्दाद्युपाधिभिः परिच्छेदे सत्येतावान् काल इति कालेयत्ता वर्ण्णयितव्या। न च प्रलये तदुपाधयः सन्ति। अतस्तव कथं प्रलयकाले इयत्तानिर्ण्णयः। अथ सत्कार्य्यवादाभ्युपगमेनोपाधयोऽपि वासना रूपेण सन्ति तर्हि कालेऽपि तत्समानं, न चैतावता नित्यताप्राप्तिः उपाधिषु तदनङ्गीकरात्। अथ मन्यसे इयत्तारहितेऽपि प्रलयकाले सृष्टिकालेयत्तावासनावशादियत्ता व्यवह्रियते। तत्रोपाध्यायत्वादिर्दृष्टान्तः। यथा कश्चिन्माणवकः त्रिंशद्वर्षवयस्कादध्येतुमुपक्रम्य संवत्सरमधीत्यास्मदुपाध्याय एकत्रिंशद्वर्षवयस्क इत्यध्ययनरहितेऽप्यतोते वयस्य्वपाध्यायत्वं व्यवहरति। तद्वदियत्ताव्यवहारः। एवं तर्ह्यनेन न्यायेन कालरहितप्रलये कालव्यवहारः किं न स्यात्?। कालरहितं च प्रलयादिकं वस्त्वस्तोति माण्डूक्यादिश्रुतयोऽभ्युप्र गच्छन्ति। तथा च श्रूयते, “यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एवेति”। प्राभाकराश्चापूर्व्वस्य कालत्रयासंसृष्टाङ्काञ्चिदवस्थाभाहुः। तस्मात्कालः सुखेन जन्यतां स च सामान्यविशेषाभ्यान्द्विविधः। तस्य चोभयविधस्येश्वराख्यान्नित्यात्कालादुत्पत्तिं मनुराह “कालं कालविभक्तिञ्च नक्षत्राणि ग्रहांस्तथा। सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः” इति। तत्र यः सामान्यकालः स विशेषानुगतत्वात्तदपेक्षया नित्योग्रहगत्यादिभिरनुमेयो भूतोत्पत्तिनिमित्तकारणमिति तार्किकज्यौतिषिकादयः प्रतिपेदिरे। तत्र ज्यौतिषिका एवमाहुः “प्रभवविरतिभध्यज्ञानबन्ध्या नितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि। तमहमिह निमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहैः कालमीशम्। युगवर्षमासदिवसाः समं प्रवृत्तास्तु चैत्रशुक्लादेः। कालोऽयमनाद्यन्तो ग्रहर्भरनुमीयते क्षेत्र” इति कालविशेषेषु च संवत्सरः प्राधानभूतः। अन्ये सर्व्वे गुणभूताः। तथाचारुणकेतुके समाम्नायते “नद व प्रभवा काचिदक्षय्या स्यन्दते यथा। तां नद्योभिसमायन्ति सह, सा न निवर्त्तते। एवं नानासमुत्थानाः कालाः संवत्सरं श्रिताः। अणुशश्च महान्तश्चसर्व्वेसमवयन्ति तम्। स तैः सर्व्वैः समाविष्ट ऊहः सन्न निवर्त्तते” इति। अयमर्थः। भागीरथीगोदावर्यादिका नदीव कालः कुतश्चिदुत्पत्तिस्थानादुत्पद्यते। तच्चोत्पत्तिस्थानं सांख्योक्तं प्रकृतिः शिवागमोक्तमाया वा श्रुतिस्मृत्युदिता नित्यकालात्मक ईश्वरो वा भविष्यति। यथा तां गङ्गादिकां महानदी मन्यां स्वल्पनद्योऽभितः प्रविशन्ति सा च प्रविष्टैर्नद्यन्तरैः सह विस्तीर्णा प्रवहत्प्रवाहा सती न कदाचित् शुष्यति। एवं नानाविधरूपैः समुत्पन्नाः कालभेदाः संवत्सराख्यं प्रधानं कालमाश्रिताः। तत्र निमेषाद्या अयनपर्यन्ताः कालभेदाः संसत्सरादणवो, युगाद्याः परार्द्धपर्यन्ताः संवत्सरान्महान्तस्ते सर्व्वे तं संवत्सरं सम्यक् प्रविशन्ति। अणू नामवयवत्वेन प्रवेशः। महतान्तु संवत्सरावृत्तिनिष्पाद्यानामध्यक्षः संवत्सरैति तत्र प्रवेशोऽभिधीयते। तथाच येदाङ्गज्योतिषग्रन्थे पठ्यते “पञ्चसंयत्सरमयं युगाध्यक्षं प्रजापतिम्। दिनर्त्वयनमासाङ्ग” प्रणम्य शिरसा स्थित इति। स च संवत्सरस्तेरणुभिर्महद्भिश्च सर्व्वैः समाविष्टोऽतिदीर्घः सन्नस्मिन् जगति त च्छिद्यत इति। नन्वणुत्वं निमेषे पर्यवसितं महत्त्वोतु परार्द्धे तथा च तयोरन्यतरस्य प्राधान्यमुचितम्। तत्र कथं संवत्सरस्य प्राधान्यम्? इति चेत् ईश्वरेण प्रथमं सृष्टत्वादिति ब्रूमः। तथा च वाजसनेयिनः समामनन्ति “सोऽकामयत द्वितीयोम आत्माजायेतेति स मनसा वाचा मिथुनं समभवद्यत्तद्रेत आसीत् स संवत्सरोऽभवदिति”। तस्मात्संवत्सरः प्रधानम्, अतएव वयं संवत्सरभारम्य कालविशेषं निर्ण्णयामः। तत्र संवत्सरोऽयनमृतुर्मासः पक्षः तिथिर्नक्षत्रं योग इत्येवं विधाः कर्म्मकालाः। यद्यपि पुराणषु मृत्युमार्कण्डेयादीनां युगादिकल्पादिपरिमितं तपः स्मर्य्यते तथापि शतसंवत्सरायुषो मनुष्यानधिकृत्य धर्म्मशास्त्रप्रवृत्तेः युगादिनिर्ण्णयोनोययुक्तः। शास्त्राणां मनुष्याधिकारत्वं चास्माभिः पाराशरस्मृतिव्याख्याने “मनुष्याणां हितं धर्म्मम्” इत्यस्मिन्वचने प्रपञ्चितम्। येतु “कलौ पञ्च विवर्जयेत्” इत्यादयोमनुष्यधर्म्मास्तेष्वपि न युगादिकं निर्णेतव्य संदेहाभावात्। न च शतायुषामधिकारे कथं सहस्रसंवत्सरसत्रश्रुतिरिति शङ्कनीयम् तत्र संवत्सरशब्दोदिवसपर इति षष्ठाध्याये सप्नमपादेनिर्ण्णीतत्वात्। येऽपि चतुर्दशसवत्सरावृत्तिसाध्या अनन्तव्रतादयस्तेष्वपि न संवत्सराधिकः कश्चित्कालो निर्ण्णेतव्योऽस्ति। अतः संवत्सरमारभ्यावांञ्च एव निर्ण्णेतव्याः कर्म्माङकालाः। न च कालस्य कर्म्माङ्गत्वे विवदितव्यम् “सायं बुहोति प्रातर्जहोतीतिः” श्रुतेः तत्तत्कर्म्मणस्तावदपूर्व्वविषयत्वात् (अपूर्व्वजनकत्वात्, प्राधान्यमभ्युगम्य तथा च कालस्य गुणत्वेनान्वयः परिशिष्यते अतएव गर्गः “तिथिनक्षत्रवारादि साधनं पुण्यपापयोः। प्रधानगुणभावेन स्वातस्थ्येण न ते क्षमाः” इति। तस्मादङ्गभूतेष निर्ण्णेयेष कालेष्ववयवित्वेन संवत्सरस्याभ्यर्हितत्वादल्पवक्तव्यतया सूचीकटाहन्यायानुसारेण च सएव आदौ निर्ण्णीयतैतिस्थितम्”। सू० सि० रङ्ग० कालविभागश्चेत्थं प्रदर्शितः

“लोकानाममकृत्कालः कालोऽन्यः कलनात्मकः। स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते” सू० सि०। “कालो द्विधा तत्रैकः कालोऽखण्डदण्डायमानः शास्त्रान्तरप्रमाणसिद्धः। लोकानां जीवानामुपलक्षणादचेतनानामपि। अन्तकृद्विनाशकः। यद्यपि कालस्तेषामुत्पत्तिस्थितिकारकस्तथापि विनाशस्यानन्तत्वात् कालत्वप्रतिपादनाय चान्तकृदित्युक्तम्। अन्तकृदित्यनेनैवोत्पत्तिस्थितिकृदित्यक्तमन्यथा नाशकत्वासम्भवात्। अतएव “कालः सृजति भूतानि कालः संहरति प्रजाः इत्याद्युक्तं ग्रन्थान्तरे। अन्यो द्वितीयः कालः खण्डकालः। कलनात्मको ज्ञानविषयस्वरूपः। ज्ञातुंशक्यैत्यर्थः। स द्वितीयः कलनात्मकः कालोऽपि द्विधा भेदद्वयात्मकः। तदाह स्थूलसूक्ष्मत्वादिति महत्त्वाणुत्वाभ्याम्। मूर्त्तः–इयत्तावच्छिन्नपरिमाणः। अमूर्त्तस्तद्भिन्नः कालतत्त्व विद्भिः कथ्यते। चकारो हेतुक्रमेण मूर्त्तामूर्त्तक्रमार्थकः। तेन महान् मूर्त्तकालोऽणृरमूर्त्तः काल इत्यर्थः। अथोक्तं भेदद्वयं स्वरूपेण प्रदर्शयन् प्रथमभेदं प्रतिपिपादयिषुस्तदवान्तरभेदेषु भेदद्वयमाह” रङ्गनाथः। “प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्त्तसञ्ज्ञकः। षडभिः प्राणैर्विनाडी स्यात् तत्षष्ठ्या नाडिका स्मृता” सू० सि०।

“प्राणः स्वस्थसुखासीनस्य श्वासोच्छासान्तर्वर्ती कालो दशगुर्वक्षरोच्चार्य्यमाण आदिर्यस्यैतादृशः प्राणनान्तर्गतो मूर्त्तः काल उक्तः। त्रुटिराद्या यस्यैतादृशः काल एव प्राणान्तर्गतस्त्रटितत्परादिकोऽमूर्त्तसञ्ज्ञः। अथामूर्त्तस्य मूर्तादिभूतस्य व्यधहारायोग्यत्वेनाप्रधानतयानन्तरोद्दिष्टस्य भेद प्रतिपादनमुपेक्ष्य मूर्त्तकालस्य व्यवहारयोग्यत्वेन प्रधानतया प्रथमोद्दिष्टभेदान् विवक्षुः प्रथमं पलघट्यावाह। षड्भिरिति। षडभिःप्राणैरसुभिः पानीयपलं भवति पलानां षष्ठ्या चटिकोक्ता कालतत्त्वज्ञैः। अथ दिनमासादिकमाह” रङ्ग०।

“नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्। तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैग्नथा”।

“ऐन्दवस्तिथिभिस्तद्वत् सङ्क्रान्त्या सौर उच्यते। मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते”।

“सुरासुराणामन्योऽन्यमहोरात्रं विपर्यवात्। तत्षष्टिः षड्गुणा ३६० दिव्यं वर्षमासुरमेश च”।

“तद्द्वादश सहस्राणि चतुर्युगमुदाहृत्तम्। सूर्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः ४३२००००”।

“सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्। कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थाया”। “युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः। क्रमात् कृतयुगादीनां, षष्ठांशाः सन्धयः स्वकाः”।

“युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते। कृताब्दसङ्ख्य १७२८००० स्तस्थान्ते सन्धिः प्रोक्तोजलप्लवः”।

“ससन्धयस्ते मनवः कल्पे ज्ञेन्याश्चतुर्दश। कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः”।

“इत्यं युगसहस्रेण भूतसहारकारकः। कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती”।

“परमायुः शतं तस्य तयाऽहोरात्नसङ्ख्यया। आयुषोर्द्धमितं तस्य शेषे कल्पोयमादिमः” सू० सि०। अहरादिकालभेदाः (अहन्) शब्दे उक्ताः।

सि० शि० तु निमेषतत्परत्रुटिरूपाः सूक्ष्माः कालावयवाः दर्शिताः तस्य वाक्यं १७८८ पृ० दर्शितम्। स च कालस्त्रिविधः वर्त्तमानभूतभविष्यद्भेदात् तत्र भूतभविष्यत् कालावपि प्रत्येकं द्विधा अद्यतनानद्यतनभेदात् तद्भेदेनैव लकारविशेषं पाणिनिरनुशशास।

सोऽयं कालः षडिन्द्रियवेद्यः इति मीमांसका मन्यन्ते “न सोऽस्ति प्रत्ययोलोके यत्र कालो न भासते “इति तेषामुक्तेः। वेदान्तिनस्तु तस्य साक्षिप्रत्ययभास्यत्वमङ्गीचक्रुः तत्र प्रमाणं कालमा० अनुपदमेव दर्शितम्। सोऽयं कालः देशवृत्तरव्याप्यवृत्तितानियामकः। तथाहि यः पदार्थः स्वाधिकरणवृत्त्यभावप्रतियोगी सोऽव्याप्यवृत्तिरिति भण्यते तत्तानिर्वाहकश्च कालोदेशश्च। क्वचिद्देशे स्थितस्य तादृशपदार्थस्य कालभेदेन तत्रैवाधिकरणेऽभावस्तिष्ठति यथा ज्ञानाश्रये आत्मनि सुषुप्तिकाले इच्छादिविशेषगुणान्तरकाले च ज्ञानाभावः। यथा वा गुणवति जन्यद्रव्ये उत्पत्तिकाले गुणाभावः श्यामले अपक्वे घटे रक्तत्वाभावः रक्तत्वस्य पाकीत्तरं जायमानत्वात्। कालसत्त्व च देशोऽपि तथा। यथा आत्मनि ज्ञानकाले शरारावच्छेदेन ज्ञानं, घटाद्यवच्छेदेन तदभावः। तथा वृर्क्ष कपिसंयोगकालेऽपि मूले तदभावः। कालेन कृतसम्बन्धश्च कालिकसम्बन्धः तेन सम्बन्धेन सर्व्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्ता नित्येषु गु कालिकसम्बन्धेन न कस्यापि सत्त्वम् नित्यानुयोगिककालिकतम्बन्यानुपगमात् इति नैयायिकाः। तस्य च “पौरुषं दैवसम्पाया काले फलति पार्थिव!। त्रयमेतन्मनुव्यस्य पिण्डितं स्यात् फलावहम्” इत्युक्तेः कार्य्यमात्रे निमित्तकारणता। यद्यपि “कृषेर्वृष्टिसमायोगे दृश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चनेति” शास्त्रान्तरेण तत्तत्कालानामेव यत्तत्कार्य्योत्पत्तौ हेतुताऽधिगता तथापि “यद्विशेषयोः कार्य्यकारणभावस्तत्सामान्ययोरपीति” न्यायात् सामान्यतः कार्य्यमात्रं प्रति कालसामान्यस्य हेतुत्वम्। “कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः” मोहमु०। काले भवः ठञ्। कालिक कालभवे त्रि० “समासप्रत्ययबिधौ प्रतिषेधो वक्तव्यः” बा० उक्तेः तदन्तविधिपरिभाषायाः अप्रवृत्तेः कालान्तशब्दान्नास्य प्रवृत्तिः तेन तदन्त शब्दात् खएव साधुः समानकानीनः प्राक्कालीन इत्यादि भूरिप्रयोगात्। सि० कौ० समानकालोनप्राक्कालोनशब्दयोरप्रामाणिकतोक्तिः प्रौढोक्तिरेव उदाहृतवार्त्तिकस्य जागरूकत्वात् इति गौडाआहुः। प्रतीच्यास्तु कौमुदीकारश्रद्धावशात् ठञ्विधायकसूते कालसामान्यतद्विशेषपर्य्यायाणां ग्रहणात् समानकालप्राक्कालयोरपि कालविशेषत्वेन ततः ठञेव प्रवृत्तिर्न खस्येति भाष्यादिप्रयोगस्तु आर्षत्वात् समाधेयः इति मन्यन्ते। कालेन निर्वृत्तः ठञ् कालिक कालसाध्ये त्रि० स्त्रियां ङीप्। कर्त्तुस्तात्कालिकी शुद्धिरिति” स्मृतिः तत्र तत्कालशब्दस्यैव ठञः प्रकृतित्वात् तेन न पूर्व्वोक्तवार्त्तिकसङ्कोचः अतएव तत्र तच्छब्दस्यैवाद्यचोवृद्धिः तेन निवृत्तमित्यधिकारात् प्रकृतिमात्रस्यैव ग्रहणात् न कालत्वेन तत्रप्रकृतिता। काले साधुः पुष्यन् पच्यमानो वा अण्। काल–काले साधौ काले यिकश माने काले पच्यमाने च त्रि०। अत्र सूत्रे कालविशेषस्यैव ग्रहणं न स्वरूपस्य तेन न ततोऽण् इत्यन्ये। कालः प्राप्तोऽस्य यत्। काल्य प्राप्तकाले शीतादौ त्रि० कालोदेवताऽस्य “कालेभ्योभववत्” पा० ठञ्। कालिक काल देवताके हविरादौ स्त्रियां ङीप्। १५ तत्तत्कर्म्मोचितकाले “वरमेकाहुतिः काले नाकाले लक्षकोटयः” त्रि० त०। “अकालेऽप्यथ वा काले गङ्गां प्राप्य सरिद्वराम्” प्रा० त०। “काले कालकृतो नश्येत् फलभोग्यो न नश्यति” या० स्मृ०। अर्द्धयामशब्दे ३७६ पृ० दर्शिते रव्यादिवारेषु कालवेलाख्ये १६ दिवानिशोरर्द्धयामभेदे “यात्रायां मरणं काले वैधव्यं पाणिपीडने। ब्रते ब्रह्मबधः प्रोक्तः सर्व्वं कर्म्म ततस्तजेत्” ज्यो० त० तस्य सर्व्वकर्म्मसु वर्ज्यतामाह १७ सांख्यीक्ते मेघास्व्ये विवेकसाक्षातकारान्तराये तुष्टिभेदे “यथा आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः। बाह्याविषयोपरमात् पञ्च, नव तुष्टयोभवन्ति” सा० का०

“या तु प्रव्रज्यापि न सद्योनिर्व्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धिन्ते विधास्यति अलमुत्तप्ततया तवेत्यपदेशे या तुष्टिः सा कालाख्या मेघ (१) उच्यते” कौ०। विवृतञ्जैतदस्माभिः। “प्रव्रज्यामात्रस्य विवेकख्यातिहेतुत्वे प्रब्रज्याग्रहणमात्रेण विवेकख्यात्यापत्तिरूपम् उपदेशे असत्तवप्रयोजकं दूषणम् सहकार्य्यन्तरापेक्षाकल्पनात् परिहरन्नुपदेशान्तरं दर्शयति न सद्यो निर्वाणदेति। सद्यः, ग्रहणमात्रात् न तु कालरूपसहकार्य्यन्तरापेक्षणात न निर्व्वाणदा विवेकख्यातिजननद्वारा न मुक्तिदेत्यर्थः। तथा च “कृषेर्वृष्टिसमायोगे वृश्यन्ते फलसिद्धयः। तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन” इति शास्त्रेण कार्य्यमात्रं प्रति कालस्य सहकारिताया अन्वयव्यतिरेकाभ्यां च प्रसिद्धत्वात् कालस्यैव तद्धेतुत्वमस्तु कृतं ध्यानाभ्यसादिनेति समुदितार्थः। कालस्यसाधनतासाधकशास्त्रेण कृष्यादेः प्रधान फलहेतुत्वं तत्र कालस्य सहकारितामात्रं प्रतिपादितं न तु तन्मात्रस्य हेतुत्वमेवञ्च कालस्य साधारणकारणत्वम् असाधारणकारणत्वन्तु कृष्यादेरेव एवञ्च प्रकृतेऽपि विवेकख्यातिं प्रति ध्यानाभ्यासादेरेवाराद्पकारकत्वात् असाधारणहेतुत्वं, कालस्य साधारणहेतुत्वमित्यस्यासदुधदेशत्व मिति बोध्यम् इति।

वर्स्सवाचिकालशब्दस्य स्त्रियां जनपदा० नि० ङीष्। काली “काकाली कामधुरा काशीतलवाहिनो गङ्गा।” बिदग्ध मु० समानप्रश्नोत्तरम्।

१८ हिंसके त्रि० ततः स्त्रियां न ङीष्। कालात् वण्णश्चेत्” वार्त्तिकोक्तेः। “कालान्या” सि० कौ०। कालस्येयम् अण् ङीप् कालस्य पत्नी ङीष् वा। काली कालशक्तौ शिवकान्तायाञ्च स्त्री। अधिकं कालीशब्दे वक्ष्यते। १९ मृत्यौ मेदि० सर्व्वस्याग्रहणानात्तस्य तथात्वम्। “अशुमांश्च तपस्तेपे गङ्गानयनकाम्यया। कालं महान्तं नाशक्नीत् ततः कालेन संस्थितः। दिलीपस्तत्सुतस्तद्बदशक्तः कालमेयिकान्” भाग० ९ ९ २ ३ १ “कालं मृत्युम्” श्रीधरः।

वर्णवाचकात् तस्य भाव इत्यर्थे इमनिच् कालिमन् पु० तल् कालता स्त्री, त्व कालत्व न०। कृष्णवर्णे। तत्र “यमे उपेत्य मुनिवेशोऽथ कालः प्रोवाच राघवम्” रघुः। यमपरत्वे २० द्वित्वसंख्यायां २१ तत्संख्यान्विते च भरण्यायमदैवतत्वात् तस्याश्च अश्विन्यादिनक्षत्रचक्रे द्वितीयत्वात् लक्षितलक्षणया तत्परत्वम्। शिवपरत्वे २२ षट्संख्यायां २३ तदन्वते च शिवदैवतार्द्राया अश्विन्यादिषु षष्ठत्वादुक्तरीत्या तथात्वम्। ऋणिधनिचक्रशब्दे १४२८ पृ० दर्शितं षट्कालकालेत्यादि वाक्यम् उदा० “कालस्य वेला रवितः शराक्षिकालानलागाम्बुधयो गजेन्दू” ज्यो० त०।

चन्द्रादिग्रहाणां दृष्टियोग्यताप्रापककालात्मके २४ अंशभेदे च। स च सि० शि० दर्शितो यथा

“दस्रेन्दवः १२ शौलभुवश्च १७ शक्रा १४ रुद्राः ११ खचन्द्रा १० स्तिथयः १५ क्रमेण। चन्द्रादितः काललवा निरुक्ताः ज्ञशुक्रयोर्वक्रगयोर्द्विहीनाः” सि० शि०।

चन्द्रादीनामेने १२। १७। १४। ११ १०। १५। कालांशा ज्ञेयाः। बुधशुक्रयोस्तु वक्रगतयोर्द्विहीना १२। ८ द्विवर्जिता ज्ञेयाः।

अत्रोपपत्तिः। कालांशा इति कालात्मका अंशाः षड्भिर शैरेका घटिका। एकस्यांशस्य दश पानीयपलानि। अत्रैतदुक्तं भवति। चन्द्रस्य किल द्वादश १२ कालांशाः। अर्कस्यास्तमयादुदयाद्वा घटिकाद्वयाधिकेऽन्तरे चन्द्रो दृष्टियोग्यो भवति। तदूने तत्प्रभाच्छादितत्वाददृश्यः। अतस्तस्य द्वादश कालांशाः। एवं भौमस्य सप्तदश १७ षडंशोनास्तिस्रो घटिकाः २। ५० इत्यर्थः। एबमन्येषां यथापठितास्तेषां विम्बस्य स्थूलसूक्ष्मतावशात् न्यूनाधिकता। अत एव बुधशुक्रयोर्वक्रगतयोर्विम्बस्य स्थूलत्वाद्द्विहीनाः। अत्रोपलब्धिरेव वासना” प्रमि०

“यत्रोदयो वास्तमयोऽवगम्यस्तद्दिग्भवो दृक्खचरो रविश्च। अस्तोदयासन्नदिने कदाचित् साध्यस्तु पश्चात् तरणिः सषड्भः” सि० शि०।

“इह केन्द्रभागैर्ग्रहस्योदयोऽस्तमयो वा यस्मिन् दिन आयातस्तस्यासन्ने कस्मिंश्चिद्दिने तं ग्रहं रविं च स्फुटं कृत्वा यस्यां दिशि ग्रहोदयोऽस्तमयो वा तद्दिग्भवो दृग्ग्रहः कार्यः। यदि प्राच्यां तदौदयिकं ग्रहं कृत्वोदयलग्नं साध्यम्। यदि च प्रतीच्यां तदास्तमयिकं ग्रहं कृत्वास्तलग्नं साध्यमित्यर्थः। यदा प्रतीच्यां, तदारविः सषड्- भश्च कार्यः। इदानीमिष्टकालांशानयनमाह” प्रमि०।

“दृक्खेचरार्कान्तरजातनाड्यो रसाहताः काललवाः स्युरिष्टाः” सि० शि०।

“दृग्ग्रहार्कयोरन्तरघटिकाः साध्यास्ता रस ६ हता इष्टाः कालांशा भवन्ति। अथ तैरुदयास्तयोर्गतैष्याः नाड्यः” प्रमि०।

“उक्तेभ्य ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगतस्तदा स्यात्। अतोऽन्यथा वाऽस्तमयोऽवगम्यः प्रोक्तेष्टकालांशवियोगलिप्ताः। खाभ्राष्टभू १८०० घ्नाद्युचरोदयाप्ताः खेटार्कभुक्यन्तरभाजिताश्च। वक्रे तु भुक्त्यैक्यहृता अवाप्तास्तदन्तराले दिवसा गतैष्याः। तात्कालिकाभ्यां रविदृग्ग्रहाभ्यां मुहुः कृतास्ते स्फुटतां प्रयान्ति” सि० शि०।

“एवं य इष्टकालांशा आनीतास्ते प्रोक्तेभ्यो यदि स्वल्पा भवन्ति तदा ग्रहस्योदयो गम्यः। यद्यधिकास्तदा गत इति वेदितव्यम्। अतोऽन्यथास्तमय इति। अथ प्रोक्ताउक्तेभ्योयदीष्टाः स्वल्पास्तदा ग्रहस्यास्तमयोगतोयद्यधिकस्तदा गम्य इति। अथ प्रोक्तानामिष्टकालांशानां च या अन्तरे कलास्ता अष्टादशशतै १८०० र्गुण्या दृग्ग्रहाक्रान्तस्य राशेः स्वदेशोदयासुभिर्भाज्याः। फलकलानां ग्रहार्कभुक्त्यन्तरेण वक्रगे ग्रहे भुक्तियोगेन भागे गृहीते यल्लब्धं ते गता एष्या वादिवसा भवन्त्युदये वास्तमये वा। तैर्दिवसैस्तात्कालिकौ दृग्ग्रहार्कौ कृत्वैवमसकृत्कर्मणा सम्यक् तत्कालज्ञानं भवति।

अत्रोपपत्तिः। इष्टकालांशसाधने लग्नवासनैव। प्रोक्तानां कालांशानामनन्तर्वर्ती ग्रहो दृश्यो भवति। अतो यावदिष्टा न्यूनास्तावददृश्यः। उदये विलोक्यमाने उदेष्यति। अस्ते बिलोक्यमानेऽस्तं गत इत्यर्थाज्ज्ञायते। इष्टा यद्यधिकास्तदा प्रोक्तेभ्यो विलोक्यमानेऽस्तंगते बहिर्भूताद्ग्रहोऽदृश्य उदये विलोक्यमान उदितः अस्तं यास्यतीत्यर्थाज्ज्ञायते। अथ तेषां प्रोक्तेष्टानां कालांशानां च या अन्तरे कलास्तासां क्षेत्रलिप्तीनां करणायानुपातः। यावत्यः कालकलास्तावन्त एवासवो भवन्ति। अथ यदि दृग्ग्रहोदयासुभिरष्टादशशतानि १८०० क्षेत्रलिप्ता लभ्यन्ते तदा तदन्तरकलासुभिः किमिति। फलं क्षैत्रलिप्ताः। ता ग्रहार्कभुक्त्यन्तरेण भाज्याः। भुक्त्यन्तरं हि क्षेत्रलिप्तान्तरात्मकमतः सजातीयकरणाय क्षेत्रलिप्तीकरणम्। भुक्त्यन्तरेणैको दिवसो लभ्यत इति युक्तमुक्तम्। वक्रे तु भुक्तियोग एव भुक्त्यन्तरम्। दूरान्तरे स्थूलकालो भवतीत्यसकृत्कर्म सूक्ष्मार्थम्। अत्र विशेषमाह”। प्रमि०

“प्राग्दृग्गर्हश्चेदधिको रवेः स्यादूनोऽथ वा पश्चिमदृग्ग्रहश्च। प्रोक्तेष्टकालांशयुतेः कलाभिः साध्यस्तदानीं दिवसागतैष्याः। तथा यदीष्टकालांशाः प्रोक्तेभ्योऽभ्यधिकास्तदा। व्यत्ययश्चगतैष्यत्वे ज्ञेयोऽह्नां सुधिया खलु” सि० शि०

“यदि प्राग्दृग्ग्रहो रवेरधिको भवति। अथ वा पश्चिमदृग्ग्रहो न्यूनो भवति तदाये इष्टकालांशा आनीतास्तेषां प्रोक्तानां च योगकलाभिर्दिवसाः साध्याः। नान्तरकलाभिः तथा प्राग्दृग्ग्रहेऽर्कादधिके सति पश्चाद्दृग्ग्रहे वा न्यूने य इष्टकालांशा आगतास्ते च यदि प्रोक्तेभ्योऽधिकान्तराः तदा प्रोक्तेष्टकालांशयुतेः कलाभिर्ये दिवसाः साधितास्तेषां दिवसानां गतैष्यत्वे विपर्ययोज्ञेयः।

अत्रोपपत्तिः। यो ग्रहःप्राच्यामुदेति प्रतितिष्ठति वा असौ रवेरूनः सन् प्रश्चिमायाम् अधिकः सन् प्राच्यां दिशि प्रोक्तकालांशैरूनः सन् दृश्यतामेति। तावद्भिरेव पश्चिमा यामधिकःसन्। अतो रवेः पृष्ठतः प्राच्यां प्रोक्तकालांशाः प्रतीच्यामग्रतः। प्राच्यामूने ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेः पृष्ठतः। अतः पृष्ठगतैरेव प्रोक्तकालांशैस्तेषामन्तरं कर्तुं युज्यते। अथ प्राच्यां रवेरधिके दृग्ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेरग्रतो भवन्ति। अतोऽग्रगतानां पृष्ठगतानाञ्च कालांशानां योगे कृतेसत्यन्तरं कृतं भवति तथा उक्तेभ्य ऊनाभ्यधिका यदीष्टा इति यद्गतगम्यलक्षणमुक्तं तत् सजातीयानामेव। यदा पुनरेके पृष्ठगता एकेऽग्रगतास्तदा तद्गतगम्यलक्षणं व्यत्ययेन भवति। अत उक्तं व्यत्ययश्च गतैष्यत्व इत्यादि। अत्र सुधियेति विशेषणादुबुद्धिमतैददनुक्तमपि ज्ञायते” प्रमि०। व्यवहारे वादिप्रतिवादिनोः प्रतिज्ञातार्थसाघनाय राज्ञादेये २५ अवसररूपे समयभेदे च तत्कालविशेषः स्मृतौ दर्शितो यथा “प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च। अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते”। प्रत्यर्थिनोऽपि क्वचिद्विषयेन कालो देयः क्वचिच्चार्थिप्रत्यर्थिनोरिच्छया कालोदेयः यथाह याज्ञ० “साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम्। विवादयेत् सद्यएव कालोऽन्यत्रेच्छया स्मृतः”।

समयरूपकालस्य वैशेषिकमते संयोगविभागपृथक्त्वसंख्यापरिमाणरूपा पञ्च गुणाः। भीमो भीमसेनवत् उत्तरपदलोपः। कालदण्डरूपे २६ योगे कालदण्डशब्दे उदा०। वारविशेषे दिग्भेदेन ज्योतिषोक्ते यात्रादौ निषिद्धे २७ योगभेदे। स च योगः मु० चि० उक्तः। “कौवेरीतो वैपरीत्येन कालोऽर्काद्ये वारे सम्मुखे तस्य पाशः। रात्रावेतौ वैपरीत्येन गम्यौ यात्रा युद्धे संमुखौ वर्जनीयौ”। अयमर्यः। रवावुत्तरस्यां कालः, सोमे वायव्यां, भौमे पश्चिमायाम्, बुधे नैरृत्याम्, गुरौ दक्षिणस्याम्, शुक्रे आग्नेय्यां, शनौ पूर्व्वस्याम्। “रवावुत्तरतः कालः सोमे वायव्यभागके। भौमे तु पश्चिमे भागे बुधे नैरृतभागके। जीवे च याम्यदिग्भागे शुक्रे चाग्नेयकोणके। शनौ तु पूर्व्वदिग्भागे कालचक्रं प्रकीर्त्तितम्। स्वरोदये “यत्रस्थस्तत्रकालः स्यात् पाशस्तस्य तु सम्मुखः। दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः। यात्रायां समरे श्रेष्ठस्ततोऽन्यत्र न शोभवः। रात्रौ च वैपरीत्येन यथा रवौ रात्रौ दक्षिणस्यां कालः उत्तरस्यां पाश इत्यादिक्रमेणेत्यूह्यम्। २८ कलाये (मटर) शिम्बीभेदे, वैज०। “विकसत्कलायकुसुमम्” माघव्या० कालकुसुममिति मल्लि० ध्रुवनामकवसोः २९ पुत्रभेदे पु०। “ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः” हरिवं० ३ अ०।

***